पूर्ववदेव क्रमसमाख्ययोरप्यज्ञानादिभिरुपन्यासः कर्तव्यः ।
तत्र क्रमो द्विधैवेष्टो देशसामान्यलक्षणः ।
पाठानुष्ठानसादेश्याद्विनियोगस्य कारणम् ॥
विनाऽप्यनुष्ठानदेशसाम्येन यावति प्रदेशे ब्राह्मणे प्रधानं पठ्यते तावत्येव मन्त्रेषु मन्त्रः । तयोश्चाङ्गाङ्गयपेक्षावेलायां यथांसख्यन्यायेन समानदेशत्वाद्बुद्धौ संनिधानं भवति । प्रथमस्य हि प्रधानस्य मन्त्रमन्विच्छन्नवश्यं मन्त्रसमाम्नायमादित आरभ्याऽऽलोचयति । ततश्च प्रथम एव मन्त्रः प्रथमं हृदयमागच्छति । न चास्यातिक्रमे हेतुरस्तीति स एव गृह्यते । तथा मन्त्रस्य शेषिणमपेक्षमाणस्यानयैव प्रक्रिययाऽऽद्येन शेषिणा सह संबन्धो भवति । ततश्च तन्निराकाङ्क्षतया द्वितीयादीनामप्येवमेव द्वितीयादिभिरेव योगेन भवितव्यम् । तत्राऽऽग्नेयाद्यनुमन्त्रणानामाग्नेयादिलिङ्गत्वात्तेनापि व्यवस्था सिध्यतीत्यव्यक्तलिङ्गमुपांशुयाजक्रमाधीतं ‘दब्धिर्नामासि’ इत्युदाहरति । ननु चास्य प्रकरणात्सर्वार्थत्वं विज्ञायते तच्च बलीय इत्यन्यत्रापि विनियोगः प्राप्नोति । अत्र केचिदाहुः । उपांशुयाजग्रहणाद्द्वयमप्यनुगृह्यते तस्मात्तद्ग्रहणमिति । शक्यं तु वक्तुमननुग्राह्य एव क्रमः प्रकरणप्रत्ययविरुद्धत्वादिति । शेषस्य हि सर्वार्थत्वं प्रतिप्रधानानावृत्तेः1 प्रकरणावगतं न शक्यं बाधितुम् । तत्रैतावदुत्तरं भवति । येऽन्ये शेषिण आग्नेयादयस्ते विस्पष्टलिङ्गैः क्रमप्रकरणवद्भिर्मन्त्रान्तरैरवरुद्धत्वान्नैनमपक्षेन्ते । न च विकल्पः । अस्पष्टालिङ्गत्वेन वैषम्यात् । अदृष्टार्थानां समुच्चय इति चेन्न । प्रकृतयागप्रत्यवेक्षणेन दृष्टार्थत्वात्2 । सत्यपि चादृष्टार्थत्वे निरपेक्षाणां गत्यन्तरे सति समुच्चयानाश्रयणात् । आग्नेयादिभिः कृतार्थैरुपेक्षितः सन्नगत्या पुनस्तेष्वेव भवेत् । अस्ति चास्य गतिरुपांशुयाज इति । किं च ।
न वा विज्ञातलिङ्गानां प्रक्रिया3 विनियोजिका ।
असीत्यस्य च सामर्थ्यं संनिधावुपसंहृम् ॥
‘दब्धिर्नामासि’ इत्यस्पष्टलिङ्गोऽयम् । न चेदृशं सन्तं प्रकरणं विनियोक्तुं क्षमम् । अयं त्वसिशब्दो युष्मदर्थविषयत्वात्संनिहितमभिमुखं वाऽभिधत्ते नान्यम् । उपांशुयाजश्च संनिहितोऽभिमुखश्चेत्यभिधानसामर्थ्यं क्रमादुपांशुयाजविषयं विज्ञायते । ततश्च लिङ्गेन प्रकरणं बाध्यत एवेत्यदोषः । काम्ययाज्याकाण्डक्रमस्तु व्याख्यात एव । अनुष्ठानदेशक्रमोऽपि पशुधर्माणामग्नीषोमीयार्थत्वेन भविष्यति ॥ १२ ॥
इति क्रमविनियोगाधिकरणम् ॥ ५ ॥
-
प्रतिप्रधानावृत्तेरिति—प्रतिप्रधानं गुणावृत्तेर्न्यायलभ्यत्वात्प्रकरणात्सर्वार्धत्वे नाश्रुताभ्यासकल्पना मन्त्राणामापद्यत इत्याशयः । ↩︎
-
मन्त्रमुच्चारयन्नेव मन्त्रार्थत्वेन संस्मरन् । शेषिणं तन्मना भूत्वा स्यादेतदनुमन्त्रणम् । इत्यभियुक्तप्रसिद्धिसिद्धं लक्षणमभिप्रेत्याऽऽह—दृष्टार्थत्वादिति । यन्मन्त्रोच्चारणेन शेषिमना भूत्वा शेषिणं मन्त्रार्थत्वेन संस्मरन्स्यात्तदेतदनुमन्त्रणमिति च कारिकार्थः । ↩︎
-
प्रक्रियेति—प्रकरणमित्यर्थः । ↩︎