10 जाघन्यधिकरणम्

उत्कर्षबुद्धेरपवादः प्रस्तूयते । ‘जाघन्या पत्नीः संयाजयन्ति’ इति गुणप्रधानत्ववचनव्यक्तिद्वयात्संदेहः । यदि जाघनीं संस्कार्यत्वेनोदिश्य पत्नीसंयाजाः संस्कारका विधीयन्ते ततः संस्कार्यस्य प्राधान्यात्स्वस्थानापरित्यागे सति यत्र जाघनी तत्र पत्नीसंयाजा न यत्र ते तत्रासौ । सा च लोकस्था निष्प्रयोजनत्वान्न संस्क्रियत इत्यग्नी षोमीयगता कृतार्थत्वात्संस्कर्तव्या । यदि तु पत्नीसंयाजोद्देशेन जाघनी विधीयते ततः प्रकृतानुवादबुद्ध्यनपायाद्दर्शपूर्णमासयोरेव जाघनीविधानम् । किं प्राप्तम् । आरादुपकारकत्वात्सामवायिकत्वस्याभ्यर्हितत्वादन्यत्र धात्वर्थविधानाद्विधिप्रत्यासत्तेरेकदेशद्रव्याणां चाप्रयोजकत्वात्तथा सति च परप्रयुक्तकृतार्थग्रहणेन प्रतिपत्तिलक्षणापत्तेरग्नीषोमीयजाघनीसंस्कारविधानादुत्कर्ष इति । सा तत्संबद्धा कर्तव्येत्युच्यत इति च्छेदः । परं च कर्मकथनमेवं1 सतीत्यादि । यदि पुनः, उच्यते एवं सतीति योज्यते ततः परिचोदनाच्छायापत्तेः । न च तद्युक्तम्, उत्तरानभिधानात् । तस्मादात्मवचनत्वेनैव योज्यम् । नन्वेवं सति प्रतिपदादिवदेवोत्कर्वात्प्रकृतौ पत्नीसंयाजानामकरणं प्राप्नोति । प्राप्नुयादेवम् । यदि पशौ पत्नीसंयाजा न स्युः । ते त्वतिदेशप्राप्तास्तत्र विद्यमाना एव केवलं जाघनीसंबन्धित्वेन विधीयन्ते । नैव तर्ह्युत्कर्ष इति वक्तव्यम् । सत्यम् । न कस्यचित्पदार्थस्योत्कर्ष इदमेव तु वाक्यं विकृतौ कार्यं कुर्वदुत्कृष्यत इत्युच्यते ॥ २० ॥

न वाऽस्य विधेरुत्कर्ष इति । कुतः ।

जाघन्युद्दिश्यमाना स्यात्संस्कार्योत्कर्षकारणम् ।
इहोपादीयतेऽङ्गत्वाद्यागेष्वाज्यवदेव सा ॥

सर्वत्रैवंविधे वाक्ये गुणे विधिशक्तिः संचरतीत्युक्तम् । पत्नीसंयाजाश्चानन्तरविहिता मनसि वर्तन्त इति न विधातुं शक्यन्ते । न चेह स्थितेन पशुगतपत्नीसंया जानुवादो युक्तः । तद्बुद्ध्यभावात् । न च जाघन्याः कालादिवदनुपादेयत्वं, येनेमं विधिमाकर्षेत् । संस्कार्यत्वादिति चेत् । न । तृतीयावगतगुणत्वातिक्रमप्रमाणाभावात् । यदि च कृतार्थां जाघनीं प्रन्तुत्यायं विधिः प्रवर्तेत तथाऽपि तावत्कदाचित्प्रयाजशेषवद्द्वितीयार्थे तृतीयेति व्याख्यायेत । सा त्वपूर्वा विधीयते । तस्मान्नोत्कर्षमर्हति । न च प्रकरणबद्धत्वादेते पत्नीसंयाजा उत्कर्षं सहन्ते । वाक्यबलीयस्त्वादिति चेन्न । वाक्यस्याप्येवमादेरधिकृतापेक्षित्वेन प्रकरणाद्दुर्बलतरत्वात् । यदि ह्येतदेव पत्नीसंयाजानामुत्पत्तिवाक्यं भवेत्ततः प्रकरणादाच्छिन्द्यात् । एते तु वाक्यान्तरोत्पत्तित्वात्संविधिवशेन यावता कालेनैतेन वाक्येन संगृह्यन्ते तावता दर्शपूर्णमासाभ्यामपि शक्या ग्रहीतुम् । न च जाघन्याः फलवत्त्वं विज्ञातं, येनैषां प्रयोजनाकाङ्क्षामपनयेत् । अतो यावदसौ किमर्थेत्यालोच्यते तावत्फलवद्दर्शपूर्णमासप्रसूतेन कथंभावेनाङ्गत्वमापादितम् । न चेहापूर्वयागविधानं, यजिमात्रत्वेनाश्रवणात् । पत्नीसंबद्धयागश्रवणं ह्येतत् । तत्र यदि जाघन्युद्देशेन च कर्म विधीयते पत्न्यश्चास्य विधीयन्ते ततोऽनेकार्थविधानात् ‘ऐक [( अ॰ १ पा॰ ४ अ॰ ५ सू॰ ८ )] शब्द्ये परार्थवत्’ इति वैरूप्यलक्षणो वाक्यभेदः स्यात् । अल्पार्थविधिसंभवाच्च न विशिष्टविधानेन परिहारो घटते । तस्माद्विशिष्टं यागमुद्दिश्य द्रव्यं विधीयते । नन्वेवमपि विशिष्टानुवादात्सुतरां वाक्यं भिद्येत । नैष दोषः । प्रकरणप्राप्तेः पत्नीशब्दस्यातन्त्रत्वात् । यथैव ‘अभिक्रामं जुहोति’ इति सामान्यशब्दोऽप्यधिकारात्प्रयाजविषयो भवति तथैव यत्संयाजयन्तीत्येतावतैवाधिकृताः पत्नीसंयाजा; प्रत्येष्यन्ते । तस्मादनुत्कर्षः ॥ २१ ॥

यदुक्तम् ‘एकदेश [(अ॰ ४ पा॰ १ अ॰ १३ सू॰ २८)] द्रव्यश्चोत्पत्तौ विद्यमानसंयोगात्’ अप्रयोजक इति । तत्रोच्यते ॥ २२ ॥

स नामाप्रयोजको भवति यस्य प्रकृतग्रहणाद्विनाऽर्थो न ज्ञायते । यथा ‘उत्तरार्धात्स्विष्टकृते समवद्यति’ इति । जाघनीशब्दस्तु हृदयदिशब्दवदाकृतिवचनः । सा चान्तरेणापि पशूपादानं परप्रयुक्तपशूपजीवनं वा शक्योपादातुम् । ‘रूपं वा [(अ॰ ७ पा॰ ३ अ॰ ११ सू॰ २९)] ऽशेषभूतत्वात्’ इति यथाकथंचिदुत्पन्ना येन केनचिदुपादाय शक्याऽनुष्ठातुम् । न चेयमवयवभूता लोके न प्रचरति । मांसविक्रयिणो हि प्रत्यङ्गविभक्तानेव पशून्विक्रीणते । तत्र शक्या जाघनी क्रयादिनोपादातुम् । न चावश्यमियं छागादेव ग्रहीतव्या । जघनावयवमात्रत्वेन श्रवणात् । अग्नीषोमीयेऽपि हृदयादीनां संभवत्येव लोकादुपादानम् । तथा सत्यपि तु तेषां भेदेनैव जातिविशेष उत्पत्तिप्रकारश्च संज्ञपनादिर्नियत इति क्रयाद्यनाश्रयणम् । न त्विह तथा शास्त्रकृता निष्पत्तिः । प्रकृतिग्रहणं च दर्शपूर्णमासप्रतिपत्त्यर्थम् । तस्माद्दार्शपौर्णमासिकपत्नीसंयाजाङ्गभूतेनाऽऽज्येन सह विकल्प्यमाना जाघनीति सिद्धम् ॥ २३ ॥

इति जाघन्यधिकरणम् ॥ १० ॥


  1. कर्मकथनमिति—कर्म-अनुष्ठानं कथ्यतेऽनेनेति व्युत्पत्या, एवं सतीतिभाष्यमनुष्ठानविशेषप्रदर्शनार्थमित्यर्थः । ↩︎