निर्मन्थ्येऽपि पूर्वाधिकरणवंज्जातिसंस्कारनिमित्तपक्षावुद्भाव्यानन्तरेण यौगिकत्वंसाधनीयम् ।
वैद्युताश्माभिघातोत्थसूंर्यकान्तादिजन्मनाम् ।
निवृत्तौ चरितार्थः सन् निर्मन्थ्योऽभिनवः कथम् ।
[जै॰ सू॰ ( ११-१-३ )] ‘लोके कर्मांर्थलक्षणम्’ इत्यशब्दार्थेनापि व्यवहाराद्भवेदचिरनिर्दग्धघृतप्रतीतिः । सर्वघृतानां च नवनीतविकारत्वात्पुनः श्रुतेरचिरनिर्दग्धनवनीतार्थता स्यात् । इह तु शब्दप्रमाणकेऽन्यक्रियाजनितनिवृत्तमात्रचरितार्थो निर्मन्थ्यशब्दाश्चिरविशेषोपादानासमर्थः कथमचिरनिर्मथितविषयः कल्प्यते । नह्यत्राचिरत्वमपि योगेऽन्तर्गतं, क्रियायोगमात्रनिमित्तत्वात् । तस्मादसदेतत् । नैष दोषः ।
पाकेनाग्नेरुपात्तत्वाद्विशेषणपरा श्रुतिः ।
तच्च पाकाङ्गभूतत्वात्तद्देशादौ करिष्यते ॥
यथैव लोहितोष्णीषादिविधिषु विशेष्याणां प्राप्तत्वाद्विशेषणपरत्वमेवमिहापि विशेष्यानुवादेन विशेषणभूता क्रियैव पाकाङ्गत्वेन विधीयते । अङ्गानां च प्रधानेनैकदेशकालकर्तृत्वं वक्ष्यते [जै॰ सू॰ ( ११-२-१ ) इत्यत्रेति शेषः ।] । तेनाचिरनिर्मथितेनादूरनिर्मथितेनानन्यकर्तृनिर्मथितेनेति वक्तव्ये प्रदर्शनार्थमचिरग्रहणम् ॥ १२ ॥
इति निर्मन्थ्याधिकरणम् ॥ ९ ॥