04 मन्त्राधिकरणम्

इहाऽऽनर्थक्यश्रवणात्केचिदेवं संदेहमुपन्यस्यन्ति किमर्थवन्तो मन्त्रा उतानर्थका इति । तत्त्वयुक्तम् । स्पष्टे शब्दात्प्रतीतेऽर्थे नानर्थक्यं हि शङ्क्यते । अग्नौ दहति दृष्टे वा दग्धृत्वं किं विचार्यते ॥ सर्वत्र हि कार्यदर्शनाच्छब्दानां शक्तयः कल्प्यन्ते । तच्चार्थप्रत्यायनं मन्त्रेष्वप्युच्चार्यमाणेषूपलभ्यते । न चाविशिष्टस्तु वाक्यार्थ इत्येवमादिप्रतिज्ञामात्रसाध्योत्तराः पूर्वपक्षा भवन्ति । तस्मादयुक्तोऽयमुपन्यास इति मत्वाऽऽह—किं विवक्षितवचना मन्त्रा उताविवक्षितवचना इति । नन्वनेनैव हेतुनेदमपि न विचारणीयम् । नैष दोषः । अर्थवतामपि वाक्यानां द्वैविध्यदर्शनात् । उच्चारणार्थप्रत्यायने ह्यविनाभूते तन्नान्यतरविवक्षया प्रयुज्यमानेऽपि किंचिन्नान्तरीयकं भवति । यद्यर्थप्रत्यायनं विवक्ष्यते तदोच्चारणमर्थात्, अथोच्चारणविवक्षां ततोऽर्थप्रत्यायनमनुषङ्गात् । यथा जपेषु विषविद्यासु चेत्यस्ति विचारावसरः । कथं पुनरस्य प्रमाणलक्षणेन संबन्धः । पूर्वमेवोक्तमेतत् । यथाऽऽम्नायस्य क्रियार्थत्वादित्ययमेवात्र पूर्वपक्ष इति तदुत्तरेणैव च निराकाङ्क्षत्वान्न पुनरभिहितम् । एवं हि मन्यते यत्र सोऽरोदीदित्येवमादेः कथं चित्संबन्धापादनं, तत्र मन्त्रेषु कः संदेहस्तस्मादुपयोगविशेष एव चिन्तनीय इति । तत्र विधिस्तुतित्वे तावत्स्वयमेव निराकरिष्यति, अविधिसरूपत्वात् । प्रदेशान्तरविहितस्तुत्यसंभवाच्च । परिशेषात्स्वरूपप्रयोगे सत्यर्थोच्चारणयोः किं विवक्षितमिति विचार्यते । सामसु तु वाचकत्वाभावादात्मप्रयोगमात्राक्षराभिव्यक्तिपरत्वगतसंदेहः । कथं पुनः पूर्वपक्षवादिनः श्रुत्यसंयुक्तानां केषां चिन्मन्त्राणां प्रयोगसिद्धिः । केचिदाहुः । अप्रयोगार्थमेवासावविवक्षितार्थत्वे यतते । न ह्यनाश्रितार्थान्मन्त्रान्कश्चिदपि प्रयुङ्क्ते । अतो यच्च किमुच्चारणमात्रेणोपकुर्वन्तीति सिद्धवत्प्रयोगाभिधानं नैतदञ्जसैव द्रष्टव्यम् । अयं हि तत्र दुष्टोऽभिप्रायः । यदि नामोच्चारणमात्रोपकारं वक्ष्यति । तत्र शक्ष्याम्यस्याप्रयोगं वक्तुमिति । यदपि प्रयोजनकथने बर्हिर्देवसदनं दामीत्ययं बर्हिर्लवनात्प्रच्यव्यिते तदनेन प्रकारेण प्रयोगप्रच्यावनमेव द्रष्टव्यम् । अथ वा याज्ञिकदर्शनेनाविगानात्प्रयोगसिद्धिमविचार्येतरो विचारः । किमर्थं तु याज्ञिकप्रसिद्धिरुपेक्षिता यतः सैव तावद्युक्तायुक्तत्वेन न विचार्यते । तत्रायमभिप्रायः । सर्वथा तावद्दृढमेषां स्मृतिन्यायेन प्रयोगित्वमवस्थितं तत्र शक्यं बाधितुं तस्यैव त्विदं मूलं निरूप्यते । तद्यदि पूर्वपक्षो भविष्यति ततोऽन्यप्रमाणाभावाद्विनियोजकश्रुत्यनुमानेन मूलं कल्पयिष्यामः । सिद्धान्ते तु लिङ्गप्रकरणयोरेव मूलत्वाध्यवसानम् । अथ वैवं पूर्वपक्षेऽपि प्रयोगः । स्वाध्यायाध्ययनविधिनैव मन्त्राः पुरुषर्थाय नीयन्ते । तथा हि । दर्शपूर्णमासादिभिः क्रमप्रकरणाभ्यां यावत्संस्पृश्यते तत्सर्वमुपकारकत्वेन स्वीक्रियते । प्रयाजादिवाक्यानि मन्त्ररूपमपि च ।

तत्र प्रयाजादिवाक्यार्न्यंथ समर्प्य चरितार्थानि स्वरूपसंस्पर्शे सत्यपि प्रयोज्यतां न प्रतिपद्यन्ते । मन्त्राः पुनः कर्मानौपयिकार्थाभिधायित्वात्तेनांशेनानपेक्षिताः । स्तुतिविधिस्मृतीनां तु प्रकारान्तरेण सिद्धिरिति प्रयोगवचनेनैषां रूपमेवाङ्गीक्रियते । स्वाध्यायाध्ययनचोदनाऽपि प्रत्यासन्नतरमन्त्रस्वरूपमेव समर्प्य चरितार्थत्वान्न विप्रकृष्टमर्थाभिधानं यावद्गच्छति । प्रयाजादिबाक्येष्वपि तावद्रूपग्रहणमेव प्रसक्तमासीत्, तत्त्वभिप्रेतार्थदानेन युक्तं न त्विह तथा किंचित् । शब्दे च कार्यस्यासंभवादर्थे कार्यं विज्ञायते । मन्त्राणां तु शब्द एव संभवति । अवश्यं ह्यर्थप्राधान्यपक्षेऽपि पुरुषः शब्दे नियोक्तव्यः । तद्वयापारोत्तरकालत्वादर्थाभिधानस्य । तस्माद्रूपमेवाङ्गम् । तथा च तदर्थशास्त्रादीन्युच्यन्ते । परिहारसूत्रक्रमानुरोधेन विपर्यस्तान्युदाहरणान्यभ्र्यादानात्प्रभृति दातव्यानि । भाष्यकारस्तु यथातथोदाहृतैरपि कार्यसिद्धिं मत्वैवमुपन्यस्तवानुरुप्रथा उरुप्रथस्वेत्यादि । यथासाक्ष इति । नीलीरोगाद्युपहतेन्द्रियस्य चक्षुरस्त्येवेति परैर्दृश्यते, परेण तु नीयमानमुपलभ्य न पश्यतीति ज्ञायते, तथा मन्त्ररूपमालोचयतामर्थप्रकाशनशक्तिबुद्धिर्यद्यपि भवति तथाऽपि परेण विनियोगं दृष्टवा स्वयं विनियोजकशक्तिर्नास्तीति गम्यते । ततश्चार्थातन्त्रत्वम् । अन्यथा स्वयमेव विनियुज्येत । नन्वर्थवादार्थमिति । लिङ्गप्रकरणानुमितमन्त्रविधिस्तुत्यभिप्रायम् । न हीतिच्छेदः । विधिनैकवाक्यतयाऽर्थवादाः स्तुत्यर्था, कल्पिताः । प्रदेशान्तरस्थस्य तु प्रत्यक्षस्याऽऽनुमानिकस्य वा विधेरात्मनः समीपेऽर्थवादमपश्यतः स्वयं प्ररोचनाशक्त्याविर्भावेन व्यावृत्तापेक्षत्वान्न दूरस्थया स्तुत्या कार्यम् । तथाऽभ्र्यादाने रूपादेव प्राप्तत्वान्मन्त्राणां तां चतुर्भिरादत्त इत्यनर्थकं वचनम् । चतुःसंख्यामपि ब्रुवदेतन्मन्त्रगतामेव ब्रूयान्न क्रियागताम् । न ह्यन्यगुणोऽन्यगामी भवति । न च निष्क्रियत्वात्कर्माङ्गत्वेनोपदेष्टुं शक्यते । तेनैवं वाक्यं भदेद्य एते चत्वारस्तैरभ्र्यादानं कुर्यात्ते च प्रागेव वचनाच्चत्वार इत्यानर्थक्यम् । क्रियानङ्गत्वादेव च संख्यायाः समुच्चयशब्दाभावाच्च प्रत्येकं च सामर्थ्याद्विकल्पः प्रसज्यमानो न शक्यो वारयितुम् । अस्मत्पक्षे पुनर्वचनगम्यत्वाददृष्टस्य न चतुर्भ्यः प्रागस्तित्वे प्रमाणमिति युक्तः समुच्चयः । उभयोरपि तावद्रशनयोरश्वगर्दभबन्धनार्थमादानमर्थप्राप्तत्वान्न विधीयते । यदि मन्त्रोऽपि रूपात्प्राप्तोऽनर्थकं वचनम् । परिसंख्येति परेर्वर्जनार्थत्वात्तद्विषया बुद्धिरभिधीयते । साऽपि गर्दभरशनाया आदाने वा स्यान्मन्त्रे वा । उभयथा च त्रिदोषी । विधिपरः सन्न गृह्यत इति स्वार्थं जह्यात् । परस्य च वाक्यस्य गर्दभरशनां नेत्यस्यार्थे कल्पेत । प्राप्तं च रूपादर्थाद्वा मन्त्रमादानं वा बाधेत । अदृष्टार्थत्वे त्वन्धन्यायेन यत्रैव नीयते तत्रैव वर्तिष्यते । यदि चाश्वाभिधानीमिति संबन्धः स्यात्ततः परिसंचक्षीतापि न त्वसावस्ति । कारकाणां क्रियापरिहारेणान्योन्यसंबन्धाभावात् । तेन वाक्यमपि क्रिययैव संबध्नीयात् । एका च सा । प्रकरणापूर्वसंयोगश्चाविशिष्टस्तस्मान्न परिसंख्याप्रयोजनं कथयति । अतो न प्रमाणं बर्हिरित्यादि । तदा हि महाप्रयोगवचनेन सर्वे मन्त्राः केवलप्रधानार्थास्तत्प्रयोगाबहिर्भाववृत्तयो नाङ्गैः संबध्येरन् । पाठक्रमानुरोधात्तु तदाऽपि नैव व्युत्क्रमेण प्रयोगः कर्माण्यनादृत्य सकृदेवानुवाकमध्यायं वा पठित्वाऽनुष्ठीयते ।

अग्निर्मूर्धेति योऽर्थः प्रतीयते स मूर्धाग्निरित्यनेनापीत्यनर्थको नियमः । यस्य त्वदृष्टार्थता तस्य क्रमान्यत्वे तदुच्चारणजन्यादृष्टप्रमाणाभावात्क्रमान्यत्वं न युक्तमिति नियमार्थवत्ता । अय नियतप्रत्यायनाददृष्टं कल्प्येत तदुच्चारणादेवोपपद्यते तदधीनत्वान्नियतप्रतीतेः । यस्तु दृष्टार्थेषु प्रकृतिप्रत्ययसमासेषु नियमो दृश्यते यथेन्द्राग्नी नीलोत्पलं राजपुरुषश्चित्रगुर्निष्कौशाम्ब्रिरिति । युक्तं तत्र विपर्ययेऽपशब्दार्थान्यत्वानर्थक्यप्रसङ्गात् । अजाद्यदन्तविशेषणत्वादिनिमित्तो हि तत्र नियतः पूर्वनिपातः स्मर्यते तेनाग्नीन्द्रावित्यसाधुत्वं पुरुषराज इत्यर्थान्यत्वं कौशाम्बिनिरित्यनर्थकत्वम् । यस्त्वग्नीन्द्राविति क्वचित्प्रयोगः स च्छान्दसोऽग्नेर्वाऽभ्यर्हितत्वस्य विवक्षयेति मन्तव्यम् । तुल्यकक्षार्थप्रतीताविन्द्राग्नीपदमेव व्यवस्थितम् । नन्विहापि क्रमान्यत्वादमन्त्रत्वं स्यात् । तदेवार्थपरत्वे सति तदविनाशे तु किं निमित्तमिति न विद्मः । तेन मन्त्रप्रसिद्धौ वाक्यनियमादित्यपि सूत्रम् । अथ वाऽस्त्वप्रकरणाधीतवाक्यनियमात् । न ह्यर्थाभिधाने ऽन्यदीयस्याऽऽत्मीयस्य च विशेषः ।

अथ वा मन्त्रपौरुषेयवाक्ययोस्तुल्येऽर्थाभिधानसामर्थ्ये मन्त्रवाक्यनियमोऽदृष्टार्थः । अथ वाऽनेकध्यानादिस्मरणोपायप्रसङ्गे वाक्यनियमात् । न हि दृष्टेऽर्थे मन्त्रस्य ध्यानादेर्वा कश्चिद्विशेष इत्यदृष्टार्थता ।

न [जै॰ सू॰ ( ३-८-८ ) ।] ह्यविद्वान्विहितोऽस्तीत्यवश्यं तावदग्नीधाऽऽत्मीयाः पदार्थाः प्रागेव कर्मप्रक्रमादवगन्तव्याः । तत्र प्रैषः पिष्टपेषणन्यायेनार्थं ज्ञापयितुमशक्नुवन्नदृष्टार्थो भवति । अथ स्मारको मन्त्र इत्युच्यते । तदपि नास्ति । ब्राह्मणज्ञानाम्यासपाटवनिमित्तसंस्कारादेव तत्सिद्धेः । संस्काराभिव्यक्तिहेतुरपि पूर्वपदार्थसमाप्तिर्ब्राह्मणमेव वा भविष्यति नार्थो मन्त्रैः । तत्र यदुच्यते संस्कारविशेषो भविष्यतीति नासावदृष्टादन्यः संभवत्यतः पूर्वपक्षापत्तिः । यदि हि प्रतीतोऽप्यर्थो नैव दृष्टं साधयति ततो यत्तद्दूरमपि गत्वाऽवश्यं कल्पनीयं तदुच्चारणादेव वरमिति ।

न चतुःशृङ्गादि किंचित्कर्म तत्संबन्धि वा प्रकृतौ विकृतौ वा विद्यते । यद्यपि च गुणवादेन किंचित्स्यात्तथाऽपि तदनुष्ठानाभावान्न तत्स्मृत्या कार्यम् । न च ज्ञायते क्व प्रदेशे प्रयुज्यतामिति । तत्र मन्त्रपाठक्रमानुरोधेनोच्चारणमापततीति सिद्धः पूर्वः पक्षः । मा मा हिंसीर्मा मा संताप्तमित्यादीनि वेदिहविर्धानादिविषयत्वादचेतनेऽर्थबन्धनादित्यत्राप्युदाहरणम् । इह त्वप्रसक्तायां हिंसायां प्रतिषेधानर्थक्यम् ।

ओषधे त्रायस्व, शृणोत ग्रावाण इति च संबोधनं कार्यनियोगाभिमुख्यकरणार्थम् । न चाचेतनस्याऽऽभिमुख्यं संभवति । न च पशुत्राणे प्रातरनुवाकश्रवणे वा प्रैषेण प्रवृत्तिरुपपद्यत इत्यानर्थक्यमर्थविवक्षायाम् ।

द्युत्वमन्तरिक्षत्वं चादितेरेकानेकत्वं च रुद्रस्य विप्रतिषिद्धम् । न चैष विप्रतिषिद्धोऽर्थः कर्मौपयिकः । कथं वाऽदितिर्देवताऽन्तरिक्षं द्यौर्वा भवेत् । न च स्तुत्यर्थतयाऽपि हेतुद्वयं परिहर्तुं शक्यं ब्राह्मणे हि विधिशेषभूताः स्तुतयोऽर्थवन्त्यो भवन्ति । मन्त्रस्तुतिस्त्वप्रयोजनत्वान्नाऽऽदर्तव्या ।

स्वाध्यायाध्ययनस्य कर्मार्थत्वाद्यत्कर्मण्युपयोक्ष्यते तदभ्यसितव्यं तच्चैवं विद्वांसः सन्तो वृद्धाः शिष्यानक्षरावधारण एव प्रवर्तयन्ति संनिहितेऽप्यर्थे न तद्वचनाभ्यासे । तेनावश्यं तेषामुच्चारणमेवाङ्गत्वेनाभिप्रेतमिति ।

केचित्पदार्था ज्ञानेनाविज्ञेयाः । केषां चित्तु वाक्यार्थ एव न ज्ञायते । न च मन्त्रार्थः सत्तामात्रेणोपकरोति क्रियावेलायामस्मर्यमाण इति यदेकान्तेन शक्ये कर्तुमुच्चारणं तदेव कार्यमित्यवधार्यते ।

अर्थप्रकाशनपक्षे यस्य योऽर्थः स एव तेन प्रकाशयितव्यः । केचिच्चानित्यैरकर्माङ्गभूतैश्चार्थैरर्थवन्तो मन्त्रा लक्ष्यन्ते यथा किं ते कृण्वन्ति कीकटेषु गाव इति । अयं हि दृढेनाध्येतॄणां स्मरणेन विश्वामित्रस्याऽऽर्षं गम्यते । तेन किल कर्मार्थं धनं प्रार्थयमानेनेन्द्रोऽभिहितः । त्रैलोक्याधिपते याः कीकटेषु जनपदेषु गावस्तास्तव किं कुर्वन्ति । ते हि नास्तिकाः किं क्रतुनेति वदन्तो न किंचित्कर्मानुतिष्ठन्ति । अतश्च ता नाऽऽशिरं सोमसंस्कारार्थं दुहते न धर्मं तपन्ति । न धर्मतपने पयोदानेन साधनीभवन्ति । तस्मात्प्रमगन्दस्य कीकटाधिपतेर्यद्वेदो—धनं तदस्माकं नैचाशाखं नगरमाभर । हग्रहोर्भश्छन्दसीति भकारः । अथ वाऽस्मान्प्रति तद्बिभृहि धारय पोषय चेत्येतन्नो मघवन्रन्धया—साधयास्माकमिति । छान्दसं दीर्घत्वम् । यद्येतद्विवक्षितं तथा सत्यादिमदर्थाभिधानाद्वेदस्य कृत्रिमत्वेनाप्रामाण्यं प्रसज्यते । न चान्यो मन्त्रार्थः शक्यते वक्तुमप्रतीतेः । अतोऽर्थसदसद्भावावनादृत्याक्षरोच्चारणं फलवदाश्रयणीयमिति ॥ ३१ ॥

मन्त्रोच्चारणं तावदक्षरग्रहणेन निराकाङ्क्षीकृतं न साक्षात्क्रत्वङ्गत्वं प्रतिपद्यते । अक्षराणां च द्रव्यवदनितिकर्तव्यतात्मकत्वात्प्रकरणेनाग्रहणम् । एवं पदार्थज्ञानस्य वाक्यार्थप्रत्ययेन नैराकाङ्क्ष्यादग्रहणम् । वाक्यार्थप्रत्ययस्त्वकृतार्थः प्रकरणे विपरिवर्तमानः क्रियात्मकत्वात्प्रयोगवचनाकाङ्क्षितः कर्मसमवेतानुष्ठास्यमानार्थरमृतिफलत्वेनेतिकर्तव्यता भवति । तत्रादृष्टकल्पनानिमित्ताभावः । समाम्नानान्यथानुपपत्त्या हि तत्कल्प्येत नोपपन्नेऽर्थवत्त्वे । यद्यपि च तत्कल्पनावसरो भवेत्तथाऽपि कामं वाक्यार्थप्रत्ययादेव न त्वौपयिऽकार्थप्रतीतिनिराकाङ्क्षाद्वाक्यात । अवश्यं च दृष्टादृष्टयोर्विनियुज्यमानस्य प्रमाणमुपन्यसितव्यम् । इह च प्रकरणाददृष्टार्थता लिङ्गाच्च दृष्टार्थता । न च प्रकरणमशक्येऽर्थे विनियोक्तुमर्हतीत्येकान्तेनैतदापतति यच्छक्नुयात्तन्मन्त्रेण कुर्यादिति । न चासावदृष्टं शक्नोतीति लौकिकं वैदिकं वा प्रमाणं विद्यते । तस्मादुभयोर्लिङ्गप्रकरणयोर्दृष्टार्थप्रयोगेणैकवाक्यता । एवं च सति याज्ञिकप्रयोगप्रसिद्धेर्न मूलान्तरकल्पनाक्लेशो भविष्यति । अतः स्वाभाविकमेवार्थप्राधान्यवास्थितम् । नैवमिति । न दृष्टोऽर्थो निर्वृत्त इत्येतावतैव तादर्थ्यमवसीयते । पुरुषार्थानुपयोगेन स्वाध्यायाध्यनविधेरानर्थक्यात् । न च बुद्धशास्त्राविद्यमानवचनाचेतनार्थबन्धनान्मन्त्रार्थोपयोगः । तत्र यदि दूरेऽप्यदृष्टकल्पनातो न मुच्यामहे ततोऽतिक्रमकारणाभावादुच्चारणादेव कल्पनीयम् ।

उभयवादिसिद्धत्वादुच्चारणकर्तव्यतायास्तत्प्रभवत्वाच्चादृष्टकल्पनस्य । तत्रोच्यते यज्ञे यज्ञाङ्गप्रकाशनमेव प्रयोजनमिति । यद्यपि लोकवत्तैर्न संव्यवहारस्तथाऽपि तत्स्वरूपप्रकाशनमात्रमेवानुष्ठातॄणामुपकरिष्यति । अतश्च यावन्मात्रमेवानौपयिकं संबोधनादि कामं तन्न विवक्ष्येत न तु तद्वशेन सर्वमेव त्यक्तव्यं न ह्यैकरूप्यं नाम केनचिन्नियतम् । तस्माद्यथादर्शनाभ्युपगमाद्बर्हिर्देवसदनं दामीत्येवमादीनां तावदविहतमर्थप्राधान्यम् । तां चतुर्भिरादत्त इत्यत्रापि वदामः ॥ ३२ ॥

यद्यपि मन्त्राः प्राप्ताः सामर्थ्येन तथाऽपि चतुःसंख्यामादाने विधास्यति । तत्रारुणैकहायनीन्यायेन परस्परनियमे सति मन्त्रगतचतुःसंख्याविशिष्टमादानं चोदितं समुच्चयादृते कर्तुं न शक्यत इत्यर्थात्समुच्चयफलम् । अथ वा यावल्लिङ्गानुमिताः श्रुतयः प्रतिमन्त्रं कल्पयितुमारभ्यन्ते तावदनेन प्रत्यक्षवचनेन चतुःसंख्याविशिष्टास्ते विहितास्तेनाप्राप्तविधिरेव वचनम् । तत्र तु विनाऽप्येतेन मन्त्रेष्वर्थात्प्राप्तवत्सु तत्परत्वे मन्दं फलमित्यनन्यलभ्यचतुःसंख्यार्थं तस्योपदेशः ॥ ३३ ॥

यावद्धि मन्त्राम्नानमनवगतप्रयोजनं प्रकरणी चाकृतार्थस्तावद्यत्तत्सिद्धयर्थं कल्प्यते तत्सर्वं वैदिकं भवति । नैराकाङ्क्ष्योत्तरकालं तु कल्पितमपि पौरुषेयत्वादप्रमाणं स्यात् ।

न च श्रुतिमकल्पयित्वा लिङ्गादेः स्वातन्त्र्येण प्रामाण्यमिति वक्ष्यते । तदेतदाह । सति च वाक्ये लिङ्गं विनियोजकं तच्चास्य नास्तीति । यदैव हि प्रकरणादनेन यजेत रशनां वा गृह्णीयादिति कल्पयितुमिष्यते तदैवाश्वाभिधानीमित्यनेनापहारो मन्त्रस्य । यदपि नैवं संबन्ध इत्यादत्त इति कथं तर्हीत्यश्वाभिधानामिति । तत्कारकसंबन्धासंभवात्क्रिययैव सह सामान्याभिप्रायेण द्रष्टव्यम् । तस्मान्नाऽऽदानमात्रे विधीयते किं तर्ह्यश्वाभिधानीविशिष्टे । अथ वा फलतः पश्चात्तनकारकसंबन्ध उपन्यस्यते । सर्वथा दर्शशास्त्रता नास्ति । यदि हि यदेव मन्त्रवचनात्प्राप्नुयात्तदेव प्रत्यक्षवचनेनोच्यते ततो वयमुपालभ्येमहि । नन्वेवमप्राप्तविधिरेवायं संजात इति न वक्तव्यं परिसंख्येति । फलेनैवमभिधानाददोषः । सर्वत्र हि परिसंख्याशब्दादेवकाराद्वा विना न श्रुत्या परिसंख्या नियमो वोच्यते विधिरेव त्वेवंजातीयकस्य फलेनैवं व्यपदेशः । कस्तर्हि विधिनियमपरिसंख्यानां भेदः । उच्यते । विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्ते परिसंख्येति कीर्त्यते ॥ विधिरेव हि केनचिद्विशेषेणैवं भिद्यते । तत्र योऽत्यन्तमप्राप्तो न च प्राप्स्यति प्राग्वचनादित्यवगम्यते तत्र नियोगः शुद्ध एव विधिर्यथा व्रीहीन्प्रोक्षतीति । यत्र तु प्राग्वचनात्पाक्षिकी प्राप्तिः संभाव्यते तत्राप्राप्तिपक्षं पूरयन्यो विधिः प्रवर्तते स नियन्तृत्वान्नियम इत्युच्यते यथा व्रीहीनवहन्तीति । तण्डुलनिष्पत्त्यर्थाक्षेपादेव तत्सिद्धेर्न तत्प्राप्तिमात्रं विधेः फलं किं तर्ह्यप्राप्तांशपूरणम् । तदप्राप्तिपक्षे च तण्डुलैरुपायान्तराण्याक्षिप्येरन्, पूरणे तु सति या तेषां निवृत्तिरसावर्थान्न वाक्यात् । न च तद्वारणं नियमः । परिसंख्या हि तथा स्यात् । प्रत्यासन्नां वाऽवहन्तिनियततामुत्सृज्य नान्यनिवृत्तिफलकल्पनावसरः । तत्प्रसक्तिद्वारा त्ववहन्तेरनियतिरासीदिति नियमान्तर्गतैवार्थान्निवृत्तिर्गम्यते । न च प्राप्ते सति विधिरयं प्रवृत्तो येनास्यान्यनिवृत्त्यर्थता कल्प्येत । प्रागेव तु प्रवर्तमानेनार्थस्य प्रापकशक्तिनिरोधादन्याप्राप्तिः कृता सा चार्थलभ्येति न तयैव व्यपदिश्यते । यः पुनः प्राङ्नियोगात्तत्र चान्यत्र च प्राप्नुयादिति संभाव्यते यत्र वा यच्चान्यच्च सा परिसंख्या यथाऽत्रैवोदाहृते यथा च गृहमेधीये पञ्चमे पक्षे । अत्रापि च न प्राप्ते सत्येषा प्रवर्तते प्रापकस्य शास्त्रस्याननुमितत्वात् । कथं तर्हि । यद्येतद्वाक्यं नाभविष्यत्तत एनं प्राप्स्यदिति । सर्वस्य प्रत्यक्षस्य वाक्यस्य नानुमानिकवाक्यप्रतिबन्धमात्रं फलमिष्यते । किं हि तेन पठितेन यस्यान्यतोऽप्यर्थः सिध्यति तदर्थं गर्दभरशनानिवृत्तिः फलं कल्प्यते । तेनैवं कल्प्यते कृत्वाचिन्तान्यायेन यदि नामैवं वाक्यं न भवेत्ततः कीदृशमनुष्ठानं स्यात् । तत्र मन्त्रप्राप्तिस्तावदेकान्तेन सिध्येदश्वाभिधान्यां तद्वदेव तु गर्दभरशनायामपि प्रसज्येत ।

यदा त्वनेन वाक्येन प्रत्यक्षेण नैराकाङ्क्ष्यादविशेषविनियोगसमर्थवाक्यानुमानं निषिद्धं तदा केवलाश्वाभिधानीविषयत्वसिद्धिरित्यपौनरुक्त्यादर्थवद्वाक्यम् ॥ ३४ ॥

यद्यपि प्रदेशान्तरस्थत्वान्मन्त्रविधानं न स्तूयते तथाऽपि प्रथनविधानात्तत्प्ररोचनया च सकलं वाक्यमर्थवत् । तस्य ह्येतदेवोत्पत्तिवाक्यम् । ननु च पुरोडाशान्यथानुपपत्तिप्राप्तत्वात्प्रथनं न विधातव्यम् । नैतन्नियोगतः प्राप्नोति । द्रुततरं हि पिष्टमप्रथितमपि प्रथेत । विधाने तु सति तादृशं कर्तव्यं येन प्रथयितव्यं भवति । एवं चाध्वर्युकर्तृकताऽपि सिध्यति । पठ्यमानं ह्याध्वर्यवसमाख्यां लब्ध्वा कर्तृविशेषं नियच्छति । अर्थप्राप्तं त्वसमाख्यातत्वान्न नियामकं स्यात् । एवमर्थं च यद्यप्येकान्ततोऽर्थात्प्राप्नुयात्तथाऽपि वाक्येनैव प्रापयितव्यम् । तस्मादुपपन्ना प्रथनस्तुतिः । एवमपि यज्ञपतिमेव तत्प्रथयतीत्यनेन स्तुतौ सिद्धायां मन्त्रग्रहणमनर्थकम् । न । मन्त्रस्यैव स्तुत्यर्थमुपादानात्, प्रथनं कर्तव्यं तस्य हि क्रियमाणस्यायं मन्त्रः साधनं भवति । तत्र चोरु ते यज्ञपतिः प्रथतामित्येतान्यक्षराणि प्रयुज्यन्ते तथा सति यज्ञपतिः प्रथितो भवतीति गुणो लभ्यते । किमेतदेवास्य फलमिति नेत्याह । स्तुत्यर्थमेव तद्द्रव्यसंस्कारकर्मस्विति न्यायात् । यद्यप्यत्र करणमन्त्राभिहितत्वात्फलं कल्प्यते तथाऽपि ब्राह्मणे तावत्तत्संकीर्तनमेकान्तेन स्तावकम् । मन्त्रोऽपि तु लिङ्गविनियोज्यो न फलकल्पनायै प्रभवति । करणविभक्तिविनियुक्तानां हि सकलोपयोगान्यथानुपपत्त्या फलसाधनता युक्ता लिङ्गानुमिता पुनः श्रुतिराकाङ्क्षावशेन क्रियाप्रकाशनमात्रविनियोगायैव ज्ञायते । तेनैवंजातीयको मन्त्रोऽपि प्रधानफलसंकीर्तनात्मिका स्तुतिरेवाभ्युपगन्तव्या । कथमसति प्रथन इति कस्यायं प्रश्नः किं विध्युद्देशवर्तिनः पुरोडाशप्रथनस्याथार्थवादगतस्य यज्ञपतिप्रथनस्येति । द्विधाऽपि चायुक्तं पुरोडाशप्रथनं तावद्विधीयमानत्वादेव न प्रष्टव्यम् । न च मन्त्राभिधानात्तस्यास्तित्वं किं तर्हि स्वरूपसद्भावादित्युत्तरमप्यसंबद्धम् । अथ पुनरितरार्थवादन्यायेन कथमरुदतीतिवत्प्रश्नः । तथाऽप्युत्तरमसंबद्धम् । मन्त्रेणाध्वर्युः पुरोडाशमिति पुरोडाशेन संबध्यते न यजमानेन । तस्मादग्रन्थ इति केचित् । उभयथाऽपि त्विदमदुष्टम् । अस्तु तावत्पुरोडाशप्रथने । तत्र हि याज्ञिकानां केषांचिदयं मन्त्रः कृत्वा प्रथनमभिमर्शने प्रयुज्यते सोऽयं स्वसिद्धान्तेन पृच्छति कथमसति—वृत्ते प्रथने प्रयुज्यमानेनानेन प्रथयतीति ।

तत्राभ्युपेत्यवादेनोत्तरं मन्त्राभिधानादिति । यद्यपि प्रथनं प्रथमकृतत्वान्नास्ति मन्त्रेण नु सत्तयोच्यत इत्युपपन्नः शब्दार्थः । अथ वा सर्वप्रयोजकव्यापाराणां प्रयोज्यव्यापारपूर्वकत्वमर्थरूपेण स्थितमिति शब्दैरपि तथैव प्रवर्तितव्यम् । इह च स्तुतिविषयसिद्धयर्थं प्रथयतीत्येतद्विधीयत इत्युक्तम् । तत्राऽऽह नायं विधिः संभवति विषयानुपपत्तेः । प्रयोजकव्यापारो हि प्रतीयमानस्तद्गोचरः स्यात् । स चानुपात्तप्रयोज्यव्यापारत्वान्न प्रतीयते तेन यथा यजेतेत्यनुक्ते याजयतीति नोच्यते तथेह प्रथेतेत्यनुक्ते प्रथयतीति न वाच्यम् । न चेह पुरोडाशः प्रथेत तेन वा प्रथितव्यमित्युपादानमस्ति । तस्मिन्नसति प्रथयतीत्यनुपपन्नम् । तदुपपादयति मन्त्राभिधानादिति प्रतीकगृहीतमन्त्रोपात्तप्रयोज्यव्यापारं हि ब्राह्मणं प्रथयतीति विधत्ते । यश्च प्रथस्वेति ब्रूत इत्यनेन पुरोडाशकर्तृकां क्रियामध्वर्युः प्रेष्यतीत्येतद्दर्शयति । यद्यपि च संभाव्यमानक्रियाणां प्रयोज्यानामनुपादायापि व्यापारं शब्देन प्रयोजकव्यापारः सिध्यतीत्येतदप्युत्तरं संभवति तथाऽपि तूत्तरविभवादुपादानपूर्वकतैवोक्ता । अथ वाऽस्तु यजमानप्रथने कथमसतीति सर्वस्तुतीनां किंचिच्छब्दगतमर्थगतं वाऽऽलम्बनमुक्तम् । तदत्र किंनिबन्धना स्तुतिरिति । तदभिधीयते । मन्त्रोक्तमर्थमाश्रित्य स्तुतिः प्रवर्तिष्यते । मन्त्रेणाध्वर्युः पुरोडाशं ब्रूत इति न पुरोडाशप्रथनोपादानाभिप्रायं किं तर्हि पुरोडाशं ब्रवीति, उरु ते यज्ञपतिः प्रथतामिति । प्रथस्वेत्यपीतिकरणः प्रभृत्यर्थो न शब्दः पदार्थतायै । यश्च प्रथस्वेति ब्रूत इत्यपि तदाद्यर्थ एव । प्रथतामिति ब्रूत इत्यर्थः । यश्चैवं ब्रूते स प्रथयत्यनेनैव । गुणवादात् । अथ वा तदाचष्ट इत्येवं मुख्यमेव प्रथयतीत्यर्थमाश्रित्य प्रथमबुद्धया सिद्धा स्तुतिः ॥ ३५ ॥

अदृष्टार्थोच्चारणवादिनोऽपि तन्नियमादपरमवश्यं कल्पनीयमदृष्टं तन्ममापि प्रत्यायननियमाद्भविष्यतीत्यविरोधः । एतेन मन्त्रत्वादिनियमः प्रत्युक्तः । सत्स्वप्युपायान्तरेषु विशिष्टानुपूर्वीकमन्त्रविशेषाम्नानादुपायान्तरनिवृत्तौ नियमादृष्टमात्रकल्पनया सिद्धमर्थाभिधानम् ॥ ३६ ॥

येयं संप्रैषे अग्नीदग्नीनित्यत्र बुद्धबोधनासंभवादभिधानकर्मगर्हाऽभिहिता साऽप्यनुपालम्भः । स्मरणसंस्कारार्थत्वात् । बुद्धीनां हि क्षणिकत्वात्स्वाध्यायकालोत्पन्नानां न प्रयोगकालं यावदवस्थानं तत्रावश्यं केन चिद्धयानादिनाऽनुसंधाने कर्तव्ये मन्त्रो नियम्यते ।

अथ वा संस्कारत्वादिति । यदि हि बोध एवावतिष्ठते ततोऽनवकाशत्वं भवेदिह तु तदीयसंस्कारमात्रावस्थानात्तदभिव्यक्तिद्वारेणास्ति ज्ञानोत्पत्त्यवसर इति न मन्त्रानर्थक्यम् ॥ ३७ ॥

चत्वारि शृङ्गेति रूपकद्वारेण यागस्तुतिः कर्मकाल उत्साहं करोति । हौत्रे त्वयं विषुवति1 होतुराज्ये विनियुक्तः । तस्य चाऽऽग्नेयत्वादह्नश्चाऽऽदित्यदेवतत्वसंस्तवादादित्यरू पेणाग्निस्तुतिरुपवर्ण्यते । तत्र चत्वारि शृङ्गेति दिवसयामानां ग्रहणम् । त्रयो अस्य पादा इति शीतोष्णवर्षाकालाः । द्वे शीर्षे इत्ययनाभिप्रायम् । सप्त हस्ता इत्यश्वस्तुतिः । त्रिधा बद्ध इति सवनाभिप्रायेण । वृषभ इति वृष्टिहेतुत्वेन स्तुतिः । रोरवीति स्तनयित्नुना । सर्वलोकप्रसिद्धेर्महान्देवो मर्त्यानाविवेशेत्युत्साहकरणोपकारेण सर्वपुरुषहृदयानुप्रवेशात् । एवमनेन मार्गेणास्ति तावद्धर्मसाधनस्मृतिः ॥ ३८ ॥

अदितिर्द्यौरदितिरिति । नात्र द्युत्वादीनि विवक्षितानि किं तर्ह्यदितौ प्रकाशयियितव्यायामविद्यमानविप्रतिषिद्धधर्मोपादानं स्तुत्यर्थम् । गुणवादेन त्वौदुम्बराधिकरणवत्संवादो योजयितव्यः ॥ ३९ ॥

यद्यपि पूर्वपक्षेऽयमभिप्रायो नोपन्यस्तस्तथाऽपि संभवादुपन्यस्यते । यदि हि स्वाध्यायकालेऽर्थवचनमुपयुज्येत ततस्तदाश्रीयेत न त्वेवमस्ति कर्मभिरसंयोगात् । तदनभ्यासस्तु प्रोक्षणादिवत्सौकर्यात् ॥ ४० ॥

यत्तु परं कारणमविज्ञेयत्वमुक्तं तदयुक्तम् । सत एवार्थस्य पुरुषापराधेनाविज्ञानात् । तत्र चार्थप्रकरणसूक्तदेवतार्षनिगमनिरुक्तव्याकरणज्ञानान्यधिगमोपायाः । तेषां ह्येवमर्थमेव परिपालनम् । यथैव च व्याकरणेन नित्यपदान्वाख्याने क्रियमाणे लोपविकारादीनामुपायत्वेनोपादानमव्युत्पन्नाश्च तैरेव पदोत्पादनमिव मन्यन्ते । तथाऽत्र नित्यवाक्यार्थप्रतिपत्तावार्षोपाख्यानमनित्यवदाभासमानमुपायत्वं प्रतिपद्यते । तत्र यथा कश्चिद्व्याचक्षाणः पदतदवयवादीनां चेतनत्वमिवाध्यस्य विशेषबाधादिव्यापारं निरूपयत्येतेनैवमुक्तोऽयमेवं प्रत्याहेति । यथा च पूर्वपक्षोत्तरपक्षवादिनौ व्यवहारार्थं कल्पितावेवमृष्यार्षेयविविषया कल्पना । अथ वा परमार्थेनैवेदमृषिभिस्तथोक्तं न तु स मन्त्रस्तैरेव कृतस्तदानीं वा पुरुषान्तरेष्वसन्नेव तेषामाविर्भूतः । किं तर्हि यथाऽद्यत्वेऽपि कश्चित्प्रकृतार्थविवक्षायां तदर्थं वाक्यमुपादित्समानस्तदर्थसरूपं मन्त्रं श्लोकं वाऽन्यदीयं स्मृत्वा स्ववाक्यस्थाने प्रयुङ्क्ते तत्प्रत्ययेन चान्ये तदर्थमवधारयन्त्येवमिहापि वेदार्थविद्भिस्तद्वासितान्तःकरणैर्मृग्वादिभिरात्मीयव्यवहारेषु श्रुतिसामान्यरूपेण विशिष्टार्थप्रत्यायनार्थं मन्त्राः प्रयुक्तास्तद्बलेन चास्मदादीनां तदनुरूपाऽनित्यार्थप्रतिपत्तिर्मवति । प्रत्ययदृढत्वार्थमेव चाऽऽर्षस्मरणम् । तत्रैवमुपाख्यानं स्मरन्ति । यथा किल भूतांशो नाम कश्चिदृषिर्जरामरणनिराकरणार्थी सृण्येवेत्येवमादिना सूक्तेनाश्चिनौ स्तुतवान् । भूतांशो अश्विनोः काममप्राइति चान्ते संकीर्तनात्तस्याऽऽर्षमाश्विनं सूक्तमिति च द्योतितम् । तत्र सृणिरङ्कुशः सरणसाधनत्वात्तमर्हन्तौ तत्र वा साधू इति सृण्यावर्थात्कुञ्जरौ । आकारश्छन्दसि द्विवचनादेशः । ताविवात्यर्थं जृम्भमाणावष्टाङ्गप्रहरणव्यापृतौ जर्भरी । तुर्फरीतू हिंसन्तौ । नितोशतिर्वधकर्मा तत्कारिणौ नैतोशौ—योद्धारौ ताविव तुर्फरी—त्वरमाणा हिंसकाविति वा । पर्फरीकाशोभायुक्तौ । उदन्यतिः पिपासार्थः, तत्र जातौ, उदन्यजौ प्रावृषिजौ चातकौ जेमना—उदकवन्तौ जेमशब्दात्पामादिविहितो मत्वर्थीयो नप्रत्ययः । तौ यथोदकलाभेन मत्तौ भवतस्तथा यौ मदेरू तौ मे जरायुमरायु जरामरणधर्मकमर्थाच्छरीरमजरममरं च कुरुतमिति वाक्यशेषः । तेनैवं वाक्यार्थो यावङ्कुशचोदिताविव कुञ्जरौ सर्वतो जृम्ममाणौ शत्रूणां निहन्तारौ भवतो हिंस्राविव च हिंसनव्यापृतौ दाक्ष्येण च शोभेते चातकाविव चोदकलाभेन मदात्प्रीयेते तावुभावपि जरामरणयोः कुपिताविवाजरत्वस्यामरत्वस्य वा प्रीतावजरममरं मे शरीरं विधत्तामिति । “अम्यक्सा त” इत्यगस्त्यार्षं तेन किलेन्द्रोऽमरत्वं धनं प्रार्थितस्तथा चोपरितन्यामृचि “त्वं तू न इन्द्र तं रयिं दा” इति श्रूयते । तदेवास्यामृच्यनुषङ्गेण द्रष्टव्यम् । इयं च च्छन्दोमद्वितीयेऽहनि मरुत्वतीये शस्त्रे विनियुक्ता । तत्राम्यगित्यमाशब्दोऽव्ययं साहित्यवाची यतोऽमात्य इति भवति सहाञ्चतीत्यम्यक्सा त इन्द्र, ऋष्टिरायुधविशेषः पाणिक्षेप्यः, अस्मे इति—अस्माकं सनेमि—पुराणम् । अम्वं—तोयं मरुतो जुनन्ति—क्षिपन्ति । अग्निश्चिदित्युपमार्थो हि स्म, अतसे—शुष्कतृणे शुशुक्वान्—दीप्तवान् आप इव द्वीपं दधति प्रयांसि—अन्नाद्यानि । वाक्यार्थे तु प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च पदानां संबन्धः । तत्र सेत्येतदाक्षिप्तो यच्छब्दस्तृतीयपादे कल्प्यते । शुष्कतृणे दीप्तोऽग्निरिव या लक्ष्यते तव सहचारिणी नित्यमृष्टिस्तव वल्लभा सा तावत्त्वत्प्रसादेनास्माकमेव । येऽप्यमी पुराणं जलं वृष्टिरूपेण विक्षिपन्त आप इव द्वीपमन्नाद्यानि धारयन्ति तव प्रियसखास्तेऽप्यस्माकमेव स त्वमेवं साधारणद्रव्यः सन्नमरत्वं न केवलं देहि । एकया प्रतिधाऽपिवदितीन्द्रस्यैव स्तुतिः । एकेन प्रयत्नेनापिबत्साकं—यौगपद्येन, सरांसि—पात्राणि सोमस्य पूर्णानि इन्द्रः काणुका—कामयमानःकामुकशब्दस्य च्छान्दसो वर्णव्यत्ययः । आकारस्तु विभक्त्यादेशः । अथ वा कान्तकानीत्यादयो निरुक्तोक्ताः काणुकाशब्दविकल्पा योजनीयाः । तदेवं सर्वत्र केनचित्प्रकारेणाभियुक्तानामर्थोत्प्रेक्षोपपत्तेः प्रसिद्धतरार्थाभावेऽपि वेदस्य तदभ्युपगमात्सिद्धमर्थवत्त्वम् ॥ ४१ ॥

परं तु श्रुतिसामान्यमात्रमिति । यजमानस्तावत्प्रार्थयिता इन्द्रश्च प्रार्थ्यमानः सर्वदाऽस्ति । कीकटा नाम यद्यपि जनपदास्तथाऽपि नित्याः । अथ वा सर्वलोकस्थाः कृषणाः कीकटाः । प्रमगन्दः—कुसीदवृत्तिः स हि प्रभूततरमागमिष्यतीत्येवं ददाति । नीचाशाखः—षण्ढस्तदीयं धनं नैचाशाखम् । तच्च सर्वमयज्ञाङ्गभूतं तेषां कर्मण्यप्रवृत्तेस्तदस्माकमाहरेति । शेषं गतार्थम् ॥ ४२ ॥

आग्नेय्येत्यग्निना देवतया लिङ्गेन तदभिधानसामर्थ्येन वा य उपदेशः स तदर्थार्हतां मन्त्रस्य द्योतयति । देवतातद्धितो ह्येष स्मर्यते यं चार्थप्राधान्येन मन्त्रः प्रकाशयति सा तस्य देवता नाभिधानमात्रेण । एकदेवत्येऽपि मन्त्रेऽनेकदेवतान्तरपदप्रयोगे सति तद्देवत्यव्यपदेशाभावात् । प्राधान्याभिधानं च नार्थपरत्वेन विनोपपद्यते ॥ ४३ ॥

ऊहदर्शनं न माता वर्घत इति । अर्थे च पुष्ट्यादिवृद्धेः प्रत्यक्षत्वात्प्रतिषेधासंभवादानर्थक्यात्तदङ्गेष्विति शब्दे विज्ञायते । तत्रापि स्थौल्यादिवृद्धयसंभवादधिकार्थवाचित्वेन द्विवचनबहुवचनयोः प्रतिषेधः । स चार्थपरत्वे सर्वपशुविशेषणमात्राद्युपादित्सायां सत्यामवकल्पते । या चान्यपदवृद्धिसद्भावप्रतीतिरियं च2 । यद्यपि मातृप्रभृतीनां पारार्थ्यात्संबन्धिभेदादेव च भेदसिद्धेरनूह्यत्वं सदेवानुवदति तथाऽपि न्यायावगतानूहसंकीर्तनान्न्यायरहितेषूहसंप्रत्ययात्प्रकृतौ विवक्षितार्थता विज्ञायते । अन्यथा तु तददृष्टमविकृतैरेव साध्येत । तथा यद्यप्यन्यदेवत्यः पशुराग्नेय्येवमनोता कार्येत्यूहप्राप्तिदर्शनं, एवमुस्राणां वपानामित्येवमादीनां यथार्थमूहितानामेवाऽऽम्नानमपि विवक्षितार्थं भविष्यति । इतरथा प्राकृतपदत्यागेऽन्यकल्पने चादृष्टद्वयं कल्प्येत ॥ ४४ ॥

विधिरेव च ब्राह्मणाभिधस्तत्र तत्र पर्यायैरवयवान्वाख्याननिर्वचनादिभिश्चार्थप्रकाशनपरत्वं दर्शयति । अर्थानाश्रयणे हि सर्वं तदनर्थकं स्यात् । तस्माद्विवक्षितवचना मन्त्रा इति सिद्धम् ॥ ४५ ॥

इति मन्त्राधिकरणम् ॥ ४ ॥


  1. गवामयनान्तर्गत एकाहो विषुवानिति । ↩︎

  2. अर्थपरत्वेऽवकल्पत इत्यनुषङ्गः । ↩︎