सिद्धं कृत्वाऽपूर्वं तत्प्रतिपत्त्युपायशब्दविशेषविचारः कृतः । तस्य सिद्धत्वमेवाप्रसिद्धमतस्तदेव तावत्प्रतिपादनीयमित्यत आह—
फलाय विहितं कर्म क्षणिकं चिरभाविने ।
तत्सिद्धिर्नान्यथेत्येवमपूर्वं प्रति गम्यते ॥
वेदवाक्योपात्तस्वर्गयागादिसंबन्धान्यथानुपपत्त्या चोदनयैवापूर्वमपि चोदितं भविष्यतीति प्रमाणवत् । तस्मादस्त्यपूर्वमिति । अत्रापरे निपुणंमन्यास्तन्निराकरणमाहुः—
प्रमाणपञ्चकाज्ञानादपूर्वं षष्ठगोचरः ।
तस्मादन्वर्थनामैतन्न वस्तुत्वेन गम्यते ॥
वस्त्ववबोधनार्थानि प्रत्यक्षादीनि पञ्च प्रमाणानि । तद्यत्र तानि न प्रवर्तन्ते तदभावेनाभावात्मनैवावगम्यते । न चापूर्वे तानि प्रवर्तन्ते । तस्मात्सर्वप्रमाणापूर्वत्वादन्वर्थनामैवासद्रूपमपूर्वं प्रतिपत्तव्यम् । तत्र प्रत्यक्षेण तावन्नावगम्यते, रूपाद्यनात्मकत्वेन चक्षुरादिभिरसंबन्धात् । नाप्यनुमानेन, केनचिल्लिङ्गेन सहादृष्टसंगतित्वात् । न हि विशेषतः सामान्यतो वाऽस्य केनचित्संबन्धोऽनुभूतपूर्वः । सर्वत्रैव च वस्तुसत्ताबोधायानुमानमपर्याप्तमित्युक्तं1 प्राक् ।
पदवाक्ये न चैतस्य वाचके शृणुमः क्वचित् ।
शब्दगम्यत्वमप्यस्य तेन नैवोपपद्यते ॥
आगमिकत्वमप्यस्य पदेन वोच्यमानस्य स्याद्वाक्यगम्यस्य वा । तत्र पदं न तावत्किंचित्साक्षादेतस्य वाचकमस्ति । यत्त्वपूर्वमिति तदन्वर्थत्वात्सुतरामस्तित्वं बाधते । न च प्रमाणान्तरानवगतेऽर्थे पदं प्रवर्तते । न च स्वातन्त्र्येण प्रमाणमिति स्थितम् । तथा च वाक्यस्यावाचकत्वादेवाप्रामाण्यम् । न च केचित्पदार्थाः श्रूयन्ते येषां भेदः संसर्गो वाऽपूर्वं भवेत् । येऽपि शब्दान्तरादयः श्रुतिलिङ्गादयश्च शब्दप्रकारास्तेऽपि च स्वभावसिद्धे वस्तुनि भेदे विनियोगे वा कारणं न सद्भावे कस्यचिदित्यपूर्वं प्रत्यप्रमाणम् । उपदेशानवगते चातिदेशोऽपि न प्रवर्तते । विधिप्रतिषेधविषयत्वाच्च समस्तस्य वेदस्य न क्वतिद्वस्तुस्वरूपप्रतिपादनार्थत्वं भवतीति नाऽऽगमगम्यमपूर्वम् । न चादृष्टपूर्वस्यादृष्टसदृशस्य चोपमानविषयत्वम् । कामं वाऽनुपलभ्यमानशशविषाणादिसारूप्यादभावात्मकत्वोपमानप्रसङ्गः । तस्मादसद्रूपेणोपमेयम् ।
अर्थापत्त्याऽपि नैवैतदस्तीत्येवं प्रतीयते ।
अन्यथाऽप्युपपन्नत्वात्फलयागादिसंगतेः ॥
दृष्टार्थापत्तिस्तावद्धर्मास्तित्ववदेवात्रापि निराकर्तव्या । स्वभावादिनाऽपि ईश्वरदरिद्रादिवैचित्र्योपपत्तेः । श्रुतार्थापत्तिरपि कीदृशी भवति यत्र प्रत्यक्षेणैवानुपपत्तिर्दृश्यते । न च कल्प्यमानोऽर्थः केन चिद्धिरुध्यते, तद्यथा ‘स्रुवेणावद्यति’ इत्युक्ते न च कथंचिदपि मांसपुरोडाशादीनि तेनावदातुं शक्यन्त इति । प्रत्यक्षगम्यत्वात् । अपि च तत्रापि प्रसक्तेरेवं कल्प्यते द्रवाणामिति । न चैषा कल्पना केन चिद्विरुध्यते श्रुतहान्यश्रुतपरिकल्पनाभावात् । अपूर्वं तु न कदाचित्फलसाधनत्वेन संभाव्यते । यतोऽन्यकारणनिषेधे सति तद्विषया परिशेषसिद्धिः स्यात् ।
यदि त्वन्यनिवृत्त्यैव परिशेषः प्रकल्प्यते ।
शशशृङ्गनिमित्तत्वं फलानां किं न गम्यते ॥
न हि कारणान्तरप्रतिषेधमात्रेणापूर्वनिमित्तता गम्यते, शशविषाणादिभिरनैकान्तात् । अपि च यदि तावदपूर्वं यागस्य साध्यमिष्यते ततः श्रुतं स्वर्गं परित्यज्याश्रुतं परिकल्पितं भवेत् । अथ फलं प्रति साधनभूतं, ततः श्रुतयागपरित्यागात्सैव गतिः । न चाऽऽकारान्तरेण2 तन्निरूपयितुं शक्यते । तेनाऽऽगमप्रामाण्याद्यागादेव फलेन भवितव्यम् । कथं नष्टः साधयतीति चेत् । यदि शास्त्रादेवं गम्यते किं भवतो विरुध्यते । ध्रियमाणेन वा फलं साधनीयमित्यत्र किं प्रमाणम् । अपि चाऽऽकाशादीनि नित्यावस्थितानि कस्मात्फलं न साधयन्ति । यदि च श्रूयमाणातिरेकेणावस्थायित्वसंभवादपूर्वेण फलं साध्यत इति कल्प्यते ततो वरमाकाशादेरेव कल्पितं, तस्य हि स्थानसद्भावावपि तावत्प्रसिद्धौ केवलं फलनिमित्तत्वमाश्रयणीयम् । अपूर्वे तु सद्भावप्रभृति सर्वं निष्प्रमाणकं कल्पनीयम् । अथ यागसंबन्धिना केनचिदवस्थितेन फलं दातव्यमित्यभिप्रायः । तथा सत्यपि—
यष्टुरेवाऽऽत्मनो यागैः संगतस्य स्थितस्य च ।
निमित्तत्वं वरं कॢप्तं लाघवं हि तथा सति ॥
यदि यागस्य विनाशित्वादन्येन तत्संबन्धिना फलं साध्यमानं यागेन साधितं भवति ततो लाघवादतिक्रान्तयागेनाऽऽत्मनैव वरं साधयितव्यम् ।
यद्वा कर्मविनाशोऽयं फलं नः साधयिष्यति ।
भङ्गियागविधानाद्धि तदयत्नेन कल्प्यते ॥
विनाशिनि हि कर्मणि चोदिते किं दृश्यते, कर्म च विनष्टं शास्त्रप्रत्ययाच्च कालान्तरे फलं भविष्यतीति निश्चीयते । यच्च3 यत्, प्रतीत्योपजायते तत्र तस्य निमित्तत्वमित्यवधार्यते । तस्मादभावनिमित्तमेव फलमस्तु । स्यादेतत् । न क्वचिदवस्तुनः साधकत्वं दृष्टमिति । तदुच्यते । अपूर्वस्य वा क्व दृष्टं येनात्राऽऽश्रीयते तदवश्यकर्तव्ये लौकिकनिमित्तधर्मातिक्रमे4 किमपूर्वनिमित्तत्वं कल्प्यतामुताभावनिमित्तत्वमिति, कॢप्ताभावनिमित्तत्वातिलङ्घनेन काल्पनिकापूर्वनिमित्तत्वपरिग्रहो न युज्यते । किं च—
यदि चैकान्ततो ब्रूयुः शब्दाः कालान्तरे फलम् ।
ततस्तेनैव कल्प्येत निमित्तं वस्तु किंचन ॥
क्रियाफलसंबन्धप्रतिपत्तिमात्रचरितार्थासु चोदनास्वनुपात्ते कालान्तरे कर्मस्वभावादानन्तर्ये गम्यमाने कुत एतत्कालान्तरभावि फलं तत्सिद्ध्यर्थं चापूर्वं कल्प्यत इति । तत्रैतत्स्यात् । कृते कर्मण्यनन्तरं फलमनुपलभ्य कालान्तरफलोत्पादद्वारमपूर्वकल्पनमिति । तदयुक्तम् । कुतः—
पूर्वं निश्चित्य शास्त्रार्थं प्रयोगे हि प्रवर्तते ।
प्रयोगोत्तरकालं तु न शास्त्रार्थोऽवधार्यते ॥
[( अ॰ ३ पा॰ ८ अ॰ ८ सू॰ १८ ) ।] ‘नह्यविद्वान्विहितोऽस्ति’ इति तावदवश्यं यावच्छास्त्रगम्यं तत्सर्वं प्रागनुष्ठानादवगन्तव्यम् । न च तत्काले कर्मफलकालवियोगज्ञानकारणमस्ति । यच्च शास्त्रप्रवृत्ति वेलायां तदन्तर्गतत्वेन नावधारितं तदुत्तरकालमेवावधार्यत इति कुत एतत् । अपि च—
सर्वकर्तृष्वशक्तत्वाद्वैगुण्यं5 संप्रतीयते ।
तेन च प्रतिबद्धत्वान्नार्थापत्तिरपूर्वभाक् ॥
दृश्यत एवानन्तरफलानुत्पत्तिकारणवैगुण्यमिति न कालान्तरफलसिद्ध्यर्थमपूर्वं कल्पनीयम् । अनैकान्तिकी हि तदाऽर्थापत्तिर्वैगुण्यमेव वरमननुभूतमपि कल्पयेत् । न च जन्मान्तरफलोत्पत्त्यर्थमपूर्वकल्पना ॥ कुतः—
सुखदुःखात्मकत्वेन समानेष्वेव जन्मसु ।
क्रियानन्तरमेवेह स्तः स्वर्गनरकावपि ॥
न हि स्वर्गनरकौ नाम निरतिशयसुखदुःखस्वभावौ देशविशेषात्मकौ वा याविहैव जन्मनि नानुभूयेयाताम् । अलौकिकानां जिहासोपादित्सानुपपत्तेः । ये तु लौकिके प्रकृष्टे सुखदुःखे ते कर्मानन्तरमेव संभाव्येते इत्यविशेषः6 । किं च—
प्रतिषेधेषु चापूर्वं न शास्त्रार्थेन जन्यते ।
तदतिक्रमजन्यं तु न भवेच्छास्त्रपूर्वकम् ॥
‘ब्राह्मणो न हन्तव्यः’ इति हि निवृत्तिः शास्त्रार्थः । न च तया कालान्तरे किं चिज्जनयितव्यमिति नापूर्वकल्पनामपेक्षते । हननस्य तु नरकपातः फलं, तद्यदि तेना पूर्वं जन्येत ततो हननस्याचोदितत्वाल्लौकिकक्रियाजन्यं सदपूर्वं न वेदमूलं स्यात् । कल्पितमपि च तन्निष्क्रियत्वान्नैव देशान्तरे शरीरादिप्रापणसमर्थमित्यनर्थकम् । न चास्याऽऽश्रयः संभवति, क्रियाश्रयस्य पुरोडाशादेर्विनष्टत्वात्तद्व्यतिरिक्ते चाऽऽरम्भानुपपत्तेः । एवमङ्गापूर्वाण्यपि निराकर्तव्यानि । किं च—
अङ्गानि यदि वाऽपूर्वं कुर्वन्त्यारादवस्थितम् ।
असंबन्धात्प्रधानानां न स्यात्तेनोपकार्यता ॥
न हि कल्पितमप्यङ्गापूर्वं प्रधानैरसंबन्धमानमुपकर्तुं समर्थं, न चामूर्ते प्रधाने तदपूर्वे वा निपतितुं समर्थम् । यदपि न प्रोक्षणादिनिमित्तं द्रव्यसमवायि तदपि तन्मात्रोपक्षीणत्वादन्यत्रासंचरन्नैव फलसाधनस्यापूर्वस्योपकुर्यात् । अथ त्वङ्गापूर्वाण्यपि यजमानात्मन्येवावतिष्ठेरन्, एवं सति पुरुषार्थत्वापत्तेः कर्माङ्गत्वहानिः स्यात् । अपि च युगपत्प्रयोगवचनेन ग्रहणादङ्गापूर्वैर्युगपदेवोपकर्तव्यम् । न च परस्परेणासंबद्धानां यौगपद्यं संभवति । न चैषां कश्चित्संबन्धे हेतुरस्ति । एतेन प्रधानापूर्वाणां फले यौगपद्यं प्रत्युक्तम् ।
तस्मात्कृतत्वमात्रेण प्रधानं पुरुषे फलम् ।
अङ्गानि च प्रधानेषु जनयन्तीति गम्यते ॥
न चापूर्वस्योत्पत्तिरभिव्यक्तिर्वोपपद्यते । कुतः—
न तावद्युगपज्जन्यं कर्मभिः क्रमवर्तिभिः ।
न चानवयवत्वात्तत्क्रमशोऽपि प्रतीयते ॥
एवं सावन्नोत्पद्यते । न चाभिव्यज्यते । कथम् ।
इन्द्रियार्थोभयेषां नः संस्काराद्व्यक्तिरिष्यते ।
न च यागादिभिः किंचित्संस्कृतं संप्रतीयते ॥
सर्वाभिव्यक्तीनां त्रयान्यतमसंस्कारद्वारत्वात्संस्कारान्तरमवश्यं कल्पनीयं ततः पुनः स एव क्लेश इत्यप्रमाणता । यदि च क्रियानन्तरमपूर्वमुपलभ्येत ततोऽभिव्यज्यत इति ब्रूयाम । यदि चास्य प्रागस्तित्वे प्रमाणं भवेत् । न तु तदुभयमप्यस्तीति । सर्वथा नास्त्यपूर्वं । न चैतत्सूत्रं तत्प्रतिपादने विस्पष्टमित्यव्याख्यानमेतत् । अत्रोच्यते । यदिदं स्वमतिपरिकल्पितं विग्रहवदिवापूर्वं भवद्भिर्निराक्रियते न तेनास्माकं किंचिद्विरुध्यते । यतो नैतत्तादृशं कस्यचिदिष्टं, किं तर्हि—
कर्मभ्यः प्रागयोग्यस्य कर्मणः पुरुषस्य वा ।
योग्यता शास्त्रगम्या या परा साऽपूर्वमिष्यते ॥
प्रधानकर्मणामङ्गकर्मणां वा प्राक्करणात्स्वर्गादिप्राप्त्ययोग्याः पुरुषाः क्रतवश्च स्वर्गकार्यायोग्याः । तामुभयीमप्ययोग्यतां व्युदस्य प्रधानैरङ्गैश्च योग्यतोपजन्यत इत्यवश्यं सर्वेणाभ्युपगन्तव्यम् । असत्यां तस्यामकृतसमत्वप्रसङ्गात् । सैव च पुरुषगता क्रतुगता वा योग्यता शास्त्रेऽस्मिन्नपूर्वमित्यपदिश्यते । यत्तु प्रत्यक्षादिगम्यत्वमस्य नास्तीति सत्यं, श्रुतार्थापत्तिव्यतिरिक्तैर्न गम्यते स त्वदोषः । किं कारणम्—
श्रुतार्थापत्तिरेवैका प्रमाणं तस्य वेष्यते ।
शब्दैकदेशभावाच्च स्वार्थेष्वागम एव नः ॥
येन वाक्येन यागात्स्वर्गो भवति प्रयाजादिभिश्च प्रधानोपकारो भवतीत्येतच्चोद्यते तेनावश्यं विनष्टानामविनष्टानामपि चैषां काऽपि स्वकार्योत्पादनशक्तिरस्तीत्यभ्युपगन्तव्यं सर्वभावानामशक्तानां कार्यारम्भाभावात् । नियोगतश्चात्रातीतानामेवं शक्तिरेष्टव्या । कुतः—
क्षणिकत्वेन सर्वत्र नैकस्यापि हि कर्मणः ।
कथं चिद्युगपद्वृत्तिः फले किमुत भूयसाम् ॥
यदेव हि कर्म गृहीतं तदेव हि क्षणिकसूक्ष्मावयवत्वात्फलं प्रति युगपद्भवितुमसमर्थं किमुत यान्यनेकात्मकानि दर्शपूर्णमासप्रभृतीनि । यदा हि पूर्णमासो भवति न तदा दर्शो यदा दर्शस्तदा पूर्णमासश्चिरविनष्टस्तथैकस्मिन्नेव समुदाये यदाऽऽग्नेयस्तदाऽग्नीषोमीयोपांशुयाजौ न स्तः, यदा तयोरेकस्तदेतरौ न विद्येते इति यौगपद्यासंभवः । तद्यदा दर्शपूर्णमासस्तदवयवो वा कांचित्पुरुषे शक्तिमनाधायैव विनश्येत्ततः प्रागवस्थातुल्यत्वादुत्तरकर्मणां पूर्वैः सह रूपतः शक्तितो वा साहित्याभावान्न केवलकरणोत्कश्चिद्विशेष इति सहितसाध्यत्वेन श्रुतं फलं साहित्यासंपत्त्या नोपपद्येत । न हि केवलो दर्शस्तत्साधनत्वेन श्रूयते तदन्त्यं वा कर्म । नियोगतश्च कर्मानन्तरफलोत्पत्तिवादिनाऽपि सर्वकर्मान्ते साऽभ्युपगन्तव्या । ततश्च यस्यैवाऽऽनन्तर्यं तदेवैकं साधनं प्राप्नोति नेतराणि चिरविनष्टत्वात् । अथ तु सर्वेषामपूर्वाख्याः शक्तयस्तिष्ठन्ति ततः स्वरूपाणामतन्त्रत्वात्तेष्वसत्स्वपि शक्तिगतमेव यौगपद्यं व्यवहाराङ्गत्वादौव्यापरिष्यते । तथा चाऽऽह—
शक्तिभिः सर्वभावानां व्यवहारानुपातिता ।
तेनान्यदेशकालेऽपि रूपे ताभिः स सिध्यति ॥
लौकिकं चापि यत्कर्म फले कालान्तरोद्गतौ ।
तत्रापि शक्तिरेवाऽऽस्ते न त्वपूर्वमिहेष्यते ॥
यान्यपि च लौकिकानि कृषिघृतपानाध्ययनप्रभृतीनि कर्माणि कालान्तरफलत्वेनेष्यन्ते तेषामपि स्वरूपावस्थानासंभवात्संस्कारैरेव तिष्ठद्भिर्व्यवहारसिद्धिः । ते त्ववैदिक त्वात्संस्कारा नापूर्वशब्दाभिधेयत्वेन प्रसिद्धाः । तेन प्रागेवानुष्ठानाच्छास्त्रश्रवणवेलायामेव क्षणिकानेकाङ्गप्रधानप्रयोगसाध्यं फलं विदित्वा शास्त्रप्रत्ययादेषा बुद्धिर्भवति नूनं केनाप्यात्मना समस्तान्यङ्गप्रधानानि फलकालं यावत्तिष्ठन्तीति । प्रत्यक्षं च स्वरूपभङ्गदर्शनान्न शक्तिव्यतिरिक्तात्मावस्थानोपपत्तिः । यत्तु श्रुतहान्यश्रुतकल्पनाप्रसङ्ग इति । तन्न—
यागादेव फलं तद्धि शक्तिद्वारेण सिध्यति ।
सूक्ष्मशक्त्यात्मकं वा तत्फलमेवोपजायते ॥
यदि ह्यसंबन्धिना केनचित्फलं साध्येत ततो दोषः स्यात् । यागाहितया तु शक्त्या साध्यमानं यागेनैव साधितं भवति । सर्वसाधनानामिष्टफलप्रवृत्तावान्तरालिकव्यापारावश्यंभावित्वात् । अथ वा सर्वमेव कार्यं दध्यादि क्षीरादेरुत्पद्यमानं न सहसैव स्थूलेनैवाऽऽत्मनोत्पद्यते । किं तर्हि, सूक्ष्माणि तावद्रूपान्तराण्यनुभवति । एवं स्वर्गादयोऽप्यङ्कुरादिस्थानीयां तावदपूर्वावस्थां प्रतिपद्यन्ते तया चोत्पद्यमानया त एवोत्पन्ना भवन्तीति । एतावानेव7 चात्र वर्तमानःकालो यदच्युतिः कर्मसंकल्पात्प्रभृत्यासर्वान्त्यफलावयवोपभोगात् । आह च—
काष्ठैः पक्तव्यमित्युक्ते निर्दिष्टा ज्वलनक्रिया ।
अङ्कुरे जायमाने च वृक्षोऽष्युत्पन्न इष्यते ॥
यत्तु संभावनापदमपूर्वं नाऽऽरूढमिति । तदयुक्तम् । कुतः॔
विनाशित्वेन विज्ञातं साधनं लोकवेदयोः ।
असंभावितसामर्थ्यस्थायित्वं8 चोद्यते कथम् ॥
नूनं विनष्टस्याप्येतस्य सामर्थ्यं फलनिर्वृत्तिकालावधिं यावदास्त इति हि यावन्नावधार्यते तावद्विनाशिनी क्रिया चोदयितुमेवाशक्या । तस्मात्संभावनाऽवधारणा च प्रथममेव सिद्धेति ।
न वाऽतिक्रान्तयागेभ्यः पुरुषेभ्यः फलोद्गतिः ।
अतिक्रान्तानतिक्रान्तविशेषस्तव नास्ति हि ॥
यदि ह्यनाहितसंस्कारा एव यागा नश्येयुस्ततः प्रागवस्थातुल्यत्वादतिक्रान्तानतिक्रान्तयागयोः को विशेषः स्यात् । आत्मत्वं तावदविशिष्टमुभयोः । यागत्वमपि हि विनष्टाकृतयागयोस्तुल्यम् । न च क्रियारहितस्यावस्थान्तरगतस्य वा कर्तृत्वमवतिष्ठते । कर्तृशक्तिस्तिष्ठतीति चेत् । न । तस्याः प्रागपि यागकरणाद्विद्यमानत्वेनाकरणत्वात् । अपि च यदि पुरुषः फलसाधनं सर्वकर्मणां शुभाशुभानामविशिष्ट इत्येकरूपफलप्रसङ्गः । तथैकेन यागेन बहुभिश्च तदतिक्रमलक्षणलक्षितत्वाविशेषाद्बहुयाजिनः फलविशेषो न स्यात् । एतेनैव बहुप्रयोगानुष्ठायिनः प्रत्युक्ताः । कर्त्रनभिधायिति वाऽऽख्याते कथमयमर्थो विज्ञायते । यस्य त्वपूर्वाणि क्रियन्ते तस्य प्रतिकर्म प्रतिप्रयोगं च तद्भेदादुपपन्ने फलनानात्ववैचित्र्ये । किं च ।
अङ्गमध्येऽपि कर्तैव भवेच्चेदुपकारकः ।
प्रसङ्गसिद्धेरङ्गानामप्राप्तिर्विकृतौ भवेत् ॥
प्रयाजादीनामपि क्षणिकत्वात्स्वरूपसंनिध्यभावे भवत्पक्षे कर्त्रैव प्रधानोपकारः कर्तव्य इति सोऽपि चापूर्वाभावात्कर्त्रात्मन एवोपकारकस्तत्र येन प्रकृतौ प्रयाजादयः कृतास्तस्य विकृतिषु तद्गतोपकारसद्भावाद्विनाऽपि तन्त्रमध्यविधानेन तत्फलावाप्तेः प्रसङ्गलक्षणमस्तीति न पुनरङ्गान्यनुष्ठातव्यानि । तत्र ‘प्रयाजे प्रयाजे कृष्णलं जुहोति’ इत्यादीनि नोपपद्येरन् । नन्वत्यन्तकालभेदान्नैतत्प्रसज्यते । वक्ष्यत्यस्योत्तरम् [( अ॰ १२ पा॰ १ अ॰ १ सू॰ ४ )] ‘अर्थस्याविकृतत्वात’ इति । यदेव हि प्रत्यासन्नानि प्रति कर्त्रात्मकं तदुपकाररूपमिष्यते तदेव दूरस्थायामपि विकृतावित्यविशेषः । एते कर्मविनाशपक्षेऽपि दोषाः प्रसक्तव्याः । यस्यापि च कर्मविनाशादेव फलं भविष्यतीत्यभिप्रायस्तस्यापि शुभाशुभैकानेककर्मतत्प्रयोगविनाशानां प्रागभावप्रध्वंसाभावानां वाऽवस्तुत्वेनाविशेषात्फलभेदवैचित्र्यानुपपत्तिः । तथा हि—
एको रोगो हृतो यस्य यस्य वाऽपहृता दश ।
अरोगित्वे तयोर्भेदो न कश्चिदपि दृश्यते ॥
यदि तु प्रतिकर्म विनाशानां वैचित्र्यमिष्यते तथा सति वस्तुत्वापत्तेर्वस्त्वन्तराभावाच्चापूर्ववस्त्वेव विनाशशब्देनाभिधीयेत ।
न च कर्मविनाशेभ्यः स्वर्गादि श्रूयते फलम् ।
विपर्ययाच्च नैतेभ्यो जातं यागस्य तद्भवेत् ॥
‘यजेत स्वर्गकाम’ इति हि श्रूयते न यागाभावं प्रतिपद्येतेति । तत्र भावांशसाध्यसाधनसंबन्धनिष्ठे वाक्ये यस्तत्राभावांशसाध्यसाधनसंबन्धं कल्पयति तेन वेदस्तविदप्रमाणीकृतः । कुतः । कर्मविनाशप्रभवं हि सदेतन्न कथंचित्कर्मसम्बन्धीति शक्यं वदितुम् । अत्यन्तविपरीतत्वात् । न ह्यग्न्यातपप्रभवो दाहः शैत्यसंबन्धीत्युच्यते । अथ वा यथैव यागाच्छ्रुतं तदभावात्कल्प्यते तथैव स्वर्गे श्रुते तदभावः फलमित्यपि कल्प्येत । अपूर्वपक्षेऽपि तुल्यमिति चेत् । न । तस्य कर्मफलशक्त्यात्मकत्वेनात्यन्ताभेदात् । उक्तं ह्येतत्पुरस्तात् । अपूर्वेण क्रियमाणं यागेनैव क्रियते, अपूर्वे वा कृते फलमेव कृतं भवतीति । न च लोकेऽपि कश्चिदभावः कारणत्वेन दृष्टः । यदि तु क्वचिदुदाह्रियेत, शक्यं तत्र भावान्तरं दर्शयितुं न त्वत्रापूर्वादृते तादृक्किंचिदस्ति । यत्त्वपूर्वस्यापि नैव कारणत्वं दृष्टमिति तदयुक्तम् । सर्वत्र शक्तिसामान्योपलम्भात्तद्विशेषमात्रत्वाच्चापूर्वस्य । यत्तु शास्त्रेण कालान्तरफलं नाऽऽश्रितं प्रयोगोत्तरकालकल्पना च शास्त्रेऽन्तर्भवति । तस्मादानन्तर्यमेव चोदितमिति । तत्र यथाश्रुतक्षणिकानेककर्मानन्तर्यं न संभवतीत्युक्तं प्राक् । स्वर्गनरकौ च निरतिशयसुखदुःखात्मकत्वाद्देशान्तरजन्मान्तरानुभवनीयौ न कर्मानन्तरं संभवत इति षष्ठाद्ये वक्ष्यामः ।
ऐहिकं चापि पुत्रादि क्रमजन्मस्वभावकम् ।
न कर्मानन्तरं कश्चित्फलं लब्धुं व्यवस्यति ॥
न च ग्रामादिसंप्राप्तिः केवला फलमिष्यते ।
उपयोगश्चिरेणैषां न निमित्ताद्विना भवेत् ॥
चिरकालोपभोगफलात्मकत्वाद्ग्रामादीनां क्रियानन्तरं तादात्म्यासंभवे सति यत्रैवान्तराले निमित्तं क्षीणं तत्रैवापहारः प्रसज्येतेत्यवश्यं समस्तोपभोगं यावदवस्थितेन केन चिद्भवितव्यम् । ततश्च प्रागेव प्रयोगादित्थमवधारणात्कर्तृवैगुण्याशङ्क्याऽर्थापत्तेरनैकान्तिकत्वमित्ययुक्तमेतत् । यत्तु प्रतिषेधेषु न शास्त्रगभ्यमपूर्वमित्युच्यते ।
विधेयेभ्यो यथाऽपूर्वं विधिशास्त्रेषु गम्यते ।
तथैव प्रतिषेध्येभ्यः प्रतिषेधैस्तदुच्यते ॥
यथा हि लौकिकानामेव द्रव्यादीनां फलविध्युत्तरकालं वैदिकत्वाद्वेदगम्याऽपूर्वसिद्धिः, एवं ब्रह्महत्यादीनामनवगतनरकफलानां प्रतिषेधोत्तरकालभाविना वैदिकत्वेनैव नरकप्राप्तिसमर्थाऽपूर्वकल्पनोपपत्तिः । सत्यपि चास्य चलनादिक्रियारहितत्वे कर्तृसंबन्धमात्रेण तद्देशान्तरप्रापणादिक्रियासंबन्धाभ्युपगमान्निष्क्रियताऽनुपालम्भः ।
आत्मैव चाऽऽश्रयस्तस्य क्रियाऽप्यत्रैव च स्थिता ।
आत्मवादे स्थितं9 ह्येतत्कर्तृत्वं सर्वकर्मसु ॥
द्व्यवदानप्रक्षेपादीनां हि सर्वेषां संकल्पादिद्वारेणाऽऽत्मैव कर्तेत्यवधारितम् । अतश्च ते प्रलीयमानास्तत्र स्वर्गाद्युपभोगशक्तिमाधाय प्रलीयन्त इत्यविरोधः । कथं विनष्टस्य कर्मणः शक्तिस्तिष्ठतीति चेत् । अत्राभिधीयते—
यदि स्वसमवेतैव शक्तिरिष्येत कर्मणाम् ।
तद्विनाशे ततो न स्यात्कर्तृस्था तु न नश्यति ॥
कथमन्यशक्तिरन्यत्र समवैतीति चेत् । न । क्रियात्मनोरत्यन्तभेदाभावात् । अपि च—
शक्तिः कार्यानुमेयत्वाद्यद्गतैवोपयुज्यते ।
तद्गतैवाभ्युपेतव्या स्वाश्रयाऽन्याश्रयाऽपि वा ॥
यदा कर्मविनाशात्तद्गता शक्तिरपि निष्प्रयोजना भवति, अवश्यं चासौ कल्पयितव्या, तदाऽस्याः स्वरूपवदेवाऽऽश्रयविशेषोऽपि कार्यक्षम एव प्रमातव्यः । तथाऽङ्गापूर्वाणा मप्यात्माश्रितानामेवैकार्थसमवायेन प्रधानैः संबद्धानामप्युपकुर्वतामाश्रयशेषत्वाभावादारादुपकारकत्वप्रसिद्धिः । यत्तु पुरुषार्थत्वं प्रसज्यत इति । नैष दोषः—
तादर्थ्येन हि शेषत्वं नाऽऽश्रयाश्रयिभावतः ।
राजर्थौपयिकं नित्यमुष्ट्रो वहति कुङ्कुमम् ॥
न चामूर्त्तानामाश्रयाश्रयिभावेन न भवितव्यम् । आत्मसुखादिवत्तदुपपत्तेः । यत्तु व्रीह्यादिसमवायिप्रोक्षणादिनिमित्तं तण्डुलादिद्रव्यावस्थासंचरणपरम्परया दौव्यवदानं यावद्गतं तत्रापि प्रधानस्यापि केन चिदंशेन समवायात्तदीयापूर्वनिष्पत्तावेव व्यापृत्य निवर्तते । तेनैव चैषां नाऽऽरादुपकारकवदशेषप्रधानार्थत्वमभ्युपगम्यते । यथैव चैकार्थसमवायादङ्गप्रधानापूर्वाणां संबन्ध एवमङ्गापूर्वाणामन्योन्यं प्रधानापूर्वाणां च वक्तव्यः । ततश्च युगपत्कार्यारम्भसिद्धिः । कथं पुनः क्रमोत्पत्तीनां प्रधानापूर्वाणां क्रमवर्त्तिभिरेवाङ्गापूर्वैः प्रागूर्ध्वं चोत्पद्यमानैर्युगपदुपकर्तुं शक्यम् । केचित्तावदाहुः । अङ्गमध्यवर्तिषु प्रधानेषु पूर्वाङ्गापुर्वैर्निष्पन्नैरागामिभिश्च प्रक्रमवशात्प्रचलितावस्थैरेकैकं प्रधानं स्वापूर्वं साधयति । आतिथ्याबर्हिर्वच्च साधारण्यान्नैकप्रधानापूर्वनिष्पत्तौ तान्यपवृज्यन्ते । कथं पुनरनागतानामुपकारकत्वं भवति । एकान्तावधारणादौभोजनप्रत्यासत्तौ स्थालीपरिमार्जननिष्पत्तिवदिति द्रष्टव्यम् । ननु च यद्यनागतावस्थेष्वेतेषु प्रधानापूर्वाणि निष्पद्यन्ते ततो नैवोत्तराङ्गाणि कर्तव्यानि । कथं न कर्तव्यानि, यदा तत्करिष्यमाणतासंभावनया तानि निष्पन्नान्यपि तदकरणान्नापवृज्यन्ते । अन्ये पुनराहुः । एकैकमङ्गमितरेतरनिरपेक्षमात्मीयमात्मीयं तावदपूर्वं करोति, तथा प्रधानमप्याग्नेयादि यथाश्रुतसमस्ताङ्गापूर्वालाभात्तन्निरपेक्षं तदाऽनुत्पन्नप्रधानान्तरनिरपेक्षं च प्रथमकृतसामवायिकाङ्गापूर्वमात्रानुगृहीतं स्वापूर्वमेव तावत्साधयति । एवं यदा दर्शापूर्वाणि तदङ्गापूर्वाण्यपि समस्तानि निष्पन्नानि तदा तदीयब्राह्मणतर्पणानन्तरमपर्यायविधानाद्युगपत्प्रयोगवचनोपसंहारकल्पितमङ्गानि प्रधानानि च प्रति, तन्त्रभूतं समस्तान्यङ्गापूर्वाण्यपूर्वात्मकमेकं युगपन्निरवयं प्रधानोपकारं कृत्वा निवर्तन्ते । ततश्च तद्वशेन प्रधानापूर्वाण्यप्येकफलोत्पत्तिशक्तिभूतं संहत्य सर्वाण्येकमपूर्वान्तरं जनयित्वाऽपवृज्यन्ते । तत्त्वाफललाभादजरं तिष्ठति । यदि पुनः प्रतिबन्धकरहितं तदानीं फलमेवोत्पद्यते ततोऽपि किं कल्पनीयमेवापूर्वम् । बाढम् । न हि तस्मादृते समस्तफलोपभोगसिद्धिरित्युक्तम् । अथ कस्मात्प्रात्यात्मिकान्येवाङ्गापूर्वाणि प्रधानोपकारकत्वं भिन्नानि च प्रधानापूर्वाणि फलबीजत्वं न प्रतिपद्यन्ते । सत्यं, न हि कश्चिदत्र दोषः । किं तु—
अर्थापत्तेरिहापूर्वं पूर्वमेकं प्रतीयते ।
ततस्तत्सिद्धये भूयः स्यादपूर्वान्तरप्रमा ॥
प्रधानानां फलं प्रत्यङ्गानां च प्रधानानि प्रति युगपदुपादानादपेक्षावशेनैकापूर्वकल्पनया च तत्संबन्धोपपत्तेर्नेतरकल्पनाप्रमाणमस्तीत्येकमेव तावदवधार्यते । ततः पुनः क्रमवर्तिभिः कर्मभिस्तदशक्यं युगपत्कर्तुमिति तत्सिद्ध्यर्थं प्रात्यात्मिकापूर्वान्तरकल्पना भवति । सर्वत्र च—
प्रमाणवन्त्यदृष्टानि कल्प्यन्ते सुबहून्यपि ।
अदृष्टशतभागोऽपि न कल्प्यो ह्यप्रमाणकः ॥
केचित्त्वत्र चोदयन्ति । यदि पौर्णमास्यां कृतान्यङ्गापूर्वाण्यमावास्यां यावत्तिष्ठेयुस्ततस्तैरेव कृतार्थत्वान्नैवाङ्गानि पुनः प्रसज्येरन् । एवं च सति ‘त्रयोदशामावास्यायाम’10 इत्याहुतिसंख्या बाध्येत । अन्ये तु परिहरन्ति । साङ्गयोःपौर्णमास्यमावास्ययोः कालान्तरसंबन्धात्सर्वैरङ्गैर्द्विः प्रयुक्तैः समुदायद्वयस्योपकर्तव्यमित्यवधारणात्पुनः प्रयोगः सेत्स्यतीति । अथ वा, एवं वक्तव्यं साङ्गा पौर्णमास्यमावास्याऽसहिता स्वार्थं करोतीति करणविभक्तिश्रुतेरवगमात्पूर्वोक्तेनैव न्यायेन प्रधानापूर्वत्रयं स्वाङगापूर्वानुगृहीतमेकमपूर्वं कृत्वाऽपवृज्यते । तत्पुनरेवं निष्पन्नेनैवामावास्यापूर्वेण सहापरमपूर्वमारभेत । ततश्च निवृत्तेष्वङ्गापूर्वेष्वमावास्यायां क्रियमाणान्यङ्गानि न निराकरिष्यन्त इत्यदोषः । एतयैव च दिशोत्पत्तिविरोधः परिहर्तव्यः । आह च—
आवृत्तिभिर्यथाऽध्याये संस्कारो भवति क्रमात् ।
वाक्यावयवरूपेण तथाऽपूर्वं भविष्यति ॥
न चामूर्तस्यावश्यमवयवैर्न भवितव्यम् । अनयैव ह्यर्थापत्त्या शक्यते वक्तुं सूक्ष्मावयवरूपेण तत्प्रतीयत इति । यदाऽप्यत्यन्तासतामनुत्पत्तेः प्रागवधृतास्तित्वमभिव्यज्यते तदाऽपि प्रतिपुरुषं कर्मभिः स्वीकरणात्फलाभिमुखकरणं शब्दादिविलक्षणाऽस्याभिव्यक्तिर्भविष्यति । तथा हि—
नैकरूपैव भावानामभिव्यक्तिः प्रतीयते ।
आत्मस्थोन्मीलनं तेन व्यक्तिरस्य भविष्यति ॥
सर्वावाप्तिसमर्थो वा प्रकृत्यात्मा सदेष्यते ।
कश्चित्तु प्रतिबन्धोऽस्य कर्मभिः सोऽपनीयते ।
तस्मादस्त्यपूर्वम् । सूत्रस्यापि च न प्रकृतौपयिकमन्यमर्थं पश्यामः । तेनाऽऽरम्भचोदनैवापूर्वस्यापि चोदनेत्ययमेवार्थः । यदि पुनः फलवचनसामर्थ्यात्तदेव न विनष्टमिति, अपूर्वकल्पनानिष्प्रमाणकत्वं मन्वानो वरमेतदित्याह । न हि कर्मणां रूपमुपलभामह इत्ययुक्तं, [( अ॰ ६ पा॰ ३ अ॰ ३ सू॰ १२ )] ‘रूपशब्दाविभागाच्च’ इत्यत्र प्रत्यक्षोपलब्ध्यभिधानात् । यागप्रस्तावे च सति तस्याचलनात्मकत्वात्, यदाश्रयं देशान्तरं प्रापयतीत्यसंबद्धम् । अत्रोच्यते—
कालान्तरक्षमं रूपं कर्मणो नोपलभ्यते ।
भङिगरूपोपलब्धिस्तु न फलायोपयुज्यते ॥
यद्यपि कर्मस्वरूपमुपलभ्यते तथाऽपि कालान्तरावस्थानाभावान्न तदुपयुज्यत इति नोपलभामह इत्युच्यते ।
यागेऽपि प्रस्तुते चात्र चलनं यदुदाहृतम् ।
तत्प्रक्षेपांशरूपेण यागेऽप्यस्तीति निश्चयात् ॥
न हि संकल्पमात्रेण फलनिष्पत्तिः । समस्तात्समस्तेतिकर्तव्यताकाच्च कर्मणः फलश्रवणात्तत्र दौव्यवदानप्रक्षेपादीनां ग्रहणासादनादीनां च संयोगविभागफलत्वात्स्थायित्वे तदाश्रयेणावश्यं भवितव्यम् । न चासावस्ति । न चाभिव्यक्तं रूपमुपलभ्यते । संकल्पादीनामपि संकल्पान्तरादितिरोधानान्नात्र स्वरूपावस्थानोपपत्तिः । अवस्थानं चाऽऽत्मसमवेतस्य वा स्यात्प्रदेयद्रव्यसमवेतस्य वा । न तावदात्मनि चलनं समवैति, सर्वव्यापिनः संयुज्यमानवियुज्यमानदेशासंभवे चलितुमसामर्थ्यात् । कथं सर्वव्यापित्वमस्येति चेत्सर्वत्रोपलभ्यमानकार्यत्वात् । अहंप्रत्ययेन हि चैतन्यस्वभावस्याऽऽत्मनोऽस्तित्वमात्रमवगम्यते न तु देशतः कालतो वा विशेष्यते । ततश्च—
अनवच्छिन्नसद्भावं वस्तु यद्देशकालतः ।
तन्नित्यं विभु चेच्छन्तीत्यात्मनो विभुतेष्यते ॥
सर्वत्र कार्योपलम्भ इति॔अहंप्रत्ययमेवाविशेषितं वदति । सुखदुःखाद्युपलब्धिर्वा । न हि क्व चिद्गतैस्ते नोपलभ्यन्ते । न चैते शरीरधर्मा इति स्थितमात्मवादे । तत्र यद्यसर्वगत आत्मा भवेत्ततो यदेव तद्वता देशेन शरीरं युज्यते तदैव सुखाद्युपलब्धिः स्यान्नान्यत्र । शरीरमात्रान्तर्गतात्मवादी त्वाह—ननु तदेव देशान्तरादागमनस्य लिङ्गम् । अतश्च विरुद्धहेतुत्वमस्येति । कुतः—
युगपद्यदि सर्वत्र कार्यमात्मगतं भवेत् ।
ततः सर्वगतत्वं स्यात्पर्याये तु शरीरवत् ॥
यदि हि शरीराद्बहिरपि किंचिदात्मकार्यमुपलभेमहि शरीरान्तरे सुखदुःखादीन्वा ततः सर्वगतत्वमध्यवस्येम । यतस्तु स्वशरीरान्तर्वर्त्येव कार्यं यत्र यत्र च तद्गतिस्तत्र तत्र पर्यायेणोपलभ्यते तच्छरीरकार्यवदेव तत्सहितगतस्योपपत्स्यते । अन्यथा हि शरीरमपि सर्वगतं स्यात् । तस्माच्छरीरवदेवास्य तत्र तत्र गमनापत्तेः सुतरां सक्रियत्वप्रसङ्गः । संदेहो वाऽस्तु साधारणानैकान्तिकत्वात् । आह च—
आत्मा शरीरसंमिश्रस्तेनैव सह संगमात् ।
तत्र तत्र सुखादीनि कार्याणि प्रतिपद्यते ॥
तत्रोत्तरं न ह्यसत्यागमने किंचिद्विरुद्धमिति । येषां तु न तु तदेवेति पाठः तेषां सिद्धान्तवाद्येव पर्यायेण सर्वत्राऽऽत्मकार्योपलम्भनमागमनलिङ्गत्वेऽप्यविशिष्टमाशङ्क्योत्तरं वदतीति ग्रन्थयोजना । कथं पुनरिदमुत्तरं न ह्यसत्यागमन इति । तथा हि—
नैवाविरोधमात्रेण स्वपक्षः सिध्यति क्वचित् ।
परस्याप्यविरोधित्वमविशिष्टं हि दृश्यते ॥
परेणापि हि शक्यं वदितुं न हि सति गमने किंचिद्विरुद्धमिति । अत्राभिधीयते ।
उभयत्राविरोधित्वं प्राप्तं न ह्यसतीति यत् ।
पुनर्ब्रवीति तन्नूनं विरोध्यागमनं मतम् ॥
परिसंख्यारूपेणासत्येवऽऽगमने न किंचिद्विरुद्धं सति तु बहु विरुद्धमित्याह । तदुपवर्ण्यते—
स्वतस्तावदमूर्त्तत्वान्न भूतैर्मिश्रताऽऽत्मनः ।
ततश्च तैरसंश्लिष्टो न नेतुं शक्यते क्वचित् ॥
यदा मूर्तानामपि सूक्ष्माणां चन्द्रादित्यप्रकाशादीनां न मृत्पिण्डादिभिः सह मिश्रत्वमुपपद्यते, तन्नयनेन वा नयनं तदाऽऽत्मनः स्वभावेनात्यन्तामूर्तस्य ज्ञानसंतानस्य वा भूतैर्मिश्रत्वं भवेदिति कुत एतत् । योऽपि स्याद्वादी बद्धात्मनां शरीरादत्यन्तव्यतिरेकालाभादस्त्येव मूर्तत्वं जीवस्येति ब्रूयात्तस्यापीतरेतराश्रयप्रसक्तिर्मिश्रत्वान्मूर्तत्वं मूर्तत्वाच्च मिश्रभाव इति । तस्मान्मुक्तावस्थानिदर्शनेन लक्षणतोऽस्यामूर्तत्वान्न शरीरसंपर्कनिमित्तमूर्तत्वसिद्धिः । ततश्च शरीरादन्यस्तेनासंपृक्तश्च । अस्पर्शत्वाच्चानाकृष्यमाणः शरीरे गच्छति तद्गताकाशप्रदेशवदात्मा पश्चान्निःसृतस्तत्रैव तिष्ठेत् । न हि तस्य वायुना पृथिव्यादिभिर्वा प्रेरणं येन स्वतन्त्रः परप्रेरितो वा गच्छेत् । ज्वालाप्रभृतीनां तु स्पर्शवत्त्वाद्वायुना प्रेर्यमाणानामुल्मुकादिना वा नीयमानानां युक्तं गमनम् । तेन केवलं शरीरं गच्छदचेतनं स्यात् । सर्वगतत्वे तु यत्र यत्र गम्यते तत्र तत्राऽऽत्मानुस्यूतिरस्तीति युक्ता चैतन्यानुवृत्तिः, यथा पूर्वाकाशप्रदेशत्यागे सर्वगतत्वादेव परेणावकाशदानसिद्धिः । किं च—
असर्वगतपक्षे स्याज्जीवो देहादनिर्गतः ।
अणुः शरीरमात्रो वा सर्वथाऽपि न युज्यते ॥
ज्ञानसंततिपक्षस्तावन्निराकृतः । तत्र नित्यः सन्नात्मा शरीराभ्यन्तरवर्त्ती ।
यद्यणुः कल्प्यते तत्र देहं न व्याप्नुयादसौ ।
ततश्च सर्वगात्रस्थसुखपुष्ट्याद्यसंभवः ॥
यदा ह्यणुमात्र आत्मा भवति तदा यावानेव प्रदेशविशेषस्तेनाधिष्ठितस्तन्मात्रगतानामेव सुखदुःखादीनामुपलब्धिः प्राप्नोति, ततश्चैकस्मिन्क्षणे शिरःपादवेदनानुभवो न स्यात् । अथ लघुसंचारित्वात्तत्र तत्रोपलभ्यत इत्युच्यते, न तत्र प्रमाणमस्ति । न च कालभेदो लक्ष्यते, अनवस्थितस्योपलब्धिकालासंभवान्नैकत्राप्युपलभ्येत । तस्मादकल्पनेयम् । शरीरावयवानां चापरिशोषणं पुष्ट्यादि चाऽऽत्माधिष्ठितानां भवति मृतावस्थायां विपर्ययदर्शनात् । तत्र य एवावयवस्तेनोत्सृष्टः स एव मृतवच्छुष्येत् । अथ शरीरपरिमित आर्हतपक्षेणाभ्युपगम्यते तत्रापि बह्वदृष्टं कल्पनीयम् ॥
सद्भावोऽवयवानां च तथा तेषामनन्तता ।
संश्लेषश्च विनाऽन्येन तद्भावेऽपि च नित्यता ॥
अतिसंकोचविस्तारौ पुत्तिकाहस्तिदेहयोः ।
अन्तराभवसंचारस्तद्भावाज्ञानकारणे ॥
सर्वे ह्यवयवसद्भावादयः प्रत्यक्षाद्यविषयाः सन्त उत्प्रेक्षामात्रेण कल्प्यन्ते । ते शब्दवच्चेहापि प्रत्याख्येयाः । शरीरमात्रावधिकानां चैषामुत्प्रेक्षितुमप्यानन्त्यादशक्यं, न चैषां द्रवत्वादिना विना कश्चित्संश्लेषहेतुर्विद्यते । न चासंश्लिष्टानामेकजीवारम्भसामर्थ्यम् । सर्वसंयोगानां च वियोगाविनाभूतत्वाद्घटादितुल्यः कदाचिज्जीवस्य प्रध्वंसो भवेत् । गात्रच्छेदे च तद्वर्तिनां जीवावयवानां ततो निःसृत्याऽवशिष्टे शरीरभागे पुनः प्रवेश इत्येतदप्रमाणकम् । यत्तु वियोजितमात्राणां हस्तादीनां स्फुरणं दृष्टं, तदभिधातप्रेरितवायुनिमित्तमिति न तावता जीवावयवानुगतिर्विज्ञायते । तथा सति संकोचविकासावेतेषां भवत इत्यत्र न किंचित्प्रमाणं पश्यामः । दीपप्रभाप्रभृतीनां तु कथंचित्प्रत्यक्षत्वादुपपद्येते । न च प्रदीपप्रभायाः संकोचो भवति शरावादिच्छादने शेषप्रभाविनाशादनावृता हि ज्वालाऽऽत्मसमीपे प्रभामण्डलमारब्धुं समर्था नाऽऽच्छादिता । एतेनैव च विकासोऽपि प्रत्युक्तः । अन्य एव ह्यवयवास्तत्र प्रचीयमाना विस्तारं जनयन्ति न तावतामेव विकासः । स्पर्शवतां च परस्परदेशप्रतिबन्धाद्देशान्तरव्याप्त्या विकासो घटते, जीवावयवानां त्वमूर्तत्वात्सर्वेषां समानदेशत्वाविघातान्नित्यमणुमात्रत्वप्रसङ्गः स्यात् । कथं चैकस्य जीवस्य पुत्तिकाहस्तिशरीरपरिमितौ संकोचविकासौ युज्येते । मरणकाले चान्तराभवशरीरसंचरणं तच्चास्ति, केन चित्प्रतिबन्धेन सदपि न गृह्यते, तेन च शरीरान्तरे जीवनिक्षेप इत्यादि निष्प्रमाणकम् । तस्मात्सर्वगतत्वम् । यत्तु श्यामाकतण्डुलमात्रादिप्रदर्शनमुपनिषत्सु तद्वाक्यान्तरप्रदर्शितविभुत्वस्यैव सतः सूक्ष्मग्रहणगोचरत्वात् । यदपि द्वैपायनेनोक्तम्11 । अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष बलाद्यम इति । तदपि काव्यशोभार्थं विस्पष्टमृत्युव्यवहारप्रशंसनार्थं च प्रतिव्रताप्रशंसापरे वाक्ये प्रजापतिवपोत्खेदनादिवद्द्रष्टव्यम् । तथा हि तेनैव गीतादिष्वनेकप्रकारं सर्तगतत्वं वर्णितम् । ननु च सर्वगतत्वे व्योमवत्सर्वशरीरेष्वेक एवाऽऽत्मा प्राप्नोति । नैष दोषः । शरीरभूयस्त्वात्प्रतिशरीरं च सुखदुःखोपलब्धिव्यवस्थादर्शनात् । इतरथा ह्येकशरीरेणैव चरितार्थत्वादनेकशरीरवैयर्थ्यं स्यात् । जन्मान्तरशरीरवददोष इति चेत् । न । तत्र कर्मान्तरवशेनोपभोगान्तरार्थं पुनः पुनरारम्भात्सर्वशरीरगतसुखाद्युपलब्धिश्च प्रतिशरीरं स्यात् । अन्यदीयैश्चेन्द्रियैः शरीरान्तरगतस्याऽऽत्मीयत्वादुपलब्धेरन्धबधिरादीनामभावः स्यात् । वर्णविशेषव्यवस्थया च कर्मचोदनाभेदो न स्यात् । एकस्यैवाऽऽत्मनस्तेन तेन शरीरेण संबध्यमानस्य सर्ववर्णोपपत्तेः । आत्मनानात्वे त्वदोषः । सर्वेषामपि च सर्वगतत्वे मूर्तिरहितत्वात्समानदेशवृत्त्यविरोधः । तदपेक्षयैव च चैतन्यात्मकत्वाद्यविभागाच्चोपनिषत्स्वैकात्म्यव्यवहारः । कथं पुनर्नानात्वेऽपि सर्वेषां सर्वशरीरैः संबन्धादन्यदीयसुखदुःखाद्यनुपलब्धिः । के चित्तावदाहुः—
यथा शरीरमात्रेऽपि मातृगर्भात्मवर्तिनाम् ।
सुखादीनां व्यवस्थैवं सर्वत्रैषा भविष्यति ॥
शरीरपरिमाणात्मवादिनोऽपि किलायं तुल्यो दोषस्तस्यापि गर्भात्मसमानदेशत्वान्मातृक्षेत्रज्ञस्तद्गतानि सुखादीन्युपलभेत । तत्र यस्तस्य परिहारः स सर्वात्मनां सर्वशरीरेषु भविष्यतीत्यविशेषः । यद्यत्रोपपत्तिरुच्येत न तु परपक्षसाम्यापत्तिरेवोपपत्तिस्तस्य च तव चोभयोरप्यन्येन पर्यनुयोगात् । अपि च तस्य त्वगिन्द्रियपरिमाणत्वादन्तःशरीराकाशे बाह्यवदेवाऽऽत्मनोऽनभ्युपगमान्नैव गर्भशरीरेण मातृक्षेत्रज्ञस्य प्राप्तिरस्ति येन तुल्यदोषता स्यात् । तस्मादेव परिहर्तव्यम् ॥
देशप्राप्त्या यदीष्येत सुखादेरुपभोग्यता ।
ततो दोषः प्रसज्येत योग्यभोगे त्वदुष्टता ॥
यदि ह्यात्मनः सुखादीनां च समानदेशलक्षण एव संबन्ध उपभोगकारणमिष्येत ततोऽयं दोषः स्यात् । इह तु चक्षुरादीनामिव क्षेत्रज्ञयोग्यतालक्षणः संबन्धः । तत्र यथैव त्वगिन्द्रियेण स्पर्शसमानदेशानामपि रूपादीनामग्रहणम्, एवमन्येनाऽऽत्मनाऽन्यदीयधर्माधर्मोपात्तसुखदुःखाद्यग्रहणम् । तस्मादात्मवादोक्तस्वस्वामिभावव्यवस्थानाददोषः । एवं सर्वगतत्वात्सिद्धमात्मनो निश्चलत्वम् । अथ द्व्यवदानसमवेतमासीत्तत आह—तद्विनष्टमिति । न च तस्याविनाशः । तद्विपरीतद्रव्यान्तरोपलम्भात् । न चास्य ग्रहणप्रतिबन्धहेतुः कश्चिदस्ति येन न गृह्येत । अथार्थापत्त्या ग्रहणप्रतिबन्धादि कल्प्येत तथाऽपि सत्यपूर्वाद्बहुतरमदृष्टं दृष्टविपरीतं च कल्पयितव्यं, तावदविनष्टमास्ते, तथा न दृश्यते, तथा प्रतिबन्धहेतुः, तस्याप्यदर्शननिमित्तं चेत्येवं तस्य तस्यान्यदित्यनवस्था, तथा क्षणिकस्य कर्मणः स्थानमनुपलब्धिकारणं च कल्प्यमित्यतिगौरवम् ।
एवमनाश्रितकर्मावस्थानकल्पनायाम् । अथाऽऽत्माश्रितमेव संयोगविभागावकुर्वदासीत् । तत्रापि दृष्टविपर्ययादृष्टकल्पने स्याताम् । तस्माद्वरमपूर्वकल्पनमेवेति सिद्धं मूलाधिकरणप्रयोजनम् । द्रव्यादीनां फलसंबन्धे तेषामदृष्टार्थत्वात्कर्मणामिव प्रतिनिध्यभावः । कर्मफलसंबन्धे तु द्रव्यादेः कर्मोत्पत्त्या दृष्टार्थत्वात्समानकार्यत्वज्ञानादस्ति प्रतिनिधिः । कथं तर्हि पूर्वपक्षवादिनः प्रक्रान्तापरिसमाप्तिदोषाभावः । समापनीयमेव कर्म येन केन चिद्द्रव्येण । सदृशोपादाने तु न यतितव्यं सदृशादपि फलाप्राप्तेः, कर्मणश्चाविहितसाधनविशेषस्यानपेक्षितसदृशत्वाद्येन केन चित्सिद्धेः । न च तत्पूर्वद्रव्यस्य प्रतिनिधिरित्युच्यते । अन्यार्थत्वादसादृश्याच्च । पूर्वद्रव्यं हि फलाय प्रवृत्तमासीदिदानीमानीयमानं तु प्रत्यवायपरिहाराय नैमित्तिकफलाय वा प्रवृत्तस्य कर्मणः सिद्ध्यर्थमिति । नामधेयसिद्धिरपि प्रयोजनमेव । सा तु पूर्वोक्तत्वान्न प्रदर्शिता ॥ ५ ॥
इति अपूर्वाधिकरणम् ॥ २ ॥
-
सत्ता च नानुमानेन कस्यच्चित्सप्रंतीयते इत्यनेन प्रत्यक्षसूत्रे श्लोकवार्तिके उक्तमित्यर्थः । ↩︎
-
साध्यसाधनभावरहिताकारान्तरेण नापूर्वं निरूपयितुं शक्यमित्यर्थः । ↩︎
-
यच्चेति-यच्च-फलं, यत्-विनष्टं. कर्म, प्रतीत्य-अधिगम्य, प्राप्येत्यर्थः । ↩︎
-
यल्लोके तृप्त्यादिफलोत्पत्तिनिमित्तस्य भोजनादेः क्रियात्वं धर्मो दृष्टस्तदतिक्रमेत्यर्थः । ↩︎
-
सर्वेषु पदार्थेषु बहवः कर्तारस्तेषु मध्ये, क्वचित्पदार्थे कस्यचित्कर्तुरशक्तेरपरिहार्यत्वादित्यर्थः । ↩︎
-
स्वर्गनरकयोरप्यौहिकत्वेन पश्चादेरविशेष इत्यर्थः । ↩︎
-
यदा च स्थाय्यपूर्वं शक्त्यात्मकत्वात्कर्मफलाभ्यामनत्यन्तभिन्नं तदा फलं भावयेदनेनेत्थमिति त्रयाणामपि भावनांशानां यौगपद्याभिधानमपि कर्मफलकालयोरविच्छेदादुपपन्नं भवतीत्याह॔ एतावानित्यादिना । ↩︎
-
न संभावितं सामर्थ्यरूपेण स्थायित्वं यस्येति विग्रहः । ↩︎
-
[( अ॰ १-पा॰ १-सू॰ ५ )] इत्यत्र वृत्तिकारमतानुवादे प्रत्यक्षविसंवादपरिहारग्रन्थे भाष्य इति शेषः । ↩︎
-
पञ्च प्रयाजास्त्रयोऽनूयाजा द्वावाज्यभागौ स्विष्टकृदित्येकादश । सांनाय्यस्य संप्रतिपन्नदेवताकत्वेन सह प्रक्षेपादाग्नेयेन सह प्रधानाहुतिद्वयमिति त्रयोदशत्वं ज्ञेयम् । ↩︎
-
भारते इति शेषः । ↩︎