12 वमनाधिकरणम्

अयमप्यनारभ्यवाद एव । सोमेन्द्रं चरुं निर्वपेद्यः सोमं वमति इति । तत्रापि पूर्ववदेवाधिकरणद्वयमपि विचार्यते । लौकिकसोमपाने रसायनाद्यर्थं कृते वमनेन व्यापन्ने सोमेन्द्रयाग उत वैदिके, उतोभयत्रापि । तत्र तद्वदित्यनेन सामान्यपक्षो ‘दोषात्त्विष्टिर्लौकिके स्यात्’ इत्ययं चातिदिश्यते । अथवाऽधिकरणद्वयमपि सिद्धान्तरूपेणाधिकरणद्वयेऽप्यतिदिश्यते, केनचिद्विशेषेण पूर्वपक्षरचना । तत्रेह तावद्वैदिकेन पानेन द्रव्यप्रतिपादनस्य कृतत्वान्न कदाचिद् भ्रेषे पुनः प्रतिसमाधानापेक्षाऽस्तीत्यनर्थकमिष्टिविघानम् । लौकिके तु वमनेन व्यापन्ने रसायनगुणाभावादिन्द्रियेण वीर्येण च व्यृद्धिः संभाव्यते । न जलोदरवदत्यन्तासंभावना । तत्संयोगे च श्रूयमाणेष्टिस्तत्समाध्यर्थैव विज्ञायते । तस्मात्तत्र स्यादिति ॥ ३२ ॥

तैरेव1 वैदिकत्वसामान्यादिभिर्वैदिके भवतीति कस्मान्नोच्यते । न हि वमने वैदिकत्वं संभवति । अचोदितत्वात् । अतो य एव दोषो लौकिकगामित्वे हेतुः स एवेह वैदिकविषयत्वे स्यात् । तथा हि ।

सम्यग्जरणरूपान्ता प्रतिपत्तिर्विधीयते ।
तद्व्यापदि प्रधानस्य न भवेत्पूर्ववत्फलम् ॥

न च तावल्लौकिकपानव्यापदि दोषोऽस्ति । वमनार्थमेव पानात् । अथापि भवति तथाऽपि वैद्यकेनैव तस्य प्रतिसमाधानमिति न वैदिकोपायापेक्षा । वैदिके तु पाने सम्यग्जरणपाठाज्जरणा2न्ता3 प्रतिपत्तिरवंधारिता । सा च वमनेन व्यापद्यते । ततश्च प्रधानफलवैगुण्याशङ्कायां तत्समाधानार्थेष्टिर्विज्ञायते । अथ त्वयं फलार्थवादस्ततः सुतरां फलकल्पनाभयाल्लौकिकान्निवृत्तिर्गम्यते । वैदिके तु वमनेन पानं प्रत्यायितम् । तेन क्रतुस्थस्येष्टिरङ्गमिति सुकरः संबन्धः ॥ ३३ ॥

इति वमनाधिकरणम् ॥ १२ ॥


  1. तैरेवोति—पूर्बाधिकरणासिद्धान्तसाधकहेतुभिरेवेत्यर्थः । ↩︎

  2. हिन्व मे गात्रा इत्यादि मा मे वाङ्नाभिमतिगा इति सम्यग्जरणप्रकाशकमन्त्रपाठादित्यर्थः । ↩︎

  3. सम्यग्जरणरूपान्तेति पाठो व्याख्यानसंभत इति भाति । ↩︎