प्रवर्ग्योऽनारभ्य1 कंचित्क्रतुविशेषमाम्नायते । ‘यत्प्रवर्ग्यं प्रवृञ्जन्ति’ इति । स च वाक्यसंयोगेन क्रतुसंबन्धं प्रतिपद्यते ‘पुरस्तादुपसदां प्रवर्ग्येण चरन्ति’ इति । स च ‘प्र [( अ॰ ३ पा॰ ६ अ॰ १ सू॰ २ )] कृतौ वा द्विरुक्तत्वात्’ इत्येवं ज्योतिष्टोमं गच्छति । तत्र ह्युपसदः प्रत्यक्षविहिताः सन्ति । विकृतौ तु यावदनुमानेन2 ता गमिष्यन्ति तावत्प्रवर्ग्योऽपि यास्यत्येवेति नार्थ उपदेशेन । तेनाऽऽह—ज्योतिष्टोमे प्रवर्ग्यं प्रकृत्य श्रूयत इति । यद्वा कौषीतकिब्राह्मणे ज्योतिष्टोमप्रकरण एव स्वक्रमस्थस्य प्रवर्ग्यस्योत्पत्तिस्तदा तद्विषयः श्रवणोपन्यासो यथाश्रुत एव भवति । तं प्रवर्ग्यं प्रकृत्य श्रूयते ‘न प्रथमे यज्ञे प्रवृञ्ज्यात्’ इति । तत्र संदेहः । किं प्रथमयज्ञग्रहणेन सर्वसंस्थः सर्वप्रयोगावस्थश्च ज्योतिष्टोमो गृह्यत उत प्रथमप्रयोगमात्रमिति । तत्र किं प्राप्तम् । यज्ञशब्दसामानाधिकरण्यात् ‘एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमः’ इति च प्रयोगात्प्रथमशब्दस्य ज्योतिष्टोमपर्यायत्वं विज्ञायते । ‘य एतेनानिष्ट्वा’ इति च सर्वयज्ञेभ्यः प्रथमं प्रयुज्यमानत्वेन विधा नोदतस्यैव ग्रहणम् । तथा च प्रकरणमनुगृह्यते । ननु च तदीयप्रथमप्रयोगेऽपि प्रकरणानपकर्षादस्त्येवानुग्रहः । कथमनुग्रहो यदा दीक्षितमहोदानपाकादिप्रतिषेधवदयं सर्वप्रयोगविषयः प्राप्नुवन्वाक्येनैकप्रयोगनिबन्धनः क्रियते । न हि तदा प्रकरणेन किंचन व्याप्रियते । ज्यौतिष्टोमिकप्रयोगाश्रयणस्यापि वाक्यकृतत्वात् । यदीहान्यः कश्चित्प्रथमप्रयोगार्हः स्यान्नैवैष प्रतिषेधो ज्योतिष्टोम एवावतिष्ठेत । तदभावात्तु यदि परिशेषादिदं वाक्यं संयुक्तप्राथम्यानुरोधेन ज्योतिष्टोमगामि भवेत्ततः प्रकरणस्य किमित्यवधारणाद्बाधः प्रसज्येतैव । तस्मात्प्रकरणानुग्रहार्थमपि प्रथमशब्दोपात्तादिसंख्यायुक्तमिदं ज्योतिष्टोमे स्यादिति ॥ ३२ ॥
यदि प्रथमशब्दोऽयं नाम स्याज्ज्योतिषः स्वतः ।
तत एवं भवेदेष प्रयोगस्य तु वाचकः ॥
प्रथमशब्देन हि यत्कर्तुरप्रवृत्तपूर्वस्याऽऽद्यं प्रवर्तनं तदभिधीयते । न कर्म किंचित् । तद्योगात्तु कर्मणि प्रतीतिः स्यात् । साऽपि च तत्प्रयोगगतस्यैव । न हि द्वितीयादीन्प्रयुञ्जानः कश्चित्प्रथमं यजत इत्युच्यते । न चैवमयजमानस्य प्रथमयज्ञो नाम भवति । ततश्च पूर्वाभिहितप्राथम्यगुणलक्षणया तद्वति गृह्यमाणेऽर्थविप्रकर्षं आपद्यते । तत्र च स आश्रीयते यत्र तेन विनैकवाक्यत्वं नावकल्पते । यथा ‘एष वाव प्रथमो यज्ञानाम्’ इत्यत्र । न त्विह प्राथम्यस्य प्रतिषेधनिमित्तता न संभवति । येन पूर्वप्रतीतं सत्तदुल्लङघ्य तत्प्रयोगस्थोऽपि तावत्क्रतुर्गृह्येत । प्रयोगान्तरस्थस्तु दूरविप्रकृष्ट एव । नन्वेवं सति यस्य कस्यचित्प्रथमप्रयोगो निमित्तं प्राप्नोति । प्राप्नुयाद्यदि विधिरेष स्यात् । अयं तु प्रतिषेधत्वात्प्राप्तिमपेक्षमाणो लौकिकव्यापारेभ्यो वैदिकेभ्यश्चाध्ययनाधानाग्निहोत्रदर्शपूर्णमासादिभ्यः प्रवर्ग्यप्राप्त्यभावान्निवर्तमानः सामर्थ्येन सोमं गच्छति । तत्राप्यनारभ्यवादन्यायेन ज्योतिष्टोमं, प्रथमशब्दाच्च तस्याऽऽद्यं प्रयोगम् । एवं च सजातीयत्वेन प्रत्यासत्तेश्च तस्यैव द्वितीयादिप्रयोगापेक्षणं युक्ततरं भविष्यति । इतरथा तु दूरस्थयज्ञान्तरापेक्षायां सत्यां विप्रकृष्टतरत्वं भवेत् । तस्मात्प्रकरणं बाधित्वा वाक्येन प्रथमप्रयोगविषयता सिद्धा । तत्र तु केषांचित्तैत्तिरीयादीनाम् ‘अग्निष्टोमे प्रवृणक्ति’ इति पुनर्विधानमस्ति । तद्यदि तावद् द्वितीयादिप्रयोगविषयं कल्प्यते ततः प्रतिषेधाभावात्पूर्ववचनेनैव सिद्धेर्विधानानर्थक्यम् । तस्मादाद्यप्रयोगविषयमेवैतत् । ततश्च प्रतिषेधो बाध्यमानः क्रत्वन्तरप्रथमप्रयोगं सावकाशत्वाद् गच्छतीति केचित् । तत्तु न युक्तम् । अग्निष्टोमस्यापि संस्थारूपस्यान्यत्र विद्यमानत्वात् । न च प्राथम्यं सावकाशम् । ‘य एतेनानिष्ट्वा’ इति केवलज्योतिष्टोमविषयत्वात् । प्रथमं हि यजनं प्रथमं यज्ञो न चैतदन्यस्य क्रतोरस्ति । तस्माज्ज्योतिष्टोमस्यैवातिरात्रसंस्थस्य प्रथमाहारे3 प्रतिषेधोऽग्निष्टोमे विधिरित्यपरे । विहितश्चातिरात्रस्यापि पाक्षिकः प्रथमाहारः ‘तस्मात्प्रथमं यजमानोऽतिरात्रेण यजेत’ इति । सोऽयं सामान्येनोभयोः संस्थयोः प्रतिषेधोऽग्निष्टोमे तु विशेषविधिः स बलीयान् । एतदपि न युक्तम् । अग्निष्टोमस्यापि बहुप्रयोगान्तरक्रत्वन्तरगामित्वेन सुतरां सामान्यरूपत्वात् । अतोऽतिरात्रप्रथमाहारे नित्यं प्रतिषेधोऽग्निष्टोमे तु विहितप्रतिषिद्धत्वाद्विकल्प इति केचित् । अत्र पुनश्चोदयन्ति । यद्येष प्रतिषेधस्तत एवं स्यात् । पर्युदासास्त्वेवंविधा इति दशमे वक्ष्यते ‘अ [( अ॰ १० पा॰ ८ अ॰ १ सू॰ ४ )] पि तु वाक्यशेषः स्यात्’ इति । न चासावग्निष्टोमवाक्यशेषो भवति । यदि ह्यप्रथमयज्ञेऽग्निष्टोमे प्रवृणक्तीति कल्प्येत ततस्तस्मादेव सामान्यशास्त्रात्प्राप्तत्वादग्निष्टोमयुक्तविध्यानर्थक्यमापद्यते । तेन सामान्यविधेरेवैष शेषो यत्प्रवर्ग्यं कुर्वन्ति तदप्रथमयज्ञ इति । ततश्चातिरात्रविषयत्वमेव फलतो भवति । न चैक एव शेष उभयोर्वाक्ययोः संभवति । एकसंबन्धेनैव कृतार्थत्वात् । तस्मादग्निष्टोमविधेर्निरपवादत्वान्नित्यमेव तत्र भवितव्यमिति । उच्यते । स्यादेतदेवं यद्ययं पर्युदासो भवेन्न त्वयं पर्युदासः । वाक्यशेषत्वानुपपत्तेः । तत्राग्निष्टोमवाक्ये तावद्भवतैव प्रति पादितम् । अतिरात्रवाक्येऽपि यदि तदीयकथंभावपूरणवेलायामेतदुच्येत ततः शेषो भवेत् । न तु तथोक्तम् । संस्थानामसमानविधानत्वादवान्तरप्रकरणे च प्रतिषेधाश्रवणात् । न ह्यनेकज्यौतिष्टोमिकवाक्यान्तरव्यवहितातिरात्रप्रकृतिवच्छब्दस्यैष शेषोऽवकल्पते । तस्मात् ‘न तौ पशौ’ इतिवत्प्रतिषेध एवायं विज्ञायते । ननु प्रतिषेधोऽपि सन्प्रकृतिविषय एव प्राप्नोति । प्राप्नुयाद्यदि विकृतावपि नोपपद्येत । स तु प्राप्तिमात्रापेक्षित्वादुपदेशमतिदेशं वाऽनादृत्योभयत्रापि प्रवर्तते । शक्यं त्विह वक्तुं ‘प्रकृ [( अ॰ ३ पा॰ ६ अ॰ १ सू॰ २ )] तौ वा द्विरुक्तत्वात्’ इति । ननु च तुल्यार्थत्व एतदेवं युक्तम् । अस्ति चेहार्थभेदः । प्रकृतौ वैकल्पिकत्वादतिरात्रे च चोदकप्राप्तस्य नित्यप्रतिषेधात् । नैतदस्ति । वक्ष्यति ह्येतत् ‘प्रतिषेधः [( अ॰ १० पा॰ ८ अ॰ १ सू॰ १ )] प्रदेशेऽनारभ्य विधाने च प्राप्तप्रतिषिद्धत्वाद्विकल्पः स्यात्’ इति । यस्य4 शास्त्रादृते प्राप्तिर्नास्ति तस्य प्राप्तिमनभ्यनुज्ञाय प्रतिषेधासंभवादवश्यं प्रतिषेधेनैव तद्विषयोऽपि विधिरङ्गीकर्तव्यः । स चेदङ्गीकृतः शास्त्रत्वाविशेषात्तुल्यबलत्वम् । अतः सर्वथाऽतिरात्रे विकल्पेन भवितव्यम् । तस्माद्द्विरुक्तत्वादुपदेशातिदेशयोश्च प्राप्तिकालवैषम्यात्प्रकृत्यर्थतैव वरमिति । नन्वेवं सति ‘अग्निष्टोमे प्रवृणक्ति’ इत्यनेनैव प्रकृतिविधेः सिद्धत्वादनारभ्यवादोऽनर्थकः प्राप्नोति । नैष दोषः । तेनोत्पत्तिरनेन विनियोग इत्येवं व्यापारभेदात् । अथवाऽनारभ्यवादोऽग्निष्टोमव्यतिरिक्तविषयो भविष्यति । नन्वग्निष्टोमवाक्येनोपसंह्नियते । न शक्यमेतदुपसंहर्तुम् । तन्नाम विशेषवचनेनोपसंह्रियते यत्क्रतुसंयोगायासमर्थं कथंचित्परोक्षवृत्त्या संयुज्यते । यथा साप्तदश्यम् । अयं तु साक्षाद्यज्ञसंबन्धसामर्थ्यान्नोपसंहारमर्हति । अतश्च विकृत्यर्थो भविष्यति । तथा सति च ‘न प्रथमयज्ञे’ इत्यनारभ्यवादशेष उपपद्यत इत्यतिरात्रप्रथमाहारे नित्यमप्रयोगोऽग्निष्टोमे च केवलविधिसंस्पर्शान्नित्यं प्रयोगः । न हि तद्वाक्यशेषोऽप्ययं भवतीत्युक्तम् । एतावत्त्विहावधारयितुं शक्यम् । नायमनारभ्यवादः प्रकृतेरन्यत्र गच्छति । यदि गच्छेत्तत इष्टिपशुबन्धानपि गच्छेत् । न च गन्तुमर्हति । ‘पुरस्तादुपसदाम्’ इति स्थाननियमस्य तत्रानुपपत्तेः । अतो यत्रोपसदस्तत्र गच्छति । ततश्च प्राप्तिकालवैषम्यात्प्रकृतौ तावत्ताः सन्तीत्यन्तरेणापि वचनं गच्छेत्किमुत यदा विस्पष्टमेव वचनं, स्फुटसामान्यसंबन्धस्यापि चैवमादेरुपसंहार इति व्याख्यातं चतु [( अ॰ ३ पा॰ १ अ॰ १५ ) इत्यत्रेति शेषः] र्धाधिकरणे । तस्मादुत्पत्तिविनियोगाभ्यामेवापुनरुक्तत्वम् । एवं सति येषां प्रकरण एव प्रवर्ग्यपाठस्तैः सह संगतार्थता भविष्यति । यदि तर्हि द्वयोरप्येकवाक्यत्वेन ‘अग्निष्टोमे प्रवृणाक्ति’ इत्ययमर्थो निष्पन्नस्ततो ‘न प्रथमयज्ञे’ इत्येतस्याप्रथमयज्ञेऽग्निष्टोम इत्येवं प्रवर्तमानस्य न कश्चिद्धिरोध इति पर्युदासान्नित्यमेवाकरणेन भवितव्यम् । अत एवं वर्णनीयम् । अनारभ्यवादस्य प्रकृत्यर्थतायां सिद्धायाम् ‘अग्निष्टोमे प्रवृणक्ति’ इत्येतस्यानन्यप्रयोजनत्वात्प्रतिषिद्धप्रतिप्रसवार्थता गम्यते । ननु नैवायं प्रतिषेध इत्युक्तम् । अग्निष्टोमयुक्तवाक्यार्थवत्त्वाय प्रतिषेध इति ब्रूमः । न ह्यनेन सह पर्युदासोऽवकल्पत इति दर्शितम् । न चानारभ्यवादोऽनग्निष्टोमार्थो यतस्तद्विषयः पर्युदासोऽवकल्पते । तेन द्वयोरप्येतयोरग्निष्टोमविषयत्वम्5 । अतश्च यद्यप्ययं पर्युदासस्तथाऽप्युभयोः सामर्थ्याद्विकल्पेनैव भवितव्यम् । कुतः ।
नित्यं हि क्रियमाणेऽस्मिन्पर्युदासो वृथा भवेत् ।
नित्यमक्रियमाणे वा पुनर्विधिरनर्थकः ॥
ततश्च यस्माद्विकल्पाद्बिभ्यद्भिः पर्युदास आश्रीयते स तस्मिन्सत्यप्यागत इति वरं शब्दस्वरसलभ्यः प्रतिषेध एवाऽऽश्रितः । तेन प्रथमाहारेऽग्निष्टोमे विकल्पः । तत्रापि यदा केषांचिदीदृशं वचनं ‘कामं तु योऽनूचानः श्रोत्रियः स्यात्तस्य प्रवृञ्ज्यात्’ इति तदा प्रतिप्रसववचनस्य विकल्पकारिणः कर्तृविशेषगामित्वात्तद्विषय एव विकल्पोऽन्येषां नित्यमेवाभावः । कथं पुनरश्रोत्रियस्य कर्मणि प्रवृत्तिर्येन तद्विशेषणत्वेन श्रूयते । सत्यं प्राप्तस्य पुनर्वचनं तावन्मात्रफलमनर्थकमिति सामर्थ्यात्प्रकर्षगतिर्विज्ञास्यते । यथाऽभिरूपाय कन्या देयेत्यत्राभिरूपतरायेति गम्यते । अनूचानग्रहणं तु ब्राह्मणस्यानुवचनसंबन्धात् क्षत्रियवैश्यनिवृत्त्यर्थं भविष्यति । तदेतदतिरात्रेऽप्येवमेव प्राप्नोति । तत्र न प्रथमयज्ञ इति प्रतिषेधादनग्निष्टोमत्वेन च प्रतिप्रसवाभावान्नित्यमेव न कर्तव्यः । विकृत्यन्तरेषु प्रथमप्रयोगानुपपत्तेर्नित्यमेव करणम् । ननु तत्रापि न प्रथमयज्ञ इत्यतिदेशादग्निष्टोमस्वरूपस्य च प्रतिप्रसवनिमित्तस्याभावत्प्रथमप्रयोगेष्वभाव एव प्राप्नोति । नैतदेवम् । प्रथमशब्दस्याविशेषितस्य सर्वाद्ये प्रवर्तमानस्यान्यत्राप्रवृत्तेः । तस्मात्केवलज्योतिष्टोमप्रथमप्रयोगविषय एव चैष प्रतिषेध इति सिद्धम् ॥ ३३ ॥
इति प्रवर्ग्याधिकरणम् ॥ १२ ॥
-
तप्तघृते पयःप्रक्षेपः प्रवृञ्जनम् । तच्च यस्मिन्कर्मणि वर्तते स प्रवग्यः । तस्य च बह्वीषु शाखास्वनारभ्याधीतत्वाज्ज्योतिष्टोमे प्रवर्ग्यं प्रकृत्येति भाष्यमयुक्तमाशङ्क्याव्यभिचरितक्रतुसंबन्धसहकृतद्विरुक्तत्वन्यायेन ज्योतिष्टोमे संभवन्तं प्रवर्ग्यमित्येवमर्थपरतया परमनेन भाष्यमवतारयति— प्रवर्ग्योऽनारभ्येत्यादिना । ↩︎
-
अनुमानेन—अतिदेशेनेत्यर्थः । ↩︎
-
प्रथमाहारे—प्रथमप्रयोगे । ↩︎
-
निरुक्तसूत्रार्थं वर्णयति—यस्य शास्त्रादृत इत्यादिना । ↩︎
-
द्वयोरपीति—पर्युदासाग्निष्टोमवाक्ययोर्द्वयोरपीत्यर्थः । ↩︎