06 सोमे भक्षप्रतिपादनाधिकरणम्

ऐन्द्रवायवे तावद्विशिष्टविधानादपि भक्षो भवेत् । अथेतरग्रहगते चमसस्थे च सोमे संदेहः । किं भक्षोऽस्ति नेति । तत्रापि ‘सर्वतः परिहारमाश्विनं भक्षयति’ इत्यादिष्वैन्द्रवायवन्याय एव स्यात् । इदं तु सर्वथा तत्रापि विचार्यते किं प्राप्ते भक्षे विशेषणमात्रं वचनेन विधीयत उत विशिष्टविधानमेतदिति । कश्चात्र विशेषः । स यदि वाचनिकस्ततो यावद्वचनमेव कर्तव्योऽथ त्वन्यतः कुतश्चित्तत एकदेशस्थमपि लिङ्गं स्थालीपुलाकन्यायेन समस्तद्योतकं भविष्यति । त्रयश्चेह पक्षाः संभवन्ति । किमन्यार्थदर्शनानां प्राप्त्यापेक्षत्वादविधानाच्च नैव भक्ष उत प्राप्त्यभावादन्यार्थदर्शनान्येव वचनीकृत्य यावद्वचनं भक्ष उत समाख्यावषट्कारहोमाभिषवनिमित्तोऽपि भक्ष इति । किं प्राप्तम् । आज्यसाकंप्रस्थायीयसौत्रामणीग्रहणवत्समस्तहोमसंयोगाच्छेष एव नास्ति कुतः पुनर्भक्ष इति । न चात्र प्रकृतितः प्राप्तिर्न च प्रत्यक्षोपदेशः । योऽप्युपदेश इव सोऽप्यन्यपरत्वादसमर्थः । तस्मान्नास्ति भक्ष इति ॥ १९ ॥

यद्यन्यार्थदर्शनानि भवेयुस्ततोऽन्यत्रापि प्राप्तिः स्याद्वचनानि त्वेतानि । तस्माद्यथोपदेशं भक्षोऽयं नान्यत्रेति ॥ २० ॥ २१ ॥

इति सोमे भक्षप्रतिपादनाधिकरणम् ॥ ६ ॥