ननु समुदायप्रसिद्धेः श्रुतिस्थानीयत्वाद्वाक्यस्थानीयावयवप्रसिद्धिर्दुर्बला स्यात् । तथा हि ।
अक्षरैरेव बुध्यन्ते समुदायप्रसिद्धिषु ।
अर्थभागोपसंहारादितरा विप्रकृष्यते ॥
सत्यमेवमेतत् । अवश्यं त्ववयवानामपि स्वार्थे शक्तिराश्रयणीया तदनाश्रयणेऽवयवप्रसिद्धित्वाभावात् । तत्र च ।
असत्स्ववयवार्थेषु योऽन्यत्रार्थे प्रयुज्यते ।
तत्रानन्यगतित्वेन समुदायः प्रसिध्यति ॥
लब्धात्मिका हि समुदायप्रसिद्धिरवयवप्रसिद्धिं बाधते तस्यास्त्वात्मलाभो यत्र प्रमाणान्तरेण पूर्वानुभूतावयवार्थरहितेऽर्थे शब्दप्रयोगो दृश्यते यथाऽश्वत्वकर्णत्वरहिते वृक्षेऽश्वकर्णशब्दस्य । न ह्यत्र पूर्वशक्त्यनुसारेण प्रतीतिरुपपद्यत इत्यर्थापत्त्या शक्त्यन्तरं कल्प्यते । ततश्चोभयसंभवेऽवयवार्थानुसंधानाद्विक्षिप्ताया अवयवप्रसिद्धेरक्षरश्रवणमात्रलभ्यत्वादियं बलीयसी भवति । अत्र पुनरप्सु प्रकर्षसेचनक्रियाकरणत्वसंभवादवयवशक्तिभिरेव वाक्यवत्प्रयोगोपपत्तेः शक्त्यन्तरे प्रमाणाभावात्समुदायप्रसिध्द्यभावः । तथा हि ।
भवेतां यदि वृक्षेषु वाजिकर्णौ कथंचन ।
अदृष्टां समुदायस्य कः शक्तिं जातु कल्पयेत् ॥
तस्मान्नाप्सु समुदायप्रसिद्धिरिति द्रवद्रव्यमात्रसाधारणता । ननु संस्कारनिमित्तत्वेऽप्यप्सामानाधिकरण्यकृतत्वादीकारस्य घृतान्निवृत्तिः स्यात् । यदि हि प्रागीकारात्संस्कारनिमित्तताऽवगम्येत ततः स्त्रीप्रत्ययोऽयमाश्रयलिङ्गनिमित्त इत्यवधारणादन्यलिङ्गान्निवर्तेत । अयं पुनरन्यप्रयोगः संस्कारेष्वीकारान्त एवानवगतविभागो वेद्यादिवत्प्रयुक्त इत्यन्यादृशस्य वाचकत्वं नावधार्येत तस्मादीकारान्तः स्यात् । यौगिकत्वे तु प्रागीकाराद्योगो गम्यत इति स्त्रीप्रत्ययोऽयं निमित्ताभावादघृते न प्रयोक्ष्यते, चोदकप्राप्तं तु प्रातिपदिकमात्रं प्रयोक्तव्यम् । न च द्रव्येष्वर्थसमवायाद्विधिशब्दप्रयोगनियमो, यतः प्रोक्षणशब्दबाधेन जातिपक्षवद् घृतमित्येव प्रयोगः स्यात् ॥ ११ ॥
इति प्रोक्षण्यधिकरणम् ॥ ८ ॥