05 आधाराग्निहोत्राधिकरणम्

ऊर्ध्वमाघारयति तण्डुलैर्जुहोतीत्यादिभिरेवंभूता एवाऽऽवारा होमाश्च विहिता विपरिवर्त्तन्ते । न हि ‘विष्णुरुपांशु यष्टव्य’ इत्यादिवद्द्रव्यप्राधान्येन यागहोमभावनयोरभिभवः । किं च ।

न चैषामेकवाक्यत्वं न च स्तुतिपरा श्रुतिः ।
ऐकान्तिको विधिस्तेन गुणवत्कर्मगोचरः ॥

नोपांशुयाजवाक्यवदेषामेकवाक्यत्वभिष्टं, न च स्तुत्यर्थता, तेनोभयपक्षे निश्चिते विधित्वे गुणमात्रं विधीयतां तद्युक्तं वा कर्मेति कर्मविधानं युक्तम् । कुतः ।

विधित्वं प्रत्ययोपात्तं न नामपदमृच्छति ।
तद्विधिर्भावनातश्चेत्सैव पूर्व विधीयताम् ॥

न तावद्दध्यादिशब्दैः स्वयं विधित्वमभिधीयते । न च प्रत्ययोपात्तं सद्भावनाधात्वर्थव्यतिरेकेण स्वतन्त्रैर्दध्यादिभिः संबध्यते । न हि भवति दध्ना यादिति1 । किं तर्हि दध्ना कुर्यादिति संबध्यते । होमं वाऽनेन कुर्यादिति । सस्माद्यत्प्रसादेन दध्यादेः कर्त्तव्यता तावेव भावनाधात्वर्थौ न विधीयेते इति कुत एतत् । न हि तद्विध्यनपेक्षं कथं चिदपि गुणविधानं शक्यं दर्शयितुं, यदैव हि दर्शयितुमुपक्रम्यते तदैव पूर्वतरं भावनाधात्वर्थविधिर्बलादापद्यते । तस्माद्धोमदध्यादिविशिष्टभावनैव विधीयते । ततश्च तासां रूपवतीनां प्रचयशिष्टः2 समुदायोऽस्तीत्यग्निहोत्रं जुहोतीति तदनुवादो विज्ञायते । निमित्तफलचोदनयोश्च एकत्वोपजनः समुदायानुवादे प्रयोजनम् । एवं च सति दध्यादेर्मिन्नकर्मविषयत्वादन्याय्यो विकल्पो न प्रसज्यते । तथोर्ध्वमाघारयतीत्यादिषु यद्यपि द्रव्यदेवतं न श्रूयते तथाऽप्युपांशुत्वन्यायेन व्यवच्छेदकारणत्वादूर्ध्वत्वादिभिरेव रूपवत्तायां कल्पितायामाघारमाघारयतीत्यरूपः सन् स्वार्थे विनियोक्तुमशक्नुवन्ननुवादो भवति । तस्यापि प्रयोजनं ‘इन्द्रऊर्ध्वो अध्वर’ इति मन्त्रविनियोगे, ‘तस्याऽऽघारमाघार्य’3 इति च द्रव्यविधावेकत्वसिद्धिः ॥ १३ ॥

अपि च ।

विशेषप्रतिपत्यर्यं संज्ञा सर्वा प्रवर्त्तते ।
यदा तदा विशेषोऽसौ कोऽस्येति न निरूप्यते ॥

सामान्यं स्यादिदं ज्ञेयं ज्ञातत्वान्न क्रियान्तरम् ।
तदज्ञेयतया नात्र विधानमवकल्पते ॥

क्रियाश्चाकारकत्वेन युज्यन्ते त द्वितीयया ।
ताभिस्तु साध्यमानत्वात्समुदायस्य कर्मता ॥

आधारमग्निहोत्रमिति द्वितीयानिर्देशः क्रियेप्सितस्य कारकस्य युज्यते । न च जुहोत्याधारयतिभ्यामात्मैवाप्तुमिष्यते । स्वात्मनि क्रियाविरोधात् समुदायः पुनर्निष्कृष्य शब्देनार्थान्तरात्मनोच्यमानः शक्यः साध्यत्वेनाभिधातुं यथौदनपाकं पचतीति विशेषः सामान्येनेप्सिततमः कर्मत्वेनोच्यते । ननु च समुदायस्य समुदायिभ्योऽव्यतिरेकान्न कथं चित्साध्यत्वमवसीयत इत्ययुक्तमेव कर्मत्वम् । न । अवयवक्रियाप्रचयसाध्यत्वात्समुदायस्य । समस्ताभ्यो हि समुदायस्याव्यतिरेकादेवमुपादानं न स्यात्प्रत्येकरूपात्तु समस्तरूपमर्थान्तरमिष्टं, न च प्रत्येकरूपैर्विना समस्तरूपनिष्पत्तिरित्युपपन्नमीप्सिततमत्वम् । ननु चैवमादयः समुदायिवचनत्वेनावधारिता इति समुदायिनां स्वात्मनि क्रियाविरोधस्तदवस्थ एव स्यात् । नैष दोषः । समुदायिवचनेनापि प्रातिपदिकेन समुदायोऽपि लक्षणया गम्यते । ततश्चैकत्ववत्कर्मत्वं समुदायस्य प्रत्येष्यते । न च सामान्यविशेषभेदेनापि भवतः क्रियात्वकर्मत्वे पाकवत्संभवतः । सामान्यविशेषशब्दयोर्भेदेनानुपादानात् । एतच्च पौर्णमासीमित्यत्रापि सिद्धान्ते योज्यम् । तस्मात्तद्वदेव समुदायानुवादत्वम् ॥ १४ ॥

अथोच्येत4 यथा [( अ. २ पा. २ अ. ३ सू. ५ )] “गुणस्तु श्रुतिसंयोगात्” इत्यत्र पक्षेऽन्येषां गुणविधित्वाद्रूपलाभ आशङ्कितस्तथाऽत्राग्निहोत्रं जुहोतीत्युत्पत्तिवाक्यत्वेन तण्डुलादिसंयुक्तै रूपलाभ इति । न । तत्र स्ववाक्यगतपौर्णमास्यमावस्यापदनिमित्तत्वादनुवादाशङ्कायाः । न चेह तण्डुलादिवाक्येऽग्निहोत्रशब्दोऽस्ति, यस्त्वस्ति जुहोतिशब्दः स सर्वहोमसाधारणत्वान्नाग्निहोत्रविधिपर एव । ननु च प्रकरणाद्विशेषोऽवगम्यते अत आह—अप्रकृतत्वाच्चोति । न ह्युत्त्पत्तिवाक्ये अस्ति कर्मणां प्रकरणम् । फलसंबन्धोत्तरकालत्वेन कथंभावात्मकस्य प्रकरणस्य प्रयोगवाक्याधीनप्रसूतत्वात् । तत्रैतत्स्यात्, तदारूढस्यैव द्रव्यदेवतासंबन्धो भविष्यतीति तदुच्यते । अनभिज्ञातरूपस्य फले विधातुमशक्यत्वात् । अतः प्रसिद्धरूपाण्येव तेन ग्रहीष्यन्ते । ननु च “तस्याघारमाघार्य” ‘इन्द्र ऊर्ध्वो अध्वर इत्याघारम्’ इति च द्रव्यमान्त्रवर्णिकदेवताविधौ नामप्रयोगाद्रूपं विज्ञास्यते । न । आघारशब्दस्य धात्वर्थाव्यतिरेकेणाविशेषणकत्वात् । तत्र नाम्ना विशेषः प्रतीयते, यत्र कं चिद्विशेषमुपादाय नामानि प्रवर्तन्ते । अत्र पुनः संनिहितावयवार्थत्वात्समुदायप्रसिद्धिमन्तरेणाऽऽघारशब्दः क्षरणमात्रवाचित्वान्न विशेषे वर्तते । ननु च प्रकरणाद्विशेषो लप्स्यते । तत्रापि सूत्रम् । न ह्याघारः प्रकृतः परप्रकरणपातित्वात्; दर्शपूर्णमासप्रकरणमेतत्सकलं नान्यस्य प्रकरणस्यान्यत्रावकाशः । सन्निधेर्विशेषागम इति चेदत्रापि सूत्रम्; न वाक्यबलीयस्त्वेनात्र प्रकृतैरपि संबन्धात्, तदेवं वाक्यप्रकरणयोरविरोधो यदि द्रव्यदेवतासंयुक्तान्येवोत्पत्तिवाक्यान्यभ्युपगम्यन्ते यत्र यः कश्चिद्रूपलेशोऽस्ति तत्र निरूपिते कर्मणि केन चित्प्रकारान्तरेण गुणान्तराणि कल्पन्ते सर्वेषु चोर्ध्वत्वं तण्डुलादि किं चिद्रूपमस्ति न त्वाघारमाघारयति, अग्निहोत्रं जुहोतीत्यनयोः । तस्मात्समुदायानुवादौ ॥ १५ ॥

कर्मचोदने स्यातामिति वक्तव्येऽन्तरग्रहणमुपांशुयाजाधिकरणवन्नेयम् । आघारयतिजुहोत्योरनन्याक्षिप्तविधिशक्तित्वात्कर्मप्रयोगविधानमेव शब्दार्थ इत्यवगम्यते । न च प्रकृताघारहोमसद्भावः । प्रकृतवाक्यस्थानां विधीनामप्राप्तदध्याद्याक्षिप्तायां विधिशक्तौ कर्मानुवादबुद्ध्यनपायात् । “न चेदन्येन शिष्टा” इति वाऽपवादान्न विशिष्टविधानन्यायः संभवति । तद्दर्शयति—अस्मिन्हि5 सति विधाने प्रत्यक्षे न संबन्धः शक्नोत्यर्थादाक्षेप्तुमित्यर्थः । अथ वाऽस्मिन्हि सति संबन्धिविधावितरेण गुणविधानेन संबन्ध एव केवल आश्रीयते । तस्मान्नैतद्वाक्यनिरपेक्षैः संबन्धविधिभिरर्थादपरौ कल्पयितुं होमाघारौ शक्येते यद्बलेनानयोरनुवादत्वं स्यात् । भावनाधात्वर्थावुझ्झित्वा न विधिर्दध्यादिभिः संबध्यत इति चेत्सत्यमेतत् । न विधित्वं भावनात उत्तार्यते तद्गचेनैव तु गुणः संस्पृश्यते, गुणस्य कारकविभक्त्या भावनामध्यनिक्षेपात् । तेनैतदुपदिष्टं भवति । सर्वत्रैव विशिष्टविधानोत्तरकालं किं प्राप्तं किं न प्राप्तमित्यन्वेषणायामप्राप्तमात्रविषयोपसंहाराद्विधिर्भावनाधात्वर्थयोरनुवाद इत्यभिधीयते । न त्वादित एव तावनूद्य गूणो द्रव्यं वा विधीयत इति कदाचिदपि शास्त्रार्थाभिव्यक्तिः । तत्र पश्चात्तने व्यापारे मन्दबुद्धिप्रतिपत्त्यर्थं स्थूलेन न्यायेन कथ्यमाने शास्त्रकृता एवैता वचनव्यक्तय इति मन्यमानाः स्वयमिवान्येषामपि भ्रान्तिमुत्पादयितुमष्टौ श्रुतिप्रकारान् परदौर्बल्यवतः केचिद्दर्शयन्ति प्रथमः किल श्रुतिप्रकारो धात्वर्थविधानं, द्वितीयः सगुणं धात्वर्थविधानं, तृतीयः किं चिदुद्दिश्य धात्वर्थविधानं, चतुर्थस्तत्रैव विशिष्टविधानं, पञ्चमस्तु धात्वर्थोद्देशेनान्यस्य विधानं, षष्ठस्तु धात्वर्थनान्ययोः संबन्धः,सप्तमः पुनर्द्धात्वर्थविशिष्टेन प्रत्ययेनान्ययोः संबन्धः, अष्टमस्तु मुक्त्वा धात्वर्थमन्ययोरेव संबन्ध इति । तत्र तावद्यदुच्यते “अग्निहोत्रं जुहोति” इंत्येतद्धात्वर्थविधानमिति । तदयुक्तम् । न हि विधिर्भावनामुत्सृज्य धात्वर्थे निपतति, न च भावनां मुक्त्वाऽन्यत्र पुरुषः प्रवर्तते । सा हि पुरुषस्य स्वव्यापारो धात्वर्थस्तु कदा चित्कर्माश्रितोऽपि भवति । यथाऽयमेव प्रक्षेपो द्व्यवदानाश्रितः, न चान्यदीयं व्यापारमन्यः शक्नोति कर्तुमित्यवश्यं भावनाविशेषणत्वादेव दध्यादिवद्धात्वर्थो विधातव्यः । इदं च [( अ. २ पा. १ अ. १ )] भावार्थाधिकरणेऽभिहितं यथा न धात्वर्थः साध्यत्वेन विधीयत इति । न ह्यकरणभूतोऽसौ साध्यापेक्षत्वाद्वाक्यान्तरेणापि फले विधातुं शक्येत । “सोमेन यजेत” । इत्यत्रापि तद्भूताधिकरणोक्तेन [( अ. १ पा. १ अ. ७ )] मार्गेण धात्वर्थकारकाणामरुणैकहायन्यादिवत्परस्परेणासंबध्य भावनासंबद्धानामुत्तरकालं परस्परोपकारित्वम् । तथा च सप्तमनवमाद्ययोर्वक्ष्यतीति न विशिष्टधात्वर्थविधानम् । भावनां च प्रति यागस्य करणत्वाद् द्रव्यं प्रति कर्मत्वे सति, [( अ. १ पा. ४ अ. ५ सू॰ ८ )] “ऐकशब्द्ये परार्थवत्” इत्येतदापद्यत इत्ययुक्तमेतत् । तथा व्रीहीन्प्रोक्षतीत्यत्र न प्रोक्षणेन व्रीहीनिति कश्चित्संबन्धः । तेनोभयोः करोत्यर्थसंबन्धान्न धात्वर्थो व्रीहिषु विधीयते । यदि तु भावनाभिप्रायेणान्यत्र विधानमुच्यते तत्सर्वत्राविशिष्टम् । न चास्य विशिष्टविधानाद्दुर्बलत्वमस्तीति तृतीयस्थाननिवेशोऽप्ययुक्तः । पक्षद्वयोक्तमपि निराकरणं “दशापवित्रेण ग्रहं संमार्ष्टि” इत्यत्राप्यापद्यत इत्ययुक्तमन्यत्र विशिष्टधात्वर्थविधानम् । दध्ना जुहोति इत्यत्रापि न कदा चिद्दधि होमे करोतीत्ययमर्थः शब्देनोच्यते । न हि होमस्याधिकरणत्वं शब्दाद्वस्तुतो वा सिद्धं, न च दध्नः कर्तव्यता, नित्यं करणात्मकत्वात् । इयमपि च श्रुतिर्द्विविधादपि विशिष्टविधेर्बलीयसी, एकविधिसंभवेऽनेकशक्तिकत्वानुपपत्तेरुभयपक्षभाविनश्च विप्रकृष्टार्थविधेरपर्यनुयोज्यत्वात्संनिकृष्टासंभवकृतमेव चास्य विप्रकृष्टस्य ग्रहणं, तत्रोभयाश्रयणे युगपद्विप्रतिषिद्धसंभवासंभवापत्तिरगत्यैव गृह्यतेऽन्यत्र विशिष्टधात्वर्थविधा नान्नातिगुर्व्येवेति न पञ्चमे स्थाने निवेशयितव्या । कामं वा शुद्धधात्वर्थविधानात्तस्य वाऽन्यत्र विधेरनन्तरा कर्तव्या । यत्तु “प्राकाशावध्वर्यवे6 ददाति” इत्यनेन ददातिधात्वर्थे प्राकाशाध्वर्युसंबन्धो विधीयत इति । तदयुक्तम् । वचनव्यक्त्यविवेकात् । सर्वत्र हि यच्छब्देनानूद्यमानमुपनिबध्य तच्छब्दयुक्तं विधेयमुपनीयते । तदिह यदि तावद्यद्ददातीत्यत्राध्वर्युप्राकाशयोः संबन्ध इति विधीयते ततः सकलदानानुवादात्समस्तदक्षिणाविकारप्रसङ्गः । प्रत्ययस्य चानेकविधिशक्तिकल्पना चोदिते सति कर्मण्यपरिहृतैव । संबन्धो हि विधीयमानः संबन्धिनं तावदाक्षिपेत्, धात्वर्थे तु पुनः स विधातव्य एव संबन्धी । अन्यथा संबन्धस्यैव संबन्धी शेषः स्यात् । न क्रियायाः । तत्रैतत्स्याद्धात्वर्थानुरक्तः प्रत्ययो विदधदवश्यमेव तत्र विधास्यतीति । एवं तर्ह्युत्तरयोरपि श्रुत्योरत्रैवान्तर्भावाद्भेदेनोपादानं व्यर्थं, न हि “वायव्यं श्वेतमालमेत” “दध्नेन्द्रियकामस्य जुहुयात्” । इति धात्वर्थाननुरक्तः प्रत्ययः संबन्धं विदधातीति । प्रकृतिलिङ्गमात्रफलश्चाऽऽलभतिरुच्चार्यमाणो न द्रव्यदेवतासंबन्धिविधावात्मानुरञ्जनेन किं चिदुपकरोति न चाऽसौ संबन्ध आलभतिना संपादयितुं शक्यो यागविषयत्वाद्द्रव्यदेवतयोः । यदि चान्य संबन्धकरणे प्रत्ययोच्चारणसिद्धिव्यतिरिक्तं किं चिद् धातुः कुर्यात्ततो दधीन्द्रियसंबन्धविधाने किमिति होमः परित्यज्येत, किमिति वा प्रकरणलभ्योऽभ्युपगम्येत । तस्मान्न धात्वर्थेऽन्यसंबन्धविधिः । पूर्ववच्च धात्वर्थाधिकरणता कारककर्त्तव्यता च निराकर्त्तव्या । न च धात्वर्थे संबन्धस्यापि प्राग्भावनासंगतेर्विधिरित्युक्तम् । एवं तावन्न दानमात्रे संबन्धविधिः । अथाध्वर्युविशिष्टं दानमनूद्यतामध्वर्युर्वा तिद्विशिष्टः । एवमपि विशिष्टानुवादाद्वाक्यभेदः । शुद्धाध्वर्य्वनुवादे तु यद्यपि संप्रदानश्रुतेरर्थाद्दानमाक्षिप्यते तथाऽपि संप्रदानसंप्रदेयसंबन्धस्य ददातिमन्तरेणानुपपद्यमानत्वाद् द्रव्यदेवतासंबन्धादिव यजेः कल्पनमिति न धात्वर्थेऽन्यसंबन्ध इति वचनव्यक्तिः संभवति । अवश्यं चात्र दानाध्वर्य्वोश्चोदकेन प्राप्तत्वात्प्राकाशावेव विधातव्यौ । तत्रार्थात्संबन्धविधिरिति न श्रुतित्वोपन्यासो घटते । वक्ष्यति7 चैतज्जाघन्यधिकरणे यत्रान्यतरदप्राप्तं तत्रैवेतरोद्देशेनेतरविधिरर्थात्संबन्ध उभयप्राप्तावनुभयप्राप्तौ वा केवलसंबन्धविधानमिति । तिसृणामपि च संबन्धविधिश्रुतीनां प्रत्ययविक्षेपसाम्यान्न बलाबले कश्चिद्विशेषो, नापि समवायविरोधसंभवो यत्र तज्ज्ञानमुपयुज्यत इति मन्दफलं क्रमगणनोपन्यासस्य । तस्मात्प्रस्तुताधिकरणन्यायेन सर्वत्र विशिष्टभावनाविधिरेव तत्त्वम् । इतरत्तु तत्र तत्र स्थूलबुद्धिप्रतिपादनोपायमात्रं भाष्यकारेण कृतमिति द्रष्टव्यम् । यच्च सन्निकर्षविप्रकर्षाभिधानं तद्भावनास्थ एव विधित्वे कारकाणां भवनाविशेषणत्वं प्रतीति मन्तव्यम् । कथं पुनः प्राप्ता सती भावना विधीयते । विशिष्टा न प्राप्तेति तादात्म्येन विधास्यते । फलतश्च तदा विशेषणार्थो विधिरिति व्यपदेक्ष्यते । नन्वेवं सति विशेषणेष्वनवतरन्विधायको भावनाद्वारेणापूर्वविधिवत्प्राप्तकर्मविधानेऽप्यनेकं विधातुं समर्थ इति [( अ॰ २ पा॰ २ अ॰ ३ सू॰ ६ ) ।] “चोदिते हि तदर्थत्वात्तस्य तस्योपदिश्येत” इत्यस्याविषयत्वं प्रसज्येत । नैष दोषः । पश्य ॥

विधित्वे भावनास्थेऽपि तादर्थ्यं प्रविभज्यते ।
विशेष्णफले चास्मिन्वाक्यभेदो भविष्यति ॥

यदा हि भावनारूढं विधित्वं भावनार्थत्वेनैव गृह्यते तदाऽर्थाद्विशेपणविधौ सति अवाक्यभेदं वक्ष्यामः । यदा तु तद्विशेषणार्थमित्यवधार्यते तदा भावनायाः संनिहितप्रोषितत्वादनेकविशेषणयोगे सति यदर्थं विधित्वमवसीयते तस्यैवैकस्य विधानं नेतरस्य तद्देशस्यापि चक्षुषेव स्पर्शादेरिति वाक्यभेदो भविष्यति । सर्वत्र समानदेशमपि विधित्वं फलतः प्रचलितमिवैकत्रोपसंहृतं दर्शितम् तस्मादविरोधः । यस्त्वभ्युदितेष्टिप्राकाशादिविधिष्वनेकार्थविधिदोषः स सर्वपक्षेषु तुल्यः । यथा चास्मत्पक्षे न भविष्ति तथा तदधिकरणेष्वेव वक्ष्यामः । भवेदेतद्विशिंष्यादिति । यदि साक्षाद्गुणो न विधीयते ततः पुरुषस्य तत्राप्रवर्त्तितत्वात्तत्परित्यागेनाप्यनुतिष्ठतः कृतार्थता स्यादिति मन्यते । तत्र किं भविष्यतीति वाक्यलक्षणविध्यभिप्रायेण प्रश्नः । अव्याप्रियमाणे इति—स्वाभिप्रायविवरणम् । स एव वा स्वयं कर्म निरूपयति8 । तेनैवाभिप्रायेण पुनः प्रश्नोत्तरे गुणवचनसन्निधिरिति । तथा कथं पुनरिति । [( अ॰ १ पा२ अ॰ १ सू॰ ८ ) ।] तुल्यं च सांप्रदायिकम्, इत्यभिप्रायेण । असति9 त्वर्थे किमिति । त्वयैवं क्रियते येन तदानर्थक्यमापद्यते । मत्पक्षे तु सत्यर्थे नानर्थक्यं भविष्यति । एवं तर्हीति । वाक्येन विशिष्टायां भावनायां प्रवर्तमानः श्रौतोऽपि विधिर्वाक्याद् भविष्यतीत्युच्यते । परस्तु यत्प्रसादेन स विधीयते सैव तावद्विधीयतामिति श्रुत्यर्थे सति न वाक्यार्थ इत्याह— सत्यमेतदिति । विधिशक्तिसंक्रान्तिं न चेदन्येन शिष्टा इति च दर्शयति । कथमिति सानुशयः प्रश्नः स्वोक्तिर्वा । तस्मात्तत्संनिधेर्गुणस्य भावनानुप्रवेशाद्विधेयत्वमथवा गुणसन्निधेः शक्तिसंचरणम्, भावनाघात्वर्थप्रापिसन्निधेर्वा श्रुत्यविरोधाद् गुणविधानम् । जुहोतेरिति स्पष्टमपि धातूच्चारणमनवबुध्य सकलाख्यातानुवादाभिप्रायेणाऽऽह—यदि जुहोतीत्यनुवाद इति । दधिशब्देनेति मा वोचत इति । [( अ॰ १ पा॰ ४ अ॰ ५ ) ।] वाजपेयाधिकरणवद्ग्रन्थच्छाया योजनीया । प्रत्ययो विधिरेव धात्वर्थोऽनुवाद इति विवेकः । यदि विधायकाविति—भावनायां प्राप्तायां कथं विधानमित्यभिप्रायः । वाक्यार्थो यस्तं विधातु- मिति । दध्नः पदार्थत्वान्नैव वाक्यार्थत्वं संभवतीत्येतदपि दधिविशिष्टभावनाभिप्रायमेव । तस्मात्कर्मान्तरचोदने इति—उपांशुयाजवदेव व्याख्येयम् । जुहोत्याघारयतिलक्षितासाधारणार्थविषयत्वाच्च संज्ञोपबन्धसिद्धिः । इह विधीयमानत्वेन च कर्मान्तरेभ्यो व्यवच्छेदः । प्रकरणाच्च द्रव्यदेवतं लप्स्यत इति नारूपत्वम् । न चोत्पत्तिवाक्ये कथंभावोनास्ति फलसंबन्धं तु यावत्प्रतीक्षिष्यते । न चाविहितद्रव्यदेवतस्य फलविध्यनुपपत्तिः । होममात्रतया विहितस्य पश्चादपि तद्ग्रहणाविरोधात् । इष्यते चैवमादौ संनिधिवशेनाप्यनुवादः । प्राप्त्यपेक्षो ह्यसौ यथा कथंचित्प्रत्यभिज्ञानं प्रार्थयते । न च परप्रकरणे पाठादाघारस्यावान्तरप्रकरणलोपः । तस्यापि ह्याख्यातप्रत्ययवशेन किं केन कथमित्यस्त्यपेक्षा । तेन शक्यं प्रकरणेन द्रव्यदेवतविधानम् । बहूनि चादृष्टानि त्वया कल्प्यानि । न च तण्डुलादिहोमानामूर्ध्वाद्याघाराणां वा विहिता देवताऽस्ति । न च देवतावद्द्रव्यम् । सर्वे चैतेऽपूर्वकर्मविधित्वान्नान्योन्यं गुणविधयो भवन्ति । ततो यथोक्तमेमेवास्तु । यत्तु क्रियायाः कर्मत्वनिर्देशो न युज्यत इति । अत्रोच्यते । भवति हि क्रियाणामपि संकल्पादिभिराप्यमानत्वात्कर्मत्वम् । तेन जुहोत्याक्षिप्तसंकल्पाद्यपेक्षयाऽग्निहोत्रमिति द्वितीयानिर्देशादविरोधः । ननु च ‘यदग्नये च प्रजापतये च सायं जुहोति’ ‘यत्सूर्याय च प्रजापतये च प्रातः’ इत्यनयोरनेकगुणत्वात् ‘चोदना वा गुणानां युगपच्छास्त्रात्’ इत्येतदापद्यते । तथा नामेति केचित् । एवं च यथापूर्वमाहुती जुहुयात्सायमग्निहोत्रं प्रातरग्निहोत्रमित्येवमादयो भेदव्यवहाराः सिद्धा भवन्ति । न चात्र ज्योतिष्टोमस्येव ग्रहाभ्यासेष्ववयवबुद्धिः । उभयत्रापि साकल्यप्रतीतेः । एवं च दर्शपूर्णमासवदुभयत्र समस्तेतिकर्तव्यतावृत्तिरुपपद्यते । अन्यथा तु पशुतन्त्रविप्रकर्षन्यायेन सकृत्कृतैवोपकुर्यात् । न चैककर्मत्वे किंचित्प्रयोजनमस्ति । तस्माद्द्वयोराहुत्योः समुदायानुवाद इति । अत्राभिधीयते ।

समुदायानुवादस्य न तावद्दृश्यते फलम् ।
प्रयोगवचनैकत्वं लप्स्यते राजसूयवत् ॥

यथैव हि समुदायानुवादत्वमवयवशिष्टसमुदायैकत्वद्वारेण भवत्येवमेव प्रयोगवाक्यगतम् ‘अग्निहोत्रं जुहुयात्स्वर्गकाम’ इति भविष्यति । यथा च ‘राजसूयेन स्वाराज्यकाम’ इति विनाऽप्यन्येन समुदायानुवादेन सिद्धिरेवमिहापीति ।

नन्वेवं सत्यापराग्निकानामपि होमानां प्रधानत्वं स्यात् । समुदायानुवादे वा केन तेषामपकर्षः । न हि यथा पौर्णमास्यमावास्याशब्दयोः प्रयाजादिभ्यः कालसंयोगेनावच्छेदस्तथेह केनचित्क्रियते । नन्वग्नये होत्रमस्मिन्निति विशेषणं भविष्यति । न । तेषामप्यग्निदेवत्यत्वात् । अपि चैवं सत्यनिष्टं तव प्रसज्येत । प्रातराहुतेरग्निसंयोगाभावादनग्निहोत्रत्वेनाङ्गत्वं प्राप्नोति । तस्मात्सत्यसति वा समुदायानुवादे न कश्चिद्विशेषः । तथा यद्यापराग्निकानां होमानां भेदो यदि वा सर्वाग्निष्वेकमेवाभ्यस्तकर्म क्रियते सर्वथाऽग्निहोत्रशब्देन संनिध्यग्निसंयोगहोमत्वाविशेषात्फलसंयोगेन समप्रधानत्वम् । तथा चैकेषां सर्वसामानाधिकरण्येनाग्निहोत्रशब्दप्रयोगो10 गार्हपत्यान्वाहार्य५चनयोश्चतस्रश्चतस्र आहुतीराहवनीये च द्वे विधायाऽऽह ‘य एवं विद्वान्विराट्संपन्नमग्निहोत्रं जुहोति’ इति । तस्मादनन्यप्रयोजनत्वादग्निहोत्रं जुहोतीत्ययमेव कर्मविधिः । ततश्च तण्डुलादिवाक्यवदेव गार्हपत्यादिसंयोगस्य गुणार्थत्वान्न कर्मभेदहेतुरस्ति । तदेव हि प्रकृतं कर्म तत्र तत्र प्रत्यभिजानीमः । कस्मात्पुनरेककर्मविषयत्वाद्दध्यादिवदेवाग्नयो न विकल्प्यन्ते । केचिदाहुः । अदृष्टार्थत्वादिति । निराधारस्यापि हि प्रक्षेपस्याप्रतिष्ठेऽपि द्रव्ये संभवाददृष्टार्थोऽग्निसंयोगः । तच्च सर्वमदृष्टं संभावनीयमित्यावर्तते होमः । एवं तु सति पदादिभिरप्याहवनीयो न बाध्येत । अथ तत्र सकृद्धोमश्रवणादावृत्तिभयाद्बाधः, इहापि तत्तुल्यमिति विकल्पप्रसंगः । तस्माद्विर ट्संपन्नमित्येतस्मादेव वचनात् [( अ॰ १२ पा॰ ३ सू॰ ३० ) ।] ‘संख्याविहितेषु तु समुच्चयः’ इत्यनेन न्यायेन समुच्चयः । अन्यथा हि ।

अग्निभ्योऽपूर्वसिद्धिः स्यादाधारत्वोपलक्षिता ।
न चैकेनावरुद्धत्वादाधारान्तरसंभवः ॥

सत्यप्यग्निसंयोगस्यादृष्टार्थत्वे सप्तमीश्रवणादाधारत्वप्रतिपत्तिद्वारं तदित्यवगमात्तस्य च प्रत्यक्षप्रतीतेरेकेनावरुद्धे कर्मणि नान्यत्संभवतीति विज्ञायते । तेनैकान्तेन विकल्पः प्राप्नोत्येव । कस्मात्पुनः ‘तिस्र आहुतीर्जुहोति’ इत्यादिवत्संख्यया कर्मभेदो न भवति । ‘तिस्र आहुतीरित्यादिषु । इयं पुनरवधारिते कंर्मण्युपजायमाना ‘एकादश प्रयाजान्’ इतिवदभ्यासेनैव पूर्येतेति न स्वरूपभेदाय प्रभवति । तेनैकमेव सर्वाग्निष्वभ्यस्तं कर्मेति निश्चीयते । यत्तु सायंप्रातर्वाक्ययोरनेकार्थत्वात्कर्मविधित्वमिति । तत्र ब्रूमः । ‘सायं जुहोति’ ‘प्रातर्जुहोति’ इति वाक्यान्तरप्राप्तः कालो देवताव्यवस्थापरे वाक्ये संकीर्त्यते । नन्वेवमपि कालविशिष्टकर्मानुवादाद्वाक्यभेदः स्यात् । न । प्रकरणलब्धे कर्मणि कालमात्रे देवताविधानात् । स तु कालो न स्वरूपेण देवतया संबध्यत इति प्रकरणलभ्यकर्मानुरक्तः संबध्यते । अथ वा विधीयमानसंप्रदानभूतदेवताकाङ्क्षितप्रकृतहोमपर्युपस्थापनेन कालस्योपयोगः । न च लक्षणया लभ्यमानो होमो वाक्यं भिनत्ति । न च सायंकालेनान्यत्र स्थिंतो लक्षितः । तेन सायंहोमस्याग्निप्रजापती भविष्यतः । एवं प्रातर्होमस्य सूर्यप्रजापती इति सिद्धम् । नन्वेवमपि भिन्नपदोपात्ते द्वे द्वे देवते विदधती वाक्ये भिद्येयाताम् । न । एककारकत्वादिति केचित् । कारकान्यत्वे हि विधेर्व्यापारभेदो भवति । एककारकनिबन्धनं त्वर्थसहस्रमप्येकप्रयत्नसाध्यमित्युक्तम् । अत्राभिधीयते ।

अनेकपदसंबद्धं यद्येकमपि कारकम् ।
तथाऽपि तदनावृत्तैः प्रत्ययैर्न विधीयते11

विभक्त्या हि कारकं प्रत्याय्यते । सा च यत्रैकाऽग्नीषोमादौ तत्र सकृदेव प्रत्ययस्य व्यापारो भवति । यत्र पुनर्भिन्नविभक्तिसंबद्धानेकपदोपात्तमेकमपि कारकं भवति यथाऽत्रैवाग्नये च प्रजापतये चेति, तत्र युगपत्प्रत्यवेक्षणाभावादवश्यं भेदेनाग्निप्रजापती प्रत्ययेनाऽऽलोचयितव्यौ । कारकविभक्तिर्हि नामपदार्थालोचनाय प्रत्ययं प्रयुङ्क्ते सा च नानोच्चारितानां नैव प्रयुङ्क्त इत्यावृत्तिप्रसङ्गः । तस्मान्नैष परिहार इत्येवमभिधीयते । वाक्यद्वयेऽप्यस्मिन्प्रजापतिरेवैको विधीयते । अग्निसूर्ययोः पुनर्मन्त्रवर्णादेव प्राप्तिः, वाक्यान्त12 रेणैवंदेवत्यौ मन्त्रौ विहितौ । ताभ्यामेव च ते देवते प्राप्ते सत्यौ प्रजापतिविधावौचित्येन स्तुत्यर्थमुपादीयेते । यदपि च [( अ॰ १ पा॰ ४ अ॰ ३ सू॰ ४ ) ।] ‘तत्प्रख्यं चान्यशास्त्रम्’ इत्यत्रैते वाक्ये निदर्शिते तदपि मन्त्रवर्णप्राप्तिद्योतनार्थत्वेन द्रष्टव्यम् । एवं मन्त्रविध्योर्न पौनरुक्त्यं भविष्यति । अन्यथा तदर्थशास्त्रदोषपरिहारप्रयोजनगुणविधिपरिसंख्यार्थवादादीनामन्यतमेऽतिक्लेशः13 स्यात् । तस्मात्तत्र वाक्यभेद इति सिद्धम् । यत्तु सायंप्रातर्होमयोरवयवबुद्धिर्नास्तीति । दाक्षायणयज्ञादिवत्सकलकर्मावृत्तिप्रज्ञानात्तदित्यवगन्तव्यम् । नन्वेवं सति सकलकर्मपरिच्छेदात्मकत्वेन सायंप्रातःकालयोस्तुल्यार्थत्वाद्विकल्पे सति सायं प्रातर्वाऽग्निहोत्रं होतव्यं नोभयत्रेति प्राप्नोति । नैतदस्ति । यावज्जीवचोदनया तावज्जीवता सायं हुते पुनर्जीवत एव प्रातःकाले सति समस्तनिमित्तोपजननान्नैमित्तिकहोमकरणं भविष्यति । सत्यमेवमपि सिध्यति । अयं तु विशेषो यदा सायं प्रातरभ्यस्तोऽयमेक एव प्रयोगो भवति । तदा सायं होमे कृते यदा नाम यजमानस्य कदाचिदापद्भवति तदा यथा कथंचित्प्रातर्होमः कर्तव्यः प्रक्रान्तासमाप्तिनिमित्तदोषपरिहारार्थम् । अथ तु वसन्ते ज्योतिष्टोमवत्सायंकाले समाप्तं कर्म ततो नावश्यं प्रातर्होमः कर्तव्यः । किं च ।

काम्यः सर्वाङ्गसंयुक्तः प्रयोगश्च फलार्थिना ।
सायंप्रातर्विकल्पेन प्रयोक्तव्यस्तदा भवेत् ॥

अभ्यस्तैककर्मपक्षे तु कालद्वयेऽपि प्रयत्नेनावैगुण्यं संपादनीयम् । कथं पुनर्न विकल्प इति । वचनकृतात्समुच्चयादिति ब्रूमः । ‘प्रवर्ग्यो वा एष’ इति हि प्रकृत्य ब्रवीति ‘स वै सायं च प्रातश्च जुहोति’ इति । भेदपक्षेऽपि चशब्दात्समुच्चयः । न च समुच्चये सति साहित्यापत्तिर्भवति । अनुपादेयत्वात्कालस्येत्यविरोधः । प्राप्तयोश्च वचनान्तरेण कालयोः समुच्चयार्थमेवेदं वाक्यमिति न वाक्यभेददोषः । तस्मादभ्यस्तमेकं कर्म । यत्त्वङ्गानां भेदेन प्रयोगो न प्राप्नोतीति । नैष दोषः । कालं प्रति हि कर्मोपादीयमानं विवक्षिताङ्गसंयोगं भवति । तेन सायंतनस्य प्रधानस्य तत्कालाङ्गान्येवोपकुर्वन्ति नान्यकालानि । वैगुण्यात् । एवं प्रातस्तनस्यापीत्यावर्तते । यत्तुं प्रयोजनं नास्तीति । तत्रोच्यते । कुण्डपायिनामयने ‘मासमग्निहोत्रं जुहोति’ इत्येककर्मविधानादेकेतिकर्तव्यतापेक्षणे सति सायंहोमस्य प्रातर्होमस्य वा धर्मा आगच्छन्तीत्येकधर्मयुक्तं सकृदेव प्रयुज्येत । अभेदे तु यथाप्रकृतीति ॥ १६ ॥

इति आधाराग्निहोत्राधिकरणम् ॥ ५ ॥


  1. यादित्येतावन्मात्रस्य प्रयोगानर्हत्वेपि विध्यर्यकस्य लिङो यासुडागमविधानाद्विध्यभिवायित्वमभ्युपेत्योक्तम् । ↩︎

  2. होमाघाररूपैकजातीयानामेकपदेपात्तत्वलक्षणैकधर्मयोगाख्येन प्रचयेन संपादितः समुदाय इत्यर्थः । ↩︎

  3. चतुर्गृहतिं वा एतदभूत् इति पूर्वं शेषः । ↩︎

  4. यदत्र भाष्यकारैरेतत्सूत्रमाघारे प्राकरणिकवाक्यान्तरेणापि रूपालाभेनारूपत्वोपपादनपरतयाव्याख्यातं तच्च तत्प्ररव्याधिकरणे वाक्यान्तरेणद्रव्यदेवतालाभस्योक्तत्वेनायुक्तमिव मत्वा स्वायमाघाराग्निहोत्रवाक्ययोररूपत्वेऽपि वाक्यान्तरेण रूपलाभोपपत्तेर्विधेयत्वाशंकानिराकरणायैतत्सूत्रमित्येवं व्याख्यातुं शंकां तावदारचयति—अथेत्यादिना । ↩︎

  5. नन्विति भाष्येण दध्यादिवाक्येषूपपदश्रवणेन केवलहोमाघारकर्तव्यताविधानाशक्तावपि होमाघारसंबन्धितया दध्यादिविध्यभ्युपगमात्संबन्धस्य च संबन्धिद्वयाधारत्वात्प्रतिसंबन्धिभ्यां होमाघाराभ्यां विनाऽनुपपत्तेरर्थापत्या तयोरपि प्राप्तेराघाराग्निहोत्रवाक्ययोरनुवादत्वं दुर्निवारमित्येवमाशंक्य नैतदेवमित्यादिना ब्रूम इत्यन्तेन समाहितं तत्तावद्वेधा योजयति—तद्दर्शयतीत्यादिना । भाष्यस्थसंबन्धशब्दस्य विशिष्टवाचित्वं विधानशब्दस्य च सप्तम्यन्तत्वमभिप्रेत्याऽऽद्या योजना । द्वितीया तु संबन्धशब्दस्य यथाश्रुतहोमाघारसंबन्धपरत्वं विधानशब्दस्य च तृतीयान्तत्वमभिप्रेत्येति विज्ञेयम् । ↩︎

  6. प्राकाशो नाम सुवर्णदर्पणम् । ↩︎

  7. [( अ॰ ३ पा॰ ३ अ॰ १० )] इत्यत्र भाष्यकार इति शेषः । ↩︎

  8. आशंकिता अन्येनापृष्ठ एव स्वयमनुष्ठानं निरूपयतीयर्थः । ↩︎

  9. असतित्वर्थे किमिति भाष्यं सिद्धान्तेऽपि दध्यदिवाक्ये विधेर्भावनारूढत्वेऽपि भावनायाः स्वरूपेण प्राप्तत्वाद्गुणानुष्ठानार्थत्वावगतेरयुक्तमिवभासमानं, मध्यव्रतीकेन पूर्वपक्षएवाऽऽनर्थक्यापादनपरतया व्याचष्टे—असतीति । [( अ॰ २ पा॰ अ॰ ३ सू॰ ६) ।] ↩︎

  10. अग्निहोत्रशब्दस्य सर्वविषयत्वमापादयन्नुपपन्नो भवतीति शेषः । ↩︎

  11. अयं चात्र श्लोकार्थः । अग्नये दात्र इतिवद्विशेषणविशेष्यभावाङ्गीकरणेन प्रजापतित्वगुणविशिष्टस्याग्नेर्देवतात्वाद्यद्यप्येकं कारकं तथाप्यनेककारकपदोपात्तयोरग्निप्रजापतिरूपकारकयोर्विभक्तिश्रुत्या क्रियान्वयप्रतीतेस्ततः प्राग्विशेषणविशेष्यभावानवगमात्प्रत्येकं विधिव्यापारावश्यंभावाद्विधायकप्रत्ययावृत्तिः स्यादेवेति वाक्यभेदो दुर्निवारः । वस्तुतस्तु प्रजापतेः स्वातन्त्र्येण देवतात्वप्रसिद्धेर्विशेषणत्वाभावेन कारकैक्यमपि नास्तीति सुदृढो वाक्यभेद इति । ↩︎

  12. अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति । सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातरिति वाक्यद्वयेनेत्यर्थः । ↩︎

  13. यदग्नये च यत्सूर्याय चेतिवाक्यस्याग्निसूर्यप्रापकत्वे तदर्थशास्त्रत्वाख्यदोषपरिहारकं यत्, मन्त्राधिकरणोक्तगुणविधिपरिसंख्यार्थवादाद्यन्यतमरूपं प्रयोजनं तस्मिन् कल्प्यमानेऽतिक्लेशः स्यादित्यर्थः । ↩︎