06 अरुणाधिकरणम्

अरुणाशब्दो गुणवचनः, पिङ्गाक्ष्येकहायनीशब्दौ द्वावपि सामानाधिकरण्यादेकद्रव्यवचनौ । तत्र गुणे संदेहः । किमेकवाक्यगतेनैव द्रव्येण सह संबध्यत उत प्रकृतेन द्रव्यमात्रेणेति । ननु च पिङ्गाक्ष्येकहायनीशब्दयोरपि गुणवचनत्वान्नैवात्र वाक्ये द्रव्यमस्ति । कथं गुणवचनत्वमिति चेत् । उच्यते ।

बहुव्रीहिसमासोऽयं मतुबर्थे विधीयते ।
सोऽस्यास्तीति च संबन्धे मत्वर्थीयः प्रवर्तते ॥

गोमानित्येवमादिषु हि गोषु प्रातिपदिंकेनामिहितासु तद्वत्यर्थे मतुपाऽभिधातव्येऽवश्यं तावत्संबन्धः पूर्वतरमभिधातव्यः । कुतः ।

न हि गोभिरसंबद्धो गोमानित्यभिधीयते ।
तस्माद्विशेषणं तत्र संबन्धः पूर्वमिष्यते ॥

विशेषणं तावत्सर्वत्र पूर्वतरमभिधीयत इति स्थितम्1 । इह च संबन्धो विशेषणमिष्यते न गोमात्रम् । असंबद्धेषु प्रत्ययानुत्पादात् । यदि गोमात्रं विशेषणं भवेत्ततस्तासु प्रातिपदिकेनाभिहितासु विशेष्यं प्रत्ययोऽभिदध्यात् । संबन्धे पुनर्विशेषणे नियोगतः2 सोऽभिधातव्यः केनचित् । न चास्य प्रातिपदिकमभिधायकम् । आकृतिमात्राभिधायित्वात् । न च प्रातिपदिकार्थो गमकः3 । विनाऽपि संबन्धेनोपपद्यमानत्वात् । केवलगोशब्दोच्चारणेऽपि चाप्रतीतेः । गोमत्पदोच्चारणेऽपि प्रत्ययवेलायामेव संबन्धबुद्धिः । अतश्च ‘तदागमे हि तद्दृश्यते’ इत्यपि प्रत्ययार्थत्वम् । यच्च विशेष्ये वर्तते तेन तत्प्रत्यासन्नं विशेषणमुपादातव्यम् । न च प्रातिपदिकं विशेष्ये वर्तते ततस्तद्विशेषणभूतं संबन्धमुपाददीत । प्रत्ययस्तु तत्र वर्तत इत्युपादत्ते । स चेदुपात्तस्तेनैव संबन्धिप्रत्ययसिद्धेरभिधानशक्तिप्रतिबन्धाद्विशेष्यानभिधानम् । न च विशेष्यप्रत्ययात्संबन्धप्रत्ययो भवति । प्राक्संबन्धाद्विशेष्यत्वाभावात्सिद्धे च विशेष्यत्वेन संबन्धे न पश्चात्किंचित्प्रयोजनमस्तीत्यप्रतीतिरेवास्य प्राप्नोति । तस्मात्प्रथमतरप्रत्याय्यत्वात्प्रत्ययार्थः संबन्धः । इतश्च प्रत्ययार्थः संबन्धः ।

शब्दवृत्तिनिमित्ते हि भावप्रत्यय इष्यते ।
देवदत्तस्य गोमत्त्वं संबन्धश्च प्रतीयते ॥

यथैव शाबलेयस्य गोत्वं विशेषणं यथा च विशेषणभूता जातिर्भाक्प्रत्ययेन निष्कृष्टाऽभिधीयत इति गोपदस्य सैव वाच्यत्वेनेष्टा । तथा देवदत्तस्य गोमत्त्वमित्युक्ते गवि प्रतिपत्त्यभावात्संबन्धनिष्कर्षप्रतीतेश्च स एव भावप्रत्ययार्थोऽध्यवसीयते । यश्च भावप्रत्ययार्थः स प्रातिपदिकस्य विशेष्ये वर्तमानस्य निमित्तम् । यच्च निमित्तं तद्विशेषणत्वान्मुख्यमभिधेयं, लाक्षणिकं विशेष्यम् । यदि च मतुपा संबन्धोऽभिहितस्ततः प्रकृतिप्रत्ययौ प्रत्ययार्थं सह4 ब्रूत इति गोमत्प्रातिपदिकादुत्पन्नो भावप्रत्ययः संबन्धमभिधातुमर्हति नान्यथा । तस्मादपि संबन्धोऽर्थः । एतेन सर्वे यौगिकाः कृत्तद्धितसमासेषु व्याख्याताः । सर्वत्र हि भावप्रत्ययः संबन्धमभिधत्ते । राजपुरुषत्वमौपगवत्वं पाचकत्वमिति । अत एवैते यौगिकाः, यतस्तेन निमित्तेन वर्तन्ते ।तस्मान्मत्वर्थविषयत्वाद्बहुव्रीहेरेकहायन्यादिशब्दैः संबन्धोऽभिधीयते । किं च ।

यस्मिन्नन्यपदार्थे च बहुव्रीहिर्विधीयते ।
तत्रापि प्रत्ययार्थत्वात्संबन्धस्य प्रधानता ॥

एकं हायनमस्या इति षष्ठ्यन्तेनान्यपदार्थः प्रदर्श्यते । षष्ठ्यर्थस्य च प्रत्ययार्थत्वादिह प्राधान्यम् । तद्रूपदर्शनार्थमेव5 सर्वनामप्रयोगः । केवलाया विभक्तेरप्रयोगात्सर्वनामार्थप्रतीत्यभावाच्च । षष्ठ्याश्च स्वस्वामिसंबन्धविकारावयवादिसंबन्धो वाच्य इत्येतत्प्रसिद्धम् । अतोऽपि संबन्धाभिधानं बहुव्रीहिणा ।

न चाप्यन्यपदार्थत्वं जातेरध्यवसीयते ।
न हि पिङ्गाक्षिसंबन्धस्तस्या नाप्येकवर्षता ॥

व्यक्तिधर्मा ह्येते, पिङ्गे अक्षिणी अस्याः, एकं हायनमस्याः, चित्रा गावोऽस्येत्येवमादयः । तासां च व्यक्तीनामनन्तत्वेन संबन्धानुपलब्धेर्व्यभिचाराच्चावाचकः शब्द इत्युक्तम् । न ह्यद्य जातायां पिङ्गाक्ष्यां प्रथमः प्रयोगो भवेत् । अतोऽवश्यं सामान्यं किंचिद्वाच्यमाश्रयितव्यम् । न च तदिह संबन्धादन्यदुपपद्यते । किं च ।

वयोवस्थाऽभिधीयेत यद्यपि त्वेकहायिनी ।
तथाऽपि गुण एवासौ न द्रव्यमिति गम्यते ॥

तस्मान्न द्रव्यशब्दः कश्चिदत्र विद्यत इत्यनुदाहरणत्वम् । न चान्यदुदाहरणं संभवति । साक्षाद्द्रव्यवचनशब्दाभावात् । सर्वत्र हि रूढिशब्दानां जातिवचनत्वं यौगिकानां च संबन्धाभिधायित्वम् । यस्त्वेकान्तेन द्वव्यवचनः स्याड्डित्थडवित्थादिशब्दः स नैव वेदे प्रयुज्यते6 । तस्माज्जातिगुणयोर्गुणयोरेव बा नियमः स्यादिति सिद्धान्तोक्तावपि योजयितव्यम् । अथवाऽधिकरणमेव निर्विषयत्वान्नाऽऽरब्धव्यमिति । उच्यते ।

सर्वत्र यौगिकैः शब्दैर्द्रव्यमेवाभिधीयते ।
न हि संबन्धवाच्यत्वं संभवत्यतिगौरवात् ॥

यद्येकहायन्यादिभिः शब्दैः संबन्धोऽभिधीयेत ततो नोदाहियेरन् । न त्वेतैः संबन्धोऽ भिधीयते । कथम् । अतिगौरवात् । इह हि संबन्धमात्रं वाऽभिधेयं कल्प्येत तद्विशेषो वा । यदि तावत्संबन्धमात्रं ततः सर्वयौगिकानामेकविषयोपनिपातात्पर्यायत्वप्रसङ्गः । अथ संबन्धविशेषस्ततस्तस्य स्वतो7 विशेषाभावादवश्यं संबन्धिकृत एव भेदोऽभ्युपगन्तव्यः । संबन्ध्यपि चानभिधीयमानो न शक्नोत्यभिधीयमानं संबन्धं व्यवच्छेत्तुमित्यवश्यं सोऽप्यभिधातव्यः । न चैकस्मिन्संबन्धिनि संबन्धोऽवस्थितः । न च तन्मात्रेणान्यस्माद्व्यवच्छिन्नः प्रतीयत इत्युभावप्यभिधातव्यौ । तत्र गोमानित्येकः संबन्धी गोशब्देनाभिधीयते । द्वितीयस्य न कश्चिदभिधाता दृश्यते । तेन मतुपा विशिष्टं संबन्धमभिदधता तद्वन्तं सन्तं संबन्धिनमेकमनुक्त्वाऽभिधातुमशक्नुवता8 नियोगतः सोऽप्यभिधातव्यः । ततश्च तमभिधाय संबन्धाभिधायामतिगौरवं स्यात् । अपि च ।

संबन्धिनैव संबन्धः प्रत्येतुं यदि शक्यते ।
पुनस्तस्याभिधाशक्तिं कः श्रुतेः परिकल्पयेत् ॥

यदा च पूर्वतराभिहितसंबन्धिप्रतीत्यैव संबन्धोऽप्याक्षिप्तस्तदा नैव प्रत्ययेनापि सोऽभिधीयत इति शक्यं वक्तुम् । तस्मादर्थाक्षिप्तेनैव संबन्धेन भवितव्यम् । यत्त्वप्रतीते संबन्धे विशेष्यं न प्रतीयत इति । तत्र ब्रूमः ।

विशेषणाद्विना नेष्टो विशेष्यप्रत्ययोद्भवः ।
विशेषणं च गावोऽत्र न संबन्धः कथंचन ॥

देवदत्तो हि गोभिरवच्छिन्नो विवक्षितः । ताश्च प्रातिपदिकेनोपात्ताः सन्त्येव । यत्तु नासंबद्धाभिरवच्छिद्यत इति । सत्यं नावच्छिद्यते । तेनैव9 ताभिः संबन्धाक्षेपोऽर्था10ल्लभ्यते11 सर्वथा तावद्गोमच्छब्देन गोविशिष्टोऽयमित्येतदभिहिते कथमनवस्थितास्ता गावस्तं विशिंषन्तीति तासामेवैष व्यापारो न शब्दस्य । तथा हि ।

न विशिंषन्ति गावोऽर्थं पृथिव्यामनवस्थिताः ।
तत्र किं शक्यते वक्तुं पृथिव्यप्यभिधीयते ॥

न हि येन विनाऽर्थात्मलाभो नास्ति तत्तदभिधातव्यम् । किं तर्हि । यावता विना विशिष्टबुद्धिर्नोत्पद्यते—गोभिश्चाप्रतीताभिस्तद्वति बुद्धिर्नोत्पद्यते न संबन्धेनापि । किं च ।

वक्तृव्यापारमात्रं च संबन्धप्रत्यवेक्षणम् ।
स हि गोभिरसंबद्धं न गोमन्तं विवक्षति ॥

सर्वत्र हि वक्तृक्रमविपर्ययेण श्रोतुः क्रमो भवति । स हि प्रथमं तावत्किंचिद्विशेष्यं विवक्षति ततस्तस्य केनचिद्विशेषणेन विनाऽभिधातुमशक्तेर्विशेषणविवक्षां करोति ततः शब्दोच्चारणम् । श्रोता पुनः प्रथमं तावच्छद्बं शृणोति ततो विशेषणं ततो विशेष्यं ततस्तदुपपत्त्यर्थानि वस्त्वन्तराणि प्रपद्यते । तेन यद्यपि वक्त्रा पूर्वं संबन्ध आलोचितस्तथाऽपि श्रोता पश्चादेवैनं ग्रहीष्यति । न त्वत्र वक्त्राऽप्यसौ पूर्वंतरमवधारिंतः । संबन्धिनोरगृहीतयोर्ग्रहीतुमशक्यत्वादतस्तदीयेनापि क्रमेणोत्तरकालमेव प्रतीयमानः संबन्धो नार्थाक्षिप्तत्वं परित्यजति । वस्तुधर्मश्चैष यदसंबद्धा गावो न विशिंषन्ति स तासां व्यापारो न शब्दस्य । तेन यं यथावस्थितं शक्नुवन्ति विशेष्टुं स तथाऽवस्थास्यते । संबन्धश्चासौ12 विशेष्यत्वं प्रतिपद्यत इत्यर्थात्संबध्यते ।

विशेष्यत्वेन संपन्नं तद्विशेषणसंगतम् ।
गोविशिष्टोऽयमित्येवं गोमच्छब्दोऽभिधास्यति ॥

तस्मादप्यनभिधेयः संबन्धः । किं च ।

विभक्तिवाच्यरूपेण संबन्धो नावगम्यते ।
रूपान्तरेण वक्तव्य इति नास्ति च लक्षणम् ॥

षष्ठीसप्तमीभ्यां हि यादृक् संबन्धः स्वप्रधानोऽसत्त्वभूतश्च प्रत्याय्यते न तादृक् मत्वर्थीयेन । न च कृदभिहितो भावो द्रव्यवद्भवतीत्येवमिव रूपान्तरोपादानं केचिदमिदधति । तत्र किमसत्त्वभूतसंबन्धाभिधानमाश्रीयतामुत संबन्ध्येवार्थलभ्यतद्विशिष्टोऽभिधीयतामिति । तदुच्यते ।

प्राक्प्रतीतैकसंबन्धिविशिष्टेऽभिहिते परे ।
संबन्धिन्येव संबन्धः प्रतीत इति नोच्यते ॥

यत्तु सिद्धे विशेष्ये न पश्चात्संबन्धप्रत्ययेन कार्यमिति । सत्यं नास्ति । विनाऽपि तु तेन नान्तरीयकत्वात्प्रतीयत इति किं क्रियताम् । यच्च भावप्रत्ययेनाभिधानादस्य मत्वर्थत्वमिति । अत्रापि ब्रूमः ।

यदा स्वसमवेतोऽत्र वाच्यो नास्ति गुणोऽपरः ।
तदा गत्यन्तराभावात्संबन्धो वाच्य आश्रितः ॥

गोमतो भावो गोमत्त्वमिति हि—

यन्निमित्तमपेक्ष्यायं गोमच्छब्दः प्रवर्तते ।
स एव गोमतो भाव उच्यते त्वतलादिभिः ॥

तत्र यास्तावत्प्रातिपदिकार्थे विशेषणं गावस्तासां तद्वतः पुरुषादत्यन्तभेदाद्भावप्रत्ययेनाग्रहणम् । समवेतगुणग्राही हि भावप्रत्ययः । न चाऽन्योऽभिधीयमानस्तत्र गुणः संभवति, यो निमित्तभावाद्भाव इत्युच्येत । न च पुरुष एव तस्य भाव इत्येवं व्यपदेशभेदं लभते । तेन भावप्रत्ययः [( अ॰ ३ पा॰ १ अ॰ ९ सू॰ १८ )] ‘आनर्थक्यात्तदङ्गेषु’ इत्यर्थप्राप्तं संबन्धमवलम्बते । निमित्तत्वमपि च तस्य वस्तुलक्षणमस्तीत्यभिधेयनिमित्तासंभवे तदपि तावद्गृह्यतामित्येवमाश्रीयते । तस्मादकारणमेतद्यौगिकानां संबन्धाभिधानशक्तिकल्पनायाम् ।

अतश्च दण्डिशब्देन संबन्ध्येवोच्यते यथा ।

तथैव योगिकैः शब्दैः पिङ्गाक्ष्यादिपदैरपि ।

संबन्धस्य च भावत्वं व्याख्येयं तेषु पूर्ववत् ।
बहुव्रीहेरतो द्रव्यमभिधेयं न तद्गुणः ॥

यदप्येकं हायनमस्य इत्यन्यपदार्थे षष्ठ्यर्थप्राधान्यात्संबन्धे बहुव्रीहिरिति । तत्राभिधीयते ॥

अभिधेयो बहुव्रीहेर्यद्यप्यस्येति कथ्यते ।
तथाऽपि प्रथमान्तेन तुल्योऽसौ संप्रतीयते ॥

यदि त्वन्यपदार्थः षठ्यन्त एव संबन्धी स्यात्ततो यथैव राज्ञः पुरुष इत्यत्र षष्ठ्यन्तत्वाद्राजा पुरुषविशेषणं भवति, प्रथमान्तत्वाच्च पुरुषः प्रधानरूपेण समासार्थो भवति । एवमेव चित्रग्वादिशब्दैर्देवदत्तादिविशिष्टा गाव एव प्रतीयेरन् । न चित्रगोविशिष्टो देवदत्तादिः । तस्माच्चित्राणां गवामयमितीदृशेऽर्थे बहुव्रीहिर्वर्तते । यद्यप्यन्यथा विग्रहस्तथाऽप्युत्तरकालमीदृगर्थदर्शनादेवमेव विग्रहोऽपि कर्तव्यः । ततश्च संबन्धविशिष्टाभिर्गोभिर्देवदत्तादिर्विशिष्ट इति समासार्थो विज्ञायते । यथैव च राज्ञः पुरुष इत्यत्र पष्ठ्यां प्रयुज्यमानायां संबन्धः प्रधानभूतोऽभिधीयते, कृते च समासे निवृत्तायां विभक्तौ पूर्वोत्तरपदयोः प्रत्येकप्रयोगदृष्टार्थापरित्यागात्संबन्धाधिक्यस्य च सामीप्यावगतविशिष्टार्थप्रत्ययादेव सिद्धेर्न संबन्धपरः समासो भवति, एवमेव षष्ठ्यप्रयोगादेव बहुव्रीहावपि न संबन्धप्राधान्यम् । तच्च13 न पूर्वोत्तरपदार्थयोर्नाप्यन्यतरस्येत्यन्यपदार्थभूतद्रव्यप्राधान्याध्यवसानम् । स चान्यपदार्थः संबन्धी योग्यतावशेन जातिद्रव्यगुणक्रियाणामन्यतमः परिगृह्यते । तद्यथा ।

चित्रव्यक्तिरियं जातिर्द्रव्यं नानागुणं त्विदम् ।
गुणोऽनेकाश्रयः कश्चिदियं त्वेकाश्रया क्रिया ॥

सर्वत्र च योग्यत्वात्समानाधिकरणपदान्तरोपनीतोऽन्यपदार्थविशेषो गम्यते । तदिहैकं हायनमस्या इति जातेरनादित्वान्न विशेषणं संभवतीति व्यक्तिराश्रीयते । ननु व्यक्तीनामानन्त्यव्यभिचाराभ्यामनभिधानमुक्तम् । नैष दोषः ॥

आनन्त्येऽपि हि भावानामेकं कृत्वोपलक्षणम् ।
शब्दः सुकरसंबन्धो न च व्यभिचरिष्यति ॥

यत्र तावज्जात्यैवान्यपदार्थ उपलक्ष्यते तत्र तयैवैकया सकृद्गृहीतयोपलक्षिता व्यक्तयो देशादिभिन्ना अप्यभिधास्यन्त इति सुज्ञानः संबन्धः । न च तदुपलक्षिताभ्योऽन्यत्र प्रयोग इत्यव्यभिचारः । यत्र तु व्यक्तिभिरेव व्यक्त्यन्तराणि विशेष्यन्ते तत्रापि मूलोपलक्षणं जातिरेवाभ्युपगम्यते । सर्वथा दूरमपि विशेषणमालायामनुवर्तमानायां प्रथमोपलक्षणस्याभेदात्संबन्धदर्शनमुपपत्स्यते । सर्वप्रथमसर्वान्त्ययोश्च शब्दार्थत्वम् । आन्तरालिकानां तु लक्षणासिद्धज्ञानत्वादनभिधेयत्वम् । अतश्च पिङ्गत्वाक्षित्वाभ्यां स्वव्यक्तयो गुणावयवात्मिका लक्ष्यन्ते । ताभिरवयवि द्रव्यमुपलक्ष्यते । तच्च समासार्थो भवति । स पुनः किमभिधेयो लाक्षणिक इति । प्राधान्येन प्रतीतेः सामानाधिकरण्यात् [( पा॰ सू॰ २—२—२४ )] ‘अनेकमन्यपदार्थ’ इति च स्मरणाद्देवतातद्धितमत्वर्थीयादिभिरिवाभिधीयत इति केचित् । अपरे त्वाहुः । युक्तं देवतातद्धितादावनन्यप्रयोजनत्वाच्छब्दाधिक्याच्चान्यपदार्थाभिधानम् । न च तत्र प्रातिपदिकार्थेन सोऽर्थः शक्यो लक्षयितुम् । व्यभिचारात् । केवलाच्च प्रातिपदिकादप्रतीतेः । बहुव्रीहौ तु पूर्वोत्तरयोः पदयोर्विद्यमानस्वार्थत्वादन्यस्य चाभ्यधिकस्य शब्दावयवस्याभावात्पिङ्गत्वाक्षित्वाभ्यामेव च द्रव्यप्रत्ययसिद्धेर्न शक्यमभिधेयत्वं कल्पयितुमिति । न त्वेतद्व्यापित्वेन शक्यमाश्रयितुम् । कर्मधारये ह्येतद्व्यापित्वेन स्यात्सर्वथा लक्षणानिमित्तोपपत्तेः । इह तु चित्रगुरित्येवमादिषु चित्रगोशब्दयोरत्यन्तव्यतिरिक्तार्थाभिधायित्वाद्देवदत्तादिशब्दैश्च न श्रुत्या लक्षणया वा सामानाधिकरण्यमवकल्पते । प्रागपि च देवदत्तादिशब्दादन्यपदार्थप्रतीतेर्न वाक्यार्थत्वकल्पना । न च केवलं समासवेलायां यौ पदार्थाववधारितौ तौ देवताद्यर्थसंबन्धिनौ, यतो वाक्यार्थो देवदत्तः स्यात् । तस्मादवश्यं प्रतीतेः स्मरणाच्चान्यपदार्थोऽस्य वाच्य इत्यभ्युपगन्तव्यम् । एवं च प्राधान्यमविरुद्धं भविष्यति । अतश्चैवमादिषु बहुव्रीहेरन्यपदार्थाभिधानशक्तिर्दृष्टेति यत्रापि कथंचिल्लक्षणा संभवति तत्रापि पूर्वकॢप्तशक्त्यनपायादभिधेयत्वमेवाध्यवसीयते । तस्मादुपपन्नं पिङ्गक्ष्यादीनां द्रव्यवचनत्वम् । यत्त्वेकहाथनीति वयोवचन इति । तदनुपपन्नम् । वयसो लक्षणयाऽवगतेः । उक्षादिशब्दानां हि वयोवचनत्वम् । एकहायन्यादिशब्दाः पुनः कालविशेषयुक्तद्रव्यवचनाः सन्तो वयो लक्षयन्तः प्रवर्तन्ते । न ह्येकं हायनमस्या इत्येवं वयो निर्दिश्यते । किं तर्हि । द्रव्यम् । तस्य ह्येकं हायनं जातस्य न वयसः । तस्मादुभाभ्यामप्येताभ्यामात्मैकदेशोपात्तगुणविशिष्टद्रव्यप्रत्यायनादुपपन्नोऽयं संशयः किमरुणिमा कृत्स्नप्रकरणगतक्रयाङ्गद्रव्यशेषत्वेन निविशते । अथवा समानवाक्यस्थाख्यातपदप्रत्यायितक्रय एवैकहायन्यामिति । अत्राप्युद्धननादिवदाक्षेपः । संयुक्तश्रवणादसार्वत्रिकत्वे प्राप्ते तं परिहरति । एष गुणः क्रयेणैकहायन्या वा समानवाक्योपादानात्संबध्येत । तत्र तावत्कारकविभक्तिनिर्देशादनाशङ्कनीयतरे सति द्रव्यसंबन्धे, क्रयसंबन्धः श्रुतिबलीयस्त्वाद्भवेत् । न चासावमूर्तत्वान्निष्क्रियस्य गुणस्योपपद्यते । यदि त्वगत्या पुनर्द्रव्ये संबन्ध आश्रीयते तत्राप्येकहायन्याम् ‘एेकशब्द्ये14 परार्थवत्’ इत्येवं क्रयारुणिमानौ प्रति वैरूप्यं स्यात् । भिन्नविभक्त्यर्थयोगश्चासन्नभ्युपगन्तव्यः । क्रियासंबन्धस्य कारकविभक्तिसाध्यत्वात्, गुणसंबधस्य च षष्ठ्यधीनत्वात् । अतश्च वाक्यगतेन संबन्धिना योग्यत्वाभावादसंबध्यमानः प्रकरणिना गृहीतः सर्वार्थं स्यादित्याशङ्क्यते । तेन तर्ह्ययमेवार्थो निश्चीयत इति क्रयसंबन्धो नाऽऽशङिकतव्यस्तदर्थमाह—न चाशकनीयमर्थं प्रमाणभूतः शब्दोऽभिधास्यतीति । यदेतत्समानवाक्योपादानं करणविभक्तिनिर्देशश्चैतेनापि क्रयैकहायनीविशेषणत्वबुद्धिर्दृढा जायते । तेन शब्दप्रामाण्याद्वस्तुविसंवादाच्च किं समञ्जसं किमसमञ्जसमिति जायते संदेहः । तन्न प्राथम्याच्छब्दानुरोधेन तावत्क्रियासंबन्धमुपन्यस्यति । वैदिकशब्दस्यातिमाराभावात् । तत्र विनियोगबलेनास्य वस्तुसामर्थ्यसद्भावान्वेषणे यतिष्यामहे । तद्यदि केनचित्प्रकारेणोपपत्स्यते ततः क्रय एव निवेशमङ्गीकरिष्यामः । अथ तु न कथंचनोपपत्स्यते ततो वाक्यभेदमभ्युपगम्य प्रकरणधर्ममेनमध्यवस्यामः । न चात्र वाक्यभेदः प्रत्ययाद्यन्यतमावृत्तिलक्षणः । कस्तर्हि, विभागरूपः । क्रयवाक्यस्य भेदं विभागलक्षणमभ्युपगम्येत्यर्थः ।

यद्वा भिद्यत इत्येवं घञ्ञयं कर्मकर्तरि ।
अरुणाशब्द एवं च भेदो वाक्यस्य गम्यते ।

पृथक्भवद्वाक्यं भेदयतीति वाक्यभेदः । तादृशं चाभ्युपगम्य प्रकरणधर्माध्यवसानम् । एतदुक्तं भवति यावच्छ्रुतिवाक्ये व्याप्रियेते तावत्प्रकरणधर्मत्वं नास्ति । यदा तु वस्तुविसंवादाद्विहतशक्तिनी ते निर्व्यापारे भविष्यतस्तदा प्रकरणविनियोग इति । किं तावत्प्राप्तमतआह—

विहितस्तु [( अ॰ ३ पा॰ १ अ॰ ४ सू॰ ८ )] सर्वधर्मः स्यात्संयोगतोऽविशेषात्प्रकरणाविशेषाच्चेति । श्रुतिवाक्योश्च तावदसामर्थ्येनौदासीन्यात् । कथं पुनर्गुणस्याक्रियात्मकस्य15 सतः प्रकरणेन ग्रहणम् । उच्यते नैवात्र प्रकरणं ग्राहकत्वेनेष्टम्16 । कथं तर्हि । अरुणयेत्यत्र पदे या तृतीया तया करणानि प्रकरणलभ्यज्योतिष्टोमापूर्वसाधनानि सोमप्रभृतीन्यनूद्यारुणप्रातिपदिकार्थो विधीयते ।

अतश्च पदमेवैतद्वाक्येनैवं विभज्यते ।
या व्यक्तिः करणत्वेन चोदितापूर्वसाधनम् ॥

तया तत्साधयेन्नित्यमरुणत्वविशिष्टया ।
एवं चेदरुणं कार्यं करणं यद्ग्रहाद्यपि ॥

तस्मात्सर्वकरणान्यरुणीकर्तव्यानि ।

यत्पुनर्यजमानादि विहितं कारकान्तरम् ।
न तस्यायं गुणः शेषः सर्वार्थोऽप्यवधारितः ॥

यदुच्यते गुणवचनत्वादरुणाशब्दः क्रीणातिना न संबध्यत इति तदाक्षिपन्नाह— ननु नैवायं गुणवचन इति । रूपरसादिशब्दाः केवलगुणवचनाः । तथा हि । यदा तेषां द्रव्येषु प्रयोगस्तदा न मत्वर्थीयेन विना प्रवर्तन्ते । ये पुनः शुक्लारुणादिशब्दास्ते कदाचिदेव षष्ठ्यन्तद्रव्यपदसंनिधानाद्भावप्रत्ययरहिता गुणेषु वर्तन्ते । पटस्य शुक्ल इति । नित्यं गुणोपसर्जनद्रव्यवचनाः । तथा चान्तरेणापि मत्वर्थीयं द्रव्यसामानाधिकरण्यं प्रतिपद्यन्ते । यथा शुक्लः पटोऽरुणो घट इति । ननु च मतुब्लोपाम्नानादेषामेवं17 वृत्तिर्भविष्यति । नैतदेवम् ।

शब्दानां न हि लोपेन वाच्योऽर्थः प्रतिपाद्यते ।
तस्मादुभयसामर्थ्यमेवं तत्रावगम्यते ॥

यथैव क्विबन्ताधुनादिषु प्रकृतिप्रत्यययोः प्रत्येकमुभयार्थाभिधानसामर्थ्यं सदेव लोपद्वारेणान्वाख्यायते तथैवात्र प्रातिपदिकमेव मत्वर्थमप्युपादातुं समर्थमिति मतुब्लोपाम्नानम् । लक्षणयेति चेत् । न । क्विबन्तादिवदेव मुख्यरूपप्रतीतेः । न च लक्षणासु शास्रेणान्वाख्यानं क्रियते । रूपादीनामपि च लक्षणोपपत्तेर्मतुपा विना वृत्तिः स्यात् । चन्दनस्य गन्ध इतिवच्चान्तरेण भावप्रत्ययं गोररुण इत्यपि प्रयोगः स्यात् । यथा च गन्धत्वमित्युक्ते चन्दनादिसंबन्धमपास्य तद्विशेषाणां गन्धत्वसंबन्धो भवति । एवमरुणत्वमित्यपि द्रव्यसंबन्धो न स्यात् । रूपादिशब्दवदेव चारुणादेरपि द्रव्यसामानाधिकरण्यं न स्यात् । यो हि मन्यते लक्षणयाऽरुणादिषु सामानाधिकरण्यमिति तस्य रूपादिष्वपि तथैव स्यादरुणत्वादिषु वा । न हि ते किंचिदप्यधिकं वदन्ति । एतेनारुणत्वादिभ्यो मतुब्लोपप्रसक्तिर्व्याख्याता । किं च ।

लिङ्गसंख्यादिसंबन्धो गुणानां न च विद्यते ।
तद्योगादपि शुक्लादेर्द्रव्यवाचित्वमिष्यते ॥

ननु ‘गुणवचनानामाश्रयतो लिङ्गवचनानि भवन्ति’ इत्येवं सेत्स्यति । न । रूपादिशुक्लत्वादिष्वपि प्रसङ्गात् । अपि च । गुणवचन इति न गुणाभिधानमात्रेणोच्यते । किं तर्हि । गुणमुक्त्वा यो द्रव्ये वर्तते । न ह्यन्यथा वचनशब्दः प्रयुज्यते । वचनमेव18 स्वरूपं शब्दस्येत्येवं गुणशब्देनैव व्यवहारसिद्धेः । अत एव रूपादींनामग्रहणम् । एतेन मतुब्लोपवाक्यं व्याख्यातम् । तस्माद्द्रव्यवचनोऽरुणाशब्दः, तस्य च कारकत्वाभिधानोपपत्तेरेकवाक्यत्वसिद्धिः । अतो न सर्वधर्मत्वमिति । तदेतदपेशलमिति । आकृ [( अ॰ १ पा॰ ३ अ॰ ९ )] त्यधिकरणोक्तन्यायविसंवादादशोभनमित्यभिप्रायम् । तथा हि ।

अन्वयव्यतिरेकाभ्यां यं कदाचिन्न मुञ्चति ।
स एव तस्य वाच्योऽर्थो गुणं चैष न मुञ्चति ॥

एकान्तद्रव्यसंबन्धिनि तावद्गुणे विशेषणत्वात्पूर्वतरमभिहिते तत्संबन्धादेव प्रतीयमानस्य द्रव्यस्य न शक्यं वाच्यत्वं कल्पयितुमित्युक्तम् ।

व्यभिचाराच्च न द्रव्यस्वरूपं वाच्यमिष्यते ।
तद्गुणेऽन्यत्र वृत्तेश्च निवृत्तेश्चागुणात्ततः ॥

ननु गुणान्तरोत्पत्तिकालेऽन्यदेव द्रव्यमिति न व्यभिचरेत् ।

न तावदयमेकान्तः कार्यद्रव्यान्तरोद्भवः ।
स्थितेऽपि हि भवत्येव द्रव्ये किंचिद्गुणान्तरम् ॥

येषां19 तावत्कार्यद्रव्याण्येव घटादीनि पच्यन्ते यथा पैठराणां20 तन्मतेनाभेद एव । पैलूकानामपि21 तु परमाणुषु व्यभिचारः । यादृशं त्वस्माभिर्द्रव्यमभिहितं तादृशस्य सर्वत्र गुणमात्रमेव भिद्यते न स्वरूपम् । यानि च घटादीनि द्रव्यान्तरेण गैरिकादिना रक्तानि संयुक्तसमवेतगुणद्वारेणारुणादिशब्दैरभिधीयन्ते, तत्रैकस्यैव द्रव्यस्यानेकनीलपीतादिशब्दविषयत्वापत्तेः स्पष्टं व्यभिचारित्वम् । अतश्चाऽऽकृतिव्यवहाराद्दूरेण स्थूलतरोऽयमित्यपेशलता । मतुब्लोपश्चात्यन्तनिरूढलक्षणावशादन्वाख्यायते । यत्तु मुख्यप्रत्ययान्नैवमिति । तत्रोच्यते ।

गौणत्वं यो वदेदत्र स एवमनुयुज्यते ।
संनिकृष्टाभिधेयार्थलक्षणायां न दुष्टता ॥

अग्निर्माणवक इत्यत्राग्निमाणवकयोरत्यन्तभेदात्सादृश्येन शब्दः प्रवर्तमानः प्रत्ययवैलक्षण्यान्नाभिधातेति सर्वेण ज्ञायते । ये तु जातिगुणवचना भूत्वा द्रव्यं प्रत्याययन्ति तेषामभिधेयलक्ष्यमाणवस्तुनोर्विवेकाभावात्प्रतीतावप्यविवेकः स्थित एव । स कथंचिदन्वयव्यतिरेकाभ्यां निपुणैः परीक्षकैरपनीयत इति । लोकस्य तु मुख्यबुद्धिरेव । न च परीक्षकाणामनभिधेयत्वं वदतां लोकविरोधः । प्रतीतमात्रव्यवहारी हि लोकोऽभिधानलक्षणाविवेकमकुर्वन्नुदासीनावस्थः सामान्यविशेषबाधादिसिद्ध्यर्थं परीक्षकैर्विवेकं क्रियमाणं न नानुमन्यते । तस्मादविरोधः । कथं न रूपादिशब्देष्वपि तल्लक्षणया मतुब्लोपः कथं वा लक्षणावृत्तिः शास्त्रेणान्वाख्यायत इति । अत्राभिधीयते ।

निरूढा लक्षणाः काश्चित्सामर्थ्यादभिधानवत् ।
क्रियन्ते सांप्रतं काश्चित्काश्चिन्नैव त्वशक्तितः ॥

इह केषुचिदर्थेष्वभिधानवदेव लक्षणाशक्तिरप्यनादिकालप्रवृत्तत्वेन निरूढाः, यथा शुक्लादिषु । केषुचित्तु क्रियते यथा रथाङ्गनामा चक्रवाक इति । केषुचित्पुनः कर्तुमपि न शक्यते, यथा शब्दस्पर्शरूपरसगन्धेषु । कथं पुनरिहाविशिष्टे संबन्धे सति न लक्षणेति । तत्रोत्तरमभिधानवदिति । यथा भवतः समाने गुणशब्दत्वे शुक्लादीनां गुणोपसर्जनद्रव्यवचनत्वं न रूपादीनामेवं मम लक्षणेति । तत्रैतत्स्यात् । अभिधानशक्तिः स्वाभाविकी । लक्षणा तु न संबन्धादधिकं निमित्तमपेक्षत इति । उच्यते । यदृच्छाशब्दत्व एतदेवं स्यात् । तव तु शुक्लादीनां समवेतगुणद्वारेण द्रव्ये वृत्तिः । तत्त्वविशिष्टं रूपादिष्वपीति द्रव्ये वृत्तिप्रसङ्ग । तत्रावश्यं गुणगतः कश्चित्सामर्थ्यभेदोऽङ्गीकर्तव्यः । येन ते शब्दाः केचिदेव गुणिपरा भवन्ति, अन्ये गुणप्रधानाः । एवं लक्षणायामपि भविष्यति ॥

तस्माद्यथैव शब्दानां शक्तिभेदोऽभिधां प्रति ।
प्रत्येतव्यस्तथाऽर्थानां लक्ष्यार्थान्तरगोचरः ॥

सत्यपि च फलानुमेये दृश्यमानार्थप्रत्यायनसामर्थ्ये, सत्यपि चास्माकमप्यदृष्टशक्तिगौरवतुल्यत्वे,22 अभिधेयमात्रप्रत्ययेन निवृत्तव्यापारे शब्देऽर्थप्रत्यये चाकृतार्थे सति कल्प्यमानत्वादर्थशक्तिः प्रमाणवती न शब्दशक्तिः । तेनादृष्टकल्पनातुल्यत्वेन पक्षयोस्तुल्यबलत्वम् । अतश्च रूपादीनां लक्षणाशक्त्यभावान्मतुपा विना न द्रव्ये वृत्तिः । तथा च ‘रसादिभ्यश्च’23 इति प्रत्ययान्तरनिवृत्यर्थं मतुम्नियमपुनः श्रुतिरमुमेवार्थं द्योतयति । न च रूपादिप्रत्ययेन न द्रव्यं प्रत्याय्यते गम्यते हि धूमादिनेवाग्निरविनाभावाद्द्रव्यम् । शब्दस्य त्वतत्परत्वाल्लक्षणानध्यवसानम् । प्रधानत्वाप्रधानत्वप्रतीतिस्तु द्रव्यगुणयोः स्वाभाविकी । नित्यं हि रूपादिषु स्वप्राधान्येनाभिधीयमानेषु द्रव्यं विशेणत्वेनोच्यते शुक्लादिषु विशेष्यत्वेन । अत एव चानादिकालप्रसिद्धार्थत्वादस्या लक्षणाया मतुब्लोपाम्नानेनानुगमः । या त्वादिमती नात्यन्तप्रसिद्धा नांसौ शास्त्रेणानुगम्यते । विनाऽपि चानुगमात्संबन्ध्यन्तरवशेन सा कदाचिदुपलभ्यते । तद्यथा मधुरो रसः स्निग्धः शीतो गुरुरिति स्निग्धशीतत्वादीनां गुणान्तरविशेषत्वान्न रसेन संबन्धोऽस्तीति रसलक्षितेन द्रव्येण संबध्यते । तस्माच्छक्तिपर्यनुयोगाभावान्मतुब्लोपभावाभावौ24 । एतेन भावप्रत्ययसदसद्भावसामानाधिकरण्यवैयधिकरण्यव्यवस्था व्याख्याता । शुक्लत्वादिशब्दाश्च भावप्रत्ययनिष्कृष्टविशेष्यभूतगुणवचनत्वाद्गन्धवदेव नित्यं वैयधिकरण्येन संबध्यन्ते ।

एतावांस्तु विशेषोऽत्र यदत्रापि विशेषणम् ।
विशेष्य एव शुक्लत्वे शुक्लो द्रव्यविशेषणम् ॥

द्रव्योपसर्जनीभूतः स्वप्रातिपदिके स्थितः ।
तादृग्निष्कृष्यते द्रव्यात्पश्चात्तु त्वतलादिभिः ॥

तेनैतस्य द्विरूपत्वं गन्धादेरेकरूपता ।
तथा च शुक्ल इत्यस्य पुनरन्या द्विरूपता ॥

कदाचिद्गुणमेवाऽऽह गुणिनं लक्षयेत्कवचित् ।
षष्ठ्यन्ततद्विभक्त्यन्तवाच्यद्रव्योपसर्जनः ॥

पटस्य शुक्ल इत्यत्र निष्कृष्टो गुण आश्रितः ।
पटः शुक्ल इति त्वत्र द्रव्यलीनोऽभिधीयते ॥

लिङ्गसंख्यादिसंबन्धः स्वाश्रयद्वारेण पूर्ववदेवोपपत्स्यते । तथा गुणवचनशब्दश्च द्रव्यप्राधान्ये वर्तते वैयाकरणानां गुणमुक्त्वा गुणिनि वर्तमानत्वात् । न हि वैयाकरणानां वैशेषिकवद्गुणाः परिसंख्यायन्ते । किं तर्हि, अङ्गाङ्गिभावापेक्षया गुणगुणिव्यवहारः । शुक्लादिशब्दाश्चोपसर्जनीभूतमर्थं वदन्ति न रूपादिशब्दा इति लिङ्गसंख्यासंबन्धासंकरः । भाष्यकारेण त्वेतमेव परिहारं मनसि कृत्वोक्तं, भवति हि गुणवचनस्यापि स्त्रीलिङ्गता यथा करूणाबुद्धिशब्दयोः । गन्धादिशब्दतुल्यावपि चैतौ प्रदर्शनमात्रविशेषादुदाहृतौ । एतदुक्तं भवति । येऽपि तावत्स्वप्रधानगुणवचनास्तेऽपि कथंचिल्लिङ्गसंख्याभ्यां युज्यन्ते किं पुनर्येषु द्रव्यप्राधान्यम् । एवमनया युक्त्याऽरुणेति गुणवचनः । गुणवचनश्चेत्क्रीणातिना न संबध्यत इत्युपसंहृते परः पुनराह—अथ यदि क्रीणातिना न संबध्यते तत एकहायन्या संबध्यतामिति । शक्यते हि गुणवचनस्य द्रव्यसंबन्धः कर्तुम् । सिद्धान्तवादी तु श्रुत्या क्रियासंबन्धावगमाद्द्रव्यसंबन्धो वाक्यलक्षणो दुर्बलत्वाद्बाध्यत इत्येतत्प्रतिपादयितुमाह—तन्न । केवलं हि गुणमिति । द्विप्रकारो हि नामशब्दानां संबन्धः सामानाधिकरण्येन वैयधिकरण्येन वा । तत्र यदोभाभ्यामुभयार्थोपादानं तदा सामानाधिकरण्यं भवति । षष्ठ्यन्तद्रव्यपदोच्चारणे तु वैयधिकरण्येन संबन्धः । तदिह केवलगुणगुणिवचनत्वादरुणैकहायानीशब्दयोः श्रुतिसामानाधिकरण्यं तावन्न विद्यते । नापि षष्ठीश्रुतिरस्ति25 । तस्मात्तृतीयाश्रुतिबलीयस्त्वान्न द्रव्यगुणयोः संबन्ध इति । बलाबलकृतं संबन्धनिराकरणमवगम्याप्रमाणकृतत्वाभिप्रायेणायं ब्रवीतीति मत्वैकविभक्तियोगादित्याह । तदनुपपन्नमिति-बलाबलप्रदर्शनम् । प्रथमं तावत्स्वसामर्थ्येनारुणप्रातिपदिकस्य गुणवचनत्वं गम्यते । पदान्तरसंनिधानाच्च सामानाधिकरण्यमिति बलाबलम् । तत्राऽऽह ।

केवलारुणवाचित्वं लिङ्गद्यद्यपि गम्यते ।
तथाऽप्यगतितो वाक्याल्लक्षणावृत्तिराश्रिता ॥

इदानीं तृतीयाश्रुतिबलीयस्त्वात्क्रियासंबन्धावबोधाद्द्रव्यसंबन्धबाधं दर्शयति । तत्राप्यगत्यैव प्रत्यवस्थानम् । ननु गुणस्य क्रियासंबन्धाभावादिति । तस्योत्तरं तृतीयानर्थक्यप्रसङ्गादिति । न ह्यगत्याऽनभिधेयोऽर्थः शक्यः प्रत्येतुम् । न चात्र लक्षणयाऽपि सक्तुंद्वितीयावत्तृतीयाऽर्थवती26 । कारकसामान्यस्याप्यनिष्टत्वात् । परस्त्वाह—लिङ्गसंख्यावदाश्रयद्वारप्राप्तं कारकमनूद्य प्रातिपदिकार्थो विधास्यत इति । अस्ति ह्येतदपि दर्शनं यद्गुणशब्देभ्यो विनाऽपि कारकत्वेन कारकविशेषणत्वाद्द्वितीयादयो भवन्तीति । नैतत्सारमिति । यद्यपि कथंचिदरुणयेत्यस्यैकहायनीसंबन्धयोग्यत्वं तथाऽपि क्रियाक्षिप्तायामेकहायन्याम् ‘ऐक [( अ॰ १ पा॰ ४ अ॰ ५ सू॰ ८ )] शब्द्ये परार्थवत्’ इत्येवमुभयसंबन्धाभावे बलीयसा क्रयसंबन्धेन गुणसंबन्धनिराकरणम् । नह्यत्र क्रियासंबन्धविभक्तिवद्गुणसंबन्धविभक्तिः27 षष्ठी दृश्यते । नीलोत्पले तु श्रुतिविरोधाभावाद्वाक्यलक्षणोऽपि संबन्धोऽवगम्यत इति वैषम्यम् । ये तु सामानाधिकरण्यविकल्पास्तान् [( अ॰ ६ पा॰ ८ अ॰ १० सू॰ ३५ । )] ‘नियमो वैकार्थ्ये हि’ इत्यत्र षष्ठान्त्याधिकरणसूत्रे सर्वानेव वक्ष्यामः । सर्वथा लाक्षणिकं सामानाधिकरण्यमिति दुर्बलम् । न च कारकविशेषणत्वाद्गुणानां कारकविभक्तिः । किं तर्हि, कारकत्वादेवेति । एतदपि पश्वेकत्वविवक्षाधिकरणे [( अ॰ ४ पा॰ १ अ॰ ५ । )] वक्ष्यते । आह । सत्यमेवमेतदिति । पुनरपि श्रुतिविरोधपरिहारार्थमेव यतते । कथम् ।

तन्त्रेणोभयसंबन्धे विरोधित्वं प्रसज्यते ।
प्रासङ्गिके त्विहैकस्मिन्नविरोधो भविष्यति ॥

सर्वत्र तु बोधिते28 पदार्थ इति कोऽयमुपन्यासः । उच्यते ।

सर्वथा बाधिता तावत्पदार्थानां स्वतन्त्रता ।
तेनानेकोऽपि संबन्धः कल्प्यमानो न दुष्यति ॥

अरुणाशब्दस्तावदवश्यमेव केनचिद्गुणिना संबन्धनीयः । एकहायनीशब्दस्यापि क्रियासंबन्धात्स्वातन्त्र्यमपनीतम् । तत्र पदान्तरसंबन्धेऽपि सकृत्प्रवृत्तायाः किमवगुण्ठनेनेतिवत्तस्य तावत्येव श्रुतिपीडेति । अतो गुणपदेनापि संबध्यतामिति । नैतदस्तीति— अभ्युपेत्य द्रव्यगुणसंबन्धम् । यागगतद्रव्यसंबन्धनिराकरणात्क्रीणा29तेर्विध्यनुवादयौगपद्याश्रयणविरोधः30 । यत्र तु क्रियाविशेषणानि सर्वाणि भवन्ति तत्र विशिष्टविधानादक्लेशो भवति । यत्र तु क्रिया विधीयते द्रव्यस्य च किंचित्तत्र प्रत्ययावृत्तिलक्षणं वाक्यभेदमभ्युपेत्य नियमाभावो भवतीत्युच्यते । विशेषणं हि प्रसिद्धं भवति । न च विधीयमानावस्थः क्रयः प्रसिद्ध इति प्रकरणगतैकहायनीमात्रसंबन्धप्रसङ्गः । कतमा पुनरन्याज्योतिष्टोमप्रकरण एकहायनी । सर्वथा तावद्वाक्येन तस्यामपि गुणः प्राप्यते । यदि तु सा न विद्यते किं क्रियतां दक्षिणा तु वा काचिद्भविष्यति । अनूबन्ध्यायां वा । अथवेद्दिश्यमानत्वादविवक्षितलिङ्गसंख्यैकहायनमात्रग्रहणात्सवनीयाग्नीषोमीययोरप्येकहायनयोर्ग्रहणादनियमः । सदृशन्यायेषु वोदाहरणान्तरेष्वेव तद्भविष्यति । तद्यथा ‘दशमुष्टीर्मिमीते’ इत्यत्र सोममानादन्येषामप्यङ्गेष्टिनिर्वापमुष्टीनां दशसंख्यत्वप्रसङ्गः । परः पुनरेकहायनीवैरूप्याभ्युपगमवादलब्धप्रसरः शङ्कते—नन्वपूर्वोऽपि विधीयमानो मनसि विपरिवर्तमानः प्रसङ्गादेव विशेष्यत इति । नैतदेवमित्युत्तरम् । यावद्यावद्धि पदार्थो विशेष्यते तावत्तावच्छ्रुतेः स्वरसभङ्गः । तेन सकृत्प्रवृत्तायाः किमवगुण्ठनेनेत्येवमेकेन केनचिद्विशेषितः परेणापि विशेष्यतामित्यभ्युपगन्तव्यम् । न चाऽऽनर्थक्यम् । प्रकरणेऽर्थवत्त्वात् । तत्राप्येवमेव संबन्ध इति चेत् । न । वाक्यान्तरप्राप्तद्रव्यानुवादेन गुणाविधौ वैरूप्यप्रसङ्गाभावात् । भवत्पक्षेऽपि स्वरूपतः सोमं च प्रति क्रये विधीयमाने द्रव्यं च प्रति विशेषणत्वेनानूद्यमाने वैरूप्यं भवति । एवमेकहायन्यपि क्रयं गुणं च प्रति वैरूप्यान्नैव संबध्यते । पूर्वं त्वभ्युपेत्यवादमात्रेणाङ्गीकृतम् । तदिदानीं तत्रैव परस्य दुष्टाशा मा भूदिति निराक्रियते । तेनायमेव परमार्थः । कारकं विभक्त्याऽनूद्य प्रातिपदिकार्थो विधीयत इति । परे त्वविवक्षितकारकं गुणमात्रं प्रकरणयुक्तं प्रयोगवचनेनागृहीतम् [( अ॰ ३ पा॰ १ अ॰ ९ सू॰ १८ )] ‘आनर्थक्यात्तदङ्गेषु’ इत्येवं द्रव्येष्ववतीर्णं सर्वार्थं मन्यन्ते । तत्तु प्रकरणेनानितिकर्तव्यतात्मकगुणग्रहणाभावादानर्थक्यतदङ्गन्यायस्य31 च क्रयाङ्गैकहायन्यामुपपन्नतरत्वेन पूर्वपक्षमूलाभावप्रसङ्गादुपेक्षणीयम् । तस्मात्पूर्वेणैव न्यायेन कृत्स्ने प्रकरणे निवेश इति । एवं प्राप्तेऽभिधीयते ।

यत्र द्रव्यगुणैकार्थ्यं श्रवणादेव गम्यते ।
अन्योन्यनियमस्तत्र तयोः स्थाल्यादिवद्भवेत् ॥

अर्थैकत्वेति—वाक्यविशेषोपलक्षणम् । ऐककर्म्यादिति—पुनस्तदेव हेतुत्वेनोपदिष्टम् । अथवा वाक्यार्थैकत्वे यत्रैकवाक्यता संभवतीत्यर्थः । तत्र सर्वविशेषणविशिष्टैकभावनाविधिः । तादृशीं कृत्वा कृतार्थो भवतीति परिग्रहात्सर्वनियमो भवति । यथा देवदत्तः काष्ठैः स्थाल्यामोदनं पचतीत्युक्ते सर्वेषामेकपाकविषयत्वम् । एवमिहापि केवलयोस्तावद्द्रव्यगुणयोरनुष्ठानमेव नास्तीति न विधीयते । क्रियान्तरसंबन्धमपि क्रीणातेः परः प्रत्ययो न शक्नोति कर्तुम् । द्रव्यसंबन्धे तु सर्वत्र विधीनामेव शक्त्यभावः । सर्वत्र हि भावनातद्विशेषणार्थातिरिक्तेऽर्थे विधिव्यापारो नास्तीत्युत्तराधिकरणे वक्ष्यामः । तृतीयानिर्देशाच्च द्वयोरप्यरुणैकहायन्योः परस्परमनपेक्ष्य स्वसाध्यक्रियामात्रापेक्षिणोर्वाक्येन तद्विशेषक्रयसंबन्धो विज्ञायते । कुतः ।

कारकं ह्युच्यते कुर्वन्नाक्रियां तत्करोति च ।
तस्मान्न द्रव्यसंबन्धः कारकस्यास्ति कस्यचित् ॥

निष्पन्नत्वाविशेषाच्च नापेक्षैषां परस्परम् ।
गुणानां32 च परार्थत्वादसंबन्धः समत्वतः ॥

ऩ चाप्यन्योन्यसंबन्धे विधिरेषां प्रवर्तते ।
तदधीना वयं चेति क्रियासंबन्धकल्पना ॥

क्रियाऽपि न विना कैश्चित्साध्यते कारकैः क्वचित् ।
भूतभव्यवशत्वेन क्रियाकारकसंगतिः ॥

यथा च द्रव्यमिच्छन्ति साधकत्वेन कर्मणाम् ।
तथा गुणमपीत्येवं नाऽऽरुण्यस्यान्यसंगतिः ॥

यथैव द्रव्येण विना क्रियानुपपत्तेरेकहायनीं क्रयो गृह्णाति—

तथा गुणविशेषेण द्रव्यं यावदलक्षितम् ।
तावत्तेन क्रियासिद्धिर्नास्त्यतोऽपेक्ष्यते गुणः ॥

तस्मात्सोऽपि क्रियाङ्गमिति । तथा च ‘द्रव्यगु [( अ॰ ३ पा॰ १ अ॰ ३ सू॰ ३ )] णसंस्कारेषु’ इति गुणग्रहणं कृतम् । ननु नान्तरीयकत्वाद्द्रव्यग्रहणे33 गुणानुष्ठानात्पृथक्प्रयत्नाभावान्न द्रव्यवद्गुणापेक्षा युक्ता । तथा हि ।

न द्रव्यमनुपादाय प्रवृत्तिः कर्मणीष्यते ।
पूर्वं द्रव्ये गृहीते तु तद्गुणोऽप्यनुवर्तते ॥

उच्यते ।

कर्मण्यपि कृते पूर्वं न द्रव्येण प्रयोजनम् ।
द्रव्याकाङ्क्षाऽथ पूर्वं स्यात्सा गुणेऽपि प्रतीयताम् ॥

यथैव हि त्वयोक्तं द्रव्यग्रहणेनैव गुणोऽपि कश्चिद्गृहीत एवेति न पृथगुपादानं प्रयोजयति तथा क्रियोपादानेऽपि यत्किंचिद्द्रव्यमुपात्तमिति नापेक्षितव्यम् । अथ तु प्रागुपादानाद्द्रव्यविशेषापेक्षा भवति तदितरत्रापि प्राग्द्रव्योपादानाद्भवत्येवापेक्षा किंगुणकं द्रव्यं गृह्णामीति । सर्वथा त्वेतावानत्र विशेषः । प्रज्ञानोत्तरकालमपि क्रियायां द्रव्यं व्यापार्यते । गुणस्तु प्रज्ञानान्न पृथग् द्रव्यव्यतिरेकेण व्याप्रियते । तावतैव चरितार्थत्वात् । न च तथा व्यापृतस्याव्यापृतत्वम् । अनेकप्रकारत्वाद्व्यापाराणाम् । परिच्छेदकाले त्वस्याधिकव्यापारत्वं विविच्यते । तथा हि ।

द्रव्येण साधनीयेयमिति ज्ञाता यदा क्रिया ।
कीदृशेनेत्यपेक्षाऽस्या गुणेऽप्युत्पद्यते तदा ॥

तेनात्र यदि तावद्वेद एव कंचिद्विशेषं दास्यति ततस्तेनेत्यवधारयिष्यते । यदि तु न दास्यति ततोऽर्थाक्षिप्त एव यः कश्चित्प्रमाणवान्भविष्यतीत्यवगमे सति विधीयमानस्यारुणादेरङ्गत्वं भवति । सर्वत्र च शब्दादचोदितेऽर्थे’अर्थाद्वा [( अ॰ १ पा॰ ४ अ॰ १४ सू॰ २५ )] कल्पनैकदेशत्वात्’ इत्येवमज्ञानसंशयव्युदास इष्टः । तदिहारुणत्वेन क्रियां साधयेदिति विस्पष्टे चोदिते शब्दान्तराणामध्याहारादीनामभावाद्यथा शक्नुयादित्युपबन्धे सति तत्साधनभूतं द्रव्यं परिच्छि न्दतेत्येतावदवधार्यते । कुतः ।

गुणानामेवमात्मत्वं सर्वत्र ह्यवधारितम् ।
नान्यथा निष्क्रियत्वाच्च विधेश्चैवमनुग्रहात् ॥

क्रयगतस्तावद्विधिस्तृतीयोपनीतं कथंचिदरुणिमानं न मुञ्चति । स च नान्येन प्रकारेण तदङ्गतां भजते । न चैकस्वरूपैव सर्वेषां साधनता । न च स्वसमवायिन्येव केवला चलनात्मिका वा क्रिया सर्वत्रेष्यते । न च प्रधानाक्रियायाः सर्वाण्येव साक्षात्साधनानि भवन्ति । अवान्तरव्यापाराधीनत्वात्संबन्धस्य । अरुणादीनां च योग्यत्वाद्द्रव्यपरिच्छेद एव स्वव्यापारो विज्ञायते । तत्रैषां कर्तृत्वादितरत्र करणत्वं भविष्यति । तेनारुणपदादेतावदवगतं किंचिद्द्रव्यं परिच्छिन्दताऽरुणगुणेन क्रयः साधयितव्य इति । तथैकहायन्याऽप्यन्यथा साधनत्वासंभवात्केनचिद्गुणेन मे परिच्छेदः कर्तव्य इत्येतावदपेक्ष्यते । तत्र गुणो यत्किंचिद्द्रव्यपरिच्छेद्यमाश्रयत्वेनापेक्षितुमारभते । द्रव्यमपि यं कंचिद्गुणम् । उभयापेक्षालक्षणश्च संबन्धः शीघ्रं निर्वर्त्यते । न च द्रव्यान्तरगुणान्तराणामत्र वाक्ये सापेक्षत्वं प्रतीयते । तेन नष्टाश्वदग्धरथवद्विनाऽपि षष्ठ्याऽनयोरेव संबन्धः । संनिहितातिक्रमकारणाभावादप्येवमेव विज्ञायते । किं च ।

क्रयश्चावगतद्रव्यगुणः34 प्राधान्यसंमतः ।
अनिच्छन्नश्रुतं कंचिद् गुणं द्रव्ये नियच्छति ॥

यन्नाम गुणोऽन्यथानुपपत्तेरश्रुतं द्रव्यमानयति तत्क्रयः श्रुतैकहायनीद्रव्यकत्वान्न प्रतीच्छति । तथैकहायनी यं गुणमश्रुतमानयति तमपि क्रय एव श्रुतारुणिमगुणत्वान्नेच्छति । यदि ह्यसावनियतद्रव्यगुणः स्यात्ततो यत्किंचिदप्यानीयमानं सहेत । निरपेक्षद्रव्यगुणविशेषसंबन्धे नैव यथाचोदितः क्रय उभयविशिष्टः क्रियते । अश्रुता च प्रधानस्य सत आवृत्तिरापद्येत । विकल्पे वा पुनर्विशिष्टविधिर्बाध्येत । प्रधानत्वादेव च गुणद्रव्याभ्यां द्रव्यान्तरगुणान्तराक्षेपं क्रयणं निरुणद्धि । कांस्यभोजिन्यायेन वाऽमुख्योऽप्यनियमं वारयेत् । किमुत मुख्य एव सन् । न वाऽश्रुतकल्पनया विनाऽनुपपत्तिः । श्रुतयोरेव परस्परसंबन्धेन परिपूर्णत्वात् । एवं च स्ववाक्यगतमपि सामानाधिकरण्यं समर्थितं भविष्यति । न चात्र श्रुतिविरोधः । यथा वक्ष्यति । ‘न श्रुतिर्ब्रूते वाक्यार्थो न’ इति । तथा हि ।

क्रयापेक्षित एवायं संबन्धः क्रियते पुनः ।
न चात्रानुगुणा वृत्तिर्दुर्बलाऽपि विरुध्यते ॥

क्रय एव हि द्रव्यं गृह्णन्नेवमपेक्षते को गुण एतत्परिच्छेत्स्यतीति । गुणमपि गृह्णन्नपेक्षते किं द्रव्यमेतस्याऽऽश्रयो भविष्यतीति । तेनैव तयोः क्रयवशेनान्योन्यानुगुण्यं प्रतिपद्यमानयोरपि न परस्पराङ्गाङ्गित्वं भवति । यस्तु मन्यते परिच्छेदकत्वाद्गुणस्य द्रव्याङ्गत्वं प्रतीयत इति । स वक्तव्यो गुणस्यापि क्रयमन्यथा साधयितुशमक्नुवतो द्रव्यमाश्रयत्वं प्रतिपद्यमानमङ्गमिति । तस्मात्क्रयाङ्गभूतयोरेव नान्तरीयकः परस्परोपकारो भवन्नङ्गत्वमापादयतीति द्रष्टव्यम् । यस्तु प्रकरणे निवेशं मन्यते तस्य केन गुणो विधीयत इति वक्तव्यम् । क्रयविधिना तावत्सह नैव संबन्ध इष्टः । प्रयोगवचनस्त्वक्रियात्मकं दूरादूपेक्षते । न चारुणपदस्यैवं विधिशक्तिरस्ति । यद्यपि कारकत्वेन द्रव्याणि प्रतीयन्ते तथाऽपि तत्पदान्यविधायकान्येव । येऽपि तत्संबन्धिक्रियाविषया विधयस्तेऽपि पर्यवसिताः संप्रति प्रतीयमाना अपि न विधातुं समर्थाः । न चैषां द्रव्यविशेषणेषु व्यापारः । तस्मान्न कथंचित्प्रकरणे निविशते । एकार्थास्तु विकल्पेरन्नित्यविशेषप्रतीतेः । अवान्तरव्यापारानेकार्थत्वमगृहीत्वा वदति—यद्येककार्यता किमिति विकल्पो न भवतीति । सिद्धान्तवादी त्वाह—नैतेनास्मत्प्रतिपक्षः कृत्स्नप्रकरणनिवेशः सिध्यति । क्रयसंबन्धो वा बाध्यते । तस्मात्सिद्धान्तान्तरदूषणत्वान्निग्रहस्थानमिति । न च विकल्पः, नानाकार्यत्वादिति—अवान्तरव्यापारभिप्रायेण । परस्तु प्रधानकार्यनानात्वमेवोक्तमिति मत्वाऽऽह—नन्विदानीमेवोक्तमिति । तच्चापि35 विरुद्धं यत्पूर्वमुक्तममूर्तत्वान्निष्क्रियो गुण इति । ननु पूर्वपक्षवादिना तदुक्तमिदानीं36 सिद्धान्तवादी न सक्रियत्वं ब्रवीतीति युक्तो विरोधोपन्यासः । उच्यते ।

संदेहः क्रियते सर्वः साधारणपदे स्थितः37
तत्र चामूर्ततोक्तेति सिद्धान्तेऽपि विरुध्यते ॥

अथवा पूर्वपक्षवादिना तद्धेतुत्वेनोक्तम्38 । हेतुश्चोभयसिद्धो भवति । यदि चायमसिद्धो भवेत्ततस्तदानीमेवोद्भाव्येत, यतस्तु नोद्भावितस्ततोऽभ्युपगतः । तथा सति चेदानीं सिद्धवदर्थैकत्वाभिधानात्सक्रियत्वमभिदधतो विप्रतिषिद्धमापद्यते । नैतद्विरुद्धम् । न च विकल्प इति । शक्तिभेदनिमित्तावान्तरव्यापारान्यत्वात् । तद्दर्शयति—द्रव्यं साक्षात्साधनं, गुणस्तत्परिच्छेदार्थ39 इति । परस्त्वेतावतैव तदेतरत्तदर्थमितिवद्रुणस्य द्रव्यार्थत्वं मन्यमान आह—यद्येवं न तर्हि गुणः क्रियामभिनिर्वर्तयतीति । नैतदेवमिति—द्वारमात्रत्वं तावद्द्रव्यस्य दर्शयति । परिहृते दोषद्वये वस्तुकृतमेकहायनीद्वारत्वमपश्यन्वाक्येनैव द्वारद्वारिसंबन्धकरणाद्वैरूप्यापत्तिं चोदयति—एवं तर्हीति । न ब्रूमोऽरुणाशब्द इति—सामर्थ्यकारितमेकहायनीसंबन्धं दर्शयति । नन्वेवमपि वाक्यं भिद्येतेति—नियमनिराकरणार्थमाह । सत्यपि क्रयसंबन्धे प्रतिकारकं क्रियान्यत्वादर्थभेदनिमित्तो वाक्यभेदोऽस्त्येवेति । तथा च लोकवेदयोर्दृष्टमित्युदाहरणद्वयम् । प्रत्येकं देवदत्तादिषु भोजनं, पितुः पितामहस्य वाऽसोमपत्वं व्रात्यपशोर्निमित्तत्वेनोच्यमानं साहित्याविवक्षया सिद्धम् । तत्र न पिबेदिति संबन्धः पशुयागसबन्धश्चोभयमप्युदाहरणम् । नैतदस्मत्पक्षस्य बाधकमिति—विकल्पपक्षवदेवासंबन्धोपन्यासः । परः पुनराह—सत्यमेष न दोष इति । क्रियाप्राधान्ये तु तद्वशीकृतविशेषणसमुदाये वाक्यपरिसमाप्तिः । गर्गशतदण्डनहोमाभिषवभक्षवदिति परिहारः । ननु दण्डस्य दण्ड्यसंस्कारत्वाद्भोजनादिवत्प्रतिगर्गमावृत्तिः प्राप्नोति । नैष दोषः ।

शारीरो निग्रहो यत्र तत्र प्रत्येकभिन्नता ।
हिरण्यादानदण्डस्तु समुदाये समाप्यते ॥

अपराधे निमित्ते हि शतसंख्याविशेषिता ।
तदनुष्ठात्रपादाना राज्ञां वृत्तिर्विधीयते ॥

यथैवाध्वर्य्वादीनां दक्षिणा परिक्रयार्था कर्मसंयोगात् । एवं राज्ञामप्यर्थदण्डो नैमित्तिकी परिपालनवृत्तिः । तां तां च प्रति तत्र तत्रापराधे निमित्ते शतादीन्युपादीयमानत्वाद्विवक्षितैकसंख्यानि भवन्ति । यश्चासावपराधो गर्गकृतः स एककर्तृकोऽनेककर्तृको वा राज्ञः शतादाननिमित्तं भवति । तत्काले चापराधिनामपादानत्वेनावस्थानात्समस्तगर्गापादानकं राज्ञा शतं ग्रहीतव्यमित्यगवते सति प्रत्येकं ग्रहणे सत्येकेन शतेनापराधनिष्क्रिये कृते शेषमश्रुतं ब्रह्मस्वहरणं स्यात्संख्यान्तरं च वृद्धावापद्येत40 । तस्मात्समुदाये वाक्यपरिसमाप्तिः । परः पुनरभिहितेऽपि हेतुविर्शेषे दृष्टान्तद्वयात्संदेहमुपन्यस्यति । क्रयस्य यागसाधनसोमप्राप्त्यर्थत्वेन भूतभव्यसमुच्चारणन्यायेन विधायकलाघवेन च प्राधान्याद् द्रव्यगुणयोश्च पूर्वहेतुविपर्ययेण विपरीतत्वादितर एकवाक्यत्वप्रतियोरपि नियमः सिध्यतीति नार्थ एकवाक्यत्वेनेति । सिद्धान्तवादी वदति । वाक्यभेदे सति उभयविशेषणविशिष्टक्रयप्रतीत्यभावाद्यथाश्रुतप्रत्येकसंबद्धक्रयानुष्ठाने सति गुणेनापि यत्किंचिद्द्रव्यं गृह्येत द्रव्येणापि यः कश्चिद्गुणः । न हि तदानीमन्योन्यासंनिधेरर्थाक्षेपप्रतिबन्धशक्तिरस्ति41 । न चैका क्रिया गुणद्रव्यवशीकारसमर्था स्यात् । अरुणगुणक्रयो ह्यनियतद्रव्यकत्वात्किमिति गुणोपस्थापितं यत्किंचिद्द्रव्यं न गृह्णीयात् । एकहायनीक्रयो वा यं कंचिद्गुणम् । अथापि वाक्यान्तरशिष्टानि क्रयद्रव्याण्येव गुण आस्कन्दति तथाऽपि तेषु वासःप्रभृतिषु दशस्वपि प्राप्नोति । तस्माद्विशिष्टैकक्रयसिद्ध्यर्थं वक्तव्यमेकवाक्यत्वम् । अतश्च नियम इति सिद्धम् ॥ १२ ॥

इति अरुणाधिकरणम् ॥ ६ ॥


  1. आकृत्यधिकरण इति शेषः । ↩︎

  2. नियोगतः—नियमेनेत्यर्थः । ↩︎

  3. गमकः—लक्षक इत्यर्थः । ↩︎

  4. सह—प्रकृत्यर्थेन सहेत्यर्थः । ↩︎

  5. तदुपदर्शनार्थमेवेति पठान्तरम् । ↩︎

  6. अनेन वैदिकशब्दानामेव विचारविषयतया लौकिकानां डित्थादिशब्दानां विचाराविषयत्वमुक्तं भवति । ↩︎

  7. स्वत इति—प्रतियोग्यनुयोगिभ्यां निरूपणीयस्येति पूर्वं शेषः । ↩︎

  8. संबन्धिद्वयविशिष्टं सबन्धमिति पूर्वं शेषः । ↩︎

  9. तेनैव—असंबद्धस्य विशेष्यव्यवच्छेदकत्वानुपपत्त्याख्यहेतुनैवेत्यर्थः । ↩︎

  10. संबन्धाक्षेपः—संबन्धप्रतीतिः । ↩︎

  11. अर्थात्—अर्थापत्तिप्रमाणादिति । ↩︎

  12. संबन्धी चासाविति पाठो युक्तः । ↩︎

  13. तच्च नेत्यत्र न चेति पाठान्तरं । ↩︎

  14. ( अ॰ १ पा॰ ४ अ॰ ५ सू॰ ८ ) ↩︎

  15. कथं पुनरिति—इतिकर्तव्यताकाङ्क्षात्मकेन प्रकरणेन गृह्यमाणमितिकर्तव्यतारूपमेव स्यात् । क्रियाया एव च करणानुग्राहकत्वरूपेतिकर्तव्यतात्वात्कथमक्रियारूपस्यारुणिम्नः प्रकरणेन विनियोग इति शङ्काशयः । ↩︎

  16. ग्राहकत्वेन—विनियोजकत्वेन । ↩︎

  17. ‘गुणवचनेभ्यो मतुपो लुगिष्टः’ इति वार्तिकादिति शेषः । ↩︎

  18. वचनमेव—अभिधानमेव । ↩︎

  19. येषां—नैयायिकानामित्यर्थः । ↩︎

  20. पैठराणां-पिठरपाकवादिनाम् । ↩︎

  21. पैलूकानां-पीलुशब्दवाच्यपरमाणुषु पाकवादिनो वैशेषिकास्तेषामित्यर्थः । ↩︎

  22. शक्तिकल्पनेति पाठान्तरम् । ↩︎

  23. पा॰ सू॰ ( ५-२-९५ ) ↩︎

  24. शुक्लादिरूपादिशब्दयोरिति शेषः । ↩︎

  25. तेन वैयधिकरण्येनाप्यन्वयो नोपपद्यत इति पूरणम् । ↩︎

  26. ‘सक्तून् जुहोति’ इत्यत्रेति शेषः ↩︎

  27. क्रियासम्बन्धविभक्तिः—कारकविभक्तिरित्यर्थः । ↩︎

  28. बाधित इति पा॰ । ↩︎

  29. याग इत्यत्र क्रय इति पाठ उचितः । ↩︎

  30. क्रीणातेः प्राक्, नवर्णस्य, अन्यथेति पदस्य वा पूर्वं शेषोऽपेक्षितः । ↩︎

  31. प्रकरणेन—इतिकर्तव्यताकाङ्क्षात्मकेनेत्यर्थः । ↩︎

  32. गुणानां—कारकाणामित्यर्थः । ↩︎

  33. यद्विना यन्नोपपद्यते तत्तस्य नान्तरीयकमित्युच्यते । ↩︎

  34. अवगतद्रव्यगुण—इति । अवगतौ द्रव्यगुणौ यस्येति विग्रहः । ↩︎

  35. तच्चापीति—विरुद्धोक्तिप्रसङ्गादन्यदपि विरुद्धमिति प्रदर्शयति । ↩︎

  36. तदुक्तं—निष्क्रियत्वं गुणस्योक्तमित्यर्थः । ↩︎

  37. स्थितैरिति पा॰ । ↩︎

  38. तद्धेतुत्त्वेनोक्तमिति—गुणस्य निष्क्रियत्वेऽमूर्तत्वं हेतुत्वेनोक्तमित्यर्थः । ↩︎

  39. तत्परिच्छेदार्थ इति—क्रियासाधनद्रव्यपरिच्छेदार्थ इत्यर्थः । ↩︎

  40. वृद्धाविति—अनेकशतग्रहणे शतं दण्ड्यन्तामित्यत्रैकवचनार्थाननुष्ठानाच्छ्रुतिविरोधापत्तेरिति यावत् । ↩︎

  41. तदानीं—वाक्यभेदपक्षे । ↩︎