पूर्वापवादार्थमारम्भः । द्विदेवत्यानामैन्द्रवायवादीनां शेषा आदित्यस्थाल्यां निक्षिप्यन्ते । ततोऽपि पुनराग्रयणस्थाल्यामागच्छन्ति । ततश्च पात्नीवतग्रहणं श्रूयते ‘उपांशुपात्रेण पात्नीवतमाग्रयणात्गृह्णाति’ इति । तस्य हुतशेषे भक्ष्यमाणे पूर्ववदेवेन्द्रवायुपत्नीवत्पीतस्यैवमाद्युपलक्षणं1 कर्तव्यमिति पूर्वपक्षः ॥ ३३ ॥
नैतत्पूर्वेण सदृशम् । कुतः ।
यस्य ग्रहणवेलायां संनिधिः सोऽपनीयते ।
संहतेन हि संकल्पः कर्तव्यस्तत्र चोद्यते ॥
आग्रयणप्राप्तेषु हि द्विदेवत्येषु पत्नीवत्संकल्पश्चोद्यते । तत्र यद्यपि तावल्परकीय एवं संकल्पस्तथाऽपि प्रसङ्गसिद्धिरमिवार्या किमुत यदा सोऽपि संकल्पनीयः श्रुत एव । तथा हि ।
योऽपैत्याग्रयणात्सोमः स पात्नीवत इष्यते ।
शेषश्चैव ततोऽपैति तेन संकल्प्यते तदा ॥
यदा ह्याग्रयणं पात्नीवतं करोतीति श्रूयेत ततः संनिहितोऽप्यनाग्रयणत्वाच्छास्त्रवलेन शेषः कथंचित्संकल्पादपनीयेत । अत्र पुनः ‘आग्रयणाद्गृह्णाति’ इति श्रूयते । नाऽऽग्रयणस्याऽऽग्रयणमिति वा । तद्यथा वृक्षात्पर्णं पततीत्युक्ते कङ्ककुररादिपत्रमपि प्रतीयते । वृक्षस्यापादानमात्रोपक्षीणत्वात् । एवमिहाप्याग्रयणादपेतत्वं पत्नीवत्संबन्धकारणं नाऽऽग्रयणत्वम् । समानदेशयोश्च संपाताग्रयणयोर्य2 एवापौति स एवाऽऽग्रयणादपेत इति शक्यते वक्तुम् । तावच्चेह निमित्तम् । यत्तु तन्मिश्रादनाग्रयणादप्यपैति न तत्प्रतिषेधे विधौ वोपयुज्यते । न ह्यनाग्रयणादपेतो न पात्नीवत इति वचनमस्ति । यदि वाऽयमर्थः स्यात्ततो योऽप्याग्रयणस्ततोऽपैति सोऽप्याग्रयणानाग्रयणापेतत्वादपात्नीवतः प्राप्नोति । तस्मादाग्रयणादेवेत्यस्याशक्यत्वादप्रमाणकत्वाच्चावश्यमेवमाश्रयितव्यम् । आग्रयणात्तावदपेत इति । तच्च संपातस्याप्यविशिष्टमित्युपपन्नं देवतासंबन्धित्वम् । न च पूर्वदेवतार्थत्वमनपनीयोत्तरसंबन्धोऽवकल्पत इत्युपपन्नं पूर्णकभोजनवदनुपलक्षणम् । ननु योऽसौ पूर्वदेवतार्थस्तस्यैवायमवयव इति—भूतपूर्वगत्यभिप्रायम् । आचार्यस्तु स्वयमेवैनमभ्युपगमयामीति मन्वानः परिहसति तावत् । न हि हुतस्यावयवो दृश्यत इति । न हि हुतादन्यत्तस्या देवताया विद्यते तस्यापनीतत्वादित्यभिप्रायः । परस्त्वव्युत्पन्नाभिप्राय आह—ननु प्रकृतावपीति । संकल्पवेलायां तत्र देवताव्यपदेश इत्युत्तरम् । इतर आह—अत्राप्येवमेवाऽऽसीदिति । सिद्धान्तवादी वदति । एतदेव प्रकृतिविलक्षणमिति । न चापनीतस्य तत्रोपलक्षणं कृतम् । इह तु स्फुटमपनीतत्वमुक्तम् । तस्मात्पत्नीवानेवोपलक्षणीय इति सिद्धम् ॥ ३४ ॥
इति पात्नीवतभक्षणे पूर्वदेवतानुपलक्षणाधिकरणम् ॥ १३ ॥