०७ निरालम्बनवादः

प्रमाणत्वाप्रमाणत्वे पुण्यपापादि तत्फलम् ।
विध्यर्थवादमन्त्रार्थनामधेयादिकल्पना ॥ १ ॥

सर्वेषु लक्षणेष्वेवं स्वप्रमाणगणैः स्थितिः ।
वचनव्यक्तिभेदेन पूर्वसिद्धान्तपक्षता ॥ २ ॥

कर्मभ्यः फलसम्बन्धः पारलौक्यैह1लौकिकः ।
सर्वमित्याद्ययुक्तं स्यादर्थशून्यासु बुद्धिषु ॥ ३ ॥

तस्माद् धर्मार्थिभिः पूर्वं प्रमाणैर्लोकसंमतैः ।

“ननु सर्व एव निरालम्बनः 2स्वप्नवत् प्रत्ययः” इत्यदिना शून्यवादपर्य- न्तेन बाह्यार्थाभावमाशङ्क्य तत्सद्भावं प्रतिपादयति भाष्यकारः । तत्र बाह्यार्थप्रति- पादनस्य स्वतन्त्रोपयोगितां दर्शयितुमाह वार्तिककारः—प्रमाणत्वेति त्रयेण । श्लोकत्रयेऽत्रायमभिप्रायः—बाह्यार्थाभावे प्रमाणतदाभासव्यवस्था न स्यात्, स्वांशा- लम्बनस्यैव सर्वत्र विद्यमानत्वादिति । नाप्यर्थक्रियासंवादसद्भावेन प्रमाणतदाभास- व्यवस्था, स्वप्नावस्थायामुदकज्ञाने मणिबुद्धावर्थक्रियासंवाददर्शनात् । नाप्यविच्छिन्न- वासनाजनितत्वेन प्रामाण्यं विच्छिन्नवासनाजनितत्वेन चाप्रामाण्यमिति व्यवस्था, विज्ञानवादिनस्तद्व्यतिरिक्तवासनाभावात् । 3न च परिभाष्या; लोके हि संवाद- विसंवादाधीने प्रामाण्याप्रामाण्ये । तयोश्च बाह्यार्थसदसद्भावाधीनत्वम् । तथा धर्मा- धर्मयोः स्वर्गनरकयोश्च तत्फलयोर्बाह्यार्थभावे सद्भावो न स्यात् । विध्यर्थवादमन्त्र- नामधेयकल्पना शब्दान्तरादिषट्केन च यद्भेदप्रतिरपादनम् श्रुत्यादिभिश्च तादर्थ्य- प्रतिपादनम् स्वर्गादिभावनायां च धात्वर्थस्य करणत्वमुपपदार्थस्य च तादर्थ्यं 4यच्च नियोज्यविशेषणस्य स्वर्गवृष्ट्यादेरैहिकामुष्मिकफलत्वम्, तत् सर्वमेवमादि बाह्या- र्थाभावे न स्यात—इति श्लोकत्रयार्थः ॥

इदानीं बाह्यार्थप्रतिपादनस्य स्वतन्त्रोपयोगितामुक्तामुपसंहरति—तस्मा- दिति । लोकसंमतैः प्रमाणैरर्थसद्भावः पूर्वमनुष्ठानार्थिभिः प्रतिपादनीयः । क्रिया- शब्दश्चात्रानुष्ठानवाची ॥

अर्थस्य सदसद्भावे यत्नः कार्यः क्रियां प्रति ॥ ४ ॥

यदा संवृतिसत्येन सर्वमेतत् प्रकल्प्यते ।
ज्ञानमात्रेऽपि कस्माद्वो वृथाग्राहोऽर्थकल्पने ॥ ५ ॥

संवृतेर्न तु सत्यत्वं सत्यभेदः कुतो न्वयम् ।
सत्यं चेत् संवृतिः केयं मृषा चेत् सत्यता कथम् ॥ ६ ॥

सत्यत्वं 5न तु सामान्यं मृषार्थपरमार्थयोः ।
विरोधान्न हि वृक्षत्वं सामान्यं वृक्षसिंहयोः ॥ ७ ॥

तुल्यार्थत्वेऽपि तेनैषां मिथ्यासंवृतिशब्दयोः ।
वञ्चनार्थ उपन्यासो लालावक्त्रासवादिवत् ॥ ८ ॥

नास्तिक्यपरिहारार्थं संवृतिः कल्पनेति च ।

ननु बाह्यार्थभावेऽपि सांवृतमर्थमङ्गीकृत्य प्रामाण्याप्रामाण्यव्यवहारो धर्मा- धर्मोपदेशश्च घटत एवेति चोदयति—यदेति । तदुक्तम्—

“द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।
लोके संवृति6सत्यं च सत्यं च परमार्थतः”॥ इति ।

तच्चैतदात्माद्वैतवादिभिरपीष्टमेव बाह्यार्थप्रपञ्चमिथ्यात्वं वदद्भिः ॥

तदेतत् सत्याद्वयाभावेन निराकर्तुमाह—संवृतेरिति श्लोकद्वयेन । न हि संवृतिपरमार्थव्यक्त्योः 7सत्यत्वं नाम सामान्यम्, एकत्र विरोधादन्यत्र च पौनरुक्त्यप्रसङ्गादित्यर्थः ॥

तुल्यार्थत्वेऽपि मिथ्यासंवृतिशब्दयोः 8प्रतारणार्थोऽयं सद्धर्मे संवृतिसत्य- त्वोपन्यासः लाला वक्त्रासवः पीयते इतिवदित्याह—तुल्यार्थत्वेऽपीति

नास्तिक्यपरिहारार्थं च सांवृतकाल्पनिकोपन्यासः; परमार्थतस्तु निर्वस्तुके विज्ञानादभिन्ने 9जगति नैव किञ्चित् भवति; किं हि तदा केन कल्प्यते इत्याह—नास्तिक्येति

कल्पनापि त्वभिन्नस्य नैव निर्वस्तुके भवेत् ॥ ९ ॥

तस्माद् यन्नास्ति नास्त्येव यत्त्वस्ति परमार्थतः ।
तत् सत्यमन्य10न्मिथ्यैव च सत्यद्वयकल्पना ॥ १० ॥

11स्वप्नोपभोगवच्चापि योपभो12गस्य कल्पना ।
तन्निवृत्त्यर्थमेवेह परमार्थे प्रयत्यते ॥ ११ ॥

न हि स्वप्नसुखाद्यर्थं धर्मे कश्चित् प्रवर्तते ।
यादृच्छिकत्वात् स्वप्नस्य तूष्णीमास्येत पण्डितैः ॥ १२ ॥

परमार्थ13फलप्राप्तिमिच्छद्भिस्तेन यत्नतः ।
प्रतिपत्तिर्विधातव्या युक्तिभिर्बाह्य14वस्तुनि ॥ १३ ॥

तत्रार्थशून्यं विज्ञानं योगाचाराः समाश्रिताः ।
तस्याप्यभावमिच्छन्ति ये माध्यमिकवादिनः ॥ १४ ॥

इदानीं विरोधपौनरुक्त्योक्तमेव स्तयद्वयाभावमुपसंहरति—तस्मादिति

ज्योतिष्टोमादिफलानां च स्वप्नोपभोगतुल्यत्वनिरासार्थं परमार्थसत्यतायां प्रयत्यते15; सांवृते तु फलोपभोगे न कथञ्चन बुद्धिपूर्वकारी तत्साधने प्रवर्तेत, तस्य यदृच्छयैव कदाचिदुत्पत्तेरिति श्लोकद्वयेनाह—स्वप्नोपभोगेति

अनन्तरोक्तमुपसंहरति—परमार्थेति

अत्र भाष्यकारेण योगाचारदर्शनमेव पूर्वपक्षीकृतम्, अर्थसदसद्भाववि- चारात् । यदि माध्यमिकदर्शनं पूर्वपक्षीकृतमभिप्रेतं स्यात, तदा विज्ञानसदसद्भाव- विचार एव क्रियेत; नार्थसदसद्भावविचारः । तत्प्रदर्शनार्थं दर्शनद्वयमुपन्यस्यति वार्तिककारः—तत्रार्थशून्यमिति

तत्र बाह्यार्थशून्यत्वं तुल्यं तावद् द्वयोरपि ।

16निवर्त्यार्थं ततो ज्ञाने तद्वत्संवृति17कल्पनात् ॥ १५ ॥

तस्मात् साधारणत्वेन तन्मूलत्वेन चाप्ययम् ।
बाह्यार्थसदसद्भावे यत्नो भाष्यकृता कृतः ॥ १६ ॥

बाह्यार्थापह्नवे द्वैतमेकोऽर्थस्य परिक्षणात् ।
प्रमाणमाश्रितश्चैकस्तत्रास्तां यः प्रमेयतः ॥ १७ ॥

18प्रमाणतस्तु मूलत्वादिहेदानीं 19विचार्यते ।

ननु माध्यमिकवादिनोऽपि नैव ग्राह्यग्राहकविकल्पशून्यतां 20स्वशब्देनाहुः । अतः कथमुच्यते “तस्याप्यभावमिच्छन्ति” इति ? अत्रायमभिप्रायः—निराकृते ह्यनुभाव्य आकारेऽनुभाव्या21भावेनानिष्टमप्यनुभवस्यासत्त्वं बलादापद्यत इति ॥

तत्र निराकार्यत्वे समानेऽपि योगाचारमाध्यमिकदर्शनयोर्यद्योगाचारदर्शन- मेव पूर्वपक्षितम्, तत्र प्रयोजनमाह—तत्र बाह्यार्थेति श्लोकद्वयेन । बाह्यार्थाभावो ह्युभयदर्शनसाधारणः । अतस्तस्मिन्निराकृते योगाचारदर्शनवन्माध्यमिकदर्शनमपि निराकृतमेव भवति, तन्मूलत्वात्; अनुभाव्याभाव एवानुभवाभावे मूलम् । तस्मादर्थसदद्भाव एव विचारितः, न ज्ञानसदसद्भावः । स च यद्यपि बौद्धैर्बा- ह्यार्थाभावः प्रमेयपरीक्षया प्रमाणवृत्त्यशक्त्या प्रतिपादितः; तथापि प्रमेय22परीक्षां परित्यज्य प्रमाणविचार एवाङ्गीकृतः तन्मूलत्वात प्रमेयस्य । यदि बाह्यार्थग्राहकत्वेन प्रवर्तन्ते प्रत्यक्षादयः, ततः प्रमेयविकल्पानां तद्विरुद्धत्वादप्रामाण्यम्; अथ न प्रवर्तन्ते, ततः प्रमेयाभावादेव कुतस्तद्विकल्प इत्याह—बाह्यार्थापह्नव इति सार्धेन

प्रस्तुतः स द्विधा चात्र प्रथमं त्वनुमानतः ॥ १८ ॥

प्रत्यक्षबाधेन चोक्ते पश्चात् तच्छ23क्त्यपेक्षणात् ।
तत्रानुमानमाहेदं नन्वित्यस्य च सङ्गतिः ॥ १९ ॥

तत्संप्रयोगजं 24नान्यत् प्रत्यक्षमिति भाषितम् ।
तत्रेन्द्रियार्थसम्बन्धभेदो न परमार्थतः ॥ २० ॥

कल्पितः संप्रयोगस्तु स्वप्नादावपि विद्यते ।

ननु बाह्यार्थाभाववद् विज्ञानाभावोऽप्यत्र शङ्कित एव “शून्यस्तु” इत्यादिना; तत् कथं योगाचारदर्शनमेवात्र पूर्वपक्षीकृतम्, न माध्यमिकदर्शन- मित्याशङ्कयाह—प्रस्तुत इति द्व्यर्धेन । “शून्यस्तु” नानेन माव्यमिकदर्शनं पूर्वपक्षितम्; न ह्यत्र ज्ञानाभावः प्रतिपादयितुमभिप्रेतः किं तर्हि ? अर्थाभाव एव, “अतस्तद्भिन्नमर्थरूपं नाम न किञ्चिदस्तीति पश्यामः” इति पूर्वपक्षोपसंहारात् । स एव तु बाह्यार्थाभावः प्रथममनुमानेन प्रतिपादितः— “ननु सर्व एव निरालम्बनः प्रत्ययः” इत्यादिना । पुनस्तस्य प्रत्यक्षविरोधरूपं दूषणमुक्तम्—“ननु जाग्रतो बुद्धिः सुपरिनिश्चिता कथं विपर्यसिष्यति” इत्यादिना । ततः प्रत्यक्षस्य बाह्येऽर्थे प्रवृत्तिशक्तिर्नास्तीति प्रत्यक्षविरोधपरिहारेण पुनरुपक्रान्तं पूर्वपक्षवादिना “शून्यस्तु । कथम् ? अर्थज्ञानयोराकारभेदं नोपलभामहे” इत्यादिना । पुनः प्रत्यक्षविरोध एव समर्थितः सिद्धान्तवादिना “स्यादेतदेवम्, यद्यर्थाकारा बुद्धिः” इत्यादिना । तदनेनैतद् दर्शयति—एकमेवेदं वादस्थानकम् इति । “प्रथमं त्वनुमानतः” इत्युक्तम् । किं पनुस्तदनुमानमित्याशङ्क्याह—तत्रानुमानमाहेदं नन्विति । “ननु सर्व एव” इस्यादिभाष्यमनुमानप्रतिपादकमित्यर्थः । कः पुनरस्य भाष्यस्य पूर्वेण सह सम्बन्ध इत्याशङ्क्याह—अस्य च सङ्गतिरिति सशेषेण श्लोकद्वयेन । तत्संप्रयोगजं रजते रजतज्ञानं प्रत्यक्षम्, अतत्संप्रयोगजम् तु शुक्तिकायां रजत- ज्ञानमिति यदुक्तम्, तस्य चायमाक्षेपः “ननु सर्व एव” इति । बाह्यार्थाभावा- दिन्द्रियार्थसम्बन्धः पारमार्थिको न क्वचिदस्ति, सांवृतस्तु सर्वत्रास्तीत्यभिप्रायः ।

तदतद्योग[^1_pg201]जत्वस्य विभागस्तेन दुर्लभः ॥ २१ ॥

मिथ्यात्वं यद् द्विधैवोक्तं नान्यथेत्यत्र चोच्यते ।
सर्व25स्यैव हि मिथ्यात्वे किं विशेषोऽभिधीयते ॥ २२ ॥

स्तम्भादिप्रत्ययो मिथ्या प्रत्ययत्वात् तथा हि यः ।
प्रत्ययः स मृषा दृष्टः स्वप्नादिप्रत्ययो यथा ॥ २३ ॥

सिद्ध26साधनता चांशे दृष्टान्ताभाव एव च ।
मा भूतामेवशब्दश्च व्यर्थोऽशेषप्रसाधने ॥ २४ ॥

सर्व एवेति तेनात्र जाग्रद्बुद्धिपरिग्रहः ।
स्वांशाभ्युपगमाच्चापि बाह्याग्राह्यनिवारणम् ॥ २५ ॥

“यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः, स एवासमीचीनः” इति तदुक्तम्, तस्य चायमाक्षेपः “ननु सर्व एव” इतीत्याह—मिथ्यात्वमिति

इदानीं भाष्यकारप्रतिपादितस्यानुमानस्य पक्षहेतुदृष्टान्तं दर्शयितुमाह— स्तम्भादिप्रत्यय इति

अत्र भाष्यकारेण पक्षधर्मप्रतिपादनवेलायाम् “जाग्रतोऽपि स्तम्भः” इत्यादि धर्मविशेषणमुपात्तम्; तस्य फलं वार्तिककारः प्रदर्शयितुमाह—सिद्ध- साधनतेति सार्धेन प्रत्ययमात्रस्य पक्षत्वे स्वप्नादिप्रत्ययानां निरालम्बनत्वाभ्युप- गमादंशे सिद्धसाध्यता, सर्वेषां च पक्षत्वे सपक्षाभावात् दृष्टान्ताभावः; एवशब्दश्च “ननु सर्व एव” इत्यत्र भाष्ये प्रत्ययमात्रस्य निरालम्बनत्वे साध्ये व्यवच्छेद्याभावा- दनर्थकः स्यात्; यदि हि स्वप्नादिप्रत्ययानां निरालम्बनत्वमुभयवादिसिद्धं स्यात्, तदैवमुच्यते । किमिदमुच्यते स्वुप्नादिप्रत्ययानामेव निरालम्बनत्वम् ? सर्व एव तु निरालम्बनाः—इति । तज्जाग्रत्प्रत्ययानामेव निरालम्बनत्वं साध्यत इति सिद्धसाध्य- तापरिहारार्थम् । साध्यधर्मं निरालम्बनत्वं विशिनष्टि—स्वांशाभ्युपगमाच्चापीत्यर्धेन ॥

प्रत्ययस्येति साध्यांशव्याप्तहेतुनिदर्शनम् ।
हेतुश्चोपनयेनात्र जाग्रतोऽपीति दर्शितः ॥ २६ ॥

विवक्षाभावतश्चात्र व्यतिरेको न कथ्यते ।
सामान्यस्य च हे27तुत्वं न स्यात् पक्षैकदेशता ॥ २७ ॥

जाग्रज्ज्ञाने विशेषोऽयं यतः सुपरिनिश्चयः ।
बाह्यालम्बनसम्बन्धो न प्रसिद्धः परं प्रति ॥ २८ ॥

तस्माद्यद् भाष्यकारेण दत्तमुत्तरमत्र तु ।

कतमेन पुनरत्र भाष्येण दृष्टान्तः प्रतिपादितः, केन वा हेतुरित्याह— प्रत्ययस्येति । “प्रत्ययस्य हि निरालम्बनता स्वभाव उपलक्षितः स्वप्ने” इत्यनेन प्रत्ययत्वस्य हेतोर्निरालम्बनत्वेन साध्येन व्याप्तिं स्वप्नादावुपसंहृतां दर्शयति । “जाग्रतोऽपि स्तम्भ इति” इत्यनेनापि प्रत्ययत्वस्य पक्षधर्मतामाह ॥

ननु सालम्बने प्रत्ययत्वं नास्ति—इत्यपि वक्तव्यम्; न चोक्तमित्याश- ङ्क्याद—विवक्षाभावत इत्यर्धेन । ननु प्रत्ययानां निरालम्बनत्वे साध्ये प्रत्य- यत्वात्—इत्ययं हेतुः पक्षैकदेशत्वादसिद्धः पक्षधर्मत्वेनेत्याशङ्क्याह—सामान्य- स्येत्यर्धेन । प्रत्ययस्वलक्षणानां पक्षत्वम्, प्रत्ययस्य च सामान्यस्य हे28तुत्वेनोपादा- नमित्यर्थः ॥

“ननु जाग्रतो बुद्धिः सुपरिनिश्चिता कथं विपर्यसिष्यति?” इत्यादि सिद्धान्तभाष्यं केचिदेवं व्याचक्षते—पूर्वपक्षावाद्युक्तस्यानुमानस्यानुमानबाधं प्रति- ज्ञायाः किल दर्शयति भाष्यकारः—बाह्यार्थालम्बना जाग्रत्प्रत्ययाः, सुपरिनिश्चि- तत्वात्—इति । तदेतद् दूषयितुमाह वार्तिककारः—जाग्रदिति । वैलक्षण्यमात्रं त्विदमुक्तं स्वप्नप्रत्ययेन जाग्रत्प्रत्ययानाम्, न तु सुपरिनिश्चितत्वं बाह्यालम्बनव्याप्तं परस्य सिद्धमित्यर्थः ॥

तस्मान्नेदमुत्तरमुत्तराभासं त्विदमित्याह—तस्मादिति । यदि स्वप्नप्रत्यय- साधर्म्यात् प्रत्य29यत्वात् निरालम्बनत्वं स्तम्भादिप्रत्ययानाम्, तदा स्वप्नप्रत्ययवैध- र्म्यात् सुपरिनिश्चितत्वात् सालम्बनत्वं किमिति न भवतीत्यर्थः ॥

विकल्पसमता वा स्याद् वैधर्म्यसमतापि वा ॥ २९ ॥

दुष्टत्वात् पूर्वपक्षस्य जात्युक्तिः कैश्चिदाश्रिता ।
प्रतिज्ञादोषमेवाहुः केचित् प्रत्यक्षबाधनम् ॥ ३० ॥

शक्ष्यामो यदि विस्पष्टं स्वांशग्राह्यनिवारणम् ।
तदा ते शुद्ध एव स्यात् पक्षो ग्राह्यनिवारणः ॥ ३१ ॥

प्रत्यक्षादेश्च विषयो बाह्य एवा30वतिष्ठते ।
तन्निषेधकृ31तस्तस्मात् तैर्भवेत पक्षसाधनम् ॥ ३२ ॥

सुनिश्चयेन चैतेषां बाधकप्रत्ययादृते ।
प्रमाणाभासता नास्तीत्येतस्मात् कथ्यते 32बलम् ॥ ३३ ॥

33अप्रमाणगृहीतेऽर्थे प्रतिषेधो हि युज्यते ।
गृहीतमात्रबाधे तु स्वपक्षोऽपि न सिध्यति ॥ ३४ ॥

अत्र केतिदाहुः—दुष्टत्वेन पूर्वपक्षस्य 34जातिप्रयोग एवायमुत्तरत्वेन भाष्य- कारस्याभिप्रेत इत्याह—दुष्टत्वादित्यर्धेन । अन्ये त्वाहुः—पक्षबाध एवायमनेन प्रत्यक्षेणोक्तः, न पुनरनुमानेनेत्याह—प्रतिज्ञेति सार्धद्वयेन । प्रत्यक्षादिविषयनिषे- धकस्यानुमानस्य तैरेव प्रत्यक्षादिभिर्निराकरिष्यमाणस्वांशालम्बनैर्बाध इत्यर्थः ॥

सुपरिनिश्चितग्रहणं च बाधकप्रत्ययनिवृत्त्यर्थम्, न तु प्रत्यक्षादिनां बाह्या- लम्बनत्वासिद्धौ लिङ्गम्ः स्वत एव तेषां बाह्यामा35लम्बनमनात्मतया नीलस्य प्रतिभा- सनादित्याह—सुनिश्चयेनेति । अप्रमाणगृहीते चार्थे 36बाधो युक्तः, गृहीतमात्र- बाधे तु भवत्प्रयुक्तस्याप्यनुमानस्य बाधात् स्वपक्षसिद्धिरपि न प्राप्नोतीत्याह— अप्रमाणगृहीतेऽर्थ इति

अग्राह्यत्वाच्च भेदेन विशेषणविशेष्ययोः ।
अप्रसिद्धोभयत्वं वा वाच्यमन्यतरस्य वा ॥ ३५ ॥

वक्तृश्रोत्रोश्च यज्ञानं विशेषणविशेष्ययोः ।
तन्निरालम्बनत्वेन स्ववाग्बाधो द्वयोरपि ॥ ३६ ॥

सम्भवो 37न हि भेदस्य विशेषणविशेष्ययोः ।
तस्मान्निरूपणं नास्ति प्रतिज्ञार्थस्य शोभनम् ॥ ३७ ॥

निरालम्बनता नाम 38किञ्चिद् वस्तु न गम्यते ।

39तेनैतद् व्यतिरेकादौ प्रश्नो नैवोपपद्यते ॥ ३८ ॥

एवं तावत् भाष्यकारोक्तमभिधायेदानी40मात्मीयं प्रतिज्ञादोषमाह—अग्रा- ह्यत्वाच्च भेदेनेति । विशेषणविशेष्ययोर्यज्ज्ञानं तस्यापि प्रत्ययत्वेन निरालम्बनत्वात् तयोर41प्रसिद्धिः । ततश्चाप्रसिद्धविशेषणत्वमप्रसिद्धविशेष्यत्वमप्रसिद्धोभयत्वं वा यथेष्टं वक्तव्यम् । श्लोके च विशेषणविशेष्यशब्दौः धर्मधर्मिप्रतिपादकत्वेन द्रष्टव्यौ ॥

स्ववचनविरोधश्चेत्याह—वक्तृश्रोत्रोरिति । द्वयोरपि धर्मधर्मिणोर्यज्ज्ञानं

42तस्यापि प्रत्ययत्वेन निरालम्बनत्वात् न प्रत्ययो नापि निरालम्बनत्वमित्यर्थः ॥

न च भव43त्पक्षे विज्ञानव्यतिरिक्तं निरालम्बनत्वम्, विज्ञानव्यतिरिक्तस्य वस्त्वन्तरस्याभावात्; अव्यतिरेकपक्षेऽप्येकत्वात् प्रतिज्ञा44भावः; यतो धर्मिधर्म- विशिष्टः प्रतिज्ञार्थः; “प्रसिद्धो धर्मी प्रसिद्धविशेषणविशिष्टतया” इति वचनादि- त्याह—सम्भव इति

नन्ववस्तुत्वान्निरालम्बनत्वस्य कुतो व्यतिरेकाव्यतिरेकविकल्पाविति चोद- यति—निरालम्बनतेति

यद्यवस्तु कथं त्वस्मांस्त्वं बोधयितुमिच्छसि ।
बुध्यसे वा स्वबुद्ध्या त्वं कल्पिता त्वथ साध्यते ॥ ३९ ॥

असतः कल्पना कीदृक् क्लृप्तौ वस्तु प्रसज्यते ।
कथमिष्टमभावे चेद् वस्तु सोऽपीति वक्ष्यते ॥ ४० ॥

तथा प्रत्यय इत्येष कर्म भावादि वा 45वदेत् ।
भावादिषु विरोधः स्यात् कर्म चेत् सिद्धसाधनम् ॥ ४१ ॥

प्रत्याय्यस्य हि रूपादेर्निरालम्बनतेष्यते ।
अविज्ञानात्मकत्वेन किञ्चिन्नालम्बते ह्यसौ ॥ ४२ ॥

कर्तृत्वे करणत्वे वा पक्षत्वं शब्दयोरपि ।

तत् परिहरति—यदीति सपादार्धेन । कथमवस्तुनो बोधोत्पादकत्वमि- त्यर्थः । ‘कल्पिता त्वथ साध्यते’ इति चेत् तत्राह—असत इत्यर्धेन । सदे- वान्याकारेण कल्प्यत इत्यर्थः । कथमभावस्यावस्तुनस्त्वत्पक्षेऽपि बोधोत्पादकत्वमिति चोदयति—कथमिष्टमभावे चेदिति । तत्र परिहारमाह—“वस्तु सोऽपीति वक्ष्यते” इति । अभावस्याप्यभावग्रन्थे वस्तुत्वं प्रदिपादयिष्यामः ॥

एवं तावत् साध्यधर्मं निरालम्बनत्वं विकल्प्याधुना धर्मिणं विकल्पयितु- माह—तथेति । धर्मिनिर्देशको हि प्रत्ययशब्दः कर्मसाधनो वा स्यात् प्रतीयत इति, भावसाधनो वा प्रतीतिरिति, कर्तृसाधनो वा प्रत्येतीति, करणसाधनो वा प्रतीय- तेऽनेनेति ? तत्र भावकर्तृकरणसाधनपक्षे स्ववचनविरोधः । कर्मसाधनपक्षे च सिद्धसाध्यतेत्यर्थः ॥

तत्र कर्मसाधनपक्षे सिद्धसाधनत्वं यत् प्रतिज्ञातं तत् प्रदर्शयितुमाह— प्रत्याय्यस्येति । कर्मसाधनोऽयं प्रत्ययशब्दो रूपादीन्यपि प्रतिपादयति । तेषां चाविज्ञानात्मकत्वान्निरालम्बनत्वमिष्टमेवेति सिद्धसाध्यता ॥

अपि च, कर्तृकरणसाधनोऽयं प्रत्ययशब्दो धर्मधर्मिनिर्देशकमपि शब्दं प्रति- पादयेत्; शब्दस्य च निरालम्बनत्वमर्थाप्रतिपादकत्वम्; ततश्च साधनावसरे पक्षा- नुक्तिर्नाम दोष इत्याह—कर्तृत्व इति

तन्निरालम्बनत्वेन पक्षाभावः प्रसज्यते ॥ ४३ ॥

प्रत्याय्येन च भिन्नेन विना कर्त्राद्यसम्भवः ।
प्रत्यये तन्निमित्ते वा बाधः स्ववचनेन ते ॥ ४४ ॥

अथापि रूढिरूपेण प्रत्ययः स्यात् तथापि तु ।
ग्राहकं वस्तु सिद्धं नः प्रत्ययोऽन्यस्य वस्तुतः ॥ ४५ ॥

तमभ्युपेत्य पक्षश्चेदभ्युपेतं विरुध्यते ।
विशेष्यस्याप्रसिद्धिश्च तवास्माकमतादृशे ॥ ४६ ॥

आत्मधर्मस्वतन्त्रत्वकल्पनेऽपि तथा भवेत् ।
न च प्रत्ययमात्रत्वं किञ्चिदस्त्यनिरूपणात् ॥ ४७ ॥

इदानीं “भावादिषु विरोधः स्यात्” इति यदुक्तं तद् दर्शयितुमाह— प्रत्याय्येनेति । व्यतिरिक्तवस्तुग्राहकं प्रत्यायशब्देन धर्मिणं निर्दिश्य तस्य निरा- लम्बनत्वमप्रत्यायकत्वं साध्यत इति स्ववचनविरोधः ॥

अथ रूढ्यायं प्रत्यायशब्दोऽमुमर्थं प्रतिपादयति, तस्य धर्मित्वम्, तत्राभ्यु पगमविरोधिनी प्रतिज्ञेत्याह—अथापि रूढिरूपेणेति सार्धेन । व्यतिरिक्तवस्तुग्राहके प्रत्ययशब्दो लोके रूढ इत्यर्थः ।

अपि च व्यतिरिक्तालम्बनस्य च प्रत्ययस्य धर्मित्वम्, स्वांशालम्बनस्य वा ? तत्र पूर्वस्मिन् पक्षे तवाप्रसिद्धविशेषणः पक्षः; उत्तरपक्षेऽपि ममेत्याह—विशे- ष्यस्येत्यर्धेन ॥

तथात्मधर्मस्य वा प्रत्ययस्य धर्मित्वं स्यात् स्वतन्त्रस्य वा ? तत्रात्मधर्मत्वे तवाप्रसिद्धविशेष्य पक्षः; स्वतन्त्रपक्षेऽपि मीमांसकस्येत्याह—आत्मधर्मेत्यर्धेन । न चोभयधर्मरहितस्य प्रत्ययमात्रस्य धर्मित्वम्, तस्यानिरूपणादित्याह—नेत्यर्धेन ॥

ननु धर्मिणि विकल्प्यमानेऽनुमानोच्छेदः; गोशब्दस्यापि हि नित्यत्वं साध्य- मानं बुद्धिरूपस्य वा साध्येत, वर्णात्मकस्य वा ? तत्र बुद्धिरूपत्वे मीमांसकस्याप्रसि- द्धविशेष्यत्वम्, बुद्धिव्यतिरिक्तवर्णात्मकपक्षे च बौद्धस्य । तस्मादेवं भवतीप्यव-

शब्दार्थमात्ररूपेण यथान्येषां निरूपणम् ।

46तथापि भवतो न स्याद् वाच्यभेदमनिच्छतः ॥ ४८ ॥

निरालम्बनता 47चेह सर्वथा यदि साध्यते ।
विशेषणाप्रसिद्धिः 48स्याद् दृष्टान्तश्च न विद्यते ॥ ४९ ॥

केनचिच्चेत् प्रकरेण निरालम्बनतोच्यते ।
रसज्ञानस्य रूपादिशून्यत्वात् सिद्धसाधमन् ॥ ५० ॥

अथ बुद्धिर्यदाकारा तदालम्बनवारणम् ।
स्वाकारस्याभ्युपेतत्वात् तदभावो विरुध्यते ॥ ५१ ॥

बाह्यानालम्बनत्वेऽपि बाह्य 49इत्यग्रहो यदि ।

गन्तव्यम्—दर्शनभेदेनाभ्युपगतान् धर्मान् परित्यज्य शब्दशब्दवाच्येन रूपेण

50धर्मित्वम्; तथेहापि भविष्यति इत्याशङ्क्याह—शब्दार्थमात्ररूपेणेति । ममै- तद्युक्तं व्यतिरिक्तस्य बाह्यस्याभ्युपगमात्, तव तु नेत्यर्थः ॥

एवं साध्यधर्मिणं विकल्प्य पुनरपि साध्यधर्मं निरालम्बनत्वं विकल्पयितु- माह—निरालम्बनता चेति । यदि रसज्ञानस्य सर्वात्मना निरालम्बनत्वं साध्यते, तदा साध्यविकलत्वं दृष्टान्तस्य; अप्रसिद्धविशेषणश्च पक्षः; यतः सर्वात्मना निरा- लम्बनत्वं बौद्धस्याप्रसिद्धम्, स्वांशालम्बनत्वाभ्युपगमात् ॥

अथ कथञ्चिन्निरालम्बनत्वं साध्यते, तदा सिद्धसाध्यतेत्याह—केनचि- दिति

अथ यत्प्रतिभासं विज्ञानमुत्पद्यते, तन्नालम्बत इत्युच्यते, तत्राप्याह— अथेति । स्तम्भप्रतिभासं विज्ञानमुत्पद्यते तस्य विज्ञानत्मतयेष्टत्वात्, तदभावेऽभ्यु- पगमविरोधः ॥

अथ बाह्यविशिष्टनिरालम्बनत्वसाधानान्नाभ्युपगमविरोधः, तत्राप्याह— बाह्येति । यदि तावत् स्तम्भज्ञानं स्तम्भम् ‘बाह्यः’ इत्येवं नावलम्बत इत्युच्यते, ततः सिद्धसाध्यत्वम्; न हि स्तम्भज्ञाने बाह्यावभासोऽस्ति ॥

स्तम्भादौ नैव तद्वुद्धिरित्येवं सिद्धसाधनम् ॥ ५२ ॥

51अथ स्तम्भादिरूपेण निरालम्बनतोच्यते ।
संवेदनस्य दृष्टत्वात् तद्विरोधः प्रसज्यते ॥ ५३ ॥

द्विचन्द्रादिषु तुल्यश्चेन्नेन्द्रियाप्राप्तितो हि नः ।

52तत्रानालम्बनोक्तिः स्यान्नार्थसंवित्त्यभावतः ॥ ५४ ॥

सर्वत्रार्थेन्द्रियाणां नः संयोगसदसत्तया ।
संवित्तौ विद्यमानायां 53सदसद्ग्राहिता स्थितिः ॥ ५५ ॥

भवतस्त्विन्द्रियादीनामभावाद् ग्रहणादृते ।

54नालम्बनस्य हेतुः स्यान्निषेधोऽतो न युज्यते ॥ ५६ ॥

‘अथापि स्तम्भः’ इत्येवं न गृह्णातीति साध्यते, तत्राप्याह—अथ स्तम्भादीति । स्तम्भसंवेदनात्मके हि विज्ञाने तदसंवेदनात्मकं निरालम्बनत्वं साध्यमानं तत्संवेदनाविरुद्धमेव स्यादित्यर्थः ॥

ननु द्विचन्द्रज्ञानं निरालम्बनत्वेनेष्टं मीमांसकैः; तत्र कथं संवेदनविरोधो न स्यादिति चोदयति—द्विचन्द्रादिषु तुल्यश्चेदिति । तत्र परिहारमाह—नेन्द्रि- याप्राप्तितो हि न इति त्रिपाद्या भ्रान्ताभ्रान्तयोरर्थसंवेदने सत्येव प्रतिभास्येने- न्द्रियसम्बन्धाभावात् निरालम्बनत्ववाचोयुक्तिः; न प्रतिभासशून्यत्वेनेत्यर्थः ॥

एतदेव विवृणोति—सर्वत्रेति

बौद्धस्याप्येवमेव भविष्यतीति चेदित्याशङ्क्याह—भवत इति । भवतस्तु विज्ञानव्यतिरिक्तेन्द्रियार्थसम्बन्धानामभावात् प्रतिभासशू्न्यानात्मकत्वमेव सालम्ब- नत्वम्, प्रतिभासशू्न्यात्मकत्वं च निरालम्बनत्वम्; ईदृशि च निरालम्बनत्वे साध्ये संवेदनविरोधः स्यादित्यर्थः ॥

बहिर्भावाप्रसिद्धत्वात् तेनानालम्बना मतिः ।

55कथं च साध्यते नैष पक्षो हि ज्ञायते तदा ॥ ५७ ॥

यथान्यबोधनाशक्तेर्नाप्रसिद्धे विशेषणे ।
पक्षसिद्धिस्तथैव स्याद् विशेषणविशेषणे ॥ ५८ ॥

नाप्रसिद्धे पदार्थे हि वाक्यार्थः संप्रतीयते ।
तत्पूर्वकत्वात् पक्षश्च वाक्यार्थः स्थापयिष्यते ॥ ५९ ॥

पर्युदासे निषेधे वा व्यतिरिक्तस्य वस्तुनः ।
प्रमेयत्वाद्यभेदेन जगतः सिद्धसाधनम् ॥ ६० ॥

यदि चात्यन्त56भिन्नेन निरालम्बनतोच्यते ।

बाह्यत्वे च निरालम्बनविशेषणत्वेनोपदीयमाने बौद्धं प्रति तस्याप्रसिद्धत्वे- नाप्रसिद्धविशेषणविशेषणः पक्ष इत्याह—बहिर्भावाप्रसिद्धत्वादिति

नन्वप्रसिद्धविशेषणविशेषणः पक्ष इति शास्त्रे प्रतिज्ञादोषत्वेन न57 पठित- मित्याशङ्क्याह—यथान्यबोधनाशक्तेरिति । पक्षस्य हि वाक्यार्थत्वात्, पदार्थ- पूर्वकत्वाच्च वाक्यार्थस्य तत्प्रतीतिः पदार्थप्रतिपत्तिपूर्विका; अप्रसिद्धे च विशेषण- पदार्थे संसर्गावगतिर्नास्तीत्यप्रसिद्धविशेषणत्वं पक्षस्य दोषः । स च विशेषणस्य विशेषणेऽप्यप्रसिद्धे समान इत्यर्थः ॥

अमुमेवार्थं स्पष्टयति—नाप्रसिद्ध इति

अथ व्यतिरिक्तानालम्बनाः प्रत्ययाः—इति साध्यते, तत्रापि प्रसज्यप्रतिषे- धाभ्युपगमे व्यतिरिक्तं नालम्बत इति, पर्युदासाभ्युपगमेऽपि अतिरिक्तादन्यदा- लम्बते इत्युभयत्रापि सिद्धसाध्यता, प्रमेयत्वेन नीलतद्बुध्योरव्यतिरेकादित्याह— पर्युदास इति

अथात्यन्तभिन्नं नालम्बने-इति साध्यते, तत्रापि प्रमेयत्वेन नीलतद्बुध्यो- रव्यतिरेकात् स एव दोष इत्याह-यदि चेत्यर्धेन । अथ कथञ्चिद्भिन्नं नालम्बते—

कथञ्चिच्चेद् विरुध्येत प्राक्पक्षः कल्पितेन ते ॥ ६१ ॥

वस्त्वाद्याकारतश्चापि धीर्निरालम्बनेष्यते ।
ग्राहकाच्चेदभिन्नत्वं शक्तिभेदो विरुध्यते ॥ ६२ ॥

निरालम्बनबुद्धेश्च यद्युत्पत्तिः प्रसाध्यते ।
दृष्टत्वात् सेष्यतेऽस्माभिर्बाह्यग्राह्यविवर्जिता ॥ ६३ ॥

58सत्यत्वं पुनरेतस्यास्त्वं नेच्छसि 59कथं पुनः ।
आत्मांशेऽवसिता ह्येषा मृगतृष्णादिबुद्धिवत् ॥ ६४ ॥

इति साध्यते, तत्रापि नीलतद्बुध्योः सांवृतेन रूपेण भेदाभ्युपगमविरोधिनी प्रति- ज्ञेत्याह—कथञ्चिदित्यर्धेन ॥

सर्वेषु पक्षेषु सिद्धसाध्यता; यतो नील60बुद्धिर्नीलवस्त्वाकारतया नालम्बत इत्याह—वस्त्वाद्याकारतश्चेत्यर्धेन । अथात्मालम्बनाः प्रत्ययाः—इति साध्यते, यथोक्तम्—

“सहोपलम्भनियमादभेदो नीलबुद्धियोः” । इति, तत्राप्याह—ग्राहकाच्चेदित्यर्धेन ॥

नन्वेकस्य ग्राह्यग्राहकशक्तिद्वययोगे को विरोधः ? उच्यते—पूर्वस्य विशे- षणे वस्तुनि पश्चादुत्पन्नस्य ग्राहकत्वं तदेकस्य पौर्वापर्येणावस्थितशक्तिद्वययुक्तस्योत्प- त्तिस्थितिर्विरुद्धा; एवं च न प्रतिज्ञार्थः शोभनो लभ्यते । यदि परमेतत् साध्यते— निरालम्बनाः प्रत्ययाः—इत्येषा बुद्धिरुत्पद्यत इति, तत्रापि सिद्धसाध्यत्वम्; यतो धर्मधर्मिप्रतिपादकशब्दोच्चारणे सत्येषा बुद्धिरुत्पद्यत एव । बाधकप्रत्ययसद्भावे तु मिथ्यैषा बुद्धिः “एष वन्ध्यासुतो याति”-इतिवदित्याह—निरालम्बनबुद्धेश्चेति

तवाप्यत्र मिथ्यात्वमेवेत्याह—सत्यत्वं पुनरिति

चैत्रादिप्रत्ययानां च निरालम्बनता यदि ।
धर्मभूता न गृह्येत 61साधनोज्झितया धिया ॥ ६५ ॥

ततो विषय62नानात्वं प्रतियोग्यनिराकृता ।
रूपात् सालम्बनप्राप्तिः सती केन निवार्यते ॥ ६६ ॥

यदि प्रत्ययशब्दोऽपि प्रत्ययत्वेन गृह्यते ।
संवित्त्यालम्ब63नत्वं च वार्यते सिद्धसाधनम् ॥ ६७ ॥

बुद्ध्युत्पादनशक्तिश्चेद् वार्या साध्यं न सिध्यति ।
साधनस्य प्रयो64गो हि बोधकत्वाद् विना न ते ॥ ६८ ॥

न चाभि65धास्त्यसम्बन्धादृते भेदाच्च नास्त्यसौ ।
न चासौ तद्गतं भेदं बोधयन्त्या 66धिया विना ॥ ६९ ॥

यदि च त्रिरूपात् प्रत्ययत्वलक्षणात् लिङ्गादुत्पन्नं विज्ञानं स्वांशालम्बनम्, ततश्चैत्रादिप्रत्ययगतं निरालम्बनत्वं न गृह्णीयात् । ततो विषयभेदेन बाध्यबाधकत्वा- भावात् किमिति तेषां निरालम्बनत्वम् ? अनात्मालम्बनत्वं तु स्वाभाविकमेव, अनात्मताया नीलादीनां प्रतिभासनादित्याह—चैत्रादीति श्लोकद्वयेन ॥

यदि चायं करणसाधनत्वेन धर्मिनिर्देशकः प्रत्ययशब्द आत्मानमपि धर्मि- त्वेन प्रतिपादयेत, अर्थसंवेदनरूपालम्बनत्वं च वार्यते; तदापि सिद्धसाध्यते- त्याह—यदीति । अचेतनत्वेन प्रत्ययशब्दस्यार्थसंवेदनं नास्त्येवेत्यर्थः ॥

अथ बुद्ध्युत्पादनसामर्थ्यरूपालम्बनत्वं वार्यते, तत्रापि निरालम्बनत्वात् प्रत्ययानां साध्यत्वेन प्राश्निकान् प्रति प्रतिपादयितुमभिप्रेतं न सिध्यतीत्यभि- प्रायेणाह—बुद्ध्युत्पादनशक्तिरित्यर्धेन । कस्मादित्याह—साधनस्येत्यर्धेन ॥

इतश्च भवत्पक्षे शब्दस्यार्थप्रतिपादकत्वं नास्तीत्याह—न चेति । सम्ब- न्धबलेनार्थप्रत्यायकत्वं शब्दस्य, भेदनिबन्धनश्च सम्बन्धः; न चासौ भेदोऽस्ति, शब्दार्थग्राहकस्य प्रत्ययस्य निरालम्बनत्वादित्यर्थः ॥

प्राश्निकैर्नागृहीते च 67वाक्ये सावयवे पृथक् ।
पक्षे हेतौ च दृष्टान्ते वादिनि प्रतिवादिनि ॥ ७० ॥

साधनस्याप्रयोगः स्यादभ्युपेत्योच्यते यदि ।
पूर्वाभ्युपगमेनैव प्रतिज्ञा 68बाध्यते ततः ॥ ७१ ॥

धर्माधर्मादिभेदे च नासिद्धे परमार्थतः ।
शिष्यात्मनोश्च धर्मादेरुपदेशोऽवकल्पते ॥ ७२ ॥

तदनुष्ठानतो 69बुद्धैरिष्टो भेदः स्फुटं च तैः ।
सूत्रान्तरेऽभ्युपेतत्वाद् भवेदागमबाधनम् ॥ ७३ ॥

सर्वलोकप्रसिद्ध्या च पक्षबाधोऽत्र ते ध्रुवम् ।

भवत्पक्षे च साधनस्य प्रयोगे नास्तीत्याह—प्राश्निकैरिति सपादश्लोकेन । प्राश्निकान् प्रति साधनं प्रयुज्यते ‘प्राश्निकानामप्रतीतोऽर्थः प्रतिपाद्यते’ इति वच- नात्; न च ते साधनं प्रति70पद्यन्ते, पक्षहेतुदृष्टान्तवचनग्राहकाणां प्रत्ययानां निरालम्बनत्वादित्यर्थः ।

अथ तेषां सालम्बनत्वमिष्यते, ततोऽभ्युपगमविरोधः स्यादित्याह— अभ्युपेत्येति पादत्रयेण ॥

भवत्पक्षे च धर्माधर्मशिष्याचार्यग्राहकाणां प्रत्ययानां निरालम्बनत्वात् धर्मा- धर्मोपदेशश्च शिष्यान् प्रत्याचार्यस्य न प्राप्नोतीत्याह—धर्माधर्मादिभेदे चेति भेद इत्यन्तेन । तदनेन धर्माधर्मोपदेशान्यथानुपपत्तिलक्षणयार्थापत्त्या प्रति71ज्ञाबाधं दर्शयति ॥

धर्माधर्मोपदेशसूत्रव्यतिरेकेण सूत्रान्तरमपि विज्ञानव्यतिरिक्तार्थप्रतिपादन- परमस्तीत्यागमविरोधः प्रतिज्ञाया इत्याह—स्फुटं च तैरिति सशेषेणार्धेन ॥

सर्वलोकविरोधिनी चेयं प्रतिज्ञेत्याह—सर्वलोकेत्यर्धेन । अपि च, रूपत्रय- ग्राहकाणां विज्ञानानां निरालम्बनत्वं वा स्यात् सालम्बनत्वं वा ? निरालम्बनत्वपक्षे

कृत्स्नसाधनबुद्धिश्च यदि मिथ्येष्यते ततः ॥ ७४ ॥

सर्वाभावो यथेष्टं वा न्यूनता72द्यभिधीयताम् ।
तेषां सालम्बनत्वे वा तैरनैकान्तिको भवेत् ॥ ७५ ॥

तदन्यस प्रतिज्ञा चेत् तदन्यप्रत्ययो मृषा ।
तन्मिथ्यात्वप्रसङ्गे च पूर्वपूर्वं73 न सिध्यति ॥ ७६ ॥

स्तम्भसाधनविज्ञानभेदो न हि 74तदा भवेत् ।
यावद्यावत्प्रतिज्ञेयं तदन्यस्य75 प्रणीयते ॥ ७७ ॥

रूपत्रयस्याप्यभावः; एकस्य वा रूपस्य यथेष्टमभावो वक्तव्य इत्याह—कृत्स्नसाधन- बुद्धिश्चेति । अथ तेषां सालम्बनत्वमभिधीयते, ततस्तत्रापि हेतोर्वृत्तेः अनैकान्ति- कत्वमित्याह—तेषां सालम्बनत्व इत्यर्धेन ॥

तद्दूषणपरिहारकाम आह—तदन्यस्य प्रतिज्ञा चेदिति । साधनबुद्ध्य- न्यत्वविशिष्टं प्रत्ययत्वं हेतुत्वेन प्रतिज्ञायत इति नानैकान्तिकत्वम्; अत एष वाक्यार्थः—स्तम्भादयः प्रत्यया निरालम्बनाः, साधनग्राहकबुद्ध्यन्यत्वे सति प्रत्ययत्वादित्यर्थः । तदेतद् दूषयितुमाह—तदन्येत्यादिसपादश्लोकेन । स्तम्भा- दिबुद्धीनां साधनबुद्ध्यन्यत्वग्राहिका या बुद्धिः तस्या मृषात्वे तदन्यस्याभावाद्यः पूर्वमुपात्तः तदन्यत्वविशिष्टः प्रत्ययस्वलक्षणो हेतुः “तदन्यस्य प्रतिज्ञा चेत्” इति तस्यासिद्धत्वम्; तदसिद्धौ च ततोऽपि यत् पूर्वतरमुपातम् ‘निरालम्बनाः प्रत्ययाः’ इति तस्याप्यसिद्धिः । तदिदमुक्तम्—पूर्वपूर्वं न सिध्यति इति ।

अथ साधनबुद्ध्यन्यत्वग्राहिकाया बुद्धेः सालम्बनत्वमिष्यते, ततस्तत्र वृत्ते- रनैकान्तिकत्वम् । अथ साधनबुद्ध्यन्यत्वग्राहकबुद्ध्यन्यत्वं विशेषणमुपादीयते, तत्रापि स एव दोष इत्याह—यावद्यावदिति । यावद्यावद्विशेषणवदन्यत्वमुपादी- यते तावत्तावत्तन्यत्वग्राहकाणां प्रत्ययानां मिथ्यात्वात् सविशेषणो हेतुरसिद्धः । तदसिद्धत्वे चाद्यस्य प्रतिज्ञार्थस्यासिद्धिरित्यर्थः ।

तावत्तावत् परेषां स्यान्मिथ्या76त्वादाद्यबाधनम् ।
विरुद्धाव्यभिचारित्वं बाधो वाप्यनुमानतः ॥ ७८ ॥

इत्थं सर्वेषु पक्षेषु वक्तव्यं प्रतिसाधनम् ।
बाह्यार्थालम्बना बुद्धिरिति77सम्यक् च धीरियम् ॥ ७९ ॥

बाधकापेतबुद्धित्वाद् यथा स्वप्नादिबाह्यधीः ।
सापि मिथ्येति चेद् ब्रूयात् स्वप्नादिनामबाधनात् ॥ ८० ॥

78 स्यात् साधर्म्यदृष्टान्तो भवतः साधनेऽधुना ।
विज्ञानास्तित्वभिन्नत्वक्षणिकत्वादिधी79स्तदा ॥ ८१ ॥

सम्यक् चेदभ्युपेयेत 80तयानैकान्तिको भवेत् ।

सर्वेषु च पक्षेषु सप्रतिसाधनत्वं प्रत्ययत्वलक्षणस्य हेतोर्वक्तव्यमनुमानविरोधो वा प्रतिज्ञाया इत्याह—विरुद्धेति

इत्थं वक्तव्यमिति यदुक्तं तद्दर्शयति—बाह्यार्थालम्बनेति । अयं प्रयोगार्थः— ‘स्तम्भादयः प्रत्यया बाह्यार्थमालम्बन्ते’ इत्यस्माद् वाक्यात् या बुद्धिरुत्पद्यते सा धर्मिणी, सम्यक्त्वं तस्या इति साध्यो धर्मः, बाधकप्रत्ययरहितत्वे सति बुद्धित्वादि त्यय हेतुः, स्वप्नादिप्रत्ययानां 81या बाधिका बुद्धिस्तद्वदिति दृष्टन्तः । अथ स्वप्न- प्रत्ययबाधिकाया अपि बुद्धेः मिथ्यात्वाद् व्याप्तिशून्योऽयं हेतुरुच्यते, तत्राप्याह— सापि मिथ्येति । बाधकप्रत्ययमिथ्यात्वे सति स्वप्नादीनां सत्यत्वात् तवापि तर्हि व्याप्तिशून्यः प्रत्ययत्वलक्षणो हेतुरिति पूर्वपक्षवाद्यभिप्रेत82स्यापि निरालम्बनत्व- स्यासिद्धिः ।

अपि च विज्ञानास्तित्वभिन्नत्वादिग्राहकाणां प्रत्ययानां सालम्बनत्वे तत्रापि हेतोर्वृत्तेरनैकान्तिकत्वमित्याह—विज्ञानास्तित्वेति

तन्मिथ्याभ्युपपत्तौ वा[^1_pg215] पक्षाभावः प्रसज्यते ॥ ८२ ॥

तथा च 83बन्धमुक्त्यादिव्यवस्था न84 च कल्पते ।
ततश्च मोक्षयत्नस्य वैकल्यं वः प्रसज्यते ॥ ८३ ॥

विकल्पोत्पद्यमाना च ज्ञानास्तित्वादिधीर्यदि ।
मृपेष्टा न च दृष्टात्र प्रमाणान्तरतो 85मतिः ॥ ८४ ॥

प्रमाणाभावतस्तेन ज्ञानास्तित्वादि दुर्लभम् ।
सर्वं चाप्यस्मदादीनां मिथ्याज्ञानं विकल्पनात् ॥ ८५ ॥

सान्निध्यविप्रकृष्टत्वे सत्त्वासत्त्वे च दुर्लभे ।
मिथ्याज्ञानाविशेषेऽपि सांख्यादिपरिवर्जनात् ॥ ८६ ॥

निरालम्बनत्वे तु तेषां धर्मधर्मिणोरभावात् “प्रसिद्धो धर्मी प्रसिद्धविशेषण- विशिष्टः” इत्येवंलक्षणस्य पक्षस्याभावः प्राप्नोतीत्याह—तन्मिथ्याभ्युपपत्तौ वेति सार्धेन ।

ननु ज्ञानास्तित्वादिग्राहकं सविकल्पकं विज्ञानं भवतु मिथ्या, तथापि निर्वि- कल्पकज्ञानास्तित्वादिनां ग्रहणात् किमिति पक्षाभाव इत्याशङ्क्याह—विकल्पो- त्पद्यमाना चेति सार्धेन । प्रमाणान्तरशब्देन निर्विकल्पकं विज्ञानमाह । न च क्षणिकत्वादीनां ज्ञानसम्बन्धिता निर्विकल्पकेनावसीयते, सम्बन्धस्य भवत्पक्षेऽ वस्तुत्वादित्यर्थः ।

अपि च भवत्पक्षे सर्वमेव संसारिणो विज्ञानमप्रमाणम्, ग्राह्यग्राहककलु- षितत्वेन सविकल्पकत्वात्; न च बाह्यार्थशून्यवादिनः सदसदर्थविषयत्वेन प्रमाणा- प्रमाणादिविभाग इत्याह—सर्वं चेति

भवत्पक्षे च—

“नासतो विद्यते भावो नाभावो विद्यते सतः ।”

“क्षणिकाः सर्वसंस्काराः”

इत्येवमादीनां मिथ्यात्वाविशेषात् सांख्यदर्शनपर्युदासेन बौद्धदर्शनपक्षपातो मुधैवेत्याह—मिथ्याज्ञानेति

बौद्धदर्शन एकस्मिन् पक्षपाती न युज्यते ।
मिथ्यात्वं86 यदि बुद्धेः स्याद् बाधः किं नोपलभ्यते ॥ ८७ ॥

वाधाद् विना87 मृषात्वस्य व्यवस्था न च कल्पते ।
प्रतियोगिनि दृष्टे च जाग्रज्ज्ञाने मृषा भवेत् ॥ ८८ ॥

स्वप्नादिबुद्धिरस्माकं तव भेदोऽपि किंकृतः ।
न चान्यत् प्रतियोग्यस्ति जाग्रज्ज्ञानस्य शोभनम् ॥ ८९ ॥

यद्दर्शनेन मिथ्यात्वं स्तम्भादिप्रत्ययो व्रजेत् ।
स्वप्नादिप्रतियोगित्वं सर्वलोकप्रसिद्धितः ॥ ९० ॥

88तदिदं धर्मवैधर्म्याद् बाधकप्रत्यये यथा ।
योगिनां जायते बुद्धिर्बाधिका प्रतियोगिनी ॥ ९१ ॥

यदि च जाग्रत्प्रत्ययानां मिथ्यात्वम्, किमिति देशादौ बाधकप्रत्ययो नोत्प- द्यते ? अथ दैवबाधेन मिथ्यात्वम्, व्यवस्था न प्राप्नोति—योगिज्ञानं प्रमाणम्, स्तम्भादयस्तु प्रत्यया न प्रमाणमित्याह—मिथ्यात्वं यदीति

अस्मत्पक्षे तु बाधकप्रत्ययसदसद्भावकृतेयं प्रमाणाप्रमाणव्यवस्थेत्याह— प्रतियोगिनीत्यस्माकमन्तेन । भवत्पक्षे च स्तम्भज्ञानयोगिज्ञानयोर्बाधकप्रत्यया- भावेन किंकृतेयं व्यवस्था—योगीज्ञानं प्रमाणम्, स्तम्भादिज्ञानप्रमाणमित्याह- तव भेदोऽपि किंकृत इति

ननु चास्ति स्तम्भादिप्रत्ययानां बाधकमनुमानम् । तदुक्तम्—स्तम्भादि- प्रत्ययो मिथ्या प्रत्ययत्वात् इति । अतः किमिदमुच्यते—“बाधः किं नोपल- भ्यते” इत्याशङ्क्याह—न चान्यदिति । अस्तीदमनुमानम्; प्रत्यक्षविरुद्धत्वाद- शोभनमित्यभिप्रायः । प्रत्यक्षस्य प्रत्यक्षान्तरमेव बाधकम्; तच्च नास्तीत्यर्थः ।

यदि परं स्वप्नादयः प्रत्यया जाग्रत्प्रत्ययस्य बाधकाः, तत्र चैतद् धर्मवैध- र्म्यात् प्रमाण्यं सिध्यतीत्याह—स्वप्नादीति । ननु योगिज्ञानं शून्यत्वग्राहकं भवि- ष्यतीति चोदयति—योगिनामिति

जाग्रत्स्तम्भादिबुद्धिनां ततः स्वप्नादितुल्यता ।
प्राप्तानां तामवस्थां च सर्वप्राणभृतामपि ॥ ९२ ॥

बाधोऽयं भविता तेन सिद्धा सा89 प्रतियोगिता ।
इह जन्मनि केषांचिन्न तावदुपलभ्यते ॥ ९३ ॥

योग्यवस्थागतानां तु न विद्मः किं भविष्यति ।
योगिनां चास्मदादीनां त्वदुक्तप्रतियोगिनी ॥ ९४ ॥

त्वदुक्तविपरिता वा बाधबुद्धिर्भविष्यति ।
ईदृक्त्वे योगबुद्धीनां दृष्टान्तो न तवास्ति च ॥ ९५ ॥

दृष्टान्तस्त्व90स्मदीयानां यो गृहीतः स विद्यते ।
अथ स्तम्भादिबुद्धीनां वदेत् सप्रतियोगिताम् ॥ ९६ ॥

संसारिणोऽपि तदवस्थां गतस्यायं वाधो भविष्यतीत्याह—प्राप्तानामिति

तत्र परिहारमाह—इह जन्मनीति । संसारिणां तावन्नोत्पद्यते; अस्म- द्विलक्षणास्तु योगिनः सन्ति, तेषामपि स्तम्भादिबुद्धीनां बाधकप्रत्ययोऽस्तीत्यत्र न किञ्चित् प्रमाणमस्तीत्यभिप्रायः ।

अथ निष्प्रमाणकमेवेदमुच्यते, तस्मादस्मदादीनामपि त्वदुक्तप्रतियोगिनी त्वदुक्तविपरीता वा बाधबुद्धिर्भविष्यतीत्याह—योगिनां चेति

अपि च, अस्मद्विलक्षणा योगिनः सन्ति, तेषां च स्तम्भादिप्रत्ययबाधकं ज्ञानमस्तीत्यत्र न किंचित्प्रमाणमस्तीत्याह—ईदृक्त्व इति । न तावत् प्रत्यक्षम्; नाप्यनुमानम्, दृष्टान्ताभावादित्यर्थः ॥

सन्ति तु 91त्वदीययोगिविपरीतबुद्धयोऽस्मद्योगिनो रथ्यापुरुषदृष्टान्तेनेत्याह— दृष्टान्तस्त्विति

ननु अस्त्येवानुमानं योगिबुद्धौ प्रमाणम्—स्तम्भादयः प्रत्यया बाध्याः सप्रतियोगिन्यो वा, बुद्धित्वात् मृगतृष्णादि92बुद्धिवदिति दर्शयति—अथ स्तम्भा- दिबुद्धीनामिति

बाध्यत्वं 93वापि बुद्धित्वान्मृगतृष्णादिबुद्धिवत् ।
इष्टं सप्रतियोगित्वं मृगतृष्णादिबुद्धिभिः ॥ ९७ ॥

तदात्मना च बाध्यत्वं ग्राह्यान्तरतयापि च ।
बाधकैश्चाप्यनैकान्तस्तदन्यत्वे च पूर्ववत् ॥ ९८ ॥

मिथ्याधीप्रतियोगित्वं स्वप्नादाविव ते भवेत् ।
रागादिक्षययोगित्वनिमित्ताधिगतिस्तथा ॥ ९९ ॥

यावान् विशेष 94इष्टस्ते 95सर्वबाधाद् विरुद्धता ।
महाजनस्य वाबाधादिदानीं बाधबुद्धिवत् ॥ १०० ॥

तत्र सिद्धसाध्यतया तावत् प्रतिज्ञां दूषयितुमाह—इष्टमिति । प्रत्यक्षादीना- मि96ष्यन्त एव मृगतृष्णादिबुद्धयः प्रतियोगित्वेन, कथंचिच्च तदैक्येन; तस्य च बाध्यमानत्वेन तेषामपि बाध्यत्वम्; विषयान्तरापेक्षया रसज्ञानस्य मिथ्यात्वमिष्यत एवेत्यर्थः ॥

अबाध्येऽपि बाधके योगिज्ञाने बुद्धित्वदर्शनादनैकान्तिकोऽयं हेतुरित्याह— बाधकैश्चाप्यनैकान्त इति । बाधकबुद्ध्यन्यत्वं च हेतोर्विशेषणं साधनबुद्ध्यन्यत्व- वन्निराकर्तव्यमित्याह—तदन्यत्वे च पूर्ववदिति

धर्मविशेषविपरीतसाधनत्वाच्च विरुद्धोऽयं हेतुरित्याह—मिथ्याधीप्रति- योगित्वमिति सार्धेन । साध्यस्य हि योगिज्ञानस्य सम्यक्त्वरागादिक्षययोगित्व- निमित्तादयो विशेषा इष्यन्ते; न च तथाविधेन बाध्यत्वं97 स्वप्नप्रत्यये व्याप्तमवग- तम्; लौकिकानामेव तु ज्ञानं स्वप्नप्रत्ययस्य बाधकमित्यर्थः ॥

सप्रतिसाधनश्चायं हेतुरित्याह—महाजनस्येति । अबाध्याः स्तम्भादि- बुद्धयो महाजनस्य, इदानीमबाधात् योगिज्ञानवदिति ।

वाच्योऽनुमानबाधो वा यदि वा प्रतिसाधनम् ।
पूर्वसाधनदोषाश्च सन्धेयास्तस्य चाधुना ॥ १०१ ॥

साध्यभेदादवाच्यत्वाद्धेतोर्नोभयसिद्धता ।
प्रत्ययत्वं च सामान्यं भिन्नाभिन्नं न विद्यते ॥ १०२ ॥

भवतोऽत्यन्तभिन्नं च मत्पक्षेऽपि 98न किंचन ।

99सादृश्यान्यनिवृत्ती च नेत्येतत् साधयिष्यते ॥ १०३ ॥

तस्माद्धेतुन सामान्यमस्ति सिद्धं द्वयोरपि ।
विशेषयोश्च हेतुत्वं पक्षतत्तुल्यसंस्थयोः ॥ १०४ ॥

न स्यादन्वयहीनत्वादतद्धर्मतयापि च ।
न चार्थहीना तद्बुद्धिर्हेतुत्वेन भविष्यति ॥ १०५ ॥

भाष्यकारप्रयुक्तसाधनदोषाश्चात्रापि साधने यथासम्भवं विनियोज्या एवे- त्याह—पूर्वसाधनदोषाश्च सन्धेया इति । इदानीं तस्यैव साधनस्य प्रतिज्ञादोषं प्रतिपाद्य अवसरप्राप्तं हेतुमसिद्धत्वेन दूषयितुमाह—तस्येत्यादिसिद्धतान्तेन । प्रत्ययस्वलक्षणानां साध्यधर्मित्वेन प्रत्ययत्वात् इति सामान्येन साधनधर्मेण भवि- तव्यम्; तच्च यदि स्वलक्षणादभिन्नमिष्यते, तदा प्रतिज्ञार्थैकदेशत्वादसिद्धो हेतुरित्यर्थः ।

भिन्नाभिन्नमपि बौद्धस्यासिद्धमित्याह—प्रत्ययत्वामित्यादिना भवत इत्य- न्तेन । अत्यन्तभिन्नमपि मीमांसकस्यासिद्धमित्याह—अत्यन्तेति शेषेण । सादृ- श्यापोहरूपयोरपि सामान्ययोर्निराकरिष्यमाणत्वादसिद्धमित्याह—सादृश्येति

नापि विशेषस्य हेतुत्वम्, पक्षस्थस्यान्वयाभावात्; सपक्षस्थस्याप्यपक्षधर्म- त्वादित्याह—विशेषयोश्चेति

नापि प्रत्ययत्वात् इति प्रत्ययशब्दात् पञ्चम्यन्ताद् यद् विज्ञानमुत्पद्यते

100अनालम्बनम् तस्य हेतुत्वम्, अन्वयपक्षधर्मतयोरभावादित्याह—न चार्थहीने- त्यर्धेन ॥

आश्रयासिद्धता चोक्ता विशेष्यस्याप्रसिद्धितः ।
तथा हेतोर्विरुद्धत्वं दृष्टान्ते साध्यहीनता ॥ १०६ ॥

विशेषणा101प्रसिद्ध्यर्थविकल्पेनैव बोधिते ।
स्वप्नादिप्रत्यये बाह्यं सर्वथा न हि नेष्यते ॥ १०७ ॥

सर्वत्रालम्बनं बाह्यं देशकालन्यथात्मकम् ।

आश्रयासिद्धतापि अप्रसिद्धविशेष्यः पक्षः—इत्यनेनैवोक्त इत्याह— आश्रयासिद्धतेत्यर्धेन ।

साध्यविकलत्वं दृष्टान्तस्य विरुद्धत्वं च हेतोः अप्रसिद्धविशेषणः पक्षः— इत्यनेनैवोक्तमित्याह—तथा हेतोरिति

एवं तावद्धेतुदोषानभिधायेदानीं साध्यविकल्पत्वेन दृष्टान्तं दूषयितुमाह— स्वप्नादीति पादत्रयेण । स्वप्नादिप्रत्ययानां निरालम्बनत्वमुच्यमानं बाह्यार्थालम्बना- भावाद्वा, प्रतिभासशून्यत्वेन वा, कारणाभावाद्वा ? न तावद् बाह्यार्थालम्बना- भावेन स्वप्नादिप्रत्ययानां निरालम्बनत्वम्, सर्वत्र बाह्यालम्बनत्वस्य विद्यमानत्वात् । जाग्रज्ज्ञानवदत्रापि नीलीदेरनात्मतया प्रतिभासनात्; स्वानुभवादन्यत्वं हि नीलादेर्बाह्यत्वम्; तच्च तस्मिन्नेवानुभवे नीलाकारतावदभासत एव । ‘नीलमिदम्’ इति हि प्रतिभासः, न पुनः ‘नीलमहम्’ इति । न हि शुक्तिकायां रजते च रजतज्ञानस्य सामग्रीवैलक्षण्यं मुक्त्वा प्रतिभासे कश्चिद् विशेषः— इत्युक्तम् । सामानेऽपि बाह्यालम्बनत्वे बाधकप्रत्ययात् स्वप्नादिप्रत्ययानामप्रामा- ण्यमित्याह—देशकालान्यथात्मकमिति । शुक्तिकायामपि रजतज्ञानस्य अपरो- क्षतया अनात्मत्वेन च प्रतिभासितस्यैव ‘नेदं रजतम्’ इति बाधकप्रत्ययेना- न्यथात्वग्रहणादप्रामाण्यम्; यदनेनालम्बितं तदभावे नेदं प्रमाणम् । प्रति- भासमानतया च रजतादेरालम्बनत्वम्, न सद्भावेन; रजतेऽपि रजतज्ञानस्य रजत- मालम्बनं रजतप्रतिभासात्, न तत्सद्भावात्; इतरथा तु रजताकारतावत् द्रव्या- कारताप्यालम्बनं स्यात् । रजतज्ञानस्य प्रतिभासिकस्यैव तु सदसद्भावेन प्रामाण्य- मप्रामाण्यं च । तेन स्वप्नादिविज्ञानं सालम्बनमपि सदप्रमाणम् । अथापि प्रतिभास-

जन्मन्येकत्र भिन्ने वा तथा कालन्तरेऽपि वा ॥ १०८ ॥

तद्देशो वान्यदेशो वा स्वप्नज्ञानस्य गोचरः ।
अलातचक्रेऽलातं स्याच्छीघ्रभ्रमणसंस्कृतम् ॥ १०९ ॥

गन्धर्वनगरेऽभ्राणि 102पूर्वदृष्टं गृहादि च ।
पूर्वानुभूततोयं च रश्मितप्तोषरं तथा ॥ ११० ॥

मृगतोयस्य विज्ञाने कारणत्वेन कल्प्यते ।
द्रव्यान्तरे विषाणं शशस्यात्मा च कारणम् ॥ १११ ॥

निबन्धनं रजतादेरस्तित्वम्, तच्च सर्वत्राविशिष्टम्; ‘नेदं रजतम्’—इत्यपि बाधकप्रत्ययेन तत्रैव विषयान्तरावगमः; तथापि यस्मिन् विज्ञाने उत्पन्ने सति ‘नैतदेवम्’ इति विज्ञानान्तरमुत्पद्यते, तदप्रमाणशब्दप्रयोगादप्रमाणम् । नापि प्रतिभासशून्यत्वेन, प्रतिभास्यशून्यस्य प्रतिभासस्याभावात्; स तु प्रतिभास्योऽर्थो जन्मन्येकत्र भिन्ने वा भवतु, मा वा भवतु; न किञ्चिदनेन ग्रहेणेत्याह-जन्मन्ये- कत्रेति

नापि कारणाभावेन निरालम्बनत्वम्, सर्वत्र कार्यदर्शनेन कारणस्य विद्य- मानत्वात्; तद्भावभावित्वेन च कारणविशेषदर्शनादित्येतत् “अलातचक्रेऽ- लातम्” इत्यादिना “पृथिव्यादीनि कारणम्” इत्यन्तेन प्रतिपादयितुमाह— अलातचक्रेऽलातमित्यादिना श्लोकपञ्चकेन ।

अन्ये त्वालम्बनकथनपरत्वेन श्लोकपञ्चकं व्याचक्षते । तदयुक्तम्; यतः यद्यत्र प्रतिभासते तत्तत्रालम्बनम्; किमनेन पृष्टेन कथितेन वा ? भ्रान्तस्याप्यभ्रान्त- वद् रजतमेवापरोक्षमनात्मभूतं चालम्बनम्; नात्मख्यातिरसत्ख्यातिः प्रमोषो वा, तथा अप्रतिभासनात् । सदसत्त्वे तु विशेषः । सालम्बनमपि नैव सम्यक् कथितम्; न हि चक्रज्ञानस्यालातमालम्बनम्; 103भ्रमणसंस्कृतस्य तु कारणत्वमालम्बनव्यतिरेकेण चक्षुरादिवत् । नापि नगरज्ञानस्य द्वयमालम्बनमभ्राणि पूर्वदृष्टगृहादि च अभ्रस्या- प्रतिभासनात्; गृहादेस्त्वगृहीततया प्रतिभासनात् । एवमूषरे सलिलज्ञानादिषु । तस्मादालम्बनव्यतिरिक्तकारणकथनपराण्येतानि । तदुक्तम्—

शशशृङ्गाधियो मौण्ड्यं निषेधे शिरसोऽस्य च ।
वस्त्वन्तरैरसंसृष्टः पदार्थः शून्यताधियः ॥ ११२ ॥

कारणत्वं पदार्थानामसद्वाक्यार्थकल्पने ।
अत्यन्ताननुभूतोऽपि बुद्ध्या योऽर्थः प्रकल्पते ॥ ११३ ॥

तस्योत्पत्तौ कथञ्चित् स्युः पृथिव्यादीनि कारणम् ।
एष प्रत्यक्षधर्मश्च वर्तमानार्थतैव या ॥ ११४ ॥

सन्निकृष्टार्थवृत्तिश्च न तु ज्ञानान्तरेष्वियम् ।
कथमुत्पादयेज्ज्ञानं तत्रासंश्चेत् कुतो न्वियम् ॥ ११५ ॥

अर्थस्याविद्यमानस्य विज्ञानोत्पत्त्यशक्तता ।
बाह्यालम्बनतायां नौ विवादोऽर्थस्य संनिधिः ॥ ११६ ॥

“मृगतोयस्य विज्ञाने करणत्वेन कल्प्यते”इति ॥

स्वप्नादिप्रत्ययानामालम्बनं देशकालान्यथात्मकमित्युक्तम्; तदनुपपन्नम्, अवर्तमानस्यासन्निकृष्टस्य चालम्बनत्वायोगात् कथमपरोक्षतया प्रतिभासते ? यत्रार्थ, तत्रापरोक्षस्यालम्बनत्वमित्याशङ्क्याह—एष इति । प्रत्यक्षस्य हि वर्तामनं संनिकृष्टं चालम्बनम्, न ज्ञानान्तरेष्वित्यर्थः ।

नन्वालम्बनं हि कारणम्; असतस्तु कथं विज्ञानोत्पादकत्वमिति चोद- यति—कथमुत्पादयेज्ज्ञानं तत्रासंश्चेदिति

तत्र परिहारमाह—कुतो न्वियमिति सशेषेणार्धेन ।

आलम्बनत्वेनायं ज्ञानमुत्पादयति, प्रतिभास104मानतया चालम्बनत्वम् । सा चेतविद्यमानस्याप्यस्ति, किमिति नोत्पादयति ? अपि च जाग्रत्प्रत्ययवदनात्मतया प्रतिभासेन सर्वत्र स्वप्नादौ बाह्यालम्बनत्वम्; तत्र चावयोर्विवादः । अर्थासन्निधाने च परोक्षस्यापरोक्षतया प्रतिभासेन भ्रान्तता भवतु, नात्मालम्बनत्वम्; न हि नीलकारे प्रतिभासे तस्यापारमार्थिकत्वेन पीताकारता105 भवतीत्याह—बाह्या- लम्बनतायामिति

यदि नास्ति 106ततः किं स्यादस्मात् पक्षान्निवर्तनम् ।
तस्माद् यदन्यथा सन्तमन्यथा प्रतिपद्यते ॥ ११७ ॥

तन्निरालम्बनं ज्ञानमभावालम्बनं च तत् ।
भावान्तरमभावोऽन्यो न कश्चिदनिरूपणात् ॥ ११८ ॥

107भवता द्वयमप्येतद् दुर्निरूपं सहेतुकम् ।
प्रतिज्ञादोषवच्चापि योज्या हेतोर्विरुद्धता ॥ ११९ ॥

समस्तव्यस्तधर्मादिस्वरूपादिविपर्ययात् ।
दृष्टान्तदोषाः सर्वे च योज्या न ह्येकवस्तुनि ॥ १२० ॥

तव साध्यांशहेत्वंशव्याप्तधर्मादिसम्भवः ।

कथं तर्हि समानेऽपि बाह्यालम्बनत्वे स्वप्नादिप्रत्ययानां निरालम्बनत्वमस- दालम्बनत्वं चोच्यत इत्याशङ्कयाह—तस्मादिति

भवताप्येतदेवाभावालम्बनविज्ञानमभ्युपगन्तव्यम्, यत्रान्यथा प्रतिभासते; न पुनः ‘इह प्रदेशे घटो नास्ति’ इति ज्ञानम्’ एतस्य सन्निहितघट- विविक्तभूप्रदेशालम्बनत्वेन भावालम्बनत्वाभ्युपगमादित्याह—भावान्तरमित्यर्धेन ॥

बौद्धपक्ष एव तु सर्वेषां स्वांशालम्बनत्वेन तुल्यत्वात् स्वप्नादौ निरालम्ब- नासदालम्बनशब्दयोः सप्रमाणकः प्रयोगो न प्राप्नोतीत्याह—भवतेत्यर्धेन ।

धर्मिनिर्देशकप्रत्ययशब्दवत् हेतुप्रतिपादकं प्रत्ययशब्दं भावादिसाधकत्वेन विकल्प्य धर्मधर्म्युमयेषां धर्मिविशेषधर्मविशेषोभयविशेषाणां च विपर्ययसाधनात् विरुद्धत्वमुपपादनीयमित्याह—प्रतिज्ञादोषवदिति

विज्ञानमात्राभ्युपगमे च स्वप्नप्रत्यस्वलक्षणव्यतिरिक्तयोः साध्यसाधन- धर्मयोरभावात् सर्वे साधनविकलत्वादयो दृष्टान्तदोषा वत्कव्या इत्याह—दृष्टान्त- दोष इति

केचिद् वैधर्म्यदृष्टान्तो नास्तीत्यप्यनुयुञ्जते ॥ १२१ ॥

तदभावादवृत्तेश्च नास्त्यत्रावसरस्तव ।
विधिरूप्रतिज्ञायामेतद् वक्तुं हि शक्यते ॥ १२२ ॥

तत्रावस्तुविपक्षेऽपि प्रयोगस्य हि सम्भवः ।
यस्मिन्ननित्यता नास्ति कार्यतापि न विद्यते ॥ १२३ ॥

तस्मिन् यथा खपुष्पादादि/?/ति शक्यं हि भाषितुम् ।
अत्र त्ववस्तु108साध्यत्वे वस्तुनश्च विषक्षता ॥ १२४ ॥

तेन स्याद् व्यतिरेकोऽस्य वाच्यो यश्चापि दर्शयेत् ।
प्रतिषेधद्वयात् तेन विधिरेव प्रदर्शितः ॥ १२५ ॥

न च शक्यो विधिर्वक्तुं वस्तुन्यसति केनचित् ।
एवं स्थिते तु109 सर्वज्ञनिषेधादावियं गतिः ॥ १२६ ॥

अपि च भवत्पक्षे नित्यविपक्षानुमानस्येदं लक्षणम् “त्रिरूपाल्लिङ्गतोऽर्थ- दृक्” इति । न च निरालम्बनप्रतिज्ञायां सालम्बनविपक्षाभावेन वैधर्म्यप्रयोगासम्भ- वात् त्रैरूप्यं दर्शयितुं शक्यमित्याह—केचिदित्यर्धेन ॥

ननु ‘अनित्यः शब्दः’ इत्यस्मिन् प्रतिज्ञार्थे नित्यविपक्षाभावेऽपि खपुष्पं विपक्षमाश्रित्य यथा कृतकत्वस्य त्रैरूप्यं दर्शतम्, उक्तं च “तदभावात्तत्रावृत्तेनायं दोषः” इति, तथेहापि भविष्यतीत्याशङ्क्य वैलक्षण्यं दर्शयितुमाह—सार्धेन श्लोक- चतुष्टयेन तदभावादवृत्तेश्चेत्यादिना । यत्र वस्तु साध्यत्वेन प्रतिज्ञायते, तत्रा- वस्तुनो विपक्षत्वादनित्यत्वाभावेन कृतकत्वाभावः शक्यो दर्शयितुम्—यथा खपुष्पादौ; अवस्तुभूतनिरालम्बनत्वे तु साध्ये खपुष्पादेरपि सपक्षत्वाद् वस्तुनि विपक्षे निरालम्बनत्वाभावेन प्रत्ययत्वाभावो दर्शयितव्यः । न च भवत्पक्षे सालम्बनं किञ्चिदस्तीत्यभिप्रायः ।

ननु सर्वज्ञाभावप्रतिज्ञायां वक्तृत्वात् इत्यस्य विपक्षाभावेन त्वयापि त्रैरूप्य- मशक्यं दर्शयितुमित्याशङ्क्याह—एवं स्थिते त्विति

प्रत्यक्षादेरसा[^9_pg225]मर्थ्यात् तदीयस्यास्मदादिवत् ।
वैधर्म्यासम्भवेऽप्येतदन्ये त्वाहुरदूषणम् ॥ १२७ ॥

विनैव तत्प्रयोगेण हेतुरैकान्तिको यतः ।
सर्वथा सदुपायानां वादमार्गः प्रवर्तते ॥ १२८ ॥

अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः ।
ननु सर्वं भवत्सिद्धं मयेदं साधनं कृतम् ॥ १२९ ॥

किमर्थं 110मदसिद्धया त्वं विकल्प्यात्रात्थ दूषणम् ।
विप्रलिप्सुरिवाहैवं किमर्थं न्यायविद् भवान् ॥ १३० ॥

सर्वज्ञताभावप्रतिपादनविवक्षायां वा एवं प्रयोगः कर्तव्यः—बुद्धादेः प्रत्यक्षं धर्मि धर्मग्राहकं न भवति, प्रत्यक्षत्वात् अस्मदादिप्रत्यक्षवत् इति । अथवा कर्तृत्वेन सर्वज्ञाभावेऽपि साध्ये विपक्षाभावेन सुतरामैकान्तिकत्वात् गमकत्वं विनापि त्रैरू- प्यदर्शनेन; यतो नास्माकमिदंलक्षणमनुमानम् “त्रिरूपाल्लिङ्गतोऽर्थदृक्” इत्याह— वैधर्म्यासम्भवेऽपीति

अपि च ज्ञानाद्वैतवादिनस्तद्व्यतिरिक्तहेत्वभावेन साधनप्रयोग एव न प्राप्नो- तीत्याह—सर्वथा सदुपायानामिति

तत्राद्वैतवादी प्रत्यवतिष्ठते—ननु सर्वमिति । अद्वैत111वादी द्वैतवादिनं प्रति प्रयुङ्क्ते । तस्य प्रत्ययत्वं निरालम्बनत्वेन व्याप्तं स्वप्नादौ, जाग्रत्प्रत्ययधर्मत्वेना- सिद्धम् । तत्प्रतिपत्तिफलं चेदमनुमानम्; उक्तं च “परार्थ112मनुमानं तददृष्टार्थ- प्रकाशकम्” इत्यर्थः ।

तदत्र द्वैतवाद्यह—विप्रलिप्सुरिवेति । उभयवादिसिद्धस्य साधनत्वम्, नान्यतरसिद्धस्येति दिङ्नागेनोक्तम्—“तत्र यो वादिप्रतिवादिनिश्चितः स साध- नम्” इति ।

अपि च परासिद्धोऽपि तावत् प्रयुज्यते—साधयिष्यामि इत्यनया लक्षणया शब्दानित्यत्वसिद्धौ कृतकत्वमिव याज्ञिकान् प्रति । अद्वैतवादिनस्तु तद्व्यतिरिक्तो

नाश्रौषीः साधनत्वं किं प्रसिद्धस्य द्वयोरपि ।
योऽपि तावत् परासिद्धः स्वयंसिद्धोऽभिधीयते ॥ १३१ ॥

भवेत् तत्र प्रतीकारः स्वतोऽसिद्धे तु का क्रियाः ।
तं साधयन् विरुन्ध्याद्धि पूर्वाभ्यु113पगमं नरः ॥ १३२ ॥

असाधिते तु 114साध्योऽर्थो न तेन प्रति115पाद्यते ।
परासिद्धो न पर्याप्तः परेषां प्रतिपत्तये ॥ १३३ ॥

तेनसाधनता युक्ता स्वतोऽसिद्धे तु किंकृता ।
द्वयोः सिद्धस्य हेतुत्वं नादृष्टायोपदिश्यते ॥ १३४ ॥

प्रत्येष्यन्ति स्वसिद्धेन साधनेन स्वयं यतः ।
वदेत् कथमसिद्धं चेदित्यनेनापि किं तव ॥ १३५ ॥

गृहीतमगृहीतं वा साध्यं वा 116साधनादि वा ।
मयोच्यते चेत् त्वत्सिद्धं किं त्वं न प्रति117पत्स्यसे ॥ १३६ ॥

हेतिः स्वत एवासिद्धः । तत्र साध्यमाने तस्मिन् अद्वैतहानिः, असिद्धौ तु साध्यं न सिध्यतीत्याह—योऽपि तावदिति श्लोकद्वयेन ।

एवं स्थिते पुनरद्वैतवादी प्रत्यवतिष्ठते—परासिद्ध इति । परप्रतिपत्तये हि हेतुः प्रयुज्यमानः परसिद्धिमेवापेक्षते; तत्र वाद्यसिद्धोऽपि प्रतिवादिनः सिद्धो भवति साधनमित्यभिप्रायः ।

“तत्र यो वादिप्रतिवादिनिश्चितः”—इत्येतदपि प्रतिवादिनिश्चितपरमेव व्याख्येयम्, न्यायमूलत्वाद् वचनानामित्याह—द्वयोरिति

स्वयमप्रतिपन्नो हेतुः कथमन्यस्मै प्रतिपाद्यत इति द्वैतवादी चोदयति— वदेत् कथमसिद्धं चेदितीति । तत्राद्वैतवादी परिहारमाह—118अनेनेत्यादिना

यत्र स्यात पुरुषाधीना बुद्धि119स्तत्रैतदुच्यते ।
कुतोऽस्य पूर्वविज्ञानमित्यत्रैतन्न युज्यते ॥ १३७ ॥

यदि चैवं भवेदत्र प्रतिज्ञामात्र एव हि ।

120मद्दोषज्ञानमात्रेण प्रतिपत्तिर्भवेत् तव ॥ १३८ ॥

ततस्तु साधनापेक्षा तेनास्यैव प्रमाणता ।
तत्स्मृत्त्युत्पत्तिमात्रे तु वाक्यव्यापार इष्यते ॥ १३९ ॥

तस्माद् 121यथैव साध्यांशव्याप्तहेतुनिदर्शनात् ।
साध्यं गृह्णन्न वक्तारमपेक्षेत तथा भवान् ॥ १४० ॥

यच्चापि भवतो ज्ञानं 122प्रत्यक्षेण किमत्र ते ।
मत्प्रसिद्धास्ति युक्तिर्वा साध्यं वात्र 123यथेप्ससि ॥ १४१ ॥

तस्मान्न विदुषामेतदुत्तरं युज्यते यतः ।
तव हेतुरसिद्धोऽयं मम तेन न साधनम् ॥ १४२ ॥

सशेषेण श्लोकेन । स्वयमप्रतिपन्नमपि ‘परस्येदं सिद्धम्’ इति 124बुद्ध्या हि प्रति- पादयति, किमिति न प्रतिपद्यसे इत्यर्थः ॥

यत्र वादिप्रत्ययेनार्थः प्रतीयते, तत्रेंद युज्यते वक्तुम्—कुतः पुनर्भवता प्रतिपन्नम् ? इति; हेतुना त्वर्थं प्रतिपद्यमानो वैवादिकसिद्धमपेक्षते इत्याह—यत्र स्यादिति

यदि च वादिप्रत्ययेनार्थं प्रतिपद्यसे तदा नित्यः शब्दः—इत्युक्ते प्रतिज्ञा- मात्रेणैन प्रतिपन्नः किमिति हेतुमपेक्षसे ? हेत्वपेक्षायां तु तस्यैव साधनत्वम्; प्रतिवादिप्रतिपन्नमेव तु रूपत्रयं वादी स्ववचनेन स्मारयतीत्याह—यदिति श्लोकद्वयेन ॥

यथा च स्वार्थानुमानेनार्थं प्रतिपद्यमानः प्रत्यक्षेण वा नैव वादिप्रतिपन्नता- मपेक्षते, तथात्रापीत्याह—तस्माद्यथैवेति श्लोकद्वयेन ॥

सोत्प्रासमुपसंहरति—तस्मान्नेति

सत्यं यदि ममैवात्र प्रतिपत्तिः फलं भवेत् ।
तदा त्वदप्रसिद्धेऽपि हेतौ मां प्रति हेतुता ॥ १४३ ॥

यदा तु ज्ञानमात्रत्वप्रतिपत्तौ भवान्मया ।
पृष्टः को हेतुरत्रेति तदैवं नोपपद्यते ॥ १४४ ॥

स्वयं न ह्यगृहीतेन मत्प्रसिद्धेन वा भवान् ।
हेतुना साध्यमेतत् तु प्रतिपन्नः कथञ्चन ॥ १४५ ॥

न च व्याप्रियतेऽन्यत्र वचनं प्राश्निकान् प्रति ।
स्वनिश्चयाय यो हेतुस्तस्यैव प्रतिपादनात् ॥ १४६ ॥

मत्प्रसिद्धत्वमेतस्य कुतश्चावगतं त्वया ।
कथं चेत्थं विवक्षा ते स्वयमर्थमजानतः ॥ १४७ ॥

मयि जिज्ञासमानेऽपि बुद्धिपूर्वाभिधायिनः ।
इति ज्ञात्वा च वो वृद्धैर्भाषितोभयसिद्धता ॥ १४८ ॥

एवं प्राप्ते सति द्वैतवाद्यह—सत्यमित्यादिचतुःश्लोक्या ॥

ननु च प्रतिवादिप्रतिप्त्यर्थमेव परार्थमनुमानम्; अतः किमुच्यते— “सत्यं यदि ममैवात्र प्रतिपत्तिः फलं भवेत्”—इति ? अयमभिप्रायः—स्वनिश्चय- वदन्येषां निश्चयोत्पादनाय हेतुः प्रयुज्यते । तत्र यदि प्रतिवादी प्राश्निकाश्च वादिनं पृच्छन्ति—अद्वैतसिद्धौ भवतः किं प्रमाणम् ? इति, तदैतदपहास्यम्—यद्यपि मम प्रमाणं नास्ति, तथापि त्वं प्रतिपद्यस्व इति ॥

स्वांशालम्बनत्वेन च विज्ञानानां मत्प्रसिद्धता च हेतोः कथमवगम्येते- त्याह—मत्प्रसिद्धत्वमेतस्येत्यर्धेन

स्वयं च हेत्वर्थमजानतः कथमीदृशी विवक्षापि—यद्यपि ममायं हेतुरसिद्धः, तथापि भवतः सिद्ध इत्याह—कथं चेति

अमुमेवार्थं पर्यालोच्य दिङ्नागेनोक्तम्—“तत्र यो वादिप्रतिवादिसिद्धः स125 साधनम्” इत्याह—इति ज्ञात्वेत्यर्धेन ॥

तेन यद्वन्ममैतेन त्वमाधित्ससि हेतुना ।
साध्यज्ञानं तथैवाहमज्ञानं तव दूषणैः ॥ १४९ ॥

यथैव च भवानीदृक् साध्यमुक्त्वास्य साधनम् ।
साध्यानुरूपमज्ञात्वा विहितः प्रतिपादनात् ॥ १५० ॥

तथैव प्रतिपाद्योऽपि तादृक्साध्यबुभुत्सया ।
मन्वानः साधनं दुष्टं ततः साध्यं न बुध्यते ॥ १५१ ॥

126सम्यग्वा साधनं मुक्त्वा तत्सद्भावे दृढे सति ।
साध्यस्यासम्भवादेव त्वदुक्तं नाववुध्यते ॥ १५२ ॥

तेनाशेयं न कर्तव्या मोहादपि मयेरिते ।
साधने साधनं ज्ञात्वा पर एवावभोत्स्यते ॥ १५३ ॥

विस्पष्टश्चाक्षपादोक्तो विरोधो हेतुसाध्ययोः ।
यमदृष्ट्वा परैरुक्तमदूषणमिदं किल ॥ १५४ ॥

तेन यथैव त्वमसिद्धेनैव साधनेन साध्यं साधयितुमिच्छसि, तथवाहम- सिद्धेनैव दूषणमापादयामीत्याह—तेन यव्ददिति

विज्ञानमात्रप्रतिज्ञार्थं च तद्व्यतिरिक्तो हेतुर्यथा वादिनोऽप्रसिद्ध इति कृत्वा प्रतिवादिना विहतः, तथैव प्रतिपाद्योऽपि तादृक्साध्यबुभुत्सायां साध्यानुरूपं साधनमज्ञात्वा विहित इत्याह—यथैव चेति श्लोकद्वयेन ॥

विज्ञानव्यतिरिक्तं चेत् साधनमवबुध्यते, तदा द्वैतसद्भावादद्वैतहानिरि- त्याह—सम्यग्वा साधनं मुक्त्वेति

अमुमेवार्थमुपसंहरति—तेनाशेयमिति । यथोक्तमक्षपादेन—“प्रतिज्ञा- हेत्वोर्विरोधः प्रतिज्ञाविरोधः” इति ॥

तस्येदमुदाहरणम्—स्वव्यतिरिक्तशून्याः प्रत्ययाः प्रत्ययत्वात् इत्याह— विस्पष्टश्चेति

एतस्य प्रतिज्ञादोषस्येदमुदाहरणम्, यददृष्ट्वैवोदाहरणान्तरमक्षपादोक्तं दूषितं दिङ्नागेनेत्याह—यमदृष्टेति

ननु लोकप्रसिद्धेन पूर्वमेतेन हेतुना ।
साध्यसिद्धिर्ममाप्यासीत् परमार्थोऽस्य नास्तिता ॥ १५५ ॥

योऽधुना परमार्थेन नास्तीत्येवं 127प्रकाशते ।
कथं पूर्वमसावासीदसंश्चेत् साधनं कथम् ॥ १५६ ॥

साधनं चेदवश्यं च परमार्थास्तिता भवेत् ।
सिद्धिर्नापरमार्थेन परमार्थस्य युज्यते ॥ १५७ ॥

इदमुदाहरणं दत्तं प्रतिज्ञाहेत्वोर्विरोधे—“नित्यः शब्दः सर्वस्यानित्यत्वात्” इति । अस्येदं दूषणमुक्तम्—“नित्यत्वप्रतिज्ञायामसर्वत्वं=निरावयवसंज्ञकं हेतुत्वेन विवक्षितं सांख्यैः—“सर्वस्यानित्यत्वात्” इति । तत्र वैधर्म्यप्रयोगः । तत्रापि साध्याभावो हेत्वभावेन व्याप्तः कथयितव्यः—अनित्यत्वस्य सर्वत्वात् इति । “सर्वस्यानित्यत्वात्”—इति तु विपरीतव्याप्तिकथनात् तदाभासः । तदुक्तम्—

“स हि दृष्टान्त एवोक्तो वैधर्म्येणासुशिक्षितैः ।” इति

ननु सांवृतेन रूपेण प्रमाणप्रमेयव्यवहारोऽस्त्येव; अतः सांवृतादेव प्रमा- णाद् अद्वैतरूपं सत्यं प्रतीमः; परमार्थतायां तु न किञ्चित् प्रमाणं नापि प्रमेयम्; अपि तु अपरसाधनमेकं तत्त्वम् । इष्टं चैतदेव वेदान्तवादिभिरपि—“आत्मै- वेदं सर्वम्” इत्येवं वदद्भिः; अयं तु सर्वोऽविद्याविजृम्भितो भेदपरामर्शः, आत्मैवेति तु सत्यमिति चोदयति—ननु लोकप्रसिद्धेनेति

तत्र परिहारमाह सार्धेन—योऽधुनेत्यादिना । यस्य हि परमार्थेन नास्तित्वम्, तस्य कथमस्तित्वम् ? कथं साधनत्वमित्यर्थः ।

ननु असतः साधनत्वं मा भूत्; संवृतिसत्येन भवत्वित्याशङ्क्याह— सिद्धिर्नेति सार्धेन श्लोकेन । असत्याता हि पदार्थस्य न स्वतः परत एव वा; तत्र शशविषणादयो न क्वचिदुपायभावं प्रतिपद्यन्ते; बाष्पादयस्तु धूमरूपतयोपायभावं प्रतिपद्यन्ते, मिथ्यातस्तेभ्योऽपि यावदवगतिरित्यर्थः ॥

न दृष्टा शशशृङ्गादेः सम्यग्ज्ञानादिहेतुता ।
बाष्पादिना 128ह्यधूमेन मिथ्या बह्न्यादिबोधनम् ॥ १५८ ॥

तस्मादसत्यहेतोर्या परमार्थे मतिस्तव ।
साप्यसत्या न सत्यं हि सत्याभासेन गम्यते ॥ १५८ ॥

येऽपि रेखादयो दृष्टा 129वर्णादेः प्रतिपादकाः ।

130न ते स्वेनैव रूपेण परमार्थत्ववर्जिताः ॥ १६० ॥

वर्णात्मना न[^4_pg231] सत्याश्चेत् सर्वभावेष्वयं विधिः ।
पदार्थान्तररूपेण न सत्यं किञ्चिदिष्यते ॥ १६१ ॥

स्वरूपे विद्यमाने तु यदप्येवं प्रकाशते ।
स्वरूपाभावक्लृप्तौ तु न सत्यं नाप्यसत्यता ॥ १६२ ॥

हेत्वादीनां तु भवतः स्वरूपेणाप्यसत्यता ।
तेन बाष्पादिवत् तेषामुपायत्वं न लेख्यवत् ॥ १६३ ॥

एवमद्वैतावगतावपि अविद्यावस्थायामुपायोपेयभावः पारमार्थिको भवत्येव; अद्वैतमेवावगम्यमानमुपायस्य भ्रान्ततामवगमयति; विद्यावस्थायान्तु प्रमाणप्रमेय- प्रमातृप्रत्यस्तमयान्न विद्मः—किमेकमुतानेकम् इति । तदाह—तस्मादिति

ननु असत्यादपि लिप्यक्षराद् वर्णावगतिः सत्या दृष्टेत्याशङ्कयाह—येऽपि रेखादय इति । रेखारूपतया हि लिप्यक्षराणां वर्णावगतौ सम्बन्धग्रहणम्; तेन रूपेण सत्यत्वमेवेत्यर्थः ॥

यदा तु वर्णसामानाधिकरण्येन लिप्यक्षरावगतिः ‘गकारोऽयम्’ इति, तदा तेषामसत्यता; तदा च तत्रैव प्रतीतेः पर्यवसानादुपायोपेयभाव एव नास्ती- त्याह—वर्णात्मनेति

विद्यमानस्य च पदार्थस्य स्वरूपपररूपाभ्यां सत्यासत्यत्वम् विज्ञानमात्रप्रति- ज्ञायां हेत्वादीनां स्वत एवाविद्यमानत्वान्न बाष्पवदुपायत्वं नापि लेख्यवदित्याह श्लोकद्वयेन—स्वरूप इत्यादिना

उपायानां स्वरूपं हि संवृत्यात्मकमेव नः ।
तथा च सत्यतेष्टैव स्वरूपासत्यता कथम् ॥ १६४ ॥

संवृत्त्या यत्स्वरूपं हि तद्वाङ्मात्रनिबन्धनम् ।
हेतुत्वं परामार्थस्य प्रतिपत्तुं न शक्नुयात् ॥ १६५ ॥

परमार्थाच्च लोकस्य न भेदे हेतुरस्ति ते ।
लौकिकोपायगम्यस्य केन स्यात् परमार्थता ॥ १६६ ॥

नन्वसत्यपि बाह्येऽर्थे बुद्ध्यारूढेन सिध्यति ।
वासनाशब्दभेदोत्थविकल्पप्रविभागतः ॥ १६७ ॥

न्यायविद्भिरिदं चोक्तं धर्मादौ बुद्धिमाश्रिते ।
व्यवहारोऽनुमानादेः कल्प्यते न बहिःस्थिते ॥ १६८ ॥

ननूपायानां संवृतमेव रूपम्, तेन च रूपेण सत्यत्वमस्त्येवेति परिचोद- यति—उपायानामिति

तत्र परिहारमाह—संवृत्येति

संवृतिसत्यस्य निराकृत्वादित्यर्थः । तदेव स्मारयति परमार्थाच्चेत्यर्धेन ।

लोकशब्दे संवृतिसत्यमाह; न च संवृतोपायगम्यस्य परमार्थतेत्याह— लौकिकेत्यर्धेन ॥

ननु विज्ञानमात्रप्रतिज्ञायामसत्यपि बाह्ये हेतौ वासनाभेदेन भिन्नशब्दज- नितविकल्पप्रतिभासारूढानां धर्माणां गम्यगमकभाव इति परिचोदयति— नन्वसत्यपीति

बाह्यार्थवादिनोऽपि प्रतीतिसत्तां विहाय बहिस्सत्तारूपेणार्थानां गम्यगमक भावः । तथा हि-न पर्वतस्थस्य धूमस्वलक्षणस्य अभावात् नापि सरस्तीरस्थस्य अप- क्षधर्मत्वात्, नापि धूमजातेः तत्वान्यात्वाभ्यामनिर्वचनीयत्वात्, नापि अधूमव्यावृत्तेः अवस्तुत्वात् । उक्तं च दिङ्नागेन—“सर्व एवायमनुमानानुमेयव्यवहारो बुद्ध्या- रूढेन धर्मधर्मिन्यायेन, न बहिःसदसत्त्वमपेक्षते” इत्याह—न्यायविद्भिरिति

अस्तीदं वचनं तेषामिदं तत्र परिक्ष्यताम् ।
भेदोऽसतः कथं हि स्याद् बुद्धिशब्दप्रकल्पनात् ॥ १६९ ॥

निर्वस्तुके कथञ्चित् स्यात् प्रसवो बुद्धिशब्दयोः ।
शब्दभेदोऽपि भवतस्तदभावान्न सिध्यति ॥ १७० ॥

यदि वाविद्यामानोऽपि भेदो बुद्धिप्रकल्पितः ।
साध्यसाधनधर्मादेर्व्यवहाराय कल्प्यते ॥ १७१ ॥

ततो भवत्प्रयुक्तेऽस्मित् साधने यावदुच्यते ।
सर्व131त्रोत्पद्यते बुद्धिरिति दूषणता भवेत् ॥ १७२ ॥

यश्च मन्त्रस्त्वयोक्तोऽयं धर्म्यादौ बुद्धिमाश्रिते ।
न बाह्यापेक्षया स स्यादसिद्ध्यादौ मयेरिते ॥ १७३ ॥

बुद्धिप्रक्लृप्तिसिद्धिश्च भवतां व्यवहारिणाम् ।
मदुक्तं दूषणं सिद्धं त्वदुक्तं तु न साधनम् ॥ १७४ ॥

तत्र परिहारमाह—अस्तीदमिति सार्धेन । वचनशब्देन न्यायशून्यतां दर्शयति । इदं त्वत्र परिक्ष्यतामिति धर्मधर्मिणोरभावेन शब्दप्रयोगाभावात् कुतस्त- दुत्थो विकल्पप्रविभाग इत्यर्थः । वक्ष्यमाणेन च वासनाभावेन भवतः शब्दभेदो नास्तीत्याह—शब्दभेदोऽपीत्यर्धेन ॥

यथा चानादृत्यैव बाह्यमर्थं बुद्ध्यारूढतया साधनत्वम्, तथा भवत्साधन- दूषणमपि भविष्यतीत्याह—श्लोकद्वयेन—यदि चेत्यादिना

यच्च साधनसम्बन्धितयोक्तम् “सर्व एवायम्” इति, तच्छक्यं दूषणेऽप्यू- हितुमित्याह—यश्चेति । “मन्त्रः” इत्यूहविषयतां दर्शयत्युपहासाय ॥

प्रतीतिमात्रव्यवहारित्वाच्च बाह्यार्थाभावेऽपि भवतां मदुक्तदूषणं दूषणं सिद्धम्; बाह्यार्थवादिनां तु तदभावेन त्वदुक्तं न सिद्ध्यतीति न साधनमित्याह श्लोकद्वयेन—बुद्धीत्यादिना

बाह्यार्थव्यव132हारित्वाज्ज्ञानोत्पादे स्थितेऽपि नः ।
कथञ्चिन्न हि कल्प्येत व्यवहारोऽर्थवर्जितः ॥ १७५ ॥

ननु यद्वन्मया हेतुर्नेष्यते दूषणं तथा ।
तेन मे दूषणाभावाददुष्टं साधनं भवेत् ॥ १७६ ॥

नेदानीं दूषणैः कार्यं साधनाभावतो यदि ।
त्वयैवास्मदभिप्रेता स्वपक्षासिद्धिराश्रिता ॥ १७७ ॥

न चास्ति वासनाभेदो निमित्तासम्भवात् तव ।
ज्ञानभेदो निमित्तं चेत् तस्य भेदः कथं पुनः ॥ १७८ ॥

वासनाभेदतश्चेत् स्यात् प्राप्तमन्योन्यसंश्रयम् ।
स्वच्छस्य ज्ञानरूपस्य न हि भेदः स्वतोऽस्ति ते ॥ १७९ ॥

प्रमाणं वासनास्तित्वे भेदे वापि न विद्यते ।
कुर्याद् ग्राहकभेदं सा 133ग्राह्यभेदस्तु किंकृतः ॥ १८० ॥

ननु साधनवद् दूषममपि त्वदुक्तमस्माभिर्नेष्टमित्याह—ननु यद्वदिति

तत्रोत्तरम्—नेदानीमिति । साधनैस्तु विनैव बाह्यार्थाभावस्यासिद्धेर्जितं बाह्यार्थवादिभिरित्यर्थः ॥

वासनाभेदमभ्युपगम्य दूषणमुक्तम्; इदानीं निमित्ता134भावेन वासना- भेदोऽपि नास्तीत्याह सार्धश्लोकेन न चास्तीति । ज्ञानभेदोऽपि वासनाभेदनिमित्तः, तस्माच्च तद्भेद इतीतरेतराश्रयम् । न चात्र बीजाङ्कुरवत् परिहार इत्याह— स्वच्छस्येत्यर्धेन । बोधरूपता हि विज्ञानानां पारमार्थिकी; तया चैक्यम्; विष- याकारतया तु विज्ञानानि भिद्यन्ते; सा च 135वासनया; सा नैव पारमार्थिकी; अपा- रमार्थिकस्तु विज्ञानभेदो न वासनाभेदनिमित्तायालमिति न बीजाङ्कुरन्यायः संभवति ॥

इदानीं भेदवदस्तित्वेऽपि प्रमाणं नास्तीत्याह—प्रमाणमित्यर्धेन ।

ननु विज्ञानजन्यः संस्कारो वासना; तत्र चाविप्रतिपत्तिरेव । तदुक्तम्— “वस्तुधर्मो दोषवदनुभवः यदीयात् स्मृतिबीजमावृत्तम् ” इत्याशङ्कयाह—कुर्यादि-

संवित्त्या जायमाना हि स्मृतिमात्रं करोत्यसौ ।
क्षणिकेषु च चित्तेषु विनाशे च निरन्वये ॥ १८१ ॥

वास्यवासकयोश्चैवमसाहित्यान्न वासना ।
पूर्वक्षणैरनुत्पन्नो वास्यते नोत्तरः क्षणः ॥ १८२ ॥

उत्तरेण विनष्टत्वान्न च पूर्वस्य वासना ।
साहित्ये 136च तयोर्नैव सम्बन्धोऽस्तीत्यवासना ॥ १८३ ॥

क्षणिकत्वाद् द्वयस्यापि व्यापारो न परस्परम् ।
विनश्यच्च कथं वस्तु वास्यतेऽन्येन नश्यता ॥ १८४ ॥

त्यर्धेन । यदि विज्ञानजन्यः संस्कारो वासना; तया च सर्वाणि ज्ञानानि जन्यन्ते; तथा सत्यपि ग्रहणस्मरणयोर्भेदे विषयभेदो न प्राप्नोतीत्यभिप्रायः ॥

एतदेव स्पष्टयति—संवित्त्येत्यर्धेन । सवित्तेरुत्पद्यमाना संस्कारात्मिका वासना तद्विषयमेव स्मरणमात्रं करोतीत्यर्थः ।

अपरेषां दर्शनम्—विज्ञानयोरेव वास्यवासकभावः; पूर्वविज्ञानवासितमुप- रितनं स्वकार्यं करोतीति । तदेतद् विकल्प्य निराकरोति; न तावत् क्रमोत्प- न्नयोः वास्यवासकभाव इत्याह—क्षणिकेष्विति

यथैवोपरितनं विनष्टत्वेन न पूर्वस्य वासकमिष्यते, तथैव पूर्वमनुत्पन्नत्वादु- परितनस्य चेत्याह—पूर्वक्षणैरिति

नापि युगपदुत्पन्नयोः, तादात्म्यतदुत्पतिलक्षणसम्बन्धाभावादित्याह— साहित्ये चेत्यर्धेन ।

उत्पत्त्यनन्तरं च क्षणिकत्वेन विनाशान्न परस्परं व्यापारोऽस्तीत्याह— क्षणिकत्वादित्यर्धेन ।

नापि विनश्यदवस्थयोरसत्त्वेन वास्यवासकभावः, तदाह—विनश्यदित्यर्धेन ॥

अवस्थिता हि वास्यन्ते भावा भावैरवस्थितैः ।
अवस्थितो हि पूर्वस्माद् भिद्यते नोत्तरो यदि ॥ १८५ ॥

पूर्ववद् वासना तत्र न स्यादेवाविशेषतः ।
भङ्गुरे पूर्वसादृश्याद् भिन्नत्वाच्चास्ति वासना ॥ १८६ ॥

नैतदस्त्यनुरूपं तु क्षणिकत्वे धियां तव ।
पूर्वज्ञानं त्वनुत्पन्नं कार्यं नारभते क्वचित् ॥ १८७ ॥

137न नष्टं न च तस्यास्ति निष्पन्नस्य क्षणं स्थितिः ।

138तेनोत्पद्यविनष्टत्वान्नास्त्यारम्भक्षणोऽपि हि ॥ १८८ ॥

मीमांसकपक्षे त्ववस्थितस्यात्मनो अवस्थितैरेव विज्ञानैर्वास्यवासकभावो घटत इत्याह—अवस्थिता हीत्यर्धेन । स्थायिन एव ज्ञानस्याशुतरविनाशित्वाभि- प्रायेण “क्षणिक हि सा” इति व्यवहारः । एवमवस्थिते मीमांसकपक्षं निराकृत्य वास्यवासकदर्शनान्तरमुपन्यस्यति । तत्र निरा138करणम्—किं भिन्नस्योत्पत्तिरुता- भिन्नस्य ? भिन्नोत्पत्तौ तादवस्थ्यं तस्य; अभिन्नोत्पतौ तु आत्मैवोत्पन्नः स्यात; तदाह—अवस्थितो हीति । यदा समन्तरप्रत्यय एवात्मसदृश्यं विज्ञानं जनवद् वासनोच्यते, तदा क्षणिकत्वेऽपि न कश्चिद्दोष इत्याह—भङ्गुर इत्यर्धेन ॥

तदिदमनुपपन्नम्, क्षणिकत्वेन निरन्वयविनाशित्वेन च कार्यकारणभाव- सादृश्ययोरभावादित्याह—नैतदित्यर्धेन । तत्र तावत् कार्यकारणभावं निराका- रोति—पूर्वज्ञानमिति सार्धेन । न तावदनुत्पद्य139मानस्योत्पादकमानम्; नाप्यनु- त्पन्नस्य, क्षणान्तरेऽभावात्; विनश्यदवस्थोऽप्यसत्त्वादकारणम्; अथ क्षणद्वया- वस्थायी प्राप्तः नाविनष्टम्, असत्वात् ।

ननु चैवमनन्तर140मुत्पत्तिमत्त्वमेव कार्यत्वमनन्तरपूर्वभावित्वमेव कारणत्वम्; एवं तर्हि सन्तानान्तरवर्तिनोऽपि कार्यत्वप्रसङ्गः । निरन्वयविनाशित्वेन च सादृश्य-

निरन्वय141विनाशित्वादानुरूप्यं कुतः पुनः ।
न तदीयोऽस्ति कश्चिच्च धर्म उत्तरबुद्धिषु ॥ १८९ ॥

समानधर्मतां मुक्त्वा नानुरूप्यं च विद्यते ।
यदि स्यादानुरूप्याच्च वासना गोधियो यदा ॥ १९० ॥

हस्तिबुद्धिर्भवेत् तत्र वलक्षण्यान्न वासना ।
ततः परं च गोज्ञानं निर्मूलत्वान्न संभवेत् ॥ १९१ ॥

सर्वं विलक्षणं ज्ञानं न स्यादेव विलक्षणात् ।
बाह्यार्थानुग्रहाभावात् पारार्थ्येनावशीकृताः ॥ १९२ ॥

मपि नास्तीत्याह—निरन्वयेति सार्धश्लोकत्रयेण । सर्वात्मना विनष्टत्वान्न पूर्वा- परयोरनुगतं किञ्चिदस्तीत्यभिप्रायः । सदृशोत्पादकत्वेन च वासनात्वे विलक्ष-

142णयोरुत्पाद्योत्पादकभावो न प्राप्नोतीत्यभिप्रायं—यदि स्यादिति श्लोकद्वयं निगदव्याख्यातम् ।

अपरं दर्शनम्—प्रवृत्तिज्ञानानि नीलपीतादिविषयाकारणि स्वच्छायल- विज्ञाने संस्कारमाधाय वासनारूपं विनश्यन्ति; सा च वासना यज्जतीयाद् विज्ञा- नादुत्पद्यते तज्जातीयमेव विज्ञानं जनयति एतदपि विज्ञानं 141स्वानुरक्तवासनामिति । तद्विकल्प्य दूषयति । तद्ध्यालयविज्ञानं प्रतिक्षणध्वंसि स्थायि वा ? यदि प्रतिक्षण- ध्वंसि तन्नाशे च यदि तदाधारा वासना विनश्यन्ति, ततश्चात्र कार्यजननस्वभावा एव कल्पिता इति कार्यं जनयेयुः; न च बाह्यापेक्षिता तासाम्, तस्याभावात् । ततश्च क्रमेण कार्योत्पादे न प्राप्नोति; तदाह—बाह्यार्थानुग्रहाभावादिति । पारार्थ्येनावशीकृता इति कार्यजननस्वभावा एवेत्यर्थः ।

कारणविनाशानन्ततरं च सर्वं कार्यमुदेतीति बौद्धदर्शनम्, अन्यथा क्रमयौ- गपद्याभ्यामर्थक्रियाविरोधात्; आलयविज्ञानविनाशे च तदाधारा वासना विन- श्यन्ति; ततश्च ताः स्वानुरूपाणि विज्ञानानि विचित्राणि जनयन्ति; एकस्मिन काले

निरन्वयविनाशिन्यः कुर्युः कार्यं कथं क्रमात् ।
विनाशे कारणस्येष्टः कार्यारम्भश्च नान्यथा ॥ १९३ ॥

तत्रैव ज्ञाननाशेन विनष्टाः सर्ववासनाः ।
तेन सर्वाभ्य एताभ्यः सर्वाकारं यदुत्थितम् ॥ १९४ ॥

ज्ञानमेकक्षणेनैव विनाशं गन्तुमर्हति ।
यद्याश्रयविनाशेऽपि शक्त्यनाशोऽभ्युपेयते ॥ १९५ ॥

क्षणिकत्वं च हीयेत न चारम्भोऽन्यथा भवेत् ।
वासनानां प्रवाहोऽपि यदि ज्ञानप्रवाहवत् ॥ १९६ ॥

वासनातस्ततो ज्ञानं न स्यात् तस्माच्च वासना ।
कुर्यातां तुल्यमेवैते नान्योन्यं तु कदाचन ॥ १९७ ॥

नान्यो विलक्षणो हेतुर्येनान्यादृक् फलं भवेत् ।
तस्मात् संवृतिसत्यैषा कल्पिता नास्ति तत्त्वतः ॥ १९८ ॥

उत्पद्यमानानि भिन्नान्यपीति न शक्यते वक्तुम्; एकमेव तद्विचित्रं प्राप्नोति चित्रबुद्धिवत्; तदाह—विनाश इति द्वयेन ॥

अथालयविज्ञानविनाशेऽपि वासना न विनश्यन्ति, एवं क्षणिकत्वाभ्युप- गमविरोधः; स्थायिनश्च क्रमयौगपद्याभ्यामर्थक्रियाविरोधः; तदाह—यद्याश्रय- विनाशेऽपीति

अथ विनश्यन्त एव वासनाः आलयविज्ञानविनाशे कार्यं जनयन्ति, ततु वासनान्तरमेव आलयविज्ञानक्षणान्तरस्थम् । यद्येवं वासनाजननस्वभावत्वा- पातात् ताभ्यो न प्रवृत्तिज्ञानोत्पादः प्राप्नोति; वासनाजन्यत्वाच्च वासनानां न प्रवृत्तिज्ञानजन्यत्वं स्यात्, चान्यत् सहकारि विद्यते, यत्समवधाने प्रवृत्तिज्ञानं जनयति; तदाह—वासनानामिति श्लोकद्वयेन ।

उपसंहरति—तस्मादिति

न चेदृशेन भावेन कार्यमुत्पद्यते क्वचित् ।
यस्य त्ववस्थितो ज्ञाता ज्ञानाभ्यासेन युज्यते ॥ १९९ ॥

स तस्य वासनाधारो वासनापि स एव वा ।
कुसुमे बीजपूरादेर्यल्लाक्षाद्युपसिच्यते ।
तद्रूपस्यैव संक्रान्तिः फले तस्येत्यवासना ॥ २०० ॥

युक्त्यानुपेतामसतीं प्रकल्प्य यद्वासनामर्थनिराक्रियेयम् ।
आस्थानिवृत्त्यर्थमवादि बौद्धैः ग्राहं गतास्तत्र कथंचिदन्ये ॥ २०१ ॥

यत्पुनर्मीमांसकपक्षे वास्यवासकभावो न प्राप्नोतीत्युक्तम् “अवस्थितो हि” इति, तत्राप्याह—यस्येति

नित्यत्वादात्मनो ज्ञानाभ्यासेन युज्यते संस्काराधानम्, स्थायित्वादाधारस्य; आत्मैव वा स्मरणसमर्थो जायत इति वासनापि स एवेत्याह । तदुक्तम्–“विज्ञान रूपस्य न नित्यत्वं विरोत्स्यते” इति । यत्तु दिङ्नागेन दृष्टान्तत्वेनोक्तं वासनासिद्धौ “लाक्षावासितकुसुमं लोहितफलं जनयति” इति, तदसि143द्धम्, फले लाक्षादिरूप- स्यैव सङ्क्रान्तत्वात् सङ्क्रान्तस्य प्रत्यभिज्ञायमानत्वादित्याह—कुसुम इति

बौद्धमपि दर्शनं तात्पर्येण नावगतमित्याह—युक्त्यानुपेतामिति । स हि बुद्धस्तत्वदर्शी 144नाम कथमपि युक्त्यानुपेतां तत एवासतीं वासनां प्रकल्प्य लोकयात्रासिद्ध्य145ङ्गतयायतत तस्माद् यथा146कथञ्चिद् रागपरो लोकः संग्राह्य147 इति । बुद्धेनोक्ते 148तत्रान्यथैवातत्त्वदर्शिनो 149माभिनिविष्टा भूतेति ॥

इति श्रीभट्टोम्बेकविरचितायां तात्पर्यटीकायां निरालम्बनवादः समाप्तः ॥


  1. लौकिके. चौ. मु. ↩︎

  2. Omitted स्वप्नवत्. मा. ↩︎

  3. Omitted न च. मा. ↩︎

  4. यश्च. मा. ↩︎

  5. नच. चौ. मु. ↩︎

  6. लोकसंवृत्तिसत्यत्वम्. मा. ↩︎

  7. सत्यं नाम. मा. ↩︎

  8. प्रकारणार्थः. मा. ↩︎

  9. न्नत्वे जगतो नैव भवति. मा. ↩︎

  10. अन्यन्मिथ्येति. चौ. मु. ↩︎

  11. स्वप्नादिभोग. चौ. मु. ↩︎

  12. गत्वकल्पना. चौ. मु. ↩︎

  13. फलावासि. चौ. मु. ↩︎

  14. वस्तुषु. चौ. मु. ↩︎

  15. प्रत्यत्यते. मा. ↩︎

  16. निवृत्त्यास्य. चौ. अनन्त. मु. ↩︎

  17. कल्पना. चौ. अनन्त. मु. ↩︎

  18. प्रमाणस्थस्तु. चौ. अनन्त. मु. ↩︎

  19. परीक्ष्यते. चौ. अनन्त. मु. ↩︎

  20. न्यां स्वच्छशब्देनाह. मा. (स्वच्छं शब्देन ?) ↩︎

  21. भावेन नष्टम. मा. ↩︎

  22. परीक्षायाम्. मा. ↩︎

  23. अवक्षेणात्. चौ. अनन्त. मु. ↩︎

  24. नाम पत्यक्ष. चौ. अनन्त. मु. ↩︎

  25. स्यैव च. अनन्त. मु. ↩︎

  26. साधनमावांशे. चौ. अनन्त, मु. ↩︎

  27. तुत्वात्कस्मात्पक्षै. चौ. मु. त्वान्न स्यात्पक्षै. अनन्त. मु. ↩︎

  28. तुत्वेनोपपादन. मा. ↩︎

  29. यत्त्वं निरा. मा. ↩︎

  30. वशिष्यते. अनन्त. मु. ↩︎

  31. तस्य तै. चौ. अनन्त. मु. ↩︎

  32. तेऽनुमा. मा. ↩︎

  33. दुष्टज्ञानगृहीतार्थप्र. चौ. अनन्त. मु. ↩︎

  34. जातिप्रत्ययोग. मा. ↩︎

  35. लम्बनमनामतया. मा. ↩︎

  36. बोधः मा. ↩︎

  37. न च. चौ. अनन्त. मु. ↩︎

  38. न किञ्चिद्वस्तु गम्यते. चौ. अनन्त. मु. ↩︎

  39. तेन तद्व्यति. चौ. अनन्त. मु. ↩︎

  40. मात्भीयप्रति. मा. ↩︎

  41. प्रसिद्धेः. मा. ↩︎

  42. तस्याप्यप्रत्ययत्वमेव. मा. ↩︎

  43. पक्षेऽपि ज्ञान. मा. ↩︎

  44. भावस्ततः. मा. ↩︎

  45. भवेत्. चौ. अनन्त. मु. ↩︎

  46. तथा च भवतो. चौ. अनन्त. मु. भवतो नान्यत्. मा. ↩︎

  47. चापि. चौ अनन्त. मु. ↩︎

  48. अप्रसिद्धश्चदृ. चौ. अनन्त. मु. ↩︎

  49. इत्याग्रहः. अनन्त. मु. ↩︎

  50. धर्मत्वम्. मा. ↩︎

  51. तथा. अनन्त. मु. ↩︎

  52. तत्र नालम्बनोक्ति. मा. ↩︎

  53. सदतद्ग्राह्यता. अनन्त. मु. ↩︎

  54. नालम्बनत्वहे. चौ. अनन्त. मु. ↩︎

  55. कथञ्चित्. चौ. अनन्त. मु. ↩︎

  56. भेदेन. चौ. अनन्त. मु. ↩︎

  57. Omitted न. मा. ↩︎

  58. सम्यक्त्वम्. चौ. अनन्त. मु. ↩︎

  59. कथञ्चन. चौ. अनन्त. मु. ↩︎

  60. बुद्धिर्नीलं वस्त्वा. मा. ↩︎

  61. धनोत्थितया. चौ. अनन्त. मु. ↩︎

  62. त्वात् प्रति. चौ. अनन्त. मु. ↩︎

  63. नत्वेन. चौ. अनन्त. मु. ↩︎

  64. गोऽत्र बोधक. चो. अनन्त. मु. ↩︎

  65. धार्थसम्ब. अनन्त. मु. ↩︎

  66. तया विना. मा. ↩︎

  67. वाक्यस्यावयवे. चौ. मु. ↩︎

  68. साध्यते. चौ. अनन्त. मु. ↩︎

  69. बुद्धेरि. मा. ↩︎

  70. पाद्यते. मा. ↩︎

  71. ज्ञां दर्शयति. मा. ↩︎

  72. वाभिधीयते. चौ. अनन्त. मु. ↩︎

  73. सर्वं पूर्वम्. चौ. अनन्त. मु. ↩︎

  74. यथा. चौ. अनन्त. मु. ↩︎

  75. प्रतीयते. चौ. अनन्त. मु. ↩︎

  76. त्वादन्य. चौ. अनन्त. मु. ↩︎

  77. सम्यक्त्व. मा. ↩︎

  78. तस्मात्, चौ. अननत. मु. ↩︎

  79. तथा. चौ. अनन्त. मु. ↩︎

  80. तथा. अनन्त मु. तदा. चौ. मु. ↩︎

  81. omitted या. भा. ↩︎

  82. स्यापि नीलाल. ↩︎

  83. बद्धमुक्तादि. चौ. मु. ↩︎

  84. न प्रकल्पते. अनन्त. मु. ↩︎

  85. गतिः चौ. अनन्त. मु. ↩︎

  86. मृषात्वम्. चौ. अनन्त. मु. ↩︎

  87. विनापि तच्चेत्स्याद् व्यवस्था न प्रकल्पते. चौ. अनन्त. मु. ↩︎

  88. तदीय. चौ अनन्त. मु. ↩︎

  89. सप्रति. चौ. अनन्त. मु. ↩︎

  90. अस्मदादीनाम्. चौ. अनन्त. मु. ↩︎

  91. त्वगिन्द्रिय. मा. ↩︎

  92. omitted बुद्धि. मा. ↩︎

  93. चापि. चौ. अनन्त. मु. ↩︎

  94. इष्टश्चेत्. चौ. अनन्त. मु. ↩︎

  95. सर्वाभावाद्वि. चौ. मु. ↩︎

  96. ष्यत एव. मा. ↩︎

  97. बुद्धित्वम्. मा. ↩︎

  98. कथञ्चन. चौ. अनन्त मु. ↩︎

  99. शारूप्यान्य. चौ. अनन्त. मु. ↩︎

  100. स्वालम्बनम्. मा. ↩︎

  101. अप्रसिद्धत्व. चौ. मु. ↩︎

  102. पूर्वज्ञातम्. अनन्त. मु. ↩︎

  103. omitted भ्रमणसंस्कृ. मा. ↩︎

  104. मानतया वा. मा. ↩︎

  105. पीताकारतया. मा. ↩︎

  106. किमेवं स्यादरस्मत्पक्षनि. चौ. अनन्त. मु. ↩︎

  107. भवताम्. अनन्. मु. ↩︎

  108. साध्यत्वम्. चौ. अनन्त. मु. ↩︎

  109. च. चौ. अनन्त. मु. ↩︎

  110. सामर्थ्यम्. चौ. अनन्त. मु. ↩︎

  111. वादी प्रयुक्ते. मा. ↩︎

  112. अनुमानतस्त्वदृष्टा. मा. ↩︎

  113. गतं नरः चौ. अनन्त. मु. ↩︎

  114. साध्यार्थः. चौ. अनन्त मु. ↩︎

  115. प्रतिपद्यते चौ. अनन्त. मु. ↩︎

  116. साधनापि वा. चौ. अनन्त मु. ↩︎

  117. पद्यसे. चौ. अनन्त. मु. ↩︎

  118. एतेन. मा. ↩︎

  119. तत्रेदमुच्यते. चौ. अनन्त. मु. ↩︎

  120. मद्दोषाज्ञान. चौ. अनन्त. मु. ↩︎

  121. यथैक. मा. ↩︎

  122. प्रत्यक्षादिः. चौ. अनन्त. मु. ↩︎

  123. यथेच्छसि. चौ. अनन्त. मु. ↩︎

  124. बुद्ध्यादिप्रति. मा. ↩︎

  125. Omitted स. मा. ↩︎

  126. संवित्त्या साधनं मत्वा. चौ. अनन्त. मु. ↩︎

  127. प्रकाश्यते. मा. ↩︎

  128. प्यधूमेन. चौ. अनन्त. मु. ↩︎

  129. वर्णानाम्. चौ. अनन्त. मु. ↩︎

  130. स्वेनापि. चौ. अनन्त. मु. ↩︎

  131. त्रोद्भिद्यते. मा. ↩︎

  132. हारित्वज्ञानो. अनन्त. मु. ↩︎

  133. कार्यभेद. मा. ↩︎

  134. भावेऽपि न वास. मा. ↩︎

  135. वासना वासनैव पार. मा. ↩︎

  136. अपि. अनन्त. मु. ↩︎

  137. न विनष्टं न तस्य. चौ अनन्त. मु. ↩︎

  138. तेनोत्पन्नवि. चौ. अनन्त. मु. ↩︎ ↩︎

  139. मानत्वोत्पादक. मा. ↩︎

  140. मुत्पत्ति…मेव. मा. ↩︎

  141. विनष्टत्वा. चौ. अनन्त. मु. ↩︎ ↩︎

  142. णयोरुत्पादक. मा. ↩︎

  143. तदसिद्धमित्याह-कुसुम इति । बौद्ध. मा. ↩︎

  144. दर्शनात्मकयमिव मा. ↩︎

  145. तयातत. मा. ↩︎

  146. क्रध्यविद्रगपरम्. मा. ↩︎

  147. सङ्ग्राह्यवर्तंत इत्येतत्. मा. ↩︎

  148. तत्रन्यथैव मा. ↩︎

  149. दर्शनोमाविष्टा इति. मा. ↩︎