‘यैस्तु द्रव्यं चिकीर्ष्यते’ इत्यस्यापवादत्वेन स्तोत्रशस्त्रोपन्यासः । स्तुतिरेव स्तोत्रं, शस्त्रमपि सैवाप्रगीतमन्त्रसाध्या, गुणगुणिसंबंधकीर्तनं च स्तुतिः शिष्यते । सा च प्रथमं गुणगुणिभ्यां निर्वर्त्यते । तदभावे शब्दोच्चारणमात्रस्य स्तुतित्वाव्यपदेशात् । तत्र गुणानां तावदकर्माङ्गतया निष्प्रयोजनत्वादेकान्तेन स्तुत्यर्थता । तन्निर्वर्तिता तु स्तुतिः किं स्तुत्यस्य स्मारकत्वेन शेषीभवत्युत स्वप्राधान्येनादृष्टार्था भवतीति । किं प्राप्तम् ॥
दृष्टेन क्रतुसिद्ध्यर्थां साधयन्ति यतः स्मृतिम् ।
स्तोत्रशस्त्राणि तेन स्युः संस्कारा देवताः प्रति s॥ १३ ॥
प्रमाणान्तरविरोधेन दूषणं तावदुच्यते । तथा हि—
यद्यत्राविद्यमानार्थो मन्त्रः स्तोतुं प्रयुज्यते ।
तस्यार्थेनापकृष्टत्वात्प्राप्तबाधः प्रसज्यते ॥
या यद्देवतानामसंयुक्ता स्तुतिचोदना भावनेति यावत्, चोद्यमानत्वात्, सा तदर्थपरत्वात्तस्मिन्नसति न स्वार्थं करोतीति तद्वशेनेन्द्रीस्तुतिर्माहेन्द्रग्रहयजिसंनिधिमुल्लङ्घ्य यत्रेन्द्रस्तत्र गच्छेत् । ततश्च क्रमसंनिधिबाधः । क्रमश्चात्र यथासंख्येनोत्तरासु पाठः । संनिधिस्तु रथंतरचोदनयोपस्थानं प्रकरणपरामर्शो वा ॥ १४ ॥
नायं दोषः । किं कारणम्—
तत्र मन्त्रोऽपकृष्येत यत्र सोऽर्थान्तरं व्रजेत् ।
अभिवत्योऽर्थवत्यस्तु साम्यादिन्द्रमहेन्द्रयोः ॥
य एव हि अभिवतीभिरिन्द्रः स्तूयते स एव माहेन्द्रग्रहेणेज्यते तत्र सत्येवार्थे किमित्यपकर्षः स्यात् । न च यावत्कर्माङ्गभूतेऽर्थे विद्यते तत्सर्वं मन्त्रेणाभिधातव्यं, न्यूनमधिकं वाऽसौ यदभिधातुं समर्थस्तदभिधत्ते । तेन निर्गुणेन्द्रप्रकाशनं गुणस्यातन्त्रत्वात्प्रकरणलभ्यत्वाद्वा निर्गुणद्रव्यप्रकाशनवदेव । न च शब्दमात्रं देवतेति नवमदशमयोरभिधास्यते । ततश्च य एव महेन्द्रशब्देनार्थश्चोदितः स एवेन्द्रशब्देनोच्यत इत्यर्थान्तरत्वकल्पनाप्रमाणाभावात् । तस्मादुत्कर्षोपलम्भावात्संस्कारकर्मत्वमेव युक्तमिति ॥ १५ ॥
नैतदस्ति । निर्गुणेन्द्राभिधानादनुत्कर्ष इति । प्रसज्यत एवोत्कर्षः । कुतः—
यद्यभेदः प्रमाणेन भवेदिन्द्रमहेन्द्रयोः ।
ततोऽयं नांपनीयेत भेदस्त्वत्र प्रतीयते ॥
यद्यवयवव्युत्पत्त्या महांश्चासाविन्द्रश्चेत्येवं महेन्द्रशब्दमन्वाचक्षाणैस्तद्वितानुगमः क्रियेत,तत इन्द्र एव गुणमात्रविशिष्टोऽस्य ग्रहस्य देवतेति गम्येत । न त्वेवमस्ति । समुदायप्रसिद्धिबलीयस्त्वेनेन्द्रव्यतिरिक्तरूढिशब्दाभिधेयमहेन्द्रप्रतीतेः । तथा हि—
व्युत्पाद्यते महेन्द्रश्चेद्वाक्यभेदादि दुष्यति ।
अव्युत्पत्तौ महेन्द्रार्थः स्फुटं वस्त्वन्तरं भवेत् ॥
न चास्य महत्त्वमपेक्षमाणस्येति अवयवव्युत्पत्तिं निराकरोति । कथम्—
वृत्तिद्वयेऽपि सामर्थ्यं स्मर्यते हि विशेषणम् ।
व्युत्पत्त्याश्रयणे चैतदुभयत्रापि दुर्लभम् ॥
[पा॰ सू॰ ( २-१-१ ) ।] ‘समर्थः पदविधिः’ । [पा॰ सू॰ ( ४-१-८२ )] ‘समर्थानां प्रथमाद्वा’ इति च समासतद्धितवृत्त्योर्विशेषणम् । अतस्तदभावे नैकयाऽपि भवितव्यम् । यदि युगपत्समासताद्धितावन्वाख्यायेते ततो नैकत्रापि सामर्थ्यं लभ्यते । कुतः—
तद्धितेन ह्यसंबन्धो महत्त्वेऽपेक्षिते भवेत् ।
तस्मिन्नपेक्ष्यमाणे च न महत्त्वेन संगतिः ॥
एकार्थीभावलक्षणं व्यपेक्षालक्षणं वा सामर्थ्यमुभयथाऽपि सापेक्षस्य नावकल्पते । कथम्—
अन्यवस्त्वनपेक्षत्वे ह्यन्येनैकार्थतेष्यते ।
सापेक्षस्त्वन्यविक्षिप्तो नैकार्थ्यं प्रतिपद्यते ॥
अविक्षिप्यमाणौ हि द्वावर्थावेकत्र लोलीभावं प्रतिपद्येयाताम् । न च विक्षिप्यमाणौ, नानात्वे बुद्धिकालुष्यात् । यो ह्यवयवाभ्यामेकत्रोपसंहृताभ्यामुभयविशिष्ट एकोऽर्थः प्रतिपाद्यते सोऽपि निरपेक्षाभ्यामेव । सापेक्षत्वे संशयरूपेणैकत्रानुपसंहारात् । एवं तावदैकार्थ्यलक्षणसामर्थ्याभावः ।
व्यपेक्षा पुनराहत्य विगतापेक्षतोच्यते ।
सापेक्षत्वे च दूरेऽसावित्येवमसमर्थता ॥
न हि सापेक्षो विगतापेक्षशब्देन शक्यो वक्तुमित्युभयसामर्थ्याभावादुभयवृत्त्यभावप्रसङ्गः । एवं तावद्युगपदन्वाख्याने दोषः ।
क्रमेणाऽऽख्यायमाने तु वाक्यभेदोऽसकृच्छ्रुतेः ।
कृत्वा समासमुच्चार्यं पुनः शब्दद्वयं भवेत् ॥
एतदेवाभिप्रेत्याऽऽह—न च तद्धितार्थे वृत्तस्येत्यादि ।
तद्धितार्थे न वृत्तस्य वृद्धिः स्यादुत्तरे पदे ।
महत्त्वं द्रव्यसंबन्धि नोपसर्जनसंगति ॥
महैन्द्र इति हि स्यान्न चेन्द्रविशेषणं महत्त्वम् । न ह्युपसर्जनमभिभूतस्वार्थवृत्ति विशे षणान्तरैः संयुज्यते । न च समासार्थे वृत्तस्येति वाक्यभेदमात्रेणैवोच्यते । तेन क्रमवृत्तिरपि नास्तीति प्रतिपाद्य पुनर्युगपद्वृत्तिमेव दोषान्तराभिधित्सयोपन्यस्यति । [( अ॰ १ पा॰ ४ अ॰ ५ सू॰ ८ )] ‘ऐकशब्द्ये परार्थवत्’ इत्यनेन न्यायेनेन्द्रशब्दस्य महत्त्वतद्धितार्थौ प्रति वैरूप्यनिमित्तवाक्यभेदप्रसङ्गः। विध्यनेकव्यापारात्मकश्चापरो वाक्यभेदः । तथा हि—
महत्त्वस्येन्द्रसंबन्धं तस्य च द्रव्यसंगतिम् ।
विदधत्प्रत्ययो वाक्यं भिन्द्यात्पुनरपि श्रुतेः ॥
तस्मान्नेन्द्रो देवता महत्त्वविशिष्टः । किं तर्ह्यवयवसंबन्धानिरपेक्षाद्रूढिशब्दात्ताद्धितोत्पत्तिः । अतश्च सिद्धं देवतान्तरत्वम् । न च वृत्रवधोत्तरकालं महत्त्वाभिधानेनेन्द्रस्यैव महेन्द्रत्वं भवेत् । वेदस्याऽऽदिमत्त्वप्रसङ्गात् । अतो नित्यरूढस्यैव स्तुतिमात्रार्थमेतत् ॥ १६ ॥
व्यपदेशभेदाच्च भेदः । एवं च मन्त्रयोर्व्यवस्था भविष्यति । इतरथा विकल्पे पक्षे बाधः स्यात् । असति चार्थभेदे मन्त्रभेदस्यादृष्टार्थता प्रसज्येत ।
तस्माद्यथैव सूर्यादेरिन्द्रादत्यन्तभिन्नता ।
महेन्द्रस्य तथैवेति प्रगाथापनयो भवेत् ॥
एवं व्याख्यायमाने तु रूढित्वे तद्धिते सति ।
अग्नीषोमादयः सर्वे रूढित्वान्न द्विदेवताः ॥
यथैव हीन्द्रशब्दस्य महत्त्वतद्धितावपेक्षमाणस्य युगपत्क्रमेण वा वृत्तिर्न संभवत्येवमेव सोमस्याग्निमपेक्षमाणस्य न तद्धितसंबन्धस्तदपेक्षस्य वा नाग्निना सह समासः । तथा क्रमवृत्तौ पुनरुच्चारणे वाक्यभेदान्नान्यतरत्र वृत्तस्यान्यतरेण वृत्तिः, सोमपदस्य वैरूप्यं, प्रत्ययस्यानेकार्थवृत्तिरिति दोषाणां साम्येनरूढित्वप्रसङ्गात्समस्तद्विदेवत्यत्वव्यवहारोच्छेदः स्यात् ।
न चैषां रूढित्वं शक्यं वदितुं, सर्वत्र शास्त्रे द्विदेवत्यत्वाभ्युपगमात् । तद्यथा [( अ॰ ३ पा॰ १ अ॰ १५ ) ।] चतुर्धाकरणेन्द्र [( अ॰ ३ पा॰ २ अ॰ १८ ) ।] पीतपूष [( अ॰ ३ पा॰ ३ अ॰ १५ ) एष्वधिकरणेष्वित्यर्थः ।] प्रपिष्टभागाविचारेषु सापेक्षाग्निदेवत्यादीनामैन्द्राग्नाग्नीषोमीयादीनामाग्नेयादिशब्दैः केवलाग्न्यादिदेवताकैरसामर्थ्यादग्रहणमिति वक्ष्यति । रूढित्वे हि कस्य क्वापेक्षा भवेत् ।
तथा द्विदेवतत्वसामान्येनैन्द्रापौप्णादीनामग्नीषोमीयैन्द्राग्नप्रकृतिकत्वं [( अ॰ ८ पा॰ १ अ॰ ७ ) अत्रेति शेषः ।] वक्ष्यते । तथा ‘मेधपतिभ्यां मेधम्’ इत्यत्र [( अ॰ ९ पा॰ ३ अ॰ १२ सू॰ ३५ ) ।] ‘देवता तु तदाशीष्ट्वात्’ इत्यर्थद्वयमाश्रयिष्यते । तथा मनोताधिकरणे वक्ष्यति [( अ॰ १० पा॰ ४ अ॰ २२ सू॰ ४२ ) अत्र भाष्यकार इति शेषः ।] सत्यमग्नीषोमौ देवताप्रकृतौ तावग्निश्च सोमश्च तत्राग्निरदेवता न त्वसमवेत इति । तथा देवताद्वन्द्वाश्रयाणि अग्नेरीत्वषत्वादीनि स्मर्यमाणानि1 न शक्यानि बाधितुम् ।
यदि च व्याकरणमेवमादावप्रमाणं तर्हि देवतातद्धितस्मरणाप्रामाण्यादग्नीषोमादीनां देवतात्वमपि न स्यात । अथ तत्प्रतीतिरभ्युपगम्येत सा तुल्याऽर्थद्वयप्रतीतावपीति रूढित्वाभावः । एतेनाश्वकर्णादिवदर्थरहितसमासान्वाख्यानेन स्वरसंस्कारप्रसिद्ध्यर्थमग्नीषोमीयादिद्वंद्वस्मरणप्रामाण्यकल्पनं प्रत्युक्तम् । तथा हि—
यत्रार्थस्य विसंवादः प्रत्यक्षेणोपलभ्यते ।
स्वरसंस्कारमात्रार्था तत्र व्याकरणस्मृतिः ॥
महदिन्द्रशब्दयोस्तावदवश्यं पृथगर्थाभिधानशक्तिः कल्पयितव्या । तयोश्च गुणगुण्य भिधायित्वाद्विशेषणविशेष्यात्मकत्वमवधारितम् । तत्र यावदेव संहतावुच्चारितौ तावदेव पूर्वानुभूतार्थसंबन्धितया विशिष्टार्थप्रत्ययो जायते । न चास्य निवर्तकं किंचिदस्ति । न च समुदायस्यापूर्वशक्त्यन्तरकल्पनाप्रमाणं विद्यते । लब्धात्मिका च समुदायप्रसिद्धिरवयवप्रसिद्धिं बाधते । न चावयवार्थरहितार्थान्तरप्रयोगं विस्पष्टमन्तरेण तदात्मलाभः । किं च—
एकस्तावदतिक्लेशैरिन्द्रोऽस्तीत्यवगम्यते ।
महेन्द्रस्त्वपरः कल्प्यः पुनः क्लेशान्तरैर्भवेत् ।
प्रत्यक्षेऽपि तावदर्थेऽनेकशब्दशक्तेः कल्पना निष्प्रमाणिका, किमुत यत्रार्थसद्भावोऽपि कल्पनीयः । तदिहेन्द्रशब्दप्रयोगान्यथानुपपत्त्येन्द्रस्तावददृष्टोऽपि कल्प्यते, तत्र यदिपुनर्महेन्द्रशब्दप्रयोगान्यथानुपपत्तिर्भवेत्ततोऽर्थान्तरं महेन्द्रो नाम कल्प्येत । यदा तु पूर्वकल्पिताभ्यामेव महदिन्द्रपदशक्तिभ्यां प्रयोगः सिध्यति, स एव चार्थः किं चिद्विशिष्टः प्रत्यभिज्ञायते, कस्तदाऽर्थान्तरं कल्पयितुं शक्ष्यति । तस्मादिन्द्र एव महत्त्वविशिष्टो महेन्द्रो नान्य इति सिद्धम् । न च समासं कृत्वा तद्धिते क्रियमाणे कस्य चिदसामर्थ्यं समासवेलायां तद्धितवेलायां चापेक्षणीयार्थान्तरानुपादानात् । न च द्विरुच्चारणनिमित्तवाक्यभेदप्रसक्तिः । सकृदुच्चारितैकपदोपात्तानेकार्थकथनात् । वृत्तिद्वयात्मकं हि माहेन्द्रपदम् । एकैका च वृत्तिर्वाक्यार्थे वर्तते । तत्र ययोर्वाक्ययोरर्थौ माहेन्द्रपदेनोपात्तौ तौ ताभ्यां निर्भिद्य कथ्येते । यच्चात्रासकृदुच्चारणं दृश्यते न तद्वेदवचनस्यैव । न हि कदा चिदप्येवंरूपो वेदोऽस्ति महांश्चासाविन्द्रश्च महेन्द्रो देवता अस्येति माहेन्द्रः । न चैतदेव वैदिकं पदमेवं विभज्यते । विभागस्य पौरुषेयत्वेनावैदिकत्वापत्तेः । किं तु—
वेदे स्वरूपतः शब्दो माहेन्द्रादिरवस्थितः ।
तस्यार्थः सकलो वाक्यैः पौरुषेयैर्निरुप्यते ॥
विचित्रशक्तीनि हि पदानि एकानेकपदार्थप्रतीतेः ।
तथैषामर्थकथनं कदाचित्पदेनैवान्येन क्रियते कदाचिद्वाक्येन, तेनाप्येकेनानेकेन वा द्विपदेन बहुपदेन वेति वैचित्र्यम् । तद्यथा कः पिकः कोकिलः, क औपगव उपगोरपत्यम् । उपगुना वा स्वकान्तायामुत्पादितः । तथा पचतीत्युक्ते पाकं परगामिफलमेकः कर्ता पूर्वापरीभूतं वर्तमानकाले निर्वर्तयतीति कथ्यते । न चैवं कथयतां वाक्यभेदः प्रसज्यते । न वाऽशब्दार्थत्वमध्यवसीयते । एवमेव यदि माहेन्द्रपदोपात्तोऽर्थस्तदस्पृशद्भिरेव शब्दशक्तिविद्भिः पुरुषैः स्ववाक्येनैकेनानेकेन वा कथ्यते कस्तत्र वाक्यभेदः, शतकृत्वोऽपि हि स्ववाक्यमुच्चार्यमाणं न वेदं दूषयति । न च तदीयोःऽर्थः कथ्यमानः पौरुषेयत्वं भजते, अवश्यं चानेकोऽर्थः पुरुषैः कथ्यमानः क्रमेण कथयितव्यः, सोऽपि च प्रकृतिप्रत्ययपौर्वापर्येणेत्येवं कथ्यते महांश्चासाविन्द्रश्चेत्यादि । न चैवं सापेक्षत्वम् । [म॰ भा॰ ( २—१—१ ) ।] ‘अथवा भवति च प्रधानस्य सापेक्षस्यापि समास’ इति यद्यपीन्द्रशब्दस्तद्धितापेक्षस्तथाऽपि महत्त्वं प्रति पाधान्याल्लभते समासम् । अतश्च युगपदपेक्षायामविरोधस्तथाऽपि तु वृत्तिः क्रमेणैव । कुतः—
सापेक्षोऽपि महत्त्वेन प्रधानत्वात्समस्यते ।
तदपेक्षो गुणत्वात्तु तद्धितेनैव वर्तते ॥
तेन यत्रैव प्रधानं सापेक्षं तत्रैतयैव तावद्वृत्त्या भवितव्यमिति समास एव प्रथमं भवति । यदि वा कृत्वा समासं तन्त्रेण वृत्तिरिष्येत, ततः शुद्ध इन्द्रस्तद्धितसंबन्धी शुद्धश्च समासभागिति निर्गुणस्यैवेन्द्रस्य देवतात्वापत्तेर्गुणानर्थक्यप्रसङ्गः ।
न चेन्द्रमहत्त्वयोर्युगपत्ताद्धितार्थे निपतितयोररुणैकहायन्यादिवत्परस्परनियमो लभ्यते । न ह्यक्रियायां युगपत्संनिपातो नापि विशेषणवशीकारसामर्थ्यम् । सत्यपि च द्वन्द्वदेवतापत्तिः । अकृतसमासयोश्च महदिन्द्रशब्दयोरनेकत्वाद्विवक्षितैकसंख्यप्रातिपदिकनिमित्ततद्धितसंबन्धाभावप्रसङ्गः । किं च—
सुबन्तौ2 यदि वैतौ ते, न प्रातिपदिकं ततः ।
असुबन्तत्वकॢप्तौ वा समासांशो न लभ्यते ॥
तस्मान्न युगपद्वृत्तिरिति क्रमवृत्त्या समासार्थस्यैव देवतात्वम् । अतश्चेन्द्र एव गुणसंयुक्तो महेन्द्रो नार्थान्तरमिति पूर्वपक्ष एव शोभन इत्यन्यदुत्तरं वाच्यम् । तदुच्यते—
श्रुत्या हि देवता यागे समवैति न रूपतः ।
तस्मान्माहेन्द्रशब्दोक्त्या महेन्द्रो देवतेष्यते ॥
यद्यप्यभिन्नोऽर्थस्तथापि [( अ॰ १० पा॰ ४ अ॰ १३ सू॰ २३ )] ‘विधिशब्दस्य मन्त्रत्वे भावः स्यात्तेन चोदना’ इति महेन्द्रशब्देनैवोच्यमानस्यास्मिन् ग्रहयागे देवतात्वं नान्यथा । तत्र सकलपर्यायेणापि बृहदिन्द्रादिशब्देनोच्यमानस्य देवतात्वं न भवति किमुत न्यूनेनैवेन्द्रशब्देन । तथा हि—
अर्थोऽपि यादृशो यत्र देवतात्वेन चोदितः ।
मनागपि ततोऽन्यत्वे देवतेति न गम्यते ॥
देवतात्वस्य प्रत्यक्षाद्यनवगम्यत्वाच्चोदनैवैकं प्रमाणं सा च यं यादृशं यत्र यादृशे चार्थे विदधाति, स यदि तथैवानुष्ठानेऽपि संपाद्येत, ततस्तत्प्रमितोऽयमित्यवसीयते ।
किंचिदपि चेदिहान्यथा जातं निवृत्तव्यापारायां चोदनायां प्रमाणान्तरं मृग्यं न च तदस्तीत्यप्रमाणता यथा वक्ष्यति [( अ॰ २ पा॰ २ अ॰ ३ सू॰ ६ ) इत्यत्र भाष्यकार इति शेषः ।] । ‘स एवाग्निरष्टाकपालस्य देवता नाऽऽज्यस्य’ इति । तेन व्यवस्थावशाद्यथैवेन्द्रे चोदितेऽग्नेर्देवतात्वं न भवति, सोमस्य च चोदिते न पुरोडाशस्य, अभिषुतस्य च न लतायाः, शुद्धे च न सगुणस्य, तथैव गुणवति चोदिते न निर्गुणस्य । कुतः—
देवता हि विधेयत्वाद्विवक्षितगुणेष्यते ।
लक्षणत्वे तु तस्याः स्यादविवक्षा गुणादिषु ॥
यदि हि तद्धितसंबन्धे देवतोद्दिश्यमाना स्यात्ततोऽस्या गुणविवक्षा भवेत् । इयं पुनरविधीयमाना देवतात्वमेव न प्रतिपद्यत इत्यवश्योपादातव्या । ततश्च विवक्षितगुणत्वात्तदपाये न कथं चिद्देवतेति गम्यते । यथा शुक्लवासा भोजयितव्यो ‘लोहितोष्णीषा ऋत्विजः प्रचरन्ति’ ‘दण्डी प्रैषानन्वाहं’ इति विशेषणरहितानामकर्माङ्गत्वम् । यदा तेऽप्युद्दिश्यन्ते योऽयं शुक्लवासास्तमानयेत्यादौ तदा विनाऽपि विशेषणेनाऽऽनीयन्ते । तदिह यद्यपि तावद्देवता रूपेणोपकुर्यात्तथाऽपि न गुणरहिताऽऽश्रीयेत, किमुत यदाऽमिधानोपकारिणी विधिगतव्यतिरिक्ताभिधानाभिहिता नैव प्रत्यभिज्ञायते सैवेयं देवतेति ।
समासेन च विधीयमानायां नानेकार्थविधिदोषप्रसक्तिः । तत्र माहेन्द्रग्रहगता न कथं चिदिन्द्रशब्देनोच्यते ।
या तु तेनोच्यते सा तत्र नैव देवतेत्यनर्थकमेवास्याः प्रकाशनम् । अतश्च ‘न श्रुतिसमवायित्वात्’ इत्ययमपि सूत्रार्थो भवति श्रुतिसमवेतं देवतात्वं भविष्यति तदधीनज्ञानमित्यर्थः । तच्च तद्धितसंवादे सति ज्ञायते । तस्मादस्ति देवताभेद इति । कथं त्वंस्मिन् पक्षे भाष्यगमनिका । तदभिधीयते ।
पूर्वपक्षवादी तावदनुत्कर्षं प्रगाथस्य वदति, यश्च माहेन्द्राद्ग्रहादिन्द्राभिधानसमर्थमन्त्रानुत्कर्षं वदति तेनाकर्माङ्गभूतार्थप्रकाशनवैयर्थ्यादिन्द्र एवात्र शुद्धो देवताभूतः प्रकाश्यत इत्यभ्युपगतं भवति ।
तस्य च देवतात्वं नाभ्युपगममात्रेण सिध्यति, नापि प्रमाणान्तरेणेति य एतद्ग्रहोत्पत्तिवाक्ये देवताभिधानशक्तस्तद्धितः श्रूयते ‘माहेन्द्रं गृह्णाति’ इति तत्संयोगाद्विज्ञायते । स च यदि समासान्निष्कृष्य केवलादिन्द्रशब्दादुत्पाद्यते, ततो मन्त्राभिधेयसदृशं देवतात्वमुक्तं भवति ।
सिद्धवच्चैतमर्थं पूर्वपक्षवादिनोऽभिप्रेतं मन्वानो निष्कृष्य ब्रवीति इन्द्रोऽस्य देवता—इति तद्धितसंयोगेन ज्ञायते, न चास्य महत्त्वमपेक्षमाणस्याकृते समासे शुद्धस्योपसर्जनीभूतस्य तद्धितसंयोगः, तद्धितसंयोगापेक्षस्य वेति—सत्यमि सापेक्षप्रधानसमासे प्रातिपदिकावस्थायां तद्धितापेक्षा, न च तदानीमसुवन्तत्वात्समासोपपत्तिः । तेन यत्रैव पृथग्भूतं सुबन्तं संबन्धार्हमेव पदान्तरमपेक्षते यथा राजपुरुषः शोभन इति, तद्विषयमेवैत्, ‘भवति वै प्रधानस्य सापेक्षस्यापि समास’ इति द्रष्टव्यम् ।
अकृते च समासे तद्धितापेक्षायां वाक्यात्तद्धितोत्पत्तिरित्यभ्युपेतं स्यात् । शुद्धस्य वा तद्धितसंस्पर्शाद्विशेषणानन्तर्गतिप्रसङ्गः । क्रमवृत्तिः पुनर्भवतो नाभिप्रेतैव, पूर्वं तद्धितसंबन्धे पूर्वोक्तावेव द्रव्यविशेषणोत्तरपदवृद्धिप्रसङ्गदोषौ ।
न च समासार्थे वृत्तस्य शुद्धस्य तद्धितसंबन्धः । तेनैकस्मिन्नेव प्रयोगे तन्त्रसंबन्धोऽभ्युपगन्तव्यः । ततश्च [( अ॰ १ पा॰ ४ अ॰ ५ सू॰ ८ )] ‘ऐकशब्द्ये परार्थवत्’ इति तथैव वैरूप्यदोषः ।
विस्पष्टश्चायमन्योऽर्थ इति प्राक्समासादनेकार्थविधेः समासपदलम्यत्वाद्वाक्यमेदमाह । कृते तु समासे नैष दोषः । तस्मान्नेन्द्रो देवताऽमहत्त्वविशिष्टः शुद्धः किं तर्हि, विशिष्ट एव ।
अथ वा नेन्द्रो देवता केवलपदोपात्तः शुद्ध इत्यभिप्रायः । कथं तर्हि, महत्त्वविशिष्टः, समासप्रातिपदिकात्तद्धितोत्पत्तेः ।
न त्ववयवसंबन्धेनेति—नावयप्रसिद्धिनिराकरणपरं, किं तर्हि, नावयवसंबन्धेन तद्धितोत्पत्तिर्निष्क्रष्टुमशक्यत्वादित्यभिप्रायः ।
तस्माद्देवतान्तरमिति । सत्यपि द्रव्यैकत्वे सगुणनिर्गुणाश्रयणाद्देवतान्तरत्वम् । आह च—
आचार्यो मातुलश्चेति द्रव्यैकत्वेऽपि दृश्यते ।
अपेक्षाहेतुभेदेन व्यवहारः पृथक्तया ॥
यदप्युच्यते इन्द्रस्य वृत्रवधोत्तरकालमिति । पूर्वं सर्वत्र शुद्धात्मनः प्रतिपन्नदेवतात्वस्य पश्चात्तनोऽयं गुणः स्तुतिमात्रोपयोगी न देवतात्वेऽन्तर्भवतीति मन्यते । अस्य तूत्तरं गतार्थम् ।
स्थिते च देवतान्तरत्वे, शुद्धस्य देवतायाः प्रकाशनं, शुद्धेन वा विशिष्टस्य, विशिष्टचोदनायामपि वा शुद्धस्य देवतात्वं, शुद्धशब्दोच्चारणेऽपि वा विशिष्टे देवतात्वं प्रतिपद्यत इत्यादि सर्वमन्धकारनिरीक्षितं साहसमात्रेणाभ्युपगम्येत, न चैतद्युक्तम् । अतो यत्र विधिमन्त्रयोर्देवतासंवादस्तत्र प्रगाथो नीयेत । अस्मत्पक्षे पुनः—
यां कां चिदप्युपादाय देवतां साधिता स्तुतिः ।
अदृष्टं यागमात्रार्थं करोत्यारादवस्थितम् ॥ १७ ॥
यदि चाऽऽदिमाननादिर्वा गुणः केवलमिन्द्रस्तुत्यर्थमेवोपादीयते न देवतात्वेऽन्तर्भवति, ततोऽस्योपादानमेवानर्थकं स्यात् । सर्वा हि देवतैवमर्थमभिधीयते विधीयते वा, कथं नाम तदुद्देशेन कर्म क्रियेतेति ।
यदि चाविहिते विहिते च गुणे केवलेनेन्द्रेण व्यवहियते ततो नार्थो गुणाभिधानेन । किं च—
गुणोऽनन्तर्गतश्चात्र पश्चादाभिहितो भवेत् ।
लक्षणत्वेन वोक्तः सन्नचाप्राप्तेस्तदस्ति ते ॥
न हि ग्रहसंबन्ध इन्द्रस्य प्राप्तो येन तद्रतेन्द्रानुवादेन महत्त्वं केवलमेव स्तुत्यर्थमुच्येत । न च महानिन्द्रः प्राप्तो यतो गुणेनोपलक्ष्य विधीयेत । तस्मादप्राप्तविधेर्देवतान्तरता ॥ १८ ॥
पूर्ववन्मन्त्रव्यपदेशभेदव्यवस्था ॥ १९ ॥
वशादिद्रव्याणामर्थरूपोपकारित्वात्प्रत्यक्षलभ्ये विशेषे सामान्येनापि सिद्धेर्न विधि शब्दादरः ॥ २० ॥
बलवत्प्रमाणविरोधे संस्कारपक्षस्त्यज्येत, न च सोऽस्ति, लिङ्गबलीयस्त्वादुत्कर्षसिद्धेरित्यपर्युदासः संस्कारपक्षस्य ।
अथ वाऽर्थैकदेशोऽयं समासार्थप्रकाशनम् ।
करिष्यत्यविरोधाय मनोतास्थाग्निशब्दवत् ॥
अनुत्कृष्यमाण एव वा प्रगाथः सन्निधिवशादवयवद्वारेण महेन्द्रमविरोधाय दृष्टार्थत्वाय च प्रकाशयिष्यति, यथाऽग्नीषोमीये मनोतायामग्निशब्दः प्रकरणात्समासस्थः प्रतीयमानः साहचर्यात्सोममपि प्रतिपादयन्समुदायार्थो विज्ञायते । अतश्चानुत्कर्षेऽप्यदोष इति ॥ २१ ॥
आम्नातेष्वपि मन्त्रेषु नोत्कृष्टेष्वर्थदर्शनम् ।
सर्वेषु भवतीत्येवं नोत्कृष्टत्वं न दुष्यति ॥
न हि यमादीनां ग्रहान्तरेष्वपि देवतात्वं येनेन्द्रवदुत्कृष्टैर्मन्त्रैः प्रकाश्येरन् । अतस्तेषां तावद्विध्यानर्थक्यप्रसङ्गादवश्यमदृष्टार्थत्वेन भवितव्यम् । ततश्च तत्सामान्यादितरेषु तथात्वं, तस्मान्न संस्कारकर्मत्वमिति ॥ २२ ॥
यमादयो न विद्यन्ते यद्यपि ग्रहदेवताः ।
अन्यकर्मोपयोगित्वात्प्रकाश्याः स्युस्तथाऽपि नः ॥
मण्डूकसूक्तस्याग्नौ प्रयोगः, तत्र मण्डूकेनाग्निविकर्षणाम्नानात् । अक्षसूक्तस्य राजसूये, तत्र ‘अक्षैर्द्दीव्यति’ इति विधानात् ।
मूषिकासूक्तस्यैकादशिन्याम्, ‘आखुस्ते पशुः’ । इत्युपशयसंबन्धसंकीर्तने सति तद्द्वारेणोपशयस्यैव स्तुतिः । कुषुम्भकसूक्तादीनां तु यदि क्व चिद्विशेषरूपेणार्थो नास्ति ततः सामान्यविधानेनार्थवत्ता भविष्यति ।
वाचः स्तोमे सर्वमन्त्रोपदेशात् । तथाऽऽश्विने सूर्योदयावधि समाप्त्यसंभवे सर्वासामृचामुपदेशात् ।
तत्र वचनेनैवाऽऽसमवेतार्थमन्त्रविधानसामर्थ्यादगतेरदृष्टार्थाश्रयणं, न च क्वचिददृष्टार्थत्वेन सर्वत्रैव दृश्यमानमप्यर्थं प्रोझ्झ्यादृष्टार्थत्वकल्पना युज्यते । तथा हि—
न जपादावदृष्टार्थे वैष्णव्यादिनिदर्शनात् ।
याज्यादावपि दृष्टार्थे स्याददृष्टार्थकल्पना ॥ २३ ॥
यदुक्तं मनोतायामिवाग्निशब्द इन्द्रशब्दः समासार्थं लक्षयिष्यतीति । तदयुक्तम् । कुतः । एतस्मादेव दोषात् । न हीन्द्रशब्दस्य स्वार्थमभिदधतः कश्चिद्विरोधो येन श्रुतिवृत्तिं जह्यात् ।
सर्वादृष्टार्थानां च यथाकथं चिल्लक्षणया दृष्टार्थत्वापादनसंभवादयुक्तमेतत् । यत्तूक्तमुत्कृष्यतामेवेति । तदयुक्तम् । कुतः—
प्रकृतस्तोत्रशेषत्वं श्रुत्या संनिधिकॢप्तया ।
विना सामान्यसंबन्धाल्लिङ्गं चाविनियोजकम् ॥
यदि ह्येकान्तेन प्रथमं दृष्टार्थत्वमवधारितं स्यात् ततः क्रमसंनिधिकल्प्या श्रुतिर्बाध्येत, यतस्तु विनियोगोत्तरकाला प्रयोजनकल्पना न तद्वशेनैव विनियोगस्तेन क्रमसंनिधिभ्यां विनियुक्ते दृष्टमदृष्टं वा प्रयोजनं कल्प्यमानं न विरुध्यते । न चोत्कृष्टस्य प्रगाथस्यान्यत्र विनियोगहेतुरस्ति ।
लिङ्गं हि देवतां प्रकाशयितुं सामर्थ्येन तन्मन्त्रं स्वरूपे विनियुञ्जीत, तथा चात्वानर्थक्यप्रसङ्गः । कर्मसंबन्धे तु न कश्चिदस्य व्यापारः । तदेतल्लिङ्गं यदि सामान्यतः केन चित्कर्मसंबन्धः । क्रियते, ततः कथं तस्योपकरिष्यतीत्यपेक्षिते यथा शक्नोतीत्येवमाश्रयणाद्देवताप्रकाशनद्वारेणेति विनियुङ्क्ते ।
न चात्र सामान्यसंबन्धकारणं पश्यामः । तस्मादुत्कृष्टानामानर्थक्यमेव स्यादित्यदृष्टार्थतैव न्याय्या । किंच—
एवं च सप्तमी षष्ठी द्वितीया स्तौतिशंसती ।
श्रुतिवृत्ता भविष्यन्ति त्वत्पक्षेऽन्यार्थवृत्तयः ॥
गुणगुण्यभिधानक्रियाणामक्षरारूढत्वात्सप्तमीश्रुतिसंयोगो घटते । प्रकाशने हेतुकरणत्वात्तृतीयायुक्ताः कवत्यादयः श्रूयेरन् । ननु स्तुतावपि कवतीनां करणत्वात्तृतीयैव प्राप्नोति । नैष दोषः—
आधारत्वमपि ह्यासां करणत्वं च विद्यते ।
तत्रैतयोर्यथाभीष्टं निर्देश उपपद्यते ॥
प्रकाशनं पुनः परमार्थतस्तावदात्माधारम् । कर्मत्वप्रतिपत्त्युत्तरकालं च व्याप्यत्वाद्देवताधारम् । तत्र कवतीनामैकान्तिकमेव करणत्वमिति वैषम्यम् ।
अपि च स्तौति शंसतीति स्तुतिभावना पूर्वापरीभूता श्रूयते । तस्यां च धात्वर्थः करणभूतः शेषाणि च कारकाणि नित्यं धात्वर्थं निष्पादयन्ति संबध्यन्ते । तत्र यदि मन्त्राः स्तोत्रनिर्वृत्त्यर्था भवन्ति ततोऽपेक्षितार्थकरणाच्छास्त्रदृष्टमर्थं कुर्वन्तो दृष्टार्था भवन्ति । प्रकाशनं तु कुर्वन्तोऽचोदितकरणाददृष्टार्था भवेयुः । ततश्च वरं स्तुतीनामेवाऽदृष्टार्थत्वम् । किं च ।
श्रुत्यैव षष्ठी पारार्थ्यं देवतानां ब्रवीति नः ।
न प्रधानं गुणाश्चेष्टाः स्तुतेस्तेन प्रधानता ॥
देवताप्राधान्ये हि प्रातिपदिकार्थपरत्वादव्यतिरिक्तार्थविषया ‘अग्निर्मूर्धा’ इवत्प्रथमैवश्रूयेत ।
यदपि किं चित्प्रथमान्तं तदपि योग्यतापूर्वकैकवाक्यत्ववशेन गुणसंबन्धार्थमेव । यथा, इन्द्रो यातो—जङ्गमस्य, अवसितस्य—स्थावरस्य च राजेति ।
न च गुणानामुपयोगोऽस्तीति तत्प्राधान्यानाश्रयणे स्तुत्यर्थतैव युक्ता । सत्यमिति ग्रन्थच्छेदः । तत्रार्थवादन्यायेन शेषपदानर्थक्यप्रसङ्गात्सत्यपि पूर्वत्र प्राधान्यपर्यवसानसंभवे स्तुत्यर्थेनैवैकवाक्यता युक्ता ।
न चैवं स्तौतिशंसत्योः प्रकाशनलक्षणार्थता भविष्यतीति स्तुतेरेव प्राधान्यम् ॥ २४ ॥
पृथक्त्वनिवेशिनी द्विद्वादशसंख्या न प्रकाशनाभेदे सति शब्देनोच्यते । सामान्याविवक्षायां वा प्रत्यृचं प्रतिपदं च तन्निर्वृत्तेर्न द्वादशत्वेऽवतिष्ठते । ननु च स्तुतावपि तुल्यमेतत् । तथा हि—
सामान्यस्तुतिरेकैव भेदोऽपि प्रत्यृचं स्थितः ।
न चान्यथा विवक्षाऽस्ति यतो द्वादशता भवेत् ॥
अथ स्तोमवशादृक्समुदायसाध्याः स्तुतयो गण्यन्ते तथा प्रकाशनान्यपीत्यविशेषः । उच्यते—
क्रियाः फलापवर्गिण्यस्तत्संख्यागणनाः सदा ।
अपूर्वद्वादशत्वाच्च द्वादशत्वं निरूप्यते ॥
प्रकाशनार्थत्वे हि प्रत्यृचं प्रतिपदं च तन्निर्वृत्तिदर्शनात्क्रियासमाप्तेर्न किं चित्कारणमस्ति, येन द्वादशत्वं परिच्छिद्येत । अपूर्वार्थत्वे तु तेषां शास्त्रगम्यत्वाद्यथोक्तस्तोमसंपदः प्राङ्निर्वृत्तिप्रमाणाभावादृक्समुदायेनापूर्वनिर्वृत्तेस्तद्द्वारेण क्रियासमाप्त्युपलक्षणादपूर्वाणां द्वादशत्वेन न्तुतिद्वादशत्वसिद्धिः । न हि प्रत्यृचं सर्वस्तोत्रेभ्यो वा तत्कल्पनायाः किं चित्प्रमाणमस्ति यथा प्रकाशनस्य दर्शनम् ॥ २५ ॥
ऋचामनूह्यत्वादाग्नेयग्रहचोदनयैवाऽऽग्नेयीनां स्तुतिसाधनत्वसिद्धेः ‘आग्नेयीषु स्तुवते’ इत्यनर्थकं वचनम् ॥ २६ ॥
सबन्धस्य भेदनिबन्धनत्वात्संबन्धवचनेन स्तोत्रशस्त्रयोर्भेदः । स च प्रकाशनैकत्वान्न प्राप्नोति । ननु स्तुत्येकत्वादितरत्रापि तुल्यमेतत् । अथ प्रगीताप्रगीतमन्त्रसाधनत्वेन भेदः, तद्व्यक्तिद्वारेण वा, स पूर्वपक्षेऽप्यविशिष्टः । तत्रोत्तरं द्वादशत्ववत् । अत्यन्तभेदाद्धि स्तोत्रशस्त्रापूर्वयोस्तद्द्वारेण क्रिययोर्भेदमुपचर्य संबन्धवचनम् । न तु प्रकाशनं स्वतः फलतो वा भिद्यते ॥ २७ ॥
यदिदं द्वितीयाप्रतिपादितकर्मार्हमभिधानमिदं चापरं प्राधान्ये कारणम् । प्रधानक्रिया हि केन चिद्रूपेणेप्सिता ‘अग्निहोत्रं जुहोति’ ‘आधारमाधारयति’ इतिवद्भवति न संस्कारक्रियाऽत्यन्तगुणभूतत्वात् ।
अथ वा स्तोत्रशस्त्रसमाख्ययोरभिधानत्वं तत्प्राधान्यज्ञापनार्थम् । इतरथा हि प्रकाशनमित्येवं समाख्या स्यात् । अवहन्त्यादिवद्वा नैव भवेत् ॥ २८ ॥
योऽयं मन्त्रे फलाशीरर्थवादः स स्तुतेः प्रधानत्वे घटते सर्वत्र प्रधानविषयत्वात्प्रार्थनानाम् । त्वत्पक्षे तु—
देवतैव प्रधानत्वात्फलं याच्येत कर्मवत् ।
न स्वामिनि स्थिते कश्चिद्दासात्प्रार्थयते फलम् ॥ २९ ॥
इति स्तुतशस्त्राधिकरणम् ॥ ५ ॥