अष्टाकपालादिशब्दैः समस्तं द्रव्यं देवतार्थमवगमितमाहवनीयप्रक्षेपेण च हविषो देवतार्थता भवति । ‘यदाहवनीये जुह्वति’ इति विधेः ‘अग्निमुखा वै देवाः’ इति चार्थवादात् । एवं च सति ततश्चेत्किंचिदप्यपनीयेत तदाऽन्यच्छ्रुतमन्यत्क्रियेत । तस्मात्सर्वप्रक्षेपः । किं पुनरयं पूर्वपक्षवादी शेषकार्याणां स्विष्टकृदिडाप्राशित्रशंयुवाककालभक्षचतुर्धाकरणानां विधिं न पश्यति । सत्यं न पश्यतीति केचित् । न त्वेतद्युक्तमिव । न ह्येवं क्वचित्पूर्वपक्षो न भवेत् । अतः पश्यन्नेवानेनाभिप्रायेण मन्त्रयत इति वक्तव्यम् ।
विद्यमानेषु शेषेषु द्रव्याणामप्रयोजकाः ।
भवेयुः शेषभाजो हि निःशेषे तु प्रयोजकाः ॥
यदि हि द्व्यवदानमात्रे हुते पुरोडाशादयः सशेषाः क्रियन्ते तदा ‘उत्तरार्धात्स्विष्टकृते समवद्यति’ इत्येवमादिचोदनावशेन ‘ए [( अ॰ ४ पा॰ १ अ॰ १३ सू॰ २८ )] कदेशद्रव्यं चोत्पत्तौ विद्यमानसंयोगात्’ इत्येवं स्विष्टकृदादीनामप्रयोजकत्वं भवति । यदा तु खलु सर्वप्रदानमवगभ्यते तदा विद्यमानसंयोगासंभवाच्चोदितैकदेशानुष्ठानानुपपत्त्या शक्यमेकदेश्युत्पादनमध्यवसातुमिति स्विष्टकृदाद्यर्थं पुरोडाशान्तराण्युत्पाद्येरन् । शेषशब्दः ‘शेषात्स्विकृष्टते समवद्यति’ इत्यादिषु कथमिति चेत् । उच्यते ।
हविरन्तरमालोच्य शेषशब्दो भविष्यति ।
आज्येत शेषमितिवत्तच्छेषेणेतिवच्च नः ॥
यथैव ‘आज्येन शेषं संस्थापयति’ इति पूर्वकर्मणः पर्यवसानादधिके पूर्वसदृशे वा शेषशब्दः प्रयुज्यते । यथा च ‘ततः शेषेण विशिष्टदेशजात्यादिमन्तो जन्म प्रतिपद्यन्ते’ इति स्वर्गफलकर्मणो निःशेषोपयोगादन्यफलस्य चान्यत्र व्यापारासंभवात्ततोऽन्येनेति वक्तव्ये ततः शेषेणेति गौतमाचार्येणोक्तम् । एवमिहापि यत्प्रधानहविर्भ्योऽन्यद्धविस्तेनैवान्यत्वेनाऽऽधिक्येन वा भविष्यति । अथवा गुणत्वेन वा शेषादित्येवमभिधास्यते । शेषशब्दो ह्युपयुक्तेतरद्विद्यमानं ब्रवीति । न च प्रधानहविषां किंचिद्विद्यते । अन्येषां च सर्वमेतद्रूपमस्ति । तस्माद्द्रव्यान्तराणि गृह्येरन् । यथा वक्ष्यति [( अ॰ ४ पा॰ १ अ॰ १३ सू॰ २९ ) ।] ‘निर्देशात्तरयान्यदर्थादिति चेत्’ इति । अथाप्यत्यन्तं शेषशब्दानुरोधं कृत्वा तेषामेव किंचिच्छेष्यते । तथाऽप्यस्त्येवान्यद्विचारस्य प्रयोजनं नावश्यं पक्षोक्तेनैव प्रयोजनेन भवितव्यम् । इदमपि संभवति । यदा प्रधानवाक्यादशेषप्रदानप्रसक्तौ सत्यां शेषकार्यवशेन शेषाः स्थाप्यन्ते, तदा यथैव प्रधानं तस्य हविषः प्रयोजकमेवं स्विष्टकृदादीन्यपीति । तदर्थावदाननाशदोषापहारेष्वपि प्रधानवदेव हविरन्तरः मुत्पाद्येत । यदा पुनः प्रधानचोदनाक्षिप्तस्यैव शेषस्य स्विष्टकृदादीनि ग्राहकाणि भवन्ति तदा तेषां परप्रयुक्तद्रव्योपजीवनादयप्रयोजकत्वे सति नाशदोषापहारेष्वप्यक्रिया सिद्धा भवति । तस्मात्सत्यप्युभयोः पक्षयोरसर्वप्रदानेऽस्ति प्रयोजनमित्यर्थवान्विचारः ॥ ३७ ॥
यद्याग्नेयोऽष्टाकपाल इत्येवमाद्येव भवेत्ततः सर्वप्रदानमेवावधार्येते । अत्र पुनस्तस्मात्पुरोडाशादेर्निष्कृष्य किंचिदेव होतव्यं श्रयते ‘द्विर्हविषोऽवद्यति’ ‘मध्यात्पूर्वार्धाच्च द्विरवद्यति’ ‘अङ्गुष्ठपर्वमात्रमवदानं भवति’ ‘द्व्यवदानं जुह्वति’ इत्येवमादिवाक्यालोचनेन हि किंचिदेव होतव्यमवगतमतः शेषयितव्यं किंचित् ॥ ३८ ॥
यद्येतानि वाक्यान्युत्पत्तिवाक्यावगतमशेषहोममबाधमानानि न निविशेरन्, यदि चैतानि प्रधानस्य प्रत्यासन्नतराणि भवेयुस्ततो बाधेरन् । एतानि तु संस्कारवाक्यानि अविरोधेनैवोपपद्यन्ते । शक्यते ह्यङ्गुष्ठपर्वमात्रैर्मध्यपूर्वार्धोद्धृतैर्दिशः प्रवृत्तैरवदानैः संस्कृत्य संस्कृत्य निःशेषं हविः प्रदातुम् । अतः सर्ववाक्यवशेनैवं शास्त्रार्थो भवति । यदशेषं हविर्जुहोति तदेवमुपायमिति । तेन न कस्यचिद्भोमः प्रतिषिध्यते । तस्मात्सर्वप्रदानं कर्तव्यम् । यत्तु यथाश्रुतेतिकर्तव्यताको युगपन्न शक्यते कर्तुमद्व्यवदानहोमप्रसङ्गादिति । ज्योतिष्टोमवदभ्यसितव्यो होमः । तदर्थत्वात् । देवतार्थत्वाद्यागार्थत्वादपूर्वार्थत्वाद्वा कृस्नस्याष्टाकपालस्य । नैकदेशमात्रहोमेनोत्पत्तिवाक्यार्थसंभावना भवेत् । अथवाऽवदानसंस्कारस्य द्रव्यार्थत्वात् ॥ ३९ ॥
नैतदस्ति । पुनःपुनर्द्विरवखण्डनं तद्वांश्च होमोऽभ्यसितव्य इति । कुतः ।
खण्डनं गुणभूतत्वादभ्यस्येतेह यद्यपि ।
होमः प्रधानभावात्तु नाऽऽवृत्तिं प्रतिपद्यते ॥
‘द्विर्हविषोऽवद्यति’ इत्येतस्य संस्कारत्वाद्यावत्संस्कार्यं ध्रियते तावदावृत्तिर्भवत्विति शक्यते वक्तुम् । होमस्य फलबत्त्वात् ‘यैस्तु द्र [( अ॰ २ पा॰ १ अ॰ ३ सू॰ ७ )] व्यं न चिकीर्ष्यते तानि प्रधानभूतानि’ ‘द्र [( अ॰ ६ पा॰ १ अ॰ १ सू॰ १ )] व्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्धः’ इति च प्राधान्यावगमादेकेन द्व्यवदानेन निवृत्तस्य न द्रव्यमस्तीति न पुनरावृत्तिर्युक्ता । तस्मिंश्चानावर्तमानेऽर्थाभावादवद्यतिरपि नाऽऽवर्तते । कार्ये हि प्रवर्तमानं द्रव्यं संस्कारं गृह्णाति नोदासीनम् । न च द्व्यवदानव्यतिरिक्तस्य हविषः कार्यमस्तीति न संस्कारमपेक्षते । तस्मात्सोऽपि नाऽऽवर्तते । यदि हि द्रव्यार्थो होमो भवेत्ततस्तद्वशेन स्वयमावर्तेताखण्डनं चाऽऽवर्तयेत् । अतदर्थस्य नाऽऽवृत्तिः । न चैष वाक्यार्थो यज्जुहोतीति ह्यूमानस्य द्विरखण्डनमुपायो विधीयत इति । न हि जुहोतिशब्देन द्रव्यमुपादीयते । न चैष कर्मणि लकारो यतो हूयमानानुवादत्वं प्रतिपद्यते । क्रियायामेव त्विदं द्व्यवदानं विधीयते । योऽपि यज्जुहोतीति यच्छब्दाद्द्रव्यप्रत्ययो भवति सोऽपि यच्छब्दस्यावैदिकत्वात्क्रियाविशेषणभूतस्यानुवादत्वप्रदर्शनार्थं व्याख्यातृभिरुच्चारितस्य परमार्थानालोचनाद्भविष्यतीत्युपेक्षणीयः । यत्तु ज्योतिष्टोमवदुत्पत्तिवाक्यावगतस्य समस्तद्रव्यप्राप्त्यर्थभावर्तिष्यत इति । तदयुक्तम् । कुतः ।
अशेषग्रहणे सिद्धे भवेत्सोमेन तुल्यता ।
अपवादात्तदेवेह न तु सिद्धं कथंचन ॥
आग्नेयचोदनाया ह्यानुमानिको होमसंबन्धः सर्वपुरोडाशावयवसामान्यप्रवृत्तश्च स यावन्नेव निर्वर्तते तावदस्त्येव ‘द्व्यवदानं जुहोति’ इत्यनेन निष्कृष्य संबन्ध कल्पितः । तस्मिंश्च सिद्धे नाऽऽनुमानिकोऽवकल्पते । तेन यत्सामान्यप्रवृत्तमाग्नेयत्वं तद्द्व्यवदानचोदनया साप्तदश्यमिव प्राकरणिकैर्द्व्यवदानविषयमेवोपसंह्रियते । तत्रैषोऽर्थो विज्ञायते द्व्यवदानमाग्नेयं करोति । अतोऽवयवान्तराणामचोदितत्वान्न होमप्रसङ्गः । किं च ।
न चावश्यं प्रदानेन हविराग्नेयमिप्यते ।
द्व्यवदाने गृहीते हि सर्वाग्नेयत्वसंभवः ॥
तद्धितेन हि तादर्थ्यमात्रमुक्तं न प्रदानम् । द्वेधाऽपि च तादर्थ्यं भवति प्रदानेन प्रदानार्थद्रव्यसाधनत्वेन वा । तथा हि । ‘व्रीहिभिर्यजेत’ इति वचनान्न तावद्व्रीहयः साक्षात्प्रदीयन्तेऽथ च प्रदेयप्रकृतित्वादेवमुपदिश्यते । तस्माद्यद्यपि पुरोडाशः समस्तः साक्षान्न प्रदीयते तथाऽपि द्व्यवदानप्रकृतित्वादाग्नेयो भविष्यति । तेन द्व्यवदानेनैव तावद्दीयमानेन तस्याऽऽग्नेयत्वं कृतं भवति । द्वावेव च तौ व्याख्याप्रकारौ । एको देवतासंबन्धस्य द्व्यवदाने संक्रान्तिरिति । अपरः पुनरिदमेव पुरोडाशस्याऽऽग्नेयत्वं द्व्यवदानं ततो गृह्यत इति । तस्मान्न सर्वहोमः ॥ ४० ॥
एवं च शेषशब्दो मुख्य एवोपयुक्तेतरविद्यमानवचनो भविष्यति । उत्तरार्धादिशब्दश्च नावयविविधिकल्पनार्थापत्तिक्लेशमाश्रयिष्यति । अत्राभिधीयते । यत्तावदुकं साप्तदश्यवदाग्नेयत्वं द्व्यवदानमात्र उपसंहृतमिति । तन्न घटते । कथम् ।
सामान्यविधिरस्पष्टः1 संह्रयेत विशेषतः ।
स्पष्टस्य तु विधेर्नान्यैरुपसंहारसंभवः ॥
साप्तदश्यं2 हि सामिधेनीनामुक्तमनारभ्यवादेन न क्रतूनाम् । तस्य तु क्रतुसंबन्धस्तद्द्वारेणाऽऽनुमानिकाः कल्प्यः । न च प्रत्यक्षसंबन्धे सत्यानुमानिकः कल्प्यत इति युक्त उपप्तंहारः । न त्वष्टाकपालस्यास्फुटो देवतासंबन्धः । तद्धितश्रुत्याऽभिहितत्वात् । स हि द्व्यवदानस्यैवाऽऽनुमानिकः स्यात् । उत्पत्तिवाक्ये च कर्मणोऽष्टाकपालेन संबन्धः श्रूयते । द्व्यवदानेन पुनरुत्पन्नवाक्ये । तत्रैतत्स्यात् । कर्मसंबन्धोऽष्टाकपालस्याऽऽनुमानिको द्व्यवदानस्य प्रत्यक्षस्तद्भावे वाऽऽनुमानिककल्पनं न संभवतीति । नैतद्युक्तम् । एवं सति ‘द्व्यवदानं जुहोति’ इत्येतदेवोत्पत्तिवाक्यमभ्युपगतं भवेत् । यदि ह्यष्टाकपालवाक्यं जुहोतिवाक्येनोपसंहृतं ततोऽनेनैव कर्मोत्पत्तिः क्रियेत । ततश्चाऽऽग्नेयवाक्ये ‘चोदिते हि त [( अ॰ २ पा॰ २ अ॰ ३ सू॰ ६ )] दर्थत्वात्तस्य तस्योपदिश्येत’ इत्येवं वाक्यभेदः प्राप्नोति । न चाननुमाय यागमाग्नेयादिवाक्यानां वाक्यान्तरापेक्षा तत्संबन्धो वाऽवकल्पत इत्युक्तम् । अतो यद्यप्यानुमानिकः संबन्धस्तथाऽपि स्वार्थपर्यवसायित्वान्यथानुपपत्तेः प्रथमतरमनुमित इति सिद्धे संबन्धे न शक्यं प्रत्यक्षशतेनाप्यन्यथात्वं कर्तुम् । न चेह सामान्यविशेषभावः संभवति । अवयवावयविनोः सामान्यविशेषव्यवहाराभावात् । अष्टाकपालचोदनया हि प्रत्यक्षमेव समस्तः पुरोडाश उपदिश्यते । द्व्यवदानचोदनयाऽपि, ततस्तुल्यबलत्वम् । ननु द्व्यवदानव्यतिरिक्तावयवप्राप्तिः सामान्येन पुरोडाशशब्देन क्रियमाणा दुर्बला स्यात् । उच्यते ।
यदि ह्यवयवार्थेन पुरोडाशो विधीयते ।
ततः सामान्यवृत्तिः स्यात्स तु साक्षाद्विधीयते ॥
आकृतिशास्त्राण्याकृतावसंभवन्ति व्यक्तिलक्षणार्थानि भवन्ति । तानि व्यक्तिषु परोक्षत्वाद्दुर्बलानि जायन्ते । न त्ववयविव्यक्तिः कर्म साधयितुं न शक्नोति । यतस्तच्छब्दस्यावयवलक्षणार्थता कल्प्येत । अथ विनैव कारणेन लक्षणाश्रयणम् । ततोऽवयवशास्त्रस्याप्यवयवान्तरलक्षणार्थत्वाद्दौर्बल्यं स्यात् । तस्माद्यथैव द्व्यवदानं स्वावयवनिरपेक्षमात्मनैव केवलेन विधीयते तथैवाष्टाकपालस्य द्व्यवदानमवयवान्तराणि चानपेक्ष्य प्रत्यक्षविधानात्प्राप्तिस्तत्प्राप्तौ च यदाऽवयवान्तराण्यनुषज्यन्ते को वारयति । न तु तानि स्वमहिम्ना संबध्यन्ते तत्परा वा चोदना । न चात्यन्तमवयवावयविनोर्व्यातिरेक इति यदाऽऽलोच्यते तदाऽवयवान्तराण्यपि प्रत्यक्षाण्येव भवन्ति । तेनाष्टाकपालचोदना द्व्यवदानचोदनावशेनैवं कर्म प्राप्नोति द्व्यदानं दत्त्वा पुनः शेषप्रदानम् । अथवा विकल्पः कदाचित्सकलस्य प्रदानं कदाचिद्द्व्यवदानमात्रस्य । अथवाऽष्टाकपालस्योत्पत्तिःवाक्यशिष्टत्वादाभिक्षावद्बलीयस्त्वे सति द्व्यवदानं तेन सह बाधविकल्पसमुच्चयान्न प्रतिपद्यत इति ‘गुणश्चा [( अ॰ २ पा॰ २ अ॰ ९ सू॰ २३ )] पूर्वसंयोग’ इत्येवं कर्मान्तरं कल्पयेत् । यतः कुतश्चिच्च द्रव्यान्तरादुपादीयेत, अष्टाकपालसंबन्धाभावात् । पूर्वकर्मसंबन्धेऽपि च पुनर्द्रव्यान्तरादेवोत्पन्नस्याष्टाकपालेन सह विकल्पसमुच्चयावुपन्यसितव्यौ । अथवा कृत्स्नपुरोडाशग्रहणेऽवधारिते द्व्यवदानचोदनायाश्च गुणपरत्वात्कर्मान्तरविध्यशक्तेरष्टाकपालविषयत्वावगमात्संस्कारस्य यावत्संस्कार्यमावृत्तेः प्रधानस्य च यथाश्रुतगुणसंपादनाय ज्योतिंष्टोमवदावृत्तेरिष्टत्वात् ‘उपा [( अ॰ ३ पा॰ ४ अ॰ १४ सू॰ ३९ )] यो वा तदर्थत्वात्’ इत्ययमेव पक्षः प्राप्नोति निरवदानप्रमाणाभावात् । निरंवदानाश्रयणे चात्यन्तदुष्टा परिसंख्या स्यात् । न ह्यत्र नियम उपपद्यते, सर्वपुरोडाशावयवानां नित्यवत्प्राप्तेः । यदि हि कतमोऽवयवः प्रक्षिप्यतामित्येवं नियमापेक्षायां सत्यां मध्यपूर्वार्धद्व्यवदानं विधीयते ततः स्यान्नियमार्थत्वम् । नित्यप्राप्ते त्ववयविनि द्व्यवदानपुनःश्रुतेरवयवान्तरनिवृत्तिपरत्वादस्वार्थग्रहणमित्यादिदोषत्रयमपरिहार्यं3 स्यात् । तत्र हि तत्परिहर्तुं शक्यते यत्र परिसंख्यायमानप्राप्तिशास्त्रमकॢप्तमुत्प्रेक्षाभिमुखं वर्तते । न चात्राष्टाकपालशास्त्रमकॢप्तम् । न च कॢप्ते सति दोषपरिहारः संभवति । तस्मान्न निरवदानम् । यदि च निरवदानशास्त्रादाग्नेयत्वं यागार्थद्व्यवदानविषयमुपसंह्रियेत ततः शेषावयवानामदेवतार्थत्वान्न स्वत्वमपेतं स्यात् । ततश्च ‘भ [( अ॰ ३ पा॰ ४ अ॰ १७ सू॰ ५० )] क्षार्थो वा द्रव्ये समत्वात्’ इत्यादिषु यदृत्विग्भिः साम्यादस्वामित्वं यजमानस्य तत्र तत्रोच्यते तत्सर्वं विरुध्यते । तत्रैतत्स्यात् । देवतोद्देशसंबन्धो द्व्यवदानस्यैव त्यागः पुनःसमस्तस्य हविषः । त्यागकृता च स्वत्वनिवृत्तिर्न देवतासंबन्धकृता । तस्मादविरुद्धं तदभिधानमिति । तदसत् । कुतः ।
निर्वपन्नेव जानाति ह्येतावदिह दास्यते ।
तत्राधिकपरित्यागः कल्प्यते केन हेतुना ॥
देवतायै हि दातुं द्रव्यं त्यजन्ति न विभवेन । तत्र यद्देवतार्थादन्यदधिकं तद्गृहावस्थितद्रव्यान्तरवदपरित्यक्तम् । न चात्र त्यागस्य भेदेन विधानमस्ति । देवतासंबन्धकरणविधिनैव ह्यसावर्थापत्त्याऽऽक्षिप्यते । सा चार्थापत्तिर्यावता विना देवतायै दानं न संभवति तावत्येवावस्थिता नान्यत्र । न हि शेषद्रव्यपरित्यागाद्विनाऽनुपपत्तिः । सर्वत्र च समाप्तिविधानमिष्यते तेनापि यावत एव यागसमाप्त्यङ्गत्वं तावत एवाऽऽक्षिप्तस्य यागविधिर्नावयवान्तराणाम् । अतो यथा चतुर्मुष्टयतिरिक्तानामनासि स्थितानां ब्रीहियवानां न निर्वापवेलायामत्यागादस्वत्वमेवमिहापि नावयवान्तराणां तत्स्यादिति । अथोच्येत निर्वापवेलायामनुपजातमध्यपूर्वार्धादिविभागं द्रव्यमनभिप्रेतत्यागमपि बलात्परित्यक्तव्यम् । न हि तदानीं विज्ञायते केभ्यो व्रीहिभ्यो द्व्यवदनं निष्पत्स्यते केभ्यो नेति, अगम्यमाने विशेषे यानेव न त्यजेत्तेभ्य एव कदाचिदवदीयेत । तत्र त्यक्तानामदानादत्यक्तानां च दानादयथाश्रुतकरणप्रसङ्गः । तस्मात्सर्वत्याग इति । नैतदेवम् ।
न हि सामान्यशास्त्रेण व्यवहारे कृते सति ।
विशेषशास्त्रावसरस्तस्मादादित एव सः ॥
यदा हि सामान्यशास्त्रं प्रवृत्तव्यवहारं भवति तदा न शक्यं केनापि व्यावर्तयितुम् । तद्यदि समस्ताष्टाकपालनिर्वृत्त्यर्था व्रीहयो देवतोद्देशेन निरुप्तास्ते सर्वे दातव्यत्वेन प्रक्रान्तास्तेषां य एव न दीयेरन्, तत्रैव प्रक्रान्तापरिसमापनदोषो भवेत् । ततश्च सर्वप्रदानमेव प्राप्नोति । यदि तु द्व्यवदानशास्त्रेण विशेष्टुमिष्यते तत आदित एवैवमवधारयितव्यम्, अष्टाकपालनिर्वृत्त्यर्थेषु चतुर्मुष्टिषु ये द्व्यवदाननिर्वृत्त्यर्थास्तानग्नये जुष्टं निर्वपामीति । यद्यपि च विशेषो न गम्यते तथाऽप्येतेषां मध्ये येऽत्र द्व्यवदानं साधयन्ति तावन्तो न ममेति शक्यं संकल्पयितुम् । तद्यथा लोके कश्चिद्बहुद्रव्यसमुदायेऽवस्थिते कंचिदभिधत्त इतस्त्वं यावत्तृप्ति गृहाणेति । तत्र न तदवयवविशेषो गम्यतेऽथ च न सर्वत्यागोऽध्यवसीयते तथेहापि द्रष्टव्यम् । यत्तु तावन्मात्रमेव न निरुप्यते तत्र ‘चतुरो मुष्टीन्निर्वपति’ ‘अश्वशफमात्रः पुरोडाशो भवति’ इत्यादिवचनसामर्थ्यादीदृक्परिमाणाद्गृहीतं द्व्यवदानं देवतार्थातां प्रतिपद्यत इत्यवगम्यते । यत्तदन्यत्तत्तदनुग्रहार्थं नाधिकत्यागार्थमिति द्रष्टव्यम् । अतो यथैव ‘अनसोऽधिनिर्वपति’ इत्युक्ते निर्वापपरिच्छेदार्थमुपात्तेष्वपि शकटस्थितेषु व्रीहिषु न स्वत्वमपौति तथैव द्व्यवदानापादानभूते पुरोडाशेऽपीति स्वत्वे सति शक्याः परिक्रयादयस्तेन कर्तुमिति समत्ववचनविरोधः । एतेन द्व्यवदानप्रकृतित्वादेवाष्टाकपाल आग्नेयः कृतो भवतीत्येषोऽपि पक्षः प्रत्युक्तः । तत्रापि शेषपरित्यागानुपपत्तेः । न च व्रीहिवत्पुरोडाशस्य प्रकृतित्वं युक्तम् । व्रीहयो ह्यनदनीया वाक्यान्तरशिष्टाश्च प्रकरणादुत्पत्तिवाक्यशिष्टप्रकृतिद्रव्यापेक्षपुरोडाशावरुद्धयागानुवादेन विधीयमाना न शक्नुवन्ति प्रकृतित्वप्रतिपत्तिमन्तरेण यागसाधनत्वं प्रतिपत्तुम् । अष्टाकपालस्त्वदनीय उत्पत्तिवाक्यशिष्टश्च शक्नोति साक्षाद्यागं साधयितुम् । न च पूर्वतरप्राप्ते प्रकृत्यपेक्षिणि द्व्यवदाने चोद्यते । तस्मान्न तत्प्रकृतित्वेन यागं साधयति । कस्तर्हि सर्वप्रदानस्य परिहारः । उच्यते ।
यागहोमावभेदेन यैर्मोहात्परिकल्पितौ ।
तेषामपरिहार्यत्वं भेदे त्वेषोऽभिधीयते ॥
यद्याग्नेयादिचोदनयैव हविःप्रक्षेपोऽभिधीयते ततो द्व्यवदानचोदनया परिसंख्यातुमशक्यत्वात्सर्वप्रक्षेपः प्राप्नोति । तदा च तयाऽऽग्नेयचोदनयैव प्रक्षेपश्चोद्येन यदा यागहोमयोरभेदः । तयोस्तु भेदः शब्दान्तराधिकरणन्यायसिद्धः । ‘तदुक्ते4 श्रवणाज्जुहोतिरासेचनाधिकः स्यात्’ इति सूत्रकारेणोच्यमानं तत्रैव समर्थयिष्यामहे । यथा देवतोद्देशेन स्वत्वत्यागमात्रं यागो देवतोद्दिष्टत्यज्यमानस्वत्वद्रव्यप्रक्षेपो जुहोतिः । तत्र ये दोषा दर्शपूर्णमासज्योतिष्टोमादिष्वहोमत्वादाहवनीयो न भवेदित्यादयस्तानपि तत्रैव परिहरिष्यामः । उभयोश्च भेदे सति ‘आग्नेयोऽष्टाकपालः’ इत्यनेन तावद्वाक्येन यावता विनाऽष्टाकपालस्याऽऽग्नेयत्वं न भवति तावदेव चोद्यते । तस्य च स्वत्वपरित्यागदेवतोद्देशौ केवलावन्तरेणाऽऽग्नेयत्वं न जायते न प्रक्षेपमपि । तत्र यदि वाक्यान्तरं5 न स्यात्तत ईदृशं कर्म6 भवेत् । सुपक्वमविकलमष्टाकपालमाचारतः7 शुचौ देशे निधाय देवतामुद्दिश्य नायं ममेति संकल्पः कर्तव्यः । तत्परिपालनार्थं च पुनः कदाचिदपि न स्वत्वं द्रव्ये बघ्नीयात् । यदि हि बघ्नीयात्ततः पूर्वसंकल्पं विनाशयेदनृतं च वदेत् । यो हि प्रथममेव जानाति पुनरप्यहमत्र स्वत्वमाधास्यामीति तस्य न ममैतद्देवतायै त्वेतदिति संकल्प एव न भवेत् । तेन देवतोद्देशत्यागोत्तरकालं यदस्य भवति तद्भवत्वित्यवधार्य न कश्चिद्व्यापारो वोढव्यो भवेत् । तथा प्राप्ते तु वाक्यान्तराणि भवन्ति ‘उपस्तृणाति’ ‘द्विर्हाविषोऽवद्यति’ ‘अभिधारयति’ ‘चतुरवत्तं जुहोति’ इत्येवमादीनि । तैस्तावदिदमवधार्यते द्व्यवदानं हविषो होतव्यमिति । सर्वाणि चैतानि प्रकृतद्रव्यालम्बित्वात्तदुपादाय प्रवर्तन्ते नापूर्वद्रव्यग्राहित्वेन । तथा हि । ‘चतुरवत्तं जुहोति’ इत्यत्र होमस्याप्राप्तत्वान्न तमुद्दिश्य द्रव्यं विधीयते । चतुरवत्तं च पूर्ववाक्यकल्पितं8 प्रयोजनापेक्षमस्ति । तस्मात्तस्यानेन प्रक्षेपमात्रं शक्यं विधातुमिति न चतुरवत्तविशिष्टहोमविधानमवकल्पते । होमस्यापि च त्र्यंशस्य समाप्तिपर्यन्तत्वात्सर्वान्त्येंऽशे प्रक्षेपे चोद्यमाने त्यागतद्देवतोद्देशयोः किमपूर्वयोरर्थापत्त्या विधिः कल्प्यतामुत कुतश्चित्प्राप्तयोरेवाऽऽश्रंयणं क्रियतामिति । तत्राऽऽग्नेय्यधिक [( अ॰ ३ पा॰ २ अ॰ ८ )] रणन्यायेन लाघवे सति गौरवस्याप्रमाणकत्वादवगतत्यागोद्देशांशद्वयान्यष्टाकपालादीन्येन गृह्यन्ते । न च तेषामौत्पत्तिकं यागसाधनत्वं विरुध्यते । प्रक्षिप्यमाणानामंग्नियागसाधनत्वाविघातकत्वात्9 । देवतान्तरसंबन्धेन हि यागविपरीतक्रियासंबन्धेन वा विरोधः स्यान्न त्वसावस्ति । तेनैषोऽर्थो भवति, अष्टाकपालेन यत्र क्वचित्प्रदेशे स्थितेन यजेत तदीयं च द्व्यवदानं यत्र क्वचित्प्रक्षिपेदिति । तत्र ‘वेद्यां हर्वीष्यासादयति’ ‘बर्हिषि’ इति वचनात्तत्र स्थितेन पुरोडाशेनेज्यते । ‘यदाहवनीये जुहोति’ इति वचनात्तत्र द्व्यवदानं हूयते । स तु होमः किं पूर्वस्माद्यागादर्थान्तरमितिकर्तव्यता भवति, उत तस्यैव यागस्यांशान्तरविवृद्ध्या रूपान्तरं जातमिति चिन्तनीयम् । तत्रैव रूपान्तरोपजननमिति ब्रूमः । कर्मान्तरत्वे हि द्रव्यान्तरं देवतान्तरं च नारिष्ठहोमादिवत्प्राप्नोति । यथोक्तेन न्यायेन स एव यागः प्रचिततरो जुहोतित्वमापद्यते । न चैतावतौत्पत्तिकयजिरूपविघात आशङ्क्यो जुहोतेर्यजिविशेषत्वात् । सामान्ये हि कश्चिद्विशेषो भवत्यपि । न तु निःसामान्यः कश्चिद्विशेष उपपद्यते । ततश्च यथा वृक्षमानयेत्युक्ते शिंशपामित्यविरोधात्पश्चादुच्यमानं न विरुध्यते तथा यजेतेत्युक्ते जुहोतित्वाविरोधोऽवगन्तव्यः । सोऽयं याग एव द्व्याकारः समस्तेन पुरोडाशेन क्रियते । द्व्यवदानेन जुहोत्यवस्थानीतः शेषेण तु सामान्यरूप एकस्मिन्नपि च क्षणे द्व्याकारोऽपि निष्पद्यते । यदैव हि द्व्यवदानमाहवनीये निक्षिप्यते तदैव याज्यानुवाक्याभ्यां समस्तविषयदेवतासंकल्पोत्थापनं क्रियते । तेन नैवं भ्रमितव्यं यस्माज्जुहूस्थं द्व्यवदानमाश्रावण10प्रत्याश्रावणाभ्यां11 त्यागायोद्धृतं च तस्मात्तदेव केवलं देवतायै संकल्पितं नेतरदिति । विद्वद्भ्यामध्वर्युयजमानाभ्यां वेदार्थमनुसृत्य समस्तपरित्यागदेवतोद्देशौ यथार्हं कर्तव्यौ । अध्वर्युणा द्व्यवदानप्रक्षेपोऽतिरिक्तोऽनुष्ठेय इति । न चैतावता यागस्य वैरूप्यमशोभनं मन्तव्यम् । वचनसामर्थ्यादीदृशस्यैव शोभनत्वप्रतीतेः । यथा कस्यचित्पुरुषस्यैकः पादः पुरस्ताद्गत इति न तावता किंचिंद्वैलक्षण्यं भवति । तथाऽत्र द्व्यवदानपादेऽधिकमपि प्रक्षेपांशं गते सत्युत्पत्तिवाक्यशिष्टं यागसाधनत्वं समस्तेनाष्टाकपालेन प्रतिपन्नमेवेत्यविरोधः । तस्माद्द्व्याकारमेवैतत्प्रधानं द्रष्टव्यम् । अथवा यस्तत्र यागस्तस्य प्राधान्यं यस्तु प्रक्षेपः सोऽङ्गमेव । तथा हि ।
फलवाक्ये यजेरेव संबन्धः श्रूयते स्फुटः ।
तत्संनिधौ समाम्नानाज्जुहोतेरङ्गतेष्यते ॥
यद्यपि तस्मिन्नेव द्रव्ये होमोऽप्याश्रितस्तथाऽपि प्रोक्षणादिवदस्याङ्गत्वमविरुद्धम् । न हि समानद्रव्याश्रयत्वेन सर्वस्य प्राधान्यं भवति । संस्काराणामपि12 प्रधानद्रव्यवर्तित्वोपपत्तेः13 । संस्काराश्च केचित्प्रथममेव प्रधानेभ्यः क्रियन्ते केचिदूर्ध्वं केचिद्युगपत् । तत्र केचिदाहुः । परस्तात्संस्कारोऽयं होमः । निर्वापवेलायामेव देवतोद्देशत्यागात्मकतया यागस्य निर्वृत्तत्वात् । तदयुक्तम् । न ह्यनदनीयावस्थैर्व्रीहिभिः पुरोडाशसाधनको यजिः शक्यः साधयितुम् । यदि च निर्वापवेलायामेव यागनिर्वृत्तिर्भवेत्तथा सति तदुत्तरकालं नाशदोषापहारेषु द्रव्यान्तरं नोपादीयेत । तत्र ‘निर्देशाद्वा [( अ॰ ६ पा॰ ४ अ॰ १ सू॰ १ )] ऽन्यदागमयेत्’ इत्यादि विरुध्यते । भाष्यकारोऽप्युपाकृते पशावा [( अ॰ ९ पा॰ ३ अ॰ १२ सू॰ ३६ ) इत्यत्रेति शेषः] ह ‘परकीयोऽसौ रक्ष्यते कालेन देवतया संभन्त्स्यते’ इति । तेन निर्वापवेलायामेतस्यै दास्यामीत्येतावन्मात्रं संकल्पत्यागः केवलः क्रियते न यागः । स तु पूर्वनिर्वृत्तत्यागापेक्षया यथाश्रुतेतिकर्तव्यताकदेवतोद्देशरूपः प्रक्षेपवेलायामेव निर्वर्तते । तत्र तस्मिन्नेव क्षणे समस्तेन पुरोडाशेन यागः साध्यते । तस्माधनैकदेशश्च द्व्यवदानं यागस्याङ्गेन प्रक्षेपेण संस्क्रियते । तदुपल क्षितत्वादेव यागनिर्वृत्तेः प्राक्प्रक्षेपादनिर्वृत्तयागावगमान्नाशादिष्वन्यद्रव्यागमनम् । सत्य पि होमस्य संस्कारकत्वे नाप्रयोजकत्वम् । निर्वृत्तयागभावित्वात्तु स्विष्टकृदादीनां स्फुटमेवाप्रयोजकत्वं भविष्यति । यदि वैष प्रक्षेपः प्रधानं भवेत्ततो दर्शपूर्णमासादिषु जुहोतिव्यवहार एव स्यात् । विकृतिषु च प्रधानानामनतिदेशाज्जुहोतावसति अप्रक्षिप्तानामेव सौर्यादीनां दानं स्यात् । अङ्गत्वे तु तेषामप्याहवनीये प्रक्षेपः सेत्स्य ति । ये तु जुहोतिचोदनोत्पत्तयस्तेषु पूर्वार्धभूतोऽपि यजिरात्मा वा भविष्यति । अथवा तेषामपि सोऽङ्गम् । तत्र हि त्यागदेवतोद्देशावपि तेनैवाऽऽक्षिप्येते । यजतिचोदनोत्पत्तिषु पुनः सिद्धयोस्त्यागदेवतोद्देशयोर्जुहोतिः प्रवर्तमानः ‘आहवनीये यूपशकला होतव्याः’ इतिवत्प्रक्षेपमात्रवचनो विज्ञायते । ततश्च सिद्धमङ्गत्वम् । एवं च सति पुरोडाशो यागे श्रूयते न होमे । सोऽपि द्व्यवदानस्य विहितो न समस्तपुरोडाशस्येति तन्मात्रस्य । समस्तस्य पुरोडाशस्य देवतां प्रत्युत्सृष्टत्वाद्विनाऽपि प्रक्षेपादस्वत्वव्यवहार उपपद्यते । न च परिसंख्यादोषो भविष्यति । निरवदानाच्च शेषसिद्धिः ।
अथवा नैव भिद्येते यागहोमौ परस्परम् ।
पूर्वापरौ हि सदृशौ तद्भागौ नरसिंहवत् ॥ ४१ ॥
इति सर्वप्रदानाधिकरणम् ॥ १४ ॥
-
सामान्यविधेरुदाहरणं पुरोडाशं चतुर्धा करोतीति । ↩︎
-
अस्पष्टस्य तु बिधेरुदाहरणं दर्शयति—साप्तदश्यं हीत्यादिना ॥ ↩︎
-
आदिपदेन स्वार्थपरित्यागप्राप्तबाधयोः संग्रहः । ↩︎
-
( अ॰ ४ पा॰ २ अ॰ १० सू॰ २८ ) ↩︎
-
वाक्यान्तरमिति—अवदानप्रक्षेपविधायकमिति शेषः । ↩︎
-
कर्मेति—अनुष्ठानमित्यर्थः । ↩︎
-
आचरितः श्रुताविति क्वचित्पाठः । ↩︎
-
पूर्ववाक्यकल्पितमिति—‘उपस्तृणाति’ ‘द्विर्हविषोऽवद्यति’ इत्यादिवाक्यविहितमित्यर्थः । ↩︎
-
नामपि तद्यागे, इति पाठान्तरम् । ↩︎
-
आश्रावणमिति—देवतायै द्रव्यं दातुमाभिमुख्येन यजमानं श्रावयेत्यर्थकः ‘आश्रावय’ इत्याग्नीध्रं प्रत्यध्वर्युणोच्यमानः प्रैष इत्यर्थः । ↩︎
-
प्रत्याश्रावणमिति—यदाश्रावयितव्यत्वेनाध्वर्युणोक्तं तदाश्रावितमस्त्वित्यर्थकः ‘अस्तु श्रौषट्’ इत्याग्नीध्रेणोच्यमानो मन्त्र इत्यर्थः । ↩︎
-
संस्काराणामपीति—संस्कारत्वेनाङ्गभूतानामपीत्यर्थः । ↩︎
-
द्रव्यवर्तित्वेन प्रधानत्वापत्तेरिति पाठान्तरम् । ↩︎