08 व्याकरणाधिकरणम्

एकस्मात् पदात् प्रयोग-नानात्व-दर्शनाद्
अनेकार्थ-प्रतिभाने सति,
विकल्प-दोष-भयाद्
अनेकादृष्ट-शक्ति-कल्पना-प्रसङ्गाच् च
गौण-मुख्य-विभागम् आश्रित्य
व्यवस्थित-शास्त्र-प्रयोग-बलेनाव्यवस्थिते लौकिक-प्रयोग-बाधाद्
व्यवहारादि-शब्दानाम् अर्थ-निर्णयः प्रतिपादितः ।

एवं पुनर् एकस्मिन् गवादाव् अर्थे
गो-गाव्यादयो बहवः शब्दाः प्रयुज्यन्ते।
तत्र वृद्ध-व्यवहारावगत-प्रति-शब्द-समवायि-वाचक-शक्ति-भेदोपपत्तेः
शास्त्र-स्थ-सर्व-शब्द-प्रयोगाणां च लौकिक-शब्दैर् अविरोधात्
पद-पूर्वकत्वाच् च
वाक्यात्मक-शास्त्र-व्यापार-सिद्धेर्
न पद-गत-साध्व्-असाधुत्व-प्रतिपादने व्यापारो भवति,
इतरेतराश्रयत्व-प्रसङ्गात् । तथा हि—

लोकप्रसिद्धशब्दार्थवशं शास्त्रं प्रवर्तते ।
अतो न लौकिकेष्वस्मात्साध्वसाधुत्वनिर्णयः ॥

वाक्यार्थेषु हि श्रुतिस्मृत्याचारविरोधदर्शनाद्बलाबलमानुपूर्व्येणावधृतमिह तु न विपरीतक्रमत्वात् ।

लोकादेवाधिगन्तव्या शब्दानां साध्वसाधुता ।
वाचकावाचकत्वेन सा च नित्यं व्यवस्थिता ॥

ध्वनिमात्राण्यसाधूनि वर्णा वा केवलात्मनाम् ।
संघातोऽर्थानपेक्षो वा मातृकाद्युपदेशवत् ॥

तेन भेरीशङ्खादिशब्दा गकारककारादयः प्रत्येकं तद्वर्गा वाऽनर्थकत्वादपशब्दा इति लोकव्यवहारादेवार्थं न साधयन्तीत्यसाधवो गम्यन्ते । गाव्यादयः पुनर्गवादिवदेव साधयन्त्यर्थं तेभ्योऽपि वा शीघ्रतरं प्रसिद्धतरत्वादर्थप्रतीतिमुत्पादयन्तीति सत्यप्येकविषयानेकशब्दत्वे हस्तकरपाण्यादिशब्दवदर्थसाधनत्वात्साधुत्वेनावधार्यन्ते ।

ततश्चावाचकत्वेन यद्यसाधुत्वमुच्यते ।
तस्य लोकविरुद्धत्वान्न ग्राह्यत्वं प्रतीयते ॥

अदृष्टविषया चेत्स्यादेतेषां साध्वसाधुता ।
वेदवाक्यैरनिर्दिष्टा न साऽस्त्यन्यप्रमाणिका ॥

प्रत्यक्षेण तावदुभयत्राप्यविशेषेण वर्णाः शुद्धाः प्रतीयन्ते । न तद्गते तत्समुदायगते वा साधुत्वासाधुत्वे । न वाऽननुभूतसंबन्धादनुमीयेते । तन्निराकरणाच्च तत्पूर्वकपुरुषवचननिराक्रियाऽपि सिद्धा । वेदवचनं पुनर्वस्तुस्वरूपतद्गतगुणदोषान्वाख्यानपरं विधिप्रतिषेधानपेक्षं नैव किंचित्प्रमाणत्वेन संभवति । साधुत्वासाधुत्वयोरननुष्ठानात्मकत्वाद्विधिप्रतिषेधाविषयत्वम् । अभिधाभावनाकरणभूतयोर्विधेयत्वप्रतिषेध्यत्वसंभव इति चेन्न । प्रतिशब्दमनन्तविधिप्रतिषेधवाक्यानुमानकल्पनानुपपत्तेः ।

यो हि प्रतिपदं पाठं साधूनां नाध्यवस्यति ।
विधिवाक्यानि तावन्ति स कथं प्रतिपत्स्यते ।

अपशब्दाश्च शब्देभ्यो भूयस्त्वेन व्यवस्थिताः ।
न कलञ्जादिवत्तेषां प्रतिषेध्यत्वसंभवः ॥

व्रीह्यादीनि हि कलञ्जादीनि च नियतजातिगुणादिरूपेण परिज्ञायमानपरिमाणत्वाद्विधिप्रतिषेधगोचरीमवन्ति न तु गवादिगाव्यादीनां जातिरूपेण व्यक्तिरूपेण वा विधिप्रतिषेधावुपपद्येते । न तावत्साध्वसाधुत्वे जातिगुणाद्यात्मकसामान्यरूपेण सर्वव्यक्त्यनुगते विज्ञायेते यदालम्बनौ द्वावेव विधिप्रतिषेधावनुमीयेयातां साधुभिर्भाषेत नासाधुभिरिति ।

अविभक्ता हि शब्दत्वजातिः शब्दापशब्दयोः ।
न त्ववान्तरसामान्ये केचिद्वर्गद्वयस्थिते ॥

तेन यद्येकैका व्यक्तिर्विधीयेत प्रतिषेध्येत वा ततो यावत्पदं वाक्यान्यनुमिमानस्त्रैलोक्यपूरणादप्यधिकानि स्मृतिमूलभूतानि वेदवाक्यान्यनुमिमीते । न च तावतां कोटिशतभागोऽप्याम्नातुं शक्यते । न चानाम्नातस्य स्मृतिमूलत्वम् । नित्यानुमेयश्रुतिमूलप्रतिषेधात् । न च वाचकत्वावाचकत्वनिबन्धनौ विधिप्रतिषेधौ संभवतः । सर्वेषां वाचकत्वात् ।

वाचकैर्भाषितव्यं हि प्राप्तत्वान्न विधीयते ।
अवाचकनिषेधश्च नाप्राप्तेरवकल्पते ॥

न ह्युदकं पिबेदग्निं न पिबेदिति च विधिप्रतिषेधौ संभवतः । अवश्यं च व्याकरणस्मृतिमूलभूतसाधुविधिश्रुतिरसाधुप्रतिषेधश्रुतिरुभयं वा संयोगपृथक्त्वात् कल्पनीयम् । त्रिष्वपि च पक्षेषु साध्वनुशासनमात्रमेव सौकर्यादाश्रितम् । यदि ह्यपशब्दप्रतिषेधमूलं व्याकरणं ततस्तेषां बहुत्वादव्यवस्थितरूपत्वाच्च न स्वरूपमवगन्तुं शक्यत इति ‘पञ्च1 पञ्चनखा भक्ष्या’ इति स्मृतिन्यायेनानुगतविपरीतभाषणप्रतिषेधोऽर्थापत्तिसिद्धः स्मर्यते । साधुविधिपक्षे तु त एव स्मर्तव्याः । उभयपक्षे तु तदनुगमादेवेतरसिद्धेः प्रतिषेधविषयज्ञानोपपत्तिः । स एष व्याकरणस्य पक्षत्रयेऽप्येकानुगमनिबन्धनत्वात्कथंचित्संक्षेपोऽवकल्पते । ननु प्रतिशब्दं विधिप्रतिषेधावकॢप्तिः । अनन्तवाक्यपाठासंभवादिष्टासंभवदर्शनार्थमेव होलाकाधिकरणेऽभिहितम् । न तस्याऽऽकृतिवचनता न्याय्या न व्यक्तिवचनतेति । तस्मादसंभवन्मूलत्वादपस्मृतिः ।

अथ प्राप्तश्च योऽर्थः स्यान्न स शास्त्रस्य गोचरः ।
सिद्धः शब्दप्रयोगश्च लोकादेवार्थलक्षणः ॥

अथार्थलक्षणत्वेऽपि शास्त्रेण धर्माय प्रयोगनियमात्प्रयोगोत्पत्तिशास्त्रत्वं स्यादिति । तदनुपपन्नम् । नियमविषयासंभवात् ।

यस्य ह्यनियता प्राप्तिस्तच्छास्त्रेण नियम्यते ।
नित्यप्राप्तप्रयोगस्तु न शब्दो नियमास्पदम् ॥

यस्याप्यत्यन्तमप्राप्तिस्ततोऽन्यो न नियम्यते ।
तव चात्यन्तमप्राप्तिर्गाव्यादेः प्राप्तता मम ॥

तेन पक्षद्वयेऽपि नियमानुपपत्तिः । कीदृशश्चात्र नियमः कल्प्येत । किं साधुभिरेव भाषितव्यमुत साधुभिर्भाषितव्यमेवेति ।

यदि साधुभिरेवेति नासाधोरप्रसङ्गतः ।
नियतं भाषितव्यं चेन्मौने दोषः प्रसज्यते ॥

यदि ह्येकार्थाः साध्वसाधवोः विकल्पेन प्राप्नुयुस्ततः साधुनियमावकाशः स्यात् । त्वन्मते तु पुनः—

अत्यन्तावाचकत्वात्तु नैवासाधुः प्रसज्यते ।
यन्निवृत्तिफलः साधोर्नियमोऽत्रार्थवान्भवेत् ॥

अथ प्रमादाशक्तिकृतप्रसङ्गनिवृत्तिर्नियमं प्रयुञ्जीत । तदसत् ।

न हि शास्त्रशतेनापि प्रमादाशक्तिकारितात् ।
निवर्त्यन्ते प्रयोक्तारः प्रयोगादिति दृश्यते ॥

दृष्टोऽपशब्दानामर्थाभिधाने प्रयोग इति चेत् । उच्यते—

अन्योऽप्यक्षिनिकोचादेः प्रयोगोऽर्थेषु दृश्यते ।
तन्निवृत्तिफलः कश्चिन्नियमो न च दृश्यते ॥

न च नियमानां प्रतिपक्षनिवृत्तिः प्रयोजनम् । पस्सिंख्याप्रयोजनत्वात् । न चायं परिसंख्याविषयो युज्यते । युगपत्प्राप्त्यभावात् ।

न वा दृष्टार्थतैवास्य प्रयोगस्योपपद्यते ।
न हि दृष्टनिराकाङ्क्षाददृष्टमपि गम्यते ॥

न हि तादृशेष्वदृष्टकल्पनायामर्थापत्तिः प्रभवति । परार्थत्वाच्च फलश्रुतेरर्थवादत्वम् । न चासति फले शक्यमपूर्वं कल्पयितुम् ।

न चेदं नियमापूर्वमाश्रितं क्वेति गम्यते ।
शब्दार्थश्रोतृततद्‪बुद्धिवक्त्रुच्चारणगोचरे ॥

शब्दस्य तावदत्यन्तपरार्थदृष्टार्थत्वान्ना पूर्वेण कश्चिदुपकारः । सत्यपि चाभिधानकर्मत्वेनार्थस्य प्राधान्ये दृष्टार्थेषु लोकव्यवहारेषु विनाऽप्यपूर्वेणाङ्गभावादपूर्वोपकारानुपयोगः । श्रोतुः पुनर्नियमविधिसंस्पर्शानन्तर्गतत्वादेवासंस्कार्यत्वम् । बुद्धयोश्च क्षणिकत्वान्न कालान्तरावस्थाय्यपूर्वाधारत्वोपपत्तिः ।

वक्ता तु भाषणे सर्वो गुणभूतो विधीयते ।
न तस्य नियमापूर्वसंस्कार्यत्वनिरूपणम् ॥

न प्रधानपदं चात्र विद्यते स्वर्गकामवत् ।
न च षष्ठयुक्तसंबन्धात्स्वामित्वेन प्रधानतः ॥

यत्तु दिङ्नियमापूर्वं भोजनादिषु कल्पितम् ।
पुरुषार्थक्रियाद्वारं तदर्थं तत्प्रतीयते ॥

न चेहोच्चारणमुच्चारयित्रर्थं येन भोजनादिसमत्वं प्रतिपद्येत । स्वरूपेण पुनर्भङिगत्वाद्बुद्धिवदेवासंस्कारार्हम् ।

एवं चावेदमूलत्वान्न धर्मनियमार्थता ।
युक्ता शब्दस्मृतेर्वक्तुं न चास्याः शास्त्रता स्वयम् ॥

तदुक्तं ‘प्रयोगशास्त्रमिति चेन्नासन्नियमात् ’ इति ।

नहि व्याकरणादीनां वेदत्वेन स्वतन्त्रता ।
पुरुषाधीनवृत्तेश्च सापेक्षस्याप्रमाणता ॥

सर्वत्र हि पौरुषेयाद्वचनादेवमयं पुरुषो वेदेति प्रत्ययस्तेन कर्त्रभिप्रायप्रकाशनमात्रोपयुक्तत्वाद्वयाकरणान्नैव शब्दगतसाध्वसाधुविभागः प्रतीयते ।

न च स्मृत्यन्तरं किं चिद्दृष्टं तत्कार्यगोचरम् ।
दृढं श्रुत्यनुमानं स्याद्येनोपनयनादिवत् ॥

प्रायेण मनुगौतमवसिष्ठादिप्रणीताः समानेष्वर्थेषु धर्मसंहिता वर्तन्ते । तेनाविगानात्ताभ्य एव श्रुतयः स्वनुमानाः । न च व्याकरणस्य ताभिः समानार्थत्वम् ।

परस्परेण चाऽऽचार्या विगीतवचनाः स्थिताः ।
सूत्रवार्तिकभाष्येषु किं तत्राध्यवसीयताम् ।

न तावत्सूत्रकारेण किंचिदुक्तं प्रयोजनम् ।
कथं चैतावति ग्रन्थे स्यात्प्रयोजनविस्मृतिः ॥

येष्वपि तद्ग्रन्थेषु विस्पष्टान्यादित एवाऽऽरभ्य प्रयोजनानि ज्ञायन्ते न चैषां श्रवणग्रहणधारणेषु महान्खेदस्तेष्वपि जिज्ञासूत्साहार्थं पूर्वं प्रयोजनान्येव निबध्यन्ते, ‘धर्मं व्याख्यास्यामो,’ [आपस्तम्बपरिभापासूत्रम् । १ । १] ‘यज्ञं व्याख्यास्यामः’ इत्येवमादिभिः । इह पुनरत्यन्तकष्टं व्याकरणं प्रणयता सूत्रकारेण धर्मार्थकाममोक्षाणां न कस्यचित्प्रयोजनत्वमाश्रितम् । न च सर्वप्रधाने वस्तुन्यनादरो युक्तः । सुज्ञातत्वं पुनरीदृशं येनाद्यापि विवदन्ते ।

धर्मश्च फलसंबद्धं कर्म यागादि वर्ण्यते ।
न च व्याकरणे किंचित्तादृक्कर्मोपदिश्यते ॥

धर्मत्वं यच्च विज्ञानशास्त्रपूर्वप्रयोगयोः ।
यथेष्टं वर्णितं तच्च न शास्त्रसदृशं मतम् ॥

शास्त्रार्थो हि निरूपितरूपो भवति । इह च ज्ञानधर्मत्वमुपन्यस्याधर्मप्रसङ्गभीतेन शास्त्रपूर्वप्रयोगेऽभ्युदय इति वार्तिककारेणोक्तम् । भाष्यकार आह—अथ वा पुनरस्तु ज्ञाने धर्म इति । न चैवमनियमेन धर्मत्वावधारणं युक्तम् ।

संबद्धयोश्च धर्मत्वं यदैकस्यावधार्यते ।
तदेतरत्तदर्थंत्वान्न धर्मत्वेन गम्यते ॥

तदिह यदि तावज्ज्ञानमेव धर्मत्वेनावधारितं ततो लोकप्रसिद्धस्यैव प्रयोगस्य ज्ञानात्तु निष्पादितत्वेन सत्यामप्युपकारनिर्वृत्तौ वाजिनादिवत्प्रयोजकत्वाभावः । शास्त्रपूर्वकप्रयोगपक्षे तु ज्ञानस्य तदङ्गत्वेन निराकाङ्क्षभूतत्वात् । असत्यां प्रयोजनान्तराकाङ्क्षायां यद्यपि काचित्फले श्रुतिर्भवेत्साऽपि ‘द्रव्यसंस्कारकर्मसु’ [जै॰ सू॰ ( ४—३—१ ) ।] इत्यनेन न्यायेनार्थवादतया ज्ञायते । न हि समानाध्वनोः परस्मिन्फलवति ज्ञाते पूर्वस्यापि फलवत्ता ज्ञायत इति वर्णितमेतत् । “योऽश्वमेधेन यजते य उ चैनमेवं वेद” इति । किं च—

आदिमत्त्वाच्च धर्मत्वं नैव ज्ञातप्रयोगयोः ।
न हि व्याकरणापेक्षा वर्तते वैदिकी श्रुतिः ॥

यन्नाम ज्ञानं नित्येन वेदेनैव क्रियते तत्र तत्पूर्वकप्रयोगविधानं फलायोपपद्यते । व्याकरणज्ञानं तु पौरुषेयं ग्रन्थाधीनत्वान्मन्त्रार्थवादगतानित्यसंयोगपरिहारन्यायेनानादिवेदविषयत्वेन नावधार्यते ।

न च व्याकरणं नित्यं कथंचिदवगम्यते ।
कर्तृस्मृतिद्रढिम्ना हि नित्यपक्षनिराक्रिया ॥

अथापि व्यवहारनित्यतान्यायेन पौरुषेयव्याकरणपरम्पराऽनादिः कल्प्येत तथाऽपि उक्तं तु शब्दपूर्वत्वम् [जै॰ सू॰ ( १—१—८ )] इत्यस्य न्यायस्य स्थितत्वात् । अनेकपुरुषकृतमपि सद्वयाकरणं वेदालम्बनत्वं न प्रतिपद्यते ।

न च व्याकरणत्वाख्या जातिः काचिद्वयवस्थिता ।
अनित्ये वाक्यसंघाते सा जातिः क्वावतिष्ठताम् ॥

अथ ‘लक्ष्यलक्षणे व्याकरणम्’ [म॰ भा॰ पस्पशाह्निके ।] इति सत्यपि लक्षणांशकृत्रिमत्वे लक्ष्यांशेन नित्येन नित्यो विधिरुपपत्स्यत इति । तदनुपपन्नम् । कुतः—

अत्यन्तभिन्नरूपत्वाल्लक्ष्याणां लक्षणादिना ।
नैकमालम्बनं किंचिद्विधेरस्तीत्युदाहृतम् ॥

ननु वेद एव व्याकरणनित्यत्वं दृश्यते । यथाऽऽह—तस्मादेषा व्याकृता वागुद्यत इति [तै॰ सं॰ ( ६—४—७ ) ।] । नैतदस्ति ।

व्याकृता संप्रदायेन वाणी नित्यैव वैदिकी ।
अनूदितोच्यमानेयं कर्मस्वाध्यायकालयोः ॥

अव्याकृताया हि लौकिक्या वाचः शिष्याचार्यसंबन्धेन स्वरवर्णमात्राक्रमैरविप्लुतरूपैर्निरूपिताकारैरेव वैदिकी व्याकृतेत्युच्यते । तस्याश्च मन्त्रब्राह्मणात्मिकायाः कर्मसु ज्ञाने प्रयोगे च धर्मोऽस्त्येव । यदपि चैकः शब्दः सभ्यग् [म॰ भा॰ ( ६६—१—८४ ) ।] ज्ञातः सुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग्भवतीति तदपि स्वाध्यायप्रशंसाशेषभूतमेव । ‘अहरहः स्वाध्यायमधीयीत” इत्यत्र ‘अप्येकामृचं यजुः साम वा’ इत्येतदवश्यकर्तव्यतानियमार्थमुक्तम् ।

योऽपि मन्त्रं समस्तं हि नाधीयीताप्यशक्तितः ।
तस्य शास्त्रान्वितः शब्द एकोऽपि स्वर्गकामधुक् ॥

शास्त्रान्वित इति च यथास्वाध्यायमनुगत इत्यर्थः । सम्यक्प्रयुक्त इति चोपनयनोपसदनगुरुशुश्रूषादर्भपवित्रपाणित्वादीतिकर्तव्यतोपपन्नत्वाश्रयणेनोक्तम् । यदपि च “तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्दः” इति, तत्संप्रदायागतवैदिकशब्दविनाशप्रतिषेधार्थमेव । वैदिकाच्चापेतत्वाल्लौकिकस्यापशब्दत्वं संभवति । सुज्ञानं च । न च लौकिकादप्यपेतोऽपशब्दो नाम कश्चिदस्ति । गाव्यादीनामपि शब्दानां श्रोत्रग्राह्यत्वेन शब्दशब्दवाच्यत्वशब्दबुद्धिग्राह्यत्वशब्दत्वानुगमदर्शनात् । अथाप्यवश्यं लौकिकादप्यपेतोऽपशब्द आश्रयणीयः । तथाऽपि “न म्लेच्छभाषां शिक्षेत” इत्येवमादिस्मृत्यनुसरणेन हिमवद्विन्ध्यान्तरालकृष्णमृगसंचरणाद्युपलक्षितधर्माधिकृतार्यावर्तनिवासिव्यतिरिक्तबर्बरादिभाषागतस्य म्लेच्छितत्वसमानाधिकरणापशब्दत्वज्ञानात्तेन भाषणं प्रतिषिध्यते । युक्तं च तस्याशेषतदीयाचरणवत्परिहरणीयत्वं नत्वार्यावर्तनिवासिप्रयुक्तेषु गाव्यादिषु म्लेच्छतिधात्वर्थानुगमः कश्चित् । येन तदनाचारितत्वेनापवृत्तवदपशब्दत्वं निरूप्यते । यदपि च “आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेत् ” इति । तदप्यनृतवादबैदिकशब्दविनाशम्लेच्छभाषाप्रयोगाश्रयमेव वेदितव्यं न तु व्याकरणानुगतव्यतिरिक्तशब्दप्रयोगविषयम् । तथाहि—

कथं नामेदृशात्कार्यात्सर्व एवाऽऽहिताग्नयः ।
प्रवर्त्तेरन्कथं चान्यैर्न निन्द्येरन्नशिष्टवत् ॥

प्रायेण हि शिष्टानां धर्माचारप्रणिहितचेतसां कश्चिदेव प्रमादादल्पोऽनाचारो भवति । गाव्यादिशब्दप्रयोगेषु पुनर्न केषांचिदप्यनाचारबुद्धिः । न च कलञ्जादिभक्षणवद्विचिकित्सा गर्हा वा दृश्यते । न चाऽऽहिताग्निसहस्रेऽप्येकस्त्वदभिमतसाधुशब्दैरेव व्यवहरमाणो दृश्यते ।

कल्पसूत्रस्मृतिग्रन्थमीमांसागृह्यकारिणः ।
शिष्टा दृष्टाः प्रयुञ्जाना अपशब्दाननेकशः ॥

‘ समानमितरच्छयेनेन ’ इत्यादितकारान्तप्रथमान्तनपुंसकप्रयोगेषु मशकेन तत्र तत्र प्रयुक्तं, “समानमितरं ज्योतिष्टोमेन” “समानमितरं गवा एेकाहिकेन” इति । सूत्रकारेणाप्यभिहितम्2 “अहीने बहिष्पवमानैः सदसि स्तुवीरन्” इति कर्त्रभिप्रायक्रियाफलवर्जितेऽप्यृत्विक्कर्तृके स्तवने “यजन्ति याजका” इतिवत्परस्मैपदे प्रयोक्तव्ये व्याकरणमनपेक्ष्याऽऽत्मनेपदं प्रयुक्तम् । तथाऽऽश्वलायनेन “प्रत्यसित्वा प्रायश्चित्तुं जुहयुः” इति समासेऽपि ल्यम्न प्रयुक्तः । “आज्येनाक्षिणी आज्य” इत्यसमासेऽपि प्रयुक्तः । तथा शिक्षायां नारदेन “प्रत्यूषे ब्रह्म चिन्तयेत्” इति गाव्यादिशब्दतुल्य एव प्रयुक्तः । तथा मनुनाऽपि “ज्ञातारः सन्ति मेत्युक्त्वा” इत्यत्र सन्ति म इत्युक्त्वेति वक्तव्ये व्याकरणमनपेक्ष्यैव संहिता कृता । तथा मीमांसायामपि गव्यस्य च तदादिषु’ [अ॰ ८ पा॰ २ सू॰ १८ ।] इति गोर्विकारावयवविषयसाधुप्रयोगयोग्यः शब्दोऽन्यत्रैव गवामयने प्रयुक्तः । तथा ‘द्यावोस्तथेति चेत्’ [जै॰ सू॰ ( ९—६—५ )] इति द्यावापृथिव्योरिति वक्तव्ये लक्षणहीनमेव बहु प्रयुक्तम् । तथा गृह्यकारेण मूर्धन्यभिघ्राणमिति वक्तव्ये मूर्धन्यभिजिघ्राणमित्यविषये जिघ्रादेशः प्रयुक्तः । कात्स्न्र्येऽपि व्याकरणस्य निरुक्ते हीनलक्षणाः प्रयोगा बहवो यद्वद्ब्राह्यणो ब्रवणादिति । संवत्सरं शाशयाना इत्येतन्मन्त्रगतमण्डूकविषयब्राह्मणशब्दनिर्वचने क्रियमाणे वचनशीलत्वनिमित्ततां दर्शयता ब्रुवो वचिरिति वच्यादेशमकृत्वैव ब्रवणादिति प्रयुक्तम् ।

अन्तो नास्त्यपशब्दानामितिहासपुराणयोः ।
तथोभाभ्यादिरूपाणां हस्तिशिक्षादिकारिणाम् ॥

युगपदुभाभ्यां दन्ताभ्यां यः प्रहारः स उभाभ्य इति सर्वैः पालकार्यराजपुत्रादिभिर्व्याकरणानपेक्षमेव प्रयुक्तम् ।

वेदेष्वपि प्रयोगास्ते भूयांसोऽध्येतृसंमताः ।
सामान्यं छान्दसं वाऽपि येषां नास्त्येव लक्षणम् ॥

न हि ते सुप्तिङुपग्रहादिव्यत्ययेन नापि कतिपयाधिकारदृष्टेन ‘बहुलं छन्दसि’ इत्यनेन सिध्यन्ति । तद्यथा मध्यं आपस्य तिष्ठति । नीचीनवारं वरुणः कबन्धमिति [ऋ॰ सं॰ ( ४—४—३० ) ।] । न ह्यपामित्यस्य नित्यस्त्रीलिङ्गबहुवचनविषयव्यञ्जनान्तप्रातिपदिकपरपष्ठयाऽन्वाख्यानादापस्येत्येतद्रूपं लक्षणानुगतं दृश्यते । नापि द्वारशब्दस्य स्थाने लाटभाषातोऽन्यत्र वारशब्दः संभवति । तेनानारम्य एवायं विषयव्याप्त्यसंभवात् ।

शब्दानुगमरूपोऽर्थो यत्र व्याकरणं कृतम् ।
येऽपि व्याकरणस्यैव परे पारे प्रतिष्ठिताः ॥

सुतरां तेऽपि गाव्यादितुल्यानेव प्रयुञ्जते ।
सूत्रवार्तिकभाष्येषु दृश्यते चापशब्दनम् ॥

अश्वारूढाः कथं चाश्वान्विस्मरेयुः सचेतनाः ।

सूत्रे तावत् ‘जनिकर्तुः प्रकृतिः’ [पा॰ सू॰ ( १—४—३० ) ।] इत्यत्र हि द्वावपशब्दौ जनिशब्देन हि इक्श्तिपौ धातुनिर्देश इत्यनेन लक्षणेनान्वितो धातुरेव निर्दिश्यते । न च तस्य कर्तुः प्रकृतेरपादानसंज्ञेष्यते । जायमानस्य पुनरर्थस्य जनिशब्दो वाचकतया नैव लक्षणेनानुगतः । तेनायं दरिद्र इवाश्वशब्दो जनिमात्रवाचित्वात्तदर्थं प्रत्यसाधुरेव विज्ञायते । तथा । ‘तृजकाभ्यां कर्तरि’ [पा॰ सू॰ ( २—२—१० ) ।] इति प्रतिषिद्धषष्ठीसमासप्रयोगाद्व्याकरणफलपरित्यागः । एवं तत्प्रयोजक इति [पा॰ सू॰ (१—७—५५ ) ।] प्रतिषिद्ध एव समासः । तथा वार्तिकेऽपि दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्सिद्धमिति । तथा ‘आन्यभाव्यं तु कालशब्दव्यवायात्’ इति । अत्र क्लेशेन समासं कल्पयित्वा ततः समाससंज्ञया गुणवचनसंज्ञायां बाधितायां ‘गुणवचनब्राह्यणादिभ्यः’ [पा॰ सू॰ ( ५—१—१—२४ )] इति लक्षणेनासंसृष्ट एव ष्यञ्प्रयुक्तः । भाष्येऽप्यविरविकन्यायेनेति द्वंद्वगर्भे तत्पुरुषे पूर्वसमासपूर्वपदस्थायाः सुपः ‘सुपो धातुप्रातिपदिकयोः’ [पा॰ सू॰ ( २—४—११ ) ।] इति प्रत्यक्षोपदिष्टोऽपि लुङ्न कृतः । तथाऽन्यथा कृत्वा चोदितमन्यथा कृत्वा परिहार इति । ‘अन्यथैवं कथम्’ [पा॰ सू॰ ( ६—४—२७ ) ।] इत्यन्वाख्यातसाधुत्वोऽपि णमुल् न प्रयुक्तः । न चैषां निपातनैः साधुत्वसिद्धिः । कुतः—

येषामनुगमो नास्ति ते सिध्येयुर्निपातनैः ।
अन्यथानुगतानां तु प्रयोगं बाधते स्मृतिः ॥

स्मृत्याचारविरोधे हि स्मृतिरेव बलीयसी ।
प्रत्यक्षप्रतिषेधाच्च जनिकर्त्राद्यसाधुता ॥

प्रत्यक्षस्मृतिविरोधे तु लक्षणरहितस्यापि प्रयोगादेव शिष्टाचारभूतादवयवानुगमस्मृतिमनुमाय निपातनात्साधुत्वसिद्धिः । न च लक्षणशब्दानां स्वात्मनि क्रियाविरोधादात्मार्थत्वाभावाद्वा लक्षणानुगतिरनादरणीया ।

प्रदेशान्तरसिद्धेन लक्षणेनानुगम्यते ।
देशान्तरस्थितः शब्दो लक्ष्यभूतोऽन्यशब्दवत् ॥

तथा च ‘कुत्वं कस्मान्न भवति वृद्धिः’ [म॰ भा॰ (१—१—१ आ॰ ३) ।] इति । कोऽयं शब्द इत्यादिषु लक्षणानुगमादरः सर्वत्राऽऽश्रितः। यदि च लक्षणशब्देषु लक्षणं न प्रवर्तेत, ततः सर्वं व्याकरणमपशब्दैरेव निबद्धं स्यात् । अर्धवैशसदर्शनात्तु प्रमाणत्वहानिः । अथोच्येत यज्ञप्रयोगविषय एव साधुभाषणनियमो न सूत्रकारव्याख्यानादिक्रियास्विति । तदसत् । स्वर्गे लोके कामधुगिति फलवत्त्वोपन्यासात् । सारस्वतीविधावाहिताग्निग्रहणार्थवत्त्वात् । इतरथा ह्याहिताग्निरेव यज्ञेष्वधिक्रियत इति तद्गोचरेऽपशब्दप्रयोगे निष्प्रयोजनमेवाऽऽहिताग्निग्रहणं भवेत् । योऽपि च ज्योतिष्टोमप्रकरणे वाजसनेयिनां “तस्माद्ब्राह्मणो न म्लेच्छेत्” इति प्रतिषेधः कर्माङ्गत्वेन ज्ञायते सोऽपि गुरुसंप्रदायक्रमागतमन्त्रप्रयोगविनाशविषय एव म्लेच्छभाषाप्रतिषेधार्थो वेति पूर्ववदेव नेतव्यः । यदपि च ‘केषां शब्दानाम्’ [म॰ भा॰ पस्प॰ ।] इति प्रश्नानन्तरं ‘लौकिकानां वैदिकानां च’ इति विवेककथनं तदपि बहूनां ताव त्प्रत्यक्षप्रत्यभिज्ञानाल्लोकवेदयोरभेदे सति स्तोकप्रविभागापेक्षं नैवेदमत्यन्तभेदाश्रयसदृशमभिधीयमानं शोभते न च लौकिकमध्ये गौरश्वः पुरुषो हस्तीत्येवमादयः सर्वे वेदसाधारणा वेदादेव वोद्धृत्य लोकेन प्रयुक्ता उदाहर्तुं न्याय्याः । य एव हि भाषायामित्येव स्मर्यन्ते, न च क्वचिदपि वेदे दृष्टपूर्वा इत्येवं संभावयितुं शक्यन्ते त एवोदाहर्तव्याः । वैदिकोदाहरणेष्वपि च लोकप्रसिद्धा एव शमादय उदाहृताः । न च वाक्योदाहरणेन लौकिकेभ्यो भिद्यन्ते । वाक्यानां व्याकरणेनानन्वाख्यानात् । अतश्छान्दसान्येव कानि चित् “गृभ्णामि” “दत्वायाथ” इत्येवमादीन्युदाहर्तुं योग्यानि न “शंनो देवीः” इत्येवमादीनि । छान्दसोदाहरणं च कुतः ‘सिद्धे’ ‘लोकत’3 इत्यनेन प्रत्यासन्नेनैव व्याहन्येत । यदि च लौकिकानामन्वाख्यानं क्रियेत्, ततः सुतरां गाव्यादय एवान्वाख्येयास्तेषां व्यवस्थितं लौकिकत्वं वेदेष्वप्रगोगात् । पुनरध्येतृभिर्वेदादेवोद्धृत्योद्धृत्य प्रयुक्ता इति शक्यं वक्तुम् । तथा च मनुनाऽप्युक्तम् । वेदशब्देम्य एवाऽऽदौ पृथक् संस्था विनिर्मम इति । दृश्यन्ते चाद्यत्वेऽपि श्रोत्रिया लौकिकेऽप्यर्थे विवक्षिते तद्भाषासमानार्थान्सकलमन्त्रानप्युदाहरन्तः किमङ्ग पुनः पादान्पदानि वा । न चाऽऽश्रितप्रतिपदपाठानां वैदिकानां लक्षणेन कार्यम् । न चैषां गुरुमुखात्साधीयो लक्षणमस्ति ‘दृष्टानुविधित्वाच्छन्दस’ इति स्वयमेव लक्षणस्याऽऽम्नानाधीनत्वेन मन्दप्रयोजनत्वमुक्तम् ।

यथैव लोकसिद्धत्वात्कृष्यादेर्लक्षणं वृथा ।
तथैव वेदसिद्धानां शब्दानां लक्षणं वृथा ॥

रक्षाद्यपि यदत्रोक्तमन्वाख्यानप्रयोजनम् ।
न तदप्यन्यतः सिद्धेरल्पसिद्धेस्ततोऽपि वा ॥

शिष्याचार्यसंबन्धो हि महान्वेदरक्षाहेतुर्व्याकरणानधीनस्यापि वेदक्रमस्याध्ययनेनैव रक्ष्यमाणत्वात् । तद्विनाशेऽपि च विशिष्टतरदोषप्रसङ्गात् । उक्तं च—

निराकाङ्क्षी भवेल्लक्ष्यं येन तन्नाम लक्षणम् ।
शतांशमात्रसिद्धौ तु तेन मन्दं प्रयोजनम् ॥

समाम्नायप्रसिद्धेऽपि सामवेदेऽस्ति लक्षणम् ।
तद्युक्तं कृत्स्नसिद्धित्वात्कर्तव्यार्थेन चार्थवत् ॥

औच्छिक्ये हि सर्वाणि सामपर्वाणि यथाक्रमं लक्षणेनानुगतानि ततश्च समस्तसामरूपसिद्धेर्निराकाङ्क्षत्त्वं भवति । ब्राह्मणविधिवशेन च, ऋगन्तरसंचारणायां प्रस्तावादिपञ्चधाविभागेन लक्षणोपयोगः । पदानुगममात्रनिवृत्तव्यापारेण तु व्याकरणेन विशिष्टपदरचनात्मकवाक्यसंघातरूपाणामसंभवत्कर्तव्यपदवाक्यानां मन्दमिव रक्षितव्यं दृश्यते ।

लक्षयेद्यः समाम्नायात्पदवाक्यक्रमान् बहून् ।
स लक्षयेत्तरामल्पं प्रकृतिप्रत्ययक्रमम् ॥

किं च—

यदि व्याकरणाद्रक्षां मन्वीरन्वेदवादिनः ।
वैयाकरणगेहेषु छिन्द्युस्ते वेदसंशयान् ॥

कक्षावलम्बिनं नित्यं को नाम करकं वहन् ।
तमनादृत्य शौचार्थमन्यतः कर्तुमर्हति ॥

लोके यस्य यदर्थत्वमाप्ता वा यत्र ये मताः ।
तेन तेभ्यश्च तद्वस्तु यथावदवगम्यते ॥

आयुर्वेदं चिकित्सासु प्रायेण विनियुज्यते ।
व्याधितत्त्वौषधज्ञानं वैद्येभ्यश्चोपलभ्यते ॥

न तु वेदाध्यायिनां कदाचिदप्यभियुक्ततरसहाध्यायिव्यतिरेकेण वेदवर्णपदवाक्याज्ञानसंदेहविपर्ययव्यावृत्तौ व्याकरणं वैयाकरणा वोपयुज्यन्ते ।

सहाध्यायिमिरेवातो वेदः कार्त्स्न्येन रक्ष्यते ।
स्वराक्षरविनष्टोऽपि द्वेषादन्यैर्न मृष्यते ॥

तस्मात्प्रीतैरुपाध्यायैर्द्विष्टैः कारुणिकादिभिः ।
न विनाशयितुं वेदो लभ्यते तेन रक्ष्यते ॥

तस्माद्वेदरक्षार्थं तावन्नाध्येयं व्याकरणम् ।

लोके तु सर्वभाषाभिरर्था व्याकरणादृते ।
सिध्यन्ति व्यवहारेण काव्यादिष्वप्यसंशयम् ॥

यदि तु संव्यवहारवाक्येष्वनुपयुज्यमानमपि काव्यनाटकलक्षणप्राकृतव्याकरणद्विपदीरासकादिलक्षणन्यायेन संस्कृतकाव्योपयोगार्थं व्याकरणमाश्रीयेत, तथाऽपि काव्यप्रयोगनियमोत्पत्त्यशास्त्रत्वाद्यथेष्टभाषाभिः प्रबन्धकरणसंभवाच्छब्देषु च व्यवस्था स्यादित्युच्यते ।

काव्यशोभास्वपि त्वेतन्नैवातीवोपयुज्यते ।
वैयाकरणदोषाद्धि कष्टाञ्छब्दान्प्रयुञ्जते ॥

न च लक्षणमस्तीति प्रयोक्तव्यमलौकिकम् ।
लोकसिद्धप्रयोगे तु लक्षणं स्यादनर्थकम् ॥

तेन लोकेऽपि न कदाचिद्वयाकरणेन शब्दरक्षा ।

ऊहार्थमपि शब्दानां न व्याकरणमर्थवत् ।
ऊहस्याप्यन्मतः सिद्धेरूह्यानूह्यविभागवत् ॥

तथा च—

मुख्यदृष्टार्थतास्वार्थसमवेतार्थतादिभिः ।
प्रयुक्ताः प्रकृतौ मन्त्रा गताः कार्यातिदेशतः ॥

विकारेऽथ निषिद्धोहाः कार्यापन्नेषु पञ्चधा ।
अर्थान्तरेऽष्वपूर्वार्थद्वारेणोहं व्रजन्ति नः ॥

एतावत्यन्यतो यस्य विना व्याकरणान्मतिः ।
जायेत स कथं तत्र पदं योग्यं न लप्स्यते ॥

वेद एव हि सर्वेषामादर्शः सर्वदा स्थितः ।
शब्दानां तत उद्धृत्य प्रयोगः संभविष्यति ॥

अथ वा योऽपि गाव्यादिर्लोकेनार्थे प्रयुज्यते ।
सोऽप्यर्थद्वारतः प्राप्तप्रयोगः केन वार्यते ॥

देवतापदानि तावत् ‘विधिशब्दस्य मन्त्रत्वे भावः स्यात्’ [जै॰ सू॰ (१० ४ २३) ।] इत्येतेन न्यायेन सर्वानेव साध्वसाधुत्वसंमतान्पर्यायान्परित्यज्य विधिगतप्रयोगानुसरणेनैव तद्वाक्यशेषवाक्यान्तराधिगतार्थाभिधानरूपेण प्रयुज्यन्ते तेषु ह्यस्त्येव कर्माभिधानार्थमेव प्रयोगोत्पत्तिशास्त्रत्वम् । यानि तु द्रव्यतद्गुणादिपदानि संनिहितार्थपर्युपस्थापितसमस्तरूपाणि प्रयोगवचनगोचरमागच्छन्ति तेष्वसंनिहितार्थपदनिवृत्तिन्यूनसाकाङ्क्षमन्त्रवाक्यनिराकाङ्क्षीकरणाय स्मृतेऽप्यर्थे प्रयुज्यमानेषु प्रयोगोत्पत्त्यशास्त्रत्वान्न व्यवस्था स्यादित्युच्यते । प्रकृतौ हि मन्त्राणां प्रयोगोत्पत्तिः शास्त्रवती, विकृतौ पुनरर्थवशाद्भवन्ती न व्याकरणानुगतेष्वेवावतिष्ठते । व्याकरणस्याप्यसंभाव्यमानमूलशास्त्रस्य कृतकाविधायकेष्ट्युपसंख्यानाद्यावापसूत्रप्रत्याख्यानानवस्थितप्रमाणत्वस्य यथारुचिविकल्पितप्रकृतिप्रत्ययपरिमाणादिदोषग्रस्तस्य निश्चितस्मर्यमाणपाणिन्यादिमतसापेक्षस्य नैवानादियज्ञगतशब्दप्रयोगनियमोत्पत्तिशास्त्रत्वमवकल्पते ।

तेनोहे कर्मकर्माङ्गवाक्यार्थज्ञानकौशलैः ।
लोकवेदप्रयोगाच्च सिद्धे व्याकरणेन किम् ॥

अपि च व्याकरणेनोहकरणमशक्यमेवेति मन्वानैष्टीकाकारैरप्युक्तम्—

अङ्गानि ज्ञातिनामान्युपमा चेन्द्रियाणि च ।
एतानि नोहं गच्छन्ति अध्रिगौ4 विषमं हि तत् ॥

आगमो यस्तु निर्दिष्टः प्रयोजनविवक्षया ।
कर्मणां नोच्यते तत्र किं वेदाध्ययनं फलम् ॥

सर्वस्य हि ह्यनुष्ठातव्यस्याऽऽगमो मूलत्वेनाऽऽख्यायते न प्रयोजनत्वेन ।

अथैतेनैव युक्तं स्यादागमोक्तं प्रयोजनम् ।
तदप्यसदनाम्नानान्निष्कारणतयाऽपि च ॥

निष्कारणषडङ्गवेदाध्ययनोपन्यासेन हि सुतरां व्याकरणस्य निष्प्रयोजनत्वमुक्तम् ।

आगमो वेदवाक्याच्च नान्यः कश्चन विद्यते ।
कथं चाऽऽदिमतां सिध्येद्वेदेनानादिना विधिः ॥

तस्मात् ‘स्वाध्यायोऽध्येतव्यः’ इत्येतत्केवलवेदाध्ययनविधानं शतपथादिषु दृष्टमुपपन्नं च नित्यार्थालम्बनत्वात् । व्याकरणाद्यङ्गाध्ययनविधानं पुनर्न कस्यांचिच्छाखायां श्रूयते । न चाऽऽदिमदर्थविषयं सदनादित्वाधीनं वेदत्वं प्रमाणत्वं वा लभते ।

न च वेदाङ्गभावोऽपि कश्चिद्वयाकरणं प्रति ।
तादर्थ्यावयवाभावाद्बुद्धादिवचनेष्विव ॥

श्रुतिलिङ्गादिभिस्तावत्तादर्थ्यं नास्य गम्यते ।
अकृत्रिमस्य वा कश्चित्कृत्रिमोऽवयवः कथम् ॥

तस्मादवयवविषयमेवैतदेवं वर्णयितव्यम् ।

षडङ्गो वेद इत्युक्तं श्रुतिलिङ्गाद्यपेक्षया ।
तैः षड्भिः प्रविभक्तः सन्स हि कर्मविबोधनः ॥

ननु बाह्याङ्गानपेक्षत्वे वेदस्वरूपान्तर्गतश्रुत्याद्यपेक्षया विशेषणमनर्थकं प्रसज्यते । तथा हि—

संभवव्यभिचाराभ्यां स्याद्विशेषणसंभवः ।
श्रुत्याद्यव्यभिचारात्तु तैरङ्गैः किं विशेष्यते ॥

उच्यते—

यस्तानि प्रविभक्तानि हेतुरूपफलैः पृथक् ।
ज्ञात्वाऽधीते स एवास्य विधेरर्थं करोति नः ॥

अधिगन्तव्य इत्येतदध्येय इति चोच्यते ।
तेन श्रुत्यादिमान्वेदो वेदितव्यो विधेरतः ॥

ध्यायतेरेव वा रूपं ध्येय इत्येतदाश्रितम् ।
श्रुत्याद्यर्पितसर्वार्थः स ध्यातव्यः सदा द्विज्ञैः ॥

ततश्च मीमांसाद्वारा वेदार्थानुचिन्तनविधिरेवायमिति ज्ञायते न व्याकरणाध्ययनविधिः ।

वेदे व्याकरणादीनि सन्त्येवाभ्यन्तराणि नः ।
भवेद्वा तदभिप्राया षडङ्गाध्ययनस्मृतिः ॥

तद्दध्नो दधित्वम्’ इत्येवमादीनि हि वैदिकार्थवादान्तर्गतान्येव हि निरुक्तव्याकरणादीनि तैः विधायको वेदोऽध्येतव्य इति स्मृत्यर्थो भवेत् ।

प्रातिशाख्यानि वा यानि स्वाध्यायवदधीयते ।
गृह्यमाणतदर्थत्वादङ्गत्वं तेषु वा स्थितम् ॥

यानि हि वेदव्यापारपराण्येव तेषु लिङ्गेन शक्यमङ्गत्वमध्यवसातुम् । ननु कतिभयस्पृष्टवेदवाक्योदाहरणच्छद्ममात्रेषु पाणिनिप्रभृतिप्रणीतेषु प्रातिशाख्यानीव प्रयोगशास्त्राणीति चेत् । न । तेषां पदस्वरूपेष्वेव व्यापारात् । पाणिनीयादिषु हि वेदस्वरूपवर्जितानि पदान्येव संस्कृत्य संस्कृत्योत्सृज्यन्ते । प्रातिशाख्यैः पुनर्वेदसंहिताध्ययनानुगतस्वरसंधिप्रयतिविवृतिपूर्वाङ्गपराङ्गाद्यनुसरणाद्वेदाङ्गत्वमाविष्कृतम् ।

पूर्वोक्तेनानुसंघानमागमस्य च नास्ति ते ।
आगमोऽध्ययनप्रायः प्राक्च शब्दानुशासनम् ॥

ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येय [म. भा. पस्पशाह्निके ।] इति विहितो ज्ञाने धर्मः शास्त्रपूर्वप्रयोगेऽभ्युदय इति च व्याहताभिधानम् । यदपि च शब्दापशब्दज्ञानलाघवं प्रयोजनत्वेनोपदिष्टं तन्निराकृतप्रयोजनान्तरस्य लाघवमात्रमेवावशिष्यत इति सत्यमेवोक्तम् ।

यदि वा गौरवस्यैव लघुत्वमुपचर्यते ।
विपर्ययापदेशेन शूरे कातरशब्दवत् ॥

लोकप्रसिद्धानामेव शब्दानामत्यन्तविषमधातुगणोणादिसूत्रादिभिरलौकिकसंज्ञापरिभाषानिबद्धप्रक्रियैरनवस्थितस्थापनाक्षेपसिद्धान्तविचारैः क्लेशेनान्तं गत्वा यथावस्थितानुवादमात्रमेव क्रियते, तत्रापि चोदाहरणव्यतिरिक्तेषु कस्यचिदेव लक्षणयोजनसामर्थ्यं दृश्यते । तेनात्यन्तगुरुः सन्नयमुपायस्तुत्यर्थमेव लघुरित्युपचरितः । यदपि केन चिदुक्तम्—

तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते ॥ इति ।

तद्रूपरसगन्धस्पर्शेष्वपि वक्तव्यमासीत् ।

को हि प्रत्यक्षगम्येऽर्थे शास्त्रात्तत्त्वावधारणम् ।
शास्त्रलोकस्वभावज्ञ ईदृशं वक्तुमर्हति ॥

अत एव श्लोकस्योत्तरार्धं वक्तव्यम् ।

तत्त्वावबोधः शब्दानां नास्ति श्रोत्रेन्द्रियादृते ॥ इति ।

न ह्यत्र कश्चिद्विप्रतिपद्यते बधिरेष्वेवमदृष्टत्वात् ।

असंदेहश्च वेदार्थे यदप्युक्तं प्रयोजनम् ।
तदप्यसद्यतो नास्मात्पदवाक्यार्थनिर्णयौ ॥

यतः पदार्थसंदेहास्तावद्बहवो वृद्धव्यवहारादेव निवर्त्तन्ते । शेषाश्च निगमनिरुक्तकल्पसूत्रतर्काभियुक्तेभ्यः सर्वेषामर्थप्रतिपादनपरत्वात् । व्याकरणेन पुनरतन्त्रीकृत्यार्थं पदस्वरूपमात्रेऽन्वाख्यायमाने दूरादपेतमेवार्थज्ञानम् । तथा हि—

धातुभ्यः कल्पिते नाम्नि क्रियायोगोऽनुगम्यते ।
न चाभिधानवेलायां तत्प्रतीतिर्भनागपि ॥

गमेर्डोः’ [उणादिसू॰ २३५ ।] इत्येतद्वयुत्पत्त्यनुसारी हि गन्तृमात्रमेव गोशब्दवाच्यमध्यवस्येत् । जातिशब्दश्चायं वृद्धव्यवहारेऽवस्थितो यत्र प्रसिद्धस्तत्रान्वाख्यातव्यः । तथा च—

कुशलोदारशब्दादेर्यावत्यनुगमः स्थितः ।
न तावत्येव शब्दार्थप्रसिद्धिर्व्यवतिष्ठते ॥

अश्वकर्णाजकर्णादौ समासानुगमे सति ।
अपेतावयवार्थोऽर्थो दृश्यते वृत्तशब्दवत् ॥

एवं राजन्यशब्दादेरयतत्वाद्यनादरः ।
व्याक्रियाविपरीतोऽपि स्थितो लोकप्रसिद्घितः ॥

तथा वेदविरुद्धेऽर्थे दृष्टं शब्दानुशासनम् ।
तत्तथा यदि गृह्येत वेदाङ्गत्वं विरुध्यते ॥

कलेर्ढक्’ [पा. सू. (४—२—८)] ‘वामदेवाड्ड्यड्ड्यौ’ इति [पा. सू. (४—२—९) ।] कलिवामदेवदृष्टसामाभिधानप्रतिपत्तिर्वैयाकरणस्य भवति । वेदे तु “ततो वसु वामं समभवत् तस्माद्वामदेव्यम्” “यदकालयत्तत्कालेयस्य कालेयत्वम्” इत्याद्यर्थव्युत्पत्तिदर्शनं व्याकरणानुसारिणीं प्रतिपत्तिं बाधते । तथा कल्पसूत्रकारैः कृष्णशं वासः कृष्णवलक्षे अजिने इत्येवमादिषु कृष्णदशादिविवरणाश्रयणाद्वयाकरणशतेनाप्यनवगता अर्था वेदार्थवित्परम्पराप्राप्ता वेदवाक्यपौर्वापर्यावगतयूपादिशब्दार्थाश्च व्याख्यायन्ते । यथा चैवमादिषु व्याकरणानपेक्षाणामेव निःसंशयार्थप्रतिपत्तिस्तथा स्थूलपृषत्यादिशब्दार्थेष्वपि व्याख्यातृपरम्परैव निर्णयक्षमेति न व्याकरणमपेक्षितव्यम् । किं च—

वाक्यार्थेषु च संदेहा जायन्ते ये सहस्त्रशः ।
नैषां व्याकरणात्कश्चित्पूर्वपक्षोऽपि गम्यते॥

यदि वेदार्थासंदेहप्रयोजनं व्याकरणं भवेत्ततः किमर्थवादाः स्वतन्त्राः कंचिदर्थं प्रतिपादयन्त्यथ विधिशेषभूताः । तथा किमूर्गवरोधनमौदुम्बरत्वस्य फलमुत प्रशंसार्थमुपात्तमिति । तथा हेतुविधिहेत्वर्थवादमन्त्रप्रयोगदृष्टादृष्टार्थत्वादिषु ग्रहैकत्वविवक्षादिषु च संदेहानपनयेत् । अथैवमादिषु मीमांसासिद्धत्वाद्वयाकरणेऽनुपन्यासस्ततः कल्पसूत्रकारवचनसिद्धकतिपयस्थूलपृषत्याद्यर्थनिर्णयप्रयोजनता सुतरां नाऽऽश्रयणीया । अपि च—

लक्षणोत्थेऽपि संदेहे व्याख्यानादेव निर्णयः ।
वेदशब्देष्वपि व्याख्या नैव दण्डैर्निवार्यते ॥

व्याख्यानतो विशेषप्रतिपत्तिः’ [म॰ भा॰ (प्रत्याहाराहनिके लण्सूत्रे)] इत्यनयैव परिभाषया न हि संदेहादलक्षणमितिवन्न हि संदेहादवेद इत्यपि शक्यं वक्तुम् ।

न चागृहीतशब्दार्थैः कैश्चिद्व्याकरणाश्रयात् ।
व्याख्यातुं शक्यते वेदो यतः स्यात्तेन निश्चयः ॥

यथैवावस्थितो वेदस्तथा व्याख्याऽपि सर्वदा ।
अतः स्थूलपृषत्यादिव्याख्या व्याकरणादृते ॥

न च लोके प्रयुक्तानां पदानां दृश्यते स्वरः ।
व्यवहाराद्बहिर्भूतात्स्वरान्नातोऽर्थनिश्चय ॥

वृद्धव्यवहाराधीनं शब्दार्थावधारणं तत्र च समासान्तोदात्तत्वपूर्वपदप्रकृतिस्वरत्वादिप्रयोगविभागाभावान्न तत्कृताऽर्थविशेषव्यवस्था ।

यत्र त्वस्ति स्वरज्ञानं वेदवाक्येष्वविश्रुतम् ।
तत्र नैव पदार्थानामवधारणसंभवः ॥

तत्रापि निर्णयो यः स्यादर्थप्रकरणादिभिः ।
तत्र तैरेव सिद्धत्वान्न स्वरस्याभिधाङ्गता ॥

तेनादृष्टार्थ एवायं स्वरपाठोऽवगम्यते ।
सर्वदा ब्रह्मयज्ञाङ्गद्रव्ययज्ञजपेषु च ॥

व्याकरणानुगमोऽपि चास्य यदि नाम कथंचित्तदुपयोगार्थ एव भवेन्नतु लोकिकप्रयोगार्थः। अत्यन्ताप्रयुक्तत्वात् ।

न च व्याकरणोक्तेन स्वरेणार्थस्य निर्णयः ।
शब्दानुशासनं ह्येतद्दृष्टं नार्थानुशासनम् ॥

तस्मादसंदेहार्थमपि नाध्येयं व्याकरणम् । न ह्येतदर्थनिश्चयाङ्गभूतस्वरविशेषप्रयोगोत्पत्तिशास्त्रम् । यान्यपि च ‘इमानि भूयः शब्दानुशासनस्य प्रयोजनानि’ इत्येवमुपन्यस्तानि तेषामपि कानिचित्प्रयोजनत्वयोग्यान्येव न संभवन्ति, कानिचित्प्रयोजनाभासानि, कानिचिदप्रमाणकानि । अपि च—

अर्थवत्त्वं न चेज्जातं मुख्यैर्यस्य प्रयोजनैः ।
तस्यानुषङ्गिकेष्वाशा कुशकाशावलम्बिनी ॥

तत्र यस्तावत्तेऽसुरा इत्याद्यसुरपुराकल्पार्थवादप्रक्रमेऽपशब्दप्रतिषेधः प्रयोजनत्वेनोपन्यस्तः स यथावस्थितस्तथोक्तं प्राक् । दुष्टः शब्द इत्यत्रापि बहुजनप्रसिद्धशिक्षाकारपठितमन्त्रपदोद्धारेण शब्दपदं प्रक्षिपता स्वपक्षानुरागो दर्शितः । दुष्टमन्त्रप्रयोगे त्विष्यत एव यजमानस्य प्रत्यवायः । ‘यद्धोता जहाति वाग्घि तद्यजमानं जहाति’ इत्येवमादिभिः सर्वर्त्विक्प्रयोज्यमन्त्रविनाशेषु यजमानगामिदोषदर्शनात् । तथा च ‘इन्द्रशत्रुर्वर्धस्व’ इति मन्त्रप्रयोगविनाशदोष एवोदाहृतः । यत्तु निरुक्ते ‘यदधीतमविज्ञातं निगदेनैव शब्द्यते5 इत्युक्तं, तदस्माभिः प्रथमसूत्र एवार्थशब्दं व्याचक्षाणैः स्नानस्मृत्यतिक्रमकारणत्वेनोपवर्णितम् । ‘अनतिक्रामन्तो वेदमर्थवन्तं सन्तमनर्थकमवकल्पयेम, दृष्टो हि तस्यार्थः कर्मावबोधनम्’ इति । ततश्चाव्याख्यातेन वेदेनार्थप्रकाशनाकरणात् ‘न तज्ज्वलति कर्हि चित्’ इति । सत्यमेवैतत् । न तु व्याकरणस्य तत्रोपयोगः । कर्मप्रयोगोत्पत्तिं प्रत्यशास्त्रत्वात् । शब्दशास्त्रमेतदिति चेत्तेष्वपि पूर्वोक्तेन निर्मूलत्वेन न व्यवस्था स्यात् तस्मात्कल्पसूत्रनिरुक्तमीमांसानामेवाधीतमन्त्रब्राह्मणार्थविज्ञानोपयोगक्षमत्वादेतत्प्रयोजनं युक्तं, न तु व्याकरणस्य । यस्तु6 प्रयुङ्क्त इत्येतदपि मन्त्रब्राह्मणशब्दस्य सम्यक्प्रयोगप्रयोजनमेव विज्ञायते । यथासमाम्नातादन्यथाकरणाच्च “दुष्यति चापशब्दैः” इति । स्वाध्यायाध्ययनाध्यापनयजनयाजनगतवेदशब्दविनाशेऽपि ‘यदृक्तो यज्ञ आर्तिमियात्इत । एतद्वचनादवगतदोषानुवादोऽपीत्यवम्यते । वाग्योगविदिति च बहुलोकव्यवहारदर्शनाद्विदितपदपदार्थसंबन्धः पुमान्, ब्राह्मणवाक्येषु चोद्दिश्यमानोपादीयमानगुणप्रधानादिनिरूपणावधृतवचनव्यक्तिविशेषो मन्त्रेषु चावगतचोदिताचोदितस्वार्थपरार्थप्रकाशनार्हत्वानर्हत्वविदेव च वाग्योगविदित्युच्यते न वैयाकरणः । वैयाकरणस्यैवंविधप्रयोगोत्पत्त्यशास्त्रत्वात् । यदप्यविद्वांस7 इति, प्रत्यभिवादे नामान्त्यस्वरप्लुतानभिज्ञनिन्दावचनं, तत्प्लुतस्य त्रिमात्रस्य लोकप्रसिद्धत्वान्मन्वाद्युपदिष्टनामान्त्यप्रयोगसिद्धौ लब्धायां तत्प्रयोगोत्पत्त्यशास्त्रत्वम् । न च तावता मन्वादिभिरनेन चोदाहृतेन श्लोकेन प्रकृतिप्रत्ययादिविभागद्वारेण शब्दापशब्दविवेकज्ञान तदुपयोगो वाऽऽश्रीयते । यच्चप्रयाजाः सविभक्तिकाः कर्तव्याः’ इति तद्याज्ञिकोपदेशसिद्धत्वाद् ब्राह्मणे च षडहविभक्तयः “अग्निर्वृत्राणि जङ्घनत्” “अग्निं वो वृत्रहन्तमम्” ‘अग्निनाऽग्निः समिध्यते’ इत्येवमादिविभक्तविभक्तिप्रयोगदर्शनादन्तरेणापि व्याकरणं वैभक्तिकमात्रालोचनेनापि वा सविभक्तिकप्रयाजप्रयोगसिद्धेरशास्त्रं व्याकरणम् । “यो वा इमां पदशः स्वरशो वाचं विदधाति स आर्त्विजीनो भवति” [ऋ॰ सं॰ (२—३—२२) ।] इति सम्यग्वेदाध्याय्येवमभिधीयते । तथा “चत्वारि वाक्परिमिता पदानि” इति यानि तावदोंकारमहाव्याहृत्यादिचतुष्टयबाहुल्यप्रयोजनानुसरणेन नैरुक्तैरप्यक्षरवर्णसाम्यान्निर्ब्रूयादितिवत्प्रपञ्चितानि, न तत्र व्याकरणस्य कश्चिदधिकारः । यत्तु नामाख्यातोपसर्गनिपातचतुष्टयानुगतं वैयाकरणमतमाश्रितं तदपि चतुष्टयस्य लोकसिद्धत्वादेव नातीव व्याकरणापेक्षम् । एतद्विषयत्वे च वर्ण्यमाने “तुरीयं वाचो मनुष्या वदन्ति” इत्यसंबद्धमेव स्यात् । चतुर्णामपि पदजातानां मनुष्यैरुच्यमानत्वात् । तस्मादयमस्य मन्त्रस्यार्थः पौर्वापर्यसंगतो वर्ण्यते । “चत्वारि वाक्परिमिता पदानि” इति यैर्वाक्पद्यते गम्यते तानि चत्वारि प्रत्यक्षानुमानोपमानार्थापत्त्याख्यानि प्रमाणान्यभिधीयन्ते । तत्र यानि प्रतीकविधिप्राकृतवैकृतवाक्यसारूप्यदृष्टानुपपद्यमानादिप्रभवैरनुमानोपमानार्थापत्त्याख्यैस्त्रिभिर्गम्यन्ते, तानि तत्सिद्धत्वादेव नेङ्गयन्ति नोच्चारयन्ति । यस्तु भागस्तैरशक्यः प्रतिपादयितुं तं तुरीयं प्रत्यक्षसमधिगम्यमध्येतारो मनुष्या वदन्ति समामनन्तीत्यर्थः । षट्प्रमाणीमध्याच्च प्रमाणद्वयं वाक्पदत्वादपोद्धृतम् । अभावस्तावदभावविषयत्वादेव वाक्पदं न भवति । आगमस्य पुनर्वागात्मकत्वात्पद्यमानवागाश्रितस्य पदत्वाश्रयणमनुपपन्नम् । प्रत्यक्षपक्षनिक्षिप्तत्वात्पृथक्त्वेनानिर्देशः । [ऋ॰ सं॰ (३ ।८ । १०) ।] चत्वारि शृङ्गेत्यस्य तु विषुवति होतुराज्ये प्रयुक्तस्य योऽर्थः स मन्त्राधिकरणे व्याख्यातः । न चात्र काचिद्व्याकरणापेक्षा । यत्तु चत्वारि पदजातानि शृङ्गाणीत्येवमादिसंख्यासामान्यमात्रेण कर्मविनियोगानपेक्षमर्थान्तरं वर्ण्यते, तद्वयाकरणकृतवाक्वौशलमात्रम् । तादृशं च वैशेषिकादिष्वपि तदभियुक्तैः शक्यं योजयितुमित्यनादरणीयम् । “उतत्वः पश्यन्” [ऋ॰ सं॰ (८ ।२ २३) ।] इत्यपि लोकनिरुक्तकल्पसूत्रमीमांसाश्रयोत्पन्नपदार्थवाक्यार्थज्ञानप्रशंसार्थ एव मन्त्रो विज्ञायमानो न व्याकरणमद्रियते । एवं “सक्तुमिव तितउना” [ऋ॰ सं॰ (८ । २ । २२) ।] इत्येषोऽप्यविप्लुतस्वाध्यायाध्ययननिर्मलवेदाक्षरार्थज्ञानप्रशंसार्थं पूर्ववदेव वर्णनीयः । “आहिताग्निरपशब्दं प्रयुज्य” [म॰ भा॰ पस्पशाह्निके ।] इति, व्याख्यातमेवैतत् । यदपि नामकरणे, घोषवदाद्यन्तरन्तस्थं8 द्विचतुरादिवर्णकृदन्तपरिग्रहतद्धितवर्जनवचनं, तत्कृत्तद्धितसंज्ञयोर्व्याकरणेऽपि पूर्वप्रसिद्धयोरेवोपादानाद्वर्णपरिमाणस्य च प्रत्यक्षपूर्वकस्मृत्यधीनत्वाद् घोषवत्त्वादीनां च शिक्षाप्रातिशाख्येष्वनुक्रमणात्सर्वैश्च श्रोत्रियैरक्लेशेन नामकरणान्न व्याकरणं नाम प्रयोगोत्पत्तिशास्त्रत्वेनापेक्षणीयम् । “सुदेवोअसि वरुण६” इत्यत्र यद्यपि तावत्सप्त विभक्तस्य एव सप्त सिन्धव इति व्याख्यायन्ते तथाऽपि तासां विभक्तिसंज्ञामात्रं व्याकरणेन क्रियते प्रसिद्धमेव वा गृह्यते । यानि तु प्रयोगरूपाणि तानि लोके वेदे च विभागशः प्रत्यक्षाण्येवेति न व्याकरणापेक्षयैवमभिधीयन्ते । यदा पुनः सप्त सिन्धवो नद्य एव यज्ञर्त्विग्यजमानप्रशंसापक्षे वा सप्त होत्रागता वाचः सप्त सामस्वरगतास्तद्भक्तिंगता वा परिगृह्यन्ते, तदैतिहासिकयाज्ञिकगोचरापन्नत्वादविषय एव व्याकरणस्य ।

संस्कृतानां च शब्दानां साधुत्वे परिकल्पिते ।
वक्तव्यः कस्य संस्कारः कथं वा क्रियते पुनः ॥

व्याकरणेन शब्देषु संस्क्रियमाणेषु न ज्ञायते किं वस्तु संस्क्रियते को वा संस्कार उत्पत्तिप्राप्तिविकारापूर्वसाधनसामर्थ्याधानानां क्रियत इति ।

न तावदस्ति शब्दत्ववर्णत्वव्यक्तिसंस्क्रिया ।
सर्वत्रातिप्रसङ्गेन न व्यवस्था हि सिध्यति ॥

शब्दत्वे संस्कृते स्याद्धि ध्वनीनामपि साधुता ।
वर्णत्वेऽप्येकवर्णानां गाव्यादीनां च तुल्यता ॥

एतेन वर्णव्यक्तिसंस्कारः प्रत्युक्तः ।

गवादिषु गकारादिर्यः सकृत्संस्कृतः क्वचित् ।
गाव्यादिषु स एवेति साधुरेव प्रसज्यते ॥

एवं प्रत्येकसंस्कारे न कस्यचिदसाधुता ।
समुदायस्तु नैवास्ति तेषामयुगपच्छ्रुतेः ॥

येषां तावद्वर्णव्यक्तयः प्रध्वंसिन्य एव तेषां विनष्टानुत्पन्नानां संस्कारायोग्यत्वमेव ।

वर्तमानाऽपि संस्कारक्षणं नैवावतिष्ठते ।
तावदेव विनश्येत्सा यावत्संस्कर्तुमिष्यते ॥

न च तां संस्कृतां भूयः कश्चन द्रक्ष्यति क्वचित् ।
सक्तूनामिव संस्कारो होमेनैष प्रसज्यते ॥

यथैव होमसंस्कृतानां भस्मसाद्भावात्सक्तूनां पुनर्दर्शनविनियोगासंभवाद्द्वितीयाप्रतिपादितसंस्कार्यत्वपरिग्रहे सक्तवो होमस्तद्भावनाविधिरिति सर्वेषामनर्थकत्वं प्रसज्यत इति संस्कारानाश्रयणं, तथैव क्षणिकशब्दव्यक्तिसंस्कारपक्षे सर्वानर्थकत्वप्रसङ्गः । ततश्च योऽप्ययमनियमोऽभिहितो यद्येवं नित्यः शब्दोऽथापि कार्य उभयथाऽपि लक्षणं प्रवर्त्यमिति स एवमेव न्यायमिरूपणभयमात्राविष्करणार्थः शिष्यव्यामोहनार्थो वेति न युक्तः परिग्रहीतुम् ।

अदूरविप्रकृष्टे च वस्तुन्यनियमो भवेत् ।
शीतोष्णानियमं ब्रूयात्को नु वह्नेः सचेतनः ॥

उत्पादश्चैव संस्कारः कार्यपक्षे भवेदयम् ।
ततश्च सुतरां प्राप्ता प्रयोगोत्पत्त्यशास्त्रता ॥

व्याकरणप्रक्रियानुगृहीतेन वैयाकरणेनोत्पाद्यमानेषु साधुशब्देषु नित्यवेदमूलत्ववेदाङ्गत्वनिराकरणं स्वयमेवाऽऽपादितम् ।

अथ व्याकरणोत्पन्नैः शब्दैर्वेदोऽपि निर्मितः ।
ततो व्याकरणस्येव वेदस्याप्यप्रमाणता ॥

शब्दश्चोत्पाद्यमानत्वे क्षणान्न स्यात्क्षणान्तरे ।
तादृशस्य च संस्कारो न शक्यो नोपयुज्यते ॥

तस्मादनियमं मुक्त्वा नित्यः संक्रियते यदि ।
विक्रियाख्योऽपि संस्कारस्ततो नैवास्य संभवेत् ॥

विना व्याकरणादाप्तिः सिद्धा श्रोत्रसमाश्रया ।
अदृष्टार्थस्तु संस्कारो विध्यभावान्न गम्यते ॥

दृष्टार्थेषु च शब्देषु नादृष्टेन प्रयोजनम् ।
न हीष्टं भोजनार्थानां व्रीहीणां प्रोक्षणात्फलम् ॥

कर्मप्रकरणाम्नाता न च व्याकरणक्रिया ।
येनापूर्वप्रयुक्तानां शब्दानां संस्कृतिर्भवेत् ॥

हन्त्यादिविधिवन्नापि संभवी व्याक्रियाविधिः ।
पौरुषेयं कथं वस्तु विदध्याच्छाश्वतो विधिः ॥

तेनानारभ्यवादेऽपि विधिर्नैवास्ति तादृशः ।
अनारभ्य विधित्वे च न कर्मार्थत्वसंभवः ॥

ऐकान्तिकं हि संस्कार्यं यत्क्रतौ स्यात्स्रुवादिवत् ।
तद्द्वारेण क्रतुप्राप्तिर्न लोकव्यभिचारिणः ॥

लोकवेदगतत्वाच्च शब्दानां व्यभिचारिता ।
अतो न व्याक्रिया गच्छेत्तदुपस्थापितं क्रतुम् ॥

आकाशेऽवस्थितः शब्दः संस्कर्तुं शक्यते कथम् ।
नित्यत्वान्मूर्त्यभावाच्च व्योमाश्रितविभुत्ववत् ॥

वर्णसंस्कारमात्रं च यदि व्याकरणाद्भवेत् ।
प्रत्याहारेण तत्सिद्धेर्नोत्तरेण प्रयोजनम् ॥

समुदायस्त्ववस्तुत्वान्नैव संस्कारमर्हति ।
प्रत्येकं च भवेद्यद्वदग्निधर्मः प्रतीष्टकम् ।

न च स्थलवदारम्भो वर्णैः शब्दस्य कस्य चित् ।
येन तत्संस्कृतिः सिध्येत्स हि पूर्वं निराकृतः ॥

स्फोटगोशब्दताङ्गत्वप्रभृतौ पदकल्पना ।
गकारादिपदव्याख्याद्वारेणैव निराकृता ॥

सर्ववर्णसमूहोऽपि न संस्कार्यः कथंचन ।
न तस्यार्थप्रयुक्तत्वमस्ति ह्यनभिधानतः ॥

अथ त्रिचतुरा वर्णाः संस्क्रियन्ते पदे पदे ।
संख्यामात्रस्य साधुत्वं तच्च स्यादितरेष्वपि ॥

संस्क्रियेतानुपूर्वी चेच्छब्दधर्मो न सेष्यते ।
ग्रहणोच्चारणस्थत्वाद्गाव्यादिषु च संभवात् ॥

ग्रहणोच्चारणे एव संस्कार्ये यदि मन्यसे ।
कर्मणः कर्मसाध्यत्वमुपरिष्टान्निषेत्स्यते ॥

वक्ष्यति हि—

कर्तृगुणे तु कर्मासमवायाद्वाक्यभेदः स्यादिति [जै॰ सू॰ ( ३—१—१० ) ।] ।

ताल्वादिश्रोत्रसंस्कारो न च व्याकरणाद्भवेत् ।
वैद्योपदिष्टसंस्कारसंस्कार्यत्वावधारणात् ॥

मनो वा पुरुषो वाऽथ संस्कारास्पदमिष्यते ।
शब्दानुशासनं शास्त्रमिति व्यर्थं तदा भवेत् ॥

शिष्यानुशासनत्वं हि शास्त्राणामुपपद्यते ।
शब्दस्याननुशास्यत्वाद्वयर्थं तदनुशासनम् ॥

स्फोटशब्दे च संस्कारः सुतरां नोपपद्यते ।
असन्तौ तत्र हि स्यातां प्रकृतिप्रत्ययावपि ॥

वाक्यस्फोटश्च यैरिष्टः सर्वावयववर्जितः ।
नामाख्यातादि9 संस्कार्यं तेषां शशविषाणवत् ॥

अपोद्धारेण संस्कारो यद्यत्राभ्युपगम्यते ।
शृङ्गं शशादपोद्धृत्य किं न संस्क्रियते मनाक् ॥

अन्यावयवसारूप्यादपोद्धारो यदीष्यते ।
खरशृङ्गेण सारूप्याच्छशशृङ्गस्य किं न सः ॥

गवयादिषु नाङ्गानां सादृश्यं यन्निदर्शितम् ।
सत्यावयवसामान्यात्तार्दिहापीष्यते तथा ॥

वाक्याधिकरणे चैतद्विस्तरेण निराकृतम् ।
तेनापोद्धारसंस्कारकल्पनाऽपि न युज्यते ॥

अन्वाचक्षीत शास्त्रं चेच्छब्दानसदपोद्धृतान् ।
एतेनैवाप्रमाणत्वमस्य माहेन्द्रजालवत् ॥

अंशिष्यत्वादशास्त्रत्वमेवं तावत्पदं प्रति ।
वाक्यानुशासनं नैव कृतं व्याकरणेन च ॥

अर्थेन च प्रयुक्तानां शब्दानां संस्क्रियोदिता ।
वाक्यमेवंविधं चेष्टं न पदान्यर्थवर्जनात् ॥

ब्राह्मणार्थो यथा नास्ति कश्चिद्ब्राह्मणकम्बले ।
देवदत्तादयो वाक्ये तथैव स्युरनर्थकाः ॥

इति बहुप्रपञ्चमुक्त्वा केवलस्य चाप्रयोगादर्थप्रयुक्तत्वं निराकृत्य वाक्यान्वाख्यानार्थमेव व्याकरणमपि व्याख्यानं युक्तमासीत्तदनाश्रयणात्तु सूत्रवार्तिकभाष्यकारवदेव पूर्वापरविरुद्धमभिदधानैष्टीकाकारैरपि सुतरां व्याकरणस्याप्रत्ययितपुरुषप्रणीतत्वं दर्शितम् ।

अतो विगानभूयिष्ठाद्विरुद्धान्मूलवर्जितात् ।
निष्फलाच्च व्यवस्थानं शब्दानां नानुशासनात् ॥

ततश्च—

स्वाध्यायाध्ययनं मुक्त्वा तत्प्रयोगश्च कर्मसु ।
शेषशब्दप्रयोगेषु न व्यवस्थोपयुज्यते ॥

तेन सर्वैर्भाषितव्यं सर्वे साधव इति । अत्रानुमानप्रयोगाः—

गावीगोण्यादयः शब्दाः सर्वे गोत्वस्य वाचकाः ।
वृद्धैस्तत्र प्रयुक्तत्वाद्गौरुस्रेत्येवमादिवत् ॥

एवं साधुत्वमेतेषां सर्वेषामर्थसाधनात् ।
श्रौत्रत्वान्नापशब्दत्वं पूर्वदृष्टान्तदर्शनात् ॥

अनादित्वं च सर्वेषामवध्यनवधारणात् ।
वक्तुर्वक्तुः पुरो वृत्तेः शक्यं वक्तुं गवादिवत् ॥

साधुभिर्भाषमाणानां नादृष्टफलसंभवः ।
दृष्टार्थत्वाद्यथा धूमादग्निं देशेऽवगच्छताम् ॥

अशास्त्रविहित्वाच्च बुद्धशब्दाभिधानवत् ।
शास्त्रं नावेदरूपत्वात्प्राकृतव्याक्रियादिवत् ॥

वेदमूलतयाऽप्यस्य प्रमाणत्वं न कल्पते ।
अवेदविषयार्थत्वान्नाटकादिनिबन्धवत् ॥

शास्त्राङ्गमपि नैवैतदतादर्थ्यात्कथादिवत् ।
अतादर्थ्यं विनाऽप्यस्माद्वेदेनार्थावबोधनात् ॥

न च शब्दप्रयोगाङ्ग सिद्धे तस्मिन्प्रवर्तनात् ।
यदीदृशमनङ्गं तद्दृष्टं नेत्रानुमानवत् ॥

यथा हि चक्षुरादिग्रहणानपेक्षरूपादिविज्ञानसिद्धौ तज्जनितार्थापत्तिप्रभवं चक्षुराद्यनुमानमुपजातमपि न पूर्वज्ञानस्याङ्गमेवं लोकवेदसिद्धशब्दप्रयोगोत्तरकालप्रणीततया व्याकरणमप्यनङ्गम् ।

तस्मात्पर्यायशब्दत्वाद्गाव्यादेस्तरुवृक्षवत् ।
आचारेण प्रयोज्यत्वं न शास्त्रस्थैर्निवारितम् ॥ २४ ॥

एवं प्राप्तेऽभिधीयते—

अनैकान्तिकता तावदर्थापत्तेरिहोच्यते ।
अन्यथाऽप्युपपन्नत्वात्प्रयोगार्थावबोधयोः ॥

वाचकत्वादृते यस्तु न कथंचित्प्रयुज्यते ।
प्रयोगप्रत्ययायत्ता तत्र वाचकता ध्रुवम् ॥

संशयप्रतिबद्धे च पूर्वपक्षार्थनिर्णये ।
इष्टार्थनिश्चयः शक्यः सुखं सिद्धान्तहेतुना ॥

दृढविपर्ययज्ञानानन्तरं सहसैव च सम्यग्ज्ञानोत्पादातिभाराद्भारैकदेशावतारणार्थं संशयोत्थापनामात्रमेव तावद्युक्तम् । अथ वा—

संसिद्धव्यवहारत्वादनादित्वं यदाश्रितम् ।
अपराधप्रसङ्गेन तत्रैषा संशयक्रिया ॥

यदि ह्येकान्तेन यादृशः परमुखाच्छब्दः श्रूयते तादृगेव सर्वेण सर्वदोच्चार्येत ततो वृद्धव्यवहारपरम्परायां सत्यां गवादिभिरिव न गाव्यादिभिः कश्चिदपि कालः शून्य आसीदित्यध्यवसायादनादित्वमङ्गीक्रियेत । अपराधजस्य शब्दस्य संभवात्तु तदाशङ्कायां सत्यां नैकान्ततः सर्वेषामनादित्वम् । प्रयत्ननिष्पत्तेरिति पूर्वोक्तन्यायावधारितप्रयत्नाभिव्यक्तिरेव हेतुत्वेनोपदिश्यते । अपर आह । अप्रयत्ननिष्पत्तेरपराधस्य भागितेति । यो ह्यस्खलितप्रयत्नः शब्दमभिव्यनक्ति तस्य परम्परागतशब्दोच्चारणमात्रात्सर्वे समानविधाना भवेयुः । यदा त्वप्रयत्ननिष्पत्तिरपि शब्दे संभाव्यते तदा तत्रापराधजरूपान्तरापत्तिप्रसङ्गान्न नियोगतः सर्वशब्दानां समानविधानत्वम् । अथ वा शब्दविषयस्य प्रयत्नस्यैव या निष्पत्तिस्तस्यामपराधः सुनिपुणानामप्यविकलकरणानां दृश्यते किमुतानिपुणविगुणकरणानाम्—

यश्च प्रयत्ननिष्पत्तावपराधः कृतास्पदः ।
शब्दे स तदभिव्यङ्ग्ये प्रसजन्केन वार्यते ॥

अतश्चानपराधेन व्यज्यमानेषु साधुता ।
सापराधेष्वसाधुत्वं व्यवस्थैवं च तत्कृता ॥

लोकेऽपि च—

अविनष्टे विनष्टे च दृश्येते साध्वसाधुते ।
तथा सति च तद्द्वारा सिद्धिः शब्दापशब्दयोः ॥

यद्वा सत्यत्वमेवेदं साधुत्वमभिधीयते ।
असत्यत्वमसाधुत्वं धर्माधर्मोपयोगवत् ॥

धर्माधर्मव्यवस्था हि सत्यानृतनिबन्धना ।
विहितप्रतिषिद्धत्वात्तयोश्चेष्टा सशास्त्रता ॥

अर्थसत्यं यथा वाच्यं शब्दसत्यं तथैव हि ।
शब्दानृतं न हातव्यमर्थानृतवदेव नः ॥

एवं सति व्यवस्थाने भक्ष्यामक्ष्यविभागवत् ।
प्रयोगोत्पत्त्यशास्त्रत्वादिति हेतोरसिद्धता ॥

अथ वा यदुक्तम् ।

साधोर्नित्यप्रसक्तत्वादसाधोरप्रसङ्गतः ।
न धर्मनियमोऽस्तीति तत्रेदमभिधीयते ॥

अपराधस्य भागित्वादुभयं सावकाशकम् ।
साधोरनियता प्राप्तिरसाधोश्च प्रयोज्यता ॥

यदि हि साधुः प्रयुज्यमानो न कश्चित्कदाचिदपि विनश्येत्ततस्तस्य नित्यप्राप्तत्वान्निवर्त्यापशब्दाप्राप्तेश्च नियमशास्त्रमनर्थकं भवेत् । यदा त्वपराधभागित्वे सति द्वयोरप्यनियता प्राप्तिस्तदा साधुनियमकारिणः शास्त्रस्य न विषयव्याघातः । एक एवायं शब्दः पुरुषाशक्तिप्रमादकारणादिभेदात्तां तां वर्णन्यूनातिरेकक्रमान्यत्वाद्यवस्थामनुपतंस्तेन तेनापभ्रंशरूपेण गृह्यमाणस्तमेवार्थं प्रतिपादयतीति न पर्यायकल्पनया वाचकशब्दान्तरत्वैकान्तसिद्धिः । किं च ।

देवदत्तादिनामानि निःसंदिग्धानि यानि च ।
बालैस्तत्तादिरूपेण नाश्यन्ते तैश्च संशयः ॥

तत्तादिशब्दादपि हि बालप्रयुक्तात्तदनुकारिकठोरबुद्धिप्रयुक्ताद्वा देवदत्ताद्यर्थप्रत्ययमुपलभमानः कथमिव प्रयोगप्रत्ययदर्शकाभ्यामेव वाचकत्वमध्यवस्येत् ।

अपभ्रंशाश्च ये केचिद्रूढा गाव्यादयो जने ।
तेऽपि गाव्यादिरूपेण नाश्यन्ते व्यभिचारिताः ॥

कतिषुचिदेव गाव्यादिषु चिरापभ्रष्टत्वाद्रूढयाशङ्कया साधुत्वभ्रान्तिर्भवेत् । ये तु संप्रत्येव जडप्रायज्ञानकरणैरभिनवगाव्यादिरूपेण विनाश्यशब्दाः प्रयुज्यमानाः प्रकृत्यनुसरणद्वारेण वाऽर्थं प्रत्यापयन्त उपलभ्यन्ते तेष्वपि प्रयोगप्रत्ययदर्शनमस्तीत्यनैकान्तिकता ।

ततश्च त्वत्प्रयुक्तोऽयं हेतुरप्यपराधभाक् ।
अनैकान्तिकतादोषान्न ह्यसौ साधनक्षमः ॥

अन्यथोच्चार्यमाणश्च शब्दोऽपभ्रश्यते यथा ।
तथा हेतुरनैकान्ताद्धेत्वाभासत्वमृच्छति ।

तस्माद्दृष्टप्रयोगेऽपि पुनरस्ति विचारणा ।
वाचकोऽयं न वेत्येवं सति वाऽन्येन निर्णयः ॥ २५ ॥

संशयापादनात्परपक्षे जितेऽपि स्वपक्षसिद्धिर्दुर्लभैवेत्येवमर्थमुत्तरसूत्रम्—अन्यायश्चानेक शब्दत्त्वमिति । कथं पुनरिदमन्याय्यम् । तदुच्यते—

वाच्यवाचकसामर्थ्यनियमो योऽभिधागतः ।
संबन्धस्तदनेकत्वे स्वरूपात्सोऽपि हीयते ॥

एकात्मकयोरेव हि वाच्यवाचकयोरन्योन्याक्षेपात्परस्परनियमः संभवत्यन्यतरस्यापि त्वनेकत्वे सति व्यभिचारान्नियमहानिः । किं च—

सामर्थ्यं सर्वभावानामर्थापत्त्याऽवगम्यते ।
एकसामर्थ्यसिद्धेऽर्थे नानेकं तच्च लभ्यते ॥

अत्यन्तादृष्टा हि वाच्यप्रत्ययान्यथानुपपत्तिमात्रप्रमाणिका वाचकशक्तिरेकत्रैव कल्पिता तदनुसार्यपभ्रंशेष्वपि चेदनुगम्यते को नाम तन्निरपेक्षवाचकशक्त्यन्तरकल्पनां लभेत ।

नाम च व्यवहारार्थमर्थस्याभ्युपगम्यते ।
तेनैकेनैव सिद्धेऽर्थे द्वितीयादि च निष्फलम् ॥

किं च—

विकल्पस्याष्टदोषत्वं पुरस्तादेव वर्णितम् ।
स चेहानेकशब्दत्वे निश्चयेन प्रसज्यते ॥

नामान्तरे श्रुते चार्थस्तद्भिन्नोऽन्यः प्रतीयते ।
संज्ञा [जै॰ सू॰ ( २—२—८ ) ।] चोत्पत्तिसंयोगादित्यत्रैतद्वदिष्यते ॥

या तु हस्तः करः पाणिरित्यत्रानेकशब्दता ।
अनन्यगतिकत्वेन सा दृढस्मरणेन च ॥

एकशक्त्यनुसारेण यावत्त्वस्ति गतिः क्वचित् ।
उपमानानुमानाभ्यां तावत्सैवानुगम्यते ॥

तस्मात्स्वरूपसंबन्धशब्दार्थत्वनिरूपणे ।
एकैकनियमादेव गतिः स्यान्नान्यगोचरा ॥

यथा च प्रकृतिसारूप्यद्वारेणापभ्रंशाः प्राकृतीमेव शक्तिमाविर्भावयन्तोऽर्थप्रतिपत्तावुपयोगं गच्छन्तिं तथा [जै॰ सू॰ ( १—३—८ ) ।] तदशक्तिश्चानुरूपत्वादित्यत्र वर्णयिष्यते ।

तेनानेकप्रयोगेऽपि कश्चिदेवार्थसंगतः ।
तदुपस्थापनेनान्ये बोधकास्तदशक्तिजाः ॥ २६ ॥

तुल्यप्रयोगप्रतिपत्तीनामन्यतरावधारणमशक्यामिति चेदत आह—तत्र तत्त्वमभियोगविशेषात्स्यादिति । कः पुनरभियोगः को वा तद्विशेषः कथं वा तेन वाचकत्वनिरूपणमिति । तदुच्यते—

लक्षणश्रवणाभ्यासादभियोगः प्रवर्तते ।
तेन लक्ष्यान्तरज्ञानं तद्विशेषोऽभिधीयते ॥

प्रतिपदपाठो ह्यानन्त्यादत्यन्ताशक्यस्तदभावे च लक्षणानुसरणमेवैकमशेषलक्ष्यनिरूपणक्षमत्वेनावधार्यते ।

तस्मान्न लोकवेदाभ्यां कश्चिद्व्याकरणादृते ।
वाचकाननपभ्रष्टान्यथावज्ज्ञातुमर्हति ॥

तत्सामस्त्यापरिज्ञाने पारिशेष्यानिरूपणात् ।
अर्थापत्त्याऽपशब्दानां निश्चयो नोपपद्यते ॥

लक्षणानुगमाद्यांस्तु बहिरेव प्रयुञ्जते ।
नियतप्रतिपक्षत्वात्तेष्वर्थापत्तिसंभवः ॥

तेनोभयज्ञानस्यापि व्याकरणमेवोपाय इति तद्गताभियोगविशेषाश्रयणम् । यत्तु प्रयोगोत्पत्तिशास्त्रत्वादिति लक्षणे तन्मूलासंभवादितरेतराश्रयत्वमुक्तं तल्लोकव्यवहारप्रसिद्धप्रतिपादकत्वमात्रेणानिर्णीतपारमार्थिकवाचकत्वैरपि व्याकरणावयवभूतैः पदैः केषांचित्साधुत्वमन्वाख्याय पुनस्तैरप्यन्वाख्यापकशब्दसाधुत्वनिर्णयात्परिहरिष्यते ।

यदि वाचकतैवाऽऽदौ न स्याद्वयाकरणादृते ।
न विज्ञायेत वा तत्र भवेदन्योन्यसंश्रयम् ॥

निर्ज्ञाते वाचकत्वेऽपि तदपभ्रंशसंकरात् ।
विवेकप्रतिपत्त्यर्थमिष्टा च व्याक्रिया स्मृतिः ॥

तेन संकीर्णासंकीर्णवाचकज्ञानोपायत्वाल्लोकव्याकरणयोर्भिन्नविषयत्वेनापुनरुक्तता, वेदे साधुशब्दमात्रदर्शनादनर्थकं व्याकरणमिति चेत् । न । अकृत्स्नविषयत्वात् ।

केचिद्वयवस्थिता एव साधवो लोकवेदयोः ।
सर्वशाखागतान्विद्यात्को वा साधारणानपि ॥

यथैव लौकिकप्रतिपदपाठस्याशक्यत्वमेवं वेदेऽपि सर्वशाखागतान्सकृदपि श्रोतुमशक्तिः किमुताध्येतुम् ।

प्रकृतिप्रत्ययानन्त्याद्यावन्तः पदराशयः ।
लक्षणेनानुगम्यन्ते कस्तानध्येतुमर्हति ॥

एतेन पुरुषार्थक्रत्वर्थादृष्टसाधुशब्दप्रयोगज्ञानसाध्यसाधनभावविधिवाक्यगतपदव्याक्रिया तस्याश्च पूर्वप्रसिद्धतन्मूलत्वकल्पनागतेतरेतराश्रयत्वप्रसङ्गः प्रत्युक्तः । यदि ह्येकान्तेन “तस्मान्न ब्राह्मणेन म्लेच्छितवै” “एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग्भवति” [तै॰ सं॰ ( ६—४—७ )] “तस्मादेषा व्याकृता वागुद्यते” इति चैवमादिक्रतुपुरुषगतनियमविधिदर्शनोत्तरकालमेव व्याकरणेन प्रवर्तितव्यमिति पौर्वापर्यव्यवस्था भवेत्तत एवं पर्यनुयोगः प्रसज्येतापि व्याकृतत्वाश्रयो वेदविधिर्वेदविध्याश्रयं च व्याकरणं कथमवकल्पिष्यत इति । यदा तु किंचिद्ग्रन्थोपनिबद्धप्रकृतिप्रत्ययादिविभागद्वारप्रक्रियात्मकव्याकरणस्मृतिवर्जितकालाभावादन्वाख्यानान्वाख्येयान्वाख्यातविधिप्रयोगानन्वाख्यातप्रतिषेधवर्जनषट्कस्याप्यवगम्यमानवेदविधिमूलत्वादनादित्वे सति सर्वेषां वेदवेदियूपाहवनीयाध्वर्युगोदोहनादिस्वरूपतत्कार्यतत्साधनविधीनामिव सर्वदाऽनवगतपूर्वापरविभागसंबन्धेऽत्यन्तादृष्टार्थत्वमेव केवलं शास्त्रप्रत्ययाधीनं, तदा सर्वकालव्याक्रियमाणविद्यमानशब्दनियमविधेर्न किंचिदनुपपन्नम् । यत्तु वाचकत्वावाचकत्वव्यतिरिक्तसाध्वसाधुताभावाद्वाचकावाचकत्वयोश्च लौकिकप्रयोगप्रतिपत्तितद्विपर्ययमात्रशरणत्वाद्गाव्यादिशब्दानामवाचकत्वप्रतिज्ञाने लोकविरोधान्न भेर्यादिशब्दमातृकाक्षरपाठप्रसिद्धन्यूनातिरिक्तविपर्यस्तवर्णपदव्यतिरिक्तप्रसिद्धमध्ये कश्चिदपशब्दो नामास्तीति । तत्राभिधीयते—

संमुग्धवाचके लोके लक्षणाद्वाचकः स्फुटः ।
गम्यते स्मरणं चोक्तमाचाराद्बलवत्तरम् ॥

लोकव्याकरणाभ्यां हि मिश्राभ्यामविप्लुतवाचकसिद्धिरिति तावदेव लोकव्यवहाराद्वाचकत्वज्ञानं जायते यावद्वयाकरणानुगतत्वं नाभ्युपगम्यते ।

यदा तु तयोर्मार्गभेदेन प्रतिपत्तिस्तदा ‘तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात्’ [जै० सू० ( १—३—४ )] इत्युपन्यस्य ‘शास्त्रस्था वा तन्निमित्तत्वात्’ इत्यनेनैवोत्तरेण व्याकरणाख्यशास्त्रगतप्रतिपत्तिबलीयस्त्वं तदभियुक्तपुरुषबलीयस्त्वं वा पूर्वमेव स्थापितम् ।

तर्केणावाचकत्वं च वदँल्लोकेन बाध्यते ।
स्मर्यमाणविरोधस्तु ब्राह्मणाब्राह्मणादिवत् ॥

यथैव तुल्यशिरःपाण्याद्याकारेष्वपि संकीर्णलोकदृष्टिग्राह्येषु ब्राह्मणादिषु मातापितृसंबन्धस्मरणादेव वर्णविवेकावधारणं भवति तथा साधुशब्दावधारणमपीति लोकविरोधाभावः ।

यथा च तुल्यपाण्यादिरूपत्वाद्वर्णसंकरम् ।
वदतः स्मृतिबाधः स्यात्तथा वाचकसंकरम् ॥

आदितश्च स्मृतेः सिद्धः प्रत्यक्षेणापि गम्यते ।
साध्वसाधुविभागोऽयं कुशलैर्वर्णभेदवत् ॥

यो नाम स्मृतिप्रतिपादितोऽर्थः कर्मफलसंबन्धवदनियतकालत्वान्न ज्ञायते कदा भविष्यतीति सोऽत्यन्तं प्रत्यक्षाद्यविषयत्वात्केवलशास्त्रमूलत्वेन स्थाप्यते । यस्य त्वादौ स्मरणजनितविवेके कृते तदनन्तरमेव प्रत्यक्षमपि विचाराभ्यासजनितसंस्कारस्य रागाभ्यासजनितषङ्जादिविभागविषयमिव साध्वसाधुशब्दरूपगोचरमुपजायते ।

तस्मै तर्केण यो नाम साधयेच्छब्दसंकरम् ।
तस्य प्रत्यक्षबाधोऽपि वर्णसंकरबाधवत् ॥

तेनापशब्दगतवाचकत्वापादनस्यैव समस्तप्रमाणविरोधः शक्यो वक्तुं न स्मर्यमाणशब्दसाधुत्वपक्षस्येति निरवद्यता । तेनादृष्टार्थप्रत्यायननियमप्रतिषेधद्वारं धर्माधर्मसाधनत्वकृतमपि साध्वसाधुत्वज्ञानमुपपत्स्यते । यस्त्वाह—साधुत्वं नेन्द्रियग्राह्यमित्यादिश्लोकम् । तं प्रत्येवं वक्तव्यम् ।

साधुत्वमिन्द्रियग्राह्यं लिङ्गमस्य च विद्यते ।
शास्त्रस्य विषयोऽप्येष प्रयोगोऽप्यस्त्यसंकरः ॥ इति ।

ग्रस्तनिरस्ताम्बूकृतादिदोषवर्जितनियमह्रस्वादिकालाभिव्यङ्ग्ययथालक्षितक्रमग्राह्यवर्णानां स्मर्यमाणाविनष्टवाचकरूपविषयश्रोत्रज्ञानेनोदात्तादिवदिन्द्रियग्राह्यत्वम् । तदुत्तरकालप्रवृत्तव्यवहारगतार्थप्रतिपत्तिसहितलक्षणगतप्रकृतिप्रत्ययलोपागमविकारादेशादिलिङ्गमप्यव्यभिचारि विद्यते । शास्त्रस्य च द्विविधस्यापि श्रुतिस्मृतिरूपस्य स्वर्गलोकयज्ञोपकारसिद्धिसाधनभावप्रतिपादनार्थस्यार्थानर्थकार्यस्वरूपज्ञानार्थस्य चायमेवंविध एवान्योऽपि विषयः । अविनष्टैः शब्दैर्भाषमाणस्य स्वर्गयज्ञोपकारौ भवतः । याज्ञे च कर्मण्यपशब्दैर्भाषमाणस्यानृतमिव वदतः प्रतिषिद्धाचरणनिमित्तक्रतुवैगुण्यप्रसङ्गः । यथोक्तं “वाग्योगविद्दुष्यति चापशब्दैः” इति । एतौ द्वावप्यर्थौ न शास्त्रादृतेऽन्येन प्रतिपादयितुं शक्येते इत्यतीव शास्त्रविषयः । द्वाम्यामेव च विधिप्रतिषेम्यामविनष्टैः शब्दैः स्वर्गयज्ञोपकारकामो भाषेत न विनष्टैरिति न प्रतिशब्दापशब्दमनन्तविधिप्रतिषेधकल्पनप्रसङ्गः । न च विधिप्रतिषेधविषयेणैव शास्त्रेण भवितव्यं न प्रमेयस्वरूपज्ञापनार्थेनेत्येतदीश्वराज्ञासिद्धम् । न हि ‘अविनाशी वा अरे अयमात्माऽनुच्छितिधर्मा’ इत्यादि, ‘चतुस्त्रिंशदाश्चीनानि सरस्वत्या विनशनप्लाक्षप्रश्रवणे’ इत्येवमादिवाक्यशेषाणां च शास्त्रगतानामर्थतत्त्वप्रतिपादनपरत्वं न लभ्यते । नापि तत्प्रतिपादने शास्त्रशब्दवाच्यत्वबाधः । अथापि विधिप्रतिषेधात्मकेनैव शास्त्रेण भवितव्यमिति का चित्परिभाषा तथाऽप्येवंविधाः साधुशब्दाः प्रत्येतव्या इतीदृशो विधिः संभवत्येव । यो वाक्यान्तरावगतादृष्टफलार्थी यद्यविनष्टैः शब्दैर्भाषितुमिच्छेत् स चैतानेवंरूपानेतत्क्रममांत्रांश्च वर्णानुपाददीत नाधिकान्न न्यूनांश्चेति यावद्रूपं विधिप्रतिषेधौ शक्यौ दर्शयितुमिति शास्त्रविषयत्वसिद्धिः । निःसंदिग्धवृद्धबालप्रयुक्तदेवदत्ततत्तादिशब्दोपमयाऽपि च सर्वशब्दानां विनष्टाविनष्टरूपैरवश्यं भवितव्यमिति शक्यं विज्ञातुम् । एवं व्याकरणानुगतवैदिकशब्दाविनाशसादृश्यादपि तद्विधलौकिकाविनष्टत्वोपमानं दर्शयितव्यम् । तथा लौकिकार्थप्रत्ययोत्थापितवाचकत्वार्थापत्तिलभ्यस्तावदेकः साधुत्वनिश्चयः । ततः संभवत्प्रमादालस्यकरणवैगुण्यनिमित्तापभ्रष्टरूपवर्जितकेवलसाध्वन्वाख्यानस्यान्यथानुपपद्यमानत्वादपरयाऽप्यर्थापत्त्या सिद्धमेव साधुत्वज्ञानम् ।

अपभ्रंशेषु साधुत्वं तुल्यार्थत्वाद्यदुच्यते ।
लक्षणाभावमार्गेण तस्याभावोऽपि निश्चितः ॥ इति ॥

षण्णामपि प्रमाणानां साध्वसाधुत्वनिर्णये ।
व्यापारोऽस्तीति को जल्पेत्साधुत्वं निष्प्रमाणकम् ॥

यद्यप्यनभियुक्तानां प्रयोगोऽस्ति ससंकरः ।
अभियुक्ता विवेक्ष्यन्ते तथाऽपि ब्राह्मणादिवत् ॥

यथा च पद्मरागादीन्काचस्फटिकमिश्रितान् ।
परीक्षका विजानन्ति साधुत्वमपरे तथा ॥

यथा रत्नपरीक्षायां साध्वसाधुत्वलक्षणम् ।
तथा व्याकरणात्सिद्धं साधुशब्दनिरूपणम् ॥

पौरुषेयव्याकरणागमपरम्परायामपि च तदनुगतसाधुत्वानन्तरदर्शनात्पूर्वदृष्टविवेकज्ञानमात्रपरत्वाद्वा नान्धपरम्परावचनन्यायप्रसङ्गः । यावानिह दृष्टार्थांशः स वैदिकविधिप्रतिषेधद्वयादेवोपपन्नः । तत्सिद्धयर्थाविनष्टशब्दरूपज्ञानं वेदशिष्टप्रयोगसंवादिव्याकरणान्वाख्यानपारम्पर्येण सद्यः फलत्वात्सुलभमिति न पुरुषकृतत्वनिमित्तदोषप्रसङ्गः । यत्तु दृष्टार्थत्वात्स्वसामर्थ्यप्राप्तत्वादेव [जै॰ सू॰ ( ६—२—४ ) ।] ‘अप्राप्ते शास्त्रमर्थवत्’ इति वाचकभाषणविधानमनुपपन्नमिति तत्राधिकरणेनैवोत्तरं दास्यते [जै॰ सू॰ ( ४—२—९ ) ।] ‘नियमार्था वा श्रुतिरुच्यते’ इति । यत्त्ववाचकत्वेनापशब्दानामप्रसङ्गाद्वयावर्त्याभावे नियमानुपपत्तिरिति । तत्रोच्यते—

नियमः परिसंख्या वा न व्यावर्त्याद्विनेष्यते ।
नित्यतामात्रकारी तु नियमः किं न लभ्यते ॥

सति भाषितव्ये कदाचिदविनष्टेन भाषेत कदाचित्प्रमादाशक्तिजापभ्रंशेनाप्यक्षिनिकोचनादिना वा शब्दरहितेनैव प्रत्यापयेत् ।

अत्र श्रेयोऽर्थिनोऽवश्यं साधुभाषा नियभ्यते ।
नियोगेन हि तां कुर्वन्नपूर्वं साधयिष्यति ॥

यद्यपि च नियमेऽन्यनिवृत्तिरवश्यं कल्पनीया तथाऽपि साधुशब्दस्मृतिव्यवहितानां कालरूढरूपभ्रान्तिवाचकत्वगृहीतानां10 चापशब्दानां संभवति प्रयोगप्रसङ्गे साधुनियमेन व्यावृत्तिः ।

अथ वा नैवापशब्दानामपृथक्त्वे केचिदेकक्रियाविषयानेकद्रव्यगुणादिवदभिधायां प्राप्नुवन्ति ये साधुनियमेन व्यावर्त्येरन् । किं तु ।

साधूनेव प्रयुञ्जाना नाशयेयुरयत्नतः ।
मा विनीनशदित्येवं नियमस्तान्नियच्छति ॥

तद्यथा । ‘यो विदग्धः स नैर्ऋतः’ इत्येवमादिदोषनिन्दापूर्वकम् ‘अविदहता श्रपयितव्यः’ इति नियम्यते । तथा ‘दुष्टः शब्दः स्वरतो वर्णतो वा’ इत्यादिना निन्दितत्वात्, ‘तस्माद्ब्राह्मणेन न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्दः’ इति प्रमादादिनिमित्तविनाशेन शब्दकार्यादर्थसाधनादपेतोऽयं म्लेच्छः, [मा॰ धा॰ ( २०५ ) ।] ‘म्लेच्छ अव्यक्तायां वाचि’ इति स्मरणात्स न प्रयोक्तव्य इति प्रतिषेधः । ‘तस्मादेषा व्याकृता वागुद्यते’ इति च विधिरविनष्टप्रयोगनियमार्थः ।

ननु चाशक्तिजा दोषाः प्रमादजनिताश्च ये ।
परिहर्तुमशक्यत्वान्निषेधस्याप्यगोचराः ॥

उच्यते—

प्रमादमेव मा कार्षीः सामर्थ्याय यतस्व च ।
एवमर्थो निषेधोऽयं नाऽऽद्रियेतान्यथा ह्यसौ ॥

अन्ये सुखमुखारूढा न क्लेशेन विवक्षवः ।
शक्ताश्चैवाप्रमत्ताश्च वदेयुरनिवारिताः ॥

अशक्तैर्नाशिताश्चान्ये दाक्षिण्याद्यनुवर्तनात् ।
जानन्तोऽपि प्रयुञ्जीरन् यदि शास्त्रं न वारयेत् ॥

अन्येऽपि प्राकृतालापैरशक्तैर्व्यवहर्तृभिः ।
सह व्यवहरन्तस्तानुपेत्यापि प्रयुञ्जते ॥

तत्कथं नाम यत्किंचित्स्यादपभ्रंशकारणम् ।
दूरात्परिहरेयुस्तदिति यत्नो नियम्यते ॥

यत्तु दृष्टार्थप्रत्यायननिराकाङ्क्षत्वाददृष्टार्थप्रयोगोत्पत्त्यशास्त्रत्वमिति । तत्रोच्यते—

दृष्टे सत्यपि सर्वत्र नियमादृष्टमिष्यते ।
क्रत्वर्थं पुरुषार्थं च तत्संयोगपृथक्त्वतः ॥

[जै॰ सू॰ ( ४—३—३ ) ।] ‘एकस्य तूभयत्वे संयोगपृथत्क्वं’ तच्चेह प्रकरणानारभ्यवादाभ्यामवगतं, तत्र—

क्रत्वर्थांशे परार्थत्वादर्थवादः फलश्रुतिः ।
पुरुषार्थे तु निर्देशात्फलमात्रेयदर्शनात् [जै॰ सू॰ ( ४—३—६ ) ।] ॥

क्रत्वर्थं ह्यतिर्ज्ञातोपायत्वात्सर्वादृष्टोपसंग्रहक्षममिति नियमापूर्वमात्मसात्कुर्वत्पुरुषार्थांशे फलश्रुतिमर्थवादी करोति । पुरुषार्थस्य नियमस्य त्ववश्यकल्पनीयप्रयोजनत्वादर्थप्रतिपत्तेश्चापभ्रंशेऽप्यक्षिनिकोचादिभ्यो वा सुतरां सिद्धत्वादनाकाङ्क्षितनियमापूर्वोपजीवनसामर्थ्यं नास्तीत्यवश्यमर्थवादोपात्तमेव स्वर्गलोके कामधुगाद्येव फलत्वेनाऽऽश्रयणीयम् । यत्तु न ज्ञायते क्वेदं नियमापूर्वमाश्रितमिति, तत्राभिधीयते—

क्रत्वर्थं तावदङ्गेषु तदर्थेष्वेव संश्रितम् ।
अनङ्गत्वाभिधानार्थं स्यात्क्रत्वर्थं नराश्रितम् ॥

[जै॰ सू॰ ( ३—४—९ ) ।] ‘प्रकरणविशेषाद्वा तद्युक्तस्य तत्संस्कारो द्रव्यवत्’ इति हि ज्योतिष्टोमप्रकरणगतब्राह्मणशब्दलक्षिततदपूर्वसाधनयजमानसंस्कारत्वात्साधुभाषणनियमापूर्वस्य [जै. सू. ( ३—८—२ ) ।] ‘याजमानास्तु तत्प्रधानत्वात्कर्मवत्’ इत्यनेन न्यायेन फलप्रतिग्रहणयोग्यत्वाधानार्थं तदाश्रितमेव विज्ञायते । पुरुषार्थवाक्येऽपि सम्यग्ज्ञातसुप्रयुक्तत्वाक्षिप्तज्ञातृप्रयोक्तृपर्युपस्थापनात्क्रियाफलयोश्च तद्गामित्वात्प्रधानयागाद्यपूर्ववदेव ज्ञातृप्रयोक्त्राश्रितं निष्पद्यते ।

तृतीयोक्तिक्रियागम्यगुणभावेऽपि वक्तरि ।
संस्कार्यत्वात्प्रधानत्वं स्यात्प्रयाजाज्यशेषवत् ॥

यथैव ‘प्रयाजशेषेण हवींष्यभिघारयति’ इति सत्यपि शेषस्य तृतीयानिर्देशे कार्योपयोगित्वात्संस्कार्यत्वावधारणमेवं ब्राह्मणस्यापीत्यदोषः ।

यदि वा ब्राह्मणेनेति तृतीया यागकारिणि ।
कामधुक्छब्दयोगाच्च बहिः प्राधान्यकल्पना ॥

नैव म्लेच्छनकारित्वात्तृतीयेयं प्रतीयते ।
कुर्वता यागमित्येवं ब्राह्मणेनेति योज्यते ॥

यागे यो गुणभावश्च संस्कारे सा प्रधानता ।
न ह्यारादुपकारित्वं संयुक्तस्योपयोगिता ॥

तच्चोपयोगित्वं प्रकरणतृतीयाविभक्तिश्रवणाभ्यामवगतं शेषस्वीकरणसमर्थं भवति । बाह्यपुरुषार्थत्वेऽपि कामधुक्छब्दस्य पुरुषोपभोग्यकाम्यमानार्थसाधनवचनत्वात्पुरुषप्राधान्यप्रतिपत्तिः । यद्यपि च साधुशब्दोच्चारणमुच्चारयित्रर्थं क्रत्वर्थं च न भवति तथाऽपि तद्गतनियमप्रतिषेधयोरेव क्रत्वर्थपुरुषार्थत्वे भविष्यतः । न हि यदर्थे कर्मणि यौ नियमप्रतिषेधौ तावेव केवलौ तदर्थौ भवतः । तथा हि—

स्त्र्युपायमांसभक्षादिपुरुषार्थमपि श्रितः ।
प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयात् ॥

क्रत्वर्थात्खादिराच्चेष्टा वीर्यसिद्धिर्विधानतः ।
भोजनाच्चाप्यतिथ्यर्थादपूर्वं दातृसंश्रितम् ॥

अतश्च परार्थोच्चारणाश्रितावपि नियमप्रतिषेधौ स्वप्रयोजनाकाङ्क्षावेलायां संनिहितपुरुषप्रधानौ विज्ञायेते ।

अतश्च वेदमूलत्वे सत्येवं प्रतिपादिते ।
प्रयोगोत्पत्त्यशास्त्रत्वं यदुक्तं तदसत्कृतम् ॥

यच्चास्य कृत्रिमत्वेन स्वतः शास्त्रत्वबाधनम् ।
तत्प्रसिद्धिविरुद्धं स्यादचन्द्रशशिवाक्यवत् ॥

शास्त्रशब्दो यदि तावद्रूढस्ततश्चतुर्दशसु तावद्विद्यास्थानेषु शास्त्रस्थानामेव प्रसिद्धस्तदन्तर्गतत्वाच्च व्याकरणस्य शास्त्रत्वनिराकरणानुपपत्तिः । अथापि शिष्यतेऽनेनेति शास्त्रत्वमन्वर्थमिष्यते तथाऽपि व्याकरणेन साधुशब्दाः शिष्यन्ते तदनुगमोपाया वा प्रकृतिप्रत्ययादयस्तदभियुक्तशिष्यजनो वेति सर्वथा शास्त्रशब्दप्रवृत्तिरविहता ।

प्रसिद्धमपि शास्त्रत्वं यस्तु तर्केण वारयेत् ।
वेदस्यापि स नित्यत्वाद्व्योमवद्वारयिष्यति ॥

यथैव हि व्याकरणादीनां कृत्रिमकाव्योपनिबन्धसाधर्म्याच्छास्त्रत्वं प्रतिषेद्धुमध्यवसीयते, तथाऽऽकाशदिक्कालात्मनां परमाणुदृष्टान्तबलेन नित्यत्वाद्वेदस्याशास्त्रत्वमप्ययत्नेनैव क्रियेत । यो हि नागरिकभाषाभिज्ञतया ग्रामीणैर्मातापितरावपि शुक्लवचनैरभिदधीत11 स केनान्येन वार्येत ।

परत्राविनयं कुर्वन्पितृभ्यां वार्यते सुतः ।
तयोरेवाविनीतस्य को भवेद्विनिवारकः ॥

तथा बहिरसंबंद्धं वदन्वेदेन वार्यते ।
साङ्गेन तं पुनर्निघ्नन्केनान्येन निवार्यते ॥

क्रुद्धो यो नाम यं हन्ति स तस्याङ्गानि कृन्तति ।
कृत्ताङ्गस्य ततस्तस्य विनाशः कियता भवेत् ॥

तेन त्रयीं द्विषन्पूर्वं वेदाङ्गान्येव लुम्पति ।
ततस्तेनैव मार्गेण मूलान्यन्यस्य कृन्तति ॥

श्रुतिस्मृतिप्रमाणत्वे हेतुपूर्वं निरूपिते ।
अङ्गानामप्रमाणत्वमशास्त्रत्वं च को वदेत् ॥

यत्त्वितरस्मृतीनां प्रायेण सारूप्याद्वयाकरणस्य तद्विलक्षणत्वात्तन्मध्यपातित्वमसंभाव्यमिति । तत्रोच्यते । सर्वधर्मसूत्राणां वर्णाश्रमधर्मोपदेशित्वाद्धर्माणां चैकरूपप्रायत्वात्परस्परसंवादित्वं युक्तं, व्याकरणस्य त्वन्य एव साधुशब्दतत्त्वनिर्णयरूपो विषयस्तत्रास्य व्याकरणान्तरेणैव संगतिः स्यान्न धर्मसूत्रैः । स्मृतित्वं त्वङ्गानां धर्मसूत्राणां चाविशिष्टम् ।

अथापि स्मृतिशब्देन नाङ्गानामभिधेयता ।
तथाऽप्येषां न शास्त्रत्वप्रमाणत्वनिराक्रिया ॥

पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् ॥

इति हि तुल्यवत्प्रामाण्यस्मरणम्—

अपि वा [जै॰ सू॰ (१-३-१)] कर्तृसामान्यादुक्तो न्यायश्च यः स्मृतेः ।
प्रमाणत्वे समानोऽसौ वेदाङ्गेष्वपि गम्यते ॥

प्रमाणषट्कमूलत्वं पूर्वं चैषां प्रदर्शितम् ।
दृष्टादृष्टफलत्वेन तस्मान्नास्त्यप्रमाणता ॥

एकस्य च यदा युक्त्या समूलत्वं निरूपितम् ।
पौरुषेयान्तरग्रन्थमूलताऽपि तदेष्यते ॥

असंभावितमूलं हि पौरुषेयं यदुच्यते ।
मूले तस्याप्रतिष्ठत्वं रूपे जात्यन्धवाक्यवत् ॥

इह तु समूलत्वादेकान्तरितप्रामाण्यसिद्धिः । यत्तु सूत्रवार्तिकभाष्यकाराणामन्योन्यविगीतवचनत्वादप्रमाणत्वमिति । तत्राभिधीयते—

स्मृतीनामप्रमाणत्वे विगानं नैव कारणम् ।
श्रुतीनामपि भूयिष्ठं विगीतत्वं हि दृश्यते ॥

विगीतवाक्यमूलानां यदि स्यादविगीतता ।
तासां ततोऽप्रमाणत्वं भवेन्मूलविपर्ययात् ॥

मूलानुरूप्येण हि स्मृतीनां प्रमाणत्वं तदविगानेन—

परस्परविगीतत्वमतस्तासां न दूषणम् ।
विगानाद्धि विकल्पः स्यान्नैकत्राप्यप्रमाणता ।

धर्मसाधनतांशे च विगानं नैव विद्यते ।
अन्वाख्यानविगानं तु लक्ष्यभेदान्न दुष्यति ॥

पुनरुक्तत्वादिना हि यत्सूत्रप्रत्याख्यानं तस्य च पुनः समाधानम् ।

तस्यावैदिकमूलत्वान्न किंचिदपि दुष्यति ।
ये चापीष्टयुपसंख्याने ते च स्मृत्यन्तराश्रिते ॥

न चाधिकोपसंख्यानान्न्यूनस्यास्त्यप्रमाणता ॥

तद्यथा । वाजसनेयिशाखायामाध्वर्यवं चरकशाखासु च बह्वित्येतावता नाल्पविषयमप्रमाणीकुर्वन्ति । तस्मादयमपि न दोषः । यस्तु सूत्रकारस्य प्रयोजनानभिधानोपालम्भः ।

स श्रुतिस्मृतिसिद्धत्वान्नोपालम्भत्वमर्हति ।
ग्रन्थान्ते च स्वसंवेद्यं सुज्ञानं तत्प्रयोजनम् ॥

सत्यवचनं च सर्वश्रुतिस्मृतिषु स्वर्गसाधनत्वेन यागसाधनत्वेन च नियतम् । सत्यं च द्विविधं शब्दसत्यमर्थसत्यं च । तत्र यथैव यथावस्थिताविप्लुतार्थवचनं श्रेयःसाधनमेवं यथावस्थितशब्दसत्यवचनमपि, यथा चार्थसत्यविपर्ययः प्रत्यवायायैवं विनियोगकालप्रयुक्तशब्दानृतवचनमपि । शब्दसाधुत्वज्ञानं च व्याकरणाभियोगविशेषादित्युक्तम् ।

तस्माद्विज्ञायमानत्वान्नोक्तं मूलकृता स्वयम् ।
शास्त्रेण सर्वशब्दानामन्वाख्यानप्रयोजनम् ॥

न च व्याकरणप्रयोजनाभिप्रायं प्रति केचिद्विवदन्ते । स एव त्वभिप्रायः किं न्याय्यो नेत्यर्थान्तरमेतत् ।

धर्माय12 नियमं चाऽऽह वाक्यकारः प्रयोजनम् ।
वेदमूलस्तु तत्रैक एको व्याकरणाश्रयः ॥

नियमद्वयप्रयुक्तं व्याकरणम् । साधुशब्दज्ञानात्तत्पूर्वप्रयोगाद्वा स्वर्गयज्ञोपकारसिद्धिरित्येतत्तावद्वेदमूलमनन्यप्रमाणकत्वात् । अतश्चायं तावद्वेदाख्येन शास्त्रेण धर्मनियमः ।

तथा व्याकरणाख्येन साधुरूपं नियम्यते ।
अविशेषेण सिद्धिः स्याद्विना व्याकरणस्मृतेः ॥

तेन वेदावगतसम्यग्ज्ञातसाधुशब्दप्रयोगात्मकधर्माङ्गत्वेन व्याकरणप्रक्रियेतिकर्तव्यतया नित्यवाचकशब्दरूपज्ञाननियमः क्रियते । यच्च कात्यायनेन ज्ञाने धर्म [म॰ भा॰ पस्पशाहिनके ।] इति चेत्तथाऽधर्म इति तन्त्रेण प्रसङ्गेन वाऽपशब्दज्ञानादधर्मत्वापत्तिदोषमभिधाय शास्त्रपूर्वप्रयोगेऽभ्युदय13 इति निःश्रेयससिद्धयुपायेऽवधारिते यत्पुनः परावृत्त्य भाष्यकारेणोक्तम्, [म॰ भा॰ पस्प॰ ।] ‘अथ वा पुनरस्तु ज्ञाने धर्म इत्यभ्युपेत्यवादमात्रं तत्पूर्वोक्तदोषपरिहारसामर्थ्यप्रदर्शनार्थं कृत्वाचिन्तान्यायेनोक्तम् । परमार्थतस्त्वन्यानर्थक्यप्रसङ्गविज्ञातपारार्थ्यापादितार्थवादत्वात्फलश्रुतिर्न फलप्रतिपत्तिक्षमा विज्ञायते । यथा ‘योऽश्वमेधेन यजते य उ चैनमेवं वेद’ इति ज्ञानमात्रादेव ब्रह्महत्यातरणं यदि सिध्येत्को जातुचिद्बहुद्रव्यव्ययायाससाध्यमश्वमेधं कुर्यात् । तद्विधानं तानर्थकमेव स्यात् । एवं शब्दज्ञानाच्चेद्धर्मः सिध्येत्को नामानेकताल्वादिव्यापारायासखेदमनुभवेत् । तस्भात्क्रतुवदेव ज्ञानपूर्वप्रयोगस्यैव फलं कारणे कार्यवदुपचारात्तण्डुले देववर्षणवज्ज्ञाने14 धर्मवचनमापादिताधर्मपरिहाराभिधानशक्तिमात्रप्रदर्शनार्थमेवोपन्यस्तं न फलवत्त्वप्रतिपादनाय । ‘द्रव्यसंस्कारकर्मसु परार्थत्वात्’ [जै॰ सू॰ ( ४—३—१ ) ।] इत्यनेन न्यायेन ज्ञानस्य पुरुषशब्दसंस्कारत्वेन निराकाङ्क्षस्य फलसंबन्धासंभवात् ।

सर्वत्रैव हि विज्ञानं संस्कारत्वेन गम्यते ।
पराङ्गं चाऽऽत्मविज्ञानादन्यत्रेत्यवधारणात् ॥

आत्मज्ञानं हि संयोगपृथक्त्वात्क्रत्वर्थपुरुषार्थत्वेन ज्ञायते तेन विना परलोकफलेषु कर्मसु प्रवृत्तिनिवृत्त्यसंभवात् । तथा ‘य आत्माऽपहृतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ तथा ‘मन्तव्यो बोद्धव्यः’ तथा ‘आत्मानमुपासीत’ इति कामवादलोकवादवचनविशेषैर्जिज्ञासामननसहितात्मज्ञानकेवलावबोधपर्यन्तस्पष्टात्मतत्त्वज्ञानविधानापेक्षितवाक्यान्तरोपात्तद्विविधाभ्युदयनिःश्रेयसरूपफलसंबन्धः । ‘स सर्वांश्च लोकानाप्नोति सर्वांश्च कामानाप्नोति तरति शोकमात्मवित्तथा स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन संपन्नो महीयते’ इत्यादिना योगजन्याणिमाद्यष्टगुणैश्वर्यफलानि वर्णितानि । तथा ‘स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसंपद्यते न स पुनरावर्तते’ इत्यनिरावृत्त्यात्मकपरमात्मप्राप्त्यवस्थाफलवचनम् । अप्रकरणगतत्वेनानैकान्तिकक्रतुसंबन्धाच्च नाञ्जनखादिरस्रुववाक्यादिफलश्रुतिवदर्थवादत्वम् ।

न च ज्ञानविधानेन कर्मसंबन्धवारणम् ।

प्रत्याश्रमवर्णनियतानि नित्यनैमित्तिककर्माण्यपि पूर्वकृतदुरितक्षयार्थमकरणनिमित्तानागतप्रत्यवायपरिहारार्थं च कर्तव्यानि । न च तेषां भिन्नप्रयोजनत्वाद्भिन्नमार्गत्वाच्च बाधविकल्पपरस्पराङ्गाङ्गिभावाः संभवन्ति । शब्दज्ञानस्य त्वेकान्तेन प्रयोगाङ्गत्वात्पूर्वतरभावित्वाच्च न पृथक् फलसंबन्धसंभव इति ज्ञानपूर्वप्रयोगफलवत्त्वमेव निश्चीयते । यत्त्वादिमद्वयाकरणज्ञानतत्पूर्वकप्रयोगफलसंबन्धोऽनादिविधिमूलो नावकल्पत इति । तत्र यूपादिकरणवद्वयाकरणपरम्परानादित्वादनुपालम्भः । ‘तस्मादेषा व्याकृता’ इति च व्याकरणव्यवहारनित्यत्वमुक्तम् ।

न चैषा संप्रदायेन व्याकृतेत्यभिधीयते ।
तत्र ह्युच्यत इत्येव व्याकृतेति तु निष्फलम् ॥

यदपि च मनुना पङ्क्तिपावनमध्ये केदादेवोपलभ्योक्तम् । ‘यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम्’15 इति तेनापि पूर्वपश्चादुक्ताधीतवेदत्वयज्ञमीमांसनव्यतिरिक्तविषयेण सताऽवश्यमेतदेव व्याकरणज्ञानमाश्रयितव्यमिति तन्नित्यत्वसिद्धिः 16 ॥ २७ ॥ २८ ॥ २९ ॥

इति व्याकरणाधिकरणम् ॥ ८ ॥


  1. पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्त्रेण राघव । शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः । वा॰ रा॰ कि॰ का॰ सर्ग १७ ॥ श्लो॰ ३७ । ↩︎

  2. छान्दोग्यसूत्रकारेणेत्यर्थः । ↩︎

  3. सिद्धे शब्दार्थसंबन्धे, लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमो यथा लौकिकवैदिकेषु इति महावार्तिके । ↩︎

  4. दैव्याः शमितार आरभध्वमित्यादिः पशुविशसनप्रपमन्त्रोऽध्रिगुशब्दवत्त्वेनाध्रिगुरित्युच्यते । ↩︎

  5. अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचिदिति शेषः । ↩︎

  6. यस्तु प्रयुङ्क्ते कुशलो शब्दान्यथावव्द्यवहारकाले । सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद्दुष्यति चापशब्दैः । म. भा. । ↩︎

  7. अविद्वांसः प्रत्यभिवादे नाम्नो ये न प्लुतिं विदः । कामं तेषु तु विप्रोष्य स्त्रीष्विवायमहं वदेत् । इति महाभाष्ये व्याकरणस्य स्त्रीसाम्यपरिहारप्रयोजनत्वकथनार्थमुपन्यस्तः श्लोकः । ↩︎

  8. अवृद्धं त्रिपुरुषानूकमनरिप्रतिष्टितं तद्धि प्रतिष्ठिततमं भवति इति शेषः म॰ भा॰ पस्प॰ । ६ ऋ॰ सं॰ (६ । ५ । ७) । ↩︎

  9. आदिशब्देन निपातोपसर्गयोः परिग्रहः । ↩︎

  10. विप्रकर्षाभिधायिकालशब्दोक्तानामपशब्दानां, रूढपदपरामृष्टो योऽस्मर्यमाणावधिदीर्घकालप्रयोगो यश्च रूपशब्दोक्तम्लेच्छभाषणविलक्षणसाधुशब्दसादृश्यात्मकोऽर्थः, तदुभयात्मककारणजन्यया भ्रान्त्याऽऽधुनिकैर्वाचकत्वेन गृहीतानामित्यर्थः । ↩︎

  11. शुक्लवचनमिति—निष्ठुरवचनमित्यर्थः । ↩︎

  12. लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः । ↩︎

  13. शास्त्रपूर्वके प्रयोगेऽभ्युदयस्तत्तुल्यं वेदशब्देन । ↩︎

  14. देवो वर्षति तण्डुलान् इत्यत्र यथा तण्डुलशब्दो वृष्टावुपचर्यते इति दृष्टान्तार्थः । ↩︎

  15. यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम् । तावुभौ पुण्यकर्माणौ पङ्क्तिपावनपावनौ । ↩︎

  16. अत्रच वार्तिककारैः ‘तदशक्तिश्चानुरूपत्वात्’ इति सूत्रं प्रसङ्गात्पूर्वमेव ‘अन्यायश्चानेकशब्द्बत्वम्’ इति सूत्रव्याख्यानान्ते ‘यथा प्रकृति सारूप्यद्वारेणापभ्रंशा’ इत्यादिग्रन्थेन व्याख्यातत्वान्न व्याख्यातम् । एवं ‘एकदेशत्वाच्च विभक्तिव्यत्यये स्यात्’ इति सूत्रं च भाष्यकारैः सुस्पष्टं व्याख्यातत्वादुपेक्षितमिति वेदितव्यम् । ↩︎