पूर्वमालम्भस्य प्रत्युदाहरणमिदं तु चरुद्वारेण निर्वापस्य । देवताशङ्का चात्राभ्यन्तरेऽधिकेत्यारम्भः । तत्रौत्पत्तिकमेव चरुपुरोडाशादीनां यागाङ्गत्वम् । सर्वथा चैतस्याऽऽत्मीयत्वपरित्यागः1 कर्तव्यः । ‘चरुमुपदधाति’ इति च द्वितीयानिर्देशादुपधानं प्रतिपत्तिः । न चान्यत्रानुपयुक्तस्य प्रतिपत्तिर्युक्तेत्याकाङ्क्षिते योग्यत्वाद्यागोपयोगित्वमेव विज्ञायते । वाक्यशेषे च बृहस्पतिः श्रूयमाणो यदि विध्युद्देशेन न संबध्यते, आनर्थक्यमेव स्यात् । तस्मादाग्नेयप्रकृतिकं बार्हस्पत्यचरुयागं निर्वर्त्य शेषकार्यान्तराण्यकृत्वोपधातव्यश्चरुरित्येवं प्राप्तम् । एवं प्राप्ते ब्रूमः ।
चर्वादीनां स्वभावेन नैदमर्थ्यमवस्थितम् ।
यथाप्रमाणमेवैषां विनियोगोऽवगम्यते ॥
‘नैवारश्चरुर्भवति’ इति ह्युत्पन्नमात्रस्यैव प्रयोजनापेक्षायां सत्यां यागाङ्गभूताग्निधारणार्थस्थलनिर्वृत्तिशेषत्वेन प्रत्यक्षविधानं दृश्यते ‘ यदेनं चरुमुपदधाति ’ इति । तथा निराकाङ्क्षस्य च चरोः श्रुतेनापि कार्यान्तरेण संबन्धो न स्यात्किमुताश्रुतेनैव यागेन । न चेयं प्रतिपत्तिरिति प्रथमं प्रयोजनवत्त्वानवगमात् । अर्थकर्मण्यपि2 चोपधानं प्रति प्राधान्यमस्ति, तेनासंस्कृतस्थलं न निर्वर्तयतीति द्वितीयानिर्देशाविरोधः ।
त्रेधा च देवतायोगश्चरोरस्याऽऽनुमानिकः ।
नीवारस्थार्थवादस्थतद्धितादिविवर्जनात् ॥
नीवारसंबद्धः सन् बृहस्पतिश्चरावनुमातव्यः । तथा वाक्यशेषस्थो विध्युद्देशमनाकाङ्क्षितदेवतासंबन्धं नेतव्यः । तद्धितचतुर्थीमन्त्रवर्णादिभिश्च विना कथमपि देवतात्वं कल्पनीयम् । यागाद्यनुमानक्लेशश्च स्थित एव । तस्मादुपधानार्थत्वमेव युक्तमिति । येषां3 च ‘बार्हस्पत्यो भवति’ इति चरुसमानाधिकरणेन तद्धितेन वाक्यशेषे देवताश्रयणं तेषामपि प्रथममुपधानार्थत्वे विध्युद्देशात्सिद्धेऽनाकाङ्क्षितत्वाद्देवता विधातुमशक्येति वर्तमानापदेशानुरोधेन यादृशं वयमस्य बार्हस्पत्यत्वं वर्तमानं पश्यामस्तादृशमेवैतत्प्रशंसार्थं कीर्तितमित्यवगमाद्य एव शाखान्तरीयस्य वचनस्य ‘बृहस्पतेर्वा एतदन्नम्’ इत्येतस्यार्थः स एव [तै॰ स॰ ( ५-६-२ ) ।] ‘बार्हस्पत्यो भवति’ इत्यस्यापि तैत्तिरीयवचनस्य निश्चीयते, तस्मादेषोऽपि न यजिमद्वचन इति यावदुक्तत्वसिद्धिः ॥ १८ ॥
इति चरोरुपधानार्थताधिकरणम् ॥ ७ ॥
-
परित्याग इति-उत्पन्नस्य चरोर्विध्यानर्थक्यपरिहाराय स्वत्वत्यागः कर्तव्य इत्यर्थः । ↩︎
-
स्थण्डिलनिष्पत्यर्थस्योपधानकर्मणोऽर्थकर्मत्वेऽपि स्थण्डिलनिर्वर्तकत्वादुपधानं प्रति चरोः प्राधान्याद्द्वितीयोपपत्तिरित्याह—अर्थकर्मण्यपीति । वस्तुतस्तु-चरुसंस्कारकमेवोपधानम् । न चेयं प्रतिपत्तिः । प्रायणीयनिष्कासे उपयुक्तसंस्कारापेक्षयोपयोक्ष्यमाणसंस्कारबलीयस्त्वस्य स्थापितत्वात् । अतः संस्कारविध्यन्यथानुपपत्त्या ‘अध्वर्युं वृणीते इतिवच्चरोः सामर्थ्याद्यागाङ्गभूताग्निधारणार्थस्थण्डिलनिष्पत्त्यर्थतया विनियोगकल्पनाद्द्वितीया सूपपन्नैवेति । ↩︎
-
येषां चेति—अनेन च भाष्ये बार्हस्पत्या नीवारा इत्येवंविधवाक्यशे षग्रहणं, बार्हस्पत्यो भवतीति तैत्तिरीयवाक्यस्यापि शाखान्तरीयवाक्यसमानार्थकतया प्रशंसार्थत्वमेवे त्येवंविधतात्पर्येणेत्युक्तं भवति । ↩︎