11 उपवीतस्य दर्शपूर्णमासाङ्गताधिकरणम्

सिद्धे कर्मणां कर्मसमवायेऽधुनाऽवान्तरप्रकरणमहाप्रकरणयोः कतरद्विनियोजकमित्युपवीतमुदाहृतम् । तत्र सामिधेन्यनुवाकविभागप्रदर्शनं सामिधेनीप्रकरणसदसद्भाविवेकार्थम् । ननु दर्शपूर्णमासयोरेव प्रकरणमिति—महाप्रकरणग्रस्तत्वान्नैवावान्तरप्रकरणान्याविर्भवन्ति । अथवाऽग्निसमिन्धनप्रकाशनद्वारेण दृष्टसंस्कारार्थत्वान्न तासां प्रकरणमिति मन्यते । नैतदेवम् ।

कथंभावो हि भावानां यावदाख्यातमिष्यते ।
न तस्य प्रतिबन्धोऽस्ति महाप्रकरणादिभिः ॥

नान्यप्रकरणापत्तिः संस्कारो वा विहन्ति तम् ।

यथैवाङ्गवाक्यानि परिपूर्णस्वार्थानि सन्ति दर्शपूर्णमासवाक्येनैकवाक्यतां यान्ति न चाऽऽत्मरूपं जहति, एवमङ्गभावनाः स्वाङ्गपरिपूर्णाः परमभावनायां संबध्यन्ते । न तदधीनत्वेन तासां स्वधर्मनिवृत्तिः । संस्कारोऽपि चापूर्वार्थत्वात्तत्सिद्ध्युपायमपेक्षमाणः प्रकरणी भवति । दृष्टार्थेष्वपि नियमादृष्टसिद्ध्यर्थं कथंभावापेक्षोत्पत्तेः प्रकरणसद्भावः ।

दृष्टेऽपि च फले नैव साऽपेक्षा न प्रवर्तते ।
दृष्टेनैव तु केनापि सोपायेन निवर्त्यते ॥

तस्मादेवंविधानामप्यङ्गानामवान्तरप्रकरणेन भवितव्यम् । अतश्च यद्यपि दृष्टार्थाकाङ्क्षा दृष्टेनैव पूर्यते । अग्निसमिन्धनप्रकाशनं भावयेत्केन—सामिधेन्यनुवचनेन, कथं, विवक्षाप्रयत्नाभिधातादिक्रमोपजनितवर्णग्रहणसामर्थ्यकरणश्रोत्रसंस्कारानुगृहीतेनेति,1 तथाऽपि नियमादृष्टं कथं सेत्स्यतीत्यनुवर्तत एवाऽऽकाङ्क्षा । सा च शास्त्रचोदितेनादृष्टार्थेनैवोपायेन पूर्यते । तस्मादस्ति सामिधेन्यनुवचनस्योपवीतादिग्रहणसमर्थमवान्तरप्रकरणम् । एवं तर्हि तस्य संनिकर्षेण बलीयस्त्वात्तदङ्गत्वेनैव भवितव्यमिति कुतो महाप्रकरणविनियोगाशङ्का । उच्यते । सत्यमेतदेवं स्यात् । यदि तस्य निवित्पदव्यवधानेन प्रकरणविच्छेदाशङ्का न स्यात् । एवं तर्हि विच्छिन्ने तस्मिञ्जितं महाप्रकरणेनेति । नैतदेवम् । कुतः । काम्यसाभिधेनीकल्पसंकीर्तनेनाविच्छेदसंदेहादविस्पष्टं महाप्रकरणम् । किं तावत्प्राप्तम् ।

अभितः सामिधेनीनां कीर्तनात्प्रक्रिया स्थिता ।
परप्रकरणे पाठो निविदामथवाऽङ्गता ॥

यथा दर्शपूर्णमासप्रकरणे पूषाद्यनुमन्त्रणान्यसंबद्धान्यपि न पुरस्तात्प्रकरणं विच्छिन्दन्ति तथा निवित्पदान्यपि न विच्छिन्द्युः प्रकरणम् । अथवाऽवान्तरप्रकरणेन निविदामपि साभिधेन्यनुवनचनाङ्गत्वान्नैवासंबद्धपदव्यवाय इत्युपपन्नमुपवीतमपि तदङ्गमेवेत्येवं प्राप्ते ब्रूमः ।

विच्छिन्ना सामिधेनीनां निविद्भिः प्रक्रिया यतः ।
न हि काम्यैः पुनः कल्पैः संधातुं सा हि शक्यते ॥

तावद्धि प्रकरणमनुवर्तते यावद्विनियोगार्हं पश्यति । असंयुक्तं च प्रकरणेन विनि युज्यते । तदिह निवित्पदानि तावल्लिङ्गेन सामिधेनीभिस्तुल्यान्यग्निसमिन्धने विनियुज्यन्ते ‘देवेद्धो मन्विद्ध’ इति । तत्र यद्यग्निः2 सामिधेन्यङ्गं भवेत्ततस्तद्द्वारेण3 तान्यप्यङ्गं भवेयुः । अथानङ्गे सत्यप्यङ्गता कल्प्यते ततः सामिधेनीनामपि निवित्पदाङ्गत्वं कश्चित्कल्पयेत् । तेन निवित्सु तावत्प्रकरणं नानुवृत्तम् । काम्यास्तु कल्पाः श्रुत्यैव पुरुषा र्थत्वेनावगता इति नैव सामिधेन्यनुवचनेन गृह्यन्ते । यदि पुनर्निविदोऽङ्गं भवेयुस्ततो गोदा [(अ॰ ४ पा॰ १ अ॰ २)] हेनन्यायेनाऽऽश्रयग्रहणादपि तावत्काम्येषु प्रकरणानुवृत्तिः स्यात् । अथापि काम्यानामङ्गत्वं भवेत्तथाऽपि पूषाद्यनुमन्त्रणवत्प्रकरणाबाधं निविदां कथंचिदनुसंधानेनाध्यवस्येम । न त्वन्यतरदस्तीत्यसत्यवान्तरप्रकरणे महाप्रकरणेन सर्वार्थता । ननु च यदि विच्छिन्ने प्रकरणे काम्याः कल्पाः श्रूयन्ते तत एकविंशत्या प्रतिष्ठां भावयेत्किमाश्रितयेति प्रकरणेनाऽऽश्रयेऽनुपनीयमाने साकाङ्क्षत्वादपरिपूर्णता प्राप्नोति । अथ वाक्येनाऽऽश्रय उपनीयेत ततः प्राप्ते कर्मणि संबन्धद्वयकरणाद्वाक्यं भिद्येत । तत्र यदि वाक्यभेदोऽभ्युपगम्येत क्रथंचिद्वा परिह्नियेत ततो रेवतीवारवन्तीयसौभरादिष्वप्येवमेव वाक्येन प्रकृताश्रयदानात्सिद्धान्तहानिः । अथाऽऽश्रयलाभार्थं कथंचिदनुवर्तेत प्रकरणं तत उपवीतमपि तथैव प्राप्नोतीति सर्वथा संकटमेतत् । उच्यते ।

गुणात्कामो न युक्तोऽत्र विच्छिन्नप्रक्रियाश्रयात् ।
अनेकार्थविधिः शक्यो नापूर्वात्कर्मणो विना ॥

नैवात्रैकविंशत्यादेर्गुणात्फलम् । किं तर्हि । रेवतीवारवन्तीयादिवाक्यवदेवानेनापि विशिष्टं कर्म विधीयते । ततश्च भा [( अ॰ २ पा॰ १ अ॰ १ )] वार्थाधिकरणन्यायेन धात्वर्थात्फलम् । अत एकविंशत्यादिवीशिष्टेनानुवचनेन प्रतिष्ठादि साधयेत् । कथमिति—अनुब्रूयादिति शब्दसामान्यात्संख्याप्रत्यासत्तेश्च सामिधेन्यनुवचनवदिति गम्यते । ततश्च संख्येयानामृचामन्येषां च धर्माणां प्राप्तिः । यद्यपि चात्र कर्मान्तरत्वाकर्मान्तरत्वयोः फलं नास्ति तथाऽपि वाक्यमेवमवकल्पत इतीत्थं वर्णितम् । न त्वेवं सत्येतान्यनुवचनान्तराणि दर्शपूर्णमासाभ्यामगृहीतत्वात्पृथगेव प्रयोक्तव्यानि । न तावदेतेनास्मत्पक्षो निवर्त्यते । सर्वथोपवीतस्य सर्वार्थत्वसिद्धेः । न च स्वतन्त्रः प्रयोगः स्यात् । कुतः ।

पश्चाद्यस्योच्यमानोऽयमनुशब्दः प्रयुज्यते ।
न तस्यान्यप्रयुक्तत्वात्स्वातन्त्र्ये4 सति लभ्यते ॥

यो हि निगदः प्राक् सामिधेनीभ्यः प्रयुज्यते स निवित्पदवदेव न सामिधेन्यङ्गम् । तदनन्तरत्वेन चोच्यमानास्वनुब्रूयादिति विधिर्न स्वतन्त्राणाम् । तद्यदि पृथक् प्रयोगः स्यात्ततः सामिधेन्यङ्गमात्रग्रहणादितरेण निगदेन विनाऽनुवचनत्वं विहन्येत । किं च ।

सामिधेनीत्वमप्यासां न स्यादग्निसमिन्धनात् ।
न चाप्रयोगमध्यस्थः शक्यो वह्निः समिन्धितुम् ॥

एकविंशत्यादिभिस्तावदवश्यं सामिधेन्यः संख्यातव्याः । ताश्चाग्निसामिन्धनं प्रकाशयन्त्यः सामिधेन्य इत्युच्यन्ते । स चाग्निः परप्रयुक्तस्ताभिः प्रकाशयितव्यः । तेन ‘अर्थाभि [( अ ४ पा॰ १ अ॰ ११ सू॰ २६ )] धानकर्म च’ इत्यस्य प्रकृतिवदनुप्रवेशात्प्राकृतस्य सामिधेनीकार्यस्याग्निसमिन्धनप्रकाशनस्यैतेनैव प्रसङ्गतः प्राप्तेरर्थात्प्रयोगमध्यपातिसमिन्धनाधीनत्वम् । नन्वेवमप्येषामेव काम्यानां कल्पानां सर्वेषामन्त्यस्य वोपवीतमङ्गं स्यात् । नैतदेवम् । कुतः ।

प्राकृतेन कथंभावे तदीये पूरिते सति ।
पश्चात्संनिधिनाऽङ्गं स्यात्स च प्रकरणावरः ।

सर्वास्वेव विकृतिषु यत्प्राकृताङ्गमध्ये न पठितं तदकॢप्तोपकारत्वात्प्राकृतैर्निराकाङ्क्षीकृतै प्रकरणे पश्चादागच्छत्संनिधिविषयो भवति । स चाविरोधे विनियुङ्क्ते, विरोधे तु विदेवनादिवत्प्रकरणेन बाध्यते । तस्मात्कृत्स्नदर्शपूर्णमासार्थमुपवीतमिति सिद्धम् ॥ २१ ॥

इति उपवीतस्य दर्शपूर्णमासाङ्गताधिकरणम् ॥ ११ ॥


  1. विवक्षाप्रयत्नेति—विवक्षाप्रयत्नादिक्रमेणोपजनितो यो वर्णग्रहणसामर्थ्यकरणरूपः श्रोत्रसंस्कारस्तदनुगृहीतेनेत्यर्थः । ↩︎

  2. अग्निरिति—अग्निसमिन्धनमित्यर्थः । ↩︎

  3. तद्द्वारेण-सामिधेनीफलप्रकाशनद्वारेणेत्यर्थः । ↩︎

  4. क्रतुप्रयुक्तेति पा॰ । ↩︎