पशोर्दुष्प्रतिपादनतरत्वात्पूर्वाभिधानम्1 । द्वौ चात्र शब्दौ समुदायानुवादत्वेनाऽऽशङ्क्येते पशुशब्दस्तदग्नीषोमसंबन्धानुमितश्च यजिः । ईदृशं ह्येतद्वाक्यं श्रुतानुमितैकदेशनिष्पन्नं यदग्नीषोमीयेण पशुना यजेतेति । तत्र किं हृदयादीनां पशुशब्दोऽनुवादोऽवद्यत्यनुमितानां यागानां च यजिः, उतापूर्वः पशुर्यागश्च विधीयते तत्रेतरे गुणविधय इति संदिह्यते । तथैन्द्रवायवादिवाक्यैर्द्रव्यदेवतासंबन्धानुमिता यागास्तद्गतश्च सोमरसः किं यजतिसोमशब्दाभ्यामनूद्यते किं वा द्रव्ययुक्तं कर्म विधीयत इति ।
किमवद्यतिगृह्णातिभ्यां चोदितानामिति । अनयोर्यागपर्यायत्वाभावात्तत्संबन्धानुमितानां तद्गताख्यातप्रत्ययविहितानां वेत्येतत्प्रदर्शनार्थं तद्भाष्यम् । आलभतिरपि च तदनुमितयज्युपलक्षणार्थः । अथ वाऽवद्यतौ नैव यागानुवाद इत्युपन्यस्यते, कथं तर्हि, तदाक्षिप्तस्य संस्पर्शनस्याऽऽलभतिरनुवादस्तद्द्वारेणैव च प्रत्यवदानं देवतासंयोगात्तावतां च यागानामनुमानमुत पशुसंयुक्त एको यागोऽनुमीयत इति । तथा सोमेऽप्ययमेव यागो यद्देवतोद्देशेन द्रव्यग्रहणमिति । तथा सति यथाश्रुतेनैव भाष्येण संदेहोपन्यासः । तत्र पौर्णमासीवदेव समुदायानुवादत्वम् । तथा हि ।
यथाऽऽग्नेयादिवाक्यानां न प्राग्यागानुमानतः ।
स्वार्थपर्यवसायित्वं तथा सोमेऽपि गम्यताम् ॥
न ह्यैन्द्रवायवमित्यादिद्रव्यदेवतासंयोगोऽननुमिते यागे निराकाङ्क्षी न भवति । न चापरिपूर्णं वाक्यं वाक्यान्तरमाकाङ्क्षति येनानुमानवेलायां ‘सोमेन यजेत’ इत्ययमनुप्रविशेत् । एतद्विहितस्य वा देवताविरहादरूपस्य सतस्तैर्देवता विधीयते । यदा तु तैः कल्पितो यजिस्तदा नैव यागस्य यागान्तरं रूपं भवतीति बलात्प्रकृतानुवादत्वमापद्यते । यश्चात्र पक्षे विशिष्टविध्याश्रयणदोषः स भवत्पक्षेऽप्यविशिष्टः सोमद्रव्यकयागविधानात् । अपि च तवेह चैन्द्रवायवादिवाक्येषु च । मत्पक्षे तु तेष्वेव केवलेष्विति विशेषः । किं च ।
यादृशं द्रव्यसंबद्धं भवान्कर्म विधित्सति ।
तादृशस्याविधेयत्वमनन्तरमुदाहृतम् ॥
एकत्रैवेदृशे गुणे श्रूयमाणे विधिशक्तिः संक्रामतीत्यग्निहोत्रेऽभिहितम् । अतो न कर्मानुवादबुद्धिरपैतीत्यनुवादत्वं यजेः । तत्र सोमशब्देन द्रव्यमेव गृह्णातिना सामान्याक्षिप्तं नियम्यते ।
अथवा ‘सोमं क्रीणाति’ ‘सोममभिषुणोति’ ‘सोमं पावयति’ इत्यादिभिः प्राकरणिकैर्गुणवाक्यैः सोमरसे कल्पिते गृह्णातिचोदनाः प्रवृत्ता इति ।
सोमो न विधीयते । ततश्च स्वाभाविककरणत्वयुक्तयागसामानाधिकरण्यात् [( अ. १ पा॰ ४ अ॰ ३ सू॰ ४ ) ।] ‘तत्प्रख्यं चान्यशास्त्रम्’ इति नामधेयी2 भवति । ननु ज्योतिष्टोम इत्यपरं नामधेयमस्त्येव । यदीदमप्यवगम्यते किं नो बाध्यते । तथा च याज्ञिकानां व्यवहारेषु3 नामद्वयमुपलभामहे । समस्तवाक्यानुवादस्य तु तदेव प्रयोजनं यत्प्रयोगवाक्यगतैकत्वोपजननं नाभ । तस्मादनुवदि इति । भवेदत्र द्रव्यदेवतासंयोगादेवम् । पशौ तु ‘वत्समालभेत’ इत्येतत्सदृशेन देवतारहितहृदयादिद्रव्यमात्रसंयोगिनाऽवद्यतिना कथं यागविधानं, कथं वा हृदयाद्यनुवादः पशुग्रहणेनेति वक्तव्यम् । उच्यते ।
यथैव पशुसामान्ये मन्त्राच्छागः प्रतीयते ।
तथैव हृदयादीनां ममासौ प्रकृतिर्मतः ॥
हृदयादिभिः प्रकृतिद्रव्येऽपेक्षिते मन्त्रवर्णाच्छागे लब्धे तदन्तर्गतं पशुत्वं तावदनूद्यते तत्र तु देवतायां विहितायां यागो विधीयतां नाम । अथवा [( अ॰ ८ पा॰ २ अ॰ २ सू॰ १३ ) ।] ‘सांनाय्यं वा तत्प्रभवत्वात्’ इत्यनेनैव न्यायेनायमवद्यतिः सारूप्यात्सांनाय्यावद्यतिप्रकृतिः । स च दर्शपूर्णमास यागद्रव्यसंस्कारार्थः प्रसिद्धः । तत्र यदि हृदयादीनि यागद्रव्याणि ततस्तत्संयोगभाञ्जि भवन्ति नान्यथा । तेन यथैव पूतीकानामभिषवसंबन्धे श्रूयमाणे तदर्हत्वान्यथाऽनुपपत्त्या यागसंगतिरश्रूयमाणाऽपि गम्यते, तथाऽत्रेत्युत्प्रेक्ष्यमाणे यागमनुमाय तदनुपपत्तेर्यागोऽप्यस्तीति गम्यते, तथाऽनुमितानां च प्रतिद्रव्यमवस्थितानां समुदायोऽनूद्यते । साधारणश्चायं तवाप्यानुमानिकयागाभ्युपगम इति नैतेनास्मत्पक्षदौर्बल्यम् । सोमयागैकत्वे तुल्यार्थानामिन्द्रवाय्वादीनां विकल्पे सति क्रमसमुच्चयदर्शनं नोपपद्यते । पश्य ।
यथैकबन्धनार्थत्वात्पलाशखदिरादयः ।
तत्संबन्धे विकल्पन्ते यागेऽस्मिन्देवतास्तथा ॥
मम तु भिन्नयागविषयत्वाद्देवतानां यागानां चादृष्टार्थानां युगपदेकशब्देन फले विधानादुपपत्स्यते । पशावपि ‘हृदथस्याग्रेऽवद्यत्यथ जिह्वाया’ इति क्रमदर्शनम् ‘एकादश वै पशोखदानानि’ इति च समुच्चयदर्शनं सदपि नोपात्तम् । एकयागत्वेऽपि समस्तपशु साधनत्वेन तदुपपत्तेः । न हि हृदयादिष्वसमुच्चीयमानेषूत्पत्तिवाक्यश्रुतेन समस्तेन पशुनेष्टं स्यात् । यन्मात्रं तत्र वचानान्तरवशेनापनेष्यते तन्मात्रव्यतिरिक्तेन सर्वेण यष्टव्यमिति न्यायः । सोमे तु नैवं समस्तचोदनोत्पत्तावस्तीत्युदाहिृयते । तस्मात्समुदायानुवादाविति प्राप्तेऽभिधीयते ॥
प्रकृतप्रत्यभिज्ञानं वाक्ये यत्रोपलक्ष्यते ।
तत्र स्यादनुवादत्वं न चात्रैवं प्रतीयते ॥
यदि पौर्णमासीवदशेषरूपप्रत्यभिज्ञानं भवेत्ततोऽनुवादः कल्प्येत । यदि वा यजिमात्रस्यानुवादत्वमिष्यते ततः परित्यक्तविशेषणोऽनुवाद इत्यवधार्येत । अत्र पुनः प्रकृता हृदयादिद्रव्यका रसद्रव्यकाश्च यागाः । इमौ च पशुसोमद्रव्यकौ, न चैवं सति प्रत्यभिज्ञानमस्तीत्यनुवादत्वासंभवः । तत्रैतत्स्यात्, विकारेषु प्रकृतिवदुपचारात्, हृदयादिष्वेव रसे च पशुसोमशब्दौ वर्त्स्येते इति तन्न । विना कारणेन लक्षणानाश्रयणात् । विस्पष्टे हि परशब्दसामानाधिकरण्ये सत्यनन्यथासंभवे च जघन्यवृत्तिः शब्दो भवति । न चैतदुभयमप्यस्ति । शक्यं हि मुख्यपशुसोमद्रव्यं यागान्तरं विधातुम् । न च प्रकृतेष्वनिविशमानावेतौ शब्दौ नोपपद्येते । तेन यद्यपि तावदवद्यतिगृह्णातिभ्यां चोदिता यागास्तथाऽपि कर्मान्तरत्वप्रसङ्गः । कस्मात्तेष्वेव यागेषु स्वद्रव्यप्रकृत्यपेक्षेषु पशुसोमौ न विधीयेते । तत्राऽऽह—श्रुत्या हि रस ऐन्द्रवायव इति ।
पशुस्तावद्देवताविधिपरत्वादनुत्पत्तिवाक्ये सति अशक्य एव विधातुमिति नैवोपन्यस्यते । सोमलताऽपि वाक्यविधेया श्रौतरसविरोधे सति न संबध्यते । कथं पुनरनुपात्तद्रव्यविशेषेष्वैन्द्रवायवादिविधिषु रसस्य श्रौतत्वम् । अधिकारलभ्यो ह्यसौ । ततश्च वाक्यप्राप्ता लतैव बलीयसी स्यात् । उच्यते ।
श्रुत्यैव द्रव्यसंबन्धो देवतातद्धितैः कृतः ।
अधिकारेण तस्यैव केवलेष्टा विशेष्यता ।
[( अ॰ २ पा. २ अ. ९ सू. २३ ) ।] गुणश्चापूर्वसंयोगे, इत्यत्राधिकरणे विस्तरेणाभिधास्यते, यथा तद्धितश्रुत्या वाक्यप्रकरणादिलभ्यस्य विशेषस्यैवास्य शब्दवाच्यस्य देवतासंबन्धे कृते कोऽसौ द्रव्यविशेष इत्यपेक्षायां वाक्यप्रकरणादिभिस्तदवाप्तिः केवला न तु तैरेव देवतासंबन्ध इति । किं च ।
उत्पत्तिवाक्यशिष्टश्च रसो वाक्यान्तराल्लता ।
प्रकृतापेक्षिणस्तेन दुर्बलैषाऽवगम्यते ॥
ततश्च गुणादपि ते भेदः प्राप्नोति । शक्यपरिहारं4 त्विदम् । कुतः ।
यथैवाष्टाकपालादौ श्रौतेऽपि सति वाक्यतः ।
व्रीह्यादयो विधीयन्ते तथा सोमो विधास्यते ॥
विधीयमानं हि दुर्बलं विरुद्धं बाध्यते नानुगुणम् । अनुगुणश्च सोमो रसस्य प्रकृत्यपेक्षिणस्तादर्थ्येन संबन्धात् । तद्यथाऽऽग्नेयोऽष्टाकपाल इति श्रुतिविहितेऽप्यष्टाकपाले सति व्रीहियवौ विधीयमानौ न विरुध्येते । पुरोडाशापेक्षितप्रकृतिरूपत्वात् । न हि व्रीहीन् गृह्णन्नष्टाकपालं न करोति । तेन चात्र न कर्मान्तरता । तथाऽत्र न सोमे गृह्यमाणे रसः परित्यक्त इत्यविरोधात्पूर्वत्रैव संभवन्न गुणो भेदकः स्यात् । अपि च सिद्धान्तेऽप्येतत्तुल्यमनभिषुतलतादानानभ्युपगमात् । तत्र यथा तव रसप्रकृतिर्लता भवति तथा पूर्वपक्षेऽपि भविष्यति । अपि च विरुद्धतरं तवाऽऽपद्यते । कथम् ।
उत्पत्तिवचनात्सिद्धा लता चेद्यागसाधनम् ।
न सा वाक्यान्तरैः पश्चाद्रसीभवितुमर्हति ॥
रसस्य प्रकृत्या विना निष्पत्त्यभावादाकाङ्क्षितः प्रकृतिसंबन्धो वाक्यान्तरेणापि क्रियमाणो न विरुध्येत । प्रकृतेस्त्वविकृताया एव सामर्थ्यादनपेक्षिता विकारापत्तिरुत्पत्तिवाक्यविरोधिनी न युक्ता वाक्यान्तरैः कर्तुम् । तस्माद्व्रीहियववाक्यमुद्रामुद्रितत्वादनुद्धाट्यैव गुणविधित्वं समुदायानुवादमात्रं निराकार्यं पशौ तन्मात्रेणापि सिद्धेः । सोमे तु व्रीहिवाक्यतुल्यत्वाशङ्कामधिकां निराकर्तुमुत्तरं सूत्रं प्रस्तोतव्यम् ।
अथ वा भङ्क्त्वैव पूर्वोपपत्तिमुत्तरयैव निर्णयः । पूर्वसूत्रेण5 वा पूर्वपक्षं परिगृह्योत्तरं तु सूत्रं तुशब्दस्थानचशब्दमुत्तरपक्षे योजयितव्यम् । कथं पुनर्द्रव्यसंयोगादित्यनेन पूर्वपक्षोऽभिधीयते । तदुच्यते । ‘हृदयस्याग्रेऽबद्यति’ ‘ऐन्द्रवायवं गृह्णाति’ इत्येताः किं दध्यादिवद्गुणार्थाः श्रुतयः । ततश्चोत्तरयोरुत्पत्तिचोदनार्थत्वम् । उतैता एव कर्मचोदना इति ॥ किं प्राप्तं नैताः पूर्ववद्नुणार्थाः पुनः श्रुतयः किं तूत्पत्तिचोदनाः । कथं, द्रव्यसंयोगात्—हृदयादिद्रव्यसंयोगात्तैरेव वाक्यैश्चोदना पशुसोमयोः । किं कारणं, इतरथा हि प्रकरणेन हृदयादिसंयोगो यागाङ्गत्वं प्रतिपद्येत, न चासौ तस्य गुणार्थेन संभवति, उत्पत्तिवाक्यशिष्टपशुलताविरोधात् । अथ वा पूर्वोक्तेन न्यायेनान्यत एव पशुसोमयोः सिद्धत्वादस्मिन्प्रकरणे पुनरनर्थको द्रव्यसंयोगस्त्वत्पक्षे भवेत् । मम तु सोमशब्दो नामधेयमग्नीषोमीयवाक्यं च देवताविधानार्थमिति न किंचिदनर्थकम् । तस्मादवद्यतिगृह्णातिसंयुक्तैव यागोत्पत्तिचोदना स्यात् ॥ १७ ॥
नैवैतौ समुदायानुवादौ [( अ. २ पा॰ २ अ॰ ४ सू॰ १० ) ।] ‘चोदना वाऽप्रकृतत्वात्’ इत्येतस्मादेव हेतोः । कथं प्रकृता न संभवन्ति । यतोऽवद्यतिगृह्णातयो न यागानां चोदकाः, किं तर्हि, संस्कारमात्रविधयः ।
तन्मात्रपर्यवसानात् । तन्मात्रपर्यवसायिनि वाक्ये निष्प्रमाणकत्वान्नाश्रुतयागकल्पनं शक्यम् । एवं हि स कल्प्यमानः कल्प्येत देवतोद्देशेन गृहीतं द्रव्यं न यावद्यागेन संबध्यते न तावत्तद्देवत्यं कृत्यं कृतं भवतीति । तत्र यदैवान्यथानुपपत्त्या यागं कल्पयितुमारभते तदैव संनिहितः प्रत्यक्षो यजिरविशेषात्सर्वान्द्रव्यदेवतासंयोगानुपपादयितुमुपतिष्ठन्यागान्तरकल्पनाप्रमाणं निरुणद्धि । तस्मिंश्चाप्रमिते कस्य समुदायानुवादो भविष्यति । यदुक्तमाग्नेयादिवन्नापरिकल्पिते यजौ वाक्यान्तरापेक्षेति । तत्र ब्रूमः ।
पुंव्यापारनियोगेन वाक्यं सर्वत्र पूर्यते ।
तदलाभे त्वपूर्णत्वं तल्लाभे वाक्यसंगतिः6 ॥
आग्नेयोऽष्टाकपालो भवतीति न यागादन्यः पुंव्यापारः प्रतीयत इति प्राक्तदनुमानादपरिपूर्णं वाक्यम् । इह त्वैन्द्रवायवं गृह्णातीति ग्रहणभावनायां पुरुषो नियुज्यते । तत्र प्रागपि यज्यनुमानादस्ति विधेर्विषय इति समाप्यते वाक्यम् । इदं त्वन्यत्, यत्ततः परमपि किंचिदपेक्ष्यते । सर्वमेव हि वाक्यं स्वार्थे पर्यवसिते अर्थान्तरापेक्षां न जहाति, न च तावता तदसमाप्तं भवति । या त्वसावपेक्षा सा वाक्यान्तरेण पूरयिष्यत इत्यवगमान्न वाक्यान्तरसंबन्धं न सहते । तेन यज्यनुमानवेलायां प्रतिवाक्यं ‘सोमेन यजेत’ इत्यस्योपस्थानं न विरुध्यते । ‘आग्नेयोऽष्टाकपालः’ इति तु भवतेरपुरुषव्यापारात्मकत्वात्प्राग्यजेर्न किंचिद्विहितं न किंचित्प्रतिषिद्धमित्यसमाप्ते वाक्ये वाक्यान्तरे चानपेक्षिते यजिरनुमीयमानो न वाक्यान्तरगतः संबध्यत इति वैषम्यम् । अथ यदुक्तमुत्पत्तिशिष्टयोः पशुसोमयोर्न वाक्यान्तरगता विकारापत्तिर्युक्तेति । तत्र ब्रूमः ।
द्रव्येणात्यन्तभिन्नेन सह चिन्त्यं बलाबलम् ।
हृदयादिरसद्वारमङ्गत्वं पशुसोमयोः ॥
यद्यत्रौत्पत्तिकौ पशुसोमौ परित्यज्यात्यन्तव्यतिरिक्तं किंचिद् द्रव्यं विधीयते ततो विरोधः स्यादिह तु पशुनैव हृदयादिद्वारेण यागः साध्यते । सोमेन च रसद्वारेण । न चेतिकर्तव्यतासंबन्धे कश्चिद्विरोधः । पशुसोमौ हि यागसाधनत्वेन चोद्यमानावितिकर्तव्यतामाकाङ्क्षतः । तत्र च रसहृदयादिनिष्पत्तिद्वारेणेत्येवं कथंभावः पूर्यते, तेनानुग्राहकत्वान्न तत्कल्पने विरोधापत्तिः । यत्तु प्राकरणिकैः क्रयादिवाक्यैरेव प्राप्तत्वादिह द्रव्यसंयोगोऽनर्थक इति । तत्रापि अचोदकाश्च संस्कारा इत्येवोत्तरम् । न हि ते विधयः सोमस्य पशोर्वा चोदकाः, किं तर्हि तयोरेव संस्कारकाः ।
तेन चोदितस्य द्रव्यस्य यथाकथंचिदुपादानेन यागसाधनत्वे प्रसक्ते क्रयोपात्तेनैवाभिषवादिसंस्कृतेन च साधयितव्यमिति विधीयते । न च मन्त्रवर्णस्यात्यन्ताविहितच्छागप्रापणसामर्थ्यं, पशुचोदनाविहितस्य तु संदेहापनयनमात्रमुपयुज्यते । न चावद्यतिरेकान्तेन यागमनुमापयति । विनाऽपि तेनं खण्डनमात्रतया लोके वेदे चोपपत्तेः । द्रव्यदेवतासंयोगस्तु न कथंचिद्यागाद्विना सिध्यतीत्यनुमानवैषम्यम् । न च सांनाय्यावद्यतिः प्रकृतौ चोदितोऽर्थगृहीतत्वाद्यतस्तद्धर्मप्राप्तिरपि7 स्यात् । न चास्य यागद्रव्यार्थत्वमितिकर्तव्यता, येन तदतिदिश्येत । न चेदृशेऽर्थे सामान्यतो दृष्टं प्रक्रमते । पूतिकाभिषवफलचमसभक्षयोस्तु वाक्यप्रकरणाभ्यां तादात्म्यविज्ञानमित्यसमानता । सोमवाक्येऽपि विशिष्टविधौ प्रत्यक्षोपात्ते सत्यानुमानिकासंभवादेवातुल्यत्वम् । न चैन्द्रवायवादिवाक्येऽप्यष्टाकपालादिवाक्येष्विव गुणवाक्यत्वेऽपि वाक्यभेदः । कुतः ।
विधेयानेकभावेऽपि देवताग्रहणात्मना8 ।
क्रियान्तरप्रसादेन विशिष्टविधिसंभवः ॥
शक्यते हीन्द्रवाय्वादिविशिष्टग्रहणभावनाविधिराश्रयितुम् । अर्थप्राप्रे वा ग्रहणे समासोपात्तैकदेवताविधानमात्रमविरुद्धम् । प्रकरणलभ्यश्च प्रधानसंबन्ध इति गुणवाक्यत्वेऽप्यदोषः । तस्मादेषां संस्कारत्वादन्यतो यागमपेक्षमाणानामविरुद्धोऽन्येन यागविधिः । एवं च सति ज्योतिष्टोमेनेत्येकवचनं मुख्यमेव भवति । न च सोमशब्दः क्लेशेनानर्थकं द्वितीयनामत्वं प्रतिपत्स्यते । न चाऽऽघाराग्निहोत्रपूर्वपक्षसदृशः समस्तवाक्यानुवादोऽनर्थक आश्रितो भविष्यति । तेन चोदना पशुसोमयोरिति सिद्धम् ॥ १८ ॥
क्रमसमुच्चययोः पशावपरिचोदितत्वाद्वृत्ता कथा [( अ॰ १॰ पा॰ ७ अ॰ १ सू॰ १ ) ।] ‘पशोरेकहविष्ट्वम्’ इत्यत्रोद्भविष्यति किं समस्तादवदातव्यमुत प्रत्यङ्गमुतैकस्मादथवा हृदयादिभ्यः परिगणितेभ्य इति । सोमे तु परिचोदनापरिहारोऽभिधीयते ।
वाक्येन यदि यागस्य श्रूयेरन् देवताः पृथक् ।
व्यकल्पिष्यन्त सर्वास्तु युगपद्यागसंगताः ॥
यत्र वाक्येन संबन्धो निरपेक्षेण चोद्यते ।
तत्र तुल्यार्थवर्तित्वान्नोपपन्नः समुच्चयः ॥
यद्यैन्द्रवायवेन यजेत, इन्द्रवायुभ्यां वा यागं निर्वर्तयेदिति श्रूयेत ततोऽन्योन्यनिरपेक्षैर्वाक्यैस्तुल्यार्थत्वेन ज्ञायमाना विकल्पभाजो भवेयुः; इमाः पुनर्ग्रहणसंबद्धाः श्रुताः, प्रकरणेन यागसंबन्धं प्रतिपद्यन्ते । न च प्रकरणव्यापारः पर्यायो येनान्योन्यनिरपेक्षाः संबध्येरन् । सर्वग्रहणेषु हि युगपदितिकर्तव्यतात्वेन गृहीतेषु तद्गता देवतास्तन्मात्रेणापर्यवस्यन्त्यः प्रकरणिना यागेनाऽऽकाङ्क्षिता युगपदेव संबध्यन्ते । तत्र नाम विकल्पो युज्यते यत्रेतरेतरनिरपेक्षाः समानार्थे नियुज्यन्ते । किं कारणम् ।
प्रत्येकं हि समर्थत्वं वाक्यादेवावधारितम् ।
सापेक्षत्वे विपद्येतेत्येवं सर्वं विकल्पते ॥
न त्विह प्रत्त्येकं ज्योतिष्टोमनिर्वर्तनसामर्थ्यमिन्द्रवाय्वादीनामवगम्यते, तादृग्विनियोजकाभावात् । सत्यपि च प्रत्येकं यागनिर्वर्तनसामर्थ्ये तद्विशेषज्योतिष्टोमनिर्वृत्तिर्यथावचनं विज्ञायत इति नैव प्रत्येकं तुल्यार्थत्वम् । प्रत्येकं तुल्यार्थाश्च व्रीहियवादयो विकल्पन्ते । वाक्यसंयोगिनो हि ते परस्परनिरपेक्षाः स्वेन स्वेन वाक्येन विनियुज्यन्ते । ननु ‘ऐन्द्रवायवं गृह्णाति’ इति वाक्यमेव विनियोजकमुपलभ्यते । अतश्च ‘मैत्रावरुणम्’ इत्येतस्य पूर्वनिरपेक्षमेव देवताविधिसामर्थ्यं विज्ञायते । सत्यम् । ग्रहणं प्रत्यन्योन्यनिरपेक्षा विधीयन्ते न तु तत्रैकार्थत्वमदृष्टार्थत्वात् । कथमदृष्टार्थत्वमिति चेत् । उच्यते ।
पूर्वं प्रधानसंबद्धं संस्कारे श्रूयते यदि ।
तद्दृष्टार्थं विना तेन यदि वाऽसौ न सिध्यति ॥
यदि हि प्रथमं यागेन संबद्धाः सत्यो देवता निर्वापावाहनादिष्विव ग्रहणेषु पुनः श्रूयेरन् यदि वा ताभिर्विना ग्रहणमेव न निर्वर्तेते ततस्तत्र श्रवणं दृष्टार्थमनागतस्मृतिरूपेण कल्पेत । न त्विन्द्रवाय्वादयः प्रथमं ज्योतिष्टोमे श्रुताः । नापि तदभावेन ग्रहणं सिध्यति । तत्रैवं च सत्यपि यद्देवतायुक्तं ग्रहणं कर्तव्यमिति श्रूयते तत्रादृष्टादृते न किंचित्प्रयोजनमस्ति । ननु च यागस्यैता देवता भविष्यन्तीति ज्ञात्वा विनाऽपि प्रथमविनियोगेन तद्विषयस्मृत्यर्थत्वं विज्ञायते । नैतदस्ति । कुतः ।
सर्वेण विधिवेलायां प्रयोजनमपेक्ष्यते ।
तद्वेलायामतः कल्प्यो दृष्टादृष्टार्थनिर्णयः ॥
‘ऐन्द्रवायवं गृह्णाति’ इत्येतद्वाक्यप्रवृत्तिकाले किं प्रयोजनमित्यपेक्षा भवति । तत्र यद्यपि प्रकरणवशादितिकर्तव्यतात्मकस्य ग्रहणस्य यागसंबन्धः कथमपि भवतीत्यवधार्यते तथाऽपि देवतानामन्यसंयुक्तत्वादक्रियारूपत्वाच्च न प्रकरणेन यागार्थत्वं विज्ञायत इत्यवश्यं यागसंबन्धनिरपेक्षं तावद्ग्रहणं प्रति प्रयोजनं कल्प्यमित्यदृष्टकल्पनमापद्यते । तस्मिंस्तु शास्त्रवेलायामवधारिते यद्यनुष्ठानकाले दृष्टमप्यनुनिष्पादि भवति केन तन्निवार्यते । न तु तेन शास्त्रप्रवृत्तिः प्रतिबध्यते । तेन प्रतिवाक्यं देवतासंयोगानामदृष्टार्थत्वात्समुच्चयः । तत्र ‘न च यत्समित्संबन्धेन क्रियते तत् तनूनपात्संबन्धेन’ इत्यनेन न्यायेन9 भेदेन श्रुता देवता ग्रहणसंबद्धा नोपपद्यते यदि ग्रहणं नाऽऽवर्तते इति प्रतिदेवतं सोमो ग्रहीतव्यः । एष तावत्सूत्रार्थः । तद्भेदात्—देवतासंयोगभेदाद्, ग्रहणकर्मणोऽभ्यासो देवतासंयुक्तग्रहणसंस्कार्यद्रव्यपृथक्त्वादनर्थकं हि—संयोगान्तरश्रवणमननुष्ठीयमानमनर्थकं स्यात् । तेन ग्रहणस्य भेदः संस्कार्यं द्रव्यं प्रति गुणभावात् । एतद्देवतावन्ति ग्रहणानि यागप्रक्रमात्मकत्वान्न यागादृते देवतार्थं द्रव्यं संस्कर्तुं शक्नुवन्तीत्येवमपेक्षिते भविष्यति कश्चिद्यागो य एतानि द्रव्याणि देवतासंबन्धमापादयिष्यतीति । यागोऽपि चाविहितदेवताकः श्रुतिलिङ्गवाक्यैर्देवतामलभमानः प्रकरणस्य चेदृशे वस्तुन्यक्रियात्मके व्यापाराभावाद्ग्रहणेषु तावद्विनियोजकं भवति । तानि चापर्यायविधानाद्भिन्नादृष्टसंबन्धित्वाच्च युगपद्गृह्यन्ते तद्वशेन देवतानामपि समुच्चयसिद्धिः । ननु प्रकरणगृहीतानामप्येकार्थानां पुरोडाशविभागमन्त्रप्रभृतीनामिष्यत एव विकल्पः, सत्यमिष्टो न तु तत्र प्रकरणं केवलं व्याप्रियते । लिङ्गानुमितया श्रुत्या प्रत्येकं विभागाङ्गत्वे विज्ञाते दर्शपूर्णमासविभागार्थत्वमात्रं प्रकरणाद्भवति विभागान्तरेऽप्यानर्थक्यात् । तत्र यद्यपि दर्शपूर्णमासौ समुच्चयेन गृह्णीतस्तथाऽपि न विभागद्वारनिरपेक्षयोः सामर्थ्यमस्ति । यच्च द्वारं तद्विकल्पेनावरुद्धं न समुच्चयगम्यम्, इह पुनर्विपरीतमेतत् । यान्येब हि द्वाराणि ग्रहणानि तेष्वेव देवताः समुच्चिताः । तत्र प्रत्येकं ग्रहणयोग्योऽपि द्वारसमर्पणवशेन प्रवर्तमानः किमिदानीं करिष्यति । ननु ग्रहणानामपि प्रत्येकं द्रव्यप्रकल्पनरूपेण देवतासमर्पणेन च प्रधानोपकारसामर्थ्यमस्तीति विभागमन्त्रवद्विकल्पेन भवितव्यम् । भवेदेवं यदि पूर्वं नानादेवतो यागोऽवगतः स्यात् । ततस्तदर्थोऽयं द्रव्यप्रकल्पनभेद इत्यवगम्यते, न त्वसावेवमवगत इति प्रकल्पनभेदाम्नानमदृष्टार्थं विज्ञायते । अवश्यं च गुणात्प्रकल्पनानि भेत्तव्यानि । न ह्येकस्मिन्प्रकल्पने युगपत्पर्यायेण वा देवताः संकल्पयिंतु शक्यन्ते । यौगपद्यं तावत्क्रमवर्तिन्या वाचा नैव शक्यम्, अदेवताभूत एव समुदायः संकल्पितः स्यात् । न हीन्द्रवाय्वादिसमुदाये देवतात्वं केन चिदुक्तम्, प्रतिपदोत्पन्नैस्तद्धितैः प्रत्येकं प्रतीयमानत्वात् । न च क्रमेणोद्देशः । कथम् ।
द्रव्यस्य गृह्यमाणस्य देवतोद्देशचोदना ।
न चैकां देवतां मुक्त्वा तदुद्देशस्य संभवः ॥
यदि तु प्रागूर्ध्वं वा ग्रहणादुद्दिशेदचोदितमेव कुर्यात् । किं च ।
एतस्या इति संकल्प उद्देशोऽत्राभिधीयते ।
अन्यस्मिन्क्रियमाणे च पूर्वस्तत्र विपद्यते ॥
यद्द्रव्यमिन्द्रवायुभ्यां दातव्यमिति संकल्पितं तस्य त्यक्तप्रायत्वादनीशो यजमानः कथमिव वक्ष्यति मित्रावरुणाभ्यामेतदेवेति । तत्रैकामुद्दिश्य देवतान्तरसंकल्पे क्रियमाणे पूर्वदेवतातस्तद्द्रव्यमाच्छिन्नं स्यात् । पूर्वसंकल्पालोचनेन बा नैवोत्तरः पारमार्थिकत्वं प्रतिपद्यत इत्यसत्संव्यवहारमात्रमेवानुष्ठीयेत न चोदनार्थः । तेनावश्यं यावद्देवतं ग्रहणभेदः कर्तव्यः । किं च ।
शक्यते चागृहीतेऽपि यत्र क्वचिदवस्थिते ।
द्रव्येऽस्मिन्देवतोद्देष्टुमित्यदृष्टार्थता विधेः ॥
देवतोद्देशस्वत्वत्यागात्मको हि यागः । शक्यते च पूयमानावस्थेनापि सोमेन क्रयोत्तरकालं वा सर्वावस्थावियुक्तेनापि निर्वर्तयितुमित्यशेषोत्तरसंस्कारविधानमदृष्टार्थम् । यत्र तु पुरोडाशादि द्रव्यं चोद्यते तत्र यावदवहन्त्यादिविधानं तत्सर्वं तन्निष्पत्त्यर्थत्वाद्दृष्टार्थं भवति । न च ग्रहचमसस्थेन सोमेन यष्टव्यमित्युत्पतिचोदना, लतामात्रपर्यवसानात् । तेनाऽत्मीयादृष्टभेदनिर्वृत्त्यर्थमपि ग्रहणानि समुच्चेतव्यानि ‘दशमुष्टीर्मिमीते’ इति च प्रकरणे परिमाणं श्रुतम् । अतः ‘सोमेन यजेत’ इत्येतद्वचनमेव विशेष्यते दशमुष्टिना सोमेन यजेतेति । स च नियतपरिमाणेनोदकेनाभिषुतोऽल्पपरिमाणेषु भिन्नेषु ग्रहचमसेषु न ग्रहणभेदमन्तरेण शक्यते ग्रहीतुमिति भेदेन गृह्यते । तथावस्थेन च यागो निर्वर्तयितव्यः । सोऽप्यनभ्यस्तस्तथाऽवस्थितं न शक्नोति सर्वं संभावयितुमिति प्रयोजनवशेनाभ्यस्यते, तेन तत्रापि सूत्रम् । तद्भेदात्—प्रकल्पितसोमभेदाद्यागकर्मणोऽभ्यासः, स्वीकृतद्रव्यपृथक्त्वादशेषमत्यज्यमानमनर्थकं स्यात् । अत उत्पत्तौ सकृच्छ्रुतस्यापि वाक्यान्तरप्रकल्पितावस्थौत्पत्तिकद्रव्यगुणत्ववशेनानुष्ठानभेदः । तद्धि द्रव्यमवश्यं यथागृहीतमेव दातव्यम् । पुनरेकीकरणे पूर्वकृतग्रहणभेदवैयर्थ्यप्रसङ्गात् । न च यथासंकल्पिताः स्वैर्भागैर्देवताः संबध्येरन् । न च त्यागकाले मर्वाः संकल्पयितुं शक्यन्ते, येनाभ्यासभीतैः सर्वोद्देशेन सकृदेव सर्वं द्रव्यं मिश्रीकृतं दीयेत । तथा कृतेऽपि च भागसंकरः प्राप्नोत्येव । प्रकल्पिते च मागनानात्वे वचनादृतेऽवश्यं परिहार्या संकरापत्तिः । तस्माद्यथासंकल्पितस्य प्रदानात्सर्वदेवतासमुच्चये सत्युपपन्नमेतत ‘दशैतानध्वर्युः प्रातः सवने ग्रहान्गृह्णाति’ ‘आश्विनो दशमो गृह्यते’ ‘तं तृतीयं जुहोति’ इति । तेन सिद्धमेककर्मत्वम् । प्रयोजनं पूर्वपक्षे सोमविकारेष्वेकस्यैव ग्रहस्य धर्मैः सकृदनुष्ठानेन भवितव्यम् । सिद्धान्ते तु प्रकृतितुल्यमेवानुष्ठानमिति10 ॥ १९ ॥ २० ॥
इति पशुसोमाधिकरणम् ॥ ६ ॥
-
‘आधाराग्निहोत्रमरूपत्वात्’ इति सूत्रे तयोरङ्गाङ्गिभावाभावेन, अभ्यर्हितं पूर्वं निपततीत्यस्याविषयत्वादल्पाच्तरत्वेनाऽऽघारशब्दस्य पूर्वनिपातो युक्तः । अस्मिंस्तु सूत्रे सोमस्य प्राधान्येनाभ्यर्हितत्वात्पशोः पूर्वाभिधानमयुक्तमाशङ्क्य न्यायप्रधाने चास्मिन् शास्त्रे न्यायव्युत्पादनादरविषयस्यैवाभ्यर्हितत्वात् पशुवाक्ये च पूर्वपक्षस्यातिक्लिष्टत्वेन न्यायव्युत्पादनादरविषयत्वांत्पशोः पूर्वनिपातो युक्त इति समादधाति—पशोरित्यादिना । ↩︎
-
द्रव्ये रूढत्वात्सोमशब्दो यागनामत्वेनानवभासमानोऽपि यागनामधेयमानर्थक्यपरिहारार्थमङ्गीकार्यमिति च्विप्रत्यनेन सूच्यते । ↩︎
-
स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपुर्णमासौ चातुर्मास्यानि पशु सोमः । को यज्ञः अग्निष्टोमो ज्योतिष्ठोम इत्यादिव्यवहारोष्वित्यर्थः । ↩︎
-
प्रकृतेषु यागेषु श्रौतरसविरोधाल्लतायाः प्रदेयतया विध्ययोगेऽपि व्रीह्यादिवत्प्रदेयप्रकृतितया विध्युपपत्तेः । श्रुत्या हि रस इत्यादिना भाष्येणोक्तं दूषणं शक्यपरिहारमित्येवं परिहारप्रकारमुपन्यस्यति—शक्यमित्यादिना । ↩︎
-
द्रव्यसंयोगादित्यस्य पूर्वपक्षपरत्वेऽयमर्थः । हृदयादिवाक्यं—गृहणातिवाक्यं च कर्मचोदना प्रत्येतव्या । अन्यत्रासंभवन्निवेशस्य हृदयरसादिद्रव्यस्य संयोगात् । तथा हि । पशुसोमवाक्ययोरुत्पत्तिचोदनात्वे हि प्रकरणे—प्रकरणसापेक्षावद्यतिगृह्णातिवाक्येषु द्रव्यसंयोगो—हृदयरसादिद्रव्यसंस्कारो विधीयमानो न यागाङ्गत्वं प्रतिपद्यते; उत्पत्तिशिष्टपशुसोमावरोधेन हृदयादीनां साधनत्वानुपपत्तेः । न हि तस्य, उत्पत्तिशिष्टद्रव्यस्यावदानग्रहणादि संस्कारकं भवति नाशकत्वादिति । भाष्यकारमतरीत्या सिद्धान्तपरत्वे त्वेवं सूत्रयोजना—पशुसोमरूपापूर्वद्रव्यसंयोगात्पशुसोमवाक्ययोरेव कर्मचोदना, यतः, द्रव्यसंयोगः—पशुशब्दः सोमशब्दश्च, प्रकरणे ह्यनर्थकः—प्रकृते हृदयादावनर्थको लक्षणाप्रसङ्गात् । न हि हृदयादिवाक्यविहितयाग एव प्रदेयप्रकृतित्वेन पशुसोमविधिः संभवति । पशुवाक्ये तावत् प्राप्तकर्मानुवादेन देवताविधिः प्रकृतिविधिश्चेति वाक्यभेदात् । सोमवाक्ये तूत्तरसूत्रे वक्ष्यत इति । ↩︎
-
परिसमाप्तिरित्यर्थः । ↩︎
-
प्रकृतौ सांनाय्यावदानस्य ‘चतुरवत्तं जुहोति’ इति विध्याक्षिप्तत्वेनाविधयेत्वादविधयेस्य च प्रकृतित्वाङ्गग्राहकत्वयोरसंभवान्न ततो धर्मातिदेशः संभवतीत्यभिप्रायः । ↩︎
-
देवता, ग्रहणं चेत्येवंरूपेण विधेयानेकत्वेऽपि प्रकरणलभ्ययागाख्यक्रियान्तरप्रसादेन ग्रहणकालिकोच्चारणकर्मत्वसंबन्धेन देवताविशिष्ट ग्रहणविधिसंभवान्न वाक्यभेद इति श्लोकार्थः । ↩︎
-
अभ्यासाधिकरणे भाष्यकारोक्तन्यायेनेत्यर्थः । ↩︎
-
विकल्पे पूर्वपक्ष्युपन्यस्तखादिरादिदृष्टान्तवैषम्यप्रदर्शनार्थम् ( ‘संस्कारस्तु न भिद्येत’ ) इत्येतत्सूत्रस्थं भाष्यं स्पष्टार्थत्वान्न व्याख्यातम् । ↩︎