अधिकरणातिदेशोऽयम् । एतावता तु विशेषेणातुल्यत्वाशङ्का । येन य एवासावग्निर्देवताभूतः स एवात्र त्रयस्त्रिंशद्देवेषु भोक्तृषु परिवेष्टृत्वेन विनियुज्यत । तेन मन्त्रवर्णात्तेषामेव प्राधान्येन देवतात्वं विज्ञायते । गुणभूतोऽग्निः । पूर्वत्र च सहत्वमात्राभिधानादतुल्यत्वेन त्वष्टा निराकृतः । तदिह विपरीतमतुल्यत्वम् । पत्नीवत्त्वगुणमात्रदेवतात्वप्रतिपादनमात्रार्था1 च तद्धितचोदना । सा यथा ‘अग्ना इ पत्नीवाः’ इति मन्त्रवर्णात्प्राप्नुवताऽग्निना गुणिना न विरुध्यते । एवं त्रयस्त्रिंशताऽपि देवैः । अविशिष्टो हि तेषामपि मन्त्रवर्णः ‘पत्नीवतस्त्रिंशतं त्रींश्च देवान्’ इति । न च चोदनया देवतान्तरं प्रतिषिद्धम् । येन मन्त्रवर्णगम्यं नेष्यते । न च मात्रवर्णिक्यां चोदितापरित्यागेन गृह्यमाणायां कश्चिद्विरोधः । न च प्रमाणान्तरगम्यायां तद्धितस्य सापेक्षत्वम् । यदि स एव त्रिंशदपेक्षं पत्नीवन्तं विदध्यात्ततः सापेक्षदोषं प्रतिपद्येत । मन्त्रस्य तु सापेक्षमपि वदतो नैव कश्चिद्विरोधः । समुच्चयाश्रयणाच्चाविरोधित्वम् । कथं तुल्यार्थयोः समुच्चय इति चेत् । न स्यात्समुच्चयः । यदि मन्त्रेणोभयपरामर्शो न क्रियते । स तु चोदनावगतमग्निमपरित्यजन्नेव परिवेष्टृत्वेन न सिद्धं देवतात्वमभिदधत्त्रयस्त्रिंशतो देवतात्वमाह । तस्मात्समुच्चये सति सर्वेषामुपलक्षणम् । तन्मन्त्रव्याख्यानेन दर्शयति—याज्यामभिदधदेवं ह्यग्नेरग्नीदध्येषणं करोति । सन्मानपूर्वको नियोगोऽध्येषणम् । तदेवं क्रियते आयाहीति । छन्दसि ‘व्य [( पा॰ सू॰ १-४-८२ )] वहिताश्च’ इति व्यवहितस्याऽऽङः प्रयोग ऐभिरिति । उपरि वक्ष्यमाणत्रयस्त्रिंशता देवैः सहैकरथारूढोऽश्वविभवाद्वा नानारथारूढः । ततश्चार्वागागत्य तांश्च पत्नीबतस्त्रिंशतं देवान्, ‘अनुष्वधं-स्वधां-अन्नं सोमाख्यमनु,2 आवह । ततश्च मादय—संतर्पयेत्यर्थः । तेन स्फुटमेषां भोक्तृत्वमित्येवं प्राप्ते ब्रूमः । त्रयस्त्रिंशतो नोपलक्षणीया इति । कुतः ।
चोदितार्थानुरोधेन मन्त्रः सर्वः प्रवर्तते ।
तेन त्वष्टृवदेवात्र त्रिंशताऽग्नेरभिष्टुतिः ॥
पात्नीवतचोदनार्थस्मरणहेतुना मन्त्रेण न शक्यमचोदितमग्नेः परिवेष्टृत्वमितरेषां च मोक्तृत्वं प्रकाशयितुम् । अतो मन्त्रस्य परार्थत्वान्न चोदनामतिक्रम्य स्वातन्त्र्येण त्रयस्त्रिंशत्प्रकाशनसामर्थ्यमवकल्पते । विधानसामर्थ्यं तु दूरभ्रष्टमेव । न च त्रिंशतो देवतात्वमेव स्मारयति चोदिताग्न्यैश्वर्यप्रकाशनपरत्वेन त्रयस्त्रिंशत्प्रकीर्तनात् । कथम् ।
अप्रसिद्धेश्वरत्वस्य3 दातृत्वं यस्य कीर्त्यते ।
तदसंभाव्य मुख्यार्थ ऐश्वर्यार्थं प्रतीयते ॥
यदि ह्यप्रत्तावस्थमेव द्रव्यं त्वं देहीति मुख्यमेवोच्यते, ततः प्रतारणमेव स्यात् । अथ तु त्वमेवात्र दाता स्वामी न वयं स्वामिन इत्येतत्परं भवति । यथा लोके कश्चिदुच्यत किं त्वयि भवति निमन्त्रिते त्वयैवान्ये निमन्त्रणीया इति । ततो वाक्यं संबद्धं भवति । चोदितकरणाच्च दृष्टार्थं भवति । मादायस्वेत्यपि मुख्यस्य मदस्यासंभवादेतेभ्य4 इत्येतल्लक्षयति । दातृत्वमप्यग्रेर्दृष्टार्थमेवेति संप्रदानलक्षणार्थं विज्ञायते । विस्पष्टं च तद्धितेन यदन्यनिरपेक्षमवगतं तन्मन्त्रानुरोधेन बाधितं न स्यात् । कथं पुनः पात्नीवतमिति चोदितेऽग्निर्देवताऽवगम्यते न पुनस्त्रयस्त्रिंशद्देवता स्यात् । अत आह—पत्नीवांश्चा ग्निरिह गृह्यते, न त्रयस्त्रिंशत्, अग्ने पत्नीवन्निति सामानाधिकरण्यदर्शनात् । ननु त्रिंशताऽपि सह सामानाधिकरण्यमस्ति ‘पत्नीवतस्त्रिंशतम्’ इति । सत्यमस्ति । तथाऽप्यत्राग्निः पत्नीवान्गृह्यते । तद्धितनिर्देशेन हि प्रातिपदिकार्थस्य संख्याविशेषाभिव्यक्तिर्भवति । तत्र प्रातिपदिकार्थानन्यथासंभवादेकवचनान्तेन5 विग्रहो भवति । पत्नीवान्देवताऽस्येति । त्रिंशच्च नित्यं बहुवचनान्तः । तस्मान्न तेभ्यस्तद्धित इति देवतात्त्वाभाव इति ॥ ३७ ॥
इति पात्नीवतभक्षणे त्रयस्त्रिंशतोऽनुपलक्षणाधिकरणम् ॥ १५ ॥
-
पत्नीवत्त्वस्य देवतागुणमात्रतया दवतात्वप्रतिपादनमात्रार्था तद्धितयुक्ता चोदना ‘पात्नीवतं गृह्णाति’ इतीत्यर्थः । ↩︎
-
अनु—उपलक्षणीकृत्य । ↩︎
-
अप्रसिद्धेतिकारिकाया अयमर्थः—यस्यान्यतोऽप्रसिद्धेश्वरत्वस्याग्नेर्दातृत्वं कीर्त्यते तस्यैश्वर्यार्थं तद्दातृत्वं कीर्तितं प्रतीयते । न हि तस्ये दातृत्वकीर्तनस्य मुख्यो दातृत्वरूपोऽर्थः संभावनार्ह इति नवर्णमध्याहृत्य ज्ञेयः । ↩︎
-
मदस्यासंभवादिति—शब्दरूपत्वाद्देवताया विग्रहादिपञ्चकाभावादिति शेषः । ↩︎
-
प्रातिपदिकार्थानन्यथेति । अयमाशयः—निःसंख्यप्रतिपदिकार्थायोगात्संख्यायां कल्प्यमानायां नियतक्रमत्वात्संख्यानामेकादिक्रमेण कल्प्यत्वादेकत्वकल्पनेनानुपपत्तौ परिहृतायां द्वित्वादिकल्पने प्रमाणाभाव इति । ↩︎