06 मन्त्राविधायकत्वाधिकरणम्

इह मन्त्रा उदाहरणम् । किं तद्गता भावनावचना ब्राह्मणवद्विदधति नेति संदेहे शब्दाभेदाद्विधायका इत्याशङ्क्य मन्त्रत्वात्प्राप्तार्थत्वाच्च विधित्वासंभवेन प्रयोगकालेषु ब्राह्मणविहितानामेवार्थानां स्मारका इत्युत्तरपक्षं उक्तः । तथा हि—

न कर्मान्तरताऽस्त्यत्र बलवत्प्रत्यभिज्ञया ।
न चोपात्तो गुणः कश्चिन्न च वाक्यान्तरे स्तुतिः ॥

स्मारकत्वप्रतिपक्षौ हि विध्यर्थवादौ स्यातां, तदिह स्वरूपं तावदन्यतः क्रियायाः प्राप्तं गुणफलनिमित्तानि तु नैवोपात्तानि यानि विधीयेरन् ।

न च वाक्यान्तरस्थे पर्यवसितप्रयोजने विधौ स्तुतिरुपपद्यते । तदुक्तं प्रथनमन्त्रे । तस्मात्प्रकाशका मन्त्रा इति यद्व्याख्यायते तत्र वदामः । किं पुनः कारणं मन्त्रत्वेनाऽऽख्यातविशेषाणां विधिशक्तिस्तिरोधीयते कथं च ब्राह्मणत्वेनासावविर्भाव्यते । दृष्टाश्च मन्त्रगता अपि विधायता ‘वसन्ताय कपिञ्जलानालभते’ इत्यादयः ।

तथा ब्राह्मणगता अप्यविधायका यथा ‘यस्योभयं हविरार्तिमार्छेते’ इत्यादयः । तस्मान्नायमेकान्तः । किं च—

प्राप्तत्वाद्यदि चेष्येत मन्त्राणामनुवादता ।
तैरेव विहितं कस्मान्न स्मारयति चोदना ॥

न ह्यत्र विशेषहेतुरस्ति किं ब्राह्मणविहितमासाद्योपहतविधिशक्तिर्मन्त्रः स्मारको भवत्यथ वा विपर्यय इति ।

तत्रोभयोरनुवादत्वासंभवादगृह्यमाणविशेषत्वाच्च द्वयोरपि विधायकत्वम् । अभ्यासाच्च कर्मभेदः स्यात् । बलवत्प्रत्यभिज्ञायाश्चाभ्यासाधिकरण एवोत्तरं भविष्यति [(अ॰ २ पा॰ २ अ॰ २) अत्रेति शेषः ।] । तस्मान्नैवमभिधायकत्वसिद्धिः । येऽप्याहुः—

यस्माद्व्रीह्यादिवन्मन्त्राः करणत्वेन कर्मणाम् ।
ब्राह्मणेन नियुज्यन्ते तद्वत्ते न विधायकाः ॥

तैरपि सामान्यतो दृष्टमात्रं व्यपदिष्टम् । कुतः—

विधिशक्तिर्नियोगेन न मन्त्रस्यापनीयते ।
ततो विधास्यति ह्येष नियोगात्स्मारयिष्यति ॥

न हि विनियुक्तेन न विधातव्यमिति किं चित्प्रमाणं यदि स्वतो विधिशक्तिरस्त्येव । अथ त्वसौ प्रथममेव नास्ति व्यर्थो विनियोगोपन्यासः । न चोभयकरणे विरोधः । तथा हि—

विधायकं सदप्यर्थं ब्राह्मणं स्मारयिष्यति ।
‘मन्त्रतस्तु विरोधे स्यात्’ [(अ॰ ५ पा॰ १ अ॰ ९ सू॰ १६) ।] इत्यत्रैतद्वदिष्यते ॥

ये च वचनेनानविनियुक्तास्ते च त्वत्पक्षे निराकरणहेत्वभावाद्विधायकाः प्राप्नुवन्तीत्येतदप्यकारणम् । न चात्र मन्त्रोपन्यासस्य कश्चिसंबन्ध इत्यन्यथा वर्ण्यते । विविधमेवाऽऽख्यातं गुणप्रधानकर्मत्वेनोक्तम् ।

अथेदानीं प्रस्तूयते किं तावेव द्वौ प्रकारावुतान्योऽप्यस्तीति । तत्र न तृतीयः प्रकारोऽस्तीति मत्वा पूर्वपक्षवादी वदत्यैकार्थ्यमिति । तथा प्राप्तेऽभिधीयते ॥ ३० ॥

अस्ति तृतीयः प्रकारो यदभिधायकत्वं नाम । पश्य—

येषामाख्यातशब्दानां यच्छब्दाद्युपबन्धनात् ।
विधिशक्तिः प्रणश्येत्तु ते सर्वत्राभिधायकाः ॥

मन्त्रगतानां ब्राह्मणगतानां चाऽऽख्यातशब्दानां येषां शब्दान्तरेण विधिशक्तिरपगच्छति तेषामभिधायकत्वम् । तत्र ‘न ता नशन्ति’ इत्यत्र तावद्यच्छब्दोपहितो विधायकोऽनुवादत्वं प्रार्थयते । तथा ‘अहे बुध्निय मन्त्रं मे गोपाय’ इत्यामन्त्रणविभक्त्या । दामि गृह्णामीत्युत्तमपुरुषेण । ‘यदि सोममपहरेयुः’ इति यदिशब्देन । ते चैवमादयः प्रायेण मन्त्रेष्विति मन्त्रा उदाहरणम् । अविधायका मन्त्रा इति च प्रसिद्धिः ।

ब्राह्मणे तु भूयांसः प्रत्यया विधायकास्तेन तद्विधायकमिति प्रसिद्धम् । अल्पे त्वविविधायका इति तदहि नोदाहरणम् । विधायकत्वाविधायकत्वे तु तयोर्यथोक्तमेव कारणमिति न मन्त्रत्वब्राह्मणत्वयोर्व्यापारः ।

तत्र त्वेतावान्व्यापारो दृश्यते । रूपादेव ब्राह्मणगतानां विधित्वनिवृत्तौ सत्यां निमित्तादिप्रत्यायनार्थता । न हि तेषां रूपं कर्मसु प्रयोगार्हम् । मन्त्रगतानां तु रूपमेवोपलभ्य दामि गृह्णामि निर्वपामीदामिदं च करोम्यग्नीन्विहर वर्हिः स्तृणीहि इदमिदं च कुर्वित्यादिकं शक्यमेतैः कर्म स्मर्तुमिति विनियोगबुद्धिर्भवति । कुतः—

अनुष्ठाने पदार्थानामवश्यंभाविनी स्मृतिः ।
अनन्यसाधनाऽनन्यकार्यैर्मन्त्रैः प्रसाध्यते ॥

न तावदनुष्ठानवेलायामस्मृतः कश्चित्पदार्थः शक्यः कर्तुमित्यवश्यंभाविन्या स्मृत्या योग्यसाधनमात्रापेक्षणाद्यत्किंचिद् ब्राह्मणपदार्थानुसंधानं वा पूर्वपदार्थप्रत्यवेक्षणं वा सूत्रग्रन्थो वाऽऽत्मीयग्रहणवाक्यानि वोपद्रष्टादि वा साधनं ग्रहीतुमारभ्यते ।

तत्रानन्यप्रयोजनान्मन्त्रान्प्रकरणे पठ्यमानान्सामान्येन किमप्येभिः कर्तव्यमित्येवं प्रयोगवचनेन गृह्यमाणानुपलभ्य यादृशेन वाक्येन स्मृतिः कर्तुमाकाङ्क्ष्यते तद्रूपा एत इति विदित्वा लिङ्गप्रकरणानुमितया श्रुत्या विनियोगे सत्यभिधानार्थता विज्ञायते ।

ततश्चोपायान्तराण्यप्रमाणकत्वान्निवर्तन्ते । नियमादृष्टसिद्धिश्च मन्त्रैरेव स्मृत्वा कृतं कर्माभ्युदयकारि भवतीत्यवधार्यते । भाष्यमप्यत्रैव योजनीयम् ।

नासकृदप्युच्चारणे तत्प्रत्ययादिति न प्राप्तत्वाभिप्रायेणोच्यते । किं तु यच्छब्दोपबन्धादस्यैव मन्त्राख्यातस्यान्यतः प्राप्तमहं ब्रवीमीत्येवंरूपप्रत्ययात् । शतकृत्वोऽपि ह्येवमादिरुच्चार्यमाणः स्वसामर्थ्येनैव नापूर्वप्रत्ययं करोति तत एव पूर्वप्राप्तबुद्ध्युत्पादात् ॥ ३१ ॥

इति मन्त्राविधायकत्वाधिकरणम् ॥ ६ ॥