इदानीं सत्सु शेषकार्येषु तद्विशेषाश्चिन्त्यन्ते । तत्र सर्वपृष्ठायामन्योन्यनिरपेक्षचतुर्थ्यन्तपरिकल्पितैः षड्भिर्गुणैर्भिन्नद्रव्यदेवतासंयोगैर्देवतान्तरावरुद्धयागे देवतान्तरासंभवाद्गुणेन भेदकेन षट् कर्माणि । तेषु केषांचिद्भिन्नान्येव हवींषि । अन्येषां पुनरेक एव रथचक्रमात्रः पुरोडाश आम्नातः । स यदाऽङ्गीक्रियते तदा विचारः, किं कर्मभेदाच्छेषकार्याणां भेद उत द्रव्यैकत्वात्तन्त्रमिति । ननु चैकादशविचारोऽयं तत्र निर्णेष्यते ‘एक [( अ॰ ११ पा॰ ४ अ॰ १२ सू॰ १२ )] द्रव्ये संस्काराणां व्याख्यातमेककर्मत्वम्’ इत्यत्र । अत इह न विचारणीयम् । उच्यते ।
प्रतिपाद्यमिदं द्रव्यं भेदेन सहते क्रियाम् ।
खण्डशश्च प्रधानानामङ्गत्वान्नास्ति तन्त्रता ॥
यद्यप्ययमेकादशानुगुणो विचारस्तथाऽप्यत्र शेषकार्यप्रसङ्गाच्छेषशेषिविचारात्मकत्वाच्च क़्रियते । तत्र चैकद्रव्यत्वात्तन्त्रत्वं सिध्यति यत्र द्रव्यं तदवस्थितमेव सर्वकर्मणामुपकरोति । भेदकरणे च प्रयोजनान्तरं न दृश्यते न च कर्तुं शक्यते । खण्डशस्त्वस्य प्रधानोपयोगित्वं तदुपकारद्वारश्च संस्कारः प्रधानभेदाद्भेदं प्रतिपद्यमानो न द्रव्यैकत्वात्तन्त्रीकर्तुं शक्यते । भवति चैकदेशे प्रतिपादितेऽप्येकदेशान्तरप्रतिपादनम् । अवदानदेशानां भिन्नत्वादुत्तरार्धदक्षिणदेशभेदोऽप्यस्तीत्यावर्तनीयं स्विष्टकृदिडं गम्यते ॥ १६ ॥
सकृत्करणम् । कुतः ।
न ह्येष कर्मसंस्कारो हूयमानस्य वेष्यते ।
हुतशेषसमानत्वात्तन्त्रत्वं तु प्रतीयते ॥
कर्मसंस्कारपक्षे हूयमानसंस्कारपक्षे वा तद्भेदाद्भेदो भवेत् । शेषसंस्कारस्त्वयम् । स च शेषः साधारणः । तस्य च दक्षिणोत्तरार्धे गृह्येते । न प्रधानावदानदेशः । तस्य प्रकृतावचोदितत्वात् । ततश्च शक्यमगृह्यमाणविशेषत्वं वक्तुम् । यद्यपि ह्येकप्रधानोद्देशेनोत्तरार्धं गृह्णीयुस्तथाऽपि तथा चोदितार्थसंपत्त्या प्रधानान्तराण्यपि कृतार्थानि भवेयुः । तस्मात्तन्त्रम् । यत्तु प्रतिपाद्यं विभवतीति, प्रतिपत्त्यन्तरे चतुर्धाकरणे तदुपयुज्यते ॥ १७ ॥
इति सर्वपृष्ठायां शेषकार्यतन्त्रताधिकरणम् ॥ ४ ॥