एवं संस्कारद्रव्यगुणा विचारिताः । इदानीं यत्कर्मैव कर्मसंबन्धित्वेन श्रूयमाणमर्थात्संस्कारत्वं प्रतिपत्स्यते तद्विचार्यते । तत्राभिक्राममिति णमुला वीप्सार्थोपादानादभिक्रम्याभिक्रम्य किमपि करोतीत्यपेक्षिते परश्च जुहोतिः प्रकृतप्रयाजग्राही दृश्यते । तत्किमभिक्रमणं तेनैव संबध्यत उत प्रकृतमात्रेणेति । संबन्धश्रवणे च सति संशयाक्षेपपरिहारावरुणाधिकरणवद्द्रष्टव्यौ । कर्मणोऽमूर्तत्वाद्वाक्येन च स्वसंबन्धोपादानात् । अनेनैव विशेषेण पुनरारम्भः । यत्तत्र समानाधिकरणं द्रव्यमुपात्तं तद्विषयनियमे च तत्साध्याक्रियासंबन्धस्योपपत्तित्वम् । इह तु तस्यैव साध्यत्वम् । अपेक्षितश्च गुणः परिच्छेदकत्वेन विज्ञातक्रियासंबन्धप्रकारः । त त्वत्राभिक्रिया । नानाभूतानि च तत्र क्रियान्तरद्रव्याणि । अत्र पुनः सर्वकर्मसु स एवाध्वर्युः कर्तेत्यपुनरुक्तता । किं तावत्प्राप्तं सर्वार्थमिति । कुतः ।
कर्मणः कर्मसाध्यत्वं नामूर्तत्वात्प्रतीयते ।
तस्माज्जुहोतिसंबन्धं परित्यज्य विधीयते ॥
न तावदभिक्रमणेन होमं करोतीति वक्तुं शक्यम् । अतो न प्रयाजैः संबध्यते । ततश्चारुणाधिकरणपूर्वपक्षवद्वाक्यभेदः स्यात् । नन्वनेनैव हेतुनाऽन्यत्राप्यनमिनिवेश इत्यरुणाचोद्यमेव । परिहारश्चाऽऽख्याते कर्तुर्गुणभूतत्वाद्बलाद्धोमसंबन्धापत्तेर्न1 जुहोतिना गृहीतेन प्रयाजादीनां कर्त्रा संबन्धः । अन्यत्र तु प्रकरणगृहीतस्य प्रधानभूतस्य कर्तुः संबन्धो न विरोत्स्यते ॥ १९ ॥
सर्वथा तावदभिक्राममित्येतत्पदं न क्रियान्तरमन्तरेण2 निराकाङ्क्षी भवति । न ह्येतद्द्रव्यसंबन्धं कथंचिदपि ब्रवीति । तस्मात्प्रकृतप्रयाजग्राहिणा जुहोतिनैकवाक्यत्वात्तादर्थ्यं विज्ञायते । शक्नोति च कर्तृप्रत्यासत्तिकरणेन तदुपकर्तुम् । अपेक्षिता चाऽऽहवनीयप्रत्यासत्तिरध्वर्योः प्रयाजैः । अरुणत्ववदेव वाऽर्थाद्द्रव्यसंबन्ध इति कर्तुरुपसर्जनत्वेऽपि न कश्चिद्दोषः । एवं चोपकाररूपेण कर्मापि कर्मसाध्यं भवतीत्येतदपि सिद्धम् । यदा3 त्वतिस्थूलत्वान्नैवाभिक्राममित्येतत्पदमात्रविच्छेदेन पूर्वपक्षः । क्रियते । कथं तर्हि । यज्जुहोतीति समस्तप्रकरणजुहोत्यनुवादेनाभिक्रमणविधानादवान्तरप्रकरणस्य चाभावान्महाप्रकरणविनियोगाश्रयेण पूर्वपक्षाश्रयणम् । तदा ‘कर्तृगुणे तु’ अभिक्रमणेऽवान्तरप्रकरणापर्युपस्थापितप्रयाजकर्मासमवायात्तत्प्रकरणैकवाक्यत्वाभावमात्रमेव वाक्यभेदः स्यादित्युक्त्वा ‘साकाङ्क्षं त्विति’ अवान्तरप्रकरणमेव प्रयाजचोदनाप्रसृतकथंभावाकाङ्क्षासंबन्धद्वारा तदेकवाक्यत्वेन सिद्धान्तोऽभिधीयते । यदपि ‘असमाप्तं हि पूर्वेणेति’ तन्न वाक्यासमाप्त्यभिप्रायेण । किं तर्हि । असमाप्तं ह्यवान्तरप्रकरणं पूर्वेण प्रयाजस्वरूपगुणविधिनेत्यर्थः ।
येनाभिक्रमणादूर्ध्वं प्रयाजानां गुणोऽपरः ।
विधास्यते प्रयाजानां तस्मात्प्रकरणास्तिता ॥ २० ॥
इति अभिक्रमणाधिकरणम् ॥ १० ॥
-
अभिक्रमणस्येति शेषः । ↩︎
-
क्रियान्तरमन्तरेणेति—अभिक्राममिति णमुलो धातुसंबन्धाधिकारविहितत्वादिति शेषः । ↩︎
-
एवं तावद्भाष्यमनुसृत्याधिकरणमारचय्य तत्र च पूर्वपक्षस्यातिफल्गुतया, अरुणाधिकरणेन गतप्रायत्त्वाश्चान्यथाऽधिकरणमारचयति—यदा त्वित्यादिना । इदमाकूतम्—अभिक्रमणस्य स्ववाक्योपात्तक्रियान्वयेऽप्यङ्गभावनाया अफलत्वेनेतिकर्तव्यताकाङ्क्षात्मकप्रकरणाभावाज्जुहोतिना प्रयाजहोममात्रग्रहणे प्रमाणाभावान्महाप्रकरणोपस्थितसर्वहोमानुवादेनाभिक्रमणविधानात्प्राकरणिकसर्वहोमाङ्गत्वमभिक्रमणस्य तत्कर्तृसंस्कारद्वारा युक्तम् । सूत्रार्थस्तु कर्तृगुणे—अभिक्रमणे, कर्मासमवायात्—प्रयाजकर्मण्यसमवायात्, तद्वाक्यैकवाक्यता न स्यादिति । एवं प्राप्ते सिद्धान्तस्तु नाभिक्रमणं प्राकरणिकसर्वहोमाङ्गम् । किं तु प्रयाजहोमाङ्गमेव । कुतः । प्रयाजावान्तराधिकारोपस्थितस्यैव जुहोतिनाऽनुवादात् । न चाङ्गाधिकारोऽप्रामाणिक इति वाच्यम् । भावनास्वाभाव्येन सर्वत्रेतिकर्तव्यताकाङ्क्षात्मकप्रकरणस्यापङ्नोतुमशक्यत्वात् । परं तु साऽगङ्भावनेतिकर्तव्यताकाङ्क्षा प्रधानाधिकारेण प्रतिबद्धेत्यङ्गग्रहणासामर्थ्यान्न परस्पराङ्गत्वप्रसक्तिः । यत्र त्वन्यानिवेश्यङ्गसंबन्धानुपपत्तिरूपोत्तेजकं तस्याः संभाव्यते, यथाऽत्रैव, प्रथमतः ‘अतिहायेडो बर्हिः प्रति समानयते जुह्वामौपभृतम्’ इत्यनेन प्रयाजोद्देशेन समानयनं विधाय मध्येऽभिक्रमणमाम्नाय पुनः श्रूयते ‘प्रयाजशेषेण हवीष्यभिधारयति’ इति । तत्र तु प्रथमाङ्गेनोत्तेजिताया यावदुत्तराङ्गसंबन्धमनुस्यूतायाः प्रयाजभावनेतिकर्तव्यताकाङ्क्षायाः प्रधानाधिकारापेक्षया बलीयस्याः सत्त्वात्तयैव मध्यपात्यभिक्रमणस्यापि ग्रहणत्सिद्धं तस्य प्रयाजहोममात्राङ्गत्वमिति । सूत्रार्थस्तु—साकाङ्क्षं—संदंशेनाभिव्यक्ताकाङ्क्षाभिक्रमणवाक्यं प्रयाजैकवाक्यं स्यात् । न ह्याद्योत्तेजनमात्रेणाभिव्यक्तेः समाप्तिरस्ति । लाघवादन्तिमनाश्यत्वाभ्युपगमादिति । ↩︎