आधारात्मनि विज्ञाते सुखमाधेयबोधनम् ।
तस्यैव तावत् प्रस्तावादथ गौरित्यतोऽब्रवीत् ॥ १ ॥
एवमवस्थिते सिद्धान्तवादी प्रस्नपूर्वकं शब्दार्थयोर्निरूपणं करोति । “अथ
गौरित्यत्र कः शब्दः”—इत्यनन्तरेण शब्दनिरूपणम् ; “अथ गौरित्यस्य शब्दस्य
कोऽर्थः”—इत्यनेन चार्थनिरूपणम् । तत्र सम्बन्धाक्षेपानन्तरं तत्परिहारावसरे
शब्दार्थयोर्निरूपणमसम्बद्ध1माशङ्क्य वार्तिककारः सम्बद्धत्वं दर्शयितुमाह—आधा-
रात्मनी
त्यर्धेन । शब्दार्थसम्बन्धस्य हि शब्दार्थौ सम्बन्धिनावाधारौ . तत्राधार-
निरूपणद्वारेणाधेयनिरूपणमेवेदं द्रष्टव्यमित्यर्थः । तत्रापि शब्दपूर्वकत्वादर्थप्रति-
पत्तेः प्रथमं शब्दाख्यमेव सम्बन्धिनं निरूपयतीत्याह—तस्यैव तावदित्यर्धेन ॥
अत्रानुपासितगुरवश्चोदयन्ति—अथ गौः—इति कस्यायं प्रश्नः ? न तावत् पूर्वपक्षवादिनः, तस्य सम्बन्धाक्षेपानन्तरं तत्प्रश्नानुपपत्तेः । नापि सिद्धान्त- वादिनः ; तस्यापि सम्बन्धाक्षेपानन्तरं तत्प्रतिसमाधानावसरे 2सम्बन्धिप्रश्नानु- पपत्तेः । “गकारौकार” इत्यादि चोत्तरभाष्यं स्वप्रश्नानन्तरमसम्बद्धमेव स्यात् । यदपि वार्तिककारेणोक्तम्—
“आधारात्मनि विज्ञाते सुखमाधेयबोधनम् ।
तस्यैव तावत् प्रस्तावादथ गौरित्यतोऽब्रवीत् ॥” इति
तदपि यदि तावत् पूर्वपक्षवादी, ततोऽनुपपन्नम्, तेनाधारनिरूपणात् पूर्वमाधेयस्य निरूपितत्वात्—“यदि प्रथमश्रुतो न प्रत्याययति”—इत्यादिना । अथ सिद्धान्त- वादी, तर्हि सिद्धान्तवादिप्रश्नोऽयम् ; तत्रेदमनुपपन्नम्—कः स्वयमुत्तरं तेभ्यो दद्यात्—इति पूर्वपक्षवादिप्रश्नोऽयमिति दर्शयिष्यति । अपि च, सिद्धान्तवादि- नोऽपि नित्यत्वेन सम्बन्धिनिरूपणं सम्बन्धनित्यत्वप्रतिपत्तावुपयुज्यते । तत्र स्फोट- निषेधेन वर्णत्रयात्मकत्वेन सम्बन्धिनिरूपणमसम्बद्धम्, स्फोटाख्येऽपि सम्बन्धिनि तन्नित्यत्वाभ्युपगमेन सम्बन्धनित्यत्वोपपत्तेः । तस्मादालूनविशीर्णोऽयं सह 3विवरणेन भाष्यग्रन्थः ॥
प्रत्यक्षेऽपि विसंवादो येषां कः स्वयमुत्तरम् ।
तेभ्यो दद्यादिति ज्ञात्वा वृद्धानां मतमब्रवीत् ॥ २ ॥
अत्र समाधिः—सिद्धान्तवादिन एवायं प्रश्नः 4स हि सम्बन्धाक्षेपानन्तरं स्फोटात्मकसम्बन्धिनिषेधेन वर्णात्मकसंबन्ध्यवधारणरूपः । अथ गौः—इत्यत्र भवतः सम्बन्धी कः 5शब्दोऽभिमतः, यस्यार्थेन सह सम्बन्धाभावं मन्यसे ? यदि वर्णयत्रातिरेकेण स्फोटाख्यः सम्बन्ध्यभ्युपगम्यते, ततस्तस्य वर्णत्रयातिरेकेण विधि- मुख्येन बुद्धावप्रतिभासमानत्वेनाभावादर्शेन सह सम्बन्धो न नित्यो नापि सामयिकः स्यात् । नाप्यर्थप्रतिपत्तिलक्षणकार्यावगतस्य सम्बन्धावगतिः, अप्रतिपन्ने तस्मिन्न- स्याभावेनेतरेतराश्रयप्रसङ्गात् । भावे वा वाक्यस्फोटापेक्षया पदस्फोटस्यासत्यत्वेन सम्बन्धसत्यता न स्यात् । वर्णत्रयात्मके तु सम्बन्धिनि विधिमुखेनावधारिते तस्यार्थेन सह स्वरूपेण सत्यत्वेन च सम्बन्धग्रहणं शक्यम्, वाक्यार्थवत् पदार्थ- योरपि सत्यत्वादित्यभिप्रायः । वक्ष्यति च—
“कार्याणि वाक्यावयवाश्रयाणि
सत्यानि कर्तुं कृत एष यत्नः”—इति ॥
6तस्मात्—“अथ गौः” इति भाष्यं, आधारात्मनि—इति वार्तिकं द्वयमप्युपपन्नम् । “गकारौकारविसर्जनीयाः” इति भाष्यम्; तस्य 7स्वगतत्वेनोपवर्षग्रहणमसम्बद्धमा- शङ्क्य व्याचष्टे—प्रत्यक्षेऽपीति । प्रतीयमाननबाधितकल्पं वर्णत्रयमुत्सृज्य विधिमुखेन कार्यमुखेन वा प्रतिभासमानस्य निष्प्रयोजनस्य स्वप्रक्रिययाभ्युपगमो येषामनोधोपह- तानाम्, कः स्वयमुत्तरं तेभ्यो दद्यादिति 8पर्यालोच्योपवर्षग्रहणं भाष्ये । “ते च श्रोत्रग्रहणाः”—इत्यादि भाष्यम् । तस्यायमर्थः—श्रोत्रग्राह्ये वस्तुनि लोके शब्द- शब्दः प्रयुज्यते । 9गकारादय एव च—गौः—इत्येतस्मिन् विज्ञाने श्रौत्रे वर्णत्रय- विधिमुखेन सम्बन्धिनिरूपणं प्रक्रान्तम्—गौः—इत्येतस्मिन् विज्ञाने श्रौत्रे वर्णत्रय- व्यतिरेकेणार्थान्तरावभासोऽस्ति, उत न—इति । नास्ति—इति सिद्धान्तितम्— “ते च श्रोत्रग्रहणाः”—इति । तीर्थान्तरे तु कार्यमुखेन सम्बन्धिनिरूपणं कृतम्—
तत्रार्थप्रत्ययद्वारं कृतं शब्दनिरूपणम् ।
यैरासतां तु ते तावत् प्रत्यक्षेण ‘निरूप्यते ॥ ३ ॥
प्रत्यक्षं नासमर्थं नस्तेन चार्थेऽवधारिते ।
न हेतुर्बलवानन्यः 10परीक्ष्येत यतस्ततः ॥ ४ ॥
तस्माच्छ्रोत्रपरिच्छिन्नो यद्यर्थं गमयेन्न वा ।
सर्वथा तस्य शब्दत्वं लोकसिद्धं न हीयते ॥ ५ ॥
अथ गौः—इत्येतस्मिन् विज्ञाने श्रौत्रे बहवोऽर्थाः प्रतिभासन्ते ; तत्र कस्तेषा
शब्दः ?—इत्युपक्रम्य—“येनोच्चरितेनार्थप्रत्ययो भवति, स शब्दः”—इत्युप-
संहृतम् । तत्र वार्तिककारः कार्यनिरूपणद्वारेण सम्बन्धिनिरूपणपरित्यागेन
विधिमुखेन यत् सम्बन्धिनिरूपणं कृतं भाष्ये, तत्र कारणमाह—तत्रार्थप्रत्यय-
द्वारमिति
। गौः—इत्येतस्मिन्नक्षजे ज्ञाने वर्णयत्रातिरेकेण यदि तत् प्रकाशत एव,
ततो व्यर्थं कार्यमुखेन तन्निरूपणम् । अथ न प्रकाशते, ततः सम्बन्धग्रहणा-
भावेन कुतस्ततोऽर्थावगतिः ? नापि कार्यमुखेनैवावगतस्य सम्बन्धग्रहणम्, इतरे-
तराश्रयात् ; अवगम्यमानं हि सम्बन्धबलेन तदर्थप्रतिपत्तिलक्षणं कार्यं करोति ।
तस्माद् विधिमुखेनैव गमकनिरूपणं कर्तव्यम् ; यतोऽवगतस्य सम्बन्धग्रहणबलेन
गमकंत्वम्, नान्यथा । कार्यमुखेन तु गमकनिरूपणं कारणचर्चावदुपेक्षणीयम् ।
एवं सत्यपि यदि प्रत्यक्षग्रहणयोग्यः स न भवेत्, ततः कार्यमुखेन कल्प्येतापि । न त्वेतदस्तीत्याह—प्रत्यक्षं नासमर्थं न इति । तत्र यदि-गौः- इत्यक्षजे विज्ञाने वर्णत्रयव्यतिरेकेणार्थान्तरमवभासत एव, ततो व्यर्थं कार्यमुखेन परिकल्पनमित्याह—तेन चार्थ इति त्रिपाद्या ॥
उपसंहरति—तस्मादिति । तस्माच्छ्रोत्रगृहीतस्य गकारादित्रयस्य यद्यर्थ- प्रतिपादकत्वं वक्ष्यमाणेन न्यायेन—“पूर्ववर्णजनितसंस्कारविशिष्टोऽन्त्यो वर्णः”- इत्यनेन, ततः शब्दकृतेयमर्थप्रतिपत्तिर्भविष्यति । अथापि नास्ति, तथापि शब्द- शब्दप्रयोगाद् गकारादित्रयस्यैव शब्दत्वमित्यर्थः ॥
यदि त्वर्थगतौ शक्तिर्न स्यादस्य ततः पुनः ।
वस्त्वन्तरं प्रकल्प्येत विना शब्दप्रसिद्धितः ॥ ६ ॥
अग्न्यादीन् गमयन्तोऽपि शब्दा धूमादयो न हि ।
न 11चाप्रत्यायकत्वात् स्यादेकवर्णेष्वशब्दता ॥ ७ ॥
न च प्रागर्थविज्ञानाच्छ्रोत्रग्राह्ये12ष्वशब्दधीः ।
न चार्थज्ञानतः पश्चादश्रौत्रेष्व13पि शब्दता ॥ ८ ॥
परस्परानपेक्षाश्च 14श्रौत्रबुध्या स्वरूपतः ।
यदि तु वर्णत्रयस्यार्थप्रतिपादकत्वं प्रत्येकं संभूय युगपत् क्रमेण वा नोप- पद्यते वक्ष्यमाणेन न्यायेन—“यद्यर्थप्रत्ययो नोपपद्यते”—इत्यादिना, ततोऽर्थ- प्रतिपत्त्यन्यथानुपपत्त्या अभ्युपगम्यवादेन कल्पना ; न तु तस्य शब्दत्वम्, शब्दशब्दप्रयोगाभावादित्याह—यदि त्वर्थगताविति ॥
अपि च, “येनोच्चरितेनार्थप्रतिपत्तिर्भविष्यति, स शब्द”—इत्यस्य कोऽर्थः ? यदि तावद् गौः—इति श्रौत्रविज्ञानप्रतिभासनिरपेक्षमर्थप्रतिपत्तिहेतु- त्वमेव केवलं स्फोटस्य शब्दत्वे कारणम्, ततो धूमादेरपि शब्दत्वप्रसङ्ग इत्याह —अग्न्यादीनित्यर्धेन । अथ—गौः इत्यस्मिन् विज्ञाने श्रौत्रे बहूनां प्रतिभास- मानानां यस्यार्थप्रतिपत्तिहेतुत्वम्, स शब्द इति, ततः गौः इत्येकस्मिन् पदे एकैकस्य वर्णस्फोटस्य तन्नास्तीति शब्दत्वं न स्यादित्याह—न चाप्रत्यायकत्वमि- त्यर्धेन ॥
तथैकस्यैव पदस्फोटस्य सम्बन्धग्रहणानुरोधेन शब्दत्वमशब्दत्वं च प्राप्नोती- त्याह—न च प्रागार्थविज्ञानादित्यर्धेन । अथ 15श्रौत्रज्ञानप्रतिभासितैव शब्दत्वे कारणम्, नार्थप्रतीतिहेतुत्वम् ; पदस्फोटस्यापि तर्हि 16श्रौत्रविज्ञानप्रतिभासाभावेन सत्यप्यर्थप्रतीतिहेतुत्वे शब्दत्वं स्यादित्याह—न चार्थज्ञानत इत्यर्धेन ॥
कथं पुनरश्रौत्रत्वं पदस्फोटस्येत्याशङ्क्याह—परस्परेति । पूर्वशब्देनात्र कारणत्वेन परपरिकल्पिता गकारपरमाणव उच्यन्ते । परशब्देनापि 17परपरि-
अल्पीयसापि यत्रेन 18शब्द उच्चरिते मतिः ।
यदि वा नैव गृह्णाति वर्णं वा सकलं स्फुटम् ॥ १० ॥
पृथङ् 19नैवोपलभ्यन्ते वर्णस्यावयवाः क्वचित् ।
न च वर्णेष्वनुस्यूता दृश्यन्ते तन्तुवत् पटे ॥ ११ ॥
तेषामनुपलब्धेश्च न ज्ञाता लिङ्गसङ्गतिः ।
नागमस्तत्परश्चास्ति नादृष्टे चोपमा क्वचित् ॥ १२ ॥
कल्पितोऽभिव्यङ्ग्यः स्फोटः गत्वादिकार्यं च गोशब्दावयव्या20ख्यमभिधीयन्ते । एतदुक्तं भवति-गौः—इत्येतस्मिन् विज्ञाने परस्परानपेक्षं पूर्वापरशून्यं गकारादि- त्रयमवभासते—इति । सत्यपि च गोत्वप्रतिपत्तौ परस्परसापेक्षत्वे परपरिकल्पित- गोशब्दावयव्यपेक्षयानपेक्षत्वमुच्यते ; अथवा सम्बन्धग्रहणात् पूर्वमर्थप्रतीत्यभावेऽपि तद्भावेन परस्परानपेक्षत्वमस्त्येव ॥
तत्र पूर्वं 21गकारावयवनिराकरणप्रतिज्ञां तावत् साधयितुमाह—अल्पीय-
सापीति
। सावयवस्य हि 22पटादेः सकलप्रतिपत्त्यप्रतिपत्तिव्यतिरेकेणापि विकल-
प्रतीतिर्दृष्टा । गकारस्य तु नैव ग्रहणम्, सकलस्य वा ग्रहणम् ; न तु पटवत्
विकलस्येत्यर्थः ॥
अपि च, सावयवस्य हि पटादेस्तन्त्वादयोऽनारब्धकार्याश्च प्रतीयन्ते । न तु तथा वर्णावयवानामुपलब्धिरित्याह—पृथङ् नेति । तन्तुवदिति वैधर्म्य- निदर्शनम् ॥
प्रत्यक्षाभावेन संबन्धग्रहणाभावादनुमानस्यापि वर्णावयवग्रहणे वृत्तिर्नास्ती- त्याह-तेषामित्यर्धेन । आगमोऽपि गकारावयवस्य प्रतिपादको नास्तीत्याह— नागमस्तत्परश्चास्ति इति । न चादृष्टस्यादृष्टसदृशस्य वोपमानप्रमेयत्वमित्याह— नादृष्टे चोपमा क्वचिदिति ॥
न चाप्यनुपपत्तिः स्याद् वर्णस्यावयवैर्विना ।
23यथान्त्यावयवानां हि विनाप्यवयवान्तरैः ॥ १३ ॥
प्रत्यक्षेणावबुद्धश्च वर्णोऽवयववर्जितः ।
किं न स्याद् व्योमवच्चात्र लिङ्गं तद्रहिता मतिः ॥ १४ ॥
तद्वच्चास्यैकबुद्धित्वाद् देशभेदेऽप्यभिन्नता ।
ननु भेदमतिर्न स्यात् तवाप्येकत्वधीः कुतः ॥ १५ ॥
सामान्येषु ममैका धीस्तद्व्यक्तिषु च भेदधीः ।
न हीष्टं भेदमात्रं 24मे न स्यादेकत्वधीर्यतः ॥ १६ ॥
अर्थापत्तिरपि गकारावयवग्राहिका नास्तीत्याह—न चापीति । यथा भवदभिमतानां गकारान्त्यावयवानां परमाणुसंज्ञकानां विनाप्यवयवान्तरैरुपपत्तिः, एवं स्थूलस्यापि गकारस्य भविष्यतीत्यर्थः ॥
एवमवयवाभावं प्रतिपाद्येदानीं तत्रैव प्रयोगमाह—प्रत्यक्षेणेति । वर्णोऽव- यववर्जितः किं न स्यादिति प्रतिज्ञा, अवयवप्रतिभासरहिता मतिर्लिङ्गम्, व्योमव- दिति दृष्टान्तः ॥
इदानीं पराभिव्यङ्ग्यगत्वनिराकरणप्रतिज्ञां साधयितुमाह—तद्वदित्यर्धेन । तदनेन प्रयोग उपक्षिप्तः—अस्येति प्रक्रान्तस्य वर्णस्य धर्मित्वेनोपादानम्, देशभेदेऽप्यभिन्नतेति साध्यो धर्मः, एकबुद्धिग्राह्यत्वादिति हेतु, तद्वदिति प्रक्रान्तं व्योम निदर्शनम् । देशादिभेदेन प्रतीयमानस्यापि—स एवायम्—इत्येकबुद्धि- ग्राह्यत्वेन व्योमवदेकत्वं गकारस्येत्यर्थः । नन्वेकत्वे गकारस्य द्रुतमध्यमविलम्बि- तादिभेदेन प्रतिभासो न स्यादिति चोदयति—ननु भेदमतिर्न स्यादिति । तत्र सिद्धान्तवाद्याह—तवाप्येकत्वधीः कुत इति । द्रुतादिभेदेन गकारादिभेदे तवापि—स एवायम्—इति कथमेकत्वप्रत्यय इत्यर्थः ॥
तत्र गत्ववादी स्वाभिप्रायं तावदाह—सामान्येष्विति । यथैव तव शाब- लेयादिषु भेदप्रत्ययेन भेदेऽवगते सामान्यालम्बनोऽयम्—स एवायं गौः—इति
व्यक्तेस्तावन्न सामान्यं भिन्नरूपं प्रतीयते ।
वर्णेष्वन्यत्र शब्दत्वान्नान्यच्चेद् वर्ण एव सः ॥ १७ ॥
स एवेति 25मतेर्नापि सादृश्यं न च तत् क्वचित् ।
26विनावयवसामान्यैर्वर्णेष्ववयवा न च ॥ १८ ॥
प्रत्यक्षविषयत्वाच्च नान्यापोहोऽपि युज्यते ।
वाचकश्चात्र लिङ्गं वा न तदानीं प्रतीयते ॥ १९ ॥
गकारादिपु सामान्यं शब्दत्वं कल्प्यते यथा ।
प्रत्ययः, तथा भमापि द्रुतादिभेदेन गकारव्यक्तिभेदे सति 27सामान्यगत्वालम्बनोऽ यं—स एवायं गकारः—इति प्रत्ययोऽपि भविष्यति इति गोत्ववद् गत्वप्रसिद्धि- विशेषोऽवधार्यतामित्यर्थः ॥
एवमवस्थिते सिद्धान्तवादी गोत्वेन सह गत्वस्य विशेषमाह—व्यक्तेरिति ।
द्रुतादिभेदेन गकारव्यक्तिभेदेऽवस्थिते गत्वपरिकल्पनं जातिरूपं वा स्यात् सादृश्यरूपमपोहरूपं वा ? तत्र शब्दत्वव्यतिरेकेण वर्णेषु जातिरूपमवान्तर- सामान्यं गत्वं तत्त्वान्यत्वेन विकल्प्य निराकर्तव्यम्, अन्यस्याग्रहणात् ; अनन्यत्वे वा तत्राभावप्रसङ्गात् । नापि सादृश्यरूपं गत्वम्, द्रुतादिभेदेषु—स एवायम्— इति तत्त्वप्रत्ययादित्याह—स एवेति /?/मतेर्नापि सादृश्यमिति । अपि च गकारावयवानामभावेन भूयोऽवयवसामान्ययोगलक्षणस्य सादृश्यस्यासद्भाव इत्याह— न चेत्यादि सशेषार्धेन ॥
नाप्यपोहरूपम्, द्रुतादिभेदेषु—स एवायं गकारः—इति श्रौत्रे विज्ञाने कथमवभासविषयतेत्याह—प्रत्यक्षविषयत्वादित्यर्धेन । प्रतीत्यभावेन च सम्बन्ध- ग्रहणाभावाद् वाचकलिङ्गयोर्द्वयोरप्यभाव इत्याह—वाचक इति ॥
एवमवस्थिते गत्ववाद्याह—गकारादिष्विति । तस्यायमभिप्रायः-यथैव गकारौकारादिषु शाबलेयादिषु च भेदप्रत्ययाद् भिन्ना व्यक्तयोऽभेदप्रत्ययाच्चाभिन्नं
शाबलेयगकारादीन् निष्पन्नान् व्यक्तिरूपतः ।
28साम्यधीर्न हि गृह्णातीत्यतो जातिरपीष्यते ॥ २१ ॥
न तु 29द्रुतादिभेदेन निष्पन्ना संप्रतीयते ।
गव्यक्त्यन्तरविच्छिन्ना गव्यक्तिरपरा स्फुटा ॥ २२ ॥
तेनैकत्वेन वर्णस्य बुद्धिरेकोपजायते ।
विशेषबुद्धिसद्भावो भवेद् व्यञ्जकभेदतः ॥ २३ ॥
यथैव तत्र गत्वादि गम्यमानं द्रुतादिभिः ।
विशेषैरपि नानेकमेवं वर्णोऽपि नो भवेत् ॥ २४ ॥
त्वयापि व्यञ्जकव्यक्तिभेदाद् भेदोऽभ्युपेयते ।
ममापि व्यञ्चकैर्नादैर्भेदबुद्धिर्भविष्यति ॥ २५ ॥
सामान्यं शब्दत्वं गोत्वं च, तथात्रापि द्रुतादिभेदेन भेदप्रत्ययाद्भिन्ना व्यक्तयः— स एवायम्—इत्यभेदप्रत्ययाच्चा30भिन्नं सामान्यं गत्वं च भविष्यति ॥
तत्र सिद्धान्तवादी गोत्वेन शब्दत्वेन च सह गत्वस्य वैषम्यमाह— शाबलेयेति । युक्तं शाबलेयादिषु भेदाभेदप्रत्ययात् सामान्यविशेषत्वम् ; न हि शाबलेयबाहुलेययोः गकारौकारयोश्च भेदप्रत्ययस्याभिव्यञ्जकालम्बनत्वम्, अभि- व्यञ्जकप्रतिपाद्यैक्येऽपि भेदप्रत्ययेन धर्मिभेदात् । भिन्नेषु चैकप्रत्ययस्य जाति- साधकत्वादित्यर्थः ॥
द्रुतादौ तु भेदप्रत्ययस्याभिव्यञ्जकाभेदादेकत्वप्रत्यभिज्ञानादेकैव गकार- व्यक्तिः शाबलेयादिष्विव गोत्वमित्याह—न त्विति ।
उपसंहरति—तेनैकत्वेनेति ॥
अत्रैव दृष्टान्तमाह—यथैव तवेति ॥
एतदेव विवृणोति—त्वयापीति ॥
तेन यत् प्रार्थ्यते 31जातेस्तद्वर्णादेव लभ्यते ।
व्यक्तिलभ्यं च नादेभ्य इति गत्वादिधीर्वृथा ॥ २६ ॥
कल्पयित्वापि तत् पश्चाद् विभुत्वैकत्वनित्यताः ।
प्रत्येकवृत्तिता चास्य भवेयुर्महतः श्रमात् ॥ २७ ॥
द्वयसिद्धस्तु वर्णात्मा नित्यत्वादि यथैव च ।
कल्पितस्येष्यते तद्वत् सिद्धस्यैवाभ्युपेयताम् ॥ २८ ॥
प्रत्येकसमवाये च क्लेशो नैव भविष्यति ।
व्यञ्जनेषु च धीभेदो नैव 32कामं प्रवर्तते ॥ २९ ॥
दृश्यतेऽजनुरागेण भेदो यो नाम तत्र नः ।
विवेकोऽस्त्येव न ह्येष केवलानां प्रतीयते ॥ ३० ॥
गत्वकार्यस्याभेदप्रत्ययस्य वर्णसिद्धत्वाद् भेदप्रत्ययस्य व्यक्तिकार्यस्य नाद- सिद्धत्वेन सामान्यविशेषकल्पनं निष्प्रमाणकमित्याह—तेन यत् प्रार्थ्यत इति ॥
अनेकत्वेन वर्णस्य गत्वादिपरिकल्पनायां च विभुत्वादिचतुष्टयपरिकल्पना- गौरवमित्याह—कल्पयित्वापीति ॥
मीमांसकपक्षेऽपि विभुत्वादिचतुष्टयपरिकल्पनादाविशेष इति चेदित्या– शङ्क्याह—द्वयसिद्ध इति । उभयवादिसिद्धे धर्मिणि नित्यत्वादिधर्ममात्रस्यैव परिकल्पनाद्विशेष इत्यर्थः ॥
प्रत्येकसमवेतकल्पना चास्मत्पक्षे न भविष्यति, वर्णस्य स्वप्रतिष्ठितत्वेन
क्वचिदप्यसमवायात् ; आकाशसमवेतत्वे वा तस्यैकत्वादित्याह—प्रत्येकसमवाय
इत्यर्धेन । अपि च, व्यञ्जनाख्येषु वर्णेषु—अग्निचित्—इत्येवमादौ द्रुतादि-
भेदेऽपि न तकारस्य भेदः प्रतीयते । यस्तु 33क्वचिदजनुरागेण भेदप्रत्ययः, स
केवलानामभावेनान्वयव्यतिरेकाभ्यामौपाधिक इति प्रतिपत्तव्यमित्याह—व्यञ्ज
नेष्विति
सार्धेन ॥
अक्ष्वप्येवं परोपाधिर्द्रुतादिप्रत्ययो 34भवेत् ।
वर्णाश्रितत्वाद् वर्णत्वव्यञ्जनप्रत्ययो यथा ॥ ३१ ॥
गकारोऽत्यन्तनिष्कृगत्वाधारो न गम्यते ।
गान्यबुध्यनिरूप्यत्वात् 35परकल्पितगत्ववत् ॥ ३२ ॥
अवस्तुत्वेन साध्यत्वान्निषेधाद्धेतुसाध्ययोः ।
सपक्षेऽन्यतरासिद्धिर्न दोषायात्र जायते ॥ ३३ ॥
वर्णत्वाच्चापि साध्योऽयं यकारादिवदेव च ।
व्यतिरेकस्य चादृष्टेर्नात्र दृष्टं 36निवर्तते ॥ ३४ ॥
एवं व्यञ्जनेषु भेदप्रत्ययस्यौपाधिकत्वं प्रतिपाद्येदानीमन्येष्वपि भेदप्रत्य- यस्यानुमानेनौपाधिकत्वं प्रतिपादयितुमाह—अक्ष्विति । द्रुतादिप्रत्यय इति धर्मि- निर्देशः, अक्ष्वपीति धर्मिविशेषणम्, परोपाधिरिति साध्यो धर्मः, वर्णाश्रितत्वादिति हेतुः, वर्णत्वव्यञ्जनप्रत्ययवदिति दृष्टान्तद्वयम् ॥
एवं भेदप्रत्ययस्य नानालम्बनत्वेनाभेदप्रत्ययस्य च गकारस्वरूपाश्रितत्वेन सिद्धमेकत्वं गकारस्य । अत्रैव प्रयोगमाह—गकारोऽत्यन्तेति । गकारो धर्मी, गत्वाधारो न भवतीति साध्यो धर्मः, अत्यन्तनिष्कृष्ट इति धर्मिविशेषणम्, गान्यस्तम्भादिबुध्यनिरूप्यत्वादिति हेतुः, परकल्पितगत्ववदिति दृष्टान्तः ॥
ननु सपक्षधर्मिणः गत्वस्य, बाद्यसिद्धत्वेन अभावात् सपक्षे हेतोः सत्त्व-
प्रदर्शनमशक्यम् । यत्र तु साध्याभावेन हेतोरभावः कथ्यते, तत्र तदभावेऽपि न
दोषः यथा नित्यत्वाभावे कृतकत्वाभावः शशविषाणादावित्याशङ्क्याह—अवस्तु-
त्वेनेति
। भावरूपयोरभावे भावो न स्यात् ; अत्र तु 37सपक्षेऽभावरूपेऽपि
निषेधरूपत्वेन न भवत्यनिरूप्यत्वयोः सद्भावाददोष इत्यर्थः ॥
तस्मिन्नेव साध्ये हेतुदृष्टान्तान्तरमाह—वर्णत्वाच्चापीत्यर्धेन । न च गत्वनिराकरणपरस्यानुमानस्य प्रत्यक्षबाधः, अभेदप्रत्ययस्य गकारालम्बनत्वेन व्यक्तिव्यतिरेकेण गत्वस्यादर्शनादित्याह—व्यतिरेकस्य चादृष्टेरिति ॥
गोत्वादिवारणेऽ38प्येवं दृष्टबाधः स्फुटो भवेत् ।
नान्यथा हि मतिस्तत्र स्यात् सामान्यविशेषयोः ॥ ३५ ॥
न चाप्यत्रैकवस्तुत्वे भेदो व्यञ्जकभेदतः ।
न पिण्डव्यतिरेकेण व्यञ्जकोऽत्र ध्वनिर्यथा ॥ ३६ ॥
पिण्डव्यङ्ग्यैव गोत्वादि39र्नित्यं जातिः 40प्रतीयते ।
तेन भिन्नेषु पिण्डेषु जातिरेकाभ्युपेयताम् ॥ ३७ ॥
ननु यस्य द्वयं श्रौत्रं तस्य बुद्धिद्वयं भवेत् ।
भवतोऽतीन्द्रियत्वात् 41तु कथं नादैर्विशेषधीः ॥ ३८ ॥
शाबलेयप्त्य तु द्रव्यत्वेन गोत्वाधारवारणे प्रत्यक्षेण भेदाभेददर्शनाद्बाध इत्याह—गोत्वादिवारण इत्यर्धेन । यस्मात्तत्र तत्र भेदाभेदप्रत्ययौ सामान्य- विशेषमन्तरेण न भवत इत्याह—नेत्यर्धेन ।
ननु शाबलेयावपि श्रुतादिप्रत्ययवद्भेदप्रत्ययस्य व्यञ्जकालम्बनत्वेनाभेद-
प्रत्ययस्यापि पिण्डालम्बनत्वेन गोत्वाभावेन कुतो दृष्टबाध इत्याशङ्क्याह—न
चापीति
। पिण्डव्यतिरेकेण 42द्रुतादिव्यञ्जकाभावादित्यर्थः ॥
शाबलेयादय एव तु भिन्नाभिन्नत्वस्य गोत्वस्य व्यञ्चका इत्याह—पिण्ड-
व्यङ्ग्यैवे
त्यर्धेन । उपसंहरति—तेन भिन्नेषु पिण्डेष्वित्यर्धेन ॥
तस्माद्यथा भिन्नेषु शाबलेयादिषु प्रत्यभिज्ञानाद् गोत्वमेकम्, एवं द्रुतादि- भेदेऽपि प्रत्यभिज्ञानात् गव्यक्तिरेका भविष्यतीति सिद्धम् । अभेदप्रत्ययस्य वर्णा- लम्बनत्वं गृह्णीमः; द्रुतादिभेदेन तु भेदप्रत्ययस्य तद्भावभावित्वेन श्रौत्रत्वे सति नित्यानुमेयत्वादालम्बनत्वं कथमिति चोदयति—ननु यस्य द्वयं श्रौत्रमिति ॥
नादेन संस्कृताच्छ्रोत्राद् यदा शब्दः प्रतीयते ।
तदुपश्लेषतस्तस्य बोधं केचित् प्रचक्षते ॥ ३९ ॥
नैव वा ग्रहणं तेषां शब्दे बुद्धिस्तु तद्वशात् ।
संस्का43रानुकृतेः सोऽपि महत्वाद्यवबुध्यते ॥ ४० ॥
मधुरं तिक्तरूपेण श्वेतं पीततया तथा ।
गृह्णन्ति पित्तदोषेण विषयं भ्रान्तचेतसः ॥ ४१ ॥
तथा वेगेन धावन्तो नाव्यारूढाश्च गच्छतः ।
पर्वतादीन् विजानन्ति भ्रमेण भ्रमतश्च तान् ॥ ४२ ॥
मण्डूकवसयाक्ताक्षा वंशानुरगबुद्धिभिः ।
व्यक्त्यल्पत्वमहत्त्वाभ्यां सामान्यं च तदाश्रयम् ॥ ४३ ॥
गृह्णन्ति यद्वदेतानि निमित्तग्रहणाद् विना ।
व्यञ्जक44त्वमबुध्वैवं व्यङ्ग्ये भ्रान्तिर्भविष्यति ॥ ४४ ॥
तत्र परिहारमाह—नादेनेति ॥
द्रुतादिसंस्कृतश्रोत्रेन्द्रियः पुरुषस्तानपि वर्णमिश्राञ्छ्रोत्रेणैव गृह्णातीति परि- हारान्तरमाह—नैवेति । द्रुतादिसंस्कृतं श्रोत्रेन्द्रियमभिन्नेऽपि गकारादौ संस्कारानु- कारेण भेदप्रत्ययं जनयति । तत्रैव दृष्टान्तमाह—सोऽपि महत्त्वादीति । यथा संस्कारानुकारेण महत्वं सूक्ष्मत्वं च शब्दे गृह्णाति ॥
अत्रैव दृष्टान्तद्वयमाह—मधुरं तिक्तरूपेणेति चतुष्टयेन । यथा पित्तदोष- संस्कृतमिन्द्रियं मधुरं तिक्तरूपतया, श्वेतं पीततया गृह्णाति, एवं धर्मिणि गतान् द्रुतादीन् गृह्णदेव तथा शब्दं प्रतिपद्यत इत्यर्थः । निमित्तग्रहणाद्विनेति च यथा- संभवं योज्यम् । एवं ह्रस्वदीर्घप्लुतादिष्वपि प्रत्ययद्वयं विवेक्तव्यम् । केचित्तु दीर्घा- दिष्वभेदप्रत्ययवद् भेदप्रत्ययस्यापि वर्णालम्बनत्वमिच्छन्ति ; न हि द्रुतादिप्रत्यय- वन्नाददोषाद्दीर्घह्रस्वप्लुतादिषु भेदप्रत्ययः । तत्र प्रयोगशब्देन प्रत्ययमाह, नान्तरीय-
वर्णान्तरत्वमेवाहुः केचिद्दीर्घप्लुतादिषु ।
न हि द्रुतादिवत्तत्र प्रयोगो नान्तरीयकः ॥ ४५ ॥
45तथा सति च सामान्यं त्रिष्वत्वं कैश्चिदिष्यते ।
सामान्यकल्पना त्वन्यैर्न युक्तेत्यभिधीयते ॥ ४६ ॥
अत्वमित्युच्यमानं हि न दीर्घप्लुतयोर्भवेत् ।
आत्वं न ह्रस्वप्लुतयो46स्त्रिमात्रं न च पूर्वयोः ॥ ४७ ॥
47सर्वसाधारणत्वेन तद्विज्ञातुं न शक्यते ।
प्रत्येकं शाबलेयादिरूपे गोत्वं यथा स्फुटम् ॥ ४८ ॥
अवर्णकुलशब्दोऽपि स्थानसाम्याद् वनादिवत् ।
48समुदायात्मवाचीति न जातिवचनो भवेत् ॥ ४९ ॥
स्वतो हस्वादिभेदस्तु नित्यवादे विरुध्यते ।
सर्वदा यस्य सद्भावः स कथं मात्रिकः स्वयम् ॥ ५० ॥
शब्देनाप्युपाधिवचनम् । ह्नस्वादिभेदेन च भिन्नास्वकारव्यक्तिष्वत्वं सामान्य- मिच्छन्त्यवर्णकुलशब्दाभिधेयमित्याह—वर्णान्तरत्वमित्यादिना सार्धेन श्लोकेन ।
तत्र दूषणमाह—सामान्येत्यादिना सार्धेन श्लोकद्वयेन । यथा हि शावले- यादौ गोत्वं साधारणम्, एवं प्लुतादिषु सामान्यकल्पनमयुक्तमिति, अस्य दीर्घा- दिष्वभावात् दीर्घस्य ह्रखाप्लुतयोः त्रिमात्रस्यापि पूर्वयोरित्यर्थः ॥
अवर्णकुलशब्दोऽपि दीर्घाद्युपाधिभेदेन भिन्नत्वाद्वनादिशब्दवदेकस्याना- वच्छिन्नस्य 49समुदायमाह, न जातिमिति दर्शयति—अवर्णेति ॥
स्वाभाविके तु ह्रस्वादिभेदे नित्यताप्याकारस्य भवदभिमता न स्यादित्याह स्वतो ह्रस्वादिभेदस्त्वित्यर्धेन ।
तस्मादुच्चारणं 50तेषां मात्राकालं 51प्रतीयताम् ।
द्विमात्रं वा त्रिमात्रं वा 52तव नो मात्रिकः स्वयम् ॥ ५१ ॥
दीर्घादेर्न त्वनङ्गत्वं वाचकाधर्मतो भवेत् ।
इत्थं प्रतीयमानाः स्युर्वर्णा 53नः प्रतिपादकाः ॥ ५२ ॥
यादृशात् पूर्वदृष्टोऽसावर्थो गम्येत तादृशात् ।
भ्रान्त्या कथं प्रतीतिश्चेन्नासावर्थमितिं प्रति ॥ ५३ ॥
यथाश्वादिजवः पुंसां 54कार्यान्यत्वं प्रकल्पयेत् ।
परधर्मोऽपि वर्णानां 55ध्वनिधर्मस्तथैव नः ॥ ५४ ॥
ननु दीर्घाद्यनित्यत्वादनित्यो वाचको भवेत् ।
आनुपूर्वीव56देतस्य परिहारो भविष्यति ॥ ५५ ॥
उतसंहरति—तस्मादुच्चारणमिति ।
ननु ध्वनिधर्मत्वेन दीर्घादेरर्थप्रतिपत्तावनङ्गत्वप्रसङ्गः । ततश्च गमनाग- मनादिष्वर्थभेदो न स्यादिति चोदयति—दीर्घादेरित्यर्धेन ।
तत्र परिहारमाह—इत्थमिति । वर्णस्यैव ध्वनिगतदीर्घादिविशिष्टस्यार्थ-
प्रतिपादकत्वम्, तथा सम्बन्धग्रहणादित्यर्थः । ननु ध्वनिगतदीर्घादिविशिष्टतया
भ्रान्तस्य वर्णस्य कथमर्थप्रतिपत्तावुपायत्वमिति चोदयति—भ्रान्त्या कथं प्रतीति-
श्चेदिति
। तत्र परिहारमाह—नासावर्थमितिं प्रतीति । वर्णस्वरूप एव हि सा
भ्रान्तिः, अतस्मिंस्तद्ग्रहणात् । सम्बन्धग्रहणवशेन तु अर्थप्रतिपत्तावुपायत्वेन
यद्यथावृत्तम्, तत्तथेत्यर्थः । तदुक्तम्—यावन्तो यादृशा—इति ॥
अन्यत्र चान्यधर्मस्य कार्यकरत्वं दृष्टमित्याह—यथाश्वादीति ॥
ननु वर्णात्मकेऽपि सम्बन्धिनि दीर्घादिविशिष्टस्य तस्य नित्यत्वेन कथमाधे- यस्य नित्यतेत्याह—नन्वित्यर्धेन । तत्राह—आनुपूर्वीवदिति । तत्त्वान्तरप्रति-
तथोदात्तादिभेदानां संम्काग्वशगा मतिः ।
तेषां दीर्घादिवद् भेदो न कदाचित् प्रतीयते ॥ ५६ ॥
तत्रैकवर्णरूपत्वे भेदोऽपि स्याद् द्रुतादिवत् ।
नात्र वर्णान्तर57व्यक्तिशक्तध्वन्यन्तरोद्भवः ॥ ५७ ॥
त एव मृदुतीव्रत्वशीघ्रत्वादिसमन्विताः ।
अभेदे चापि वर्णस्य 58ध्वनिना द्विप्रकारता ॥ ५८ ॥
केचित् स्वरूपबोधार्थाः केचिद् बोधानुवर्तिनः ।
युगपत् क्रमरूपेण 59संस्कारोत्पादनेन वा ॥ ५९ ॥
तत्र दीर्घादिबोधः स्यात् 60सर्वेषां प्रचयो यदा ।
षेधेन वर्णात्मकसम्बन्धिनिरूपणं सम्बन्धसद्भावनिरूपणसिध्यर्थम् । अत्र नित्यत्वेन तु सम्बन्धिनिरूपणं संबन्धनित्यत्वसिध्यै भविष्यतीत्यर्थः ॥
उदात्तादिभेदेनापि भेदप्रत्ययस्य संस्कारानुसारेण भ्रान्ततामतिदिशति— तथोदात्तादीति । यो ह्युदात्तादिभेदेन भेदप्रत्ययः, सोऽपि दीर्घादिवदौपाधिकः ; न कदाचित् स्वत इत्यर्थः ॥
एतदेव विवृणोति—तत्रैकवर्णरूपत्व इति सार्धेन । प्रत्यभिज्ञानबलेनै- कत्वे प्रतिपादिते सत्युदात्तादिभेदोऽपि द्रुतादिवदौपाधिकः ; ध्वनय एव तत्र मृदुतीव्रशीघ्रत्वादिसम्बन्धिन उदात्तादिभेदेन प्रत्ययं जनयन्ति ; अभिव्यङ्ग्यग- कारस्वरूपं तु तदेवेत्यर्थः ।
एवं प्रत्यभिज्ञाबलेन गकारादेर्वर्णस्य वृत्तित्रयेऽप्येकत्वं प्रतिपाद्येदानीं शिष्टागमबलेन प्रसङ्गाद् वृत्तित्रयस्योत्पत्तिं दर्शयितुमाह—अभेदे चापि वर्णस्ये- त्यादिना सार्धेन श्लोकेन ॥
द्विप्रकारा हि ध्वनयः—वर्णस्वरूपबोधार्थाः बोधानुवर्तिनश्चेति । ते च युगपत् क्रमेण वा श्रोत्रस्य संस्कारकाः । तत्र यदा दीर्घत्ववशेन वर्णस्वरूप- बोधार्थानां प्रचयो भवति, तदा दीर्घादिबोधो भवतीत्याह—तत्र दीर्घादिबोधः
युगपत् प्रचितैस्तैश्च स्यादुदात्तादिकल्पना ।
प्रचये 61तूत्तरेषां स्याद् वृत्तिभेदो द्रुतादिकः ॥ ६१ ॥
वर्णात्मन्यवबुद्धे हि तद्रूपामेव ते मतिम् ।
शनैरुत्पादयन्तीति नान्यो वर्णः प्रतीयते ॥ ६२ ॥
व्यक्त्याकृतिकृतो भेदो यद्यप्येकान्ततो भवेत् ।
वर्णेषु जैमिनेः पक्षस्तथापि न 62विरोत्स्यते ॥ ६३ ॥
नित्यत्वयत्नः सर्वोऽपि गत्वादिषु भविष्यति ।
गकारादिवचश्चैतत् तेष्वेव न विरोत्स्यते ॥ ६४ ॥
स्यादित्यर्धेन । तेन च ध्वनयो वर्णस्वरूपपर्यवसिताः स्वात्मानुकारेण भ्रान्तिं जनयन्तीति वर्णस्वरूपबोधार्था इष्यन्त इत्याह—[^3_pg457]वर्णात्मैव हीत्यर्धेन ।
यदा त्वभिघातवशेन वर्णस्वरूपबोधार्थानां बोधानुवर्तिनां च युगपत् प्रचयो भवति, तदोदात्तादिबोधो भवतीत्याह—युगपदित्यर्धेन । बोधानुवर्तिनां तु प्रचये द्रुतादिबोधो भवतीत्याह—प्रचये त्वित्यर्धेन ॥
ते च वर्णस्वरूपवदर्थेऽपि संस्कारान्तरेण भ्रान्तिमुपवर्णयन्तीति वर्णबोधानु- वर्तिन इष्यन्त इत्याह—वर्णात्मनीति त्रिपाद्या । तस्मात् प्रत्यभिज्ञानबलेन वृत्ति- त्रयेऽपि नान्यो वर्णः प्रतीयत इत्युपसंहरति—नान्यो वर्णः प्रतीयत इति ॥
एवं तावद् वास्तवमभेदं प्रतिपाद्येदानीमभ्युपगम्यापि गकारादेः सामान्य- विशेषवत्त्वं स्वदर्शनहानिर्नास्तीत्याह—व्यक्त्याकृतिकृत इति ॥
यथा स्वदर्शनहानिर्नास्ति, तथा दर्शयतीत्याह—नित्यत्वयत्न इत्यर्धेन । “गकारौकारविसर्जनीयाः”—इत्यादि भाष्यवचनं गत्वादिषु भविष्यतीत्यविरोध एवेत्याह—गकारादिवचश्चेत्यर्धेन ॥
विच्छिन्नयत्नव्यङ्ग्यैश्च नित्यैः सर्वगतैरपि ।
व्यतिरिक्तपदारम्भो वर्णैर्नात्रो63पलभ्यते ॥ ६५ ॥
अनारब्धे च गोशब्दे गोशब्दत्वं कथं भवेत् ।
वर्णसामान्यवच्चापि न तत्कल्पनमर्ह्वति ॥ ६६ ॥
वर्णात्मनामभेदाच्च सिद्धा सामान्यधीरपि ।
समुदायोऽपि तेभ्योऽन्यो वारणीयोऽनया दिशा ॥ ६७ ॥
ननु गकाराद्यारब्धो गोशब्दः, तस्यैव गोशब्दत्वोपलक्षितस्य सम्बन्धग्रह- णादर्थप्रतिपादकत्वम् । अतः कथमिदं भाष्यम्—“गकारौकारविसर्जनीयाः”— इतीत्याशङ्क्याह—विच्छिन्नयत्नेति । न तावद् वर्णत्रयस्य युगपदेकगोशब्दा- रम्भकत्वम्, विच्छिन्नप्रयत्नाभिव्यङ्ग्यत्वेन संवित्तौ यौगपद्याभावात् । नापि वास्तवेन यौगपद्येन वर्णस्यैकगोशब्दारम्भकत्वम्, नित्यत्वेन सर्वगतत्वेन सर्वदा सर्वत्रार- म्भकत्वप्रसङ्गात् । नापि क्रमेण, एकैकवर्णप्रतिपत्तिकाले तद्व्यतिरिक्तस्यानु- पलम्भात् । उक्तेन प्रकारेणानारब्धे च गोशब्दावयविनि गकारादिषु गोशब्दत्वं कथं भवेत् ? न प्रत्येकम्, एकैकस्य गोशब्दत्वेन गोत्वप्रतिपादकत्वप्रसङ्गात् । नापि व्यासज्य, युगुपद्वर्णद्वयोपलब्धौ तद्बुद्धिः स्यात्, विच्छिन्नयत्नव्यङ्ग्यत्वेन च तदभावात् ; अप्रतिपन्नस्य चार्थप्रतिपादकत्वाभावादित्यर्थः ।…. …. …. 64गत्ववच्च गोशब्दत्वं निराकर्तव्यम्—स एवायं गोशब्दः—इत्यभिन्नवर्णालम्बनत्वेनेत्याह— वर्णसामान्यवच्चापीति ।
वर्णत्रयसमुदायोऽपि तत्त्वान्यत्वाभ्यां विकल्प्य 65निराकर्तव्य इत्याह— समुदायोऽपीति । वर्णत्रयव्यतिरेकेण समुदायस्याप्रतिभासात् । अभिन्नस्य तु धर्म- भूतस्य भावेऽपि दोषाभावादित्यर्थः ।
“यद्येवमर्थप्रत्ययो नोपपद्यते”—इत्यादि पूर्वपक्षभाष्यम् । तस्यायमभि- प्रायः—ननु वर्णत्रयात्मकेऽपि सम्बन्धिनि शब्दस्यार्थेन सह गम्यगमकलक्षणः सम्बन्धोऽनुपपन्न एव । तथा हि—गोत्वं प्रति वर्णानां संभूय वा गमकत्वं
अभेदसमुदायस्तु तेषां धर्मो न दुष्यति ।
तेषामस्ति हि सामर्थ्यमर्थप्रत्यायनं प्रति ॥ ६८ ॥
यावन्तो यादृशा ये च यदर्थप्रतिपादने ।
वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः ॥ ६९ ॥
स्यादेकस्य वा ? संभूयापि युगपत् क्रमेण वा ? न तावदेकैंकस्य, अनुपलम्भनात् पर्यायत्वप्रसङ्गाच्च, नापि संभूय युगपत्, तदभावात् । एतदुक्तम्—
“यौगपद्यं न संवित्तौ सत्तयातिप्रसज्यते ।”
नापि संभूय क्रमेण, नित्यत्वेन सर्वगतत्वेन च देशतः कालतो वा क्रमायोगात्, संभूय क्रमेण च इति 66विप्रतिषेधाच्च । आग्नेयादीनां तु संभूयकारिणां क्रमकर्तृ- त्वमपूर्वद्वारेण । वर्णानामपि संभूयकर्तृत्वं संस्कारद्वारेण इति चेन्न । संस्कारान्तर- परिकल्पनायां 67न प्रमाणमस्ति । 68अपूर्वकल्पनायां तु साध्यसाधन69सम्बन्धानुप- पत्तिर्गमका 70इत्युक्तम् । अनवगत71व्याकरणस्यापि गकारादिज्ञानजनितसंस्कारादि- द्वारेण औकारादिस्मरणोत्पादकत्वेन कल्पितस्यान्यविषयत्वायोगात् ; एकैकशश्चा- शक्तानां समुदायोऽप्यशक्त एव ; व्युत्क्रमेण च प्रतिपादकत्वं प्राप्नोति । तस्मात्—
‘आधारात्मनि विज्ञाते सुखमाधेयबोधनम्’—इत्यनुपपन्नम् ।
अत्र सिद्धान्तभाष्यम्—“पूर्ववर्णजनितसंस्कारसहितोऽन्त्यो वर्णो वाचकः” इति । तद्व्याचष्टे—तेषामस्ति हि सामर्थ्यमिति । पूर्ववर्णजनितसंस्कारद्वयविशि- ष्टस्य 72वान्त्यस्य वर्णस्य, अतीतवर्णद्वयानुगृहीतस्य वा, संस्कारद्वारेण वा सर्वेषामाग्ने- यादिवत्, संस्कारद्वयान्त्यवर्णसामाग्रीके वा ज्ञाने सदसद्वर्णगोचरे प्रतिभासमाना- नाम्, समस्तसंस्कारिते वा सङ्कलनाप्रत्यये प्रतिभासमानानाम्, उपलब्ध्यनन्तर- सत्ताकानां वा 73अर्थप्रतिपादनसामर्थ्यमस्तीत्यभिप्रायः ।
यत्तु नैकस्य नापि संभूय युगपत् क्रमेण वा प्रतिपादकत्वमस्तीत्युक्तम्, तत्रा- प्याह—यावन्त इति । सम्बन्धग्रहणवशेन वर्णानामर्थप्रतिपादकत्वं येषां च यावतां
तेषां तु गुणभूतानामर्थप्रत्यायनं प्रति ।
साहित्यमेककर्त्रादिक्रमश्चापि विवक्षितः ॥ ७० ॥
74वक्त्रेकत्वनिमित्ते च क्रमे सति नियामकम् ।
प्रयुञ्जानस्य यत् पूर्वं वृद्धेभ्यः क्रमदर्शनम् ॥ ७१ ॥
यौगपद्यं 75च शक्यत्वान्नैव तेषामिहाश्रितम् ।
कर्तृभेदश्च तत्र स्यान्न चैवं दृश्यतेऽभिधा ॥ ७२ ॥
युगपद् 76दृष्टसामर्थ्या नैव शक्ताः क्रमे यथा ।
भावास्तथा क्रमे शक्ता यौगपद्ये न 77शक्नुयुः ॥ ७३ ॥
दृष्टश्च पूर्णमासादेः क्रमः संहत्यकारिणः ।
अभ्यासानां च लोकेऽपि स्वाध्यायग्रहणादिषु ॥ ७४ ॥
यत्क्रमकाणां च यत्तदास्ति, 78तत्तेषां तावतामेव तत्क्रमकाणामेकवक्तृप्रयुक्तानां च प्रतिपादकत्वमित्यर्थः ॥
तदेतदत्रैव समाप्तमुत्तरम् ; अस्यैव प्रपञ्चः—सर्वमेव च साहित्याद्यर्थप्रति- पत्तावुपादीयमानस्य वर्णत्रयस्योपादीयमानविशेषणत्वेन पशुगतैकत्ववद् विवक्षित- मित्याह—तेषां चेति ॥
79वक्तुरेकत्वाच्च वर्णानामवश्यंभाविनि क्रमे सम्बन्धग्रहणकालावगतस्य ग्रहणमित्याह—वक्त्रेकत्वनिमित्ते चेति ॥
तस्मादुपलब्धियौगपद्यासम्भवात् सम्भवे वा वक्तृभेदप्रसङङ्गात् वास्तवेन च सर्वेषां सर्वदा चाविशिष्टत्वेन चाप्रतिपादकेत्वात् संभूय क्रमेण प्रतिपादकत्व- मित्याह—यौगपद्यं चेति ॥
दृष्टं च संभूयकारिणां द्वैविध्येन कार्यकरत्वमित्याह—युगपदिति ॥
नापि विप्रतिषेधः, संभूयकारिणां क्रमकर्तृत्वदर्शनादिदृष्टान्तत्रयमाह— दृष्टश्च पूर्ण मासादेरिति । ‘दर्शपूर्णमासाभ्याम्’ इत्युपपदसमर्पितसाहित्येति-
साधनादित्रयाणां च व्यापारस्यैककालता ।
सर्वत्रास्तीति नेह स्यादुपालम्भः क्रमं प्रति ॥ ७५ ॥
निष्पन्ना एव दृश्यन्ते व्यापाराः सर्व एव हि ।
सूक्ष्मा व्यापारभेदास्तु 80न दृश्यन्ते कदाचन ॥ ७६ ॥
एकसाधनसंस्थाश्च व्यापारावयवा यदा ।
स्वरूपतो निरीक्ष्यन्ते यौगपद्यमसत्तदा ॥ ७७ ॥
किं पुनर्बहवो भिन्ना भिन्नसाधनसंश्रिताः ।
भवेयुर्यौगपद्येन व्यापाराः क्रमवर्तिनः ॥ ७८ ॥
कर्तव्यताविशिष्टानामाग्नेयादीनामेकप्रेर्यविशेषणोत्पादकत्वं क्रमेण, करणानामाग्ने- यादीनां क्षणिकत्वेन यौगपद्यासम्भवात् ; अभ्यासे चैन्द्रवायवादीनामेकाधिकार- निष्पादकत्वम् ; लोकेऽपि पदाध्ययनादीनामेकानुवाकग्रहणसाधकत्वम् ।
ननु यदि पूर्णमाससंज्ञकस्य साधनत्रयस्य अभ्यासाध्ययनयोश्च क्षणिकत्वे यौगपद्यासम्भवात् क्रमकर्तृत्वम्, अक्रमकारिणां तर्हि साहित्यमनुपपन्नमित्या- शङ्क्याह—साधनादीति । यद्यपि चाग्नेयादीनां स्थूलेन रूपेण प्रत्यक्षदृश्येन क्षणिकत्वादेककालत्वं नास्ति, तथाप्यपूर्वद्वारकैककालत्वमस्तीति साहित्यानुपलम्भः । व्यापारशब्देनात्र शक्त्यवस्थाभिधीयते । साधनत्रयस्य शक्तिद्वारेणैककालत्व- मस्तीत्यर्थः ॥
स्थूलशक्तिरूपस्य च व्यापारस्य प्रत्यक्षेण ग्रहणम्, इतरेषां चार्थापत्त्या इत्याह—निष्पन्ना एव दृश्यन्त इति । निष्पन्नशब्देन दृश्यस्याभिधानम् ; सूक्ष्म- शब्देनापि शक्तेः ।
एकफलावच्छिन्नानेकलक्षणप्रचयात्मिका ह्येका क्रियाभिधीयते । तत्रैक- साधनगतानामपि स्वलक्षणानां शक्तिमन्तरेण यौगपद्यं नास्ति ; किं पुनर्बहूनां भिन्न- साधनगतानामित्याह—एकसाधनसंस्थाश्चेति । वक्ष्यति—
“क्षणिकावयवत्वेन नैकस्यापि हि शक्तता” इति ।
ननु यदि क्रमवदनेकस्थूललक्षणप्रचयात्मिकैका क्रियाभिधीयते, क्रमवतां च गकारादीनामेकपदत्वम्, कथं तर्हि—पचति, गोशब्दो वर्तते—इति च वर्त-
यदा त्वाद्यपरिस्पन्दात् प्रभृत्या फल81भावतः ।
क्रिया पूर्वापरीभूता लक्ष्यते वर्तते तदा ॥ ७९ ॥
तेनात्रापि विवक्षातः प्रभृत्यार्थाववोधनात् ।
साकल्येनेक्ष्यमाणे स्याद् व्यापारे वर्तमानता ॥ ८० ॥
प्रत्येकं ये पुनस्तत्र व्यापारास्तन्निरूपणम् ।
फलानिष्पत्तितो न स्यान्नास्तित्वं न च तावता ॥ ८१ ॥
फलानुमेयतायां च व्यपारस्य फलं प्रति ।
कारकाणां यथास्थानं व्यापारे वर्तमानता ॥ ८२ ॥
मानकाल निर्देशः ? तत्र क्रियागतं तावद्वर्तमानकालावच्छेदमाह—यदा त्विति । यावन्तमेकफलावच्छिन्नानि क्रियाक्षणानि व्याप्नुवन्ति; तावान् वर्तमानः काल इत्युच्यते । तत्कालावच्छिन्नानि च क्षणानि विनष्टोत्पद्यमानानि क्रिया वर्तते82— इत्युच्यन्ते ॥
साम्प्रतं गोशब्दस्य वर्तमानतामाह—तेनात्रापि विवक्षात इति । विवक्षात आरभ्यान्त्यवर्णपर्यन्तानि वर्णान्येकार्थप्रतिपत्तावधिकृतानि यावन्तं कालं व्याप्नु- वन्ति, तावान् वर्तमानः काल इत्युच्यते, तत्कालावच्छिन्नानि वर्णानि-गोशब्दो वर्तप्ते—83इत्युच्यन्ते । व्यापारशब्देनात्र गकारादिज्ञानजनितस्य संस्कारस्याभि- धानम् ॥
यथा चाग्नेयादीनां पयोऽन्तानामेकफलोत्पत्तावपूर्वद्वारेण साहित्यम्, एवमेकस्याप्याग्नेयस्य क्रमवदनेकक्षणात्मकस्य संस्कारद्वारेणैंव स्वापूर्वनिष्पत्तौ साहित्यम् । फलनिष्पादकत्वेन तु तेषाम्—“चोदना पुनरारम्भः”—इत्यत्र संकीर्तनं न कृतम् । न तु तावता नास्तितेत्याह—प्रत्येकं ये पुनरिति । व्यापारशब्देनात्र क्रियाक्षणजन्यानां संस्काराणामभिधानम् ।………….84अधिकार- भावनायां बहूनामग्नेयादीनां करणानां यथास्थाने वर्तमानानामाग्नेयस्योपांशुयाजादि- व्यवहितस्योपांशुयाजस्य वाग्नीषोमीयादिव्यवहितस्यापूर्वद्वारेण साहित्यमित्याह— फलानुमेयतायां इति । व्यापारशब्देनात्रापूर्वस्याभिधानम् ॥
अवश्यंभाविनी नित्यं प्रत्यासत्तिश्च कस्यचित् ।
न तावता व्यपेतत्वादितरेषामनङ्गता ॥ ८३ ॥
85द्व्यन्तरैकान्तरत्वे च गकारौकारयोर्ध्रुवम् ।
अर्थप्रत्यायने शक्तिस्तत्रस्थौ गमकौ यतः ॥ ८४ ॥
यथा विसर्जनीयस्य व्यवधाने न शक्तता ।
तथैवेतरयोः शक्तिरानन्तर्ये न विद्यते ॥ ८५ ॥
न च यत्रैकशोऽशक्तिस्तत्र सर्वेष्वशक्तता ।
86रथाद्यङ्गानि दृश्यन्ते शाल्यादिवहनादिषु ॥ ८६ ॥
शक्तिस्तत्रास्ति काचिद्धि वहने सा 87समर्थ्यते ।
सङ्घातेन तु वर्णानां प्रत्येकं 88काचिदिष्यते ॥ ८७ ॥
अधिकारभावनायां बहूनामाग्नेयादीनां करणत्वेऽवगते नान्त्यस्यैव सन्नि- धानादङ्गत्वमित्याह—अवश्यंभाविनीति ॥
एवम्—“दृष्टश्च पूर्वमासादेः”-इत्युपक्रान्तत्रयं व्याख्यायाधुना दार्ष्टा- न्तिके योजयितुमाह—द्व्यन्तरैकान्तरत्वे चेति । सम्बन्धग्रहणवशेन प्रतिपाद- कत्वे 89यत् यथा वृत्तं तत्तथेत्यर्थः ॥
अन्यथा नेत्याह—यथा विसर्जनीयस्येति ।
एकैकशश्चाशक्तानां समुदायस्य शक्तता दृष्टैवेत्याह—न च यत्रैकशोऽ-
शक्ति
रिति । शालिवहनाख्ये कार्ये प्रत्येकमशक्तानामपि रशाङ्गनां समुदितानां
शक्तता दृष्टैवेत्यर्थः ॥
ननु च रथाङ्गानामेकैकस्यापि शालिवहनाख्ये कार्ये शक्तिरस्त्येव ; सङ्घाते तु प्रचयादभ्यधिककार्यारम्भकत्वम् । गकारादीनां तु गोत्वावयवशक्तौ नैकैक- स्यावयवशः स्फुटास्फुटप्रतिपादकत्वेन वा शक्तिरस्तीति श्लोकद्वयेन चोदयति— शक्तिरत्रास्ति काचिदित्यादिना ।
न ह्यर्थावयवः कश्चित् प्रत्येकं तैः प्रतीयते ।
समस्तस्याथवा कश्चिद् बोधलेशो90ऽवजायते ॥ ८८ ॥
रथस्यापि तु यत्कार्यं शाल्यादिवहनं न तत् ।
प्रत्येकं दृश्यते 91कैश्चिन्मनागपि यथेहितम् ॥ ८९ ॥
अथ यत्किंचिदुच्येत वहने तदिहापि नः ।
स्वात्मप्रत्ययहेतुत्वं 92वर्णेऽस्त्यर्थेऽथवा क्वचित् ॥ ९० ॥
यस्यानवयवः स्फोटो व्यज्यते वर्णबुद्धिभिः ।
सोऽपि पर्यनुयोगेन 93नैवानेन विमुच्यते ॥ ९१ ॥
तत्रापि प्रतिवर्णं हि पदस्फोटो न गम्यते ।
न चावयवशो व्यक्तिस्तदभावान्न चात्र धीः ॥ ९२ ॥
प्रत्येकं चाप्यशक्तानां समुदायेऽप्यशक्तता ।
तत्र परिहारमाह—रथस्येति । रथस्य यत् कार्यं तत्रैकैकस्य शक्तिर्नास्ति, मिलितानामस्तीत्यर्थः ॥
अथैकैकस्य यत् कार्यं तत्रैकैकस्य शक्तिरुच्येत ; गकारादीनामपि तर्हि
आलम्बनविज्ञानोत्पत्तौ सम्बन्धग्रहणवशेन वा क्वचिदर्थेऽप्यस्तीत्याह—अथ
यत्किंचिदुच्येतेति
।
यश्चायमर्थप्रतिपत्तौ वर्णानां पर्यनुयोग उक्तः—नैकैकस्य, नापि सम्भूय युगपत् क्रमेण वा—इत्यादि, स पदस्फोटाभिव्यक्तावपि भवत्पक्षे ध्वनीनां वर्णानां वा तुल्य इत्याह—यस्येति ।
तत्र नैकैकस्य पदस्फोटाभिव्यञ्जकत्वम्, अनुपलब्धेरित्याह—तत्रापि
प्रतिवर्णमिति
। नापि सर्वेषामवयवद्वारेणाभिव्यञ्जकत्वम्, निरवयवत्वादनुपलब्धेश्चे
त्याह—न चेति ॥
प्रत्येकमशक्तानां समुदायोऽप्यशक्त एवेत्याह—प्रत्येकमित्यर्धेन । तस्मा-
सद्भावव्यतिरेकौ च तथावयववर्जनम् ।
तवाधिकं भवेद् 94यस्माद् यत्नोऽसावर्थबुद्धिषु ॥ ९४ ॥
नान्यथानुपपत्तिश्च 95भवत्यर्थमितिं प्रति ।
तदेवास्या निमित्तं स्याज्जायते यदनन्तरम् ॥ ९५ ॥
सा च वर्णद्वयज्ञानेऽतीतेऽन्त्यज्ञानतः परा ।
96भवतीति तदेवास्या निमित्तमवकल्पते ॥ ९६ ॥
विना संस्कारकल्पेन तदनन्तरवृत्तितः ।
कृतानुग्रहसामर्थ्यो वर्णोऽन्त्यः प्रतिपादकः ॥ ९७ ॥
दवश्यं कश्चित् पदस्फोटाभिव्यक्तौ वर्णानां प्रकार आस्थेयः ; स नोऽर्थप्रतिपत्तावेव भविष्यतीत्याह—तत्र यः परिहारइत्यर्धेन ॥
ननु समाने पर्यनुयोगे तत्परिहारे च स्फोटपक्ष एव कस्मान्न भवतीत्याह— सद्भावव्यतिरेकाविति । अनुपलभ्यमानस्य सद्भावः, वर्णव्यतिरिक्तत्वम्, निरवय- वत्वम्, पूर्वविज्ञानजनितस्य संस्कारस्य शक्तिकल्पनं च बाधकम् । तदुक्तम् “शब्दकल्पनायां सा च संस्कारस्य शक्तिकल्पना, शब्दकल्पना च”—इति ।
97तस्मादुपलभ्यमानानामेव वर्णानां पूर्वविज्ञानजनितसंस्कारविशिष्टोऽन्त्यो 98वर्णः गोत्वं प्रतिपादयति इत्ययं यत्न आस्थेय इत्यर्थः ॥
अपि च, वर्णत्रयव्यतिरिक्तशब्दकल्पनायां चार्थापत्तिः प्रत्यक्षं वा प्रमाणम् ? न तावदर्थापत्तिः, अर्थप्रतिपत्तेरन्यथाप्युपपद्यमानत्वादित्याह—नान्यथेति श्लोक- द्वयेन ॥
अथवान्त्यस्यैवानन्तरोपलब्धवर्णद्वयानुगृहीतस्य संस्कारमन्तरेणैव निमित्तत्व- मित्याह—विना संस्कारकल्पेनेति ॥
एष एव 99च संस्कार इति केचित् प्रचक्षते ।
100अदृष्टकल्पनाहीनं तावन्मात्रं हि दृश्यते ॥ ९८ ॥
अथवा वासनैवास्तु संस्कारः सर्व एव हि ।
दृढज्ञानगृहीतेऽर्थे संस्कारोऽस्तीति मन्वते ॥ ९९ ॥
तस्यार्थबुद्धिहेतुत्वे 101विसंवादोऽत्र निर्णये ।
तद्भावभाविताहेुतुर102न्यत्रेव प्रतीयते ॥ १०० ॥
संस्कारेऽनिष्यमाणे तु पूर्ववृत्तत्वकल्पनम् ।
निष्प्रमाणक103मित्येवं नानुग्रहफलं भवेत् ॥ १०१ ॥
अनन्तरवृत्ततामेव वा संस्कारशब्देनाह भाष्यकार इत्याह—एष इति । स्मरणान्यथानुपपत्तिकल्पितस्य स्मरणोत्पादकत्वात् संस्कारान्तरपरिकल्पनायां च प्रमाणाभावादुपलब्धवर्णद्वयविशिष्टान्त्यवर्णानन्तरं चार्थप्रतिपत्तिदर्शनादलं संस्का- रान्तरेणेत्यर्थः ॥
अथवा गकारादिविज्ञानजनितवासनामेवाह भाष्यकारः संस्कारशब्देन । तद्विशिष्टस्यैवान्त्यावयवस्यार्थप्रतिपत्तौ हेतुत्वं स्मरणान्यथानुपपत्तिप्रमाणकम् । सर्व- लोकप्रसिद्धं चैतत् । तदुक्तम्—“वस्तुधर्मो ह्येषः, यदनुभवः पटीयान् स्मृति- बीजमाधत्ते”—इति । तदेतदाह—अथवा वासनैवास्त्विति ॥
अर्थप्रतिपादकत्वे तु तस्य विप्रतिपत्तिः, तत्र च तद्भावभावित्वं स्मृति- विज्ञान इव निर्णयकारणमित्याह—तस्यार्थबुद्धिहेतुत्व इति ॥
युक्त चैतत्, अनिष्यमाणे च संस्कारे पूर्वयोरन्यं प्रत्यनुग्राहकत्वं न स्यादित्याह—संस्कारेऽनिष्यमाण इति । न तावत् पूर्वयोरन्त्यं प्रति विज्ञान- योरनुग्राहकत्वम्, अन्त्यवर्णज्ञानवेलायां तिरोहितत्वात् ; नापि संस्कारद्वारेण, तद- भावाभ्युपगमात् । नाप्यनन्तरोपलब्धयोः, संस्काराभावेन उपलम्भानुपलम्भयोरवि- शेषादित्यर्थः ॥
यद्यपि स्मृतिहेतुत्वं संस्कारस्य व्यवस्थितम् ।
104कार्यान्तरेऽपि सामर्थ्यं न तस्य प्रतिषिध्यते ॥ १०२ ॥
तेन संस्कारसद्भावो 105नानेनैव प्रकल्पितः ।
106तस्यार्थप्रत्ययार्थत्वमदृष्टं केवलं कृतम् ॥ १०३ ॥
शब्दपक्षेऽपि तच्चैतददृष्टत्वान्न मुच्यते ।
कार्यबोधनशक्तत्वं तुल्यं संस्कारशब्दयोः ॥ १०४ ॥
क्षीणार्थापत्तिरेवं च न स्फोटं परिकल्पयेत् ।
गकारादिस्मरणान्यथानुपपत्तिपरिकल्पितस्यान्यत्रासामर्थ्यादिति चेदित्याश- ङ्क्याह—यद्यपीति । अर्थप्रतिपत्तिलक्षणेऽपि कार्ये तदन्यथानुपपत्या तत्रापि सामर्थ्यावगमादित्यर्थः ॥
ननु स्मरणान्यथानुपपत्तिकल्पितस्य संस्कारस्यार्थप्रतिपत्यन्यथानुपपत्या शक्तिकल्पनायां स्फोटकल्पनैव वरमित्याशङ्क्याह—तेन संस्कारसद्भाव इति ।
मम वर्णस्मरणान्यथानुपपत्यावगत एव संस्कारात्मके धर्मिणि शक्तिमात्र- कल्पना ; तव त्वर्थप्रतिपत्यन्यथानुपपत्या धर्मिणोऽपि स्फोटस्य कल्पनेति विशेषः ॥
सा च संस्कारस्य शक्तिः कल्पयित्वापि स्फोटं भवत्पक्षे स्फोटाभिव्यक्तौ परिकल्पनीयैवेति कल्पनागौरवमित्याशङ्क्याह—शब्दपक्षेऽपीति ।
तत्र गकारादिस्मरणान्यथानुपपत्या कल्पिते वा धर्मिणि संस्कारात्मकेऽर्थ- प्रतिपत्यन्यथानुपपत्या शक्तिमात्रं परिकल्प्यताम्, शक्तिविशिष्टं वा पदस्फोटाख्य- धर्म्यन्तरमिति चिन्तायां संस्कारस्यैव शक्तिमात्रं परिकल्प्यार्थप्रतिपत्तेरुपपन्नत्वान्न स्फोटकल्पनायामर्थापत्तिः प्रभवतीत्याह—कार्यबोधनशक्तत्वमिति ।
अपि च, कल्पयित्वार्थप्रतिपत्या शक्तिविशिष्टं पदस्फोटाख्यं संस्कारस्य शक्तिः परिकल्पनीया । अतः पूर्ववर्णजनितसंस्कारविशिष्टस्यैवान्त्यस्य पदस्फोटाभि-
ध्वनिभ्योऽप्यपरस्तावन्नेष्येतार्थमितिं प्रति ।
ते वा यद्युपलभ्येरन् वर्णाः प्रत्यक्षतो न 107वा ॥ १०६ ॥
वर्णानां यौगपद्येन यदि चावश्यमर्थिता ।
नित्यत्वात् सर्वदा तत् स्यान्न तु कारणता तथा ॥ १०७ ॥
इत्थं क्रमगृहीतानां 108युगपद् वाथवा परा ।
स्थितिः सा कारणं तु स्यान्नित्यमर्थधियं प्रति ॥ १०८ ॥
व्यञ्जकत्वम्, अभिव्यञ्जकस्य चार्थप्रतिपादकत्वमित्याह—संस्कारकल्पना पूर्व-
मिति
।
ननु यदि वर्णेभ्य एव पदस्फोटाभिव्यञ्जकेभ्योऽर्थस्य प्रतिपन्नत्वेन नार्थापत्तिरर्थान्तरं कल्पयति, ध्वनिभ्य एव तर्हि वर्णाभिव्यञ्जकेभ्योऽर्थप्रतिपत्तेरुप- पन्नत्वेन वर्णत्रयसद्भावोऽपि न स्यात् । ततश्च—“गकारौकारविसर्जनीयाः”— इति भाष्यमनुपपन्नमित्याशङ्क्याह ध्वनिभ्योऽपीति । स्यादेतदेवम्, यदि स्फोटवदर्थप्रतिपत्यन्यथानुपपत्तिरेव वर्णसद्भावे प्रमाणं स्यात् ; वर्णवदेव च ध्वनयः प्रत्यक्षा भवेयुः; प्रत्यक्षावगतवर्णत्रयान्यथानुपपत्तिकल्पितास्तु ध्वनयः; तत्र वर्णत्रया- भावे एषामभाव एव स्यात् । तस्माद् वर्णानामेव संभूय क्रमेण वार्थप्रतिपत्ति- निमित्तत्वान्नार्थापत्तिरर्थान्तरं कल्पयतीत्यर्थः ।
ननु नित्यत्वेन वर्णानां यौगपद्यस्यापि सद्भावात् संभूय यौगपद्येन निमित्तत्वं कस्मान्नेष्टम् ? अत आह—वर्णानामिति । अनभिव्यक्तानां यौगपद्यम्, न तु कारणत्वमित्यर्थः ॥
पक्षान्तरमाह—इत्थमिति ।
विशिष्टक्रमगृहीतानां वानन्तरं सत्तार्थप्रतिपत्तिनिमित्तत्वम्, तथा सम्बन्ध- ग्रहणादित्यर्थः ।
यद्वा प्रत्यक्षतः पूर्वं क्रमज्ञातेषु यत् परम् ।
समस्तवर्णविज्ञानं तदर्थज्ञानकारणम् ॥ १०९ ॥
तत्र ज्ञाने च वर्णानां यौगपद्यं प्रतीयते ।
नावश्यं यौगपद्येन 109प्रत्यक्षत्वेन तद्भवेत् ॥ ११० ॥
चित्ररूपां च तां बुद्धिं सदसद्वर्णगोचराम् ।
110केचिदाहुर्यया वर्णो गृह्यतेऽन्त्यः पदे पदे ॥ १११ ॥
अन्त्यवर्णेऽपि विज्ञाते 111पूर्वसंस्कारकारितम् ।
स्मरणं यौगपद्येन सर्वेष्वन्ये प्रचक्षते ॥ ११२ ॥
सर्वेषु 112चैतदर्थेषु मानसं सर्ववादिनाम् ।
इष्टं समुच्चयज्ञानं 113क्रमज्ञानेषु सत्स्वपि ॥ ११३ ॥
पक्षान्तरमाह—यद्वेति श्लोकद्वयेन । न पूर्ववर्णसंस्कारस्य साक्षादर्थप्रति- पत्तौ निमित्तत्वम् । संस्कारजन्यायां तु बुद्धौ युगपत् प्रतिभासमानस्य वर्णत्रयस्य निमित्तत्वम्, नावश्यं प्रतीतिगतस्यैव यौगपद्यस्यार्थप्रतिपादकत्वम्, स्मृतिगतस्या- प्युपपत्तेरित्यर्थः ॥
तां च 114बुद्धिं पूर्ववर्णजनित115संस्कारानुगृहीतान्त्यवर्णजन्यामतिक्रान्तवर्ण- ग्रहणरूपां सदसद्वर्ण116गोचरां केचिद् विचित्रामिच्छन्ति, यया पदे पदेऽन्त्यवर्ण- ग्रहणमित्याह—चित्ररूपां चेति ।
अपरे तु संस्कारत्रयजन्यां वर्णस्मरणरूपां सङ्कलनात्मिकामिच्छन्तीत्याह— अन्त्यवर्णेऽपि विज्ञान इति ।
दृष्टं च क्रमगृहीतानां युगपत् स्मरणमित्याह—सर्वेषु चेति ।
न 117चेत्तदभ्युपेयेत क्रमदृष्टेषु नैव हि ।
शतादिरूपं जायेत तत्समुच्चयदर्शनम् ॥ ११४ ॥
तेन श्रोत्रमनोभ्यां स्यात् क्रमाद् वर्णेषु यद्यपि ।
पूर्वज्ञानं 118परस्तात् तु युगपत् स्मरणं भवेत् ॥ ११५ ॥
तदारूढा119स्तदा वर्णा न दूरेऽर्थावबोधनात् ।
शब्दादर्थमतिस्तेन लौकिकैरभिधीयते ॥ ११६ ॥
चित्रबुध्यानया भ्रान्त्या वर्णेभ्यो व्यतिरेकतः ।
पश्चाद् गौरिति विज्ञानं प्रत्यक्षं कैश्चिदिष्यते ॥ ११७ ॥
क्रमगृहीतानां युगपत् स्मरणानभ्युपगमे त्वेकादिक्रमेण गृहीतानां सङ्कल- नात्मकः शतप्रत्ययो न स्यादित्याह—न चेदिति ।
उपसंहरति—तेन श्रोत्रमनोभ्यामिति ।
तदारूढानां स्वार्थप्रतिपादकत्वे सति व्यवधानाभावेन शब्दार्थं प्रतिपद्या- महे—इति लौकिकं वचनमित्याह—तदारूढास्तदेति । तस्मादुक्तेन प्रकारेणार्थ- प्रतिपत्तेरन्यथाप्युपपद्यमानत्वेन नार्थान्तरं परिकल्पयतीति सिद्धम् । स्वयं चैतत्— ‘यावन्तो यादृशाः’—इत्यादिना व्याख्यातम् ।
ननु विज्ञानत्रयोत्तरकालं—गौः—इत्येकाकारं विज्ञानमेकैकज्ञानविलक्षण- मर्थान्तरावभासमुपजायते ; तद्भावभावित्वेनाक्षजत्वात् प्रत्यक्षम् । न च तद्वर्णा- लम्बनम्, भिन्नत्वाद् वर्णानाम् । तत्र यदा शाबलेयादिषु—गौरयम्—इत्येका- कारं विज्ञानं शाबलेयादिव्यतिरिक्तैकजातिप्रसाधकम्, यथा च प्राण्यादिषु—देव- दत्तोऽयम्—इति विज्ञानमेकावयविप्रसाधकम्, तद्वद्—गौः—इत्यपि वर्णत्रय- व्यतिरिक्तैकप्रसाधकं प्रत्यक्षमिष्टं कैश्चिदित्येतद् विकल्प्य दूषयति—न तावद्वर्ण- त्रयोत्तरकालमेकाकारमर्थान्तरग्राहकं विज्ञानमुपजायते, वर्णत्रयव्यतिरिक्तस्य श्रोत्रे विज्ञाने प्रतिभासाभावात् ? तदुक्तम्—“ते च श्रोत्रग्रहणाः”—इति ।
भ्रान्तेस्तु मूलमुपदर्शयितुमाह—चित्रबुध्यानयेति । वर्णद्वयप्रतिपत्त्य- नन्तरं सदसद्वर्णगोचरं ग्रहणस्मरणरूपं यद्विज्ञानमुपजायते 120समस्तसंस्कारकारितम्,
वैलक्षण्यं च121 तस्येष्टमेकैकज्ञानतः स्फुटम् ।
वर्णरूपावबोधात् तु न तदर्थान्तरं भवेत् ॥ ११८ ॥
यदि चार्थान्तरत्वं स्यादेकैकस्मात् त्रयस्य तत् ।
वर्णत्रयपरित्यागे बुद्धिर्नान्यत्र जायते ॥ ११९ ॥
गौरित्येकमतित्वं तु नैवास्माभिर्निवार्यते ।
122तद्ग्राह्येकार्थता भ्रान्त्या शब्दे स्यादेकतामतिः ॥ १२० ॥
शैघ्र्यादल्पान्तरत्वाच्च गोशब्दे सा भवेदपि ।
123देवदत्तादिशब्दे तु स्फुटो भेदः प्रतीयते ॥ १२१ ॥
तत्कृतोयं भ्रमः न तु तत्रार्थान्तरं प्रतिभासते । वर्णा एव तु परोक्षापरोक्षतया प्रतिभासन्ते; नार्थान्तरमित्यर्थः ।
इष्टमेव च तस्य वैलक्षण्यमेकैकवर्णगोचराद् विज्ञानादित्याह—वैलक्षण्यमिति ।
यदि चैकैकज्ञानगोचराद् गकारादेर्वर्ण124त्रयस्यार्थान्तरत्वं तदपीष्टमेवेत्याह— यदि चार्थान्तरत्वमिति ।
यदपि केवलं प्रतीयमानस्यैव गकारादेरेकार्थसंश्लेषकारितमेकाकारं विज्ञान- मुपजायते, तदपि वर्णत्रयात्मकैकगोपदालम्बनम् । एकपदत्वं चैंकार्थकत्वेनैक- बुद्धिग्राह्यत्वेन चेत्याह—गौरित्येकमतित्वन्त्विति ।
यत्र तु भिन्नावशिष्टता, तत्रैकमतित्वं नास्तीत्याह—शैध्य्रादिति । गौः— इत्यत्रापि प्रतिपत्तित्रयमेकलक्षणोत्पन्नत्वेनैकावशिष्टत्वेनैकत्ववदवभासते ; न तु तत्रैकार्थकारित्वेन वर्णत्रयालम्बनैकावगतिः, सम्बन्धग्रहणाग्रहणयोरविशेषात् इति अपिशब्दस्यार्थः ।
“नन्वेवमपि—शब्दादर्थं प्रतिपद्यामहे—इति लौकिकं वचनमनुपपन्नम्”— इति चोद्यभाष्यम् । तस्यायमर्थः—संस्काराणामर्थप्रतिपादकत्वे तेषामशब्दत्वेन— शब्दादर्थं प्रतिपद्यामहे—इति लौकिकं वचनमनुपपन्नम्—इति । तत्र परिहारभाष्य-
न गौणः शब्द इत्येवं ग्रन्थसम्बन्धनं भवेत् ।
अस्त्यक्षरेषु हेतुत्वं तत्परं वचनं 125च तत् ॥ १२२ ॥
शब्दादिति च हेतुत्वं पञ्चम्यात्राभिधीयते ।
भवत्पक्षेऽपि चैकान्ताज्ज्ञानेन व्यवधिर्जवेत् ॥ १२३ ॥
गौणोऽन्यथा 126प्रसिद्धः सन् प्रयुज्येतान्यथा यदि ।
न चान्यादृङ्निमित्तत्वं कस्यचित् संप्रतीयते ॥ १२४ ॥
स्वव्यापारव्यवायो हि सर्वस्मिन्नेव कारके ।
दृष्टो व्यापार ईदृक् 127च शब्दस्येत्यव्यवेतता ॥ १२५ ॥
गकारादेर्यदा चान्यो न लोके शब्द उच्यते ।
द्वयम्—“यदि नोपपद्यते, अनुपपन्नं नाम”—इत्येकम्, “न चैतदनुप- पन्नार्थम्, अक्षरेभ्यः संस्कारः, संस्कारादर्थप्रतिपत्तिरिति भवन्त्यर्थप्रतिपत्तावक्षराणि निमित्तम्”—इत्यपरं भाष्यम् । “गौण एष शब्दः”—इति चोद्यभाष्यम् ; तस्याभिप्रायः—संस्कारादर्थप्रतिपत्तावक्षराणां गौणमर्थप्रतिपादकत्वम् । ततश्च— शब्दादर्थं प्रतिपद्यामहे—इतीति । नायं गौणः शब्दः, अक्षराणां संस्कार- द्वारेणार्थप्रतिपत्तौ तद्भावभावित्वेन निमित्तत्वात् । निमित्तप्रतिपादकं चैतद्वचनम्— शब्दादर्थं प्रतिपद्यामहे—इति इत्यर्थः ।
एतदेव विवृणोति—शब्दादिति च हेतुत्वमिति ।
यदि च कस्यचित् साक्षात्कारकत्वं स्यात्, ततोऽक्षराणां संस्कारव्यवधाने- नार्थप्रतिपत्तौ गौणत्वं स्यात् ; न तु तदस्ति, काष्ठादेरपि पाके ज्वलनव्यवधाना- दित्याह—गौणोऽन्यथा प्रसिद्ध इति ।
अथवा, अवान्तरव्यापारविशिष्टस्य कारकत्वेन तस्य च प्रतिकारकं विचित्रत्वेन न क्वचिद् व्यवधानमित्याह—स्वव्यापारव्यवाय इति ।
गकारादिव्यतिरिक्ते लोके शब्दशब्दप्रयोगाभावेन 4अशब्दत्वेन स्फोट- पक्षे एव—शब्दादर्थं प्रतिपद्यामहे—इति लौकिकं वचनमनुपपन्नमित्याह— गकारादेरिति ।
शब्दज्ञानादिसंस्कारव्यक्तस्फोटकृतेऽथवा ।
प्रत्यये शब्दजन्यत्वमिति गौणं प्रसज्यते ॥ १२७ ॥
संस्कारजननार्थं च न शब्दोच्चारणं मतम् ।
अर्थप्रतीतिमुद्दिश्य प्रयुक्तस्य128 क्रमस्त्वयम् ॥ १२८ ॥
तस्मात् तादर्थ्यतः शब्दः फलेन व्यपदिश्यते ।
समुच्चयावबोधे तु व्यवधानं न केनचित् ॥ १२९ ॥
यदि 129वापूर्वसंस्कार इतिकर्तव्यतेष्यते ।
वर्णोऽन्त्यो गमकस्तस्य शब्दत्वान्मुख्यता भवेत् ॥ १३० ॥
अथ वर्णाभिव्यञ्जकस्यार्थप्रतिपादकत्वेन लौकिकवचनमुपपन्नमित्युच्यते,
130तत्रास्य गौणत्वं प्राप्नोतीत्याह—शब्दज्ञानादीति । भवत्पक्षे हि वर्णानामर्थ- प्रतिपादकत्वं शब्दालम्बनज्ञानसंस्कारतच्छक्तिकल्पनाभिव्यक्तस्फोटव्यवहितमिति— शब्दादर्थं प्रतिपद्यामहे—इति गौणमापद्यत इत्यर्थः ।
अस्मत्पक्षे तु यथा पाकमुद्दिश्य काष्ठादेः प्रवृत्तौ ज्वलनादेरवान्तरव्यापार- त्वेनाव्यवधायकत्वम्, एवं वर्णत्रयस्यार्थप्रतिपत्तिमुद्दिश्य प्रयुक्तस्य न संस्कारेण व्यवधानमित्याह—संस्कारजननार्थमिति ।
उपसंहरति—तस्मादिति । इन्द्रियादावपि संकलनाप्रत्ययारूढानां प्रति- पादकत्वम्, तदापि व्यवधानं नास्तीत्याह—समुच्चयावबोध इति । तदुक्तम्— “तदारूढाः”—इति ।
यदाप्यन्त्यस्य पूर्ववर्णजनितसंस्कारविशिष्टस्य गमकत्वम्, तदापि तस्य शब्दत्वेन व्यवधानाभावेनैकत्वेन च 131मुख्यत्वम् । शब्दादिति प्रकृतिप्रत्यौ ; इत्याह—यदि वापूर्वसंस्कार इति ।
वर्णा वा ध्वनयो वापि स्फोटं न पदवाक्ययोः ।
व्यञ्जन्ति व्यञ्जकत्वेन यथा दीपप्रभादयः ॥ १३१ ॥
सत्त्वाद् घटादिवच्चेति साधनानि यथारुचि ।
लौकिकव्यतिरेकेण कल्पितेऽर्थे भवन्ति हि ॥ १३२ ॥
नार्थस्य वाचकः स्फोटो वर्णेभ्यो व्यतिरेकतः ।
घटादिवन्न दृष्टेन विरोधो धर्म्यसिद्धितः ॥ १३३ ॥
प्रतिषेधेत्तु यो वर्णांस्तज्ज्ञानानन्तरोद्भवान् ।
दृष्टबाधो भवेत् तस्य शशिचन्द्रनिषेधवत् ॥ १३४ ॥
वर्णोत्था वार्थधीरेषा तज्ज्ञानानन्तरोद्भवा ।
येदृशी सा तदुत्था हि धूमादेरिव वह्निधीः ॥ १३५ ॥
132तत्रैव वैलक्षण्यमाह—वर्णा वा इति । वर्णा वा ध्वनयो वापीति धर्मि- निर्देशः, स्फोटं नाभिव्यञ्जन्तीति साध्यो धर्मः, व्यञ्जकत्वादिति हेतुः, प्रदीपव- दिति दृष्टान्तः । तस्मिन्नेव प्रतिज्ञार्थे सत्त्वादिति हेतुः, घटवदिति दृष्टान्त इत्याह— सत्त्वाद् घटादिवच्चेति । न चात्र प्रत्यक्षादिविरोधः, प्रत्यक्षादिना प्रतीयमानत्वात् स्फोटस्येत्याह—साधनानीति ।
प्रयोगान्तरमाह—नार्थस्य वाचक इति । स्फोट इति धर्मी, अर्थस्य वाचको न भवतीति साध्यो धर्मः, वर्णव्यतिरिक्तत्वादिति हेतुः, घटवदिति दृष्टान्तः । नापि 133स्फोटानन्तरा धीर्भवतीत्याह प्रतिषेधेदिति । यदि कश्चिदेव- माह—न वर्णत्रयमर्थस्य वाचकम्, स्फोटव्यतिरिक्तत्वात् घटवत्—इति, तस्य वर्णत्रयप्रतिपत्त्यनन्तरमनन्यथासिद्धार्थप्रतिभान्यथानुपपत्त्या शशिचन्द्रनिषेधवद्बाध इत्यर्थः ।
प्रमाणान्तरमाह—वर्णोत्था वेति । वर्णजन्येति साध्यो धर्मः, वर्णप्रति- पत्यनन्तरमुत्पद्यमानत्वादिति हेतुः, धूमादग्न्यनुमानवदिति दृष्टान्तः ।
दीपवद्वा गकारादिर्गवादेः प्रतिपादकः ।
ध्रुवं प्रतीयमानत्वात् तत्पूर्वं प्रतिपादनात् ॥ १३६ ॥
वर्णातिरिक्तः प्रतिषिध्यमानः पदेषु मन्दं फलमादधाति ।
कार्याणि 134वाक्यावयवाश्रयाणि सत्यानि कर्तुं कृत एष यत्नः ॥ १३७ ॥
प्रयोगान्तरमाह—दीपवद्वेति । गकारादित्रयं धर्मि, प्रतिपादकमिति साध्यो धर्मः, गोत्वप्रतिपादनादिति हेतुः, रूपे प्रदीपवदिति दृष्टान्तः ।
शब्दार्थयोः सम्बन्धाक्षेपानन्तरं वर्णव्यतिरिक्तसम्बन्धिनिराकरणमसम्बद्धम्, तस्यैवार्थेन सह सम्बन्धोपपत्तेरिति चोदयति—वर्णेति । तत्र परिहारमाह— कार्याणीति । वर्णत्रयातिरिक्तस्य विधिमुखेन कार्यमुखेन वानुपलभ्यमानत्वेन सम्बन्धग्रहणाभावाद् वाक्यस्फोटस्यासत्यत्वे 135सम्बन्धस्यासत्यत्वाद् वर्णत्रयात्मन्येव सम्बन्धिनि तस्योपलभ्यमानत्वेन च सम्बन्धस्य सद्भावः सत्यत्वं च सिध्यति । तदाह—वाक्यावयवाश्रयाणीत्यादि । सत्यानि कर्तुं कृत एष यत्नः स्फोटात्मक- सम्बन्धिनः प्रतिषेधेन 136वर्णात्मकसम्बन्ध्यवधारणरूपः । तदुक्तम्—
“आधारात्मनि विज्ञाते सुखमाधेयबोधनम्” । इति ॥
-
निरूपणसंबन्धं. मा. ↩︎
-
सम्बन्धप्रश्नानुपपत्तेः. मा. ↩︎
-
Does he mean the. वार्तिक ? ↩︎
-
न हि सम्बन्धापेक्षानन्तरम्. मा. ↩︎
-
शब्दामिमतः मा. ↩︎
-
इतः पूर्वं मा. स्फोटात्मक…अवधारणरूपः इति वाक्यभागः दृश्यते, यथोपरिनिर्दिष्टम्. ↩︎
-
स्वमतत्वेनापकर्षग्रहणसम्बद्धमाशङ्क्य. मा. ↩︎
-
पर्यालोच्योपपन्नग्रहणं. मा. ↩︎
-
गकारादयद. मा. ↩︎
-
परीक्ष्यते. चौ. मु. ↩︎
-
वाप्रत्यायकत्वात्. चौ. मु. ↩︎
-
श्रोत्रग्राह्ये न. चौ. मु. ↩︎
-
अश्रौत्रेऽपि.च. चौ. मु. ↩︎
-
श्रोत्रबुद्ध्या. चौ. मु. ↩︎
-
श्रोत्रज्ञान. मा. ↩︎
-
श्रोत्रविज्ञान. मा. ↩︎
-
परपरिकल्पितमभिव्यङ्ग्यं स्फोटं. मा. ↩︎
-
शब्दमुच्चरितं चौ. मु. ↩︎
-
न चोपलम्यन्ते. चौ. मु. ↩︎
-
अभिधीयते. मा. ↩︎
-
गकारावयवि. मा. ↩︎
-
घटादेः मा. ↩︎
-
यथान्त्यवयवानां. चौ. मु. ↩︎
-
हि. चौ. मु. ↩︎
-
मतिर्नापि. चौ. मु. ↩︎
-
विनावयवसामान्यात्. चौ. मु. ↩︎
-
सामान्यगत्वालम्बनो यः. मा ↩︎
-
सामान्यधीर्न गृह्णाति. चौ. मु. ↩︎
-
द्रतादिभेदेऽपि. चौ. मु. ↩︎
-
अभिन्नत्वं सामान्यं गत्वं भविष्यति. मा. ↩︎
-
ज्ञाने. चौ. मु. ↩︎
-
तादृक् प्रतीयते. चौ. मु. ↩︎
-
क्वचिदञ्जनरागेण. मा. ↩︎
-
यथा. चौ. मु. ↩︎
-
परैः कल्पित. चौ. मु. ↩︎
-
निवर्तकम्. चौ. मु. ↩︎
-
विपक्षे. मा. ↩︎
-
त्वेवं चौ. मु. ↩︎
-
जातिर्नित्यं चौ. मु. ↩︎
-
प्रतीयते. चौ. मु. ↩︎
-
त्तु कथं Omitted मा. ↩︎
-
द्रतादिवव्यञ्जकः मा. ↩︎
-
रानुकृतेः सो Omitted मा. ↩︎
-
अबुध्वैव. चौ. मु. ↩︎
-
तथा च सति. चौ. मु. ↩︎
-
त्रैमात्र्यं. चौ. मु. ↩︎
-
सर्व Omitted. मा. ↩︎
-
समुदायार्थ. चौ. मु. ↩︎
-
समानमाह. मा. ↩︎
-
तस्य. चौ. मु. ↩︎
-
प्रतीयते. चौ. मु. ↩︎
-
न वर्णो. चौ. मु. ↩︎
-
न. चौ. मु. ↩︎
-
कार्याङ्गत्वं. चौ. मु. ↩︎
-
ध्वनिधर्माः. चौ. मु. ↩︎
-
एवास्य. चौ. मु. ↩︎
-
व्यक्तिरिव. चौ. मु. ↩︎
-
ध्वनीनां. चौ. मु. ↩︎
-
संस्कारोत्पादहेतवः. चौ. मु. ↩︎
-
पूर्वेतां. चौ. मु. ↩︎
-
त्वितरेषां. चौ. मु. ↩︎
-
कालात्मैव. ↩︎
-
पद्यते. चौ. मु. ↩︎
-
न किंचिल्लुप्तमिव भाति. ↩︎
-
निराकर्तव्या/?/श्याह. मा. ↩︎
-
निषेधाच्य. मा. ↩︎
-
न omitted. मा. ↩︎
-
नापूर्वकल्पनायां. मा. ↩︎
-
संबन्धानुपपत्तिगमक. मा. ↩︎
-
‘गमक’ इति ‘इत्युक्तम्’ इति चानयोरन्तरे ‘कल्पनायां न प्रमाणं’ इत्यधिकः ग्रन्थः. ↩︎
-
व्याकरणत्वापि. मा. ↩︎
-
वाक्यस्य. मा. ↩︎
-
हेतुप्रतिपादन. मा. ↩︎
-
कर्त्रौकत्वे निमित्ते. चौ. मु. ↩︎
-
त्वशक्तत्वात्. चौ. मु. ↩︎
-
दृश्य. चौ. मु. ↩︎
-
शक्तयः. मा. ↩︎
-
‘तेषां’ इत्येतावदेव. मा. ↩︎
-
इतः पूर्वं ‘एकत्वात्’ इत्यधिकः ग्रन्थः. मा. ↩︎
-
दृश्यन्ते न चौ. मु. ↩︎
-
लाभतः. चौ. मु. ↩︎
-
वर्तन्ते. मा. ↩︎
-
इत्युच्यते. मा. ↩︎
-
न किंचिल्लुप्तमिव भाति. ↩︎
-
द्व्यन्तरैकात्वेन. चौ. मु. ↩︎
-
तथाह्मङ्गानि. चौ. मु. ↩︎
-
समृध्यते. चौ. मु. ↩︎
-
ईक्ष्यते. चौ. मु. ↩︎
-
यत् omitted मा. ↩︎
-
लेशोऽ. चौ. मु. ↩︎
-
किंचित्. चौ. मु. ↩︎
-
वर्णेष्वर्थेऽपिवा. चौ. मु. ↩︎
-
नैवैतेन. चौ. मु. ↩︎
-
तस्मात्. चौ. मु. ↩︎
-
भवेदर्थमिति. चौ. मु. ↩︎
-
भवतीतीदृगेवास्या. चौ. मु. ↩︎
-
तस्मादुपलभ्यमानामेव गोत्वं प्रति वर्णानां. मा. ↩︎
-
वर्ण इत्ययं. मा. ↩︎
-
तु. चौ. मु. ↩︎
-
अदृष्टकल्पनातीतं. चौ. मु. ↩︎
-
विसंवादोऽस्य. चौ. मु. ↩︎
-
अन्यत्रैव. चौ. मु. ↩︎
-
एवेति. चौ. मु. ↩︎
-
कार्यान्तरेषु. चौ. मु. ↩︎
-
नानेनैवं प्रकल्प्यते. चौ. मु. ↩︎
-
तस्यार्थबुद्धिहेतुत्वम्. चौ. मु. ↩︎
-
च. चौ मु ↩︎
-
युगपद्याथवा. चौ. मु. ↩︎
-
प्रत्यक्षस्थेन. चौ. मु. ↩︎
-
केचिदाहुर्यथा. चौ. मु. ↩︎
-
सर्वसंस्कार. मा. ↩︎
-
चैवमर्थेषु. चौ. मु. ↩︎
-
क्रमज्ञातेषु. मा. ↩︎
-
बुद्धिं. omitted मा. ↩︎
-
संस्कारान्त्यवर्ण. मा. ↩︎
-
गोचराङ्ककचिद्विचित्र. मा. ↩︎
-
चेत्तदाभ्युपेयेत. चौ. मु. ↩︎
-
परस्तान्न. चौ. मु. ↩︎
-
ततो. चौ. मु. ↩︎
-
कारितं तावत् कुतोऽयं. मा. ↩︎
-
तु. चौ. मु. ↩︎
-
तद्ग्राह्यैकार्थताभ्यां. च. चौ. मु. ↩︎
-
देवदत्तादिशब्देषु. चौ. मु. ↩︎
-
त्रयस्यार्थान्तरत्वमपीष्ट. मा. ↩︎
-
हि. चौ. मु. ↩︎
-
प्रसिद्धो वा. चौ. मु. ↩︎
-
तु. चौ. मु. ↩︎
-
क्रमादयम्. चौ. मु. ↩︎
-
चापूर्वसंस्कार. चौ. मु. ↩︎
-
तत्राप्यगौणत्वं. मा. ↩︎
-
मुख्यत्वं शब्दादिति प्रकृतिप्रत्यये…. त्याह. मा. ↩︎
-
तत्रैव त्रैलक्षण्य. मा. ↩︎
-
स्फोटानन्तराधो भवतीत्याह. मा. ↩︎
-
वाक्यावयवाश्रितानि. मा. ↩︎
-
संवन्धस्यासत्यर्थाद्वर्ण. मा. ↩︎
-
वर्णात्मकसंबधावधारण. मा. ↩︎