06 समाख्याविनियोगाधिकरणम्

यौगिकी या समाख्या सा संबन्धप्रतिपादिनी ।
सोऽपि बुद्धावुपस्थाप्य शेषसंबन्धबोधकः ॥

आध्वर्यवादिसमाख्यानां वेद एव प्रयोग इति न लौकिकत्वचोद्यं क्रियते । तत्राध्वर्युर्वृत्तमात्रमेवापेक्षते । किं मया कर्तव्यमिति । तदपेक्षमाणस्य च यदि न कुतश्चिद्विशेषोऽवगम्यते ततो यत्किंचिदिति भविष्यति । तथाऽऽध्वर्यवसंज्ञितं कर्म, को मे कर्ता भविष्यतीत्येवमेव शेषमपेक्षते । तत्र शब्दज्ञस्याऽऽदित एवैषोत्प्रेक्षा प्रत्येकं भवति यदस्याध्वर्योः कर्म तदाध्वर्यवशब्दवाच्यं भविष्यति । तथाऽप्यस्याऽऽध्वर्यवस्य यः कर्ता तस्याध्वर्युर्नामेति प्रकृतेर्वा विकारस्तदनुरूपोऽनुमीयते विकाराद्वा प्रकृतिः । यद्यपि शब्दान्तरं विकार इत्युभावप्येतौ परस्परनिरपेक्षौ नित्यसंबन्धौ च तथाऽपि नित्याया एव शब्दप्रवृत्तेर्नित्यः संबन्धो निमित्तमिति सर्व यौगिकानामेवमन्वाख्यानम् । न हि राज्यशब्दस्याप्यादिमती प्रवृत्तिरित्यु [( अ॰ २ पा॰ ३ अ॰ २ ) इत्यत्रेति शेषः] क्तम् । निमित्तनैमित्तिकभावस्त्वनादित्वेऽपि शब्दार्थयोरिवेहाविरुद्धः । तत्र केचिद्वदन्ति । प्रागेतस्मात्समाख्याविनियोगादध्वर्य्वाध्वर्यवयोरसंबन्धादशक्यं यौगिकत्वं समाख्याया विज्ञातुम् । अथ तु प्रथमं सिद्धे संबन्धे पश्चात्समाख्यायाः प्रवृत्तिः । ततो न समाख्या विनियोजिका स्यात् । अतः परस्परनिरपेक्षयोरेव रूढ्योः सारूप्यादुपतिष्ठमानयोरेष विनियोग इति । न त्वेतद्युक्तम् । न हि रूढानां सारूप्यादुपस्थापनसामर्थ्यं धर्मसंबन्धेऽप्यस्ति । यथा कण्वरथंतरे रथंतरधर्मान्निरा [( अ॰ १० पा॰ ४ अ॰ २३ ) इत्यत्रेति शेषः] करिष्यति किमुतात्र क्रियाकर्तृसंबन्धे । पाचकाद्युदाहरणं वा युक्तं स्यात् । तस्माद्यौगिकत्वमेवाभ्युपगन्तव्यम् । यत्तु प्राक्प्रयोगात्प्रमाणं नास्तीति । सत्यं प्रत्यक्षं नास्तीति । समाख्ययैवानुमीयमानं भविष्यति । वेदे हि प्रथममेव क्रियाकर्तृसंबन्धो निष्पन्नः । तस्मिन्सति समाख्या प्रवृत्ता । वयं तु तं संबन्धं प्रमाणान्तरेणाप्रतिपद्यमानाः समाख्यादर्शनेन प्रतिपद्यामहे । तेन ज्ञायते पूर्वं समाख्या पश्चात्संबन्ध इति । वस्तुतस्तु प्रथममेव संबन्धः । स चाप्रतीतोऽपि सत्तामात्रेणैव समाख्यां प्रवर्तितवान् । यदि ह्येषाऽऽदिमती स्यात्ततः प्रयोक्तुः प्रथमं संबन्धावगत्या भवितव्यम् । न च सा तथा भवतीति न पर्यनुयुज्येमहि । नित्यसंबन्धाश्रयणे तत्र नित्यप्रयुक्तया समाख्यया नूनं कश्चिदस्ति संबन्ध इति प्रतिपादितेऽन्यथानुपपत्त्या शेषशेषिभावः पश्चाद्विज्ञायते । तस्माद्यौगिक्यैव समाख्यया विनियोग इति सिद्धम् ॥ १३ ॥

इति समाख्याविनियोगाधिकरणम् ॥ ६ ॥