यथासंयोगं1 निवेशार्थमारम्भः । कुतः संदेह इति । संयोगस्यैव द्वेधा प्रतिभानात् ।
साधारण्येन संयोगः संदिग्धः कालकर्मभिः ।
विरुद्धः कर्मसंबन्धे न क्रमः कालसंगतौ ॥
तुल्यकक्षौ हि संबन्धौ विरुद्धौ न विलक्षणौ ।
तुल्यत्वं कर्मसंबन्धे वैषम्यं कालसंगतौ ॥
नित्यं तत्रानुवाक्याभिर्यागानामेव संगतिः ।
न कालयोः क्रमस्तस्मात्प्रधानाङ्गतया हतः ॥
गुणा [(अ॰ ३ पा॰ १ अ॰ १२ सू॰ २२ )] नां च परार्थत्वादित्यनेनापि हेतुना ।
संबद्धं नाऽऽज्यभागाभ्यामनुवाक्याचतुष्टयम् ॥
तस्मादाज्यभागक्रमं बाधित्वा वाक्येन प्रधानार्थत्वे प्राप्तेऽभिधीयते ।
मिथश्चानर्थसंबन्धादिष्टो नाङ्गाङ्गिसंगमः ।
न चेहास्त्यनुवाक्यानां प्रधानैरर्थसंगतिः ॥
द्वे तावन्नानुवाक्ये स्तः कर्मैकत्वे कथंचन ।
द्वयोरपि न नैवैते देवते कर्मणोरिह ॥
अमावास्यायां तावत्सौमी नैव विद्यमानार्था । न ह्यमावास्यायां सोमः प्रधानदेवता । पौर्णमास्यामप्यग्निसहितस्य चोदितत्वात्केवलस्य प्रकाशनं महेन्द्राधिकरणे निराकृतम् । न चाग्नीषोमयोर्द्वयोरपि प्रयोगः, ‘पुरोनुवाक्यामन्वाह’ इत्येककर्मणि विवक्षितैकसंख्यत्वात् । अथाप्राप्तमपि द्वित्वं विधीयते ततो मन्त्रविशेषस्य द्वित्वस्य च विधाना द्वाक्यं भिद्यते । आज्यभागयोस्तु कालकृतं व्यवस्थामात्रं सुकरमित्युक्तम्2 ।
तस्मात्कालार्थ एवायं संयोगोऽङ्गाङ्गिकल्पनात् ।
न्याय्यः पूर्वप्रतीतत्वात्कालो हि दुरतिक्रमः ॥ २३ ॥
इति वार्त्रघ्न्यादीनामाज्यभागाङ्गताधिकरणम् ॥ १३ ॥