04 यववराहाधिकरणम्

तेष्वदर्शनाद्विरोधस्येत्येवमुपक्रमं वा सूत्रम् । शब्दार्थविषयप्रयोगशिष्टाचारविप्रतिपत्तौ संदेहः ।

एकशब्दमनेकार्थं शिष्टैराचर्यते यदा ।
विगानेन तदा तत्र कोऽर्थः स्यात्पारमार्थिकः ॥

यववराहवेतसशब्दाः प्रियङ्गुवायसजम्बूष्वपि किल क्वापि देशान्तरे प्रयुज्यन्ते ।

तेन तद्वचनत्वे हि संदेह उपजायते ।
अनिरूपिततत्त्वानां यावद्दृष्टानुसारिणाम् ॥

तत्राऽऽह नैव संदेहः कर्तव्योऽत्र मनागषि ।
प्रयोगं प्रति तुल्यत्वात्सर्वलोकप्रयोगिणाम् ॥

यत्र देशे हि यः शब्दो यस्मिन्नर्थे प्रयुज्यते ।
शक्तिस्तद्गोचरा तस्य वाचिकाख्या प्रमीयते ॥

तस्याश्च सर्वगामित्वं तन्न्यायत्वात्प्रमीयते ।
नैकेषामेव सा ह्यस्ति केषांचिद्वा न विद्यते ॥

ज्ञाताज्ञातविभागस्तु ज्ञातृभेदेऽवकल्पते ।
तस्माद्यैरपि न ज्ञाता यच्छब्दार्थस्य वाच्यता ॥

तैरप्यभ्युपगन्तव्या स्वप्रसिद्धिसमा हि सा ॥

न चाल्पत्वबहुत्वाभ्यां प्रयोक्तॄणां विशिष्यते ।
वाच्यवाचकभावोऽयमक्षपादादिशब्दवत् ॥

विभीतकेऽक्षशब्दो हि यद्यप्यल्पैः प्रयुज्यते ।
तथाऽपि वाचकस्तस्य ज्ञायते शकटाक्षवत् ॥

तथा चोक्तं शवतिर्गतिकर्मा कम्बोजेष्वेव दृष्टो विकारापन्नमार्याः प्रयुञ्जते शवमिति मृतशरीराभिधानादित्यादि । वहव एव हि धातवो नामशब्दाश्च प्रतिदेशमर्थभेदेषु व्यवस्थिता दृश्यन्ते तस्मात्समेयमभिधाने विप्रतिपत्तिः स्यात् । एवं च विकृतिषु केषां चिदर्थानां साधारणशब्दवाच्यत्वात्प्रकृताविवाविकृतप्रयोगादार्षं चोदकोऽनुग्रहीष्यते । ‘तेष्वदर्शनाद्विरोधस्य’ इत्यत्रैव चैतद्व्याख्येयम् । इतरत्र विप्रतिपत्त्यविरोधयोरघटमानत्वात् । तस्मादाचारविप्रतिपत्तेः समत्वाद्विकल्प इति प्राप्तेऽभिधीयते ॥ ८ ॥

शास्त्रस्था तन्निमित्तत्वात्प्रतिपत्तिर्बलीयसी ।
लौकिकी प्रतिपत्तिर्हि गौणत्वेनापि नीयते ॥

नानाविप्रतिपत्तौ हि न लोकस्येह सत्यता ।
या शास्त्रानुगुणा सैव प्रामाण्येमावधार्यते ॥

लौकिकत्वे समानेऽपि शास्त्रेणाभ्यधिका हि सा ।
शास्त्रस्थाः पुरुषा ये वा प्रतिपत्तिस्तदाश्रया ॥

प्रमाणत्वेन मन्तव्या सप्रत्ययतरा हि ते ।
शास्त्रार्थेष्वभियुक्तानां पुरुषाणां हि सर्वदा ॥

स्तोकेनाप्यन्यथात्वेन शास्त्रार्थो निष्फलो भवेत् ।
लौकिकस्त्वन्यथात्वेऽपि नार्थोऽतीव विरुध्यते ॥

रसवीर्यविपाकानां भेदाद्वैद्यैर्यवादयः ।
निर्धार्याः स्वार्थतत्त्वेन धर्मसिद्धयैव याज्ञिकैः ॥

तस्माद्ये याज्ञिकैर्येषां वैद्यैर्वाऽर्था निरूपिताः ।
तेषां त एव शब्दानामर्था मुख्या हि नेतरे ॥

अनवस्थितशब्दार्थसंबन्धः सति संभवे ।
विकल्पश्चाष्टदोषत्वान्न कथंचन युज्यते ॥

अविप्लुतश्च शब्दार्थो यो वेदेषूपलभ्यते ।
तत्रत्यनिर्णयात्तस्माल्लोके भवति निर्णयः ॥

यवमतीभिरद्भिरौदुम्बर्याः प्रोक्षणे विधीयमाने वाक्यशेषोऽयं ‘यत्रान्या ओषधयो म्लायन्तेऽथैते मोदमानास्तिष्ठन्ति’ इति बह्वीषु शाखासु श्रूयते भाष्यकारेण वारुणप्राघासिकयवमयकरम्भपात्रवाक्यशेषत्वेनोपलब्धो यः स मन्दप्रयोजनत्वात्तथा नामास्तु ।

फाल्गुनेऽन्यौषधीनां तु जायते पत्रशातनम् ।
मोदमानास्तु तिष्ठन्ति यवाः कणिशशालिनः ॥

प्रियंगवः शरत्पक्वास्तावद्गच्छन्ति हि क्षयम् ।
यदा वर्षासु मोदन्ते सम्यग्जाताः प्रियंगवः ॥

तदा नान्यौषधिम्लानिः सर्वासामेव मोदनात् ।

एवं वराहवेतसशब्दा अपि शास्त्रस्थप्रयोगादेव निश्चीयन्ते ।

( भाष्यकारोक्तोदाहरणाद्याक्षेपः )

नत्वेतान्युदाहरणानि लोकप्रसिद्धेरेव व्यवस्थितत्वाद्युक्तानि । तथा हि ।

नैवोच्यन्ते क्वचिद्देशे यवश्रुत्या प्रियंगवः ।
जम्बूं न वेतसं प्राहुर्वराहं नापि वायसम् ॥

अध्यारोप्य विचारेण किं मुधा खिद्यते मनः ।
संदिग्धेषु च सर्वेषु वाक्यशेषेण निर्णयम् ॥

वक्ष्यत्येव न तेनापि पृथक्कार्या विचारणा ।

यद्यपि तत्राभिधेयसंदेहमनुदाहृत्योपादानसंदेहनिर्णयोपायव्याख्यानं करिष्यति । यावद्वाक्यशेषमेव स निर्णयो नान्यत्र । अयं त्वभिधेयनिर्णय एकत्र च कृतः सर्वत्र च कृत एव भविष्यतीत्येवमपुनरुक्तत्वमापद्यते ।

तथाऽपि न्यायतुल्यत्वाद्यथा धृतपरिग्रहः ।
वाक्यशेषात्तथैव स्याद्यवाद्यर्थविनिर्णयः ॥

तत्सिद्धिसूत्रे च सारूप्यादीनां गौणवृत्तिनिमित्तानामनुक्रमणाद्वेतससदृशजम्बूप्रत्ययसिद्धिरशब्दार्थत्वेऽपि विज्ञायत एवेति नेहोदाहृतेन कार्यम् ।

( आर्यम्लेच्छप्रयोगविप्रतिपत्तिबलाबलचिन्तनम् । )

तस्मादन्यदुदाहृत्य विचार्यमिदमीदृशम् ।
यत्र विप्रतिपत्तिः स्यादार्यम्लेच्छप्रयोगजा ॥

तत्र किं तुल्यता युक्ता किमेकैव बलीयसी ।
समा विप्रतिपत्तिः स्याद्दृष्टार्थव्यवहारिणाम् ॥

आर्यास्तावद्विशिष्येरन्नदृष्टार्थेषु कर्मसु ।
दृष्टार्थेषु तु तुल्यत्वमार्यम्लेच्छप्रयोगिणाम् ॥

सर्वो हि शब्दोऽर्थप्रत्यायनार्थं प्रयुज्यते । अर्थश्च संव्यवहारप्रसिद्धयर्थमभिधीयते ।

तत्र यस्य विशिष्टस्य म्लेच्छेष्वर्थान्तराभिधा ।
तत्रापि तस्य सामर्थ्यमनाद्येव प्रतीयते ॥

यथैव ह्यार्यगम्येऽर्थे संबन्धानादिता मतिः ।
म्लेच्छगम्ये तथैव स्यादाविशिष्टं हि कारणम् ॥

न प्रयोगावधिस्तस्य म्लेच्छेष्वपि हि दृश्यते ।
अनाद्यारेर्थशक्त्योश्च विशेषो गम्यतां कथम् ॥

यथा च म्लेच्छदेशेऽपि धूमोऽग्नेरवबोधकः ।
एवं स्वार्थे प्रयोगात्तैरिष्टः शब्दोऽपि वाचकः ॥

तस्मात्पील्वादिशब्दानां वृक्षहस्त्यादिबोधने ।
समा विप्रतिपत्तिः स्यादार्यम्लेच्छप्रयोगतः ॥

इति प्राप्तेऽभिधीयते । शास्त्रस्था वेति पूर्ववदेव सकलसूत्रव्याख्या योजनीया । किं च ।

यथा साध्वनुरूपत्वात्प्रमादाशक्तिजेष्वपि ।
जायते वाचकभ्रान्तिस्तथैव म्लेच्छभाषिते ॥

शब्दापभ्रंशवदेव गौणभ्रान्त्यादिप्रयोगनिमित्ता अर्थापभ्रंशा भवन्ति ते शास्त्रस्थैरेवाविप्लुतार्थक्रियानिमित्तपुण्यार्थिभिः शक्यन्ते साध्वसाधुकार्षापणमध्यादिव तत्परीक्षिभिर्विवेक्तुम् । अभियुक्तानभियुक्तज्ञानयोश्चाभियुक्तज्ञानं बलवदितरस्य सुलभापवादत्वात् ।

अतः शास्त्राभियुक्तत्वादार्यावर्तनिवासिनाम् ।
या मतिः सैव धर्माङ्गशब्दार्थत्वप्रमा मता ॥

एतेनाऽऽर्थावर्तनिवासिमध्येऽपि—

अभियुक्ततरा ये ये बहुशास्त्रार्थवेदिनः ।
ते ते यत्र प्रयुञ्जीरन् स सोऽर्थस्तत्त्वतो भवेत् ॥

( स्मृत्याचारविरोधे बलाबलविचिन्तनम् । )

स्मृत्याचारविरोधे वा साप्यवैषम्यसंशये ।
समा विप्रतिपत्तिः स्यान्मूलसाम्याद्द्बयोरपि ॥

यथैव श्रुतिमूलत्वात्स्मरणानां प्रमाणता ।
आचारणां तथैवेति न विशेषो बलाबले ॥

यद्वाऽऽचारबलीयस्त्वं फलस्थत्वात्प्रतीयते ।
फलाद्वियुज्यमानं हि प्रमाणं दुर्बली भवेत् ॥

श्रुतिराचारमूलं या फलस्था सोपलभ्यते ।
यावद्धि स्मरणं दृष्टवा श्रुतिरन्याऽनुमास्यते ॥

तावल्लब्धात्मकः पूर्वमाचारः प्रतितिष्ठति ।
प्रतिष्ठितस्य बाधश्च कीदृशः परिकल्प्यताम् ॥

तेनाऽऽचारबलीयस्त्वं समत्वं वेह युज्यते ।
स्मृतीनां वा बलीयस्त्वं शास्त्रास्था वेति वर्ण्यते ॥

उभयोः श्रुतिमूलत्वं न स्मृत्याचारयोः समम् ।
सप्रत्ययप्रणीता हि स्मृतिः सोपनिबन्धना ॥

तथा श्रुत्यनुमानं हि निर्विघ्नमुपजायते ।
आचारात्तु स्मृतिं ज्ञात्वा श्रुतिर्विज्ञायते ततः ॥

तेन द्वयन्तरितं तस्य प्रामाण्यं विप्रकृष्यते ।
न ह्यैकैव श्रुतिः काचिदाचाराणां प्रवर्तिका ॥

भिन्नाभिर्विप्रकीर्णत्वान्नास्मृताभिः प्रवर्तनम् ।
नैकप्रपाठकेनैव ह्याचाराणां विधिस्थितिः ॥

क्वचित्प्रकरणे कश्चित् कथं चिदुपलभ्यते ।

तद्यथाऽग्निप्रकरणे ‘यत्सप्तदशवतीमुपदधात्यन्नमेवोभयतो दधाति तस्मादुभाभ्यां हस्ताभ्यां परिगृह्य पुरुषोऽन्नमत्ति’ इति । सत्यपि हेतुवन्निगदत्वे प्रसिद्धिरहिते हेत्वसंभवात् । विधायिष्यते तु वेदे वचनेनेत्यनेन न्यायेन विध्यनुमानम् । न चैतन्नियोगतोऽर्थतः प्राप्तं येन ‘तस्मात्प्रजा दश मासांन्गर्भं धृत्वा एकादशमनु प्रजायन्ते तस्मादश्वतर्यः प्रजा’ इतिवत् स्वभावप्राप्तत्वेनार्थप्राप्तत्वेन वा ‘तस्मादुत्तरे वयसि पुत्रान्पितोपजीवति’ इतिवदनूद्येतेत्यतो न्यायात्पुरुषधर्मविधिः । एवम् ‘अन्नमेव तद्दक्षिणतो दधाति तस्माद्दक्षिणेन हस्तेन पुरुषोऽन्नमत्ति’ इति । तथा ‘दीक्षितो नयनं दक्षिणं प्रथममङ्क्ते सव्यं हि मनुष्याः पूर्वमञ्जते बिधृत्यै’ इति । तथा यूपैकादशिन्यां ‘द्वे द्वे रशने यूपमृच्छतः तस्मात्स्त्रियः पुंसोऽतिरिक्तास्तस्मादुतैको बह्रीर्जाया विन्दते नैका बहून् पतीन्’ इति । तथा दर्शपूर्णमासप्रकरणेऽग्नीषोमीयविधिसंबन्धलङ्घनेन त्वाष्ट्रवधनिमित्तेन्द्रगतब्रह्महत्यातुरीयविभागप्रतिग्रहप्रस्तावागतरजस्वलाव्रतानां भूमिशयनास्त्रानामांसभक्षणानभ्य, ङ्गानञ्जनाविलेखनाकर्तनादन्तधावनानस्वच्छेदनारज्जुसंसर्जनादीनां त्रिरात्रविषयाणां प्रकरणातिरिक्तस्त्रीधर्मत्वावधारणम् ।

एवं च विप्रकीर्णानामशक्यैकत्र संहृतिः ।
स्मृतिमेव दृढां मुक्त्वा तस्मादस्त्यन्तरा स्मृतिः ॥

तेनाऽऽचारः स्मृतिं यावदनुमातुं प्रवर्तते ।
स्मृतिर्लब्धश्रुतिस्तावद्धर्ममेवावधारयेत् ॥

तस्मादाचारेभ्यः स्मृतिर्बलीयसी सन्निबन्धनेति ।

(लोकवाक्यशेषयोर्विरोधे बलाबलचिन्तनम् ।)

त्रिवृच्चर्वश्ववालादेर्लोकेऽन्योऽर्थः प्रतीयते ।
वेदे तदभियुक्तैश्च तस्मादन्यो विलक्षणः ॥

तत्र किं तुल्यकल्पत्वात्पदार्थे लोकवेदयोः ।
समा विप्रतिपत्तिः स्यादथ वैका बलीयसी ॥

लोके तावत्त्रिवृच्छब्दास्त्रिगुणत्वस्य वाचकः ।
त्रिवृद्रज्जुस्त्रिवृद्ग्रन्यिर्वेदे तु नवके स्थितः ॥

त्रिवृद्बहिष्पवमानमित्युक्त्वा तृचत्रयमनुक्रान्तमिति स्तोत्रीयर्ङ्नवकवचन एव त्रिबृच्छब्दो विज्ञायते ।

तथाऽयं चरुशब्दोऽपि लोके स्थालीनिबन्धनः ।
याज्ञिकानां च वेदे च प्रसिद्धस्त्वोदनं प्रति ॥

अनवस्त्रावितान्तरूष्मपक्वौदनवचनो हि याज्ञिकानां चरुशब्दः प्रसिद्धस्तथा वेदेऽपि ‘आदित्यः प्रायणीयः पयसि चरुः’ इति विहिते पश्चादुक्तात् ‘दितिमोदनेनेतिवचनाच्चौदनवचनत्वं ज्ञातम् । एवमाश्ववालः प्रस्तर इत्यश्वजातीयवालमयः प्रस्तरो लोकप्रसिद्धया विज्ञायते । वैदिकवाक्यशेषात्तु काशेष्वश्ववालप्रसिद्धिः । एवं हि श्रूयते “यज्ञो वै देवेभ्योऽश्वो भूत्वाऽपाक्रामत्सोऽपः प्राविशत् । स वालधौ गृहीतः स वालान्मुक्त्वा विवेश ह । ते वालाः काशतां प्राप्ताः” कार्योऽतः प्रस्तरस्तु तैः ।

ऐक्षव्यौ विधृती ये च ते इक्ष्ववयवात्मिके ।
लोके सिद्धे तथा वेदे काशानामेव मूलके ॥

एवमादिषु सर्वेषु प्रतिपत्तिविपर्यये ।
प्रतिपत्तेः समानत्वाद्विकल्पो हि प्रसज्यते ॥

ननु च लोकप्रसिद्धेर्धर्मं प्रत्यनङ्गत्वाद्वेदप्रसिद्धिरेव ज्यायसी ॥

नैतदेवं पदार्थेषु न हि वेदो विशिष्यते ।
अदृष्टहेतुवाक्यार्थे लोकात्स ह्यतिरिच्यते ॥

तस्मादुमय्यापि त्वेषा प्रतिपत्तिः समा भवेत् ।
यदि वा पूर्वभावित्वाल्लौकिक्येव बलीयसी ॥

वेदनिरपेक्षा हि लोकप्रसिद्धिरात्मानं लभते वैदिकी पुनर्लोकप्रसिद्धपदान्तरसामानाधिकरण्येन सिध्येत् ।

तत्र लोकाविरुद्धा या वैदिकी सैव गृह्यते ।
लोकसिद्धिं व्यतिक्रम्य साऽऽत्मानं नैव विन्दति ॥

‘तेष्वदर्शनाद्विरोधस्य’ इति च तेषु लौकिकेषु पदार्थेष्वदर्शनाद्विरोधस्यार्थवादानां चान्यपरत्वेन गुणवादप्रायत्वात् । आदित्ययूपयजनमानप्रस्तरस्वर्गाहवनीयादिवचनवत्कथमपि प्ररोचनाशेषत्वात् संज्ञासंज्ञिसंबन्धकरणव्युत्पादनव्यापाररहितत्वाच्च न पदार्थप्रतिपत्त्यङ्गत्वमध्यवसीयते तदाश्रयणे च विधिविरोधप्रसङ्गातेष्वेव वा दर्शनाद्विरोधस्येत्यभिप्रायः । तथा शास्त्रस्थमन्वादिप्रसिद्धिरप्यस्मत्पक्षानुगुणैव । यथाऽऽह—

कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत्1
त्रिवृता ग्रन्थिनैकेनेति2

तस्मात्समाऽपि तावद्भत्विति प्राप्तेऽभिधीयते—

शास्त्रस्था प्रतिपत्तिर्या सैवात्र ज्यायसी भवेत् ।
धर्मस्य तन्निमित्तत्वात्ससाधनफलात्मनः ॥

अर्थवादकृताऽप्यर्थप्रतिपत्तिर्बलीयसी ।
तद्ग्राह्यत्वादृते नान्यत्तस्या ह्यस्ति प्रयोजनम् ॥

गौणो वा यदि वा मुख्यो वेदेनाऽऽश्रीयते हि यः ।
स धर्मसाधनत्वेन पदार्थोऽध्यवसीयते ॥

त्रिवृच्छब्दः प्रयुक्तो यस्तोत्रीयानवकं प्रति ।
कस्तं शक्तस्तोऽन्यत्र नेतुं जन्मशतैरपि ॥

तेन यत्र त्रिवृदग्निष्टोम इति श्रूयते तत्र तेनैवार्थेन भवितव्यम् । एवं स्तोमशब्दो यद्यपि ब्राह्मणस्तोम इत्यादिषु समुदायमात्रवचनत्वेनप्रसिद्धस्तथाऽपि ‘त्रिवृदेव स्तोमो भवति पञ्चदश स्तोमो भवति’ इति वेदे श्रवणात् स्तुतेश्च मानं स्तोम इति याज्ञिकस्मरणात्तथा स्तोमे डविधिः पञ्चदशाद्यर्थ इति व्याकरणशास्त्रप्रसिद्धेरवश्यमेव त्रिवृदादिषु लोकप्रसिद्धिरतिक्रमणीया । यत्तु मनुवचनं तदुभयाश्रयत्वात् समत्वेनापि युज्यते । यद्वा तत्रापि नवतन्तुकमेव त्रिवृच्छब्दात्प्रत्येष्यते तथा रशनात्रिवृत्त्वमपीति । यद्वा यथैवायं नवके दृष्टस्तथाऽयं स्तोत्रीयागतेऽपीति यत्रैव तत्संभवस्तत्रैव तत्प्रसिद्धयनुपाती भवति । यत्र तु संख्येयान्तरविषयत्वं तत्र वैदिकोऽर्थो गौणो गृह्यतां लौकिको वा मुख्य इति तादृशे विषये मुख्यार्थत्वाल्लोकिकप्रसिद्धिरेव ग्रहीतव्येत्युत्तरसूत्रे वक्ष्यामः “चोदितं तु प्रतीयेताविरोधात्” इति तथा चरुशब्दोऽप्यन्याय्यानेकार्थाभिधानप्रतिबद्धशक्तित्वादेकत्र नियम्यमानो याज्ञिकवेदप्रसिद्धिभ्यामोदनविषय एव भवति । आश्ववालैक्षवीशब्दौ तु यदि तावद्वैदिकप्रयोगलब्धसमुदायप्रसिद्धित्वेन लौकिकीमवयवप्रसिद्धिं जहीतस्ततः सिद्धमेव शास्त्रस्थप्रतिपत्तिबलीयस्त्वम् । अथापि श्येनजात्युपमितप्रसिद्धश्येनयागे गौणत्वद्वारा वाऽऽप्तप्रसिद्धिः ‘समानामितरच्छयेनेन’ इत्यादिष्विवाऽऽश्रीयते । तथाऽपि शास्त्रकल्पितत्वाद्धर्मं प्रति बलीयस्त्वम् ।

अथापि शब्दगौणत्वं तथाऽपि बलवत्तरम् ।
स्वतन्त्रस्य हि वेदस्य दृष्टं चेन्न निवार्यते ॥

गौणं लाक्षणिकं वाऽपि वाक्यभेदेन वा स्वयम् ।
वेदो यमाश्रयत्यर्थं को नु तं प्रतिकूलयेत् ॥

न चात्र ‘संदिग्धेषु वाक्यशेषात् [जै॰ स॰ १—९—१९ ।] ’ इत्येतेन तुल्यार्थत्वं प्रतिपत्तिद्वयस्याप्यसंदिग्धत्वात् ।

लौकिकी प्रतिपत्तिर्हि स्वार्थे निःसंशया स्थिता ।
वैदिक्यपि तथा स्वार्थे बाधतेऽतो विपर्ययात् ॥

तस्माच्छास्त्रास्थितैवैका प्रतिपत्तिर्बलीयसी ।
न स्मा मुक्तकाचारैर्विप्रकृष्टैः ससंकरैः ॥ इति ॥ ९ ॥

इति यववराहाधिकरणम् ॥ ४ ॥


  1. ‘शणसूत्रमयं राज्ञो वैश्यस्याऽऽविकमेव च’ इत्युत्तरार्धम् । मनु॰ २ अ॰ श्लो॰ ४४ । ↩︎

  2. मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः । त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा मनु॰ अ॰ २ श्लो॰ ४३ । ↩︎