ये शब्दा न प्रसिद्धाः स्युरार्यावर्तनिवासिनाम् ।
तेषां म्लेच्छप्रसिद्धोऽर्थो ग्राह्यो नेति विचिन्त्यते ॥
तथा—
निरुक्तव्याक्रियाद्वारा प्रसिद्धिः किं बलीयसी ।
समुदायप्रसिद्धिर्वा म्लेच्छस्यैवाथ वा भवेत् ॥
म्लेच्छप्रसिद्धिव्यवहर्तृदौर्बल्येऽपि समुदायरूढिबलेन स्वरूपगतेन ज्यायसी प्रतिभाति ।
तत्र प्रयोक्तृदौर्बल्यस्वरूपबलवत्तयोः ।
किं तु न्याय्यतरं युक्तं ज्ञातुमित्यत्र चिन्त्यते ॥
तथा—
निरुक्तव्याक्रियाद्वारा किं शास्त्रस्था वलीयसी ।
किं वाऽवयवविक्षेपजननात्सैव दुर्बला ॥
एवं नानोपपत्तित्वात्संदेहे तावदुच्यते ।
निरुक्तव्याक्रियाद्वारा प्रतिपत्तिर्बलीयसी ॥
शास्त्रस्था वेत्यनेनासौ कल्प्याऽपि हि बलीयसी ।
सन्मूलस्य प्रमाणत्वं साध्यस्यापि वरं श्रितम् ॥
न सिद्धमप्यसन्मूलमाश्रयेण हि दूषितम् ।
कथं वेदगतैः शब्दैर्म्लेच्छस्थोऽर्थः प्रतीयते ॥
येषां दर्शनमात्रेऽपि वेद एव न पठ्यते ।
संभाषाऽपि च न म्लेच्छैः सहाऽऽर्यावर्तवासिनाम् ॥
तत्र तेषु प्रसिद्धोऽर्थः कथमार्यैः प्रतीयताम् ।
एवं च सति यस्यापि प्रसिद्धिर्नोपलभ्यते ॥
तस्यापि म्लेच्छदेशेषु सर्वेष्वन्वेष्यतां व्रजेत् ।
ततश्च निगमादीनां न कश्चिद्विषयो भवेत् ॥
अनन्तम्लेच्छदेशांश्च कः सर्वोऽनुपलप्स्यते ।
य एव स्यादनन्विष्टस्तत्र शङ्का प्रसज्यते ॥
अनन्तेषु हि देशेषु कः सिद्धः क्वेति गम्यताम् ।
निगमादिवशाच्चाद्य धातुतोऽर्थः प्रकल्पितः ॥
द्वित्रेष्वहःसु बाध्येत प्रयोगान्म्लेच्छचोदितात् ।
म्लेच्छाचाराप्रमाणत्वमथ त्वध्यवसीयते ॥
आर्यावर्ते ततः शक्या प्रसिद्ध्यन्वेषणक्रिया ।
तस्याश्चाल्पेन कालेन सदसद्भावनिर्णयः ॥
ततश्च निगमादीनां सुज्ञातः स्वार्थगोचरः ।
तस्मात्तदर्थवत्त्वाय म्लेच्छाचाराप्रमाणता ॥
धर्मे चानादरात्तेषां भ्रश्येतार्थोऽपि शब्दवत् ।
न चास्ति संस्कृतः शब्दः कश्चिन्म्लेच्छापभाषणें ॥
संस्कृतप्रतिरूपा हि तद्भाषार्थान्तरे स्थिता ।
न चावाचकरूपाणां वाचकत्वं कथंचन ॥
आर्याश्च म्लेच्छभाषाभ्यः कल्प्यन्तः स्वकं पदम् ।
पदान्तराक्षरोपेतं कल्पयन्ति कदाचन ॥
न्यूनाक्षरं कदाचिञ्च प्रक्षिपन्त्यधिकाक्षरम् ।
तद्यथा द्राविडादिभाषायामेव1 तावद्वयञ्जनान्तभाषापदेषु स्वरान्तविभक्तिस्त्रीप्रत्ययादिकल्पनाभिः स्वभाषानुरूपानर्थान्प्रतिपद्यमाना दृश्यन्ते । तद्यथौदनं चोरित्युक्ते चोरपदवाच्यं कल्पयन्तिं पन्थानमतरित्युक्तेऽतर इति कल्पयित्वाऽऽहुः । सत्यं दुस्तरत्वादतर एव पन्था इति । तथा पापशब्दं पकारान्तं सर्पवचनमकारान्तं कल्पयित्वा सत्यं पाप एवासाविति वदन्ति । एवं मालशब्दं स्त्रीवचनं मालेति कल्पयित्वा सत्यमित्याहुः । वैर्शब्दं च रेफान्तेमुदरवचनं वैरिशब्देन प्रत्याम्नायं वदन्ति । सत्यं सर्वस्य क्षुधितस्याकार्ये प्रवर्तनादुदरं वैरिकार्ये प्रवर्तत इति । तद्यदा द्राविडादिभाषायामीदृशी स्वच्छन्दकल्पना तदा पारसीबर्बरयवनरौमकादिभाषासु किं विकल्प्य किं प्रतिपत्स्यन्त इति न विद्मः ।
तस्मान्म्लेच्छप्रसिद्धं यत्पदमार्यैर्विकल्प्यते ।
न कश्चित्तत्र विश्वासो युक्तः पदपदार्थयोः ॥
निरुक्तव्याक्रियाद्वारा यस्त्वर्थः परिगम्यते ।
पिकनेमादिशब्दानां स एवार्थो भविष्यति ॥ इति प्राप्तम् ।
एवं प्राप्ते वदामोऽत्र पदं निपुणदृष्टिभिः ।
विज्ञायेताविनष्टं यत्तत्तदर्थं भविष्यति ॥
देशभाषापभ्रंशपदानि हि विप्लुतिभूयिष्ठानि न शक्यन्ते विवेक्तुम् ।
यत्तु वेदतदङ्गेषु पदं दृष्टमविप्लुतम् ।
म्लेच्छभाषासु तद्रूपमर्थे क्वचन चोदितम् ॥
तत्तथैव प्रतीयेत प्रमाणेनाविरोधतः ।
पिकनेमादि तद्धयेवं निपुणैरवधारितम् ॥
चोदितं ह्युपदिष्टं वा प्रयुक्तं वा क्रियागतम् ।
म्लेच्छैरवधृतं पश्चादार्यैर्द्वैभाषिकैः क्वचित् ॥
तादृशं तु प्रतीयेत प्रामाण्येनेति निश्चितम् ।
न तद्धर्मप्रमाणेन वेदाख्येन विरुध्यते ॥
अपि च—
पदार्थपदसंबन्धज्ञानापेक्षप्रवर्तनात् ।
प्रसिद्धिर्यत्र तत्रस्था वाक्यार्थायानुगम्यते ॥
पिकादिशब्दवाच्यं वा म्लेच्छैर्यदवधारितम् ।
अविरोधात्प्रमाणेन तद्विद्यावेदनोदितम् ॥
चोदितं वा प्रमाणेन वेदेनेत्यस्य संगतिः ।
आर्यैः सहाविरुद्धत्वात् तस्य तैरप्यपेक्षणात् ॥
यथैव क्लोमादयः पश्ववयवा वेदे चोदिताः सन्तोऽध्वर्य्वादिभिः स्वयमज्ञायमानार्थत्वाद्ये नित्यं प्राणिवधाभियुक्तास्तेभ्य एवावधार्य विनियुज्यन्ते । यथा च निषादेष्ट्यां कूटं दक्षिणेति विहिते य एवैतेन व्यवहरन्ति तेम्य एवार्थतत्त्वं ज्ञात्वा दीयते । तथेह पिकनेमतामरसादिचोदितं सद्वेदादार्यावर्तनिवांसिभ्यश्चाप्रतीयमानं म्लेच्छेभ्योऽपि प्रतीयेत लोकावगम्यनित्यशब्दार्थाभ्युपगमाविरोधात् स्वेनैव प्रमाणेन प्रतीयेतेति । यत्तु शास्त्रबलीयस्त्वादेतदग्रहणमिति । तन्न । अविरोधे दुर्बलस्यापि ग्राह्यत्वाद्यदेवात्यन्तं प्रमाणाभासमेव मृगतृष्णाज्ञानवद्भवति तत्सर्वदैव परिहर्तव्यं, यत्पुनर्बलवद्विरोधापेक्षमप्रमाणं भवति तद्विरोधाभावात्प्रमाणमेवेत्यवधारणीयम् । न चैवमादि विरुध्यते । विपरीतार्थप्रसिद्धयन्तराभावात् । अत एव वैदिकवाक्यार्थस्वविषयप्रयुक्तपदार्थमात्राभियुक्ततरार्यप्रसिद्धिबलीयस्त्वाश्रयणम् ।
प्रसिद्धौ विद्यमानायां तद्बलीयस्त्वमिष्यते ।
असत्यां तु बलीयस्त्वं वन्ध्यासुतबलोपमम् ॥
अष्टकादिषु ह्यदृष्टार्थेषु समूलकेषु स्मर्यमाणेषु गवादिपदस्वरूपतदर्थज्ञानेषु च सत्यमार्याणामाप्ततरत्वाभियुक्तातरत्वे विद्येते । पिकादिषु त्वार्यबलेनैवावगतस्वरूपमात्रवाचकत्वेषु वाच्यविशेषज्ञानरहितत्वेनाऽऽर्येषु निर्व्यापारीभूतेषु पदवद्दृष्टार्थप्रतिपत्त्यर्थानादिशब्दप्रयोगलब्धसंबन्धप्रसिद्धिम्लेच्छप्रयोगेभ्योऽर्थनिर्णये सति न किंचिद्विरुद्धमाकाङ्क्षितपदार्थज्ञानं च सेत्स्यति । निगमनिरुक्तव्याकरणैरपि न चैवमादीनामर्थान्तरं किंचिदुदात्दृतं, यत्प्राप्य कृतार्थाः सन्त इतरेषां प्रसिद्धिं परित्यजेम ।
काल्पनिक्याः प्रसिद्धेश्च या कॢप्ता सा बलीयसी
तस्यां सत्यां हि नाऽऽत्मानमितरा लब्धुमर्हति ।
आश्रयाणां च दौर्बल्यं धर्मं प्रति निरूपितम् ।
दृष्टार्थव्यवहारेषु कृष्यादाविव तुल्यताम् ॥
तस्माद्यथैव सेवादौ गृहादिषु च कौशलम् ।
म्लेच्छानामधिकं तद्वदभिधेयार्थनिर्णये ॥
शब्दस्वरूपं तावत्तेनाभियुक्तत्वाच्चिरविनष्टाविनष्टत्वेन न विविञ्चीरन् । यस्तु कथमप्यविनष्ट एव शब्दस्तेषामपि प्रयोगविषयमापन्नस्तस्य चाऽऽर्यवदेवानादिवृद्धव्यवहारपरम्परयाऽर्थं जानन्ति तत्किं तेषां निराकर्तुं शक्यते ।
पत्रोर्णवारबाणादि23 यच्च तद्देशसंभवम् ।
तैरेवाकथितं नाम तच्च को वेदितुं क्षमः ॥
तस्मान्न तेषां व्यवहारप्रसिद्धौ दौर्बल्यम् ।
निरुक्तादेश्च सिद्धेऽर्थे तन्निमित्तादिमात्रके ।
व्यापारो न च पूर्वर्धप्रतिपत्तौ स्वरूपतः ॥
निरुक्ते न तावल्लोकव्यवहारप्रसिद्धान्येव पदानि तद्गतक्रियानिमित्तशब्दप्रयोगभाक्त्वेन निरुच्यते । व्याकरणेनापि प्रसिद्धार्थानामेवाविनष्टस्वरूपान्वाख्यानमात्रं क्रियते तत्र प्रासङ्गिकमेव कियदप्यर्थनिरूपणम् । तानि स्वविषयादन्यत्र दुर्बलानामपि न बाधकानि ।
यस्य चान्विष्यमाणाऽपि प्रसिद्धिर्न भविष्यति ।
कामं प्रदर्शितद्वारा तत्र कल्प्याऽऽश्रयिष्यते ॥
विक्षिप्ता बहुरूपा च या संदेहप्रदायिनी ।
अनन्योपायतामात्रे क्वचिदेव ग्रहीष्यते ॥
न चार्थप्रत्ययानङ्गनिरुक्ताद्यप्यनर्थकम् ।
षडङ्गवेदविज्ञानपूर्वकर्मक्रियाफलात् ॥
यथा महाभारतनिर्वचनान्वाख्याने द्वैषायनेनोक्तम् ।
महत्त्वाद्भारतत्वाच्च महाभारतमुच्यते ।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥
इत्येवं निरुक्तव्याकरणाद्यङ्गानुगृहीतवेदाध्ययनजनितकर्मावबोधपूर्वकानुष्ठानायत्तत्वात् स्वर्गादिसिद्ध्यर्थापूर्वसिद्धेरव्युत्पन्नरूपे च ज्ञातेऽपि निरुक्तावगतधात्वर्थपूर्वकनामार्थज्ञानद्वारवाक्यार्थप्रतिपत्तिपूर्वकानुष्ठानादेवादृष्टसिद्धिरिति म्लेच्छसिद्धपिकाद्यर्थग्रहणेऽपि निरुक्तादीनामर्थवत्ता सिद्धेति ॥ १० ॥
इति पिकनेमाधिकरणम् ॥ ५ ॥