अतिदेशसूत्रत्वात्सर्वे पूर्वसूत्रार्था योजयितव्याः । पूर्वत्रानुवादे कालार्थत्वमुक्तम् । इदानीं विधानार्थेऽपीति विशेषः । त्रिरभ्यासपरत्वाच्च तत्र मन्त्रोपदेशो न जातो न त्विह तथेति पूर्वपक्षे बीजम् । उत्थानेनाग्निरिध्यत इति—अनेनोत्थानं प्रकाश्यत इति प्रतिपाद्यते । यदाऽयमुत्थानाङ्गं भवति तदा प्रैषाभावात्पराधिकारो नास्तीति1 प्राप्तकालतायां लोटं कल्पयित्वाऽध्वर्युकतृकाण्येवाग्निविहरणादीनि भवेयुः । अतश्च तदीयमुत्थानं तेषां कर्तृत्वेन । विवक्ष्यमाणमग्नीदित्यादिभिः शक्यं प्रकाशयितुम् । एवं ‘व्रतं कृणुत’ इति वागभिधानं वाक्तृप्यत्वितिवदात्स्याधारत्वाद्वाचो यदास्यस्य व्रतकरणे कर्तृत्वं तच्छक्यं वाच्येवोपचरितुं तत्र व्रतं कर्तुं प्राप्तः काल इति । ताल्वाद्याधिष्ठानभे- दाच्च बहुवचनम् । गुणाभावात्-मन्त्रगुणाभावादित्येतदेवादृष्टार्थत्वप्रसङ्गमुखेनोत्तरम् । न हि मध्यमपुरुषः परप्रेषणमन्तरेणोपपद्यत इति वक्ष्यामः । लिङ्गमपि किंचिदन्वेष्टव्यम् । विधिकोपश्च वाग्विसर्जने ‘याः पशूनामृषभो वाच’ इति मन्त्रान्तराम्नानात् ॥ १० ॥
इति आग्निविहरणादिमन्त्रविनियोगाधिकरणम् ॥ ४ ॥
-
नास्तीति—( अ॰ ३ पा॰ ८ अ॰ ११ सू॰ २२ ) इत्यनेन न्यायेनेत्यर्थः । ↩︎