भाट्टभाषाप्रकाशः

[[भाट्टभाषाप्रकाशः Source: EB]]

[

ॐ  
श्रीसद्गुरुश्शरणम्  

श्रीमन्नारायणतीर्थमुनिविरचितः
भाट्टभाषाप्रकाशः
प्रथमाध्याये-प्रथमः पादः

मूलम्-
श्लो॥ प्रणम्य धर्ममीशानं मीमांसां प्रविविक्षताम् ।
बालानामुपकाराय भाट्टभाषाप्रकाश्यते ॥

भाट्टभाषाप्रकाशव्याख्या-बालप्रिया
व्याख्या-
श्लो॥ विश्वेश्वरोऽस्तु भूत्यैनः विद्वे इव परापरे ।
बिभ्राणः पार्वतीं तद्वत् बालांत्रिपुरसुन्दरीम् ॥
श्लो॥ वेदवेदाङ्ग मीमांसाद्वय विज्ञानदान् गुरून् ।
प्रणमामि मदज्ञान तमस्स्तोम प्रभाकरान् ॥
श्लो॥ श्रीमन्नारायणमुनिवरैस्तीर्थनाम्नाप्रसिद्दैः,
विद्वन्मान्यैर्विरचितमिमं भाट्टभाषाप्रकाशम् ।
गमीरार्थं, लघुमपि-समुन्नीतशास्त्राखिलार्थं,
व्याचिख्यासोर्ममगुरुकृपा सर्वथाभीष्टदास्यात् ॥
श्लो॥ मीमांसाद्वयभास्करानगदृश प्रज्ञानशेषेष्वपि-
शास्त्री,ष्वाश्रववत्सलान्गुणनिधन् गंभीरभावाकृतीन् ।
डोंग्रेवंशसुधामहोदधिशरद्राकाशशाङ्कायितान्
श्रीवीरेश्वरकृष्णशास्त्रिचरणान् अस्मद्गुरून् भावये ॥
श्रीमान् नारायणतीर्थनामा आन्ध्रब्राह्मणवंशे विद्वद्वरेण्यः भाट्टभाषाप्रकाशाख्यं मीमांसाप्रकरणमारभमाणः, तन्निर्विघ्नपरिसमाप्तये शिष्टपरिग्रहसिद्धये च कृतं- इष्टदेवताप्रणामरूपं मङ्गलं शिष्यशिक्षायै ग्रन्थतोनिबध्नन् चिकीर्षितं प्रतिजानीते- प्रणम्यधर्ममीशानमिति. सृष्टिस्थितिलयकारणत्वेन निखिलजगन्नियन्तापरमेश्वरः ईशान इत्युच्यते- `ईशानोभूतभव्यस्य’ (कठ. 2-1-) `ईशानस्सर्वविद्यानाम्’ (तै.आ. 10-21) इत्यादिश्रुतिभिः। स च धर्मशब्देन विशेष्यते। धारणार्थकात् धृञ् इत्यस्माद्धातोः निषृन्मो धर्मशब्दः परमेश्वरस्य समस्त जगत्कल्पनाधिष्ठानत्वरूपं लाद्विकं धारकतवि (त्त्वाभाव) माचष्टे। वस्तुतस्तादृशोऽपि स- अनादिमायोपाधिकृत सर्वज्ञत्वसर्वशक्तिमल्त्वादिगुणयोगेन समस्त जगदीशानोऽपि भवतीति मन्तव्यम्। अथवा- सर्वप्राण्यभ्युदय निश्श्रेयसहेतोर्धर्मस्य श्रुतिस्मृति प्रतिपाद्यत्वात्, तयोश्च परमेश्वराज्ञारूपत्वादपि तस्य धर्मस्वरूपत्वमुपपद्यते। “श्रुतिस्मृतीममैवाज्ञे” “अस्यमहतोभूतस्यनिःश्वसितमेतद्यदृग्वेदोयजुर्वेदस्सामवेदः—-” इत्यादि वचनान्यत्र प्रमाणम्। यद्यपि कृत्स्नस्य जगतः पारमेश्वरत्वात् जगदन्तः पातिनो धर्मस्याऽपि परमेश्वरस्वरूपत्वमर्थसिद्धं तथाऽपि अस्मिन्ग्रन्धे धर्मविचारस्य चिकीर्षितत्वात्, विशिष्य तत्स्वरूपत्वेन निर्देशः औचित्यमावहतीति मन्तव्यम्। तादृशं प्रणम्य=नमस्कृत्य, प्रणामश्चात्र- पारमेश्वर निरतिशयमहिमानुसन्धानजनितस्तद्विषयको मानसः प्रह्वीभावः, तदभिव्यंजकश्शारीरो व्यापारविशेषोवा। तं कृत्वा।
यद्वा- धर्मस्यैवविशेष्यत्वम्। सर्वप्राणिसुखदुःखजन्ममरणादि व्यवहारनियामकतया स एव `ईशान’ शब्देन विशेष्यते। तंप्रणम्य= अत्रप्रणामोनाम- अभ्युदय-निश्श्रेयससाधनत्वनिश्चयेन तद्विषये श्रद्दधानत्वमेव। अन्यत्सर्वं पूर्ववत्। (एवंसति मीमांसावार्तिककृतः कुमारिलभट्टस्य मङ्गलाचरणपरिपाटीमनुकुर्वताग्रन्थकृता अनेन ग्रन्थप्रतिपाद्यविशयेष्वपि तदनुयायित्वं सूचितं भवति। वार्तिककारोहि- `विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे। श्रेयः प्राप्तिनिमित्ताय नमस्सोमार्धधारिणे’ इति श्लिष्टैःपदैः सोमयागरूपं धर्मं, सोमार्धधारिणमीश्वरं च प्रत्याययन् विद्वन्मनोहरं मङ्गलमाचचार।)
मीमांसां= तन्नाम्ना प्रसिद्धं वेदवाक्यार्थविचारात्मकं शास्त्रमित्यर्थः। प्रविविक्षतां= प्रदेष्टुमध्येतुमिच्छतामित्याशयः। बालानां= नात्रबालाः स्तनंधयाः, अपितु अधीतवेदवेदाङ्गाः अनधीत मीमांसाश्च ग्रहणधारण पटवोज्ञेयाः, तेषां उपकाराय= सामान्यत श्शास्त्रीय प्रमाणप्रमेय परिचयद्वारा सूत्र-भाष्य-वार्तिकादि प्रौढग्रन्धाध्ययनयोग्यता सिद्धये। भाट्टभाषा= भट्टः-मीमांसाभाष्यवार्तिकनिर्मिता कुमारिलभट्टः, तस्येयं भाट्टा-भट्टाभिमतेत्यर्थः। भाषा=भाष्यते-परिभाष्यते-अन्यूनानतिरिक्तस्वरूपेण प्रतिपाद्यत इति भाषा-मीमांसाशास्त्रीय प्रमाण प्रमेयात्मिका, सा प्रकाश्यते= स्पष्टीक्रियते।
अनेन ग्रन्थारम्भे अध्येत्सभिरपेद्यमाणं(?) अनुबन्ध चतुष्टयमप्युक्तं भवति। भाट्टभाषा- (प्रकाश्यते-) इत्यनेनविषयः, शास्त्रीयपदार्थाना मनायासबोधपरेण उपकारपदेन प्रयोजनम्, बालशब्देन अधिकारिणः। संबन्धस्तु- विषयग्रन्थयोः प्रतिपाद्यप्रतिपादकभावः, प्रयोजनग्रन्थयोः साध्यसाधनभावः। अधिकारि प्रयोजनयोः उपकार्योपकारकभावः, इत्येवं यथायथमुन्नेयम्।

मूलम् :-
श्लो॥ धर्मेप्रमाणान्यथ कर्मभेदः शेषप्रयुक्तिक्रमकर्तृभेदारि ।
द्वेधातिदेशस्तमनूहबाधौ तन्त्रप्रसङ्गाविति लक्षणार्थाः ॥
व्याख्या :-
अथ अध्येतॄणां अनाकुल प्रवृत्तिसिद्धये मीमांसाशास्त्रस्य द्वादश स्वध्यायेषु प्रतिपाद्यानर्थान् अनुक्रमेण संगृह्णाति- धर्मेप्रमाणानीति। लक्षणशब्दोऽत्र अध्याय पर्यायः। लक्षणार्थाः= अध्यायप्रतिपाद्याः पदार्था इत्यर्थः। तद्यथा- प्रथमे अध्याये धर्मेप्रमाणानि प्रतिपाद्यन्ते। द्वितीयेकर्मभेदः। तृतीये शेषत्वापरपर्याय मङ्गत्वम्। चतुर्थे प्रयोज्यप्रयोजकभावः। पञ्चमे क्रमः। षष्ठे अधिकारिभेदः। सप्तमे सामान्यातिदेशः। अष्टमे विशेषातिदेशः, नवमे ऊहः, दशमे बाधः, एकादशे तन्त्रम्, द्वादशे प्रसङ्गः इति। एतेषां स्वरूपं तत्तदध्यायोपक्रमे निरूपयिष्यते।
मूलम् :-
तत्र धर्मस्वरूपमुक्तम्-
“फलतोऽपि च यत्कर्म नानर्धेनानुबध्यते ।
केवल प्रीतिहेतुत्वात्तद्धर्म इति कथ्यते ॥” इति। (गीयते इति पाठान्तरम् (श्लोकवार्तिके. 126 पृ))
श्येनादिव्यावृत्त्यर्थं फलत इति श्येनस्यहिन धर्मत्वम्; `श्वेनेनाभिचरन् यजेत’ इति वेदबोधितत्वेऽपि तत्फलस्य शत्रुवधस्यानर्थहेतुत्वात्। पशुबीजादि वधजन्यदोशेण धर्मोऽपि स्वल्पः संकरोऽस्तीति सांख्यामन्यन्ते। तन्निरासाय केवलमिति। `नहिंस्यात्सर्वाभूतानि’ इति निषेधोहिरागतः प्राप्ताया हिंसाया अनर्धहेतुत्वं बोधयति, नत्वग्नीषोमीयं पशुमालभेतेति शास्त्रेण विहितायाः; विधिस्पृष्टे निषेधानवकौशीत्। `परिहृत्यापवादमुत्सर्गाः प्रवर्तन्ते’ इतिन्यायेन निषेधशास्त्रं-क्रत्वङ्गं हिंसां परिहृत्यैव प्रवर्तत इति, न धर्मफले दुःखलेशसंकरोऽस्तीति सुष्ठूक्तं-किवलमिति।
व्याख्या :-
इहधर्म विचारस्यैव चिकीर्षितत्वात्, तस्य च धर्माख्यवस्तुसिद्ध्यधीनत्वात्, वस्तुसिद्धेष्च `लक्षणप्रमाणाभ्यां वस्तुसिद्धिः’ इतिनियमेन लक्षणप्रमाणाधीनत्वात्, तयोः आदौ वार्तिककारीय वाक्यमेव लक्षणतया उदाहरति- तत्रधर्मस्वरूपमुक्तमिति। तत्र= धर्मलक्षण विवरणपरे चोदनासूत्रभाष्यवार्तिके इत्यर्थः, अत्र स्वरूपशब्दः लक्षणपरः। लक्षनिष्ठः व्यावर्तकोधर्मविशेषः लक्षणमित्युच्यते। प्रकृते च `फलतोऽपिचयत्कर्म’ इत्यादिना स एवाभिधीयते। यत्कर्म फलतोऽपि- फलद्वारा अपि, अनर्थेन-अनिष्टेन दुःखेनेतियावत्। अनुबद्ध्यते- संबद्धो न भवति। तत्रहेतुरुच्यते- केवलप्रीतिहेतुत्वादिति। प्रीतिस्सुखम्, तद्धेतुत्वात्-इष्टसाधनत्वादितियावत्। केवल शब्देन इतरासंस्पृष्टत्वमुच्यते। इतरच्चात्र इष्टविरोधि अनिष्टं-दुःखम्। तदसंस्पृष्टत्वात्। एवं च- दुःखासंस्पृष्टेष्टसाधनत्वादित्यर्थः पर्यवस्यति। एवंविधं यत्कर्म स एव धर्म इति कथ्यते। शास्त्रत्त्वज्ज्ञैरितिशेषः। उद्देश्यप्राधान्यमभिप्रेत्यनपुंसकलिंगनिर्देशः। तथा च - यद्यपि `चोदनालक्षणोऽर्थोधर्मः’ इत्येतन्महर्षिसूत्रालंबनं `वेदबोधितेष्टसाधनणाकत्व’?मेव प्रसिद्धं धर्मलक्षणं, तथाऽपि सांख्याद्यभिमत धर्मस्वरूपव्यावृत्तिपूर्वकं विस्पष्टप्रतिपत्तये विशेषणान्तरयोजनमिति ध्येयम्। तथा हि- `ज्योतिष्टोमेनस्वर्गकामोयजेत’ इति वेदवाक्येन ज्योतिष्टोमस्य स्वर्गरूपेष्टसाधनतायाः बोधितत्वात् वेदबोधितेष्टसाधनताकत्वस्य, स्वतः फलतोवा अनर्थाननुब्धित्वस्य च सत्त्वात् ज्योतिष्टोमे लक्षणसमन्वयः।
वेदबोधितत्वमात्रोक्तौ-स्वर्गमोक्षादौ अतिव्याप्तिः। इष्टसाधनत्वनिवेशेतु- स्वर्गमोक्षादेः स्वतः इष्टरूपत्वेन, इष्टसाधनत्वाभावान्नातिव्याप्तिः। इष्टसाधनत्वमात्रोक्तौ-भोजनादावतिव्याप्तिः। वेदबोधितत्वनिवेशेषु- भोजनादेः रागप्राप्तत्वेन वेदबोधितत्वाभावान्नातिव्याप्तिः।
अस्यचार्थस्य प्रसिद्धत्वात् तमुपेक्ष्य, `फलतोऽप्यनर्थाननुबन्धि’ इति दलस्य सार्थक्यमह- श्येनादि व्यावृत्त्यर्थमिति। `श्येनेनाभि चरन् यजेत’ इति वाक्यविहित शत्रुवध फलकः श्येननामकः कश्चन सोमयोगः (अत्र श्येन शब्दोयागनामधेयमिति वक्ष्यते। अभिचर्नित्यस्य-शत्रुवधकाम इत्यर्थः। तथा च- श्येन नामकेनयागेन शत्रुवधं भावयेत्- इति वाक्यार्थः।)। तस्य स्वरूपेण वेदविहितत्वेऽपि तत्फलस्य अभिचारस्य हिंसारूपत्वात्, हिंसायाश्च `नहिंस्यात्सर्वाभूतानि’ इति निषेधविषयत्वेन अनर्धजनकत्वावगमात् न धर्मत्वमित्याशयः। `केवलप्रीतिहेतुत्वा’दिति दलस्य सांख्याभिमतधर्म व्यावृत्त्यर्थतांदर्शयति- पशुबीजादित्यादिना `अग्नेषोमीयं पशुमालभेत’ `व्रीहिभिर्यजेत’ इत्यादि वचनानुरोधेन प्राणशक्तिमतां अजादिपशूनां, व्रीह्यादिबीजानां च वधस्य आवश्यकत्वादित्याशयः। संकरः= दुःखसंबन्धः सामान्यविशेषन्याय मवलंब्य सांख्यमतगत मसामंजस्यं विवृणोति- नहिंस्यात्सर्वाभूतानीति निषेधोहीत्यादिना-
अत्र धर्मेण अधर्मोऽप्युपलक्ष्यते। वेदबोधितानिष्टसाधनताकत्वं-अधर्मत्वम्। `नकलञ्जंभक्षयेत्’ इति निषेधवाक्येनकलञ्ज भक्षणस्य अनिष्टसाधनत्वावगमात् अधर्मत्वम्। यथा इष्टसाधनतया अनुष्ठानाय धर्मोज्ञेयः, तथा अनिष्टसाधनतया, हानाय अधर्मोऽपिज्ञेय इति-केचिदाचार्याः।
मूलम् :-
धर्मेप्रमाणान्यपि प्रसिद्धानि-
“वेदोऽखिलो धर्ममूलम्। तद्विदांचस्मृतिशीले”
“धर्मज्ञसमयः प्रमाणम्। वेदाश्च”
“पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानिविद्यानां धर्मस्य च चतुर्दश” ॥ इति।
इत्थं धर्मरूपवस्तुसिद्धौ साधनं लक्षणं प्रथममुक्त्वा, द्वितीयं प्रमाणरूपं साधनं विवृण्वन्नाह- धर्मेप्रमाणान्यपि प्रसिद्धानीति। धर्मज्ञाः मनुगौतम याज्ञवल्क्यादयो महर्षयः, तेषां नीबन्धेष्विति शेषः। वेदोऽखिलोधर्ममूलमिति। विदन्ति अनेन धर्माधर्माविति वेदः-अपौरुषेयः शब्दराशिः अखिलः= विध्यर्थवादमन्त्रात्मकः कृत्स्नोऽपि। केचिद्विधीनामेव प्रामाण्यमिच्छन्ति, नार्थवादानाम्। अपरे मन्त्राणामेवप्रामाण्यं संगिरन्ते, नब्राह्मणस्य। तत्तन्मतमपाकर्तुमह- `अखिल’ इति। तत्र- अर्थवादानां विधिवाक्यैकवाक्यतया मन्त्राणामनुष्ठियार्थस्मारकतया च प्रामाण्यस्य इहैव द्वितीयेपादे वक्ष्यमाणत्वात्। `मन्त्रब्राह्मणयोर्वेदनामधेयम्’ इत्यापस्तंबादि महर्षिवचन विरोधाच्च अनुपादेयत्वं तयोर्मतयोः द्रष्टव्यम्। धर्ममूलं= धर्मेप्रमाणमित्यर्थः।
यद्यपि धर्मे वेद एव निरपेक्षतया मुख्यं प्रमाणम्, परं तु महर्षि प्रणीतानां स्मृतीनां, धर्मबुद्ध्या अनुषेयमानस्य तदीयाचारस्य च वेदमूलकत्वेन प्रामाण्यमस्तीत्यभिप्रेत्य- उदाहरति- `स्मृतिशीले च तद्विदाम्’ इति। मनुगौतमयाज्ञवल्क्यादिभिर्महर्षिभिः प्रणीताः वेदार्थविनदीकरणार्थाः प्रबन्धाः `स्मृति’ शब्देन व्यवह्रियन्ते। तेषांमेव वेदविदां शीलं= सदाचारः, `शीलं स्वभावे सद्वृत्ते’ इतिकोशात्। अस्मिञ्चास्त्रे महर्षिप्रणीतत्वाविशेषात् वेदोपकारकत्वाच्च शिक्षाव्याकरणादि विद्यास्थानान्तराण्यपि स्मृतित्वेन व्यपदिश्यन्ते।
अत्रैव आपस्तंबीयं धर्मसूत्रमुदाहरति- `धर्मज्ञ समयः प्रमाणम्, वेदाश्च’ इति। धर्मं जानन्तीति धर्मज्ञाः मन्वादयः, तेषां समयः- आचारः, सिद्धान्तोवा, `समयाश्शपथाचारकालसिद्धान्तसंविदः’ इतिकोशात्। पौरुषेयी व्यवस्थासमयः- इतिहरदत्तमिश्राः समयोऽपिधर्मेप्रमाणमित्यर्थः। न च पुरुषेषु भ्रमप्रमादादिदोषाणां संभवात् कथं पौरुषेय्याः व्यवस्थायाः प्रमाण्यमिति शङ्क्यम्; नहि पुरुषमात्रस्य समयः प्रमाणमित्युच्यते, किन्तु धर्मज्ञाये मन्वादयः तेषां समयः प्रमाणमिति। अथ च - मन्वादीनामस्तुनाम अस्मदपेक्षया तपःप्रभावादि प्रयुक्तं वैशिष्ट्यम्, तथाऽपि पुरुषत्वाविशेषात्, इतिहीसपुराणादिषु महर्षिणामपि व्यतिक्रम साहसादिदर्शनाच्च कथं तदीय समयस्य धर्मेप्रामाण्यं संभवतीति-शङ्कायामाह- `वेदाश्च’ इति। चोऽवधारणे। वेदा एवेत्यर्थः। तदयः निर्णवितोर्थः- तपस्संपन्नतया, नैकवेदशाखाध्येतृतयाच मन्वादीनां समयः अस्मादृशास्प्रति प्रमाणंभवतु मर्हत्येव। अथ तत्राऽपि प्रत्यक्षवेदविरोधस्य, रागद्वेषादि मूलकत्वस्य वा संभवे, समयः परित्यज्य वेद एव शरणीकरणीय इति।
अथ सामस्त्येन धर्मप्रमाण सङ्ग्राहकं महर्षियाज्ञवल्क्यवचनमुदाहरति प्रतिपत्तृसौलभ्याय- पुराणेति। तत पुराणानि-
`मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् ।
अनाकलिङ्गकूस्कानि पुराणानि दशाष्टच’ ॥ इति प्रसिद्धानि अष्टादश कृष्णद्वैपायनेन व्यासेन प्रणीतानि। इतिहासस्याऽपि भारतादेः पुराणमुपलक्षणम्। न्यायः- गौतमकणादाभ्यां निर्मितं तर्कापरपर्यायं पदार्थविज्ञानशास्त्रम्। मीमांसा- जैमिनिबादरायणाभ्यां प्रणीता वेदवाक्यार्थविचारात्मिका पूर्वा, उत्तरा च। धर्मशास्त्रम्- मनुयाज्ञवल्क्यादिभिः प्रवर्तितं वर्णाश्रमधर्मप्रधानं मनुस्मृति- याज्ञवल्क्यस्मृत्यादिकम्। अङ्गानि- शिक्षा, व्याकरणं, छन्दः, निरुक्तं, ज्यौतिषं, कल्पश्चेति षट्। एभिर्दशभिः पुराणादिभिः, मिश्रिताः= उपेताः उपकृता वा, वेदाः= ऋग्यजुस्सामाथर्वाख्याश्चत्वारः, आहत्य चतुर्दशसंख्याकाः, विद्यानाम्= धर्मार्थकाममोक्षाख्य पुरुषार्थविज्ञानानां, स्थानानि= हेतवः, प्रमाणानीतियावत्। तथा धर्मस्य= धर्मविज्ञानस्य च स्थानानीत्यनुकृष्यते।
“ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गञ्च गारुडम् ।
नारदीयं भागवतमाग्नेयं स्कान्दसंज्ञकम् ॥
भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं च वामनम् ।
वाराहमात्स्यकौर्मेति ब्रह्माणाऽख्यमिति त्रिषट् ॥”
तथा च- चत्वारो वेदाः मुख्यप्रमाणभूताः, तदुपबृंहकानि पुराणादीनि दश। तत्राऽपि शिक्षा छन्दसोः वेदपाठोपबृंहकत्वं, इतरेषां वेदार्थोपबृंहकत्वं, व्याकरण निरुक्तयोस्तूभयोपबृंहकत्वमिति विभज्य विनियोगः केचिदाचार्या आचक्षते।
मूलम् :-
तथा हि, `स्वाध्यायोऽध्येतव्य’ इति तव्यप्रत्ययेन विधि भावना प्रतीयते। भावना च भवितुर्भवनानुकूलो भावकव्यापारः- सर्वेषां लकाराणामर्थः। विधि भावना तु प्रवर्तनात्मिका लिङ्लोट् तव्यप्रत्यय पञ्चमलकारेभ्य एव अवगम्यते। सा च द्वेधा शाब्द्यार्थी च। प्रत्येकं फलकरणेतिकर्तव्यतांशैस्त्र्यंशा।
इत्थं धर्मे प्रमाणानि वेदादीनि निर्दिश्य, तेषां धर्मप्रमापकत्वप्रकारः `स्वाध्यायोऽध्योतव्य’ इति वाक्यार्थ विवरणमुखेन वक्तुमुपक्रमते- तथाहि इत्यादिना।
व्याख्या :-
`स्वाध्याय’ इत्यत्र स्वश्चासावध्याय इति विग्रहे, स्वशब्दस्य स्वकीय पितृपितामहादि परंपराप्राप्त इत्यर्थः। अधीयत इत्यध्यायः अध्यायशब्दश्चात्र शाखात्वेन वैदिकेषं प्रसिद्धं ऋगादिवेदावान्तरभागंलक्षयति। सः अध्येतव्यः-गुरुमुखोच्चारणानूच्चारणमध्ययनं, तेन स्वायत्तीकर्तव्य इत्यर्थः। विधिभावना= प्रवर्तनात्मिका भावना। लोकेभावनाशब्दस्य ध्यान- संस्कारादिष्वर्थेषु प्रयुज्यमानत्वात् तद्व्यावृत्त्यर्थं प्रकृते विवक्षितमर्थं लक्षयति- भावनाचेति। भवितुः= उत्पत्स्यमानस्य, भवनानुकूलः= उत्पत्त्यनुकूलः, भावकव्यापारः= भावकस्य- उत्पादयतुः (प्रयोजकस्य) व्यापारः, तस्यैव प्रकृते शास्त्रेभावनात्वेन व्यपदेश इत्यर्थः। सर्वेषाम्= लट्, लिट्, लुट्, लृट्, लेट्, लोट्, लङ्, लिङ्, लुङ्, लृङ् इत्येतेषाम्- सामान्यरूपेण भावनैवार्थः। विशेषमाह- विधिभावनात्विति प्रवर्तनात्मिका= प्रवृत्यैनुकूलोप्यापार इत्यर्थः। पञ्चमलकारः= लेट्। अयं च वेदमात्रगोचरः। इत्थं भावनां निरुच्य, तां विभजते सा च द्वेधा इति। प्रत्येकं= एकैकाऽपि, त्र्यंशा= त्रयः- फल, करण, इतिकर्तव्यतारूपाः अंशाः- अवयवाः यस्यांसात्र्यंशा।
मूलम् :-
तत्र शाब्द्यामध्ययने प्रवृत्तिः फलम्, करणं तव्यप्रत्ययः, वेदे वक्त्रभावेऽपि, लोके- `ग्रामोगन्तव्यः’ इत्यादौ अयं मां अनेन शब्देन प्रवर्तयतीति प्रत्ययाच्छब्दस्वैव करणत्वदृष्टेः। इति कर्तव्यता तु `अपपुनर्मृत्युंजयति’ इत्यन्तार्थवादमुखेन प्राशस्त्यावगतिः।
व्याख्या :-
तव्यप्रत्ययात् प्रतीयमानायां शाब्द्यां भावनायां अंशत्रयोपस्थापिकां सामग्रीं दर्शयति- तत्रेति। फलं= भाव्यमित्यर्थः। ननु `यजेत’ इत्यादौ लिङ्प्रत्यये सर्वलकारसाधारणस्य आख्यातत्वस्य, असाधारणस्य लिङ्त्वस्य च सत्त्वात् लिङ्त्वाशेन उच्यमानायां प्रवर्तनात्मिकायां शाब्द्यांभावनायां समानाभिधान श्रृत्या आख्यातत्वांशेन उच्यमाना प्रवृत्तिरूपाभावना फलत्वे न अन्वेतीति वक्तुंयुक्तम्। तव्य प्रत्यये तु तद्वदंशद्वयाभावात् `शाब्द्यामध्ययनेप्रवृत्तिः फलम्’ इति कथं वक्तुं शक्यते इति चेत्; अंशद्वयवतः लिङः स्थाने विहितस्य तव्यप्रत्ययस्याऽपि तद्वदेव अंशद्वयात्मकत्वौचित्यात्। वस्तुतस्तु- `प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च (पा. सू. 3-3-163) इति सूत्रेण प्रैषार्थेतव्यप्रत्ययोविधीयते। यद्यपि प्रैषोनाम- प्राप्तविषय प्रवर्तनात्मकः। तदेकदेशलक्षणया प्राप्त विषयत्वं, परित्यज्य प्रवर्तना (विथ्य)र्थकत्वं स्वीक्रियते। प्रवर्तनायाश्च प्रवृत्त्यनुकूलव्यापारात्मकत्वात् प्रवृत्तिरूपार्थभावनाऽपि तेनैवाक्षिप्यत इति- कौस्तुभे अर्थवादाधिकरणे व्यक्तम्। करणं तव्यप्रत्यय इति। अत्र भावनावत् करणमपि पारिभाषिकमेव। लोके तावत् यस्य यत्करणं तस्य तज्जनकं भवति। यथा- घटं प्रतिदण्डः, छेदनं प्रतिकुठारः। इह तु भावनाकरणत्वं नाम- भावना भाव्यनिर्वर्तकत्वं द्रष्टव्यम्, न तु भावनाजनकत्वम्। तथा च प्रकृते तव्यप्रत्ययः भावनाभाव्याः अध्ययनविषयणीं पुरुषप्रवृत्तिं निर्वर्तयतीति भावनाकरणत्वेन व्यपदिश्यते। तव्यप्रत्ययस्य करणत्वमुपपादयति- वेदे वक्त्रभावेऽपीति। लोके तावत् यदा आचार्यः शिष्यंप्रति `त्वया ग्रामोगन्तव्यः’ इति प्रयुङ्क्ते तदा शिष्यः ग्रामगमने प्रवर्तते। तत्र तावत् `अयं ग्रामगमने प्रवर्तताम्’ इत्याकारिका आचार्यस्य इच्छैव प्रवर्तनात्मिका विधिभावना भवति। वेदस्य अपौरुषेयत्वात् तत्र वाक्यप्रयोक्तुः पुरुषस्याभावात् स्वाध्यायोऽध्येतव्य इत्यादौ कथं वा पुरुषेच्छारूपायाः भावनायाः संभवः? असंभवे वा कथं तव्यप्रत्ययवशात् `अयं मां प्रवर्तयति’ इत्यवगत्य अध्ययने प्रवर्तेत? इति चेत्, उच्यते- लोके तावत् (शिष्यस्यग्रामगमनप्रवृत्तिः)- `ग्रामोगन्तव्य’ इत्याचार्य वचनसमनन्तरभाविनीं, शिष्यस्यग्रामगमनप्रवृत्तिः पश्यामः। अतः तस्यवचनस्यैव प्रवर्तकत्वं निश्चिनुमः। तथा च पुरुषेच्छापर्यन्तमनुधावनमत्रनापेक्षितमिति वेदस्य वक्त्रभावेऽपि नक्षतिरित्याशयः। अत्र वक्तृत्वं प्रमाणान्तरेणार्थमुपलभ्य, तदभिव्यञ्जनाय इदं प्रथमतया शब्दप्रयोक्तृत्वरूपं द्रष्टव्यम्, न तूच्चारयितृत्वमात्रम्; इच्चार्यमाणत्वस्य वेदेऽपि उपलभ्यमानत्वात् तस्य पौरुषेयत्वासाधकत्वाच्च। यद्यपि प्राचांग्रन्थेषु विङादिज्ञानस्य शाब्दभावनाकरणत्वमुक्तम्, अत्र तु तव्यप्रत्ययरूपस्य शब्दस्यैवकरणत्वमुच्यते। परन्तु- यत्रक्वाऽपि प्रवृत्तिः निवृत्तिमन्यद्वाकार्यं जनयन् शब्दः अर्थप्रत्यायनद्वारैव जनयति, न तु श्रुतमात्रः, तदपि व्युत्पन्नं प्रत्येव संभवति नाव्युत्पन्नं प्रति। तथासति प्रत्ययस्य करणत्वोक्तावपि अर्थात् तस्य ज्ञानद्वारकत्वात्। तस्य चावान्तरव्यापाररूपत्वात् न काचिदनुपपत्तिः। करणत्वदृष्टेः= करणत्वदर्शनादित्यर्थः। इति कर्तव्यतानाम- येन करणं फलजननौपयिकं भवति तादृशोऽवान्तरव्यापारः। यथा- `कुठारेणछिन्ति’ इत्यादौ कुठारेण छेदने निर्वर्तयित्ये उद्यमननिपातनादिरूपोऽवान्तर व्यापारः कुठारमुपकरोति, तद्वत्। स च प्रकृते- प्राशस्त्यावगतिः= प्राशस्त्यज्ञानम्। तच्च कतोभवतीत्याकांक्षायामह- अपपुनर्मृत्युंजयतीति। साध्याविधि सन्निधौ पठितस्य तत्प्रशंसापरस्य वाक्यस्यायमन्तिमोभागः। पुनर्भाविनं मृत्युं अपजयति- विनाशयतीति तस्य मुख्योऽर्थः। तस्य च प्रकृते अनुपपन्नत्वात्प्रशस्त्यं लक्षयित्वा, तस्य इति कर्तव्यतात्वेनान्वयस्स्वीक्रियते। न च वाक्यस्य मुख्यमर्थं परित्यज्य, लाक्षणिकप्राशस्त्यपरत्वं कुतः स्वीक्रियते? यथा श्रुत मृत्युजयरूपफलपरत्वमेव किं न स्यात्? - इति वाच्यम्; तथात्वे अनन्वया, दसंभवाच्च। तथा हि तस्य प्रत्ययाभिहितभावनायाः किं भावयेत्? इति फलाकांक्षायां समानाभिधानश्रुत्या आख्यातत्वांशाभिहितायाः अध्ययनविषयिण्याः प्रवृत्तेरेव शीघ्रोपस्थितिकतया फलत्वेनान्वये सति तस्यां निवृत्तायां सत्यां वाक्यान्तरोपस्थापितस्य मृत्युजयस्य विलंबोपस्थिति कस्य फलत्वेनन्वयानुपपत्तेः। किं च - अपपुनर्मृत्युञ्जयतीत्यस्यायमर्थः- शरीरधारिणां सर्वेषामपि वर्तमान शरीरनाशात्कदाचिदवश्यंभावीमृत्युः। ब्रह्मतत्त्वविदान्तु- `नसपुनरावर्तते’ इत्यादिश्रुत्या वर्तमानशरीर पातादूर्ध्वं जन्मान्तरस्यैवाभावात्पुनर्मृत्युरपि नास्त्येवेति सोऽयं पुनर्मृत्योरपजय इत्युच्यते। एतच्चफलं- `तमेवं विदित्वाऽतिमृत्युमेति, नान्यः पन्धाविद्यतेऽयनाय’ इति श्रुत्युक्तत्वात् ब्रह्मज्ञानैकसाध्यमेवेति नैतस्य स्वाध्यायाध्ययन फलत्वं संभवति। तथा च- प्रकृते ब्रह्मतत्त्वसाक्षात्कार समानफलकतया स्वाध्यायाध्ययनं प्रशंसितुमिदं वाक्यं प्रवृत्तमिति- लक्षणं यातत्परमेव, न यथा श्रुतार्थपरमिति। एवञ्च- तव्यप्रत्ययगताख्यातत्वां शोपस्थापित प्रवृत्तिभाव्यिका, तद्गत विङंश करणिका, आर्थवादिक प्राशस्त्येति कर्तव्यताका- भावना’ इति स्वाध्यायोऽध्येतव्य इत्यत्रशाब्द्याः भावनायाः स्वरूपं पर्यवस्यति।
मूलम् :-
आर्थ्यां तु किं भावयेदिति भाव्याकांक्षायां कर्मोत्पन्न तव्यप्रत्यय श्रुत्या स्वाध्यायस्यैव भाव्यत्वं गम्यते। ननु `विश्वजितायजेत’ इत्यत्र निष्फले प्रवृत्त्यसंभवात् स्वर्गकाम इति पद मध्याह्रियते, यथा वा ज्योतिर्गौरायुरित्यादि वाक्यविहितेषु रात्रि संज्ञकेषु यागेषु फलाश्रवणेऽपि `प्रतितिष्ठन्ति हवैय एतारात्रीरुपयन्ति’ इत्यर्थवादादेव `ये प्रतिष्ठामिच्छन्ति पतारात्रीरुपेयु’रिति प्रतिष्ठारूपं फलं वाक्यविपरिणामेनकल्प्यते, एवं `स्वर्गकामेन स्वाध्यायोऽध्येतव्य’ इति अपमृत्युजयादिकं वा आर्धवाचिकं फलं कल्प्यम्, दुःखरूपस्य स्वाध्यायशब्दितस्स वेदराशेर्भाव्यत्वासंभवात् इति चेत्- न, श्रुतहान्यश्रुतकल्पनाप्रसङ्गात्, दृष्टेसंभवत्यदृष्टकल्पनाया अन्याय्यत्वाः संभवति चात्र वर्णराश्यधिगमद्वारार्थावगतिरूपं दृष्टं प्रयोजनम्। यथोक्तम्- दृष्टोहि तस्यार्थः कर्मावबोधनमिति। अतस्तदेवात्र भाव्यम्।
सपरिकरां शाब्दीं भावनां प्रतिपाद्य, क्रमप्राप्तां अंशत्रवतीं आर्थीं भावनां प्रतिपादयति- आर्थ्यांत्विति। आर्थ्यां= आख्यातत्वांशेन प्रत्ययवाच्यायां अर्धभावनायाम्। स्वाध्यायस्यैवेति। `स्वाध्यायोऽध्येतव्य’ इत्यत्र अधि इत्युपसर्गपूर्वकात् इण् गतावितिधातोः `तव्यत्तव्यानीयरः (पा.सू. 3-1-96)’ इति सूत्रविहितस्य कर्मार्थक तव्यप्रत्ययस्य श्रवणात् स्वाध्यायस्य कर्मत्वमवगम्यते। अतस्तस्यैव कर्मितार परपर्यायं भाव्यत्वं स्वीकर्तव्यमित्यर्थः। इह सत्यपि प्रवृत्तिनिमित्तभेदे, भाव्यं-फलं-कर्म इतीमे शब्दाः समानार्थाः प्रयुज्यन्त इत्यवगन्तव्यम्।

स्यादेतत्। यदत्र आर्थभावनायां स्वाध्यायस्य भाव्यत्वमुक्तं, तदयुक्तम्। भाव्यं हि नामफलम्। फलेन च सुखरूपेण भवितव्यम्। सर्वो हि सुखरूपमेव फलमाशास्ते, न दुःखरूपम्। स्वाध्यायस्य गुरुमुखोच्चारणानूच्चारणादिरूप बहुप्रयास साध्यत्वात्, स्वतश्च सुखरूपत्वाभावात् न तस्य फलत्वेन भावनायामन्वयो घटत इति चोदयति- नन्विति। यत्र कर्मोत्पत्तिवाक्ये, तत्सन्निहिते वाक्यान्तरे वा, विधीयमानस्य कर्मणः फलं नश्रूयते तत्र आख्यातवाच्यायाः भावनायाः फलविषये अनिवृत्ताकांक्षत्वात् वाक्यार्थो न पर्यवस्यतीति, तत्पर्यवसानाय उपायद्वयमुररीकुर्वते मीमांसकाः। स्वर्गपद मध्याहृत्य तद्बोधितस्य स्वर्गस्य फलत्वेनान्वय इत्येकः उपायः। लोके फलत्वेन प्रसिद्धानि प्रजापशुधनादीनि विहाय स्वर्गस्यैव स्वीकारे कारणं तु- तस्य सुखरूपत्वात्, सुखस्यसर्वाभिलषितत्वाच्चेत्यभिधत्ते सूत्रकारः- `सस्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वात्’ (4-3-7 विश्वजिदधिकरणे) इति। द्वितीयस्तूपायः- कर्मविधिसन्निहिते अर्थवादे प्रशंसार्धमुपात्तस्याऽपि प्रतिष्ठादेरेव फलत्वेनान्वयः। तदेतत् रात्रिसत्राधिकरणे `फलमात्रेयोनिर्देशादश्रुतौह्यनुमानंस्यात्’ (4-3-8) इति प्रपञ्चितम्। सूत्रकृतैव। तत्र प्रथमे- अत्यन्ताश्रुतस्य स्वर्गपदस्य अध्याहारप्रयुक्तं गौरवमपरिहार्यम्। तदपेक्षया द्वितीये- विधिसन्निधिपठिते अर्थवादे श्रुतायाः अन्यार्थाया अपि प्रतिष्ठाया एव फलत्वकल्पनाल्लाघवम्। अत एव रात्रि सत्रन्यायासंभवदशायामेव विश्वजिन्न्याय प्रवृत्ति माचक्षते विचक्षणाः। एवं च प्रकृते विश्वजिन्न्यायेन स्वर्गः फलं कल्प्यतां, रात्रि सत्रन्यायेन वा आर्धवाचिकस्य मृत्युञ्जयस्य फलत्वं कल्प्यतां, न तु क्लेशरूपस्य स्वाध्यायस्येति। अत्र समाधत्ते- न; श्रुतहान्यश्रुतकल्पना प्रसङ्गादिति। श्रुतस्य= विधिवाक्येकर्मत्वेन आम्नातस्य स्वाध्यायस्य, हानिः= परित्यागः, अश्रुतस्य= विधिवाक्ये अनाम्नातस्य मृत्युञ्जयादेरार्थवादिकस्य, कल्पना= परिग्रहश्चेति दोषद्वयं प्रसज्येतेत्यर्थः। तथा दोषान्तरमह- दृष्टे संभवतीति। सोऽयं सर्वशास्त्रकृत्संमतोन्यायः- `दृष्टे फलेसंभवति अदृष्टं फलं न कल्पनीय’मिति। तत्र दृष्टं फलं शीघ्रोपस्थितिकत्वात्प्रबलम्। अदृष्टं तु- अर्थापत्त्यादिना कल्पनीयत्वेन विलंबोपस्थितिकत्वाद्दुर्बलम्। एतादृश प्राबल्यदौर्बल्यभाव एव निदानंन्याय प्रवृत्तावित्यवगम्यते। न्याय मिमं प्रकृते सङ्गमयति- संभवतिचात्रेति। अत्र भाष्यकारस्य शबरस्वामिनस्संम्मतिं दर्शयति- यथाधक्तमिति। वाक्यस्याऽयमर्थः- तस्य= प्रकृतस्य वेदवाक्यस्य, अर्थः= प्रयोजनं, दृष्ट एव= प्रत्यक्षसिद्ध एव। कोऽयमर्थः? इत्यत आह- कर्मावबोधनमिति= अग्निहोत्रादिकर्मविषयकज्ञानोद्भावनमित्यर्थः। नामेल प्रसिद्धौ। `अग्निहोत्रंजुहुयात्स्वर्गकामः’, `दर्शपूर्णमासाभ्यां स्वर्गकामोयजेत’ इत्यादि वाक्येषु श्रवणपथमुपगतेषु, अग्निहोत्र- दर्शपूर्णमासादिकर्मकर्तव्यताविषयकं ज्ञानं अभियुक्तानामनुपदमेव भवतीत्येतत्- लोकप्रसिद्धमित्याशयः। तथा च अत्र स्वाध्यायपदेन लक्षितं अक्षरग्रहणादिद्वारा जायमानं तदर्थज्ञानमेव, दृष्टत्वात्- आर्थ्यांभावनायां फलतया अन्वेतीति भावः।
मूलम् :-
करणाकांक्षायां तु अध्येतव्य इति समानपदोपात्तमध्य ।
यनं- गुरुमुखोच्चारणानूच्चारणरूप मुपतिष्टते ॥ इति कर्तव्यताकांक्षायां च निगमनिरुक्तं व्याकरणादिकम्। तेनायमर्थः- अध्ययनेनार्थज्ञानं भावयेत् निरुक्तादिभिरुपकृत्येति।
व्याख्या :-
क्रियासिद्धौ प्रकृष्टोपकारकं- करणमित्युच्यते। करणाकांक्षायां= केन भावयेत्? इत्याकांक्षायाम्। अध्ययनस्य लोके पठनमात्रे प्रसिद्धत्वात्तद्व्यावृत्त्यर्थं विशिनष्टि- गुरुमुखोच्चारणानूच्चारणरूपमिति। तस्यैव करणत्वेनान्वये प्रमाणं दर्शयति- समानपदोपात्तमिति। समानेन- एकेन `अध्येतव्य’ इति पदेन, उपात्तं- प्रतिपादितं, प्रकृत्यंशेन अध्ययनस्य प्रत्ययांशेन भावनायाश्च अभिहितत्वात्। एकपद श्रुतिरूपेण प्रमाणेनेतियावत्। इति कर्तव्यताकांक्षायां= कथं भावयेत्? इत्याकांक्षायाम्। इति शब्दोऽत्र प्रकारवाची, कर्तव्यस्य इति- प्रकारः इति कर्तव्यता। इति विवरणात्। निगमनिरुक्तेति= अध्ययनेन वेदार्थज्ञानरूपे फले जनयितव्ये, तेषामेवोपकारकत्वादितिभावः। उपलक्षणमेतत्- वेदव्यतिरिक्तानां शिष्टा। नामपि विद्यास्थानानाम्।
मूलम् :-
यस्त्वत्रगुरुद्वारैवार्थज्ञानं भावयेत्, नात्मव्युत्पत्तिबलेन-
इति नियमः, न तस्य दृष्टं किञ्चित्फलमस्तीति तदंशेऽस्त्वार्थवादिक्यदृष्टकल्पना। (तदंशे+अस्तु+आर्थवादिकी)।
व्याख्या :-
`स्वाध्यायोऽध्येतव्य’ इति विधेः नियमरूपतामह= यस्त्यत्रेति। यद्यपि अध्ययनस्य अर्थज्ञानार्थत्वंलोकत एव सिद्धम्; भारत रघुवंशादौ तथा दृष्टत्वात्। तथाऽपि अर्थज्ञानं प्रति अध्ययनवत्, लिखितपाठ- आत्मव्युत्पत्त्यादीना मुपायान्तराणामपि लोकसिद्धत्वात् यदा अध्ययनमुपेख्य उपायान्तराण्यवलंबते तस्मिन् पक्षे अप्राप्तमध्ययनं नियमेन प्रापयितुं अयं विधिरपेक्ष्यते। न च - अपेक्षितस्य अर्थज्ञानस्य उपायान्तरेणाऽपि साध्यत्वात् किमर्थोऽयमध्ययन नियम इति वाच्यम्; नियमेन दृष्टप्रयोजनाभावेऽपि विध्यन्यथानुपपत्त्या अदृष्टरूपस्य फलस्य कल्प्यमानत्वात्। एतन्नियमादृष्टविशिष्टेन अर्थज्ञानेन अनुष्ठितस्यैव कर्मकलापस्य साद्गुण्यसंभवाच्च। आत्मव्युत्पत्तिः= स्वकीयबुद्धिशक्ति संपादितं पदपदार्थज्ञानम् तदंशे= नियमांशे।
मूलम् :-
एवं `दर्शपूर्णमासाभ्यां स्वर्गकौमोयजेत’ इत्यादावपि भावनायां अंशत्रयं ज्ञेयम्। अत्राऽपि समान पदोपात्तमपि धात्वर्थमुपेक्ष्यकाम्यमानत्वात् व्यवहितोऽपि स्वर्गोभाव्यत्वेनान्वेति। धात्वर्थो यागःकरणत्वेन। न हि संभवति यजेतेत्यत्र यागंकुर्यादित्यर्थे- दर्शपूर्णमासाभ्यामिति तृतीयान्तेन यागनामधेयेनान्वयः, तेन दर्शपूर्णमासाभ्यां यागाभ्यां स्वर्गं भावयेत्- प्राकरणिकैः प्रयाजादिभिरुपकृत्येति वाक्यार्थः संपद्यते। स्वर्गपदार्थश्च श्रुत्यादर्शितः- `यन्नदुःखेन संभिन्नं न च ग्रस्त मनन्त्। अभिलाषोपनीतं चतत्सुखं स्वः पदास्पदम्’ इति।
व्याख्या :-
इत्थमंशत्रय विशिष्ट भावना विशेष्यक शब्दबोधजनकत्वं स्वाध्यायविधिवाक्ये प्रदर्श्य, तदेतत् स्पष्टयितुं वाक्यान्तरेऽपि योजयति- एवं दर्शपूर्णमासाभ्यामिति। अत्रेदमनुसन्धेयम्- अस्मिन्नपि वाक्ये यजेतेत्यत्र तप्रत्ययेन आख्यातत्वांशा- इत्युक्तमेव। तत्र प्रथमतः भाव्याकांक्षायां- समानपदश्रुत्या सन्निहिततरोऽवीधात्वर्थोयागः भाव्यत्वेन अन्वयः नलभते; तस्य शारीरश्रम- द्रव्यव्ययाचिना दुःखात्मकत्वेन अपुरुषार्थत्वात्, `दर्शपूर्णमासाभ्यां’ इति विद्यमानयोः दर्शपूर्णमास शब्दयोः कालविशेषवाचकत्वेन प्रसिद्धयोरपि, प्रकृते तत्कालकर्तव्ययागपरत्वात्, तदपि पदं नामधेय विधया धात्वर्थं यागमेव विशिनष्टीति, न भावनापेक्षित भाव्यसमर्पणाय कल्पते। शिष्यते च केवलं स्वर्गकामपदमेकम्। तदपि स्वर्गविषयक कामनावन्तं पुरुषमेव बोधयतीति तस्याऽपि स्वरसतः भाव्यसमर्पकत्व मसंभाव्यमेव। भाव्यस्य फलस्य इष्टरूपत्वं खलु सर्वैरपीष्यते! परन्तु- स्वर्गकामनावत्पुरुषवाचके स्वर्गकामपदे श्रूयमाणे अंशत्रयं प्रतीयते- स्वर्गः, तद्विषयिणी कामना, तद्वान् कर्तृरूपः पुरुषश्चेति। तत्र कामना तावत् वस्तुसौन्दर्यज्ञानाधीना कदाचि,त्कस्यचि,त्कुत्रचिज्ञायते, न सर्वदा सर्वस्य सर्वत्रेतिनसा शास्त्रेण नियन्तुं शक्यते अतः न तस्याः भाव्यत्वमुपपद्यते। कर्ता च पुरुषः कृतिरूप याभावनया अर्थादाक्षिप्तस्सन् आख्याते न लक्ष्यत इति प्राप्तत्वादेव न विधानमर्हति। स्वर्गस्तु स्वतस्सिद्धोऽपि प्रकृत संबन्धितया अप्राप्तः, सुखात्मकतया फलत्वेनान्वेतुं योग्यः, भावनया अपेक्षितश्चेति तन्मात्रपरत्वं स्वर्गकामपदस्य एकदेशलक्षणया स्वीकृत्य तस्यैव भाव्यत्वेन अन्वयः क्रियते। प्रथमाचकर्मत्वापरपर्यायं भाव्यत्वं लक्षयति। ततश्च धात्वर्थस्य यागस्य करणत्वेनान्वयः। तत्र च समानपदश्रुतिः प्रमाणम्। `दर्शपूर्णमासाभ्यां’ इति पदं तस्यैव नामधेयं सद्विशेषणम्। दर्शपूर्णमासनामकयोः कर्मणोः द्वित्वात् द्विवचनान्तेन दर्शपूर्णमासाभ्यामिति पदेन विशेष्यमाणतया यजिनाऽपि द्विचनान्तेन भवितव्यम्। करणत्वाच्च तद्वाचिनी तृतीया अवश्यंभाविनी। तथा च - दर्शपूर्णमासनामकाभ्यां यागाभ्यां स्वर्गंभावयेदित्यर्थस्संपद्यते। ततः इति कर्तव्यताकांक्षायां प्रयाजादीनामन्वयं दर्शयति- प्रयाजादिभिरुपकृत्येति। तत्र प्रमाणमुपक्षिपति- प्राकरणिकैरिति। उभयाकांक्षालक्षणेन प्रकरणरूपेण प्रमाणेन उपस्थापितैरित्यर्थः। प्रकरण मित्युपलक्षणं- अङ्गत्वबोधने सहकारिभूतानां श्रुतिलिङ्गादि प्रमाणान्तराणाम्; तथा च- स्वर्गफला, दर्शपूर्णमासयागकरणिका, प्रयाजादीति कर्तव्यताका भावना इति प्रकृतवाक्यार्थः पर्यवस्यति।
अत्र केचित्- `यजेत- यागंकुर्यादिति अर्थं वर्णयन्ति। तथात्वे अनुपपत्तिं दर्शयन् तन्निराकरोति- नहिसंभवतीति।’
नन्वत्र यजिपदस्य द्वितीयान्तत्वं परिकल्प्य, यागं कुर्यात् इत्यर्थवर्णने, `दर्शपूर्णमासाभ्या’मिति तृतीयान्तविशेषणान्वयानुपपत्तिर्भवता आपाद्यते। तत्तथा आस्ताम्। `आग्निहोत्रंजुहोति’ इत्यादौ भवदुक्तरीत्या धात्वर्थस्यहोमस्य करणत्वमङ्गीकृत्य `होमेन भावयेत्’ इत्यर्थवर्णने, `अग्निहोत्रं’ इति द्वितीयान्तस्य नामधेयस्य कथमन्वयः? नहि संभवति- होमेन भावयेत् अग्निहोत्रमिति। यत्युच्येत- अग्निहोत्रमितिपदे द्वितीयया करणत्वलक्षणात् `अग्निहोत्रनामकेन होमेन इष्टं भावयेत्’ इत्येवं सामानाधिकरण्येनार्थवर्णनं संभवतीति, तदस्मत्पक्षेऽपि समानम्, `दर्शपूर्णमासाभ्या’मित्यत्र तृतीयया कर्मत्वं लक्षयित्वा, दर्शपूर्णमासनामकं यागं कुर्यादित्यर्थस्य वक्तुं शक्यत्वात्। इतिचेत्- तन्न; भावनामुख्यविशेष्यकोहि शब्दबोधः मीमांसकैरिष्यते, `प्रकृतिप्रत्ययौ सहार्थंब्रूतस्तयोः प्रत्ययः प्राधान्येन’, `भावप्रधानमाख्यातम्’ इत्यादि प्रामाणिकवचनेभ्यः। तथा च वाक्यघटकैस्सर्वैरपि पदैरुपस्थापितानां सर्वेषामपि पदार्थानां योग्यतानुरोधेन साक्षात् परंपरया वा भावनायामेव विशेषणतया अन्वयोवाच्यः। तथासति तत्र प्रथमतः `त’प्रत्ययेन `भावयेत्’ इत्यर्थे उपस्थापिते, `किंभावयेत्’ इत्याकांक्षायां, समानपदश्रुत्या उपस्थापितस्याऽपि धात्वर्थस्य यागस्य अपुरुषार्थत्वेन अनन्वयेसति, भिन्नपदोपस्थापितस्याऽपि स्वर्गस्य पुरुषार्थत्वात् भाव्यत्वेनान्वयः परिकल्प्यते। ततः `केनभावयेत्’ इति करणाकांक्षायां समानपदोपात्तत्वेन प्रत्यासन्नतया धात्वर्थस्य यागस्य करणत्वेनान्वय स्स्वीक्रियते, न तु तदुत्तरं द्वितीयातृतिया वा विभक्तिः। तथाऽपि करणाकांक्षायाः प्रकृतत्वात् तस्य (धात्वर्थस्य) करणत्वेन भावनायामन्वयस्य विवक्षितत्वात्, करणत्व प्रतीतेश्च- `कर्तृकरणयोस्तृतीया’ (पा.सू. 2-3-18) इति स्मृत्या तृतीयाविभक्ति साध्यत्वात्, सैवपरिकल्प्यते। तत्राऽपि दर्शपूर्णमासनामधेययोरुभयोरपि यागयोः प्रकृते करणत्वाङ्गीकारात् तदनुरोधेन `यागाभ्यां’ इति द्विवचनान्तं रूपमुपस्थाप्यते। ततश्च दर्शपूर्णमासाभ्यां यागाभ्यां इत्येवं सामानाधिकरण्ये स भावनायां करणत्वेनान्वयस्सामंजस्यमावहति। एवमेव `अग्निहोत्रंजुहोति’ इत्यत्राऽपि भावनाकांक्षानुरोधेन धात्वर्थस्य होमस्य करणत्वेनान्वयस्यावश्यकत्वात् होमनामधेयस्य अग्निहोत्रपदस्य द्वितीयान्ततया श्रूयमाणस्याऽपि, लक्षणया करणत्वार्थकत्वमाश्रित्य होमसामानाधिकरण्यं संपादनीयमित्ययं विशेषस्स्वपक्षेऽपि द्रष्टव्यः। अतश्च आकांक्षानुरोधेन कर्मोत्पत्ति विधौ, फलविधौ च धात्वर्थस्य करणत्वेनान्वयावश्यंभावात् `यागंकुर्यात्’ इति वाक्यार्थोनोपपद्यते।
अत्र भावनायां भाव्यत्वेनाभिमतस्य स्वर्गस्य अलौकिकत्वात्, तत्स्वरूपं सांप्रदायिकेन श्रुतिवचनेन परिचिनोति- यन्नदुःखेनेति। `स्व’रिति स्वर्गपर्यायमव्ययम्। तस्य सुखमर्थः। तदेव सुखं विशेष्यते- चतुर्भिर्विशेषणैः। यन्नदुःखेन संभिन्नम्- यत् दुःखेन मिश्रितं न भवति, आंशिकेनापि दुःखेना संस्पृष्टमित्यर्थः। न च ग्रस्तम्- यथा राहुणाग्रस्तश्चन्द्रमाः प्रकाशस्वभावोऽपि कार्त्स्न्येन न प्रकाशते, नाऽपि न प्रकाशते, किन्तु प्रकाशश्चप्रकाशश्च भवति, तथैव दुःखे अनुवर्तमाने मध्ये प्राप्तमपि किंचित्सुखं, तत् स्वमहिमानं नानुभावयतीति- नः प्रसिद्धम्। तादृशं न भवतीत्यर्थः। दुःखानभिभूतमिति यावत्। अनन्तरं- नविद्यते अन्तरं व्यवधानं यस्य तत् अनन्तरम्। विच्छिद्य विच्छिद्य अनुभूयमानं न भवतीत्यर्थः। सान्तत्येनानुभवगोचरमिति यावत्। अभिलाषोपनीतं च- किंचित्सुखं- अनभिलषितमपि विनैव प्रयत्नमदृष्टवशादुपनतं भवति। अन्यत्तु- वस्तुसौन्दर्ये अवगते, जातायामपेच्छायां, अन्तरायबाहुल्यात् चिरमुत्कण्ठामनुभाव्य प्रयत्नातिशयेन पश्चात् उपनमति। तयोः पूर्वस्मादुत्तरस्मिन्नादरातिशयस्सर्वानुभवसिद्धः। तादृशमित्यर्थः। अत्राभिलाषेण यत्नादिकमुपलक्ष्यते। यद्वा- अभिलाषोपनीतं= साधनसामग्रीसंपादन प्रयासं विनैव संकल्पमात्रेण समुपनतमित्यर्थः।
मूलम् :-
नहि दृशसुखहेतावतीनि ये धर्मे वेदादन्यत्प्रमाणं प्रत्यक्षं वा तदुपजीव्यनुमानं वा क्रमते। तस्माद्वेद एव विधिनिषेधात्मको धर्माधर्मयोः प्रमाणम्। तौ च पदपदार्थसंबंधस्य औत्पत्तिकत्वेन, वाक्यार्थप्रतीतेर्मूलवत्तया व्यवस्थित स्वरूपावेव।
व्याख्या :-
यथोक्त लक्षणं सुखं, तत्साधनं वा लोके क्वचिदपि न दृष्टं, नाऽपि श्रुतम्। परन्तु एवं विध सुखसाधनत्वं दर्शपूर्णमासयोरस्तीति `दर्शपूर्णमासाभ्यां स्वर्गकामोयजेत’ इति वेदवाक्यादेवावगच्छामः। नात्र प्रत्यक्षमनुमानं वा प्रवर्तत इति सोपपत्तिकमह- नहीदृश सुखहेताविति। इन्द्रियार्थ सन्निकर्षजन्यं ज्ञानं प्रत्यक्षमित्युच्यते। अत एव तत् वर्तमानं- तत्राऽपि अव्यवहितमेव वस्तुविषयीकरोति, न तु भूतं भावि वा। धर्मश्च न वर्तमानः, किन्तु भावी। अत एव इन्द्रिय लन्निकर्षाभावात् सः प्रत्यक्षगोचरो न भवतीति व्यक्तमेव। तथानोक्तं सूत्रकृता- `सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात्’ इति। अनुमानमपि न धर्मं विषयीकर्तुं प्रभवति। तत्र कारणं निर्दिशति- तदुपजीवीति। प्रत्यक्षोपजीवीत्यर्थः। इदमत्रावधेयम्- अनुमानं हि व्याप्तिज्ञानमपेक्षते। महानसादौ प्रत्यक्षेण वह्निधूमयोः साहचर्यदर्शनात् `यत्र धूमस्तत्राग्नि’रिति व्याप्तिं गृहीतवत एव, कानान्तरे पर्वतादौ धूमं दृष्टवतः पुरुषस्य व्याप्ति स्मरणात् तत्र वह्निमत्ता ज्ञानं भवति, न व्याप्तिज्ञानविहीनस्य। अतश्च अनुमानं प्रत्यक्षेणोपजीव्यते। स्वसिद्ध्यर्थः प्रत्यक्षमवलंबत इत्यर्थः। यदा उपजीवयितुः प्रत्यक्षस्यैव धर्मेप्रामाण्यं न घटत इत्युक्तं, तदा का कथा तदुपजीविनोऽनुमानस्य? यदपि केचित्- `अयं धर्मवान्, सुखित्वात्’ एवं विधैः प्रयोगैः धर्मस्य अनुमानगम्यत्वं मन्यन्ते, तन्नयुज्यते। तेन सामान्यतः सुखकारणत्वेन धर्मस्य सिद्धावपि, केन धर्मेण कीदृशं फलं भवतीति विशेषान्चवगमात् विशेषरूपेणाज्ञाने अनुष्ठानायोगा तद्विशेषविज्ञानार्थं पुनर्वेदस्यैवाश्रयणीयत्वा विशेषज्ञानाभावे। अतो नानुमानं धर्मेप्रमाणम्।
तथैव उपमानमपि धर्मेप्रमाणं भवितुं नक्षमम्। तथा हि- ग्रामे पूर्वं गां दृष्टवतः, पश्चादरण्यंगतस्य पुरुषस्य गवयदर्शनेसति, `एतत्सदृशीमदीयागौः’ इति ज्ञानं भवितुमर्हति। मदीय गोसदृशोऽयंगवय इति वा। एतच्च सादृश्यज्ञानं, गो- गवययोस्समानधर्मकत्व पुरस्कृतम्। तेन च धर्मेण असाधारणेन भवितव्यम्, स पदार्थत्वादिना सामान्यरूपेण। तथा च- एवं विधं ज्ञानं, पूर्वं गामिव धर्मं दृष्टवत एव तत्समानधर्मकस्यान्यस्य दर्शने सति भवितुमर्हति- `एतत्सदृशो धर्मः’ इति। कस्तर्हि तथा धर्मदृष्टवान् पुरुषः? यद्युच्येत- वेदाद्धर्मोज्ञायत इति। बाधम्! वेदादेव सिद्धे धर्मस्वरूपे किमर्थोऽयमुपमानेन धर्मजिज्ञासाप्रयास इत्यास्तांतावत्।
लौकिक श्शब्दोऽपि धर्मे न प्रमाणम्। यद्यपि प्रत्यक्षानुमानाभ्यामनवगतमपि भूतं भाविनमप्यर्थं शब्दोऽवगमयति, तथाऽपि धर्मे न पदमादधाति। यतो हि- `अर्थंबुध्वाशब्दरचना’ इति न्यायेन, प्रत्यक्षेण अनुमानादिनावा प्रथमतः कंचिदर्थं बुध्वा, तमर्थमन्यमवबोधयितुं पुरुषाः शब्दं प्रयुञ्जत इत्यस्माकमनुभवसिद्धम्। तथा च- ज्ञातस्यैवार्थस्य ज्ञापकस्सन् अनुवादात्मक एव लौकिकश्शब्दो न स्वतन्त्रं प्रमाणम्। किंचायं सत्यमप्यर्थमवगमयति, कदाचित्पुरुषदोषेण वितथमप्यर्थम्। यदा लौकिकेष्वपि विषयेषु ईदृशीदुर्दशाशब्दस्य, तदा प्रमाणान्तरेणानवगते अलौकिके धर्मे- किमुवक्तव्यम्! अतस्सिद्धं, धर्मविषये न प्रमाणं भवति लौकिकश्शब्द इति।
इत्थं प्रत्यक्षादीनां धर्मे प्रामाण्यासंभवमभिधाय, पारिशेष्यात् विधिनिषेधात्मको वेद एव प्रमाणमित्यभिधत्ते- तस्माद्वेद एवेत्यादिना।
ननु नपारिशेष्यमात्रेण वेदस्य धर्माधर्मयोः प्रामाण्यं संभवति, तस्य पौरुषेयतायां सत्यां भ्रमप्रमादादिमूलकत्वसंभवेन आपद्यमानायाः अप्रामाण्यशंकाया अनपोदित्वात्, इति शङ्कां समादधाति- तौचेति। विधिनिषेधावित्यर्थः। व्यवस्थितस्वरूपावेवेति। यः `दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इत्यादि रूपो विधिः, यश्च `सकलञ्जंभक्षयेत्’ इत्येवं विधोनिषेधः तावुभावपि, व्यवस्थितं-अविकृतं- अनादिसिद्धं स्वरूपं ययोस्ते तथाविधावेव, स तु कदाचित् केनचित्पुरुषेण प्रमाणान्तरेण तंतमर्थमुपलभ्य तत्तद्वर्णपदसमाहारेण वाक्यरूपेण ज्ञापिता वित्यर्थः।
त्रेधाह्यत्रपुरुष सम्बन्धस्संभाव्यते-

  1. पदपदार्थ सम्बन्धकरणात्,
  2. वाक्य-वाक्यार्थ सम्बन्धकरणात्,
  3. वाक्यसमुदायरूपस्य ग्रन्थस्यैव वा भारतादिवत्पुरुष प्रणीतत्वात्। न चैतत्त्रितयमिह संभवति। नहि उपलभ्यमाने अनन्ते शब्दसमुदाये `अस्माच्छाद्बादयमर्थोबोद्धव्यः, अस्माच्छब्दादयमर्थः इत्येवं शब्दार्थ सम्बन्धकरणं सहस्रायुषोऽपि स्परुषस्य कस्यचिच्छक्यम्! नाऽप्येतदर्थं बहवः पुरुषा अभिज्ञा एकत्र संगम्य सम्बन्धं चक्रुरित्यत्र किंचित्प्रमाणमुपलभामहे। किञ्च- `अस्मात्पदादयमर्थोबोद्धव्य’ इत्येवं सम्बन्धकरणमपि ततः पूर्वमेव सिद्धसम्बन्धानां केषांचित् पदानामभावे नसंभवतीति, यदि तदुपयुक्तानां केषांचित् पदानामर्थैस्सहसम्बन्धोऽनादिसिद्ध इत्यभ्युपगम्येत, तदा किमपराद्धमन्यैश्शब्दैः? सन्तु सर्वेशब्दा अनादि सिद्धार्थ सम्बन्धा एव। अतः पदपदार्थ सम्बन्धस्य न पौरुषेयत्वम्।
    किञ्च- सम्बन्धस्य नित्यत्वं सम्बन्धिनोर्नित्यत्वमन्तरा अनुपपन्नमिति, सम्बन्धिनोश्शब्दार्थयोरपि नित्यत्वमस्मिन्नवसरे शास्त्रकृद्भिः व्रसाछितम् (प्रसाधितम्)। तदिहविस्तरभयान्नलिखितम्।
    द्वितीयोऽपि हेतुरिह न प्रभवति। नहि वाक्यस्य वाक्यार्थे पृथक् संकेतग्रहणमपेक्ष्यते। यतः-पदैरवगताः पदार्था एव समभिव्याहाराचिवशात् विशिष्टं वाक्यार्थमवगमयिष्यन्ति। तदेतत्सूचयति- `वाक्यार्थप्रतीतेर्मूलवत्तया’ इति। पदजन्यपदार्थोपस्थितेरेव वाक्यार्थ हेतुत्वादित्यर्थः। अतश्चनोभयाधाऽपि पुरुषसम्बन्धोऽवकल्पते।
    मूलम्ः-
    ननु पदतदर्थसम्बन्धस्य नित्यत्वेऽपि पदसमुदायरूपाणां वाक्यानां काठकादि समाख्यावशादादिमतां कौलिदासादि वाक्यानामिव अप्रामाण्यमिति चेत्- न; काठकादि समाख्यायाः `कठेनप्रोक्तमिति’ योगेन प्रवचनपरतया वेदस्य पौरुषेयत्वासाधकत्वात्।
    व्याख्याः-
    अथ तृतीयं निराकरोति- `ननु पदतदर्थसम्बन्धस्येति।’ अस्तुनाम पद- पदार्थ- तत्सम्बन्धानां अनादिसिद्धत्वादपौरुषेयत्वम्। परिवृत्त्यसहत्वादपि तत्तथैव एषव्यम्। नहि- `घट’ इत्यस्य `टघ’ इति वर्णव्यत्ययेनोच्चारणे, `घट+अम्’ इत्यस्य `अम्+घट’ इत्येवं प्रकृतिप्रत्ययोः व्यत्ययेनोच्चारणे वा विवक्षितोऽर्थस्सिध्यति। अतः अनादि शास्त्रसंप्रदाय सिद्धायास्तदानु पूराव्य अपि नित्यत्वमनपनोदनीयमेव।
    वाक्यानि तु न तथा। पद समुदायरूपाणि हितानि पदानां पूर्वापरीभाव परिवृत्तावपि अर्थप्रतीतिं जनयन्त्यैव। यथा-`रामोरावणंजघान’ इति वाक्यं यादृशमर्थं प्रत्याययति, `रावणं रामोजघान’ `जघान रावणं रामः’ इति पदपरिवृत्त्याप्रयुक्तमपि तत् तादृशमेवार्थं प्रत्याययति, नान्यादृशम्। अतः परिवृत्तिसहत्वात्, पुरुषेच्छाधीनप्रयोगविषयत्वाच्च वाक्यानां न नित्यत्वम्, किन्तु पौरुषेयत्वमेव। प्रसिद्धं चैतत् बादरायणादि प्रणीते भावतादौ- तत्र वाक्यरूपत्वस्य, बादरायण प्रणीतत्वस्य च सर्व सम्मतत्वात्। तथा च- वेदस्याऽपि वाक्यरूपत्वेन पौरुषेयत्वावश्यं भावात् न नित्वत्वम्। वेदः पौरुषेयः वाक्यत्वात्, भारतादिवत्- इति प्रयुञ्जतेदार्शनिकाः।
    किञ्च समाख्या विशेषसम्बन्धोऽपि पौरुषेयत्वमवगमयन् वेदस्यानित्यत्वे हेतुरित्याह- `काठकादीति’। तथा हि- वेदे केषाञ्चित् भागानां `काठकं’ `कालापकं’ `तैत्तिरीयं’ एवं विधास्संज्ञा उपलभ्यन्ते। ताश्च- कठे न कृतं काठकं, कलापेन कृतं कालापकं, तित्तिरिणा कृतं तैत्तिरीयं इत्येवं तत्कृतत्वार्थक तद्धितप्रत्ययान्ताः, तत्तद्भागानां कठादि प्रणीतत्वं प्रत्याययन्तीति सिद्धं तत्तद्भागानां पौरुषेयत्वम्। सिद्धे च वेदैकदेशानां काठकादीनां पौरुषेयत्वे, `तत्सामान्यादितरेषु तथा त्वम्’ इति न्यायेन कृत्स्नस्याऽपि वेदस्य पौरुषेयत्वापत्त्या पुरुषगत भ्रमप्रमादादि दोषमूलकत्व संभवात् न वेदाः धर्मेप्रमाणमिति- आक्षेप्तुराशयः।
    आक्षेपम्प्रतिक्षिपति- `नकाठकादीति’ अयमाशयः- तत्तद्वेदभागानधिकृत्य प्रयुज्यमानाः काठकादिसमाख्याः स तत्तद्भागानां कठादिकर्तृकत्वं निमित्तीकृत्य प्रवर्तन्ते। किन्तु `तेन प्रोक्तं’ इति विहित तद्धित प्रत्ययान्तत्वात् प्रवचननिमित्ता एव। प्रवचनं च- शिष्येभ्य उपदेशनम्। यद्यपि अनादिगुरुशिष्यपरंपरायां बहवः प्रवक्तारोभवेयुः। तथाऽपि अनन्यसाधारणं प्रवचनमनेन कृतमिति तत्तन्नाम्ना ससवेदभागोव्यपदिश्यत इति न काठकादि समाख्यावशात् वेदस्य पौरुषेयत्वापत्तिः। उपलभ्यन्ते हि `गौतमवनं’ `गौरीशिखरं’ `शचीतीर्थं’ इत्यादि समाख्याः तत्तत्प्रणीतत्वाभावेऽपि कमपि असाधारणं पाश्चाद्यं सम्बन्धं पुरस्कृत्य पूर्वसिद्धेष्वपि पदार्थेषु प्रयुज्यमानाः। न हि वनशिखर- तीर्थादीनां गौतम- गौरी- शच्यादयः कर्तारः! तथात्वेऽपि तत्र चिरं तपश्चरणादिना वनादयस्तत्तन्नाम्नाव्यपदिश्यन्ते। सोऽयं न्यायः काठकादि समाख्यास्वपि अतिचेष्टव्यः।
    मूलम्ः-
    दृढकर्तृस्मरणाभावश्चवेदस्या पौरुषेयत्वे प्रमाणम्।
    वाख्याः-
    अस्तु नामकाठकादि समाख्यानां प्रवचन निमित्तत्वादि संभवेन अन्यथा सिद्धत्वात् वेदस्य पौरुषेयत्वा साधकत्वम्, वाक्यत्वहेतुस्तु अवश्यं पौरुषेयत्वं साधयिष्यतीति शङ्कमपाकरोति- दृढेति। यद्यपि लोके स्वाभिप्रायप्रख्यापनार्थं प्रयुज्यमानानां पदकदंबरूपाणां वाक्यानां पौरुषेयत्वं प्रसिद्धं, तद्वदेव वाक्यरूपाणां भारत-रामायणादीनामपि व्यास- वाल्मीकि प्रणीतत्व प्रसिद्ध्या पौरुषेयत्वं निस्संदिग्धम् तद्दृष्टानैन वेदस्याऽपि वाक्यरूपत्वाविशेषात् पौरुषेयत्वमभ्युपेयमिति केचिदाचक्षते। प्रयुञ्जते च- वेदः पौरुषेयः वाक्यरूपत्वात्, भारतादिवत्- इत्यनुमानम्। तदेतत् दृढकर्तृस्मरणाभावेन बाधित (सोपाधिक)मिति मीमांसकाः कथयन्ति। तथा हि- अस्तु नामवाक्यरूपत्वं वेदस्य। न तावता पौरुषेयत्वं सिद्ध्यति। यद्यपि लौकिकानां वाक्यानां तत्तद्वाक्यप्रयोक्तारः पुरुषा एव कर्तृत्वेन प्रसिद्धाः। वाक्यरूपाणां भारत- रामायणादीनां व्यास-वाल्मीगि प्रभृतयः कर्तारोऽभ्युपगम्यन्ते। वेदस्य तु सत्यपि वाक्यात्मकत्वे, न कश्चित् कर्ता स्मर्यते। यद्यपि लौकिकवाक्यानां, भारतरामायणादीनां च पौरुषेयत्व भावनया संभावितान्तःकरणाः अदूरदर्शिनः कतिचन वाक्यत्वहेतुं पुरस्कृत्य वेदस्याऽपि केनचित्कर्त्रा भवितव्यमित्यापादयन्ति। परन्तु तेऽपि `अयमस्य ऋग्वेदस्य कर्ता, अयं यजुर्वेदस्य, अयमन्यस्य’ इत्येवं निस्संदिर्थतया (दृढतया) विविच्य वक्तुं न पारयन्ति। ननु-वेदस्य अतिप्राचीनकाल प्रवृत्ततया विद्यमानोऽपि कर्ता विस्मृतोजनैः- इतिचेत्, नैतत् क्षोदक्षमम्। भवेन्नामदेशोत्सादेन कुलोत्यादेव अध्ययन परम्पराविच्छेदेन वा विपत्तिमापन्नस्य कस्यचन वाङ्मयस्य सेयंदुर्दशा। किन्तु भारतीयैः अद्ययावत् अविच्छिन्न परम्परया अध्ययनपूर्वकं श्रद्धयाध्रियमाणस्य, धर्माधर्मविषये प्रमाणमूर्थन्यतया परिगण्यमानस्य, स्वीय सर्वस्वतया संरक्ष्यमाणस्य वेदस्याऽपि कश्चन कर्ता अभविष्यत् अवश्यं लोकस्तमस्मरिष्यत्। भक्तिश्रद्धापूर्वकमपूजयिषनोच्च। स्मर्यन्ते च भारत रामायणादीनां कर्तारः व्यासवाल्मीकि प्रभृतयः, पूज्यन्ते च, किञ्च- अन्येस्मरन्तु विस्मरन्तु वा अध्ययावत् तदध्ययनाध्यापन परम्परामनुवर्तमानाः शिष्याः गुरवश्च विसस्मरुरिति- नूनमश्रद्धेयमेतत्। अतश्च `अस्ति चेदुपलभ्येत, यतोनोपलभ्यते अतो नास्ति’ इत्येवमनुपलब्दिप्रमाणेन पराहतेकर्तरि, सिद्धं वेदस्य निष्प्रत्यूहमपौरुषेयत्वम्।
    अत एव काठक- कालापकादि समाख्याश्च वेदस्य प्रणयन निमित्तकत्वमपहाय, प्रवचननिमित्तत्वपक्ष एव पदमादधत इति, न तद्वशाद्वेदस्य पौरुषेयत्वप्राप्तिरित्येतत्पूर्वोक्तमपि, पुनःस्मार्यते।
    इत्थमनुपलब्धिपराहतेकर्तरि, तर्करसिकानाश्वासयितुमिव अनुमानेनापि वेदस्यापौरुषेयत्वं सिषाधयिषुः, तत्परं वार्तिकमवतारयति- अनुमानं चेति।
    मूलम्ः-
    अनुमानं च-
    “वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम् ।
    वेदाध्ययनसामान्या दधुनाध्ययनं यथा ॥”
    व्याख्याः-
    अत्र वेदाध्ययनं पक्षः। तच्च अतीतकाविकमेवग्राह्यं, नसार्वकालिकम्। सर्वं- इत्यनेन वेदाध्ययनमेव विशेष्यते। तेनाऽपि न सार्वकाविकत्वं विवक्षितम्। अपि तु सर्वशाखागोचरमित्यर्थः। अथवा वेदगत विध्यर्थवादमन्त्रादि कृत्स्नावान्तरभागपर्वतं सर्वशब्दस्य द्रष्टव्यम्। गुर्वध्ययनपूर्वकत्वं साध्यम्। वेदाध्ययन सामान्यात्- इति हेतुः। वेदाध्ययनत्वादित्यर्थः। अधुनाध्ययनं यथा- इति दृष्टान्तः। वर्तमानकालिकाध्ययनवत्- इत्यर्थः। तथा च- अतीतकालवृत्ति वेदाध्ययनं- गुर्वध्ययनपूर्वकं, वेदाध्ययनत्वात्, वर्तमानकालिकवेदाध्ययनवत्- इत्यनुमानप्रयोगः।
    यद्यपि अध्यतनानां भारत रघुवंशाद्यध्ययनमपि गुरुपूर्वकमुपलभ्यते। किन्तु व्यासकाविदासादीनां तदध्ययनं। न गुर्वध्ययनपूर्वकम्; तैरेव भारत रघुवंशादीनां प्रणीतत्वात्। ततः पूर्वं तदभावात्। वेदे तु न तथा। अधुनेव अतीतकाले युगपरिवर्तादिष्यपि यो यो वेदमधिजगे, ससर्पोऽपि गुर्वध्ययनपूर्वकमेवाधिजगे। व्यासकाविदासादयस्तु गुरुसकाशादनधीत्यैव स्वयं भारत रघुवंशादिकं विरच्य शिष्यानध्यापयामासुः। तद्वत् कश्चित् वेदमपि गुरोरनधीत्यैव स्वोपज्ञयाविरच्य इदं प्रथमतया शिष्यानध्यापयामासेत्यत्र न किंचित्प्रमाणं पश्यामः।
    ननु सृष्ट्यादौ कथं वेदाध्ययनप्रवृत्तिः? ततः पूर्वं महाप्रलये सर्वस्याऽपि भूतभौतिक प्रपञ्चस्य प्रवीनतया, गुरुशिष्यपरम्पराया अप्रसक्तत्वात्, पुनस्सृष्ट्यादौ उत्पन्नैः पुरुषैः क्रियमाणस्य वेदाध्ययनस्य कथं गुर्वध्ययन पूर्वकत्वं सिद्ध्यति? असिद्धौच केनचित्प्रणीतत्वावश्यंभावात् भारतादिवत् पौरुषेयत्वापत्तिस्तदवस्थैवेति चेत्, न-
    अत्र जरन्मीमांसकाः- सृष्टिप्रलय बोधकवाक्यानां अर्थवादत्वेन अन्यपरत्वात् स्वार्थेतात्पर्याभावात् समस्तभूतभौतिक प्रपञ्चस्य कल्पान्ते निरवशेषोनाशः, कल्पादौ पुनस्सृष्टिश्चेति वादं नाङ्गीकुर्वते। संवत्सरे अतीते संवत्सरान्तरवत्, युगे अतीते युगान्तरवच्चकल्पे अतीते कल्पान्तरं प्रवर्तेत। न तावता सर्वप्रपञ्चनाशः पुनस्सृष्टिर्वा अवश्यं भाविनी। संभाव्यते च अद्यतन इव अतीतेऽपि काले कर्मानुरोधेन केषाञ्चिद्भूतानांनाशः, केषाञ्चिदुत्पत्तिश्च। `न कदाचिदनीदृशं जगत्’ तथा च- अध्येतृणा मध्यापकानां च सर्वदा संभवात् वेदाध्ययनस्य गुर्वध्ययनपूर्वकत्वे न किञ्चिद्बाधकम्- इति।
    नव्यास्तु- सृष्टिप्रलयावङ्गीकुर्वाणाः तत्यर्तुः परमेश्वरस्य सर्वज्ञत्वात्, सर्वशक्तिमत्त्वाच्च स एव कल्पारम्भे गतकल्पीयं वेदमेव अविकल वर्णपदवाक्यानुपूर्वकं कदानीमुत्पन्नेभ्यः ऋषिभ्यः अधिकृतेभ्यः केनाऽपि रूपेण उपदिशतीति- वेदस्य गुर्वध्ययन पूर्वकत्वं न कदाचिदपि विहन्यत इति- व्याचक्षते। अतोनिराबाधमिदमनुमानम्। अतस्सिद्धं त्रेधाऽपि पुरुषसम्बन्धाभावात् वेदस्य अनपोदितं प्रामाण्यमिति।
  • इति प्रथमः पादः -

अथ प्रथमाध्यायस्य द्वितीयःपादः

अवसितः धर्मलक्षण- प्रमाणनिरूपणपरः प्रथमाध्यायस्य प्रथमोविधि पादः। अथ द्वितीयोऽर्थवादपाद आरभ्यते। यद्यपि यधोक्तविधया साध्यसाधनेतिकर्तव्यतारूपांशत्रय विशिष्टयागादि विषयक प्रवृत्तिजनकत्वात् विधिवाक्यानां प्रामाण्यम्। तद्वदेव अनर्थहेतुकलञ्जभक्षणादि विषयकप्रवृत्तिजनकत्वात् विधिवाक्यानां प्रामाण्यम्। तद्वदेव अनर्थहेतुकलञ्जभक्षणादि विषयकनिवृत्ति प्रतिपादकतया निषेधानामपि। न तावता कृत्स्नस्य वेदस्य प्रामाण्यं सिद्ध्यति; अर्थवादानामपि वेदैकदेशानामवशिष्टत्वात्। “वेदोऽखिलोधर्ममूलम्” इत्यादीनि वचनानि अखिलस्य वेदस्य धर्मे प्रामाण्यमाचक्षते, न विधि निषेधमात्रस्य। अतोऽर्थवादादीनामपि धर्मप्रामाण्यं प्रतिपिपादयिषुरारभते- नन्वेवमपीति।
मूलम्ः-
नन्वेवमपि वेदैकदेशस्य विध्यंशस्य धर्मप्रमापकत्वेऽपि, `वायुर्वैक्षेपिष्ठादेवता’ इत्यादीनामर्थवादानां विधि भावनांशत्रयानन्तःपातिनां धर्माप्रमापकत्वात् `वेदोऽखिल’ इत्यखिलग्रहण मनुपपन्नमितिचेत्, न- तेषामपि प्रयोजनाकांक्षिणां `क्षिप्रदेवतासाध्यं कर्मक्षिप्रफल’मिति लक्षणया विधिंस्तुवतां, सन्निहितेन `वायव्यं श्वेतमानभेत’ इति विध्युपदेशेन, स्वविधेये पुरुषं प्रवर्तयितुमन्यतः स्वस्तुतिमाकांक्षमाणेन, नष्ठाश्वदग्धरथन्यायेन एकवाक्यतया विध्यंशान्तःपातित्वात्।
व्याख्याः-
नन्वेवमपीति। वायुर्वैक्षेपिष्ठेति। `वायव्यग्गश्वेतमालभेत भूतिकामः’ इत्यस्य वायुदेवताकं- श्वेतपशुद्रव्यकं- भूतिफलकं `आलभति’ लक्षितं कञ्चिद्यागंवदधतो वाक्यस्य सन्निधौ पठ्यते- `वायुर्वैक्षेपिष्ठेतिवाक्यम्। वायुः अत्यन्तं शीघ्रगामिनीदेवतेति तदर्थः। नह्यनेन वाक्येन विधिरूपा निषेधरूपा वा भावना काचित् बोध्यते। नाऽपि भावना पेक्षितानां साध्यसाधनेतिकर्तव्यतानां अन्यतममपि प्रतिपाद्यते। किन्तु लोकप्रसिद्ध एव वायोश्शीघ्रगामित्वरूपोऽर्थः कथ्यते। नानेन किञ्चित्प्रयोजनम्। अस्तुनाम निष्प्रयोजनत्वमेवेति वाच्यम्; अस्यस्वाध्यायान्तर्गतत्वात्, अध्ययनविधिविषये स्वाध्याये मात्रामात्रस्याऽपि निष्प्रयोजनत्वोक्तेरयुक्तत्वात्। न हि निष्प्रयोजनं स्वाध्यायं परमपरिश्रमपूर्वकं कश्चिदध्येतुमुत्सहते- इतीमां शङ्कामनुसन्दधानः अर्थवादानां प्रयोजनवत्तां उपपादयति- तेषामपीति। विध्युपदेशेन- विधि वाक्येन। स्व विधे ये- यागादावित्यर्थः। अयमाशयः- नास्यवाक्यस्य यथा श्रुतार्थपरत्वं स्वीक्रियते; तस्य लोकसिद्धत्वेन वैयर्थ्यप्रसङ्गात्। मुख्यार्थानुपपत्तौ च लक्षणैव शरणीकरणीया। तथा च- क्षिप्रगामि वायुदेवताकत्वात् क्षिप्रफलप्रदोऽयं यागः प्रशस्तः- इत्येवं प्राशस्त्यरूपमर्थं लक्षणया प्रतिपादयतोऽस्यवाक्यस्य विधिवाक्येन सह एकवाक्यतां आकांक्षाप्रदर्शनपूर्वकमुपपादयति- लक्षणया विधिं स्तुवतामित्यादिना। अत्र लौकिकं न्यायं निदर्शयति- नष्टाश्वदग्धरथन्यायेनेति। प्रत्येकं रथमारुह्य युध्यमानयोः द्वयोर्वीरपुरुषयोः एकस्य रथवाहका अश्वाश्शत्रुभिल्विनाशिताः। अपरस्य रथोदग्धः। उभावपि योद्धुमशक्तावभूताम्। तदा दग्धरथसम्बन्धिनोऽश्वान्, नष्टाश्वे रथे संयोज्य, तमारुह्य उभावपि पुनरयुध्यताम्।
अस्मिन्नर्थवादाधिकरणे `वायुर्वैक्षेपिष्ठादेवता’ इत्याद्यर्थवादवाक्यानि विषयः। एतानि प्रमाणं, न वा - इति संशयः। विधि वाक्यवत् धर्मप्रमाजनकत्वाभावात् लोकसिद्धार्थानुवादकत्वाच्च न प्रमाणमिति- पूर्व पक्षः। शक्यार्थपर्यालोचनया तथात्वेऽपि प्राशस्त्यलक्षणात् प्राशस्त्यस्य च विध्यपेक्षितत्वात् विधि वाक्यैकवाक्यतया अर्थवादानामपि धर्मेप्रामाण्यमिति- सिद्धान्तः।
अनेन सिद्धेऽप्यर्थवादानां प्रामाण्ये, तमेवार्थं स्थूणानि खनन न्यायेन स्थिरकर्तुं फलवन्निगदाधाकरणं, हेतुवन्निगदाधिकरणं चोदाहरति- नन्वेवमपीति।
(फलवन्निगद्यत इति फलवन्निगदः। न तु फलम्।
हेतुवन्निगद्यत इति हेतुवन्निगदः, न हेतुः)
मूलम्ः-
नन्वेवमर्थवादानां स्तुत्यर्थत्वेऽपि क्वचित्फलपरत्वमपि दृश्यते। `औदुंबरोयूपो भवति’ इति विधाय, `ऊर्क्पशव ऊर्गुदुंबर ऊर्जैवास्मा ऊर्जं पशूनाप्नोति’ इत्यस्य फलपरत्वसंभवात् इति चेत्, न- अतिदेशशास्त्रप्राप्तयूपानुवादेन उदुंबरताया, स्तत्फलस्य च विधाने वाक्यभेदात्सैव विधेयेति, `पशूनाप्नोति’ इत्यस्यार्थवादत्वमेव।
व्याख्याः-
फलवन्निग दधाकरणमेव विषयवाक्यगतपदावष्टंभेन औदुंबराधिकरणमित्यपि व्यवह्रियते। न केवलं स्तुतिपरत्वमेवार्थवादानां, क्वचित्फलपरत्वमपि संभवति। यथा- `ऊर्ग्वा उदुंबर ऊर्क्पशव’ इत्यादौ। अत्रायं विषयविवेकः- `सोमापौष्णं त्रैतमालभेत पशुकामः’ इत्येतद्वाक्यविहितस्य, सोमापूषदेवताकस्य, त्रैतपशुद्रव्यकस्य, पशुफलकस्य यागस्य प्रकरणे इदं वाक्यं श्रूयते- `ऊर्ग्वा उदुंबर’ इति। (त्रयाणां युगपज्ञातानां वत्सानामन्यतमः- त्रैतः।) सर्वेषां पशुयागानां अग्नीषोमीय प्रकृतिकत्वात् तताऽङ्गन्यत्रातिदिश्यन्ते। तन्मध्य पतितोयूपोऽपि। तत्पृष्ठभावेन यावत्प्राकृतं तादिरत्व? मप्यायाति, तावदत्र `औदुंबरोयूपो भवति’ इत्यनेन तत् स्थाने औदुंबरत्वं विधीयते। विहितस्य तस्य स्तावकमिदं `ऊर्ग्वा उदुंबर’ इत्यादि `ऊर्जं पशूनाप्नोति’ इत्यन्तं वाक्यमिति वस्तुस्थितिः। पूर्वपक्षीतावत् सर्वमिदमेकमेव मन्यमानः शङ्कते। तत्र पूर्वोभागः अतिदेशप्राप्तयूपानुवादेन औदुंबरत्वं विदधातीत्यत्र न विप्रतिपत्तिः। उत्तरभागस्यायमर्थः- ऊर्क् शब्देन बलहेतुभूतो रस उच्यते। तदात्मकः औदुंबरः। पशवोऽपि ऊर्ग्रूपाः, बलहेतुक्षीरात्मक रस प्रदत्वात्। एवं च- ऊर्जा+पशून्= बलहेतु रस प्रदान् पशून्, आप्नोतीति। तथा च वाक्यमिदं पशुरूपफलसम्बन्धविधायकमिति- पूर्वपक्ष्याशयः। तथा त्वे- अतिदेशप्राप्तयूपोद्देशेन औदुंबरत्वे, तस्य पशुरूपफलसम्बन्धे च विधीयमाने अनेक विधानप्रयुक्तो वाक्यभेदः स्यात्। संभवत्येकवाक्यत्वे वाक्यभेदो न न्याय्यः। अतः `पशूनाप्नोति’ इत्येतत् पूर्वविहितं औदुंबरत्वं स्तौति, न फलसम्बन्धं विदधातीति- सिद्धान्तमुपपादयति- न, अतिदेशप्राप्तेति।
इतीमामाशंकां अपौनरुक्तोऽरुपादनेनपरिहरति- चतुर्थेत्विति।
नन्वयमर्थोनोपपद्यते; चतुर्थ- तृतीय- प्रथमाधिकरणेन पौनरुक्त्यप्रसङ्गात्। आर्थवादिक फलानङ्गीकारस्य उभयत्रतुल्यत्वात्।
मूलम्ः-
चतुर्थेतु- `यस्यपर्णमयी जुहूर्भवति न (स) पापग्गश्लोकगं शृणोति’ `यदाङ्क्तेचक्षुरेवभ्रातृव्यस्य वृङ्क्ते’ `वर्मवा एतद्यज्ञस्य क्रियते यत्प्रयाजा(नूयाजा) इत्जन्ते वर्मयजमानस्य भ्रातृव्याभिभूत्यै’ इत्यादौ वाक्यान्तरप्राप्तन्यैव पर्णतादेः रात्रि सत्रवदार्थवादिक फलपरत्वमाशङ्क्य, पारार्थ्यात् नेतिसिद्धान्तितम्। अन्यतः प्राप्तश्च विधिशक्त्युपघातक यच्छब्दोपबन्धा, दन्तिमोदाहरणाच्चस्पष्टमेवगम्यते, नैवमुदुंबरताया इति- नाधिकरणयोः पौनरुक्त्यम्।
व्याख्याः-
`ज्योतिर्गौरायुः’ इति विहितः कश्चन रात्रि सत्रात्मकस्सोमयागः। तस्य फलं तु न विहितम्। तस्य फलाकांक्षायां सत्यां पूर्वोक्तविश्वजिदधिकरणन्यायेन अत्यन्ताश्रुतस्य स्वर्गस्य फलत्वकल्पनापेक्षया, सन्निहिते `प्रतितिष्ठन्तिहवैय एतारात्रीरुपयन्ति’ इत्यर्थवादे प्रशंसार्थमुपात्तायाः प्रतिष्ठाया एव फलत्वकल्पनमुचितमिति रात्रि सत्राधिकरणे व्यवस्थापितम्। तन्न्यायेन इह `यस्य पर्णमयी’ इति वाक्येन जुहूद्देश विहितायाः पर्णतायाः समभिव्याहृतवाक्यावगतः अमङ्गलवाक्यश्रवणाभावः फलं भवितुमर्हति। तथा `यादाङ्क्ते’ इति वाक्येन दीक्षितनेत्रयोः कर्तव्यत्वेन विहितस्य आञ्जिनस्य शत्रुनेत्र विनाशः फलम्, तथैव दर्शपूर्णमासोद्देशेन विहितानां प्रयाजानूयाजानां कवचरूपत्वसम्पत्त्याभ्रातृव्याभिभूतिः फलम्, इत्येवं पूर्वपक्षयित्वा, अत्रविधीयमानानां पर्णतादीनां वाक्य- प्रकरणादिना जुह्वाद्यर्थत्वावगमात् अपूर्वसाधनीभूतजुह्वाद्यर्थत्वेनैव नैराकांक्ष्ये संभवति, आर्थवादिकफलसम्बन्धोनापेक्ष्यते। अतश्च फलमिव श्रूयमाणमपि पापश्लोकश्रवणाभावादिकं वस्तुतो न फलम्, किन्तु प्रशंसार्थवाद एवेति तत्र (4-3-1) सिद्धान्तितम्। तथा च - समानोऽपि सन्निहित वाक्यस्य फलपरत्वानङ्गीकारे, तत्र विधीयमानानां पर्णतादीनां पारार्ध्यं कारणं, अत्र तु- वाक्यभेदप्रसङ्ग इति न पौनरुक्त्यम्। किञ्च अपौनरुक्त्ये हेत्वन्तमप्याह- अन्यतः प्राप्तिश्चेति- विहितस्य खलु फलाकांक्षा भवति। विधिश्च अप्राप्तस्य भवति, न प्राप्तस्य। यत्तच्छब्दौ च प्रायेण अन्यतः प्राप्तस्यैव परामर्शकौ दृष्टौ। प्रकृते च `यत्पर्णमयी’ `यदांक्ते’ `यत्प्रयाजा’ इत्यत्र श्रूयमाणोयच्छब्दः अन्यतः प्राप्तिम्द्योतयन् विधिशक्तिं प्रतिबध्नाति। तथा च तेषां विधित्वे एव अनिश्चिते कुतः फलाकांक्षा? अन्तिमे प्रयाजोदाहरणे तु न केवलं यच्छब्दोपबन्धः, अपि तु प्रसिद्धानि `समिधोयजति’ इत्यादीनि तद्विधायकवाक्यानि। अतश्च विस्पष्टं `यत्प्रयाजा’ इति वाक्यस्य प्रयाजविधायकत्वं नापेक्षतमित्याह- अन्तिमोदाहरणाच्च- इति।
औदुंबरोयूपो भवतीत्यस्य ततो वौलक्षण्यं दर्शयति- नैवमिति। यच्छब्दोपबन्धाभावादिति भावः।
मूलम्ः-
`शूर्पेणजुहोति’ इति श्रौतं शूर्पम्। `तेनह्यन्नं। क्रियते’ इत्यन्नकरणेन हेतुना कल्प्यमानसाधन भावेन दर्वीपिठरादिना न विकल्पनम्; अतुल्यबलत्वात्। तस्मात् तेनहीति स्तुतिमात्रम्, न तु `यद्यदन्नकरणं तेन तेन होतव्य’मिति `हि’ शब्देन व्याप्तिसूचनमत्रकर्तुं शक्यम्; उक्तदोषात्। तदेवं विधिवन्निगदानां हेतुवन्निगदानां चार्थवादानां सिद्धं प्रामाम्यं विध्येकवाक्यतया स्तुतिद्वारैव।
व्याख्याः-
हेतुवन्निगदाधिकरणं संगृह्णाति- `शूर्पेणजुहोति’ इति। श्रौतं= तृतीयाविभक्तिरूपश्रुतिबोधित साधनताकमित्यर्थः। अन्नकरणेन हेतुना= हि शब्दोहेतामपि प्रयुज्यते। अतश्च हि शब्दावगतेनान्नकरणत्वेन हेतुना- इत्यर्थः। उक्तदोषात्= अतुल्यबलत्वेन विकल्पासंभवादिति भावः। चातुर्मोस्येषु वरुण(व्र)प्रघासाख्येद्वितीयेपर्वणि `शूर्पेण जुहोति’ इत्यनेन वाक्येन होतव्यानां करम्भपात्राणां होमसाधनत्वेन शूर्पं विधीयते। तद्वाक्यसन्निधौ `तेनह्यन्नंक्रियते’ इत्यपि पठ्यते। तत्रत्य हि शब्दवशात् होमसाधनत्वे अन्नकरणत्वं हेतुरित्यर्थलाभात् यद्यदन्नकरणं तत्तद्धोमसाधनमिति व्याप्तिस्सिध्यति। ततश्च अन्नकरणत्वेन प्रसिद्धानां दर्वीपिठरादीनामपि होमसाधनत्वप्राप्त्या तैः सह पूर्ववाक्यविहितं शूर्वं विकल्प्यते- इति पूर्वपक्षे प्राप्ते; शूर्पस्यतावत् करणत्वं प्रत्यक्षया तृतीयाविभक्तिरूपया श्रुत्याक्लृप्तम्। दर्वीपिठरादीनां तु अन्नकरणत्वहेतुना कल्प्यम्। तथा च- क्लृप्तकल्प्ययोः क्लृप्तस्य प्रबलत्वेन तुल्यबलत्वाभावात् न विकल्पस्सिद्ध्यति। ततः अन्नकरणत्वेन शूर्पस्य स्तुतौ पर्यवसितमिदं वाक्यमर्थवाद एव, न हेतुविधिरिति सिद्धान्तः। अर्थवादनिरूपणमुपसंहरति-तदेवमिति।
इदमुपलक्षणं निषेधसन्निहितानां निन्दार्थवादानामपि। तथा च -`बर्हिषिरजतं न येयम्’ इत्यादि निषेधसन्निधि पठितानां `सोऽरोदत्——— यदश्र्वशीयततद्रजतगं हिरण्यमभवत्’ इत्यादिवाक्यानामपि लक्षणया निषेध्यरजतदाननिन्दापरत्वेन निषेधवाक्यैकवाक्यतया प्रामाण्यं द्रष्टव्यम्।
मूलम्ः-
एवं तत्तत्प्रकरणपठितानां मन्त्राणामपि तत्तत्प्रकरणिकार्थप्रकाशनसामर्थ्यरूपाल्लिङ्गात् तत्तदनुष्ठेयार्थस्मारकत्वेन- दृष्टेनैव द्वारेण- विध्येकवाक्यता। अत्राऽपि पूर्ववत्परस्पराकाङ्क्षाज्ञेया। यस्तुमन्त्रैरेव मन्त्रार्तः स्मर्तव्यो-न ग्रहणक वाक्यादिनेति नियमो, न तदंशे किञ्चित् दृष्टं प्रयोजनं लभ्यत इत्यदृष्टमगत्याकल्प्यते।
व्याख्याः-
अथमन्त्राधिकरण सिद्धान्तं दर्शयति- एवं तत्तत्प्रकरणपठितानामिति। इदमत्रावधेयम्- यद्यपि मन्त्राणां विधायकत्वेन प्रामाण्यं न संभवति; तेषु अभिज्ञानां विधिवाक्यत्वप्रसिद्ध्यभावात्। नाऽपि अर्थवादत्वेन; तेषु प्राशस्त्यलक्षणया विधिवाक्यैकवाक्यत्वेन प्रामाण्यसंभवेऽपि मन्त्राणां अर्थवादत्वप्रसिद्ध्यभावेन तदसंभवात्। अस्तु तर्हि आनर्थक्यमेवेति वाच्यम्; स्वाध्यायविधि परिगहीतानां तेषां आनर्थक्यायोगात्। तर्हि का गतिरिति चेत्? उच्यते- विधिवाक्यानि तावत् तत्तत्कर्माणि अनुष्ठेयत्वेन विदधति। अनुष्ठानाञ्च- अनुष्ठेयपदार्थस्मरणमन्तरा अनुपपन्नम्। तथा च- अनुष्ठेयर्थं स्मारयन्तोमन्त्राः अनुष्ठान कर्तव्यताबोधकैः विधिवाक्यैस्सह एकवाक्यतां प्राप्यप्रामाण्यमश्नुवते। यथा अर्थवादाः विध्यपेक्षितं प्राशस्त्यादिरूपमर्थं बोधयन्तः विधिवाक्यैकवाक्यतया प्रमाणं भवन्ति, तद्वदेव परंपरया विध्यपेक्षितं अनुष्ठेयमर्थं स्मारयन्तोमन्त्रा अपि प्रमाणी भवन्तीति भावः।
कर्मानुष्ठानकाले उच्चार्यमाणाः मन्त्राः किञ्चिददृष्टं जनयन्तः कर्माङ्गं भवन्तीति- केचिन्मन्यन्ते। तन्मतं प्रतिक्षिपन् तेषां दृष्टार्धतामभिधत्ते- दृष्टैनैवद्वारेणेति। दृष्टे संभवत्यदृष्टकल्पनाया अन्याय्यत्वादितिभावः। तत्प्रकारमाह- अर्थप्रकाशनरूपाल्लिङ्गादिति। अङ्गत्वबोधने सहकारिभूतानां श्रुत्यादि षट्प्रमाणानां मध्ये द्वितीयं- लिङ्गमित्युच्यते। तच्च द्विविधं- शब्दगतं, अर्थगतं चेति। तत्तदर्थप्रकाशनसामर्थ्यमेव शब्दगतं लिङ्गम् तत्तत्कार्यकरणोपयोगित्व मर्थगतं लिङ्गम् अनुष्ठेयार्थस्मृतेः अनुष्ठानोपयोगित्वात्। “सामर्थ्यं सर्वभावानां लिङ्गमित्यभिधीयते” इति वचनात्। प्रकृते प्राथमिकमेवात्र विवक्षितम्। यथा- `बर्हिर्देवसदनंदामि’ इति मन्त्रस्य बर्हिर्णवनरूपार्थप्रकाशनसामर्थ्यं वर्तते। अतो बर्हिर्लवनाङ्गं भवितुमर्हति। तथा - `उरुप्रधस्व’ इति मन्त्रस्य पुरोडाशप्रथनरूपार्थप्रकाशन सामर्थ्यं वर्तते। अतः प्रथनाङ्गं भवितुमर्हतीति। पूर्ववत्= विध्यर्थवादयोरिवेत्यर्थः।
ननु यद्यनुष्ठेयार्थप्रकाशनमेव मन्त्राणां प्रयोजनं, तर्हि अलमेभिर्मन्त्रैः प्रकृष्टप्रयाससाध्यैः। ग्रहणकवाक्यादिना पुस्तकपठनादिना उपायान्तरेणाऽपि तत्सिद्धेः- इतीमां शङ्कां नियमविधि स्वीकारेण निराकरणमभिप्रेत्य, नियमस्य तु दृष्टफलासंभवा ददृष्टमेव प्रयोजनमङ्गीकर्तव्यमित्याह- यस्तु मन्त्रैरेव मन्त्रार्थः स्मर्तव्य इति। येषु अनुष्ठेयार्थप्रकाशनरूपं दृष्टं प्रयोजनं न संभवति, यथा केषांचित् जपमन्त्राणां, हुंफट् इत्यादीनां च, तेषां परमगत्या अदृष्टमेव प्रयोजनमङ्गीकर्तव्यमिति।
मूलम्ः-
`यथा यावतोऽश्वान् प्रतिगृह्णीयात्तावतो वा रुणांश्चतुष्कपालान्निर्वपेत्’ इति विध्युद्देशे प्रतिग्रहीतुरिष्टिः प्रतीयते। अथापि- `प्रजापतिर्वरुणायाश्वमनयत्, सस्वांदेवतामार्छत्, सपर्यदीर्यत, स एतं वारुणं चतुष्कपालमुपश्यत्’ इत्युपक्रम गतार्थवादसामर्थ्यात् दातुरिष्टिं प्रापयन्, `प्रतिगृह्णीया’दित्यत्र `प्रतिग्राहयेत्’ इति णिच् श्रुतिमुत्थापयति।
व्याख्याः-
उपरितनोग्रन्थः अश्वप्रतिग्रहेष्ट्यधिकरणार्थसङ्ग्रहरूपः, प्राचांग्रन्थेषु सूत्र-भाष्य-भाट्टदीपिका-न्यायमालादिषु तृतीयाध्याय चतुर्थपादगत पञ्चदशाधिकरणत्वेनोपनिबद्धः व्याख्यातश्च। प्रकृते च तस्य साङ्गत्यमपि मृग्यमेव लेखकानां मुद्रकाणां वा अनवधानात् स्थानभ्रष्ट इवाभाति। तस्मादित उत्कृष्यतत्त्रैव यदास्थानं व्याख्यास्यते।
मूलम्ः-
यथा वा “होतुश्चित्पूर्वेहविरद्यमाशतेति” मन्त्रः सामर्थ्यात् `वषट्कर्तुः प्रथमोभक्षः’ इति विधिमुत्थापयति।
व्याख्याः-
इत्थं मन्त्राणां यथा योगं दृष्टादृष्टरूपं प्रयोजनमुक्त्वा, अधुना केषाञ्चित् विधि विशेषोन्नायकत्वेनापि सार्धक्यं दर्शयति- यथा वा होतुरिति। ऋक्संहितायां, 10 मण्डले-14 सूक्ते पठितस्य, ग्रावस्तुतौ विनियुक्तस्यद्वितीयमन्तस्य चतुर्थपादोऽयम्- होतुश्चिदिति। किञ्च सुकृतः= शोभनकर्माणो ग्रावाणः, विष्ट्वी= यज्ञं प्राप्य, होतुः= देवानामाह्वातुः अग्नेः, पूर्वेचित्= पूर्वमेव, अद्यं= भक्षणीयं, हविः, आशत= प्राप्नुवन्ति। इत्यस्य माधव विद्यारण्यभाष्यम्। अभिषवं विना सोमरसस्यानिष्पत्तेः, अभिषवकर्तॄणां ग्राह्णं प्रथमं सोमरसप्राप्तिवत्, वषटारं विनाहोमानिष्पत्तेः `वषट्कर्तुः प्रथमोभक्षः’ इति विधेरुन्नेतुं शक्यत्वात्। कल्पसूत्रकारास्तथा स्मरन्तीत्याशयः।
-इति प्रथमाध्यायस्य द्वितीयः पादः-

अथ प्रथमाध्यायस्य - तृतीयःपादः।

अव-
अतीतेन पादद्वयेन विध्यर्थवादात्मकस्य कृत्स्नस्याऽपि वेदस्य धर्मेप्रामाण्यमुक्तम्। अथेदानीं धर्मप्रमाणतया शिष्टैः परिगृहीतानां मन्वादिस्मृतीनां, शिष्टाचारस्य प्रामाण्यं वक्तव्यमिति तृतीयः पाद आरभ्यते। अत्र स्मृतिशब्दः वेदातिरिक्त- महर्षिप्रणीत- विद्यास्थानमात्रपरः। यद्यपि वेद एव धर्मेसाक्षात् प्रमाणम्, स्मृतयोऽपि वेदद्रष्टृभिः तपोनिष्ठैः महर्षिभिः प्रणीतत्वात् वेदमूलकतया प्रमाणं भवितुमर्हन्ति।
न च - धर्माधर्मावबोधने साक्षात्प्रभवतो वेदस्यैव जागरूकत्वात्, किमेताभिः तन्मूलकतया प्रामाण्यं भजन्तीभिः परतन्त्राभिः स्मृतिभिरिति वाच्यम्; शाखान्तरस्थाङ्गोमसंहारस्यावश्यकत्वात्, उत्सन्न श्रुतिमूलक धर्मविशेषाभिधानस्यचापेक्षितत्वात् वेदस्यातिगम्भीरार्थतया, तत्र प्रत्यक्षवृत्त्या अभिहितानामर्थानां सर्वसाधारण्ये न ग्रहणसंभवेऽपि परोक्षवृत्त्यानिर्दिष्टानां मन्दमध्यमाधिकारिभिः दुर्ग्रहत्वाच्च तदनुजिघृक्षयास्मृतिप्रणयनमर्थवदेवभवति। तदेतत्सर्वमनुसन्दधानः तत्रादौ सर्वसाधारण्येन वेदमूलकतया स्मृतीनां प्रामाण्यं वक्तुमुपक्रमते- “एवमष्टकाः कर्तव्या"इत्यादीनीति-
मूलम्ः-
एव `मष्टकाःकर्तव्या’ इत्यादीनि मन्वादीनां स्मरणान्यपि स्वमूलभूतां श्रुतिमनुमापयन्ति। वेदैकप्रमाणेषु सर्वज्ञेषु तेषु भ्रम-विप्रलंभकत्वादिदोषासंभवात्। दृश्यन्ते च क्वचित्क्वचिच्छाखान्तरेऽपि `प्रपाकर्तव्या’(अत्रमुद्रित (चेखम्बा)ग्रन्थे`प्रयाजाः कर्तव्याः’ इतिपाठः प्रमादिकः। `प्रपाकर्तव्या’ इति पाठोयुज्यते।) इत्यादि स्मृतिमूलभूताः श्रुतयः `धन्वन्निव प्रपा असित्वमग्ने’ इत्यादयः। तत्सामान्या त्सर्वमपि स्मरणं दृष्टमूलकमेव। यथोक्तम्-
“आत्मीयात्परकीयस्य दौर्बल्यं न हि किञ्चन ।
प्रत्यक्षत्वाविशेषेण स्वप्रत्यक्ष समंहितत् ॥”
इति न्यायेन प्रत्ययिततराणां मन्वादीनां प्रत्यक्षलिङ्गादि प्रत्यक्षतुल्यम्। अतस्तत्प्रणीतास्मृतिरपि मूलमनुमापयेदेव।
व्याख्याः-
अष्टकानाम प्रतिवत्सरं माघकृष्णाष्टमीमुपलक्ष्यकर्तव्योदिनत्रयसाध्यः, सप्तपाकयज्ञानामन्यतमः, पितृदेवत्यः, कर्मविशेषः। तत्कर्तव्यताबोधकानि `अष्टकाः कर्तव्याः’ इत्यादीनि वचनानि मन्वादिस्मृतिषु उपलभ्यन्ते। ननु मन्वादीनामपि मनुष्यत्वात्, तेषामपि भ्रमप्रमादादि संभवात् कथं तदीयास्मृतिः प्रमाणं भवितुमर्हतीत्याशङ्कायामाह- वेदैकप्रमाणकेष्विति। वेद एव एकं मुख्यं प्रमाणं येषां ते तथोक्ताः। अतस्तदीयाचित्तवृत्तिः वेदमेवावलम्बते, तपस्संपन्नतया च न ते भ्रमप्रमादादिभिरभिभूयन्ते। नन्वेवमपि वेदस्य अनन्तशाखात्मकत्वात् तत्र तत्रोक्तानां धर्मविशेषाणां अधिगमः कथमुपपद्यते तेषामित्यत आह- सर्वज्ञेष्विति। सर्वज्ञत्वं च तेषां तपःप्रभावसमधिगतमवगन्तव्यम्। भ्रमः-अतस्मिन् तद्बुद्धिः। यथा- शुक्तिकायां रजतबुद्धिः, रज्वां सर्बबुद्धिश्च। विप्रलंभकत्वं- परप्रतारणम्। स्मृतीनां वेदमूलकत्वं सोदाहरणं विशदयति- दृश्यन्ते च क्वचिदिति। [अत्र मुद्रितग्रन्थेषूपलभ्यमानः `प्रयाजाः कर्तव्या’ इति पाठः प्रामादिकः। `प्रपाकर्तव्या’ इति तु संगच्छते उत्तरग्रन्थसन्दर्भानुरोधात्।] प्रपा पानीयशाला। तस्याः कर्तव्यतामवगमयतीदं स्मृतिवचनम्। तन्मूलभूतञ्च श्रुतिवचनं तैत्तिरीयशाखायामुपलभ्यते `धन्वन्निव प्रपा असित्वमग्न इयक्षवे पूरवे प्रत्नराजन्!’ इति। `योभ्रातृव्यवान्थ्स्यात्सस्पर्थमान एतयेष्ट्यायजेत’ इत्यादिना (तै.सं.2-5-12) विहितायान्त्रिहविष्कायामिष्टौयाज्यात्वेन विनियुक्तस्य मन्त्रस्य उत्तरार्थमिदम्। अस्यायमर्थः- राजन्- दीप्यमान! प्रत्न! चिरन्तन! हे अग्ने! त्वं, इयक्षवे- यष्टुमिच्छते, पूरवे- चरुपुरोदाशादिभिः हविर्भिः त्वां पूरयित्रे यजमानाय, धन्वन्- धन्वनि मरुभूमौ निर्जलप्रदेश इत्यर्थः, प्रपा इव असि- शीतलपानीयशालेव प्रीतिञ्जनयसीति। मन्त्रार्थमिमं पर्यालोचयतां सतांह्नदि अवश्यमेवभायात्- अयं मन्त्रः प्रपास्मृतेर्मूलं भवितुमर्हतीति। उदाहृतं स्मृतेर्वेदमूलकत्वं स्मृत्यन्तरेष्वतिदिशति- तत्सामान्यादिति। `तत्सामान्यादितरेषु तथात्व’मिति न्यायस्वरूपम्। अत्रायं प्रयोगः- स्मृतयो वेदमूलाः, वैदिकमन्वादिप्रणीतस्मृतित्वात्, प्रपास्मृतिवत्- इति। प्रत्यक्षदृष्टवेदमूलकत्वे संभवति, मूलान्तरकल्पनाया अन्याय्यत्वात्।
ननु प्रपास्मृतिः प्रमाणं भवितुमर्हति, तन्मूलभूतस्य वेदवाक्यस्य अस्माकं प्रत्यक्षत्वात्। इतरस्मृतीनां तु मूलभूतानि वचनानि न प्रत्यक्षाणि। तत्कथं तासां प्रामाण्यमितीमां शङ्कां प्राचां शास्त्रकृतां वचनमुदाहरन् समादधाति- आत्मीयादिति। अयमाशयः- मन्यादयो हि महर्षयः प्रत्ययिततराश्च। ते च किञ्चिदृष्ट्वैव स्मरेयुः स्मरणस्यानुभवघ्नच्वकत्वात्। परन्तु कालेगच्छति बह्वीनां वेदशाखानां अध्येतृदौर्बल्येन लुप्तत्वात्, इदानीमुपलभ्यमानासु शाखासु तन्मूलभातानां वचनानामनुपलम्भो न तासां वेदमूलकतां विहन्तुमीष्टे किञ्च प्रसिद्धः स्मृतिशब्द एव तासामनुभवपूर्वकतामवगमयति। उपोद्बलयन्ति चैतमर्थं - `श्रुतिं पश्यन्ति मुनयः स्मरन्ति च तथा स्मृतिम्’ “यः कश्चित्कस्यचिद्धर्मोमनुनापरिकीर्तितः। ससर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः” इत्यादीनि वचनानि। न च अस्माभिर्दृष्टमेव प्रबलं, अन्यैर्दृष्टं दुर्बलमिति कल्पना साध्वी। यावद्दोषदर्शनं उभयोरपि दर्शनयोः प्रमाणत्वाविशेषात्।
अवः-
स्मृतिप्रणयनस्य प्रयोजनान्तरमाह- अनेकासुशाखास्विति।
मूलम्ः-
अनेकासु शाखासु विप्रकीर्णानामर्थानां सुखप्रतिपत्तय एकत्र प्रणयन मर्थवद्भवतीति- सिद्धं स्मृतीनां वेदमूलकत्वेन प्रामाण्यम्।
व्याख्याः-
वेदानां अनन्तशाखाभेदभिन्नत्वात् तत्र तत्र विप्रकीर्णतया विद्यमानानां धर्मविशेषाणां उपसंहारस्य अद्यतनैः एकद्वित्रशाखामात्राध्येतृभिः कर्तुमशक्यत्वाच्च। अपेक्षित सर्वाङ्गोपसंहारपूर्वकं तत्तत्कर्मानुष्ठानक्रम निरूपणेन कर्मणः संपूर्णफलत्वसंपादनमपि स्मृतिप्रणयन प्रयोजनमित्यर्थः।
अवः-
इत्थं वेदमूलकतया स्मृतीनां प्रामाण्यमुपपाद्य, प्रत्यक्ष वेदविरोधेतासामप्रामाण्यं सोदाहरणमुपपादयति- औदुंबरी सर्वावेष्टयितव्येति।
मूलम्ः-
औदुंबरी सर्वावेष्टयितव्येति स्मृतिः, `औदुंबरीं स्पष्ट्वोद्गायेत्’ इत्यनया श्रुत्या विरुध्यते- सर्ववेष्टने सति स्पर्शासंभवात्- इति भाष्यम्।
व्याख्याः-
अस्य विरोधाधिकरणमिति मीमांसकानां व्यवहारः। अत्र भाष्य-वार्तिककारयोः मतभेदोविद्यते। तत्र प्रथमं भाष्यकारमतमुच्यते- ज्योतिष्टोमाख्येसोमयागे सदोनाम्नि मण्डपे यजमानसम्मिता का चिदौदुंबरीशाखानिखन्यते। सा च यथा न किञ्चिद्दृश्येत तथा सर्वात्मना वा ससावेष्टयितव्या- इति स्मृतिवाक्यस्यार्थः। उद्गातासामगायन्। स्वयं तामौ दुंबरीं स्पृषन्नेवगायेत्- इति श्रुतिर्ब्रवीति। अत्र सर्ववेष्टनं चेत् क्रियेत तदा स्पर्शनं न संभवति। स्पर्शनं चेत् कर्तव्यं तदा सर्ववेष्टनं न संभवति। इत्थं परस्परविरोधेप्रसक्ते, परिहार उच्यते- श्रुतिः स्वतःप्रमाणभूताप्रबला। स्मृतिस्तु वेदमूलकतया प्रमाणं भवति नस्वत इति सा श्रुतितोदुर्बला। प्रबलेन दुर्बलस्य बाधोलोक प्रसिद्धः। तथा च प्रबलया स्पृष्ट्वोद्गायेदिति श्रुत्या, सर्वावेष्टयितव्या इति स्मृतिर्बाध्यते। अर्थात् प्रत्यक्षवेदविरोधे स्मृतिः स्वमूलभूताः श्रुतिमनुमापयितुं न शक्नोति, अतोऽप्रमाणमिति भाष्यकारोमन्यते।
अवः-
अत्र वार्तिककारमतं संगृह्णाति- अतिरात्रे षोडशिनंगृह्णातीति।
मूलम्ः-
`अतिरात्रे षोडशिनंगृह्णाति’ `नातिरात्रे षोडशिनंगृह्णाति’ इत्येकत्रानुपसंहरणीयस्याप्यर्थद्वयस्य वेदे दर्शनात् सर्ववेष्टन स्मृतिमूलभूतश्रुतेरत्यन्ताभावस्यास्मदादिभिरप्लज्ञैर्निश्चेतुमशक्यत्वात्, `तत्सामान्यादितरेषु तथा त्व’मिति न्यायेन एकस्याः स्मृतेरप्रामाण्ये सर्वासामपि तथा त्वापत्तेश्च, नासावप्रमाणम्। किन्तु यावन्मूलदर्शनं नास्ति, तावदर्थानुष्ठानं न कर्तव्यमित्येवंपरं `विरोधेत्वनपेक्षंस्यादि’ति सूत्रमिति- वार्तिकम्।
व्याख्याः-
अतिरात्रोनाम- ज्योतिष्टोमात्मकः तदीयसप्तसंस्थानामन्यतमः सोमयागविशेषः। तस्मिन् षोडशिनामकं सोमग्रहं गृह्णीयादिति- प्रथमवाक्यस्यार्थः। तं न गृह्णीयादिति- द्वितीयवाक्यस्य। एतत्र अनुपसंहारणीयस्य= एकस्मिन् प्रयोगे निवेशयितुमशक्यस्येत्यर्थः। नहि एकस्मिन् प्रयोगे परस्परविरुद्धयोः ग्रहणाग्रहणयोः तेजस्तिमिरयोरिव समावेशो घटते। अतः उभयोरपि वेदवाक्यत्वेन तुल्यबलत्वात्, अन्यतरस्य बाधायोगात् विकल्पोऽङ्गीकृतः। प्रकृते च यद्यप्येकस्यामेव वेदशाखायां `औदुंबरीं स्पृष्ट्वोद्गायेत्’ इति वचनमुपलभ्यते। तथाऽपि शाखान्तरे सर्ववेष्टन प्रतिपादकः वचनमपिस्यादिति सम्भावनानापह्नोतुं शक्या। अन्यथा वेदार्थविशदीकरणार्थं प्रवृत्तः स्मृतिकृन्महर्षिः सर्ववेष्टनं कथं ब्रूयात्? तस्मात् सर्ववेष्टन स्मृतिः सर्वथा प्रमाणमित्युक्तिरयुक्ता। तथा त्वे अतिप्रसङ्गंदोषमाह- तत्सामान्यादिति। किं तर्हि प्रमाणमेव सर्ववेष्टनस्मृतिः? नेत्याह- यावन्मूलदर्शनमिति। द्विविधं हि अप्रामाण्यं- प्रमेयापहारलक्षणं, अननुष्ठापकत्वलक्षणंचेति। तत्राद्यं- प्रमेयस्य सर्वात्मना अतथात्वं अवगमयति। द्वितीयं- विरुद्धप्रत्यक्षश्रुत्युपलंभेन स्वविषये संदेह संभवात् यावन्मूलदर्शनं स्वविषयस्यानुष्ठानं प्रति बध्नाति। तत्राद्यनुप्रामाण्यं सर्ववेष्टनस्मृतेर्भाष्यकारमते। द्वितीयं वार्तिककारमत इति विवेकः।
`विरोधेत्वनपेक्षंस्यादसतिह्यनुमान’मिति सूत्रे अनपेक्षपदस्य भाष्यमते अप्रामाण्यार्थकत्वेऽपि, वार्तिकमते तत् अननुष्ठानलक्षणमेवाप्रामाण्यमवगमयतीत्याह- इत्येवं परमिति। सर्ववेष्ट न स्मृतेःताण्ड्यश्रुतिर्मूलमिति- वाञ्छेश्वरयज्वना भाट्टदीपिकाव्याख्यायामभिहितम्।
अवः-
प्रत्यक्षवेदविरोधाभावेऽपि, कारणान्तरेणाऽपि स्मृतेरप्रामाण्यं वक्तुं हेतुदर्शनाधिकरणं विवृणोति- हेतुदर्शनाच्चेति।
मूलम्ः-
`हेतुदर्शनाच्चे’त्यत्र, `वैसर्जनहोमीयं वासोऽध्वर्युः परिगृह्णाति’ इति स्मृतेः श्रुत्यविरोधित्वेऽपि लोभमूलकत्वस्यैव हेतोर्दर्शनादप्रामाण्यमिति- भाष्यम्। स्मृतित्वाविशेषात् शाक्यस्मृतेरपि प्रसक्तं प्रामाण्यम्, तेषु प्रत्यक्षेण वेदविद्वेषदर्शनात् न तस्याः वेदमूलकत्वं कल्पयितुं शक्यमिति वार्तिकम्।
व्याख्याः-
मास्तु प्रत्यक्षश्रुतिविरोधः, रागादिदृष्टहेतुमूलकत्वनिश्चयेऽपि स्मृतिरप्रमाणमेव। यथा- वैसर्जनहोमीयमिति। ज्योतिष्टोमे प्रथमदिन एव दीक्षिणीयेष्ट्या यज्ञदीक्षासमारब्धाभवति। तस्यां अनुवर्तमानायामेव सत्यां द्वितीयेऽहनि आरभ्यमाणाभिः उपसद्भिस्साकं नियम विशेषात्मिका अवान्तरदीक्षा च आरभ्यते। सा च चतुर्थेऽहनि उपसत्समाप्तौ विसृज्यते। तथा च अवान्तरदीक्षा विसर्जनार्थोहोमः- वैसर्जनहोमः। स च - महता वस्त्रेण यजमानं, तद्बन्थूंश्च आच्छाद्य वाससोऽन्तेस्रुग्दण्डमुपनिबध्य अनुष्ठीयते। तदेतद्वासः वैसर्जनहोमीयमित्युच्यते। तदेतद्वासः लोभात् कश्चिदध्वर्युर्जग्राह। तदारभ्यप्रवृत्ता इयं स्मृतिः। वैसर्जनहोमीयं वासोऽध्वर्युः प्रतिगृह्णाति- इति। तथा च एतन्मूलभूतस्य वचनस्य प्रत्यक्षवेदे अनुपलंभात्। लोभरूपस्य दृष्टहेतोर्मूलत्व संभावेन वेदमूलकत्वानुमाना संभवाच्चनेयं स्मृतिः प्रमाणमिति- भाष्यकारीयं सूत्रव्याख्यानम्।
अत्र वार्तिककाराभिमतं सूत्रार्थं संगृह्णाति- स्मृतित्वाविशेषादिति। शाक्यस्मृतिः- बौद्धधर्मशास्त्रम्। केचित्- शाक्यस्मृतिः प्रमाणम्, स्मृतित्वात्, मन्वादिस्मृतिवत्- इत्यनुमानावष्टंभेन तस्याः प्रामाण्यमाचक्षते। तन्मतं प्रतिक्षिपति- तेषु प्रत्यक्षेणेति। शाक्याः खलु वेदमप्रमाणं वदन्तः वेदविहितान् यज्ञादीनि प्रतिबध्नन्ति, वैदिकांश्चहिंसन्ति। तथा च वेदविद्वेषिणां तेषां स्मरणस्य वेदमूलकत्वासंभवात्, वेदमूलकत्वेनैव अस्माभिः स्मृतिप्रामाण्यस्य स्वीकृतत्वाच्च अवेदमूलाशाक्यस्मृतिरप्रमाणमित्याशयः।
अवः-
अथ शिष्टाकोपाधिकरणमवतारयति- शिष्टाकोपेऽविरुद्धमितिचेदिति।
मूलम्ः-
`शिष्टाकोप्येविरुद्धमितिचेन्न शास्त्रपरिमाणत्वा’दित्यत्र `वेदं कृत्वावेदिंकरोति’ इति श्रुतिशिष्टस्यक्रमस्य अकोपेसति `क्षुते आचामे’दिति स्मृतिः प्रमाणं न तु कोपे इति चेत्, न - शास्त्रपरिमाणत्वात्। आचमनं हि नैमित्तिकः पदार्थः। क्रमस्तु पदार्थधर्मः। अतः पूर्वं पदार्थः प्राप्नोति, पश्चाद्धर्म इति- प्रबल प्रमाणप्रापितोऽपि स्वतोजघन्यत्वान्नाचमनस्मृतिं बाधितुमीष्टे- इति भाष्यम्।
व्याख्याः-
वेदः- शयानवत्सजान्वाकृतिः दर्भमुष्टिविशेषः। वेदिः- गार्हपत्याहवनीययोर्मध्यगता संस्कृताभूमिः। श्रुतिशिष्टस्य- वेदं कृत्वा इत्यत्र श्रूयमाणयाक्त्वाप्रत्ययरूपयाक्रमबोधिकया श्रुत्याविहितस्येत्यर्थः। कोपो- विरोधः। जघन्यत्वात्- गुणभूतत्वेन दुर्बलत्वादित्यर्थः। दर्शपूर्णमास प्रकरणे `वेदं कृत्वा वेदिं करोति’ इत्येतद्वचनं श्रूयते। प्रथमतः वेदं कृत्वा, पश्चात् वेदिं कुर्यादिति तदर्थः। तथा च वेदकरण- वेदिकरणयोः पौर्वापर्यरूपः क्रमः अनेन विधीयते। एवंस्थिते- `क्षुते आचामेत्’ इति किञ्चित् स्मृति वचनमुपलभ्यते। तच्च क्षुतरूपे निमित्तेसति आचमनं विदधाति। यदि कदाचित् वेदकरणानन्तरं वेदिकरणात्प्रक् क्षुतंभवेत्, तदा वेदिकरणानन्तरं क्षुतनिमित्तकमाचमनं कर्तव्य, मुत अनाचम्यैववेदिः कर्तव्या इति संदेहः स्यात् प्रमाणबलाबलपर्यालोचनायां यद्यपि क्त्वाश्रुतिः प्रबला; निरपेक्षरवत्वात्। स्मृतिश्चदुर्बला; मूलभूतवेदसापेक्षत्वात्। एवंस्थिते (प्रमाणबलाबले) तधा तत्रंतियोगि प्रमेयबलाबले च पर्यालोच्यमाने, स्मृतिबोधितमप्याचमनं अनुष्ठेयः कश्चित् स्वतन्त्रः पदार्थः। श्रुतिबोधितोऽपिक्रमः पदार्थगुणभूतः पूर्वोत्तरयोः पदार्थयोरनुष्ठितयोः अर्थात्सिध्यति, न पृथक्प्रयत्नमपेक्षते। तथा च प्रमाणबलाबलापेक्षया प्रमेयबलाबलस्य ज्यायस्त्वात् `धर्मधर्मिविरोधे तु धर्मिणो बलवत्तराः’ इति न्यायेन स्मृतिबोधितस्याऽपि आचमनस्य धर्मित्वेन प्रबलत्वात्, श्रुतिबोधितस्याऽपि क्रमस्य धर्मत्वेनदुर्बलत्वाच्च वेदकरण-वेदिकरणयोर्मध्येक्षुते प्रसक्ते, क्रमंबाधित्वा, आचमनमेवानुष्ठेयं, पश्चादेववेदिकरणमिति सिद्धान्तः।
अवः-
इत्थं भाष्यकृन्मतेन सूत्रं व्याख्याय, वार्तिकमतेन व्याख्याति- शाक्यशास्त्रेऽपीति।
मूलम्ः-
शाक्यशास्त्रेऽपि यत् वेदाविरुद्धमहिंसादिकं विहितं तत्ततोऽपि ग्राह्यमितिचेत्, न- वेदादिना प्रमितस्यैव अहिंसादेः मन्त्रस्मारितकर्मण इव फलवत्त्वं, नान्येनेति शास्त्रेनियमात्। तथाबाहुः- `धर्मज्ञसमयः प्रमाणम्, वेदाश्च’ (आप.ध.सू.1-1-2,3.) इति। तस्मात् गंगोदकमितश्वदृतिस्थं, धर्मोऽपि शाक्यग्रन्धस्थस्तद्वाक्यान्नोपादेय इति वार्तिकम्।
व्याख्याः-
यथा प्रयोगकाले अनुष्ठेयार्थस्य प्रकारान्तरेण स्मरण संभवेऽपि, `मन्त्रैरेवार्थः स्मर्तव्यः’ इति नियमः, तथा `पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः। वेदाः स्थानानि विद्यानां, धर्मस्य च चतुर्दश’ (याज्ञ.स्मृ.) इत्थं धर्मप्रमाणत्वेन परिगणितैः वेदादिभिः बोधित एव धर्मः स एव ग्राह्यः नान्यबोधित इति नियमस्य शास्त्रसिद्धत्वादिति भावः। श्वदृतिस्थं= शुनकचर्मनिर्मिताभस्त्रिकाश्वदृतिः, तस्यां संगृहीतमित्यर्थः। स्वभावशुद्धमपि गङ्गाजलं श्वदृति संपर्कादपेयं भवति, तद्वदेव अहिंसादेः स्वतोधर्मत्वेऽपि वेदाप्रामाण्यवादि बोद्धसम्बन्धादग्राह्यमित्यर्थः। अतश्च श्रेयस्कामः हिंसां परित्यजन्नपि `नहिंस्यात्सर्वाभूतानि’ इत्येतद्वेदवाक्यप्रतिषिद्धत्वबुद्ध्यापरित्यजेत्, न बुद्धोक्तत्वबुद्ध्येति यावत्।
ननु शाक्यग्रन्धोक्तमहिंसादिकमपि न ग्राह्यमिति- कुतोऽयमाग्रहः? `बालादपि सुभाषितं’ग्राह्यमिति हि अभियुक्ताः कथयन्ति। न हि शाक्योक्तत्वमात्रेण अहिंसा अधर्मोभवति! इतिचेत्, अत्रेदं प्रतिभाति- शाक्यस्मृतौतावत् सत्याहिंसादिभिस्साकं वेदविरुद्धा अपि विषयाः भूयांसोऽभिधीयन्ते। सत्याहिंसादिधर्मजिज्ञासया शाक्यस्मृतिमुपाददानाः मन्द-मध्यम प्रज्ञाः तत्तत्स्वरूपं विवेक्तुमशक्तुवानाः अविरुद्धांशवत् विरुद्धानप्यंशान् कदाचित् धर्मत्वेन परिगृह्णीयुः, ततश्चते अनर्थमृच्छेयुः। तन्माभूदिति `प्रक्षालनाद्धिङ्कस्य दूरादस्पर्शनं वर’मिति न्यायेन, अस्माननुग्रहीतुमेव शास्त्रकृतस्तथा समाचचक्षिरे- इति मन्तव्यम्।
अव-
शिष्टाकोपाधिकरणान्तर्गतं `अपि वा कारणाग्रहणे—-’ इति तृतीय सूत्रमवलम्ब्य, वार्तिककृतं प्रवर्तितं विचारान्तरं प्रस्तौति- अत्रैवेति।
मूलम्ः-
अत्रैव `अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् तेष्वदर्शनाद्विरोधस्य’ इति तृतीयसूत्रे येषां वसन्तोत्सवादीनां धर्मत्वे कारणं श्रुतिः स्मृतिर्वा न दृश्यते, केवलं शिष्टैश्च धर्मबुद्ध्यायान्यनुष्ठीयन्ते, तेष्वपि शास्त्रान्तरविरोधादर्शनेसति प्रामाण्यं स्वध्यवसेयमित्यपि वार्तिकमेव।
अत्र स्मृतीनां श्रुतिकल्पना सापेक्षतया एकान्तरितं प्रामाण्यं, शिष्टाचाराणां तु स्मृतिकल्पनापूर्वकं श्रुतिकल्पनंचेति द्व्यन्तरितम्।
व्याख्याः-
फाल्गुनपूर्णिमामभिलक्ष्यकैश्चित् क्रियते वसन्तोत्सवः। (अममेव होली, होलाका इत्यौत्तराहाः व्यवहरन्ति, प्राचुर्येणानुष्ठन्ति च।) श्रुतिस्मृत्योः अनुपदिष्ठोऽपि ताभ्यांसहविरोधाभावे शिष्टानामाचारोऽपि धर्मबुद्ध्या अनुष्ठीयमानः धर्मे कारणं= प्रमाणमितीह सिद्धान्तितम्। स्वध्यवसेयं= सुष्ठुनिश्चेतव्यम्। स्मृतिशिष्टाचारयोः प्रामाण्यस्य वेदमूलकत्वाविशेषेऽपि, उभयोः कञ्चन विशेषमाह- अत्र स्मृतीनामिति। स्मृतिः- पौरुषेयतया न स्वतः साक्षात् प्रमाणं भवति, किन्तु स्वमूलभूतां श्रुतिं कल्पयित्वा। अतस्तस्याः प्रामाण्यं एकान्तरितम्। एकया श्रुतिकल्पनया अन्तरितं व्यवहितमित्यर्थः। आचारस्तु प्रथमतः स्वमूलतया स्मृतिं कल्पयित्वा, तद्द्वाराचश्रुतिं कल्पयित्वा ततः प्रमाणं भवति। ननु आचारेणाऽपि स्मृतिवत् स्वमूलतया श्रुतिरेवसाक्षात्‌क्ल्प्यतां, मध्ये किं स्मृतिकल्पनया व्यवधायिकया? इतिचेत्, न- महर्षयस्तावत् मन्त्रद्रष्टारः प्रत्ययिततराश्च। अत एव तदीया स्मृतिः साक्षादेव स्वमूलभूतांश्रुतिं कल्पयितुं शक्नोति। आचारस्तु न तथा। आचरितारस्तु अद्यतनाः शिष्टाः न महर्षिवत् मन्त्रद्रष्टारः। अत एव तदीय आचारः स्वमूलभूतां श्रुतिं कल्पयितुं न शक्नोति। परन्तु तेषां स्मृति साक्षात्कार संभवात् तदीयाचारस्य स्मृतिमूलत्वं कल्पयितुं शक्यम्। क्लृप्ते च स्मृतिमूलकत्वे पश्चात् श्रुतिमूलकत्वकल्पनं सुशकमिति। तथा च आचारस्य प्रामाण्यं द्व्यन्तरितं भवति। द्वाभ्यां स्मृति-श्रुति कल्पनाभ्यां अन्तरितं- व्यवहितमित्यर्थः।
अवः-
अथ शिष्टाचारप्रामाण्यविचारप्रसङ्गादुपस्थितं शब्दप्रयोगरूपमाचारं विचिचारयिषुः यववराहाधिकरणमवतारयति- तेष्वदर्शनाद्विरोधस्येति।
मूलम्ः-
`तेष्वदर्शना द्विरोधस्य समाविप्रतिपत्तिः स्या’दित्यत्र यवादि शब्दार्थाः दीर्घशूकादय एव गृह्यन्ते। `यत्रान्या ओषधयोम्लायन्तेऽथैतेमोदमाना इवोत्तिष्ठन्ति’ इति वाक्यशेषात्, न तु म्लेच्छप्रसिद्ध्या प्रियङ्ग्वादय इति भाष्यम्।
व्याख्याः-
यवशब्दः म्लेच्छानां प्रियङ्गुधान्ये प्रसिद्धः। आर्याणां तु दीर्घशूके धान्यविशेषे। अनयोः कतरोऽर्थोग्राह्य इति सन्देहे, शब्दार्थविज्ञानस्य व्यवहाराधीनत्वात्, व्यवहारविषये आर्यम्लेच्छयोर्विशेषाभावाच्च, अर्थद्वये यः कोऽपि विकल्पेन ग्राह्य इति पूर्वपक्षेप्राप्ते, आर्यप्रसिद्ध्या दीर्घशूक एव ग्राह्यः, `यवमयश्चरुर्भवति’ इति चरु प्रकृतिद्रव्यतयायवान् विधाय, तच्छेषभूतेऽर्थवादे `यत्रान्या’ इत्यस्मिन् यवस्वरूपस्यैवख्यापितत्वादिति भाष्यकारेण सिद्धान्तितम्। वाक्यशेषस्याऽयमर्थः- यत्र- यस्मिन्‌काले (फाल्गुनादौ), अन्या औषधयः- प्रियङ्ग्वादयः, म्लायन्ते- शुष्यन्ति, अथ- तस्मिन्‌काले, एते- यवसंज्ञकाः औषधिविशेषाः, मोदमाना इव- हृष्यन्त इव, उत्तिष्ठन्ति- उद्गच्छन्ति अभिवृद्धिं प्राप्नुवन्तीति। एतच्च लक्षणं दीर्घशूकेधान्य एवोपलभ्यते, न प्रियङ्गुष्विति।
अत्रैव वार्तिककारस्य विचारः दर्शयति- यद्वेति।
मूलम्ः-
यद्वापील्वादि पदार्थाः किं म्लेच्छ प्रसिद्ध्यागजादयः, उतार्यप्रसिद्ध्यावृक्षादयः इति संशये, आर्याणां शब्दार्थयोरविल्पवे नित्यं यतमानानां प्रसिद्धिर्बलीयसी, न तु म्लेच्छानां यथा कथञ्चित्सांकेतिकैरपि शब्दैर्व्यवहारमात्रमिच्छताम्।
व्याख्याः-
अत्र पूर्वोक्तान् यवादिशब्दान् विहाय, पीलु शब्दमुदाजहार- वार्तिककारः। पूर्वपक्षे नास्तिभेदः। आर्यप्रसिद्धिरेव ग्राह्येति। सिद्धान्तेऽपि नास्तिभेदः। किन्तु- सिद्धान्तपक्षस्य बलीयस्त्वे वाक्यशेषोपष्टब्धत्वं हेतुं मन्यते भाष्यकारः, आर्याणां शब्दार्थयोरविप्लवे श्रद्धायित्वं हेतुमह- वार्तिककार इतीयान् भेदः। अविप्लवः- अविपर्यासः। सांकेतिकैः- संकेतोगूढाभिसन्धिः, तस्मात्रगम्यैः, पारिभाषिकैरित्यर्थः।
अस्मिन्नेवाधिकरणे वार्तिककारस्य वर्णकान्तरं (व्याख्यानान्तरं) दर्शयति- यद्वेति।
मूलम्ः-
यद्वा- `असपिण्डामुद्वहेत्’ इत्यादि स्मृतीनां सन्निबन्धानां मातुलदुहितृ परिणयनाद्याचारेभ्यो निर्निबन्धनेभ्यो लोभमूलकेभ्यः प्राबल्यमत्र निर्णीयते।
व्याख्याः-
उद्वाह्यकन्या लक्षण कथनावसरे `असपिण्डामुद्वहेत्’ इत्यादि वचनानि स्मृतिषूपलभ्यन्ते। किन्तु सापिण्ड्यसङ्कोचेन मातुलसुतां केचिदुद्वहन्ति। मातुलसुतोद्वाहे दोषमभिप्रेत्यपरित्यागपूर्वकं प्रायश्चित्तमपि विदधति- “मातुलस्यसूता मूढ्वामातृगोत्रांतथैव च। समान प्रवरांचैवत्यक्त्वाचान्द्रायणं चरेत्” इत्याद्याः स्मृतयः।
मातुलसुतोद्वाहादिरूपाः आचाराः देशविशेषे प्रवर्तमाना अपि ते निर्निबन्धनाः। तन्निषेधपरास्तु स्मृतयः सन्निबन्धनाः। सम्यक् मूलभूतश्रुत्युपलंभपूर्वकं नितरां बध्यन्ते- श्लोकरूपेण सूत्ररूपेण वाविरच्यन्ते इति सन्निबन्धाः, सतां तपः प्रभावसम्पन्नानां मन्वादीनां निबन्धाः सन्निबन्धाः। तेषां सन्निबन्धानां, निर्निबन्धेभ्यः- उक्तविधिनिबन्धरहितेभ्यः इत्यर्थः। स्मृतीनां सन्निबन्धत्वात्प्रबल्यम्। आचाराणां तु निर्निबन्धत्वाद्दौर्बल्यमिति भावः। आचाराणां दौर्बल्येकारणान्तरमप्याह- लोभमूलकेभ्य इति। लोभमूलकत्व संभावनायास्सावका कौशेभ्य इत्याशयः।
अवः-
इत्थमिदमधिकरणेवर्णकं कतिपयप्राचीनग्रन्धानुसारेण व्याख्याय, अत्र नैकविधि प्रमाणपर्यालोचना समुन्मीलितं स्वाभिमतमर्थवार्तिकमभिव्यनक्ति- कृतवस्तुतस्त्विति। मूलम्ः-
वस्तुतस्तु मातुलदुहितृपरिणयनं नविगीतम्;
(आयाहीन्द्रपठिभिरीलितेभिर्यज्ञमिमं भागधेयंजुषस्व)
“तृप्ताञ्जहुर्मातुलस्येवयोषा भागस्तेपैतृष्वसेयीवपामिव” इति मन्त्रलिङ्गावगतत्वात्। प्रद्युम्नाद्यैः शिष्टैरादृतत्वाच्च।
*`असपिण्डा’मिति शास्त्रं तु `नातिरात्र’इति व न्मतान्तराभिप्रायम्।
व्याख्याः-
नविगीतं- सनिन्दितमित्यर्थः। अविगीतत्वेकारणमाह- मन्त्रलिङ्गावगतत्वादिति। मन्त्रस्यायमर्थः- हे इन्द्र! पथिभिः ईडितेभिः स्तुतैः सह, नः अस्माकं अमं यज्ञं आयाहि। आगत्य च अस्माभिर्दीयमानं भागधेयं जुषस्व। तृप्तां आज्यादिना संस्कृतां वपांत्वामुद्दिश्यजहुः त्यक्तवन्तः। तत्र दृष्टान्तद्वयम्- यथा मातुलस्ययोषा- दुहिताभागिनेयस्य भागः= भजनीया- भागिनेयेन परिणेतुं योग्या, यथा च पैतृष्वसेयी पुत्रस्यभागः। तथा अयं ते= तवभागःवपाख्यः- इति। * (वाजसनेयकेऽपि- `तस्माद्वासमानादेवपुरुषा दत्ता, चाद्यश्चजायते, उततृतीये संगच्छावहैचतुर्थेसंगच्छावहै’ इति। समानादेकस्मात् पुरुषात् अत्ता= भोक्ता, आद्यश्च= भोग्यः द्वावप्युत्पद्येते। तौ चमिधः संकल्पयतः- कूटस्थमारभ्य तृतीये चतुर्थे वा पुरुषे सङ्गच्छावहै= विवहावहै- इत्यर्थः।)
[यद्यप्ययमर्थवादः, तथापि अविरुद्धत्वात्, अपूर्वार्थत्वाच्च `मातुलसुतांविवहेत्’ इति विधिःकल्प्यते।]
स्मृतितः स्वतोदुर्बलोऽप्याचारः प्रबलमन्त्रलिङ्गोपष्टब्धतया प्रबलो भवतीति भावः। तथाचोक्तं बलाबलाधिकरणे वार्तिककृता- `अत्यन्तबलवन्तोऽपि पौरजानपदाजनाः। दुर्बलैरपि बाध्यन्ते पुरुषैः पार्थिवाश्रितैः’ इति। अविगीतत्वमेव शिष्टाचारोपष्टंभेन स्थिरीकरोति- प्रद्युम्नादिभिरिति। ननु `असपिण्डांनोद्वहेत्’ इति स्मृतेः का गतिरित्याशङ्कायामाह- असपिण्डामिति शास्त्रंत्विति। अतिरात्रनामके ज्योतिष्टोम संस्थाविशेषे- `अतिरात्रेषोडशिनंगृह्णाति’ `नातिरात्रेषोडशिनं गृह्णाति’ इतिवाक्यद्वयमुपलभ्यते। तद्बोधितयोः परस्परविरुद्धयोः ग्रहणाग्रहणयोः तेजस्तिमिरयोरिव एकस्मिन् प्रयोगे समावेशासंभवात्, उभयोः श्रुतिवाक्यतया समबलत्वेन एकेन अपरस्य बाधायोगाच्च, विकल्पोऽङ्गीकृतः। तद्वदत्राऽपि मातुलसुताविवाहस्य सापिण्ड्यसंकोचं विना अनुपपन्नतया तत्पर्यवसायिनः आचारस्य, तन्निषेधपर्यवसायिनः `असपिण्डा’मिति स्मृतेश्च विकल्पोऽभ्युपेतव्य इति भावः।
ननु विषमबलयोस्तयोः कथं विकल्प इतिचेत्, उच्यते- `मातुलदुहितृपरिणयरूप आचारः केवलं रागलोभादिमूलकः- तन्निषेधश्चस्मृत्युक्त’ इति यावदालोचयामः, तावत् तयोः विषमबलत्वात् भवदुक्तरीक्या विकल्पो न घटते। किन्तु आचारः श्रुतिलिङ्गमूलक इत्युक्तम्। यथा स्मृतिः स्वमूलभूतां श्रुतिं कल्पयन्ती प्रमाणमित्युच्यते, तथा मन्त्रलिङ्गमपि श्रुतिकल्पनाद्वारा प्रमाणं भवतीति- तयोस्तुल्यबलत्वात् विकल्पोनानुपपन्न इति ध्येयम्।
अयमत्रविशेषाः द्रष्टव्यः :-
वैकल्पिकत्वेऽपि नायं तुल्यविकल्पः, अपि तु व्यवस्थितः। यथा विन्ध्याद्दक्षिणदेशे मातुलसुता विवाहो विहितः, उत्तरदेशे निषिद्ध इत्येवं देशभेदाद्व्यवस्थेति- केचिदाचक्षते।
अत एव दक्षिणोत्तरदेशयोः प्रवर्तमानान् काश्चिदाचारान् अशास्त्रीयान् परिगणयन् बोधायनः, तथाविध दाक्षिणात्याचारेषु मातुलसुतापरिणयमन्तर्भावयन्नपि, अन्ततः- “इतरदितरस्मिन् कुर्वन् दुष्यतीतरदितरस्मिन् कुर्वन्” इति ब्रुवाणः, तत्तद्देशे तत्तदाचारस्य शिष्टैराद्रियमाणस्य दोषाजनकत्वं व्यवस्थापयति। तथा च- मातुलनुतोद्वाहः औत्तराहाणामनाचारोऽपि दाक्षिणात्यानां सदाचार एव। ऊर्णाविक्रयादिकस्य दाक्षिणात्यानामनाचारत्वेऽपि औत्तराहाणां सदाचारत्वमेव, इत्येवं विकल्पः पर्यवस्यति।
अवः-
इत्थं विविध विप्रतिपत्तिग्रन्ततया इदमुदाहरणमुपेक्ष्य अत्रोदाहरणान्तरमूरीकुर्वते कतिचन दाक्षिणात्यविपश्चितः। तद्यथा- युगान्तरेषु मांसभक्षणमभ्यनुज्ञानम्। तदपि यागशेष- श्राद्धशेषयोरेव। तत्राऽपि परिगणितानामेव ऋत्विग्यजमानादीनाम्, न सर्वेषाम्। किन्तु यागानुष्ठानमपि विरलप्रचारमस्मिन् कलियुगे। तथा च तद्द्रूपेण मांसभक्षणं दुर्लभमित्येव वक्तव्यम्।
तथा-
“अश्वालंभं गवालंभं सन्न्यसंपलपैतृकम् ।
वेदराच्चसुतोत्पत्तिङ्कलौरुञ्चविवर्जयेत् ॥” इत्येवं कवि वर्ज्यप्रकरणे `पलपैत्वकम्’ इति श्राद्धेमांस विनियोगस्य पर्युदस्तत्वात्- श्राद्धशेषत्वेन तद्भक्षणमपि दूरापास्तम्। तथाऽपि अधुनाऽपि औत्तराहाः कतिचन मांसभक्षणं कुर्वते, मत्स्यांश्चखादन्ति, इदमस्माकं परम्परा प्राप्तमिति ब्रुवते। सोऽयं मांसभक्षणाचारः प्रकृताधिकरण विषयः। स च परम्पराप्राप्ततया उपादेय इति पूर्वपक्षेप्राप्ते, प्रत्यक्षस्मृति विरुद्धतयाहेय इति सिद्धान्तः। तदेतत्सर्वं संक्षिप्य निर्दिशति- किन्त्विति।
मूलम्ः-
किन्तु `देवान्पितून् समभ्यर्च्यखादन्मांसं न दोषभाक्’ इति स्मृतेः अग्नेषोमीयालम्भस्य कलौ दुर्लभत्वात्, फलपैतृकस्य च निषेधात् तदुभयं विनाक्रियमाणं मांसभक्षणं दोषहेतुः। अतस्तदेव अत्रोदाहरणमिति- दाक्षिणात्याः।
व्याख्याः-
अत्र अग्नीशोमीयपश्वालंभस्य कलौ दुर्लभत्वोक्तिः- विरलप्रचाराभिप्राया; अद्याऽपि तत्र तत्र श्रुद्धालुभिरनुष्ठीयमानत्वात्, कलौ तन्निषेधाभावाच्च।
अधात्रैव वर्णकान्तरं वार्तिककारीयमुदाहरति यद्वेति। एतदेव त्रिवृच्चर्वश्ववालाधिकरमिति व्यवह्रियते।
मूलम्ः-
यद्वा- त्रिवृदादि पदार्थोवाक्यशेषात् स्तोत्रीया नवकादिकमेव, न तु लोकप्रसिद्ध्या त्रिवृद्रज्ज्वादिकमिति। वर्णकं त्रयं वार्तिके।
व्याख्याः-
“त्रिवृद्बहिष्पवमानम्” इति वेदवाक्ये त्रिवृत्पदंश्रूयते तस्य स्तोत्रसाधनीभूतानामृचांनमकमर्थ इति तत्सन्निहितार्थवादवाक्यादवगम्यते। लोके तावत् `त्रिवृद्रज्ञुः’ इत्यादि प्रयोगानुरोधेन त्रैगुण्यं तदर्थ इति सिद्ध्यति। तत्र लोकप्रसिद्धोऽर्थोग्याह्यः, उतार्थवादनिरूपितोऽर्थ इति सन्देहो भवति। धर्मनिर्णये वेदस्य प्रबलत्वेऽपि, पदपदार्थनिर्णये लोकवेदयोस्तुल्यबलत्वात् स्वेच्छया यःकोऽप्यर्थो विकल्पेन ग्राह्य इति पूर्वपक्षेप्राप्ते, विध्यर्थवादयोः एकवाक्यतया प्रामाण्यस्य पूर्वमुक्तत्वात् तदनुरोधेन अर्थवादोक्त एवार्थोग्राह्य इति सिद्धान्तः। इत्थमेव `चरुः’ `अश्ववालः’ इत्यादिवैदिक पदानामपि, ओदनविशेष- दर्भविशेषादिरूपाः अर्थवादानुरोधिन एवार्थाः ग्राह्याः, न तु स्थाल्यादिरूपाः लौकिकार्था इति।
अवः-
अथ पिकनेमाधिकरणं संगृह्णाति- पिकादिपदानामिति।
मूलम्ः-
पिकादिपदानामर्थोम्लेच्छप्रसिद्ध्याऽपि शुकादिर्ग्राह्यः। तस्यार्याणां क्वचिदप्यप्रसिद्धेर्विरोधाभावात्।
व्याख्याः-
`पिकमालभेत’ इत्यादीनि वाक्यानि श्रूयन्ते। तत्र पिकशब्दस्य अयमर्थमिति अर्थवादाद्वा, आर्यव्यवहाराद्वानाध्यवसीयते। म्लेच्छास्तु पिकशब्दं कोकिले प्रयुञ्जते। एवंस्थिते व्याकरणनिरुक्ताद्यनुसारेण पिकादिशब्दानां कञ्चिदर्थं परिकल्प्य स एव ग्रहीतव्यः, अथवा म्लेच्छप्रसिद्धोऽपि कोकिलादिरूप एवार्थ इति सन्देहे, पूर्वपक्षे वदति- म्लेच्छानामवैदिकत्वेन अप्रामाणिकत्वात् तदीयमर्थं परित्यज्य निरुक्तादिभिरर्थं परिकल्प्य स एव ग्राह्या इति। तत्र कल्पनं तावत् तत्तद्बुद्भिवैभवानुरोधेन बहुभिः प्रकारैः भवतिमर्हतीति- अव्यवस्थितं तत्। अतः क्लुप्तांम्लेच्छप्रसिद्धिमनुसृत्यपिकादिरूपोऽर्थोग्राह्यः। आर्याणां क्वचिदप्यर्थविशेषे प्रसिद्ध्यभावेन म्लेच्छप्रसिद्धेरपि ग्रहणे विरोधाभावात् क्लुप्तकल्प्ययोर्मध्ये क्लुप्तस्य प्रबलत्वात्- इति सिद्धान्तः। एवं-नेमः= अर्थः, तामरसम्= पद्मम्। इत्यादयः अत्रेदमवधेयम्- यद्यपि यववराहाधिकरण- पेल्वधिकरण- त्रिवृदधिकरण- पिकनेमाधिकरणेषु चतुर्ष्वपि शब्दार्थचिनैवकृता। तथाऽपि इत्थं विषयविवेकोद्रष्टव्यः-

  1. आद्ये- आर्यम्लेच्छयोः यवादिशब्देषु अर्थभेदे उपलभ्यमाने वाक्यशेषानुरोधेनार्थनिर्णयः।
  2. द्वितीये- पीत्वादि शब्दानां तु आर्यम्लेच्छयोरर्थभेदे उपलभ्यमानेऽपि, न वाक्यशेषान्निर्णयः, किन्तु शब्दार्थमर्यादारक्षणे आर्याणां बद्धश्रद्धतया तदीय प्रसिद्ध्यनुरोधेनार्थनिर्णय इत्युक्तम्।
  3. तृतीये- त्रिवृदादि शब्दार्थविषये म्लेच्छानां प्रसक्तिरोस्ति। अपि तु लोक- वेदयोः तेषां शब्दानामर्थभेदेसति, वैदिकवाक्यशेषानुरोधेन ऋङ्नवकादिरूपोऽर्थोग्राह्य इत्यभिहितम्।
  4. चतुर्थे- पिकादि शब्दानां अर्थस्य आर्येषु अप्रसिद्धत्वात्, व्याकरणनिरुक्ताद्यनुरोधेनार्थकल्पनापेक्षया लाघवात्, अविरोधाच्च क्लुप्तस्य म्लेच्छप्रसिद्धस्याऽप्यर्थस्य उपादेयत्वमुररीकृतम्- इति।
    अवः-
    इदानीं क्रमप्राप्तं कल्पसूत्राधिकरणं निबध्नाति- कल्पसूत्राणामिति।
    मूलम्ः_
    कल्पसूत्राणां प्रत्यक्षश्रुतिसरूपत्वेऽपि न वेदत्वम्, किन्तु दृढकर्तृस्मरणात् पौरुषेयत्वमिति- भाष्यम्।
    व्याख्याः-
    सरूपत्वेऽपि= समानरूपत्वेऽपि। तथा हि- कर्माङ्गभूतानां मन्त्राणां प्रायेण समाम्नायमानत्वात्, प्रत्यक्षब्राह्मणवाक्यसदृशानां विध्यर्थवादवाक्यानां च बहुलमुपलम्भात्, उत्तानदृष्टीनां कल्पसूत्रेषु वेदत्वबुद्धिर्जायते। अस्तु तर्हि वेदत्वमेवेतिचेत्, नेत्याह- दृढकर्तृस्मरणादिति। आपस्तंबाश्वलायन बोधायनादीन् तत्तत्कल्पसूत्रकर्तृत्वेन अध्यापकाः अध्येतारश्च निर्विचिकित्संस्मरन्ति। अतः पौरुषेयत्वमेव तेषांयुक्तमिति भाष्यकारोमन्यते।
    अत्रैव वार्तिककारस्य विचारं दर्शयति- यद्ब्राह्मणानीति-
    मूलम्ः-
    `यद्ब्राह्मणानीतिहासान्पुराणानिकल्पा’निति नित्ये ब्रह्मयज्ञे ब्राह्मणवदितिहासादीनां विनियोगात्, नित्यानित्ययोः संयोगायोगात् एतान्यपि नित्यानि, स्वातन्त्र्येण वेदवत्प्रामाण्यमेषाम्। एवं `मन्त्रब्राह्मणयोर्वेदनामधेयम्, षडङ्गमेके’ इति मन्त्रवत् शिक्षादीनां वेदत्वस्मरणात् स्वातन्त्र्यमिति पूर्वः पक्षः।
    दृढकर्तृस्मरणादेव तेषामपि पौरुषेयत्वात् स्मृतिवद्वेदमूलकत्वेनैव प्रामाण्यम्, न स्वातन्त्र्येण। नित्यकर्मयोगस्तु एषां प्रतिकल्पं वर्णानुपूर्वीभेदेऽपि जातिशब्दवदर्थानां नित्यत्वात् ज्ञेयः। `षडङ्गमेके’ इति पूर्वपक्षोपन्यासो, न तु सिद्धान्तः, दृढकर्तृस्मरणादेवेति- वार्तिकम्।
    व्याख्याः-
    अत्र वार्तिकमते भाष्यापेक्षया पूर्वोत्तरपक्षयोर्भेदाभावेऽपि तत्तत्पक्षोपपादिकायुक्तयोभिद्यन्ते। तद्यथा- ब्रह्मयज्ञस्य नित्यत्वं तावदविवादम्। प्रत्यक्षश्रुत्याब्रह्मयज्ञे अध्येतत्वत्वेन विनियुक्तानां कल्पसूत्राणां अनित्यत्वाङ्गीकारे नित्यानित्यसंयोगः प्रसज्येत। स च विरुद्धः। अतन्तेषामपि नित्यत्वमेष्टव्यम्। यद्यपि स्मृत्यधिकरणेनैव मन्वादिस्मृतीनामिव कल्पसूत्राणामपि वेदमूलकतया प्रामाण्यं सिद्धमेव, परन्तु न तथा श्रुत्यधीनं परतन्त्रं प्रामाण्यं, अपि तु वेदवत् स्वतन्त्रं प्रामाण्यमस्त्वितीमामधिका शङ्कामुद्भावयति- स्वातन्त्रेनणेति। कल्पसूत्राणामपि वेदत्वे स्मृतिवचनमपि प्रमाणयति- `षडङ्गमेके’ इति। एके आचार्याः शिक्षाव्याकरणादीनि षडङ्गान्यपि वेदं मन्यन्ते- इति भावः। अनेन षडङ्गान्तःपातितया कल्पसूत्राणां वेदत्वेसिद्धे, नित्यत्वमपि सिद्ध्यति, सिद्धे च नित्यत्वे न नित्यानित्यसंयोगरूपाविरोधः। अतश्च कल्पसूत्राणां वेदत्वमङ्गीकर्तव्यम्। यदि अवणीतशिष्टव्यवहाराभावात् वेदत्वं निष्यते तर्हि अस्तु वा वेदतुल्यत्वम्। तथात्वेच अपौरुषेयत्वनित्यत्वनाभान्ननित्यानित्यसंयोगदोष इति- पूर्वपक्षः।
    सिद्धान्तस्तु- दृढकर्तृस्मरणमेव कल्पसूत्राणां वेदत्वे बाधकम्। अस्तुनाम तत्तथा नित्यानित्यसंयोगविरोधस्य कः परिहार इत्याशङ्कायामाह- नित्यकर्मयोगस्त्विति। अयमर्थः- वेदस्तावत् प्रतिकल्पं प्रवर्तमनोऽपि न भिद्यते। त एवार्थाः, तान्येववर्णपदवाक्यानि, सैवचानुपूर्वी। कल्पसूत्राणि तु न तथा। तानि प्रतिकल्पं प्रवर्तमानान्यपि, अर्थाभेदेऽपि तत्कर्तॄणां भिन्नत्वात् आनुपूर्वीभिद्यत इत्येतावान् विशेषः तथात्वेऽपि प्रतिकल्पं कल्पसूत्राणां विद्यमानत्वात् ननित्यब्रह्मयज्ञविधिविषयत्वानुपपत्तिः, नवा नित्यानित्य संयोगविरोधः। उक्तमर्थमुपोद्बलयितुंलेञ्चन दृष्टान्तमह- जातिशब्दवदिति। मीमांसकमते गवादिशब्दानां जातावेव शक्तिः, व्यक्तिबोधस्तु आक्षेपाद्भवति। व्यक्तीनां अनित्यत्वेऽपि। जातेर्नित्यत्वात् तज्जात्याक्रान्तानां व्यक्तीनां सर्वदा (प्रतिकल्पं) संभवात् नगवादि वैदिक पदानामानर्थक्यं, तत्प्रयुक्तमप्रामाण्यंवेति अत्रैव आकृत्यधिरणे विचारयिष्यते। तद्वत् कल्पसूत्रव्यक्तीनां पौरुषेयतया अनित्यत्वेऽपि कल्पसूत्रत्वजात्याक्रान्तानां प्रतिकल्पं संभवात् ननित्यानित्यसंयोगविरोध इति।
    “षडङ्गमेके” इत्यत्र एकेशब्द एव तेषां वेदत्वस्य स्वानभिमतत्वं, पूर्वपक्षिमतत्वं च द्योतयतीति- यत्किञ्चिदेतत्।
    अवः-
    अधुना होलाकाधिकरणं प्रस्तौति- मन्वादिस्वरणानामिति।
    मूलम्ः-
    मन्वादि स्मरणानां होलाकाद्याचाराणां चाध्येतृविशेषेषु, देशविशेषेषु च परिग्रहोदृश्यमानोऽपि नाऽसौ श्रुतिमूलकः, तादृशश्रुतिकल्पने प्रमाणाभावात्। तस्मादेषां व्यवस्थानास्ति, परम्परया यथा प्राप्तं तथा अनुष्ठेयमित्यर्थः।
    व्याख्याः-
    मनुस्मृतिः प्रसिद्धा। आदिपदेन हारीतगौतम याज्ञवल्क्यादि स्मृतयः परिगृह्यन्ते। होलाका- `होवि’ इति व्यवह्रियमाणः फाल्गुन पूर्णिमामुपलक्ष्यक्रियमाणोवसन्तोत्सवः। अत्रादि पदेन ज्येष्ठपूर्णिमादिषु क्रियमाणाः उद्वृषभयज्ञादयो गृह्यन्ते। अत्र स्मृतीनां आचाराणां च साक्षात् परम्परया वा वेदमूलकत्वेन प्रामाण्येसंभवत्यपि, ये यं व्यवस्था, यथा-गौतमस्मृतिः सामगैरेवाध्येतव्या, याज्ञवल्क्यस्मृतिः यजुर्वेदिभिरेव। तथा होलाका उदीच्यैरेवकर्तव्या, उद्वृषभयज्ञोदाक्षिणात्यैरेवेति- सापरं निर्मूलैव। तत्तत्स्मृतिकर्तृभिः तत्तदाचारप्रवर्तकैश्च तथा अनुपदिष्टत्वात्, तत्तन्मूलभूतश्रुतिकल्पनावसरे- तत्तच्छाखाभेददेशभेदव्यवस्थाया अपि परिग्रहे गौरव प्रसङ्गात्। नन्वेवं यत्रैषां प्रचारो नास्ति तत्रत्यैरपि अवश्यमनुष्ठेया एवैते? नेत्याह- परम्परया यथा प्राप्तमिति।
    अवः-
    व्याकरणाधिकरणं संगृह्णाति- व्याकरणस्मृतिप्रामाण्यादिति।
    मूलम्ः-
    व्याकरणस्मृति प्रामाण्याद्गवाद्या एव साधवो, नगावीगोणी गोतागोपातलिकेत्यादयः, तेषामशक्तिजापभ्रंशरूपत्वात्।
    व्याख्याः-
    अशक्तिजापभ्रंशरूपत्वात्= अशक्तिः- वर्णाभिव्यञ्जकानां कण्ठतालुदन्तोष्ठादीनामसामर्थ्यं, तज्जनितः योऽपभ्रंशः- अन्यथोच्चारणं, तद्रूपत्यादित्यर्थः। ननु मन्वादिस्मृतिवत् पाणिन्यादिप्रणीतस्य व्याकरणस्यापि वेदमूलकत्वात् स्मृत्यधिकरणे नैव प्रामाण्येसिद्धे किमर्थँ इदमधिकरणमिति, चेत्, उच्यते- नियमद्वयार्थं हि व्याकरणम्! तत्र `साधूनेव प्रयुञ्जीत, नासाधून्’ इति प्रथमोनियमः। `गवाद्या एव साधवः, न गाव्याद्याः’ इतिद्वितीयः। तयोः प्रथमस्य- `एकश्शब्दः सम्यक्‌ज्ञातः सुप्रयुक्त स्स्वर्गेलोके कामधुग्भवति’इत्यादि श्रुतिमूलकत्वेन प्रामाण्ये सिद्धेऽपि, गवाद्या एव साधवः न गाव्याद्याः- इति नियमस्य न वेदमूलकत्वम्, किन्तु पूर्वपूर्वव्याकरणमूलकत्वमेव। भवन्ति हि प्रतिकल्पं कल्पसूत्रादिवत् व्याकरणान्यपि तत्तन्महर्षिभिः प्रणीतानि। तथा च स्मृत्यधिकरणेन अगतार्थं इमं विशेषं वक्तुमेव अधिकरणान्तरारम्भ इति न पुनरुक्तता।
    अवः-
    अथ लोकवेदाधिकरणार्थं विवृणोति- प्रयोगचोदनेति।
    मूलम्ः-
    `प्रयोगचोदनाभावात् अर्थैकत्वमविभागा’दित्यत्र- `एवं वेदेशब्दः प्रयोक्तव्यः, एवं लोक’ इति विशेषशास्त्राभावाल्लोकवेदयोः पदैकत्वं च। `य एव लौकिकाश्शब्दास्त एव वैदिका, स्त एव चामीषामर्था’ इति स्थितम्।
    व्याख्याः-
    `प्रयोगचोदनाभावादिर्थैकत्वमविभागा’दिति जैमिनीयमाकृत्यधिकरण सूत्रम्। अस्मिन्नधिकरणे वर्णकद्वयं कृत्वा पूर्वेण उत्तरवर्णक विचारोपोद्घाततया लोकवेदयोः पदपदार्थैकत्वं व्यवस्थापितम्। अत एवास्य लोकवेदाधिकरणमिति प्राचां व्यवहारः। पदैकत्वं च- इत्यत्र चकारः अर्थसमुच्चयार्थः। `इतिस्थितम्’ इत्यत्र शाबरभाष्ये इति शेषः।
    लोकवेदयोः पदपदार्थैकत्वसाधकानुपायान्निर्दिशति- तत्रेदि।
    मूलम्ः-
    तत्र- `पदावधारणोपायान्बहूनिच्छन्ति सूरयः। क्रमन्यूनातिरिक्तस्वरवाक्यश्रुतिस्मृति’रिति वचनात्।
    (1) यत्र जरा- राजा इत्यादौ क्रमान्वत्वं, तत्र तद्वशादर्थभेदः।
    (2) तथा ब्रह्म- ब्राह्मणादौ न्यूनातिरिक्तवर्णवशात्।
    (3) इन्द्रशश्रुरित्यादौ आद्युदात्तत्वे इन्द्रः शातयिता अस्येत्यर्थः, अन्तोदात्तत्वे इन्द्रस्यशातयिता इति- स्वरभेदात्।
    (4) गच्छत इत्यस्य पदस्य देवदत्त यज्ञदत्तौ- देवदत्तस्य- चैत्रमैत्रदेवदत्तान् इति पदान्तर समभिव्याहारे सति- तिङन्तद्विवचनत्वं, सुबन्ते, षष्ठ्येकवचनान्तत्वं, द्वितीया बहुवचनात्नत्वं वा भवति।
    (5) `यन्नाहीयत तदहीनस्याहीनत्वम्’ `अह्नः खः क्रतौ’ इति श्रुतिस्मृती तु अहीन पदस्यार्थभेदिके न हीनोऽहीनः- अह्नाः समूहोऽहीन इति। देवासः- त्मना इत्यादौ क्वचित्पदभेदेऽपि अभेद एव; एकदेशन्यूनाधिकत्वेऽपि तदेवेदं पदमिति प्रत्यभिज्ञानात्, अभेदज्ञापकानुमानाच्च। अतस्सिद्धोलोकवेदयोः पदानां तदर्थानां चाभेदः।
    व्याख्याः-
    तदिह प्रतिपिपादयिषि तस्य अभेदस्य भेदावगतिपूर्वकत्वात् प्रथमं भेदसाधकोपाय संग्राहकं वार्तिकमुदाहृत्य, तदर्थं स्वयमेव विवृणोति- तत्रेति, `इन्द्रशत्रु’रित्यत्र इन्द्रस्य शातयिता- इति विग्रहे तत्परुषसमासे, `समासस्य (पा.6-1-223) इति सूत्रेण अन्तोदात्तत्वे, `अनुदात्तं पदमेकवर्जम्’ (6-1-158)’ इति सूत्रेण आद्याक्षरत्रयस्य अनुदात्तत्वे च `इन्द्रशत्रुः’ इति रूपं सिद्ध्यति। इन्द्रः शातयिता यस्य - इति विग्रहे, बहुव्रीहिसमासे `बहुव्रीहौ प्रकृत्यापूर्वपदम्’ (6-2-1)’ इति सूत्रेण पूर्वपदप्रकृतिस्वरत्वविधानात्, इन्द्र इतिपूर्वपदस्य वृषादित्वेन `वृषादीनां च (6-1-203)’ इति सूत्रेणाद्युदात्तत्वे, तत उत्तरेषां त्रयाणां वर्णानां `अनुदात्तं पदमेकवर्जम्’ इति शेषनिघाते, इकारादुत्तरस्य `उदात्तादनुदात्तस्य स्वरितः’ (8-4-66) इति स्वरितत्वे, तदुत्तरयोर्द्वयोरपि `स्वरितात्सं हितायामनुदात्तानाम् (1-2-39)’ इति प्रचयस्वरत्वे च सति `इन्द्रशत्रुः’ इति रूपं भवति। गच्छत इत्यस्येति। गच्छतः इति पदस्य `देवदत्तयज्ञदत्तौ’ इति प्रथमाद्विवचनान्तपदसमवधानेतिङन्त द्विवचनान्तत्वं ज्ञेयम्। तस्यैव- `देवदत्तस्य’ इति पदसमवधाने सुबन्तं षष्ठ्येकवचनान्तत्वम्। तस्यैव `चैत्रमैत्रदेवदत्तान्’ इति पदसमवधाने द्वितीया बहुवचनान्तत्वमिति विभागः। अहीन पदस्य श्रुतिस्मृत्योरर्थभेदमुदाहरति- यन्नाहेयतेति। इत्थं पदभेदावधारणोपायान्काश्चिदुदाहृत्य, अथ प्रत्यभिज्ञाबलेन लोकवेदयोः पदैक्यमुपपादयति- देवास इत्यादिना। अत्रेदमवधेयम्- यत्र अर्थभेदप्रयोजकः वर्णक्रमव्यत्यय- न्यूनातिरिक्तत्वादिधर्मभेदः, तत्रैव पदभेदः। यत्र तु नार्थभेदप्रतीतिः तत्र सत्यपि धर्मभेदे दृढतरप्रत्यभिज्ञाबलेन एकत्वनिश्चयात् न पदभेद इति। यथा- आत्मनात्मना, देवाः वेदा स इत्यादौ। प्रत्यभिज्ञा लक्षणं तु - `भातस्य कस्य स्यचित्पूर्वं भासमानस्य साम्प्रतम्। सोऽयमित्यनुससन्थानं यत्प्रत्यभिज्ञानमिष्यते’ इति। `एकदेशविकृत मनन्यवत्’ इति न्यायाच्च। एवं च - आत्मनात्मना, देवाः- देवासः इत्यादौ न पदभेदः, अर्थभेदप्रतिपत्त्यनुकूलधर्मभेदाभावे सति, तदेवेदमिति प्रत्यभिज्ञायमानत्वादित्याशयः।
    मूलम्ः-
    शब्दार्थस्त्वाकृतिरेव, व्यक्तेर्लक्षणयाऽऽक्षेपसंभवा, न्नवाच्यकोटावनुप्रवेशः।
    अवः-
    इत्थं सिद्धे लोकवेदयोः पदपदार्थैक्ये, इदानीं पदार्थः किं व्यक्तिः, उतजातिरिति निश्चेतुं आकृत्यधिकरणमारभते- शब्दार्थस्त्विति।
    व्याख्याः-
    `अनन्यलभ्यः शब्दार्थः’ इति शास्त्रज्ञानां समयः। यद्यपि एकस्मादेवपदात् अनेके अर्थाः प्रतीयन्ते। परन्तु न ते सर्वे शक्यार्थाः। तेषामर्थानां यः कोऽपि एक एव शक्यार्थोभवति, अन्येतु आक्षेपात् लक्षणादिना वा प्रतीयन्ते। प्रमाणान्तरलभ्यानामपि शक्यार्थत्वस्वीकारे अनेकत्र शक्तिकल्पना प्रयुक्तं गौरवमापद्येत। अतः लाघवात् यः प्रमाणान्तरेण न लभ्यते स एव शब्दस्य मुख्या(शक्या)र्थ इति शास्त्रज्ञानां समयः। यत्र तु अर्थान्तरस्य प्रापकं प्रमाणं न किञ्चिदुपलभ्यते तत्रैव अगत्या अनेकत्र शक्तिरिष्यते, यथा - पुष्पवन्ताविति। दिवाकर- निशाकराविति तदर्थः। अत्र हि दिवाकरे शक्तिः, निशाकरस्तु प्रमाणान्तरलभ्यः, अथवा - निशाकरे शक्तिः, दिवाकरः प्रमाणान्तरलभ्य इत्यत्र विनिगमका भावात् उभयत्रशक्तिः।
    यद्यपि घटपदोच्चारणे घटत्वप्रकारक घटविशेष्यक शाब्दबोधोऽनु भवसिद्धः, तथापि न विशेष्टे शक्तिः, गौरवात्, किन्तु `नागृहीत विशेषणाबुद्धिर्विशेष्यमुपसंक्रामति’ इति न्यायेन लाघवात् प्रथमोपस्थितत्वाच्च आकृतावेवशक्तिः। व्यक्तिबोधस्तु आक्षेपात् लक्षणया वा भवतीति नकाचिदनुपपत्तिः। आकृतिर्जातिरित्यनर्थान्तरम्।
    स च जातावेव शक्तिरित्युक्ते, गामानय, व्रीहीनवहन्ति। ब्राह्मणो न हन्तव्यः इत्यादिषु अमूर्तायां गोत्वादि जातावानयनादि क्रियान्वयायोगात्तेषामप्रामाण्योपत्तिरिति वाच्यम्; तादृशस्थलेष्वनुपपत्ति परिहारार्थं गवादि पदैर्गोत्वादि वाचकै, स्स्वाश्रयतया नित्यसन्निहितानां व्यक्तीनां लक्षणया, आनयनादि क्रियान्वयस्य सुसंपादत्वात्, “येन विनायन्नोपपद्यतेतप्तेनाक्षिप्यते” इति न्यायात्।
    किञ्च- “श्येनचितं चिन्वीत्” इत्यादौ, श्येन इव चीयते इति विग्रहात् इवशब्दवाच्यसादृश्यप्रतियोगितया श्येनपदेन श्येनाकृतिरेव गृह्यते न व्यक्तिरिति सर्वसम्मतमेव।
    मूलम्ः-
    एवं विधीनां स्वातन्त्र्येण, अर्थवादमन्त्रयोस्तत्‌स्तुति- स्मृत्यर्थत्वेन, स्मृतीनां तन्मूलत्वेन च प्रामाण्यं दर्शितम्।
    व्याख्याः-
    तत् स्तुति स्मृत्यर्थत्वेनेति= तच्छब्देन अर्थवाद- मन्त्रैगृह्येते। विधिविहिंछा। कर्मणां स्तावकत्वेनार्थवादन्य, विहितस्य कर्मणः प्रयोगकालेस्मारकत्वेन मन्त्रस्य च प्रामाण्यमित्यर्थः।
  • इति तृतीयः पादः -
    स्मृतीनां तन्मूलकत्वेन चेति= वैदिकविधिमन्त्रार्थवादत्रितयमूलकत्वेनेत्याशयः।
    इति प्रथमाध्यायस्य तृतीयः पादः।

अथ प्रथमाध्यायस्य चतुर्थः पादः

अवः-
अथ चतुर्थोनामधेयपाद आरभ्यते। तत्र उद्भित् बलभित् इत्यादि वैदिकनामधेयानां पूर्वोक्तेषु विध्यर्थवादमन्त्रेषु क्वाऽप्यनन्तर्भावात् कथं प्रामाण्यमिति जिज्ञासायामाह- उद्भिदायजेजेति।
मूलम्ः-
उद्भिदायजेतेत्यादावुद्भिदादि पदानामपि वेदावयवत्वात्प्रसक्तं प्रामाण्याम्। तत्किं गुणविधित्वेन, यागनामधेयत्वेनवेतिचिन्त्यते।
व्याख्याः-
इहनिमित्त चतुष्टयान्नामधेयत्वमुच्यते- मत्वर्थलक्षणाप्रसङ्गात्, वाक्यभेदभयात्, तत्प्रख्यशास्त्रात्, तद्व्यपदेशाच्चेति। वेदावयवत्तात्= वेदवाक्यघटकत्वादित्यर्थः। ननु सिद्धेवेदवाक्यानां प्रामाण्ये, तद्घटकानां नामधेयपदानामपि प्रामाण्यमन्यथानुपपत्त्यैवसिद्धम्, किमत्र पुनर्विचारणीयमितिचेत्, सत्यं सिद्धमेव सामान्यतः प्रामाण्यम्, इह पुनस्तत्प्रकार विशेषचिन्ताप्रस्तुता, अतो न पौनरुक्त्यमित्याह- तत्किं गुणविधित्वेनेत्यादिना। गुणः- उपकरणं, अङ्गमिति यावत्। तत्र प्रथमंमत्वर्थलक्षणाप्रसङ्गान्नामधेयत्वं उदाहरति- तत्रेति।
मूलम्ः-
तत्राद्ये `उद्भिदायजेत’ `बलभिदायजेत’ इत्यादौ उद्भिद्वतायागेनेष्टं भावयेदिति मत्वर्थलक्षणा दोषान्नामधेयत्वम्। सोमेन यजेत्वादौतु सोमशब्दस्य लतायां रूढत्वात् यागनामत्वासंभवेन अगत्यासोमवतेति लक्षणाश्रयणम्। अत्र तु उद्भिदादि पदार्थस्य लोकाप्रसिद्धत्वात् न तद्युक्तम्।
व्याख्याः-
ननु नामधेयत्वाङ्गीकारो नातीव प्रयोजनवान्। तदपेक्षया `उद्भिद्यते भूमिरनेन’ इति व्युत्पत्त्या उद्भित्पदस्य खनित्रादि रूपपदार्थपरत्वमङ्गीकृत्य तदेवयागोद्देशेन विधीयतां- इत्याशङ्कयामाह- उद्भिद्वतेति। तत्र प्रत्ययवाच्यायाः भावनायाः भाव्याकांक्षायां योग्यतानुरोधेन पशुकामपदोपात्तानां (पशूनां) कर्म (भाव्य)त्वेनान्वये, ततः समानपदश्रुत्याधात्वर्थस्य यागस्य करणत्वे नचान्वये यागे न पशून् भावयेत् इत्यर्थः सिद्धः। ततश्च भवदुक्तरीत्या उद्भित्पदस्य खनित्रादि परत्वमङ्गीकृत्य, तत्रत्यतृतीयाश्रुत्यनुरोधेन तस्य खनित्रादेः करणत्वेन भावनायामन्वयो वक्तव्यः। किन्तु नैतत्संभवति; ततः प्रागेव समानपदोपात्तं तया यागरूपेणकरणेनावरुद्भायाः भावनायाः आकांक्षाभावेन भिन्नपदोपात्तस्य करणान्तरस्य अन्वयायोगात्। न च संभवति- उद्भिदायागेनेति सामानाधिकरण्येनान्वयः। उद्भित्पदं खनित्ररूपद्रव्यवाचि। यजिधातुश्च यागरूपक्रियावाची। नहि द्रव्य- क्रियावाचिनोस्तयोरैकरूप्येण सामानाधिकरण्ये नान्वयस्संभवति। अतश्च उद्भित्पदेमत्वर्थलक्षणामङ्गीकृत्य उद्भिद्वता यागेन पशून्भावयेदित्यर्थोवाच्यः। न च उच्यतां तथैवेति वाच्यम्; संभवति लक्षणाना पादकवाक्यार्थे लक्षणाङ्गीकारस्यैवदोषत्वात्। नामधेयत्वाङ्गीकारे उद्भिदा= उद्भिन्नामकेन यागेन पशून्भावयेदि सामानाधिकरण्ये नैवान्वयः। तदेतत्सर्वं संक्षिप्यब्रूते- उद्भिद्वतायागेनेष्टं भावयेदित्यादि। अत्र इष्टपदं पशुरूपफलपरं द्रष्टव्यम्। ननु `सोमेनयजेत’ इत्यत्र यागसामानाधिकरण्य सिद्ध्यर्थं सोमपदेमत्वर्थलक्षणामङ्गीकृत्य सोमवतायागेनेष्टं भावयेदित्यर्थोवर्ण्यते सिद्धान्तिनैव। तद्वदत्राऽपि उद्भिद्वता यागेनेत्यर्थोवर्ण्यताम्, काक्षतिरितीमामाशङ्कां समाधत्ते- सोमेनयजेतेत्यादौत्विति। विषमोदृष्टान्त इति भावः।
अथवाक्यभेदभयान्नामधेयत्वं निरूपयति - तधादधिमध्विति-
मूलम्ः-
तथा- `दधिमधुघृतं पयोधाना उदकं तण्डुलास्तत्संसृष्टं प्राजापत्य’मिति प्रकृत्य, `चित्रयायजेतपशुकाम’ इति प्राप्तकर्मानुवादेन चित्रत्वस्त्रीत्वलक्षण गुणद्वयविधाने वाक्यभेदात्, नामधेयत्वे तु प्रकृतयाग एव फलान्वयान्नकश्चिद्दोष इति- चित्रापदमपि यागनामधेयम्।
व्याख्याः-
प्राप्तकर्मानुवादेनेति= अयमर्थः- चित्रयायजेत इत्यत्र यजिना, प्राप्तं यत्कर्म= `दधिमधुघृत……‘मित्यादि वाक्येन विहितं- दधिमध्वाविद्रव्यकं- प्रजापति देवता कं च यत्कर्म, तदनुवादेन= तदुद्देशेनेत्यर्थः। `चित्रया’ इत्यत्रप्रातिपदिकेन प्रतीयमानस्य चित्रत्वस्य, प्रत्ययेन प्रतीयमानस्य स्त्रीत्वस्य चेति द्वयोर्गुणयोर्विधाने वाक्यभेदःस्यात्। `प्राप्तेकर्मणिनाऽनेको विधातुं शक्यते गुणः’ इतित्यायादित्याशयः। यागनामधेयत्वाङ्गीकारे नाऽयं दोष इत्याह- नामधेयत्वेत्विति। प्रकृतयाग एव= `दधिमध्वित्यादिवाक्यविहिते चित्रानामके यागे इत्यर्थः। फलान्वयात्- पशुरूपफलकरणत्वेन, स्वीकारात् सम्बन्ध- चित्रानामकेनयागेन पशून्भावयेदिति।’
वस्तुतस्तु- `चित्रया’ इत्यत्र प्रकृतिप्रत्ययाभ्यामरगम्यमानयोः चित्रत्वस्त्रीत्वयोः प्राणिधर्मत्वप्रसिद्धेः, प्रकृतेदधिमध्वाद्यप्राणिद्रव्यके यागे तन्निवेशा संभवात्, `अग्नीषोमीयं यजिना अनूद्य, तदुद्देशेन’ चित्रया इत्यनेन चित्रत्व- स्त्रीत्वे, विधीयेते। यागाङ्गत्वेन विहितयोरपि तयोः साक्षाद्यागिनिवेशा संभवात् `आनर्थक्यतदङ्ग (पू.मू. 3-1-9)न्यायेन, यागाङ्गपश्वङ्गत्वेन निवेशस्स्वीक्रियते। तथा च योऽयमग्नीषोमीयः पशुः स चित्रवर्णः स्त्रीरूपश्चेत्यर्थोलभ्यते। इत्थं गुणविधित्वे संभवति, नामधेयत्वकथनमयुक्तमिति पूर्वपक्षयित्वा, प्राप्ताग्नीषोमीयपशुयागानुवादेन चित्रत्व- स्त्रीत्वरूपगुणद्वयविधाने अनेकविधानप्रयुक्तोवाक्यभेदः। किञ्च - `कृष्णसारङ्गोऽग्नीषोमीयः’ `अजोऽग्नीषोमीयः’ इत्यादि प्राकरणिक वचनानुरोधेन अग्नीषोमीयपशोः कृष्णसारङ्गवर्ण- पुंस्त्वाभ्यामवरुद्धत्वेन, तत्र चित्रत्व स्त्रीत्व विधानानुपपत्तेश्च, नगुणसमर्पकं चित्रापदं, किन्तु यागनामधेयमेव, तथा सति प्रकरणानुग्रहोऽपि लभ्यते- प्रकृतस्यैव दधिमध्वादि द्रव्यकस्य यागस्यैव यजिना परामर्शात्, तस्यैव विचित्रद्रव्यत्वेन चित्रानामधेयत्वाङ्गीकारात्, चित्रानामके नयागेन पशून्भावयेत्’ इत्यर्थसंभवात्। ननु `याग’शब्दः पुंलिङ्गः। स कथं `चित्रया’ इति स्त्रीलिंगशब्देन विशेष्टुमर्हतीति चेत्, नात्र पुमान् यागशब्दः साक्षात् श्रूयते। किन्तु यज धातुः श्रूयते। तस्य स्त्रियांक्तिन् प्रत्यये, `वचिस्वपि’ इति संप्रसारणे, `व्रश्च’ इति षत्वे, `इष्टिः’ इति रूपं सम्पद्यते। तस्याश्च- स्त्रीत्वात्, चित्रया इष्ट्या’ इति समानाधिकरण्य संभवाच्च न कश्चित् दोष इति- प्राचीन ग्रन्थानुसारिणी विचारसरणिर्द्रष्टव्या।
अवः-
इदानीं तत्प्रख्यशास्त्रात् नामधेयत्वं निरूपयति- `अग्निहोत्रं जुहोदीत्यत्रेति।’
मूलम्ः-
`अग्निहोत्रंजुहोति’ इत्यत्र अग्नये होत्रं- यस्मिन्नितिव्युत्पत्त्या अग्निरूपगुणविधानं- वाक्यात्। धात्वर्थविधानं तु सन्निहिततरम्। सचात्र अग्निपदमनन्यगतिकम्; उक्तव्युत्पत्त्यैव तस्य धात्वर्थनामवयवत्वसम्भवात्। `अग्निर्ज्योतिर्ज्योतिरग्निःस्वाहा’ इति मन्त्रलिङ्गं विधित्सितस्य गुणस्य प्रख्यापकमन्यच्छास्त्रमस्ति। अतोऽग्निहोत्रपदमपि कर्मनामधेयम्।
व्याख्याः-
वाक्यादिति अत्र- वाक्यात् इत्यनन्तरं- `कर्तव्यं, तदपेक्षया’ इति पदद्वयमर्थसौलभ्याययोजनीयं मूले। अग्निरूपगुणविधाने विधिवाक्यघटकेन पदान्तरेण प्रतिपाद्यस्य अर्थस्य विधानात् वाक्यार्थविधानं स्यादित्याशयः। तदपेक्षया धात्वर्थस्य- `जुहोति’ इत्यत्र प्रकृत्यर्थस्य होमस्य विधानं सन्निहिततरम्; तस्य समानपदोपात्तत्वात्। सन्निहितं होमं परित्यज्य अन्यपदगम्यस्य व्यवहितस्य अग्निरूपगुणस्य परिग्रहः अन्याय्य इत्यर्थः। नन्वत्र धात्वर्थ विध्यङ्गीकारे अग्निहोत्रपदमनर्थकं स्यात्, तदर्थस्य उद्देश्यत्वेन विधेयत्वेन वा भावनाया मनन्वयादित्यभिप्रेत्य चोदयति- नचात्रेति। समाधत्ते- उक्तव्युत्पत्त्येति। धात्वर्थनामावयवत्वसंभवादिति- धात्वर्थो यो होमः, तन्नामधेयं- `अग्निहोत्र’मिति समस्तं पदम्। तदवयवभूतमग्निपदम्। अवयवार्थं क्रीडीकृत्यैव अवयवीस्वार्थं प्रतिपादयति। तथा च विशिष्टार्थे विशेषणगत्या अग्निपदस्य सार्थक्यसंभवात् न अग्निपदस्य अनन्यगतिकत्वमिति भावः। `तत्प्रख्यंचान्यशास्त्रम्’ इत्यधिकरण सूत्रार्थं विवृण्वन्नग्निहोत्रपदस्य नामधेयत्वं समर्थयति- `अग्निर्ज्योतिश्ज्योतिरग्नि’रिति।
मूलम्ः-
`श्येनेनाभिचरन् यजेत’ इत्यत्राऽपि `यथा हवैश्येनोनिपत्यादत्त एव यं द्विषन्तं भ्रातृव्यं निपत्यादत्ते’ इति श्येनवद्व्यपदेशात् श्येन पदमन्यत्र रूढमपि यागनामधेयम्, न गुणविधिपरम्।
व्याख्याः-
तद्व्यपदेशान्नामत्वमुपपादयति- श्येनेनाभिचरन् यजेतेति। अभिचरन्= शत्रुवधकाम इत्यर्थः। तेन श्येननामकोयागः कर्तव्यतया अनेन वाक्येन विधीयते। श्येनशब्दः पक्षिविशेषवाचकत्वेन प्रसिद्धः। स एव यागसाधनतया अत्र ग्रहीतव्य इति पूर्वमक्षीमन्यते। तत्र बाधकमाचष्टे- श्येनवद्व्यपदेशादिति। विधि सन्निहिते `यथावैश्येन’ इत्यर्थवादवाक्ये प्रसिद्धं श्येनपक्षिणमुपमानीकृत्य तत्समानधर्मतया प्रकृतस्य यागस्यस्तूयमानत्वादित्यर्थः। एवं स्थिते- विधिवाक्यस्थश्येनपदेनाऽपि प्रसिद्धश्येनपक्षिण एव ग्रहणे, एकस्यैव उपमानत्व- मुपमेयत्वं च उक्तं स्यात्। तच्च लोकविरुद्धम्। लोके च। उपमानोपमेयभावस्य भिन्नपदार्थनिष्ठत्वप्रसिद्धेः। अतो विधि वाक्यस्थं श्येनपदं न श्येनपक्षिरूपगुण समर्पणपर, मपि तु यागनामधेयमित्यङ्गीकारान्नकश्चिदोषः। उपमानोपमेयाभावश्च। हृदयङ्गमस्सिध्यतीति।
मूलम्ः-
वाजपेयेन स्वाराज्यकामोयजेतेत्यत्र उक्तनिमित्तचतुष्टयाभावेऽपि वाजंसुराद्रव्यं पेयमस्मिन्निति न गुणविधानं; विरुद्धत्रिकद्वयापत्तेः वाक्यभेदावश्यं भावेन तत्र (न्त्र) सम्बन्धायोगात्। न हि सकृदुच्चरितः प्रत्ययः धात्वर्थस्य युगपत् फलेन गुणेन वाजेन च सम्बन्धं कर्तुमीष्टे।
व्याख्याः-
नामधेयत्वे निमित्तचतुष्टयमुक्त्वा तत्र कंचन विशेषं वक्तुं वाजपेयवाक्यमुदाहरति- वाजपेयेन स्वाराज्यकामोयजेतेति। अत्र - `उक्तनिमित्तचतुष्टयाभावेऽपि’ इति वचनं- युक्त्यभ्युच्चयमात्राभिप्रायम्। तदभावेऽपि नक्षतिः, इह निर्दिश्यमान विरुद्धत्रिकद्वयापत्तिवशादेव नामधेयत्वस्य साधयितुं शक्यत्वादिति भावः। अत्रमूले `पेयमस्मिन्’ इत्यत उत्तरं, `नगुणविधानम्’ इत्यतः पूर्वं, `इतिव्युत्पत्त्यायागनामधेयत्व संभवात्’ इत्यध्याहृत्यवाक्यार्थोयोजनीयः।
तथा च- अत्र वाजपेय पदस्य बहुव्रीहिसमासमाश्रित्य, वाजः- अन्नं, तच्च सुरारूपतया पेयः अस्मिन्निति विग्रहकरणं सिद्धान्तरीत्यायागनामधेयत्वे संगच्छते। पूर्वपक्षरीत्या तु- कर्मधारय समासमाश्रित्य वाजश्चासीपेयश्चेति विग्रहकरणेन सुराद्रव्यवाचित्वे सति तस्य यागोद्देशेन विधानं वाच्यम्।
तत्र वाजपेयपदस्य गुणसमर्पकत्वाङ्गीकारे, विरुद्धत्रिकद्वयापत्तिर्दोषः, वाक्यभेदाङ्गीकारेण तद्वारणेऽपि तदानीं वाक्यभेदोऽपि दोष एव। ननु मास्तु वाक्यभेदः, तन्त्रसम्बन्धाङ्गीकारेण एकवाक्यतयैव निर्वोढुं शक्यत्वादित्यत आह- तन्त्र सम्बन्धायोगादिति। सम्बन्धायोगमेव वाक्यभेदप्रयुक्तं विशीदयति- न हि सकृदुच्चरित इति। `सकृदुच्चरित लिङ् प्रत्ययरूपःश्शब्दः सकृदेवार्थं गमयति नासकृत्’ इतिन्यायादित्यर्थः।
मूलम्ः-
तथा हि- वाजेनयागं यागेन स्वाराज्यं इत्यन्वये यागस्यफलं प्रति विधेयत्वं, उपादेयत्वं, गुणत्वं च। वाजगुणं प्रति अनुवाद्यत्वं, उद्देश्यत्वं, प्रधानत्वं च। तत्र विधेयत्वादित्रयं- ज्ञाप्यमनुष्ठेयं शेषभूतं च। अनुवाद्यत्वादित्रयं- ज्ञात, मननुष्ठेयं, शेषिभूतं चेति नैकस्मिन् ज्ञाप्यत्वज्ञातत्वादिके संभवतः, मिथोविरुद्धत्वात्।
पूर्वेष्वप्ययं दोषोऽनुगतोज्ञेयः। तमभ्युपेत्यैवाधिकधोष विवक्षया अ(त)त्र विचारः प्रवर्तितः। तस्मान्नामधेयं वाजपेयपदमिति सिद्धम्।
व्याख्याः-
विरुद्धत्रिकद्वयापत्तिं विवृणोति- तथाहीति। ननु पूर्वोक्तेषु उद्भिदाद्युदाहरणेष्वपि अयं दोषः प्रसञ्जयितुं शक्यत एव, कुतस्तत्रतमुपेक्ष्य दोषान्तरापत्तिप्रदर्शनेन नामधेयत्वं सिद्धान्तितमित्याशङ्कामिष्टापत्त्यापरिहरन् विरुद्धत्रिकद्वयापत्तिरूपं विशेषं दर्शयति- पूर्वेष्वपीते।
मूलम्ः-
यद्यप्येवं जातीयकेषु वाक्यभेदोदोष, स्तथाऽपि यत्रापूर्वं कर्मविधीयते तत्रानेकगुणविशिष्टमपि तद्विधीयते। विशिष्टस्यैकत्वाच्च न वाक्यभेदोदोषावहः। यथोक्तम्-
“प्राप्तेकर्मणि नानेको विधातुं शक्यते गुणः ।
अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ॥” इति।
यथा- `यदाग्नेयोऽष्टाकपालोऽमावास्यायाञ्चपौर्णमास्यां चाच्युतो भवति’ इति, तावब्रूतामग्नीषोमावाज्यस्य नावुपांशुवौर्णमास्यां जयन्, ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासेप्रायच्छत्, ऐन्द्रं दध्यमावास्यायाम्, ऐन्द्रं पयोऽमावास्यायाम्, इत्यादौ युगपत् द्रव्यदेवताकालोपांशुत्वादि गुणविशिष्टकर्मविधानेऽपि न दोषः।
व्याख्याः-
इत्थं अनेकविधाने वाक्यभेदप्रसङ्गाद्गुणविधित्वनिराकरण पूर्वकं नामधेयत्वं समर्थ्ययत्र अनेकविधानेऽपि न वाक्यभेदः, नाऽपि नामधेयत्वं तादृशं विशेषं प्रस्तौति- यद्यप्येवंजातीयकेष्विति। एवं जातीयकेषु= उद्भिदादिष्वत्यर्थः। अपूर्वं= प्रमाणान्तरेण पूर्वमप्राप्तं। विशिष्टस्य= गुणगुणि समुदायस्य। अत्र तन्त्रवार्तिकं प्रमाणयति- प्राप्तेकर्मणीति। अस्यां कारिकायां `कर्मणि’ इति पदं उद्देश्यमात्रमुपलक्षयति। गुणपदं च विधेयमात्रम्। तथा च- एकोद्देशेन अनेकविधाने वाक्यभेद इत्यर्थः पर्यवस्यति। एकयत्नतः= एकयैव भावनयेत्यर्थः। तदेतत् सोदाहरणं स्पष्टयति- यथा- यदाग्नेय इति। `यदाग्नेय’ इतिवाक्ये, अग्निदेवता- अष्टाकपालपुरोडाश- अमावास्या पौर्णमास्यन्यतरकालरूपानेकगुण विशिष्टोयागो विधीयते। `तावब्रूता’मितिवाक्ये अग्नीषोमदेवता- आज्यद्रव्य- उपांशुस्वर- पौर्णमासीकालरूपगुणचतुष्टय विशिष्टोयगोविधीयते। `ताभ्यामेत’मिति वाक्ये, अग्नीषोमदेवता- एकादशपालपुरोडाश- पूर्णमासकालरूपगुणत्रय विशिष्टोयागोविधीयते। `ऐन्द्रंदधि’ इति वाक्ये, इन्द्रदेवता- दधिद्रव्यं- अमावास्याकालश्चेति गुणत्रयविशिष्टोयागः। `ऐन्द्रंपय’इतिवाक्ये, इन्द्रदेवता- पयोद्रव्यं- अमावास्याचेति गुणत्रय विशिष्टोयागोविधीयते।
यद्यप्येतेषु वाक्येषु `यजेत’ इति प्रत्यक्षोविधिर्नास्ति, तथाऽपि द्रव्यदेवता सम्बन्धान्यथानुपपत्त्याकल्पितोयागः वाक्यस्थेन भवत्यादिनालक्षणीयः। तदभावे तु `यजेत’ इति पदमेव वाक्यार्थपूरणाय अध्याहर्तव्यम्।
किञ्च वस्तुतः- सर्वत्र भावनाया एव विधेयत्वं शास्त्रसिद्धं, नधात्वर्थस्य, नाऽपि उपपदार्थस्य विधीयमाना च सायत्किञ्चित्कारकं विषयाकृत्यैव विधीयते। निर्विशेषायास्तस्याः विधानानर्थक्यात्, अयोग्यत्वाच्च। तथाऽपि विशिष्टविधाने विशेषणानामपि अर्थाद्विधिस्सिद्ध्यत्येवेति, `यागोविधीयते’ `गुणोविधीयते’ इत्यादि व्यवहारोनदुष्यति- सुबोधार्थत्वात्।
मूलम्ः-
बर्हिराज्ययूपाहवनीयादिशब्दा वैदिकप्रसिद्ध्या संस्कारनिमित्ता अपि व्रीह्यादिनज्ञातिशब्दा एव। प्रोक्षणी निर्मन्ध्यशब्दौतु योगरूढावेव।
व्याख्याः-
कर्मनाम विचारप्रसङ्गपरिप्राप्तमधिकरणत्रयात्मकं बर्हिरादि द्रव्यनामविचारं संक्षिप्य सिद्धान्तमुखेन दर्शयति- तर्हिरिति। व्रीह्यादिवत्= व्रीह्यादिशब्दवत्। अत्र `बर्हिर्लुनाति’ `आज्यंविलापयति’ `पुरोडाशं पर्यग्निकरोति’ इति वाक्यैः बर्हिराज्यपुरोडाशशब्दानां यथाक्रमं लवन- विलापन- पर्यग्निकरणरूपसंस्कारनिमित्तत्वं प्रतीयते। किन्तु `बर्हिरादायगावोगतां’ `आज्यंक्रय्यम्’ `पुरोडाशेन मे माता प्रहेलकं ददाति’ इत्येवं संस्कारं विनापि जातिमात्रमुपजीव्यलोके प्रयोगदर्शनात् जातिवाचकत्वमेष्टव्यमित्याशयः।
अत्रेदं चिन्त्यम्- शास्त्रदीपिका भाट्टदीपिका न्यायमालादिषु प्राचांग्रन्थेषु बर्हिराज्यपुरोडाशशब्दानां संस्कारनिमित्तत्वं ब्रुवता पूर्वपक्षिणा यूपाहवनीयशब्दौदृष्टान्ततयानिर्दिष्टौ। इह तु ग्रन्थकृता बर्हिराज्यशब्दाभ्यां सहयूपाहवनीयशब्दावपि समस्य सर्वेषामपि वैदिकप्रसिद्ध्या संस्कारनिमित्तत्वेऽपि लोकप्रसिद्ध्याजातिवाचकत्वमेवेत्युक्तम् अस्तुनाम तत्तदैव बर्हिराज्यशब्दयोर्विषये। यूपशब्दस्तु शास्त्रस्थैः दृष्टादृष्टसंस्कारवत्येव दारुणि प्रयुज्यते, न तद्रहिते दारुमात्रे। तथा आहवनीयशब्दोऽपि समन्तक सम्भूराधिकरणकनिधानादि संस्कारवति अग्नावेव प्रयुज्यते, नत्वग्निमात्रे। अतश्च `बर्हिराज्यातिशब्दाः यूपाहवनीयादिशब्दवत्’ इत्येतदर्थकतया पोठोयोजनीयः। यधा श्रुतपाठस्तु प्रतिलिपिकृतां मुद्रापकाणां वा अनवधानप्रयुक्ते इति। भाति।
प्रोक्षणीनिर्मन्थ्यशब्दौत्विति। तत्र प्रोक्षणशब्दः `प्रकर्षेण उक्ष्यते आभिः’ इति प्रकृष्टोक्षण साधनत्वरूपं योगं पुरस्कृत्य अफ्सुप्रवृत्तत्वात् योगरूढः, निर्मन्थ्यशब्दस्तु अचिरनिर्मथिते अग्नौ प्रवर्तमानोयोगरूढः।
मूलम्ः-
चातुर्मास्येषु `आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुगं सावित्रं द्वादशकपालगं सारस्वतं चरुं पौष्णं चरुंमारुतगं सप्तकपालं वैश्वदेवीमामिक्षांद्यावापृथिव्यमेककपालम्’ इत्यस्य सन्निधौ श्रूयते- `वैश्वदेवेन यजेत’ इति। तत्र वैश्वदेवपदं छत्रिन्यायेनाष्टानां नामधेयमिति। `यद्विर्वेदेवाः समयजन्त तद्वैश्वदेवस्य वैश्वदेवत्व’मिति योगादष्टानामप्येतन्नामधेयम्। एषां च नाम्नां `वैश्वदेवेनयक्ष्ये’ इत्येवमादि व्यवहारसिद्धावुपयोगः। एवं वरुणप्रघास साकमेधशूनासीर शब्दा अपि समुदायानामेवानु वादिकाः।
व्याख्याः-
इत्थं प्रासङ्गिकं परिसमाप्यप्रकरणप्राप्तं नामधेयत्वविचार?नानु वर्तयति- चातुर्मास्येष्विति। चतुर्षुचतुर्षु मासेषु कर्तव्यः वैश्वदेव- वरुणप्रघास- साकमेध- शूनासीरीयाख्य पर्वचतुष्टयात्मकः हविर्यागविशेषः `चातुर्मास्य’ नाम्ना व्यवह्रियते। तत्र वैश्वदेवाख्येप्रथमेपर्वणि श्रूयते- `आग्नेयमष्टाकपालं निर्वपति’ इत्युपक्रम वाक्यम्। अत्र द्रव्यदेवता सम्बन्धानुमिताः आग्नेयादयः अप्टौयागाः विधीयन्ते। तत्सन्निधौ पठितमितमिदं `वैश्वदेवेन यजेत’ इति वाक्यम्।
अत्र वैश्वदेवपदस्य नामधेयत्वे लोकप्रसिद्धं न्यायवलदाहरति- छत्रिन्यायेनेति। समुदायरूपेण गच्चतां। मध्ये एकस्य द्वयोर्वाछत्रित्वेऽप्रितद्घटितं समुदायमभिलक्ष्य यथा `छत्रिणोगच्छन्ति’ इति लोकाः व्यवहरन्ति, तथा आग्नेयादीनामष्टानां यागानां मध्ये सप्तमस्य आमिक्षायागस्य विश्वदेवदेवतातत्वं पुरस्कृत्य तद्घितस्समुदायः वैश्वदेव इति व्यवह्रियते। तथा च प्रकृतवाक्ये वैश्वदेवपदं न देवतारूपगुणसमर्पकं, अपि तु नामधेयमेव। तत्त्वे प्रवृत्तिनिमित्तं च- विश्वदेवदेवता जन्या(का)मिक्षायागघटित समुदायाश्रयत्वरूपमिति खण्डदेवादयः।
नामधेयत्वे निमित्तान्तरमाह- यद्विश्वेदेवास्समायजन्तेति। अयमर्थः- “वैश्वदेवेनयजेत” इति खलु श्रूयते।
अत्र यजेतेति अष्टौयागाननूद्य विश्वेदेवाविधीयन्ते। न च- तत्तद्यागोत्पत्तिवाक्येष्वेव अपेक्षितानां देवतानां अग्न्यादीनां विहितत्वात् पुनरनेन वाक्येन विश्वेषां देवानां विधानं व्यर्थमिति वाच्यम्, अस्तुतर्हि अग्न्यादिभिस्सह विश्वेषां देवानां विकल्पः- अन्यधा अस्य वाक्यस्य वैयर्थ्यं प्रसज्येतेति पूर्वपक्षं कृत्वा, नानेन विश्वेषां देवानां विधानं संभवति, अष्टानामपि यागानामुत्पत्तिवाक्यविहितैरग्नानोदिभिरेव निराकांक्षी कृतत्वात्। न च विकल्पः; अग्न्यादीनामुत्पत्ति शिष्टत्वेन प्रबलत्वात्, विश्वेषां देवानामुत्पन्नशिष्टत्वेन दुर्बलत्वात्। विषमबलयोर्विकल्पायोगात्। न च वाक्यवैयर्थ्यम्; यागाष्टकनामधेयत्वेन संकल्पादावुपयोगात्। अन्यथा- `प्राचीन प्रवणे वैश्वदेवेन यजेत’ इति वाक्यवाक्यविहितः प्राचीनप्रवणदेशसम्बन्धः केवलमामिक्षायागस्यैवस्यात्, तस्यैव विश्वदेवदेवताकत्वात् नाष्टानामपि यागानाम्। नामधेयत्वे प्रवृत्तिनिमित्तं तु- यद्विश्वेदेवास्समयजन्त, तद्वैश्वदेवस्य वैश्वदेवत्वम्’ इत्युक्तत्वात् विश्वैर्देवैस्सम्यगनुष्ठितत्वमेवेति सिद्धान्तः।
इत्थं उद्भिच्चित्राग्निहोत्रादिपदानां गुणसमर्पकत्वं निराकृत्य प्रसाधितस्य नामधेयत्वस्य प्रयोजनमाह- एषां च नाम्नामिति। व्यवहारः= यागसंकल्पादिरूपः। अन्यथा केवलं `यक्ष्ये’ इत्युक्तिमात्रेण यागस्वरूपविशेषानवगमात् ऋत्विगादीनां तत्र प्रवृत्त्य संभवाच्चेतिभावः। इमं न्यायं अन्यत्राप्यतिदिशति- एवं वरुणप्रघासेति। अग्निहोत्रादीनामप्युपलक्षणमेतत्।
मूलम्ः-
वैश्वानरंद्वादश कपालं निर्वपेत्पुत्रेजातेयदष्टाकपालो भवति गायत्त्र्यैवैनं ब्रह्मवर्चसेन पुनाति, यन्नव कपालस्त्रिवृत्तैवास्मिन्तेजोदधाति, यद्दशकपालो विराजैवास्मिन्नन्नाद्यंदधाति, यदेकादशकपालस्त्रिवृतैवास्मिन्निन्द्रियं दधाति, यद्वादशकपालोजगत्यैवास्मिन्पशून्दधाति, यस्मिन्जात एतामिष्टं निर्वपति पूत एव तेजस्व्यन्नाद इन्द्रियावीपशुमान्भवतीति। अत्र जातपदोषेतोपक्रमोपसंहारैकरूप्यादेक वाक्यत्वावगते, रुत्पत्तिविशिष्टगुणावरुद्धे उत्पन्नशिष्टस्य निवेशायोगादष्टाकपालादिवाक्यं न कर्मान्तरविधि,र्नवा पूर्वस्मिन्नेव कर्मणि गुणान्तरविधिः, किन्तु द्वादशकपालस्यैवावयवद्वारास्तुतिः। कर्मवत्कर्माङ्गान्यपि केनचित्सामान्येन स्तूयन्ते इत्याह।
व्याख्याः-
उक्तस्य नामधेय निर्णयस्य क्वचिदपवादं दिदर्शयिषुर्वैश्वानराभिकरणं प्रस्तौति- वैश्वानरं द्वादशकपालमिति। अत्र द्वौपूर्वपक्षौ। `वैश्वानरं द्वादशकपालं निर्वपे’दिति वाक्यविहित कर्मापेक्षया, `यदष्टाकपालो भवती’त्यादिवाक्यैः कर्मान्तराण्येव विधीयन्त इति प्रथमः। पूर्वस्मिन्नेव वैश्वानरवाक्यविहितेकर्मणि अष्टाकपालादिवाक्यानि गुणविधायकानीति द्वितीयः। तयोराद्यं निराकरिष्यन् साधकतया एकवाक्यताप्रतीतिमुपपादयति- अत्रेति। वैश्वानरं द्वादशकपालं निर्वपेदित्यादेः `पशुमान् भवति’ इत्यन्तस्य पदसंदर्भस्य एकवाक्यतायां गमकं दर्शयति- जातपदोपेतेति। वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रेजाते- इत्युपक्रमे जातपदं वर्तते। `यस्मिन् जात एतामिष्टिं निर्वपति’ इत्युपसंहारेऽपि जातपदं श्रूयते। इत्थं उपक्रमोपसंहारयोरेकरूपत्वादेकवाक्यताप्रतीयत इत्याशयः। द्वितीयं निराकरिष्यन्नाह- उत्पत्तिशिष्टगुणावरुद्ध इति। उत्पत्त्या= कर्मोत्पत्तिवाक्येन शिष्टः= विहितोयोगुणः स उत्पत्ति शिष्टगुणः। तेन अवरुद्धे= निवाकांक्षीकृते कर्मणीत्यर्थः। उत्पन्नशिष्टस्य= केनचिद्वाक्येन कर्मणि उत्पन्नेसति पश्चात् वाक्यान्तरेण विहितं- उत्पन्नशिष्टम्, तस्य तथा च प्रकृते `वैश्वानर’मित्येतत्कर्मोत्पत्तिवाक्यम्। तत्र हि द्रव्यदेवता खलु यागस्य स्वरूपम्। वैश्वानरपदेन यागाङ्गभूतदेवताया इव द्वादशकपालपदेन द्रव्यस्याऽपि बोधितत्वात् निराकांक्षं सत् यागरूपं कर्म द्रव्यान्तरं नापेक्षते। तस्यांदशायां तत्र पुनरष्टाकपालादि द्रव्यान्तरं निविशमानं आकांक्षोत्थापनं विनानिवेष्टुमशक्यत्वात् विलम्बेनैव नविशते। द्वादशकपालस्तुस्ववाक्सोपात्तत्वात्, कर्मणश्च आकांक्षायास्सत्वाम् सहसा सम्बध्यत इति विलम्बविलम्बप्रवृत्तयोस्तयोरतुल्यबलत्वात् विकल्पोऽपि न भवति।
तर्हि का गतिरष्टाकपालादि वाक्यानामित्यत आह- किन्तु द्वादशकपालस्येति। भगवतः करचरणमुखनेत्रादिस्तुतिः भगवत् स्तुताविव द्वादशकपालावयवानां अष्टाकपालादीनां स्तुतिः अवयविनः द्वादशकपालस्यैव स्तुतौ पर्यवस्यतीत्याशयः। अष्टाकपालादि पदानां आग्नेयाष्टाकपालादिषु मुख्यानां प्रकृते द्वादशकपालावयवेषु गौण्यावृत्त्याप्रवृत्तिर्द्रष्टव्या। अतश्चवैश्वानरपदं न कर्मनामधेयमिति।
मूलम्ः-
तत्सिद्धिजातिसारूप्यप्रशंसा भूमलिङ्गसमवाया इति। यजमानः प्रस्तर इत्यत्र यजमानकार्यकारित्वात्प्रस्तरे यजनामशब्दः। अग्निर्ब्राह्मण इत्यादौ ब्राह्मणेऽग्निशब्दस्तेन सहैकयोनित्वात् मुखादग्निरजायत, ब्राह्मणोऽस्समुखमासीदिति लिङ्गात्। आदित्योयूप इत्यादावूर्थ्वत्वसारूप्यादञ्जनदेशे भास्वरत्वसामान्याद्वायूपे आचित्यशब्दः। अपशवो वा अन्येगो अश्वेभ्यः पशवो गो अश्वा इत्यत्र गोऽश्वव्यतिरिक्तेष्वजाचिष्वपशुत्वोक्तिर्गवादेः प्राशस्त्यदर्शनार्था। सृष्टीरुपदधातीत्यादौ सृष्टि सञ्जकानामिष्टकानां बहुत्वात्सृष्ट्यसृष्टिसमुदाये सृष्टिशब्दोभूमगुणयोगात्। प्राणभृत उप दधातीत्यत्र तु अप्राणभृत्यंज्ञकानामिष्टकानां बहुत्वेऽपि च्छत्रिणोगच्छन्तीति वल्लिङ्गसमवायमात्रेण प्राणभृदप्राणभृत्समुदाये प्राणभृच्छब्दः लिङ्गसमवायोऽल्पत्वम्।
उपरितनग्रन्धस्य व्याख्या अधस्तात् पृष्टे 9 पंक्तौ `प्रसङ्गात् षट्- गौणीवृत्ति’ इत्यारभ्य द्रष्टव्या।
व्याख्याः-
प्रसङ्गात् षट् गौणीवृत्तिनिमित्तानि सूत्ररूपेणोदाहरति- तत्सिद्धीति। एकस्मिन्नेव सूत्रे ग्रथितानामपि षण्णां निमित्तानां सुबोधाय पृथक् पृथक् विचारं प्रदर्शयन्तिस्म प्राञ्चः। तदेतेषां षण्णामवान्तराधिकरणानामुदाहरणान्याह- तत्र `स्वशक्यवृत्तिगुण समानजातीयगुणयोगनिमित्तत्वं गौणत्व’मिति- भाट्टदीपिका। `सिंहोदेवदत्त’इत्यादौ, स्वं= सिंहपदं, तच्छक्यः (जात्या)= सिंहः, तद्वृत्तिर्गुणः= कॄरत्वादिः। तत्समानजातीयकॄरत्वादि गुणयोगात् देवदत्ते सिंहपदं प्रवर्तते। इदं च सामान्यलक्षणम्। तत्र तत्र विवषितानां स्वशक्यवृत्तिगुणानां भेदात् षडुदाहरणान्युच्यन्ते-
(1) तत्सिद्धिः= तत्कार्यकारित्वमित्यर्थः। `यजमानः प्रस्तरः’ इत्यत्र- तस्य= यजमानस्य यत्कार्यं= स्रुग्धारणादिकं, तत्समानजातीयस्रुग्धारणादि कार्यकारित्वात्प्रस्तरे यजमानशब्दः प्रयुज्यते। एतच्चप्रस्तरस्तुतौ पर्यवस्यति। एवमुत्तरत्राऽपि।
(2) जातिः= जन्म। `अग्निर्ब्राह्मणः’ इत्यत्र `प्रजापतिरकामयतप्रजायेयेति समुखतस्त्रिवृतं निरमिमीत तमग्निर्देवतान्वसृज्यत गायत्रीच्छन्दोरथन्तरकं सामब्राह्मणोमनुष्याणामजः पशूनां तस्मात्तेमुख्यामुखतोह्यसृज्यन्त (तै.सं. 7-1-1)’ इति श्रुत्यनुसारेण यथा अग्निः प्रजापतिमुखाज्जातः, तथा ब्राह्मणोऽपेति, मुखजन्यत्वगुणयोगात् ब्राह्मणे अग्निशब्दः प्रयुज्यते।
(3) सारूप्यम्= समानरूपत्वम्। आदित्ये तेजस्वित्वं प्रसिद्धम्। पशुबन्धनार्थोयूपोऽपि आज्येनलिप्यमानत्वात् तेजस्वी भवति। तथा च- आदित्यवृत्तितेजस्वित्व समानतेजस्वित्व गुणस्वी भवति। तथा च- आदित्यवृत्तितेजस्वित्व समान तेजस्वित्व गुणयोगात् यूपे आदित्यशब्दः प्रयुज्यते `आदित्योयूपः’ इति।
(4) प्रशंसा= प्राशस्त्यम्। `अपशवो वा अन्ये गो अश्वेभ्यः’ इत्यत्र गवाश्व व्यतिरिक्तेषु प्रयुज्यमानः `अपशु’ शब्दः, न अजादीनां पशुत्वाभावबोधकः; लोके शास्त्रे च तेषां पशुत्वे न प्रसिद्धत्वात्, पशुकार्ये विनियुक्तत्वाच्च। किन्तु पशुव्यतिरिक्तं घटादिकं लक्षणया बोधयति। घटादौ गवाश्वादिवत्प्राशस्त्यं नास्तीति तमेव प्राशस्त्याभावरूपं गुणं नमित्तीकृत्य, वस्तुतः पशुत्वजातिमत्स्वपि अजादिषु अपशु शब्दः प्रयुज्यते। नन्वेवं तर्हि `अप्राशस्त्यं’ गौणीनिमित्तमिति वक्तव्यम्। कथं प्रशंसायाः तन्निमित्तत्वं सूत्रकारोब्रवीतीति चेत्, उच्यते- अत्र गवाश्वव्यतिरिक्त पशुविषये प्रतीयमानायाः अपशुत्वनिन्दायाः `न हि निन्दा निन्द्यं निन्दितुं प्रवर्तते, अपि तु विधेयं स्तोतुं’ इति न्यायेन विधेयगवाश्वप्रशंसा परत्वात्। वस्तुतः निन्दायां तात्पर्याभावाच्चेति द्रष्टव्यम्।
(5) भूवरा= बहुत्वम्। महाग्निचयने `सृष्टीरुपदधाति’ इत्यत्र `एकयास्तुवत’ इत्यादयः सप्तदशमन्त्रा आम्नायन्ते। `तद्वानासामुपधानोमन्त्र इति लुक् च मतोः’ इति पाणिनि सूत्रानुसारेण `सृष्टि’ पदघटित मन्त्रोपधेया इष्टकाः `सृष्टि’ पदेनोच्यन्ते। तदुद्देशेन उपधानं विधीयत इति भाष्यकारः। वार्तिककारस्तु- उपधानानुवादेन मन्त्रविधानं मन्यते। तेषां च - चतुर्दशसृष्टिपदघटितामन्त्राः, त्रयः तदघटिताश्च। तथा सति कथमसृष्टयस्सृष्टिपदेन गृह्येरन्निति शंङ्का- गौण्यां समाश्रितायां समाहिता भवति। गौणीनिमित्तं चात्र भूमा= बहुत्वं वेदितव्यम्। यद्यपि सृष्टीनां चतुर्दशत्वात्तेषु बहुत्वं विद्यते। असृष्टीनां तु त्रित्वात्, तेषु बहुत्वाभावात् कथं गौणत्वं, कथं वा सृष्टिपदबोध्यत्वमिति चेत्, अत्र बहुत्वं नाम- बहुत्वाश्रयसृष्टिमन्त्रघटितसमुदायवृत्तित्वरूपं ग्राह्यम्। अस्तिचेदं असृष्टिमन्त्रेष्वपि- बहुत्वाश्रयाः ये सृष्टिमन्त्राः, तद्घटितोयस्समुदायः= सृष्ट्यसृष्टिमन्त्रसमुदायः, तद्वृत्तित्वादसृष्टिमन्त्राणाम्। `सृष्टीरुपदधाति’ इत्येवं एकविधिपरिगृहीतत्वाच्च समुदायसिद्धिः।
(6) लिङ्गसमवायः= एतच्छास्त्रीयव्यवहारे अयं शब्दः अल्पत्वे रूढः। महाग्निचयन प्रकरण एव `प्राणभृत उपदधाति’ इति श्रूयते। प्राणं= प्राणशब्दं बिभ्रतीति प्राणभृतः। प्राणशब्दघटितामन्त्रा इत्यर्थः। अत्र च पठितानां `अयं पुरोभुव’ इत्यादि मन्त्राणां मध्ये आद्य एवैकः प्राणभृत्। अन्ये चत्वारः अप्राणभृत एव। तथाऽपि सर्वानभिलक्ष्यगौण्याप्राणशब्दः प्रयुज्यते। अत्र चाल्पत्वं निमित्तम्। तच्च पूर्वोक्त बहुत्ववदेव न साक्षात्संबध्यते। किन्तु अल्पत्वाश्रय प्राणभृन्मन्त्रघटितसमुदायवृत्तित्वेन। एतच्च प्राणभृत्स्विव अप्राणभृत्स्वपि वर्तते।
इममेव छत्रिन्यायं केचिन्मन्यन्ते। भूमाधिकरणमपि छत्रिन्याय एव पर्यवस्यति। प्रवृत्तिनिमित्तभेदादधिकरणभेदो द्रष्टव्यः।
मूलम्ः-
सन्दिग्धेषु वाक्यशेषात्। `अक्ताश्शर्करा उपधाति’ इत्यत्र अञ्चन साधनद्रव्यसन्देहे, `तेजोवैघृत’मिति वाक्यशेषात् घृतेनाक्ताः शर्कराः कर्तव्या इति निर्णयोऽपि द्रव्यस्तुति प्रयोजनम्।
व्याख्याः-
वाक्यशेषाधिकरणं संगृह्णाति- सन्दिग्धे तु वाक्यशेषादिति। काठकप्रकरणे समाम्नायते- `शर्करा अक्ता उपदध्यात्, तेजोवैघृतम्’ इति। शर्कराः= क्षुद्रशिलाः, अक्ताः= अंजनेन संस्कृताः, लिप्ता इत्यर्थः। ताः उपदध्यादिति। अत्र अंजनं तावद्विहितम्, तत्साधनं द्रव्यं तु न निगदितम्। अंजन साधनानां घृत- तैल- जालादीनां बहूनां द्रव्याणां विद्यमानत्वात् कतमेनां जनं कार्यमिति सन्देहे, वाक्यशेषात् निर्णयः- घृतेनेति। अत्र हि विधिवाक्यसमीपे तच्छेषतया पठ्यते- `तेजोवैघृतम्’ इति। यद्विधेयं तत् स्तोतव्यमिति न्यायेन अत्र घृतस्य तोजोरूपेण स्तूयमानत्वात् तत्सार्थक्याय घृतेनैव अंजनं कार्यमिति निर्णयः। द्रव्यस्तुतेः= घृतस्तुतेः।
मूलम्ः-
अर्थाद्वाकल्पनैकदेशत्वात्। यत्र निर्णायकोऽर्थवादोऽपि नास्ति, तत्रा`ख्यातानामर्थं ब्रुवतां शक्तिः सहकारिणी’ इति न्यायेन, यथा प्रासादे भुङ्क्ते- कांस्येभुङ्क्ते’ इत्यत्र प्रासाद उपविश्य कांस्ये परिविष्येत्यर्थात्प्रतीयते न तु विपरीतम्, एवं स्रुवेणावद्यतीति विधिः सामर्थ्यात् द्रवद्रव्यविषये, स्वधितिनावद्यतीति मांसविषये, हस्तेनावद्यतीति च पुरोडाशविषये व्यवतिष्ठते।
(इति चतुर्थः पादः)
इति नीलकण्ठसूरिसूनुगोविन्द विरचिते भाट्टभाषा प्रकाशे प्रथमोऽध्यायः॥

व्याख्याः-
सामर्थ्याधिकरणं संगृह्णाति- अर्थाद्वाकल्पनैकदेशत्वादिति। आख्यातानामिति- अर्थं ब्रुवतां आख्यातानां= इदं कर्तव्य,मित्थं कर्तव्यमिति तत्तत्कर्मविदधतां लिङादीनां, शक्तिस्सहकारिणी भवति= विहितं कर्म अनुष्टातुं यस्यसामर्थ्यं वर्तते तंप्रत्येवते विधयः प्रवर्तन्ते, नत्वसमर्थं प्रति- इत्यर्थः। तमिमं न्यायं लौकिकोदाहरणेन समर्थयति- यथा प्रासादे भुङ्क्ते इति। शास्त्रार्थानुष्ठानमतीवदुश्शकमितिकेषां चित् भ्रमोऽनेन निवार्यते। तथा हि- `उषसिस्नायात्’ इति विधिः स्वस्थं पुरुषं प्रत्येवप्रवर्तते, नज्वरादिना पीड्यमानं आतुरंप्रति। असमर्थं प्रतिप्रवृत्तौ, अनुष्ठापकत्वरूपं विधेर्विधित्वमेव व्यहन्येत। न हि कश्चिदपि स्वरूपहानिमिच्छति, किमुतवेद इति भावः। अवदानं नाम- समुदायरूपेण वर्तमानात् द्रव्यात् विहितपरिमाणस्य अंशस्य विभज्यग्रहणम्। व्यवतिष्ठते= तत्तद्द्रव्यावदाने तत्तदेवसाधनं नियमेन व्याप्रियते, न तु संकीर्यत इत्यर्थः।
अर्थात्= वस्तुसामर्थ्यात्, कल्पना= स्रुवेणद्रवद्रव्यं, स्वधितिनामांसं, हस्तेन पुरोडाशमित्येवं योग्यतानुसारेण विनियोगः- कार्य इति शेषः। ननु कल्पितस्य कथं वेदार्थत्वमिति वाच्यम्; एकदेशत्वात्= वेदार्थपूरणार्थं कल्पितस्यापिपेदैकदेशत्वावश्यं भावात् अवैदिकत्वशङ्का न प्रसज्यत इति सूत्राभिप्रायः।

इति चतुर्थः पादः।
प्रथमाध्यायश्च समाप्तः।

श्रीमन्नारायणतीर्थमुनिविरचिते भाट्टभाषाप्रकाशे-
द्वितीयाध्यायस्य-प्रथमः पादः।
मूलम्ः-
भावार्थाः कर्मशब्दा इति। विध्यर्थवादमन्त्रनामधेयस्मृत्याचाराख्यानि धर्मेप्रमाणानि षट् निरूपितानि। इदानीं तत्स्वरूपभेदः शब्दान्तराभ्यास सङ्ख्यासंज्ञागुणप्रकरणान्तरैः षड्भिः प्रमाणैः प्रतिपाद्यते।
व्याख्याः-
प्रथमे अध्याये धर्मेप्रमाणानि विध्यर्थवादादीनि निरूप्य, अधुना अवशैष्टैरध्यायैः प्रमेयं धर्मं सपरिकरं निरूपयिष्यन्, तत्र चिकीर्षितस्य अङ्गाङ्गित्व- प्रयोज्यप्रयोजकत्वक्रत्वर्थ पुरुषार्थत्वादि विचारस्य कर्मभेदाधीनत्वात् इह द्वितीये अध्याये सप्रमाणं कर्मभेदं प्रतिपादयति, तदादौ तदुपकारकतया च किञ्चिदन्यद्विचारयिष्यन्, तस्य च सूत्रारूढतामवगमयितुं सूत्रमुदाहरति-
भावार्थाः कर्मशुन्दा इति। तत्स्वरूपभेदः= धर्मस्वरूपभेद इत्यर्थः।
`भावार्थाः कर्मशब्दास्तेभ्यः क्रियाप्रतीये तैषह्यर्थोविधीयते’ इति। संक्षेपतोऽस्याऽयमर्थः- भावो भावना- आख्यातप्रत्ययार्थः, स च तत्तत्क्रियाविषयबाह्यव्यापारहेतुभूतः, ज्ञानेच्छानन्तरभावे, कश्चन मानसो व्यापारः। स एव यत्नः कृतिरिति चाख्यायते। स एव मीमांसकमते सर्वेषु वाक्येषु मुख्यविशेष्यभूतः भावनाशब्देन व्यपदिश्यते। तत्त्रैव सर्वेषां वाक्यघटकपदार्थान्तराणां साक्षात्परंपरया वा योग्यतानुसारेणान्वयश्च। तथा च- भावार्थाः= भावनारूपोयः आख्यातार्थस्तत्परिच्छेद एव अर्थः प्रयोजनं येषां ते भावार्थाः। के ते? कर्मशब्दाः= यजति जुहोति ददातीत्यादि धात्वर्थाः। तेभ्यः क्रिया= अपूर्वम्। तच्च- कर्मजन्यः फलजनकः अवान्तरव्यापारविशेषः। तच्च उपरिष्टात् शाधयिष्यते। प्रतीयेत= पूर्वोक्तेभ्यः धात्वर्थेभ्य एव उत्पद्यत इति निश्चीयेत। हि= यस्मात्कारणात् एष एवार्थः समानपदश्रुत्या विधीयते= लिङादिप्रत्ययेन भाव्य(कर्तव्य)तया `बोध्यते’ इति। एतदेव पुरस्कृत्य इह भावार्थाधिकरणं, तदुपोद्घातरूपं प्रतिपदाधिकरणं च भाष्यकारादिभिरुपनिबद्धम्। तदुभयमिहानन्तरमेव संक्षिप्य प्रदर्श्यते-
मूलम्ः_
तस्यचोत्पत्तिश्चोदनावाक्यगतेभ्य स्सर्वेभ्यः पदेभ्य इति न; गौरवात्। किन्तु लाघवादितरविशेषतादेकस्मादेवपदात्। तत्राऽपि क्रियापदादेव; तस्या एव फलसिद्धौ प्रधानत्वात्, न तूपपदात्। अन्यथा `सोमेन यजेत’ इत्यादौ श्रुतद्रव्यापहारे पूतीकादिः प्रतिनिधिर्नस्यात्। गुणेह्यन्याय्यकल्पना संभवति, न प्रधाने। अतोधात्वर्थादेव धर्मोत्पत्तिः।
व्याख्याः-
तस्यचोत्पत्तिरिति। तस्य= फलसाधनस्य- देवतोद्देश्यकद्रव्यत्वागादि मानसक्रियात्मकस्य धर्मस्येत्यर्थः। चोदना वाक्यगतेभ्यः= विधि वाक्यघटकेभ्यः द्रव्यगुणादि वाचकेभ्यस्सर्वेभ्यः इति न वक्तव्यम्। इदमत्रावधेयम्- यागादिक्रियारूपस्य धर्मस्य आशुतर विनाशित्वात् कालान्तरभाविस्वर्गादि फलजनकत्वं- वक्ष्यमाणरीत्यामध्ये अपूर्वकल्पनमन्तरान सिद्ध्यति। तदापि एकमदृष्टं कल्पयित्वातावताकार्यसिद्धिस्संपादनीया, लाघवात्। अनेकादृष्टकल्पनं तु- अन्याय्यं, गौरवापादकत्वात्। इति वस्तुस्थितिः। प्रकृते च- वाक्यगतेभ्यस्सरेभ्यः पदेभ्योधर्मोत्पत्तिरित्यङ्गीकारे, तेषां धर्माणां कालान्तरभाविफलसाधनत्वसिद्ध्यर्थं मध्ये अनेकेषां अदृष्टानां कल्पनं अनिवार्यमापद्येत। तच्च गौरवापादकत्वादनादरणीयम्। तदपेक्षया धात्वर्थादेकस्मात् यागदानहोमाद्यन्यतमरूपात् धर्मोत्पत्तिः, इतरेषां तु तदर्थतया तत्रैव विशेषणतया अन्वय इत्यङ्गीकारे-
एकादृष्टकल्पनया फलसिद्धेः अस्मिन् पक्षे लाघवमिति द्रष्टव्यम्। न केवलं लाघवमेकं कारणं, किन्तु उपपदेभ्योऽपिधर्मोत्पत्त्यङ्गीकारे बाधकान्तरमप्यस्तीत्याह- अन्यधेति। श्रुतस्यसोमादि द्रव्यस्य, अपहारे सति, अपहारो विनाशादेरप्युपलक्षणम्, `गुणेत्वन्याय्यकल्पनेति। इदं च पाशाधिकरणार्थं सूचयति। तत्र तावत्। `पाशान्’ इत्यत्र प्रधानभूतप्रातिपदिकार्थाबाधेन गुणभूतेप्रत्यये एव एकत्वलक्षणया एकपशुके प्रकृतयाग एव मन्त्रस्य विनियोग संभवात् बहुपशुकेषु विकृतियागेषु उत्कर्षोनिराकृतः। तदधिकरण सूत्रावयवस्याऽयमर्थः- न्यायादनपेतो न्याय्यः मुख्योऽर्थः। तद्भिन्नः-लाक्षणिकः प्रतिनिधिरूपो वा अर्थः अन्याय्यः। तस्य कल्पना= आपादना, सा च गुणे एव कर्तव्या इति। अयमाशयः- यदि क्वचित् मुख्यार्थानुपपत्त्या गौणोलाक्षणिकः प्रतिनिधिरूपो वा अर्थः कल्पनीयः स्यात् तदा सः प्रधानेन कल्प्येत, किन्तु उपसर्जनभूते एवेति। अतश्चप्रकृते सोमादेरुपपदार्थस्य फलजनकत्वे न मुख्यत्वाङ्गीकारे, तदपचारे सति पूतीकाधेः प्रतिनिधित्वं न स्यात्। न च मास्त्विति वाच्यम्; “यदिसोमं न विन्देत पूतीकानभिषुणुयात्” इत्येवं शास्त्रे पूतीकानां सोमप्रतिनिधित्वमुक्तम्, तद्विरुध्येत। किञ्च- `न देवताग्नि शब्दक्रियमन्यार्थसंयोगात्’ (6-3-5) इत्येवं अदृष्टार्थानां प्रतिनिध्यभावः षष्ठेवक्ष्यते। सोऽपि नोपपद्येत। अतश्च सिद्धं धात्वर्थादेवयोगादिरूपाद्धर्मोत्पत्तिरिति।
मूलम्ः-
स च देवतोद्देशेन द्रव्यत्यागात्मक मानसक्रियात्वात् यद्यप्याशुतरविनाशी। तथाऽपि दर्शपूर्णमासाभ्यां स्वर्गकामोयजेतेति श्रुतार्थापत्त्या यागावान्तर व्यापाररूपमपूर्वं नामकालान्तरभोग्यफलप्रतिभूत्वेन कल्प्यते। भोक्ता च देहदन्यस्तत एव सिद्ध्यति।
व्याख्याः-
इत्थं धात्वर्थादेव धर्मोत्पत्तिमुपपाद्य, आशुतरविनाशिनः क्रियारूपस्य धर्मस्य कथं कानान्तरभाविस्वर्गादि फलसाधनत्वमिति शङ्का, अवान्तरव्यापाररूपापूर्वावलम्बनेन निराकरिष्यन्नाह- स च देवतोद्देशेनेति। केचन- अध्वर्युणाक्रियमाणं अग्न्यधिकरणकं हविष्प्रक्षेपमेवयागं मन्यन्ते। तदीयं भ्रमं निराकरोति- मानसक्रियारूपत्वादिति। याजमानः प्रथमं देवतायैद्रव्येस्वत्वं कल्पयति, स्वीयं च स्वत्वंजहाति। तदानीमेव तदभिव्यञ्जकं `अग्नये इदं न मम’ इत्यादि वाक्यमप्युच्चारयति। तदिदं मनसिक वाचिक क्रियाद्वयं मिलितं यागपदार्थं मन्यन्ते याज्ञिकाः। इत्थं यजमानेन मनसा वाचा च त्यक्तस्यैवहविषः आहवनीयादि विहितदेशे प्रक्षेपोन्याय्यः। आधुनिकाः प्रयोक्तारस्तु पूर्वं द्रव्यं प्रक्षिपन्ति, पश्चात् यजमानेन त्यागवाक्यं वाचयन्ति। अत्र मूलं मृग्यम्।
श्रुतार्थापत्त्येति। स्वर्गकामोयजेत इत्यादौ समानपदश्रुत्याप्रत्ययवाच्यभावनायां धात्वर्थस्य यागस्य करणत्वेनान्वय इष्यते। भावनाकरणत्वं च भावनाभाव्यस्वर्गादि निर्वर्तकत्वेनेत्युक्तम्। तथा च - श्रुतस्य स्वर्गयागयोस्साध्यसाधनभावस्य अन्यथा अनुपपन्नत्वात् तदुपपत्त्यर्थं मध्ये प्रतिभूत्वेन यदपूर्वकल्पनं, साश्रुतार्थापत्तिः। एवं `पीनोदेवदत्तो दिवा न भुङ्क्ते’ इत्यादौ रात्रिभोजन कल्पनादिरूपा (प्रतिभूत्वेन= प्रतिनिधात्वेन) दृष्टार्थापत्तिरपि योजनीया। अर्थापत्तिर्नाम अनुमानाद्भिन्नमेव पञ्चमं प्रमाणं- मीमांसकमते।
नन्वत्र अर्थापत्त्या अपूर्वकल्पनेन कर्मणः कानान्तरभाविस्वर्गादि फलसाधनत्वस्य समर्थनेऽपि, कर्मकर्तुर्यजमानस्य अत्रैवम्रियमाणत्वात् कालान्तरभाविसर्वर्गादि फलं स कथं प्राप्नुयात्? न च न प्राप्नोत्येवेति वाच्यम्; स्वर्गयागयोस्साध्यसाधनभाववत् फलस्य यजमानगामित्वमसि आख्यातोपात्तस्य कर्तुः स्वर्गकाम सामानाधिकरण्यात्, आत्मने पदात्, `यः कर्ता स भोक्ता’ इति न्यायाच्चयजेतस्वर्गकाम इत्यादि वाक्यादेवावगम्यत इति तद्बाधापत्तेः। कृतहानप्रसङ्गाच्च। तत्राह- भोक्ता च देहादन्यस्तत एव सिद्ध्यतीति। तत एव= अर्थापत्तिप्रमाणादेवेत्यर्थः `यजेत स्वर्गकाम’ इत्यस्य वेदवाक्यत्वेन तत्प्रामाण्यानपहाराय अर्थापत्त्या अपूर्वमभ्युपगम्य स्वर्गयागयोः साध्यसाधनभाव समर्धनवत्, इहाऽपि देहेनष्टेऽपि, तदतिरिक्तं नित्यमात्मानमङ्गीकृत्य स्वर्गफलोपभोगस्समर्थनीयः। न च - देहस्य कर्मकर्तृत्वे, आत्मनश्च फलभोक्तृत्वे `यः कर्ता स भोक्ता’ इति न्यायो विरुध्येतेति वाच्यम्; कृतिमान् हि कर्ता अत एव तेन चेतने न भाव्यम्। न हि जडस्य केवलस्य देहस्य कर्त्तृत्वमुपपद्यते। अतश्च देहावच्छिन्नो नित्यश्चेतन आत्मा अवश्यमभ्युपगन्तव्यः। अवच्छेदकस्य स्थूलदेहस्य नाशेऽपि अवच्छिन्नस्य आत्मनः अविनाशात्, अपूर्वस्याऽपि तत्रैव समवेतत्वात् तत्तत्कर्मफलोपभोगयोग्यदेहान्तरधारणेन स्वर्गादेर्भोक्तुं शक्यत्वाच्च नकाऽप्यनुपपत्तिः।
अत्र च भाष्यवार्तिकादिषु `यज्ञायुधि’ वाक्यप्रामाण्यपरीक्षाप्रसङ्गेन देहातिरिक्तात्मास्तित्वं बहुधा प्रपञ्चितमिति, तद्विशेषास्तत एवावगन्तव्याः। उपनिषदश्च इममर्थं विस्पष्टमुपपादयन्ति।
मूलम्ः-
अपूर्वाणि तु अमावास्यायोगिभ्यस्त्रिभ्यः प्रधानेभ्यस्त्रीणि प्रथममुत्पद्य पश्छात्समुदायापूर्वमारभन्ते। एवं पौर्णमासेऽपि अपूर्वत्रयादेकं समुदायपूर्वम्। ताभ्यां पुनः परमापूर्वं जन्यते। अङ्गापूर्वाणि तत्रैवोपकुर्वन्तीति। तत्राप्यवघातादीनां दृष्टार्थानां नियमांशेनैवा पूर्वोत्पादकत्वम्। प्रोक्षणादीनां तु दृष्टार्थत्वाभावात्केवल मपूर्वार्थत्वमेव।
व्याख्याः-
शास्त्रीय व्यवहारनिर्वाहाय, अर्थापत्तिकल्पितस्य अपूर्वस्य भेदान् निर्दिशति- अपूर्वाणित्विति। अमावास्यायोगिषु= अमावास्या रूपकाल सम्बन्धवत्सु, तत्कालकर्तव्येष्विति यावत्। त्रिभ्यः प्रधानेभ्य इति- सन्ति हि अमावास्यां पुरस्कृत्य कर्तव्यास्त्रयः प्रधानयागाः। यथा- `यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति’ (तै.सं. 2-6-3) इति वाक्यविहितोऽष्टो कपालपुरोडाशद्रव्यकः आग्नेययाग एकः। `ऐन्द्रं दध्यमावास्यायाम्’ `ऐन्द्रंपयोऽमावास्यायाम्’ इति वाक्याभ्यां विहितौ ऐन्द्रौ दधिपयोयागौद्वौ। आहत्य त्रयः। एवं पौर्णमासेऽपीति। तत्राऽपि पूर्वोक्तयदाग्नेय वाक्यविहित आग्नेयाष्टकपालयाग एकः, `उपागंशुयाजमन्तरायजति’ (तै.सं. 2-6-6)। इति वाक्यविहित आज्यद्रव्यकः विकल्पित विष्णुप्रजापत्यग्नीषोमदेवता क उपांशुयाजः द्वितीयः, `ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासेप्रायच्छत्’ इति वाक्यविहितः अग्नीषोमदेवता कः एकादशकपाल पुरोडाशद्रव्यको यागस्तृतीयः। इदं च परिगणनं सोमयाजिनः। असोमयाजिनस्तु अमावास्यायां सान्नाय्याभावात् ऐन्द्रग्न एकादश कपाल एव तत् स्थाने भवति। अपूर्वत्रयात् यागत्रयानुष्ठान जन्यादित्यर्थः। ताभ्यां= समुदायापूर्वाभ्यां अङ्गापूर्वाणि= प्रयाजानूयाजाद्यारादुपकारकाङ्गानुष्ठान जन्यानीत्यर्थः। तत्रैव= परमापूर्वोतृत्तावेव। अङ्गापूर्वाणां परमापूर्वोपकारकत्वे प्रकारभेदं दर्शयति- तत्राऽपीति। अङ्गानां दृष्टादृष्टार्थानां स्वरूपमुपरिष्टान्निरूपयिष्यते। नह्यत्र `व्रीहीन वहन्ति’ इति विधिः प्रयाजादि विधिवत् अपूर्वमुद्दिश्य प्रवर्तते। अवघातेन तुषविमोकरूपस्य दृष्टप्रयोजनस्य उपलभ्यमानत्वात्, दृष्टे संभवति अदृष्टकल्पनाया अन्याय्यत्वात्। न च- आक्षेपादिनैव अवहन न प्राप्तेर्विधिवैयर्थ्यम्; विधेर्नियमार्थत्वात्। नियमोनानु अप्राप्तांशपूरणम्। तथा हि- व्रीहिषु तुषविमोके कर्तव्ये तस्य अवहनननखविदलनादि नानोपायसाध्यत्वात् यस्मिन् पक्षे अवहननमकृत्वा नखविदलनादिकं कर्तुमुद्युङ्क्ते, तस्मिन् पक्षे अवहननस्य अप्राप्तत्वात् तत् प्रापयितुं अयं विधिः प्रवर्तते। अत्र अवहननस्य दृष्टफलत्वेऽपि अवहननेनैव तुषविमोकः कर्तव्य इति- यो नियमः तस्य अदृष्टं प्रयोजनम् तच्च द्रव्याश्रितं सत् परम्परया परमापूर्वमुपकरोति। `व्रीहीन् प्रोक्षति’ इति विहिते न प्रोक्षणेन दृष्टप्रयोजनाभावेऽपि द्रव्येकश्चनातिशयः अनिन्द्रियगोचरो जायते। स एवादृष्टमित्युच्यते। तस्यापि यागोत्पत्त्यपूर्वद्वारा परमापूर्वोपकारकत्वम्।
मूलम्ः-
एवं स्तोत्रशस्त्रयोरपि। तत्र हि आज्यैः स्तुवते, प्र उगंशं सति इतिश्रुत्यास्तवनस्यैवकर्तव्यता प्रतीतेः, याज्यादीना(मिव) तयोर्देवतास्मरणादि दृष्टकार्यार्थत्वायोगात्। प्रगीतमन्त्रसाध्यं स्तवनं स्तोत्रम्। अप्रगीतमन्त्रसाध्यं तदेवशस्त्रम्।
व्याख्याः-
व्रीहिप्रोक्षणन्यायमतिदिशन् स्तुतशस्त्राधिकरणं संगृह्णाति- एवं स्तोत्रशस्त्रयोरपीति। याज्यापुरोनुवाक्यादि मन्त्राणां केषांचित् देवतास्मरणादिरूपस्य दृष्टार्थस्य संभवेऽपि, स्तोत्रशस्त्रयोस्तन्नसंभवतीति, तल्लक्षण कथनव्याजेन अभिव्यनक्ति- प्रगीतमन्त्रसाध्येत्यादिना। आज्यैः स्तुवते, प्र उगंशंसति इत्यादि वचनानुसारेण स्तौतिशंसति धात्वर्थपर्यालोचनया देवतागुणप्रशंसापरत्वमेव तयोः, न तु गुणिभूते देवता प्रशंसापरत्वम्। नचानयोर्नातीवभेद इति वाच्यम्; `देवदत्तश्चतुर्वेदाभिज्ञ’ इति गुणतात्पर्यकाभिधाने यथास्तुतिः प्रतीयते, न तथा `यश्चतुर्वेदी देवदत्तस्तमाहार’ इति गुणितात्पर्यकाभिधाने। स्तुतेश्च न किञ्चिद्दृष्टं प्रयोजनमस्तीति, अवश्यमदृष्टार्थत्वमेवस्तुतशस्त्रयोरङ्गीकर्तव्यं प्रोक्षणवत्।
मूलम्ः-
एवं ब्राह्मणस्थमेवाख्यातं प्रधानकर्मवा, गुणकर्म वा विधत्ते, न तु देवाग्‌श्चयाभिर्यजते ददाति च’ इत्यादिमन्त्रस्थम्।
यत्राभियुक्तानां मन्त्रप्रसिद्धिस्तेमन्त्राः।
अन्यद्ब्राह्मणम्।
तत्राऽपि ईहप्रवरनामधेयानां नमन्त्रत्वम्; प्रसिद्ध्यभावादेव।
ऋग्यजुस्सामानिप्रसिद्धान्येव-
पादबन्धवत्यृक्।
अनियताक्षरपादं यजुः।
गीतिः सामेति।
प्रोक्षणीरासादयेत्यादयोनिगदाः पादबन्धप्रगीतमन्त्रत्वाभावेन ऋक्साम(मा)भ्यामन्यत्वाद्यजुष्ष्वेवान्तर्भवन्ति।
व्याख्याः-
अथ अष्टावधिकरणानि स्पष्टार्थतया सिद्धान्तवाक्यरूपेण संक्षिप्योदाहरति- एवं ब्राह्मणस्थमेवेत्यादिना। अदृष्टद्वारा प्रधानोपकारिकं- प्रधानकर्म। द्रव्यसंस्कारादिद्वारा उपकारकं गुणकर्म। न तु देवांश्चेति एतन्मन्त्रस्थं “यजते” इत्याख्यातं- विधायकं न भवतीत्यर्थः। प्रयोगसमवेतार्थस्मारकत्वेन चरितार्थानां मन्त्राणां विधायकत्वस्याऽपि कल्पने गौरवापत्तेरिति भावः। अभियुक्ताः= कल्पसूत्रकाराः आपस्तंबबोधायनाश्वनायनादयो वैदिकाः। अनियताक्षरपादं= यस्मिन् अक्षरनियमो वा, पादनियमो वा नास्ति तादृशेगद्यरूपे मन्त्रे यजुश्शब्दः प्रयुज्यते। निगदानां पादबन्धाभावेन न ऋक्त्वं, गीतिरूपत्वाभावात् न सामत्वम्। पारिशेष्यात् यजुष्ट्वमेवेत्याशयः।
मूलम्ः-
यजुः प्रमाणं तु- यावत्साकांक्षमेकार्थं- पदजातं तावदेव। यथा- `स्योनं ते सदनं कृणोमि घृतस्यधारयासुशेवं कल्पयामि’ इति सदन करणार्थं यजुः। `
तस्मिन् सीदामृते प्रतितिष्ठव्रीहीणां मेधसु मनस्यमानः’ इति पुरोडाशसादनार्थमपरं यजुः। अन्यथा यजुश्छेदे उभयोरपि वाक्ययोरसङ्गतार्थतास्यादिति निश्चीयते।
व्याख्याः-
यजुर्मन्त्राणां अनियताक्षरपादत्वात् `एतावदेकं यजु’रित्यत्र नियामकं दिदर्शयिषुराह- यजुः प्रमाणंत्वित्यादिना। यावत्पदजातं विभागे साकांक्षं अविभागे च एकार्थं तावदेकं यजुरित्यर्थः। एकवाक्यत्वस्याऽपि इदमेव लक्षणम्। यावदेकं वाक्यं, तावदेकं यजुरिति पर्यवस्यति। `देवोवस्सविताप्रार्पयतु श्रेष्ठतमायकर्मणे’ इत्यादौ यजुषि यथोक्तं लक्षणं समन्वेति। विभागे साकांक्षत्वात्, अविभागे एकार्थत्वाच्च। प्रथमदलमात्रोपादाने यजुर्द्वयत्वेनाभिमते `स्योनं ते सदनं कृणोमि घृतस्य धारयासुशेवं कल्पयामि- तस्मिन् सीदामृते प्रतितिष्ठ व्रीहीणां मेधसुमनस्यमानः’ इति पदसमुदाये अतिव्याप्तिः; `कल्पयामि’ इत्यत्र विभागे क्रियमाणे सति, उत्तरभागे `तस्मिन्’ इत्यस्य पूर्वोक्तसाकांक्षत्वात्। तद्वारणाय अविभागे एकार्थमिति द्वितीयं दलम्। निवेशिते च तस्मिन् यथोक्तपदसमुदाये पूर्वभागस्य सदनकरणप्रकाशकत्वे न उत्तरभागस्य सादनकरणप्रकाशकत्वेन च एकार्थत्वाभावात् न अतिव्याप्तिः। तथा द्वितीयदलमात्रोपादाने भगोवां विभजतु- पूषावां विभजतु इत्यादौ याज्ञिकैर्यजुर्मन्त्रद्वयत्वे नाभिमते पदसमुदाये अतिव्याप्तिः। द्वाभ्यामपि भागाभ्यां मुख्यतया अभिधीयमानस्य विभागरूपस्यार्थस्य एकत्वात्। तद्वारणाय विभागे साकांक्षमित्येतत् प्रथमदलमप्यावश्यकम्। निवेशिते च तस्मिन् प्रकृते विभागे कृतेपि साकांक्षत्वाभावात् न एकवाक्यत्वापत्तिः।
अयमेवार्थः मूले अन्वयव्यतिरेकाभ्यां संक्षेपेणाभिहितो वेदितव्यः।
मूलम्ः-
इषेत्वेत्यादावाकांक्षानिवर्तकपदं यद्यपि नास्ति, तथाऽपि इषेत्वेतिशाखां छिनत्त्यूर्जेत्वेत्यनुमार्षीति विनियोगबलान्मन्त्रभेदः, छिनद्मीत्यध्याहारेण वाक्यपूरणं च।
व्याख्याः-
यस्तावत् यजुर्मन्त्रत्वेन परिगृह्यमाणोऽपि यथोक्तं लक्षणं नकक्षी करोति तत्र का गतिरित्यत आह- इषेत्वादानिति। आकांक्षानिवर्तकपदं= क्रियापदमित्यर्थः। तदभावेऽपि प्रकारान्तरेण मन्त्रभेदः सिद्ध्यतीत्याह- तथाऽपीति। विनियोगबलात्= क्वचिद्ब्राह्मणे शाखाच्छेदनादि तत्तत्क्रियाङ्गत्वेन मन्त्रस्य विनियुक्तत्वादित्यर्थः। विनियोगो नामाङ्गत्वबोधनम्। “इषेत्वेति शाखामाच्छिनत्ति, ऊर्जेत्वेति सद्नमयत्यनुमार्ष्टिवां” इत्युक्तमापस्तंबकल्पसूत्रे।
मूलम्ः-
या ते अग्नेऽयाशया तनूर्वर्षिष्ठागह्वरेष्ठोग्रं वचो अपावधीं त्वेषं वचो अपावधीगस्वाह- इति संपूर्णार्थमन्त्रमाम्नाय श्रूयते- या ते अग्नेरजाशयेति, या ते अग्नेहराशयेति। अनयोः साकांक्षयोराकांक्षापूरणं तनूरित्यादिना भवितुं युक्तमिति तदेवानुषञ्जनीयम्। अश्रुतकल्पनापेक्षया सन्निहित श्रुतानुषङ्गस्य लघुत्वात्।
व्याख्याः-
वाक्यार्थस्य न्यूनतापरिहाराय अश्रुतस्य पदस्य आहरणं अध्याहारः। स च पूर्वत्र `इषेत्वा’दिषु दर्शितः। अधुना तु तदर्थमेव पूर्वत्र परत्र वा श्रुतस्य पदस्य, पदसमुदायस्य वा आनयनरूपोऽनुषङ्गस्सोदाहरणं प्रदर्श्यते- या ते अग्न इति। अध्याहारापेक्षया अनुषङ्गस्य उपादेयत्वे हेतुमाह- अश्रुतेति। न च- पूर्वत्र परत्र वा वाक्ये अन्वितस्य तावता निराकांक्षत्वात्, तस्य आकांक्षोत्थापनपूर्वकमत्रानयनमपि गौरवग्रस्तमेवेति- वाच्यम्; तथात्वेऽपि बुद्धौविपरिवर्तमानत्वेन उपस्थितत्वात्तस्यैवानयने लाघवस्य अनपोद्यत्वात्।
मूलम्ः-
चित्पतिस्त्वापुनातु वाक्पतिस्त्वापुनात्वित्यनयोर्निराकांक्षयोरपि, देवस्त्वासविता पुनात्वच्छिद्रेणपवित्रेणेत्युत्तरमन्त्रगतोवाक्यशेषः अच्छिद्रेणेत्यादिः योग्यतया सम्बन्धुमर्हतीति तत्राऽप्यनुषञ्जनीयः। असंबन्धपदव्यवधाने तु नानुषङ्गः। संतेवायुर्वा तेन (संतेप्राणोवायुना- इतितैत्तिरीयपाठः) गच्छतां संयजत्त्रैरङ्गानि संयज्ञपतिराशिषा’ इत्यादौ गच्छतामित्येकवचनस्य अङ्गानीति बहुवचनेन सम्बन्धानर्हत्वात् तद्व्यवायाच्च आशिषेत्यत्राऽपि नानुषङ्गः सिध्यतीति।
व्याख्याः-
यत्र पदसमुदाये विभागे क्रियमाणे उभयत्राऽपि साकांक्षत्वं तादृशमनुषङ्गोदाहरणमुक्त्वा, यत्र अन्यतरस्य निराकांक्षत्वेऽपि अन्यतराकांक्षानुरोधेनैवानुषङ्गः, तादृशमुदाहरणमाह- चित्पतिस्त्वापुनात्विति। अधुना उक्तस्यानुषङ्गस्यापवादं दर्शयन् अनुषङ्गभ्रमं वारयति- असम्बन्धेति। यद्यप्यत्र `गच्छताम्’ इति पदं प्रथममन्त्र इव तृतीयमन्त्रेऽपि अनुषञ्चयुतुं योग्यं, तथाऽपि द्वितीयमन्त्रे एकवचनान्तस्य तस्यानन्वया,त्तदर्थं बहुवचनान्ते गच्छन्तामिति पदे अध्याहृतेसति, ते नैव व्यवधानात् उत्तरत्रवानुषञ्जयितुं शक्यमिति भावः। व्यवायात्= व्यवधानात्।

  • इति द्वितीयस्याध्यायस्य प्रथमः पादः -

    • द्वितीयः पादः -
      तदेवमुपोद्घातं तत्प्रसक्तानुप्रसक्तं च समाप्य लक्षणार्थं भेदमुदाहरति-
      मूलम्ः-
      `शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्’ इति। यजति- ददाति- जुहोतीत्यादौ धात्वर्थभेदात् कर्मभेदः।
      व्याख्याः-
      अथ द्वितीयपादमारभमाणः वृत्तं, वर्तिष्यमाणं च निर्दिशति- तदेवमिति। सूत्रकार इति शेषः। “चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं विदुर्बुधाः” इत्युपोद्घात लक्षणम्। लक्षणार्थं= अध्यायमुख्यप्रतिपाद्यं कर्मभेदरूपमर्थम्। प्रथमपादारम्भे नामतोनिर्दिष्टानि शब्दान्तरादीनि षट् कर्मभेदकप्रमाणानि तानीह लक्षणोदाहरणाभ्यां विशदीक्रियन्ते। तत्र प्रथमं शब्दान्तरं सूत्ररूपेणोदाहति- शब्दान्तरोति। सूत्रार्थं संक्षिप्यदर्शयति- यजतीत्यादिना। `सोमेन यजेत, अग्निहोत्रं जुहोति, आत्रेयायहिरण्यं ददाति’ इत्यादि वाक्यान्यत्र उदाहरणीयानि।
      यथा लोके गामानय, गां बधान, गां चारय इत्यादिषु आनयन- बन्धन- चारणक्रियाभेदेन तत्तदनुकूलाः कृत्यपरपर्यायाः व्यापाराः भिद्यन्ते, नह्येकरूपया कृत्या आनयन- बन्धन- चारणादिरूपाः क्रियाः निष्पादयितुं शक्यन्ते, तद्वत् यागहोमदानादिरूपाणि कर्माण्यपि एकया भावनया निष्पादयितुं न शक्यन्ते। तत्तत्कर्मार्थं विलक्षणाः भावनाः अपेक्ष्यन्त एव। भवनाभेदे च अवश्यंभावी कर्मभेदः। यद्यपि प्रत्ययवाच्याभावना, भावनात्वेन रूपेणैकैव, तथाऽपि विभिन्नधात्वर्थोपरक्तासती साविभिन्नतया परिगण्यते। देवतोद्देश्यकद्रव्यत्यागोयागः, स एव प्रक्षेप विशिष्टोहोमः, स्वस्वत्व निवृत्तिपूर्वकपरस्वत्वापादनं दानमिति तेषां विभागः।
      मूलम्ः-
      समिधोयजति, तनूनपातं यजति, इडो यजति, बल्लिर्यजति, स्वाहाकारं यजतीत्यादावेकस्यैवाख्यातस्य असकृच्छ्रवणरूपादभ्यासात्कर्मभेदः। न तु समिदादि गुणात्, तस्य `समिधो अग्न आज्यस्य वियन्तु’ इत्यादि मन्त्रलिङ्गप्राप्तत्वात्। अप्राप्तो हि गुणः पूर्वत्रनिवेशमलभमानो गुणिनं भिनत्ति, न तु प्राप्तः। ततो यजतिशब्दस्याभ्यास एवात्र कर्मभेदकः।
      व्याख्याः-
      अभ्यासरूपं द्वितीयं कर्मभेदकप्रमाणमाह- समिधो यजतीति। अत्र समिधो यजतीत्यादिषु पञ्चस्वपि वाक्येषु यजति पदमीभ्यस्यमानमुपलभ्यते। तथा तदर्थोऽपि समान एव। तथाऽपि पिष्टपेषणवत् विहितस्यैव पुनर्विधानं व्यर्थमिति अभ्यासात्कर्मभेदः स्वीक्रियते। ननु नात्र अभ्यासात्कर्मभेदः, अपि तु गुणात्। अत्र पञ्चस्वपि वाक्येषु `समित्’ `तनूनपात्’ इत्यादि शब्दैः समित्तनूनपादादि देवतारूपाः गुणाः तत्तद्यागाङ्गतया विधीयन्ते। तथा च सिद्धोगुणभेदात्कर्मभेद इति चेत्, न - `समिधो अग्न आज्यस्य वियन्तु, तनूनपादग्न आज्यस्यवेतु’ इत्यादि प्राकरणिक मन्त्रलिङ्गकल्पितश्रुत्या तत्तद्देवतारूपस्य गुणस्य प्राप्तत्वेन पुनर्विधानानपेक्षणात्। तर्हि कीदृशो गुणः कर्मभेदमापादयतीत्याकांक्षायामाह- अप्राप्तो हि गुण इत्यादिना। ततश्च फलितमाह- ततो यजतिशब्दस्येति। गुणात्कर्मभेदः- उपरिष्टादुदाहरिष्यते।
      मूलम्ः-
      पूर्वोदाहृतानि यदाग्नेयोऽष्टाकपाल इत्यादीनि, समिध इत्यादीनि वाक्यानि पठित्वाऽऽम्नायते- य एवं विद्वानमावास्यां यजते, य एवं विद्वान्पौर्णमासीं यजते- इति। अत्र न कर्मविधीयते, तत्स्वरूपस्य द्रव्यदेवतस्याभावात्, किं तर्हि? अमावास्यापौर्णमासी शब्दाभ्यां तत्तत्कालविहितौ समुदायावनूद्येते। अनुवादप्रयोजनं तु- अमावास्यायाममावास्ययायजेत, पौर्णमास्यां पौर्णमास्या। दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादि।
      व्याख्याः-
      अभ्यासात्कर्मभेदमुदाहृत्य, अधुना तदपवादं दिदर्शयिषुः पौर्णमास्यधिकरणं प्रस्तौति- पूर्वोदाहृतानीति। अत्र कर्मविधानाभावे हेतुं दर्शयति- तत्स्वरूपस्येति। द्रव्यदेवते हि यागस्य स्वरूपम्। देवतोद्देश्यकद्रव्यत्यागस्यैव यागत्वात्। तयोरन्यतरस्य अभावेऽपि कथंचित् यागस्वरूपमवधारयितुं शक्यते। अत्र उभयोरप्यभावान्नकर्मविधिरिति भावः। समुदायाविति। आग्नेयोऽष्टा कपालः, उपांशुयाजः, अग्नीषोमीय एकादशकपालश्चेत्येकस्समुदायः। आग्नेयोऽष्टाकपालः, ऐन्द्रंदधि, ऐन्द्रंपयश्चेति द्वितीयस्समुदायः।
      अनुवादप्रयोजनं संक्षिप्तशब्दसंदर्भेण दर्शयति- अमावास्यायामित्यादिना। `अमावास्यायाममावास्ययायजेत, पौर्णमास्यां पौर्णमास्यायजेत’ इति वाक्ययोः समुचितयागत्रिकद्वयप्रयोगविधित्वं एकादशेवक्ष्यते। अन्यथा त्रयोऽपियागाः पूर्वोत्तराङ्गैस्सह पृढक्पृथगनुष्ठेयाःस्युः। अतस्तन्त्रेणानुष्ठानमेकं प्रयोजनम्। तथा- `दर्शपूर्णमासाभ्यां स्वर्गकामोयजेत’ इति फलवाक्ये द्विवचनोपपत्त्याषण्णामपि यागानां स्वर्गरूपसम्बन्धोपपत्तिः प्रयोजनान्तरम्। अन्यधा `दर्शपूर्णमासैः’ इति बहुवचनं प्रयोक्तव्यंस्यादित्याशयः।
      मूलम्ः-
      अत्र विधिश्चतुर्विधः- उत्पत्त्यधिकारविनियोगप्रयोगभेदात्। तत्र कर्मस्वरूपमात्रावगमकोविधिरुत्पत्तिविधिः, यदाग्नेयोऽष्टाकपाल इत्यादिः।
      फलसम्बन्धबोधकोविधिरधिकारविधिः। `चित्रयायजेत पशुकामः’ `सर्वेभ्यः कामेभ्योदर्शपूर्णमासौ’ `सर्वेभ्योऽग्निष्टोम’ इत्यादिः।
      व्याख्याः-
      इह क्रमप्राप्तं संख्यासंज्ञादिप्रयाणकं कर्मभेदं तथा अदस्थाप्यप्रसङ्गात् विधीन् विभजते- अत्र विधिश्चतुर्विध इति। वस्तुतः लिङ्, लोट्, तव्यप्रत्ययादय एव विधयः। तथाऽपि तद्घटितं वाक्यमपि विधित्वेन व्यवह्रियते शास्त्रकृद्भिः। तदिह `सतिकुड्ये चित्रलेखन’मिति न्यायेन प्रथमतः उत्पत्ति विधिमुदाहरति- तत्रेत्यादिना। तत्र= चतुर्विधानां विधीनां मध्ये इत्यर्थः `आग्नेयोऽष्टाकपाल’ इत्यत्र आग्नेयपदे प्रकृत्या अग्निदेवतायाः, तद्धितप्रत्ययेन पुरोडाशद्रव्यस्यचाभिधानात्, द्रव्यदेवतयोरेव यागस्वरूपत्वात्, तत्सम्बन्धनुमितो यागोऽत्र विधीयते अष्टाकपालशब्दः तद्धितो पात्तस्यैवद्रव्यस्य विवरणात्मकः। अतोऽयं कर्मस्वरूपमात्रावगमको विधिरिति अस्य उत्पत्तिविधित्वमुपपन्नम्।
      अधिकारविधिं लक्षयति- फलसम्बन्धबोधक इति। अधिकारोनाम फलस्वाम्यम्। येन यागकर्तुः यजमानस्य स्वर्गादिफलस्वाम्यं बोध्यते सोऽभिकारविधिरित्यर्थः। `चित्रयायजेत पशुकामः’ इत्यत्र चित्रापदेन दधिमधुघृतादिद्रव्यकोयागोऽभिधीयते। विचित्रद्रव्यकत्वादेव तस्य चित्रापदं नामधेयम्। तदनुष्ठातुः पशुरूपफलसम्बन्धोऽनेन बोध्यते- `चित्रायागेन पशून् भावयेत्’ इति।
      उदाहरणान्तरं दर्शयति- सर्वेभ्य इत्यादिना। `एकैकस्मैकामायान्ये यज्ञक्रतव आह्रियन्ते सर्वेभ्योदर्शपूर्णमासौ, सर्वेभ्यो ज्योतिष्टोम’ इति समग्रं वाक्यम्। यद्यपि `दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ `ज्योतिष्टोमेन स्वर्गकामो यजेत’ इति वाक्याभ्यां दर्शपूर्णमास ज्योतिष्टोमयो स्वर्गरूपफलार्थत्वमवगम्यते, तथाऽपि अनेन सर्वकामवाक्येन- संयोगपृथक्त्वान्यायेन- तयोस्सर्वफलार्थत्वमपि सिध्यति। अत्राऽयं विशेषः- सर्वशब्देन पुत्र- पशु- दृष्ट्यादीनां सर्वेषां कामानां विवक्षितत्वेऽपि न सकृदनुष्ठानात् सर्वकामावाप्तिः, किन्तु एकस्मात् प्रयोगादेकमेव फलमुत्पद्यत इति भिन्नभिन्नकामना सिद्ध्यर्थमवश्यं भावीप्रयोगभेदः। अत्रापरोविशेष उपरिष्टाद्वक्ष्यते। (चू. 144.)
      मूलम्ः-
      `व्रीहिभिर्यजेत, यवैर्यजेत’ `समिधोयजति, तनूनपातं यजति’ इत्यादिरङ्गसम्बन्धबोधकोविधिर्विनियोगविधिः। अत्र व्रीहियवादीनां दृष्टार्थानां विकल्पः, समित् तनूनपादादीना मदृष्टार्थानां समुच्चयः। यद्यपि विकल्पेऽप्टौदोषा, स्तथाऽपि वाक्यद्वयस्य समबलत्वादन्यतरेणेतरबाधायोगादगत्याङ्गीक्रियते। ते च व्रीह्युपादाने व्रीह्यंशे- स्वीकृताप्रामाण्यत्यागः, अस्वीकृतप्रामाण्यग्रहः। यवांशे- स्वीकृतप्रामाण्यत्यागः, अस्वीकृताप्रामाण्यग्रहः। एवं यवोपादानेऽपि।
      व्याख्याः-
      अधुना विनियोगविधिं दर्शयति- व्रीहिभिर्यजेतेति। अङ्गसम्बन्धबोधकः= अङ्गप्रधान सम्बन्धबोधक इत्यर्थः। व्रीहिभिर्यजेतेत्यत्र धात्वर्थोयागः प्रधानं। तदुद्देशेन तृतीयाश्रुत्याव्रीहयः करणत्वेन विधीयन्ते- व्रीहिभिर्यागं भावयेदिति। करणत्वं चाङ्गत्वेपर्यवसन्नम्। व्रीहीणां च यागाङ्गत्वं न साक्षात्, किन्तु तण्डुल-पिष्ट- पुरोडाशनिष्पादनपरम्परया। प्रकृतिद्रव्यत्वे नैव व्रीहयोऽत्रविधीयन्ते। यागस्य व्रीहीणां च दृष्टद्वारक एव साध्यसाधनभावरूपस्सम्बन्धोऽनेन बोध्यत इति भवत्ययं विनियोगविधिः। एवं यवैर्यजेतेत्यत्राऽपि। समिधो यजति- `तनूनपातं यजति’ इत्यादि वाक्यैस्तु समित्तनूनपादादियागा एव विधीयन्ते। किमुद्दिश्यविधीयन्त इत्याकांक्षायां, एतेषां वाक्यानां दर्शपूर्णमासप्रकरण पठितत्वात् तद्वाक्यविहितानां यागानां उपकार्याकांक्षायाः, दर्शपूर्णमासयो रुपकारकाकांक्षायाश्च सत्त्वात् उभयाकांक्षालक्षणेन प्रकरणेन समिदादीनां दर्शपूर्णमासाङ्गत्वमिति तृतीये वक्ष्यते। समिदादीनां च दर्शपूर्णमासोपकारकत्वरूपमङ्गत्वं व्रीह्यादिवत् न दृष्टद्वारा संभवतीति अदृष्टद्वारैव तत्संपादयितव्यम्। तथा च समिदादि यागानुष्ठान समनन्तरमेव किञ्चिदपूर्वमुत्पद्यते। तदङ्गापूर्वमित्याख्यायते। तच्च दर्शपूर्णमास प्रधानयागजन्यापूर्वे उपयुज्यते। अङ्गापूर्वाणां प्रधानापूर्वोत्पत्तौ- अर्थात् तस्य फलोत्पादनयोग्यताजनसे उपयोगो द्रष्टव्यः। एवं च समिदादीनां, दर्शपूर्णमासप्रधानस्य च अपूर्वद्वारक एव उपकार्योपकारकभावलक्षणस्सम्बन्धः समिदादि वाक्येन बोध्यत इति भवत्ययमपि विनियोगविधिः। व्रीह्यादीनां, समिदादीनां च प्रधानोपकारकत्वाविशेषेऽपि दृष्टद्वारकत्वादृष्टद्वारकत्वाभ्यां अवान्तरभेदो द्रष्टव्यः। एतद्‌छेदनिबन्धनं कञ्चिद्विशेषं दर्शयति- अत्रव्रीहियवादीनामित्यादिना। यागनिर्वृत्तये स्वरसतः यत्किंचिदेकं द्रव्यमपेक्षितम्। तत्र व्रीहिभिर्यजेतेति विधिं पुरस्कृत्य व्रीह्युपादेन यवविधेर्वैयर्थ्यम्। यवैर्यजेतेति विधिं पुरस्कृत्य यवोपादाने व्रीहिविधैर्वैयर्थ्यम्। स च व्रीहिविधिना यवविधेर्वा, यवविधिना व्रीहि विधेर्वाबाधोऽस्त्विति वाच्यम्, विषमबलत्वे तत्संभवेऽपि अत्र उभयोस्तुल्यबलत्वेन तदसंभवात्। अतश्च पाक्षिकं बाधमङ्गीकृत्य विकल्पोऽङ्गीकर्तव्यः। वेधेः दृष्टार्थत्वेसत्येनं विकल्पोज्ञेयः। अदृष्टार्थत्वे तु न विकल्पः। अत एव प्रयाजत्वेन प्रसिद्धानां समित्तनूनपादादीनां पञ्चाणां यागानां न विकल्पः, किन्तु समुच्चय एव। दृष्टार्थस्थले तु व्रीहिभिर्यादृश उपकारस्तादृश एव यवैरपीति युज्यते विकल्पः। अदृष्टार्थस्थले तु- समिद्यागेनयादृश उपकारस्तादृश एव तनूपाद्यागेनाऽपीतिज्ञातु मशक्यत्वात् सर्वेषां समुच्चय एव संगच्छते।
      विकल्पस्सहसा नाङ्गीकर्तव्यः, किन्तु गत्यन्तराभाव एवेति ज्ञापयितुं तत्रत्यानष्टौदोषान् दर्शयति- ते च व्रीह्युपादान इत्यादिना। व्रीह्युपादाने संभावितान् दोषान् यवोपादानेऽप्यतिदिशति- एवमिति। तद्यथा- यवोपादाने यवांशे- स्वीकृताप्रामाण्यत्यागः, अस्वीकृतप्रामाण्यग्रहः, व्रीह्यंशे- स्वीकृतप्रामाण्यत्यागः, अस्वीकृताप्रामाण्यग्रहः। इत्येवं चत्वारोदोषाः। मूलोक्तैः व्रीह्युपादानपक्षगतैश्चतुर्भिस्सह अष्टौदोषाः भवन्ति।
      मूलम्ः-
      साङ्गप्रधानानुष्ठापकोविधिः प्रयोगविधिः। स च क्वचित्क्वचित्कल्प्यते। औपदेशिकैरातिदेशिकैश्चाङ्गैः समवेतं चित्राख्यं यागं कुर्यादिति।
      `दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ `अग्निष्टोमेन स्वर्गकामो यजेते’त्यादिषु तु स्वर्गकामपदं `सर्वेभ्य’ इति प्राप्तस्यावयुत्यानुवाद इति पक्षमाश्रित्य श्रौतः।
      व्याख्याः-
      अवशिष्टं प्रयोगविधिं लक्षयति- साङ्गप्रधानेति। अदमत्रावधेयम्- प्रयोगविधिस्तावत् उत्पत्त्यादिविधिवत् न प्रत्यक्षवाक्यरूपेणाम्नायते। किन्तु तत्तत्प्रधानकर्मसम्बन्धितया श्रुत्यादिभिः प्रमाणैरुपनतानि सर्वाण्यङ्गानि समाहृत्य, क्रमेण निबध्यपुष्पहारवत् याज्ञिकैः परिकल्पितः पदसंदर्भ एव। यथा- अन्वाधानादि ब्राह्मतर्पणान्तैस्तत्तत्पूर्वोत्तराङ्गैरुपकृताभ्यां दर्शपूर्णमासाभ्यां स्वर्गंभावयेत्- इति। प्रकृतिषु दर्शपूर्णमासादिषु प्रयोगविधिः उपदिष्टानि प्राकृतान्येवाङ्गानि संगृह्णाति, विकृतिषु तावत् प्रकृतितोऽतिदिष्टान्यपीति विशेषदृष्ट्यामूले चित्रेष्टि विषयकः प्रयोगविधिः प्रादर्शि- औपदेशिकैरित्यादिना।
      पूर्वत्र अधिकारविधिनिरूपणावसरे वक्तव्यं किञ्चिदिह सिंहावलोकन न्यायेन कथयति- दर्शपूर्णमासाभ्यामिति। अवयुत्य= पृथक्कृत्य।
      अत्रेदमवधेयम्- `दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ `ज्योतिष्टोमेन स्वर्गकामो यजेत’ इति। वाक्यद्वयं फलविध्युदाहरणतया प्रायशोमीमांसका उल्लिखन्ति। एतद्विषये पक्षद्वयं वर्तते। सर्वकामवाक्यादवयुत्यानुवादरूपं दर्शपूर्णमासादि वाक्यं श्रौतमेवेत्येकः पक्षः। शाखान्तरानुसारेण कल्पसूत्रकारोक्तं, अत एव स्मार्तमित्यपरः पक्षः। फलविधि निरूपणावसरे सर्वसम्मतं सर्वकामवाक्यमुदाहरन्नपि ग्रन्थकारः, अत्र प्रसङ्गात् इदमुक्तवानिति।
      मूलम्ः-
      स पुनस्त्रिविधः- अपूर्वविधि,र्नियमविधिः, परिसंख्याविधिश्च। तत्र यो मानान्तरेणात्यन्ताप्राप्तस्यार्थस्य विधायकः स आद्यः। यथा- व्रीहिन्प्रोक्षतीति। नह्येनं विना प्रोक्षणं व्रीहिषु कथञ्चिदपि प्राप्नोति।
      व्याख्याः-
      पूर्वोक्तं विधिं पुनः प्रकारान्तरेण विभजते- स पुनरिति। त्रीन् विधीन् नामतो निर्दिशति- अपूर्वविधिरित्यादिना। तेषामाद्यं अपूर्वविधिं लक्षयति- मानान्तरेणेति। नियमविधौ तावत् अवहननादेः पक्षेप्राप्तिरस्ति। इह तु सापि नास्तीति द्योतयितुं अत्यन्तपदम्। तथा- न केवलं वेदवाक्यरूपात् प्रमाणान्तरात्। अपि तु प्रत्यक्षानुमानार्थापत्त्यादिरूपादपि प्रोक्षणं न प्राप्नोतीत्ययमर्थः `कथञ्चिदपि’ इत्यनेन सूच्यते।
      मूलम्ः-
      लोकाद्वेदतोवायत् पक्षप्राप्तं तस्याप्राप्तांशपरिपूरण फलो द्वितीयः। यथा- व्रीहीनवहन्तीति। यथा वा आग्रयणे- `व्रीहिभिरिष्ट्वाव्रीहिभिरेव यजेतायवेभ्यः, यवैरिष्ट्वा यवैरेव यजेताव्रीहिभ्यः’ इति। आद्येतण्डुल निष्पत्त्याक्षेपा दवघातवन्नखविदलस्याऽपि लोकावगत कारणत्वाविशेषात् प्राप्तौ अवघाताप्राप्तांशोऽस्ति। द्वितीये पूर्वोदाहृतव्रीहि यववाक्याभ्यां व्रीह्यग्रयणादूर्ध्यमपि पक्षेयवप्राप्त्या व्रीह्यप्राप्तांशोऽस्ति। तत्परिपूरणेत्वितरनिवृत्तिरार्थाद्भवतीति व्रीहिभिरेवेत्येवकारोऽनुवादः।
      व्याख्याः-
      अथ विधित्रये द्वितीयं नियमविधिं लक्षयति- लोकाद्वेदतोवेति। तत्र लोकादित्यस्योदाहरणमाह- यथाव्रीहीनवहन्तीति। पक्षप्राप्तमित्यस्य- इच्छानुसारेण कदाचित् प्राप्नोति कदाचिन्नप्राप्नोति च यत्तादृशमित्यर्थः। अप्राप्तांश परिपूरणफलः= अप्राप्तप्राप्तिफलक इत्यर्थः। इत्थं लोकतः पक्षप्राप्तमुक्त्वा वेदतः पक्षप्राप्तमुदाहरति- यथा वा इति। अग्रयणं नाम- नूतन धान्योत्पत्त्यनन्तरं, तस्य भक्षणयोग्यता सिद्ध्यर्थमनुष्ठेयं कर्म। तच्च प्रतिवर्षं व्रीह्युत्पत्तौ यवोत्पत्तौ च कर्तव्यम्। तदधिकृत्य इदं वाक्यद्वयं शूयते- `व्रीहिभिरिष्ट्वा, यवैरिष्ट्वा’चेति। व्रीहयः प्रसिद्धाः। व्रीहिसस्य परिणत्यनन्तरं परिणममाणः दीर्घशूकोधान्यविशेषः यवशब्दवाच्यः। तल्लक्षणं तु- `यत्रान्या ओषधयोम्लायन्ते, अथैतेमोदमाना इवोत्तिष्ठन्ति’ इति। व्रीह्याग्रयण मनुष्ठितवता यजमानेन तदारभ्ययवप्राप्तिपर्यन्तं मध्ये प्रसज्यमानानि चरुपुरोडाशादि साध्यानि सर्वाण्यपि कर्माणि व्रीहिभिरेवानुष्ठेयानि। तथैव यवाग्रयणं कृतवता व्रीहिप्राप्तिपर्यन्तं चरुपुरोडाशादीनि यवैरेवानुष्ठेयानि। न तु विकल्पपक्षमाश्रित्य व्रीह्याग्रयणादूर्ध्वं यवा वा, यवाग्रयणादूर्ध्वं व्रीहयोवा ग्राह्या इत्यर्थः। ननु व्रीह्युपादाने यवानां, यवोपादाने व्रीहीणां च निवृत्तेरर्थसिद्धत्वात् `व्रीहिभिरेव’ `यवैरेव’ इत्यत्र एवकारोनिरर्थक इति चेत्, न - अर्थसिद्धाया एव इतर निवृत्तेः एव कारेण स्पष्टप्रतिपत्त्यर्थमनूद्यमानत्वात्। अन्यथा परिसंख्याविधित्वभ्रमोऽपि स्यादिति। अवघाताप्राप्तांशः= अवघातरूपः अप्राप्तांशः। तथा व्रीह्यप्राप्तांश इत्यपि।
      मूलम्ः-
      वेदतो लोकतो वा समुच्चित्यप्राप्तयोरितरनिवृत्ति फलको विधि स्तृतीयः। यथा- `इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्ते’ इति। `पञ्च पञ्चनखाभक्ष्याः’ इति च। अग्निचयने अश्वरशनाग्रहणं गर्दभरशनाग्रहणं चेति द्वयमनुष्ठेयम्। तत्रोभयत्रायं मन्त्रोरशनाग्रहण सामर्थ्यरूपा लिङ्गादेव प्राप्त इति। नाश्वर शनाग्रहणाङ्गत्वं प्रतीयते। अपि तु गर्दभरशनातो व्यावृत्तिरेवागत्या दोषत्रयं सोढ्वाऽप्यङ्गीक्रियते- विधि वैयर्थ्यपरिहाराय। दोषत्रयं च- श्रुतस्याश्वरशनाग्रहणाङ्गत्वस्य त्यागः, अश्रुतस्य गर्दभरशनाङ्गत्ववर्जनस्य ग्रहणं, मन्त्रलिङ्गात्सामान्यतः प्राप्तस्य गर्दभरशनाङ्गत्वस्य त्याग इति। श्रुतहानि, रश्रुत कल्पना, प्राप्तबाधश्चेति सर्वत्र परिसङ्ख्यायां दोषत्रयं ज्ञेयम्।
      व्याख्याः-
      लक्षणोदाहरणपूर्वकं परिसङ्ख्याविधिं दर्शयति- वेदतो लोकतोवेति। इतर निवृत्तिफलकविधित्वं परिसङ्ख्याविधेः पर्यवसितं लक्षणम्। निवृत्तेः प्राप्तिपूर्वकत्वनियमात् कुतः प्राप्तिरित्याकांक्षायामाह- वेदतो लोकतो वा प्राप्तयोरिति। पाक्षिकी प्राप्तिर्नियम विधावपि दृष्टेति तद्व्यावृत्त्यर्थं समुच्चित्येतिप्राप्ति विशेषणम्। प्रथमतो वैदिकमुदाहरणं दर्शयति- इमा मगृभ्णन्निति। तथा हि- तैत्तिरीयशाखानुसारेण अग्निचयनाङ्गभूताग्निधारणोपयुक्तायाः उखायाः निर्माणार्थं मृदमाहर्तुं मृत्खनं प्रतिगच्छता अध्वर्युणा अश्वोगर्दभश्च सहैवनेतव्यौ। तयोश्च बध्वैवनेतुं शक्यत्वात् बन्धनरज्ज्वादानमर्थप्राप्तम्। आदानं च समन्त्रक- ममन्त्रकं वा कर्तव्यमिति विचारावसरे इदमाम्नायते- `इमामागृभ्णन्रशना मृतस्येत्यश्वाभिधानीमादत्ते’ इति। अश्वोऽभिधीयते- बिध्वाधार्यते यया रशनया सेऽयमश्वाभिधानी। रशनारज्जुरित्यर्थान्तरम्। इमामग्नभ्णन्निति मन्त्रेण अश्वरशनामाददीतेति यथाश्रुतो वाक्यार्थः। यद्यप्ययं मन्त्रः रशनादानप्रकाशन सामर्थ्यरूपाल्लिङ्गादेव आदानाङ्गत्वं प्राप्नोतीति- न तदर्थं पृथग्विध्यपेक्षा। तर्हि किमर्थोऽयं विधिरिति जिज्ञासायामाह- तत्रोभयत्रेति। अयमाशयः- इमामगृभ्णन्निति मन्त्रः आदेयां रशनां सामान्यरूपेण निर्दिशति, न तु अश्वसम्बन्धितया, गर्दभ सम्बन्धतया वा विशिंषति। ततश्च लिङ्गकल्प्याश्रुतिः सामान्यरूपेण रशनाद्वयाङ्गत्वेनाऽपि मन्त्रं विनियोक्तुं सन्नह्यति। अस्यांदशायामारभ्यमाणस्य `इमामगृभ्णन्रशनामृतस्येत्यश्वाबिधानीमादत्ते’ इत्यस्य विधेः कुत्रतात्पर्यं भवितुमर्हतीति जिज्ञासायां, न अश्वरशनादानाङ्गतया मन्त्रविधाने; तस्य लिङ्गादेवप्राप्ति संभवात्। किन्तु गर्दभ रशनादानतः मन्त्रनिवर्तने एवेति वक्तव्यम्। तथा च लिङ्गादश्वृ गर्दभ रशनाद्वयादानाङ्गत्वेन प्राप्यमाणस्य मन्त्रस्य गर्दभरशनादानतोनिवृत्तिबोधन फलत्वादयं विधिर्भवति परिसङ्ख्याविधिः। प्रतीयते= विधीयत इत्यर्थः। वर्जनस्य ग्रहणं= वर्जनस्य कल्पनमित्यर्थः।
      इत्थं वैदिकीं परिसङ्ख्यां निरूप्य लौकिकीं सुप्रसिद्धतया उदाहरणमात्रेण निर्दिशति- `पञ्च पञ्चनखाभक्ष्या इति च’ इति। अत्र पञ्चनखानां अपञ्च नखानां च भक्षणस्य रागतस्समुच्चित्यैव प्राप्तत्वेन, नाऽयं पञ्चनखभक्षण कर्तव्यताबोधको विधिः, किन्तु अपञ्च नखभक्षणनिवृत्तिबोधनपरतया परिसङ्ख्याविधिरिति केचन व्याचक्षते। किन्तु तन्नयुज्यते; `पञ्च’ इत्यस्य पञ्चनख विशेषणस्य वैयर्थ्यापत्तेः। अत एवं वक्तव्यम्- `शल्यकः श्वाविधोगोधाशशः कूर्मश्च पञ्चमः’ इति (रामायणे किष्किन्धाकाण्डे) परिगणितानां पञ्चसंख्याकानां पञ्चनखानां, तदतिरिक्तानां पञ्चनखानां च भक्षणस्य रागतः समुच्चित्य प्राप्ततयानाऽयं पञ्चसंख्याक पञ्चनख भक्षणकर्तव्यताबोधकः, किन्तु पञ्चेतर पञ्चनखभक्षणनिवृत्तिबोधफलकतया भवत्ययं परिसङ्ख्याविधिरिति।
      यद्यपि परिशङ्ख्याविधौ परिगृह्यमाणे श्रुतिहानिः, अश्रुतकल्पना, प्राप्तबाधश्चेति दोषत्रयं भवति, तथाऽपि वाक्यवैयर्थ्यभियादोषत्रयं सोढ्वाऽपि सोऽङ्गीक्रियत इत्याह- अगत्या दोषत्रयमिति। दोषत्रयं विवृणोति- दोषत्रयं दोषत्रयं चेत्यादिना। इत्थमेव लौकिक्यामपि परिसङ्ख्यायामिदं दोषत्रयं योजनीयम्- श्रुतस्य पञ्चपञ्चनखभक्षणस्य त्यागः, अश्रुतायाः पञ्चातिरक्तपञ्चनखभक्षणनिवृत्तेः कल्पना, रागतः प्राप्तस्य पञ्चपञ्चनख- पञ्चातिरिक्त पञ्चनखभक्षणस्य बाधश्चेति। (अत्रेदं चिन्त्यम्- यद्यपि “इमामगृभ्णन्—– आदत्ते” इत्येतद्वाक्यं बहुभिः ग्रन्धकारैः परिसङ्ख्याविध्युदाहरणतया उदाहृतं, व्याख्यातं च। वस्तुतस्तु- इमामगृभ्णन्निति मन्त्रस्य श्रीमाधवविद्यारण्यैः केवलमश्व रशनादानाङ्गतयैव व्याख्यातत्वात्, नास्य लिङ्गादुभयत्र प्राप्तिः। नापि अन्यतर निवृत्तिफलकपरिसंख्याविधित्वमिति- सर्वं कृत्वाचिन्तारूपं प्रतिभाति।)
      मूलम्ः-
      एवं भूतैर्विधिभिर्विहितं कर्मद्विविधं, गुणकर्मार्थकर्मभेदात्। तत्र यत् क्रतुकारकमाश्रित्य विधीयते तदाद्यम्- उत्पत्त्याप्ति विकृति संस्कृतिरूप फलभेदाच्च चतुर्विधम्। `वसन्तेऽग्नीनादधीत’ `यूपं तक्षति’- अत्राधान तक्षणादि संस्काराभ्यामग्नियूपयोः प्रागसतोरुत्पत्तिः फलम्। एवं `पिष्टानिसंयौति’ इत्यत्र संयुवनस्य पिण्डोत्पत्तिः, `स्वाध्यायोऽध्येतव्यः’ `गांदोग्धि’ इत्यादौ अध्ययनदोहनाभ्यां, सिद्धयोरेव- स्वाध्याय- पयसोः प्राप्तिः।`सोममभिषुणोति’ `व्रीहिनवहन्ति’ `दक्षिणाग्नावाज्यं विलापयति’ इत्यादौ कण्डनादेः पूर्वरूपपरित्यागेन रूपान्तरापत्तिर्विकृतिः। `चतुरोमुष्टीन्निर्वपति’ `व्रीहीन्प्रोक्षति’ इत्यादौ निर्वापप्रोक्षणाभ्यामपूर्वीयेषु व्रीहिषु अदृष्टरूपं गुणाधानं- दोषापकर्णणं वा संस्काराख्यं क्रियते। तस्य फलं तेषु योग्यत्वसिद्धिः। दृष्टरूपोऽपि संस्कारः `पुरोडाशानलह्करोति’ `तण्डुलांस्त्रिः प्रक्षालयति’ इत्यादिः।
      व्याख्याः-
      इत्थं लक्षणोदाहरणाभ्यां विधिभेदान् प्रतिपाद्य, अधुना विधेयभेदान् वक्तुमारभते- एवं भूतैर्विधिभिर्विहितमिति। तत्र द्वैविध्यमाह- गुणकर्म, अर्थकर्मेति। तयोराद्यं लक्षयति- क्रतुकारकमिति। क्रतुकारकं= क्रत्वङ्गभूतं द्रव्यम्। आश्रित्य= उद्दिश्य, क्रत्वङ्गभूतं द्रव्यमुद्दिश्यविधीयमानमित्यर्थः। तस्य फलभेदात् चातुर्विध्यं दर्शयति- उत्पत्त्याप्तेत्यादिना। आधानं नाम संभारेषु मन्त्रपूर्वकं मथिताग्नेः स्थापनम्। यद्यपि अग्नेः भौतिकं स्वरूपं पूर्वसिद्धमेव। तेन रूपेण उत्पत्तिः नात्रविवक्षिता। किन्तु गार्हपत्यत्वाहवनीयत्वादिना अलौकिकरूपेणोत्पत्तिः आधानेनैव लभ्यते। तथा बिल्व- खदिर- पलाशादीनां दारुस्वरूपेण पूर्वं विद्यमानानामपि, तक्षणाष्टाश्रीकरणप्रोक्षणादि दृष्टादृष्टसंस्कारवशात्, प्रागविद्यमानं यूपत्वं अलौकिकमुत्पद्यते। संयवनं नाम उष्णोदकेन मिश्रीकरणम्। तेन इतः पूर्वंपिष्टेषु असन्नेव पिण्डीभावोजायते। अतः आधानतक्षण-संयवनादीनि उत्पत्तिसाधनानि गुणकर्माणि। तथा- अध्ययनेन गुरौ संस्काररूपेणप्राक्‌ विद्यमानपवस्वाध्यायः शिष्येण प्राप्यते। एवं गोरूधसि पूर्वंस्थितमेव पयःदोहनेन प्राप्यते। एवं विधानि प्राप्तिफलकानि गुणकर्माणि। अवहननम्= उलूखले प्रक्षिप्तानां व्रीह्यादीनां मुसलेन प्रहरणम्। कण्डनम्= तुषापनयनम्, विलापनम्= द्रवीकरणम्। अभिषवः= फलकयोः प्रक्षिप्तस्य सोमस्यरसाभिव्यक्त्यर्थं शिलाखण्डैः निघर्षणम् इत्यादीनि विकृतिरूपाणि। निर्वापः= राशीभूतात् पृधथक्करणम्। अपूर्वीयेषु= तण्डुलनिष्पत्त्यादिद्वारा प्रकृतयागापूर्वसाधनभूतेष्ठ्यित्यर्थः। निर्वापप्रोक्षणादीनि- संस्कारकर्माणि। संस्कारशब्देन गुणाधानं- दोषापनयनं चेत्युभयमपि यथा संभवं ग्राह्यम्। किञ्च संस्कारसामान्यस्य न अदृष्टं प्रयोजनम्, किन्तु क्वचिद्दृष्टमपीत्याह- दृष्टरूपोऽपीति। दृष्टार्थानामपि संस्काराणां नियमार्थत्वात् नियमादृष्टं तावत्कल्पनीयमेव; अन्यधा विधिवैयर्थ्यापत्तेः।
      मूलम्ः-
      क्रतुकारकमनाश्रित्य यद्विधीयते तदर्थकर्म। तच्च द्विविधम्। अन्यार्थमङ्ग, मनन्यार्थं प्रधानं च। अङ्गमपि द्विविधं- सन्निपत्योपकारकमारादुपकारकं च। तत्र प्रधाने क्रतुरूपे (यत्) स्वरूपेणोपकारकं तदाद्यम्, यथा व्रीह्यादि। यत्क्रत्वपूर्व उपकरोति तत् द्वितीयम्, यथा प्रयाजादि। अनन्यार्थमपि द्विविधम्- प्रकृतिरूपं, विकृतिरूपं च। तयोः यत्सन्निधौ सर्वाण्यङ्गानि विधीयन्ते तत्प्रथमम्- दर्शपूर्णमास ज्योतिष्टोमादि। यदङ्गविकलं विधीयते तत् द्वितीयम्, `सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः’ `विश्वजिता यजेत’ इत्यादि। तत्र प्रथमे कथंभावपूरणं तस्य सन्निधौ पठितैरेवाङ्गैर्भवति। द्वितीये तु `प्रकृतिवद्विकृतिः कर्तव्या’ इति कल्पितेनातिदेश वाक्येनेति विशेषः। अग्निहोत्रादीनि तु दर्वीहोमाख्यानि प्रधानकर्माणि। न तानि कस्यचित्प्रकृतिर्विकृतिर्वाभवन्ति। किन्त्वपूर्वाण्येव।
      व्याख्याः-
      गुणकर्मसोदाहरणं विवृत्य संप्रत्यर्थकर्मविवृणोति- क्रतुकारकमानाश्रित्येति। अनाश्रित्य= अनुद्दिश्येत्यर्थः। क्रतुकारकस्य उद्देश्यत्व निराकरणेऽपि उद्देश्यं विना विधाना संभवात् तद्भिन्नं यत्किंचिदुद्देश्यमर्थाल्लभ्यते। अर्थकर्म च अङ्ग- प्रधानभेदेन द्विविधम्। तत्र यदन्यार्थं तदङ्गमित्युच्यते। यत् अनन्यार्थं तत्प्रधानमिति योजना। सन्निपत्योपकारकमिति- यागस्वरूपे संनिपत्य- सम्यगन्तर्भूय उपकारजनकत्वात् संनिपत्योपकारकमित्युच्यते। क्रतुर्यागः, तत्स्वरूपं द्रव्यदेवते, देवतोद्देश्यकद्रव्यत्यागस्यैव यागत्वात्। तत्र `व्रीहिभिर्यजेत’ इति विहिताः व्रीहयः पुरोडाशतां प्रपद्यसाक्षादेवोपकुर्वन्ति। अपि चात्र विधीयमानाः व्रीहयः यागसाधनपुरोडाशप्रकृतिद्रव्यतयैव विधीयन्ते, न व्रीहित्वे न रूपेण। तथाऽपि `गोभिः श्रीणीतमत्सरम्’ इत्यादिवत् प्रकृति विकृत्योरभेदोपचारेण इदं द्रष्टव्यम्। द्वितीयम्= आरादुपकारकमित्यर्थः। प्रयाजाद्यनुष्ठाने न किञ्चित् दृष्टं प्रयोजनम्। अतोऽदृष्टमेवापूर्वापरपर्यायं स्वीकर्तव्यम्। तच्चोत्पद्यमानमपूर्वं अवान्तरापूर्वसंज्ञं, प्रधानयागा पूर्वे उपकरोति। प्रधानयागं स्वोत्पत्त्यपूर्वजनन समर्थं करोतीत्यर्थः।
      एवं च प्रयाजादयः व्रीह्यादिवत् यागे न साक्षादुपकुर्वन्ति, किन्तु अपूर्वद्वारैव उपकुर्वन्ति। अत एव ते आदादुपकारका इत्युच्यन्ते। (आरात्= दूरतः, व्यवधानेनेत्यर्थः।)
      अनन्यार्थं विवृणोति- अनन्यार्थमिति। अन्यार्थमन्याङ्गम्, तन्नभवतीत्यनन्यार्थम्- स्वतन्त्रम्, प्रथमम्= स्वापेक्षितसर्वाङ्गसम्पन्नं प्रतितिरूपमित्यर्थः। यत्सन्निधौ स्वापेक्षितानामङ्गानां केषाञ्चिदेवोपदेशः, न सर्वेषां तदङ्गविकलम्। द्वितीयं- विकृतिरूपमित्यर्थः।
      प्रकृतिरूपं विकृतिरूपं चेत्युभयविधं अनन्यार्थमर्थकर्म उदाहृत्य, अनुभयरूपाणि अपूर्वाख्याणि अर्थकर्माण्याह- अग्निहोत्रादीनीति। इदमेव अग्निहोत्रादीनामपूर्वत्वं, यत्- तत्रोपदिष्टानामङ्गानामन्यत्र वा, अन्यत्रोपदिष्टानां तत्र वा अतिदेशाभावः। अतीत्यदेशनमतिदेशः, स्वस्थानमतिक्रम्य स्थानान्तरप्रापणमित्यर्थः। दर्वीनाम्नादारुपात्रेण स्वाहाशब्दघटितं मन्त्रमुच्चार्यक्रियमाणस्य होमस्य दर्विहोम इति नामधेयम्।
      मूलम्ः-
      तान्यपि कर्माणि त्रिविधानि- नित्य, नैमित्तिक काम्यभेदात्। यावज्जीवादिचोदनाबोदितं नित्यम्। यावज्जीवमग्निहोत्रंजुहुयात्, यावज्जीवं दर्शपूर्णमासाभ्यां यजेत, वसन्ते वसन्ते ज्योतिषा यजेत (ज्योतिषा- ज्योतिष्टोमेन) अहरहः सन्ध्यामुपासीत, तानेतान्यज्ञानहरहः कुर्वीत’ इत्यादि।
      व्याख्याः-
      यस्य कर्मणः विधिवाक्ये `यावज्जीव’ पदं, द्विरुक्तिरूपा `वीफ्सा’वा श्रूयते तन्नित्यं कर्मेतियावत्। यावज्जीवमित्यस्य यावन्तं कालं शरीरेप्राणान्धारयति तावन्तं कालमित्यर्थः। वीफ्सा च वसनैवसन्ते इति द्विरुक्तिरूपा, आदरातिशयं दर्शयन्ती अवश्यकर्तव्यतायां पर्यवस्यति। अवश्यकर्तव्यता च- अकरणे प्रत्यवायमवगमयति। अत एव वीफ्सा- यावज्जीवश्रुत्योरभावेऽपि यस्य कर्मणः अकरणे प्रत्यवायः श्रूयते तदपि नित्यमित्युपलक्षणीयम्। तानेतानिति- देवयज्ञ-पितृयज्ञ- भूतयज्ञ- मनुष्ययज्ञ- ब्रह्मयज्ञ नामकान् पञ्चमहायज्ञान् गृहस्थस्य कर्तव्यत्वेन विधाय, तन्नित्यत्वंध्योतयितुमभिधीयते- तानेतानिति। अत्र अहरहरिति वीफ्सा नित्यत्वं द्योतयति।
      मूलम्ः-
      निमित्तानन्तरं कर्तव्यं नैमित्तिकम्- `वैश्वानरं द्वादश कपालं निर्वपेत्पुत्रेजाते’ इत्यादि। प्रायश्चित्तमप्यत्त्रैवान्तर्भवति। तच्च द्विविधं - क्रतुभ्रेषनिमित्तं, पुरुषभ्रेषनिमित्तं च। आद्यम्- `अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेद्योदर्शपूर्णमासयाजीसन्नमावास्यां वा पौर्णमासीं वातिपादयेत्’ इत्यादि। `यो ब्रह्मचार्यवकिरेत्सनैर् ऋतंगर्धभमालभेत’ इत्यादि द्वितीयमित्यलं प्रसक्तानुप्रसक्तोक्त्या।
      व्याख्याः-
      निमित्तानन्तरमिति। अनन्तरं- अव्यधानेन। पुत्रजननरूपे निमित्ते सति वैश्वानरदेवताकं द्वादश कपालपुरोडाशद्रव्यकं यागमनुतिष्ठेदित्यर्थः। अत्र पुत्रजननं निमित्तम्। नैमित्तिकोयागः। यद्यप्ययं पुत्रजननानन्तरमेव कर्तव्यतया विधीयते। तथाऽपि जातस्य शिशोः नाभिनालच्छेदनात्पूर्वमेव जातकर्मणः कर्तव्यत्वात्, तच्छेदनाडूर्थ्वंजाताशौ च प्राप्तेः, तन्निवृत्त्यनन्तरमेव कर्तव्य इति शास्त्रज्ञाः कथयन्ति। आदिशब्देन `ग्रस्ते न्यायात्’ इत्यादयोग्राह्याः।
      विहिताकरण- निषिद्धानुष्टानजन्यदोषनिर्वरणाय कर्तव्यं प्रायश्चित्ताख्यंकर्म पृथङ्निर्दिशन्ति केचित्। तस्याऽपि निमित्तप्रयोज्यत्वाविशेषात् नैमित्तिक एव अन्तर्भावमिच्छन्नाह- प्रायश्चित्तमपेति। भ्रेषः= भ्रंशः, अकरण मन्यथाकरणं च। तत्र क्रतुभ्रेषनिमित्तं प्रायश्चित्तमुदाहरति- अग्नये पथिकृत इति। यः पुमान् अमावास्यायां पौर्णमास्यां च कर्तव्यौ, यावज्जीवश्रुतिचोदितत्वेन नित्यौ, दर्शपूर्णमासाख्यौ यागौ आरभ्य, आलस्यादिना यथोक्तं यागमननुष्ठायैव अमावास्यां पौर्णमासीं वा अतिवाहयेत्, सः पथिकृद्गुणविशिष्टाग्निदेवताकं अष्टाकपाल पुरोडाशद्रव्यकं यागमनुतिष्ठेदित्यर्थः। पुरुषभ्रेषनिमित्तस्य प्रायश्चित्तस्य उदाहरणं तु- यो ब्रह्मचार्यवकिरेदिति। अवकिरेत्= रेतः स्खलनं प्राप्नुयात्। यः ब्रह्मचारी सन् असमाहितचित्ततया स्त्री प्रसङ्गादिना रेतःस्खलनं प्राप्नोति, तस्येदं प्रायश्चित्तं- निर् ऋतिदेवताकं गर्दभ पशुद्रव्यकं यागमनुतिष्ठेदिति। अलमिति- अभ्यासात्कर्मभेदे अभिहिते, तदपवादतया प्रसक्तो दर्शपूर्णमासप्रकरणस्थ विद्वद्वाक्यविमर्शः। तमनुप्रसक्तं विधिविशेष निरूपणादिकम्। तदेतावता परिसमाप्यत इत्याशयः; अलमित्यस्य पर्याप्त्यर्थकत्वात्।
      मूलम्ः-
      प्रकृतमनुसरामः। यथा च यः एवमिति विद्वद्वाक्ये पौर्णमासे पदेन आग्नेयादि त्रिकस्यानुवादः, एवं `उपांशुयाजमन्तरायजति’ इत्युपांशु याज पदेन `विष्णुरुपांशु यष्टव्योऽजामित्वाय’ इत्यादि वाक्यविहित विष्ण्वादि त्रिकस्यानुवादोऽस्त्विति न युक्तम्; `जामिवा एतद्यज्ञस्य क्रियते यदन्वञ्चौपुरोडाशौ’ इत्युपक्रान्तजामिता दोषपरिहार एकेनापि भवति, `जामिवा’ इति `अजामित्वाय’ इति च श्रूयमाणोपक्रमोप संहारैकरूप्येणावगतस्यैकवाक्यत्वस्य यागत्रयकल्पनया भङ्क्तिमयुक्तत्वात्।
      व्याख्याः-
      प्रकृतमिति। मूले पौर्णमास्यधिकरणानन्तरमुपांशु याजाधिकरणस्य निबद्धत्वात् तदेव प्रकृतं भवति। तत्र पूर्वाधिकरणे विद्वद्वाक्यस्य कर्मान्तर विधायकत्वं निराकृत्य, अनुवादकत्वस्य सिद्धान्तितत्वात्, तदवष्टंभेनात्रापि `उपांशु याजमन्तरायजति’ इति वाक्यस्य, `यष्टव्य’ वाक्यविहित कर्मानुवादकत्वमाशङ्क्य निराकरोति- यथा चेति। निराकरणे उपपत्तिमाह- जामिवा एतद्यज्ञस्येत्यादिना। उपक्रमोपसंहारपर्यालोचनया एकवाक्यतायाः प्रतीयमानत्वात्, संभवत्येकवाक्यत्वे वाक्यभेदस्यास्याय्यत्वाच्चेति। विष्ण्वादि त्रिकस्य= विष्णुप्रजापत्यग्निषोमदेवताक यागत्रयस्येत्यभिप्रायः।
      मूलम्ः-
      ननु द्रव्यदेवतं यागस्वरूपमत्र वाक्येनास्ति। यष्टव्यवाक्ये तु देवतामात्रमस्तीति अत्रैवयागोत्पत्तिरिष्टेतिचेत्, न - `सर्वस्मै वा एतद्यज्ञाय गृह्यते- यद्धुवायामाज्यम्’ इति ध्रौवाज्यलाभस्य उभयत्राऽपि तुल्यत्वात्। आग्नेयाग्नीषोमीय याज्यानुवाक्यायुगलयोरन्तराले पठितात् याज्यानुवाक्यायुगलाच्च देवता लाभ इति न किञ्चिद्दुःस्थम्। यष्टव्यवाक्यं तु स्तुतिमात्रम्- `ईदृशोऽयमुपांशु यजोयत्र विष्णुरिज्यते’ इति। तत्र विष्णुना अग्नीषोमौ, प्रजापतिश्च विकल्पते।
      एममन्यत्राऽपि कर्मभेदार्थः पूर्वः पक्षः, तदभेदार्थस्सिद्धान्त इति ज्ञेयम्।
      व्याख्याः-
      पूर्वत्र `उपांशु याजमन्तरा यजति’ इत्यस्य कर्मोत्पत्तिवाक्यत्वमभिसन्धाय, यष्टव्य वाक्यस्य तन्निराकृतम्। तन्नसमञ्जसम्, यतः, यत्र यागस्वरूपमुपलभ्यते तत्रैव कर्मोत्पत्तिवाक्यत्वमङ्गीकर्तव्यम्। द्रव्यदेवते हि यागस्वरूपम्; देवतोद्देश्यक द्रव्यत्यागस्यैव यागत्वात्। प्रकृतवाक्ये तावत् द्रव्यदेवतयोरुभयोरप्यनुपलंभात् न तस्य कर्मोत्पत्तिविधित्वं युक्तमितिशङ्कतेनन्विति। यष्टव्य वाक्यस्य उत्पत्ति विधित्वांगीकारे साधकं दर्शयति- यष्टव्यवाक्येत्विति। तत्रत्यं विष्ण्वादिपदं देवतासमर्पकमिति शङ्कितुराशयः। न च- तत्राऽपि देवतामात्रमुपलभ्यते, न तु द्रव्यम्। तत्कथं तस्योत्पत्ति विधित्वमिति- वाच्यम्; `सर्वदा शेषमुत्पन्ने अर्थं त्यजति पण्डितः’ इति न्यायेन द्रव्य- देवतोभयाभाववति `अन्तरा’ वाक्ये उत्पत्ति विधित्वाङ्गीकारापेक्षया अन्यतरसद्भाववति `यष्टव्यवाक्ये’तदङ्गीकरणं वरमित्यभिप्रायः। न च- देवतायास्सत्त्वेऽपि, द्रव्याभावे यागः कथं सिद्ध्यतीति- वाच्यम्; सर्वयज्ञार्थत्वेन गृहीतस्य ध्रौवाज्यस्य सत्त्वात्, तदपेक्षायाः सिद्धान्तेऽपि अवर्जनीयत्वादित्यभिसन्धिः। सोऽयं `उभयत्राऽपि तुल्यत्वात्’ इति सिद्धान्तमुखेन व्यक्तीक्रियते। नन्वस्त्येवमेव द्रव्यलाभः, यष्टव्यवाक्यस्य देवता समर्पकत्वानङ्गीकारे, देवता कथं लभ्यते भवन्मत इति शङ्कां समाधत्ते- आग्नेयाग्नीषोमीयेति। न किञ्चिद्दुःस्थम्- न किञ्चिद्दुर्लभमित्यर्थः। यष्टव्यवाक्यस्य विधायकत्वाभावेऽपि, प्रकृतयागस्तुतिपरतया सार्थक्यमुपपादयति- यष्टव्यवाक्यंत्विति। ननु आग्नेयाग्नीषोमीययाज्यानुवाक्यायुगलयोरन्तराले त्रिविधदेवताप्रकाशक याज्यानुवाक्यायुगलत्रयस्य आम्नातत्वात् तत्र कतमा देवताग्राह्येति। शंकां(शंङ्कां), वैकल्पिकत्वाङ्गीकारेण परिहरति- तत्र विष्णुनेति।
      अस्मिन्नधिकरणे कर्मभेदमाश्रित्यपूर्वपक्षकृते, कर्मैक्यं सिद्धान्ततया उपपादितम्। इममेव प्रकारं उत्तरेष्वप्यधिकरणेष्वतिदिशति- एवमन्यत्राऽपीति।
      मूलम्ः-
      `तिस्र आहुतीर्जुहोति’ इत्यत्र बहुत्वात्संख्यायाः स्पष्टः कर्मभेद इति सप्तदशप्राजापत्यान्पशूना लभते इत्येवोदाहरणे, प्रजापतिर्देवतायेषामिति विग्रहे सप्तदशपशुद्रव्यकोयागः। प्राजापत्यश्च प्राजापत्यश्चेति श्रुततद्धितान्तानामेकशेषे प्रतिपशुप्राजापत्यत्वपर्यवसानात्सप्तदशयागाः। प्रकृतौ त्वेकपशुनिष्पन्नैकादशावदान द्रव्यत्वं यागस्य दृष्टम्। तत्सामान्यादतिदेशादिहाऽपि प्राप्तं न प्रत्याख्यातुं शक्यम्। अतः सप्तदशैवयागाः।
      फलं तु पूर्वपक्षे एकपशुनाशे गणनाशः। सिद्धान्ते तन्मात्रस्यैवनाश इति तस्यैव पुनरुपादानं, नान्यस्येति। प्रदानं तु देशकालकर्त्त्रैक्यात् सर्वेषां सहैव दधिपयसोरिव प्रकृतौ।
      व्याख्याः-
      अत्रायं विशेषः- क्रमप्राप्तं संख्यानिमित्तकं कर्मभेदं निरूपयन् जैमिनिः `पृथक्त्वनिवेशात्संख्यया कर्मभेदः स्यात्’ इति सूत्रयामास। तदेतद्विवृण्वन् वृत्तिकारः- `तिस्र आहुतीर्जुहोति’ इति वाक्यं विषयीकृत्य अधिकरणं प्रणिनाय। परन्तु- तत्र आहुतीनां बहुत्वस्य स्पष्टत्वात्, एकत्वसंशयस्यैवानुत्थानात् अनुदाहरणं मन्यमानो भाष्यकारः `सप्तदशप्राजापत्यान् पशूनालभते’ इति वाजपेय प्रकरणस्थं वाक्यमुदाहृत्यविचारंचकार। तदेतत् संक्षिप्य दर्शयति- तिस्र आहुतीर्जुहोतीति। उदाहरणे - स्वीकृते सतीति शेषः। प्राजापत्यानित्यत्र द्वेधाविग्रहस्संभाव्यते। तत्र `साऽस्यदेवता’ इति सूत्रेण द्रव्यदेवतासम्बन्धपरं प्राजापत्यप्रातिपदिकं प्रसाध्य पश्चात् बहुवचनावगत बहत्वान्वयोयुक्तः। `परिपूर्णं पदं पदान्तरेणान्वेति’ इति न्यायेत्। तथा च द्रव्यदेवतासम्बन्धान्यथानुपपत्त्याकल्पितानां यागानां बहुत्व लाभाय प्राजापत्यश्चप्राजापत्यश्चेत्येवमेकशेषेकृते प्राजापत्यानितिरूपं सिद्ध्यति। बहुत्वं च सप्तदशत्वरूपमिति सप्तदशपदादवगम्यते। तथा च प्रजापति देवताकाः पशुद्रव्यकाः सप्तदशयागाः पर्यवस्यन्ति। अयमेव सिद्धान्तः। अन्यथा- पशुद्रव्यस्य बहुत्वान्वयोत्तरं प्रजापतिदेवता सम्बन्धे स्वीक्रियमाणे एकदेशान्वयापत्तेः व्यपेक्षालक्षणं सामर्थ्यंहीयेत। अत स्सप्तदशपशुद्रव्यकः प्रजापतिदेवताक एकोयागो नात्रविवक्षितः, किन्तु प्रजापतिदेवताकाः पशुद्रव्यकास्सप्तदशयागा एवेति सिद्धान्तः। तदेतत्समर्थयितुमुपपत्त्यन्तरमप्याह- प्रकृतौत्विति। `अग्नीषोमीयं पशुमालभेत’ इति वाक्यविहितः अग्नीषोमदेवताकः पशुयाग एव सर्वेषां पशुयागानां प्रकृतिः। तदीया एव धर्माः प्राजापत्येष्वतिदिश्यन्ते। तथा च- सिद्धान्तेयागानां भिन्नत्वात् एकैकस्मिन्नपि यथा प्रकृति एकपशुनिष्पन्नैकादशावदानद्रव्यत्वं सिद्ध्यति। पूर्वपक्षरीत्यातु- यागस्यैकत्वेऽपि सप्तदशपशुद्रव्यकत्वात् सप्ताशीत्यधिकैकशीतावधानद्रव्यत्वं स्यादिति विरोधो द्रष्टव्यः। (. 187.) विचारप्रयोजनं पूर्वोत्तरपक्षयोर्विविच्यदर्शयति- फलं त्विति। यागबहुत्वानुरोधेन प्रदानबहुत्व शङ्कां निराकरोति- प्रदानं त्विति। यथा दर्शे `ऐन्द्रंदधि’ `ऐन्द्रंपयः’ इति विहितयोः दधिप्रयोयागयोः सम्प्रतिपन्नदेवताकत्वात् देशकालकर्त्त्रैक्याच्च दधिपयसोस्सहैव प्रदानं, तद्वदित्यर्थः।
      मूलम्ः-
      एवमेव ज्योतिष्टोमं प्रकृत्य `अथैषज्योतिरधैषविश्वज्योतिरथैषसर्वज्योतिरेतेन सहस्रदक्षिणेन यजेत’ इत्यादौ न पूर्वत्रैव सहस्रदक्षिणागुणविधिः, ज्योतिरादिपदानामानर्थक्यापातात्। संज्ञाश्रुत्यार्थान्तरावश्यं भावेन प्रकरणविच्छेदावश्यं भावाच्चज्योतिरादि संज्ञानिकर्मान्तराण्येवैतानि।
      व्याख्याः-
      संख्यया कर्मभेदं प्रसाध्य, संज्ञयाकर्मभेदं साधयति- एवमेवेति। `अथैषज्योति’रित्यादि वाक्यस्य ज्योतिष्टोमप्रकरणे पाठात् ज्योतिरादिपदैः `नामैकदेशे नामग्रहण’मिति न्यायेन प्रकृतं ज्योतिष्टोममेवानूद्य सहस्र दक्षिणारूपो गुणोविधीयत इति पूर्वपक्षिणामाशयः। न चैतत्संभवति; ज्योतिरादिपदैः प्रकृतयागाननुवादेऽपि, प्रकरणादेव सहस्रदक्षिणायास्तदङ्गत्व संभवात्। पूर्वमेव `गौश्चाश्वश्चे’त्यादि वाक्यविहितया गवादि दक्षिणया विकल्पप्रसङ्गाच्च। किञ्चात्र अथ शब्दश्शूयमाणः `त्वन्ताधादिनपूर्वभाक्’ इति न्यायेन पूर्वप्रकरणविच्छेदमवगमयति। अतश्च संज्ञाभेदात् ज्योतिष्टोमात् भिन्नान्येव ज्योतिर्विश्वज्योतिस्सर्वज्योतिस्संज्ञकानि सहस्रदक्षिणाकानि त्रीणिकर्माणि विधीयन्त इति सिद्धान्तमभिप्रेत्याह- न पूर्वत्रैवेति। पूर्वप्रकृते ज्योतिष्टोम एवेत्यर्थः।
      मूलम्ः-
      `वैश्वदेव्यामिक्षा, वाजिभ्योवाजिनम्’ इति वैश्वदेवयागे उत्पत्तौ आमिक्षयाऽवरुद्धे उत्पन्नशिष्टं वाजिनं निवेशमलभमानं, ततोऽन्यद्वाजिदेवत्यं वाजिनद्रव्यकं कर्मोपस्थापयतीति गुणात् कर्मभेदः।
      व्याख्याः-
      इह गुणात् कर्मभेदं साधयति। चातुर्मास्येषु श्रूयते- वैश्वदेवी कूमिक्षामिति। तत तप्तेपयसि दध्यानयने सति, निष्पन्नः घनीभूतः पयः पिण्डः आमिक्षा, शिष्टं जलं वाजिनम्। वैश्वदेव्यामिक्षा इत्यत्र तद्धितेन द्रव्यदेवता सम्बन्धावगमात् तदनुमितो विश्वदेवदेवताक आमिक्षाद्रव्यकोयागो विधीयत इत्यत्र नास्ति विचिकित्सा। `वाजिभ्यो वाजिन’मित्यत्र तु किं पूर्वस्मिन्नेव आमिक्षायागे जाजिनरूपं द्रव्यान्तरं विधीयते आहूस्वित् वाजिदेवताकं वाजिन द्रव्यकं कर्मान्तरं विधीयत इति विचिकित्सायां, पूर्वपक्षी अभिप्रैति- पूर्वस्मिन्नेवयागे वाजिनद्रव्यरूपोगुणो विधीयत इति। न च वाजि पदरैयर्थम्; तेन वाजं आमिक्षारूपं अन्नमेषामस्तीति व्युत्पत्त्या विश्वेषां देवानामेव ग्रहण संभवात्। नाऽपि- पूर्वस्मिन् यागे आमिक्षया निराकांक्षेसति, पुनर्वाजिन विधानमनर्थकमिति वाच्यम्, विकल्पे न आमिक्षावाजिनयोर्द्वयोरपि ग्रहण संभवात् इति। अत्रोच्यते- उभयोस्तुल्यबलत्वे बाध्यबाधकभावा संभवात् अगत्याविकल्पोऽभ्युपगम्यते। प्रकृते तु यदेव कर्मोत्पत्ति विधित्वेनाभ्युपगतं `वैश्वदेव्यामिक्षा’ इति वाक्यं, तदेव कर्मस्वरूपान्तर तस्य आमिक्षाद्रव्यस्याऽपि विधायकमिति भवत्यामिक्षारूपं द्रव्यमुत्पत्तिशिष्टम्। वाजिनंतु- आमिक्षावाक्येन उत्पन्नशिष्टं भवति। अनयोश्च कर्मस्वरूपविध्यन्तर्गतत्वेन अत्यन्त सन्निहितत्वात् उत्पत्तिशिष्टमेव झटिति द्रव्यविषयिणी माकांक्षांशमयितुमलं, नोत्पन्नशिष्टम्, वाक्यान्तरोत्पन्नत्वेन विलम्बितप्रवृत्तिकत्वात्। अतश्च तुल्यबलत्वाभावान्न विकल्पः। तर्हि वाजिनस्य का गतिरिति चेत्, स्ववाक्योपात्तया वाजिदेवतया सम्बध्यकर्मान्तरमुपस्थापयतीति सिद्धोगुणात्कर्मभेदः, अत्र गुणशब्दःयागाङ्गद्रव्यवाचक्षः, न तु रूपरसादिपरः।
      मूलम्ः-
      यत्रतूत्पत्तौ निर्गुणं कर्मश्रूयते, पश्चादनेके गुणाश्चश्रूयन्ते, तत्र सर्वेषां गुणानां विकल्पेन निवेशो, न तु कर्मभेदकत्वम्, यथा `अग्निहोत्रं जुहोति’ इत्यत्र `दध्नाजुहोति’ इत्यादीनाम्।
      व्याख्याः-
      पूर्वस्मात् विशेषमाह- यत्रत्विति। `अग्निहोत्रं जुहोति’ इत्येतद्वाक्यं धात्वर्थभूतं होममात्रं विधत्ते, तत्रत्यमग्निहोत्रपदं न गुणसमर्पकं, किन्तु तत्प्रख्यन्यायेन कर्मनामधेयमित्युक्तं नामधेयपादे। तथा च तद्वाक्यं निर्गुणं कर्मैव विदधातीति निश्चप्रचम्। होमश्च द्रव्यंविना अनुपपन्न इति प्रसिद्धमेव। तस्मिन्नेव प्रकरणे- `दध्नाजुहोति’ `पयसाजुहोति’ `तण्डुलैर्जुहोति’ इत्यादीनि वाक्यानि श्रूयन्ते। तेषां प्रकरणसम्बन्धमनादृत्य दध्यादि द्रव्यविशिष्टकर्मान्तरविधायकत्वकल्पनापेक्षया, प्राकरणिकाग्निहोत्रहोमापेक्षितद्रव्यविधायकत्वङ्गीकरणं न्याय्यम्। न च तैर्वाक्यैः बहूनांद्रव्याणां विधीयमानत्वात् अग्निहोत्रस्य एकेनैव द्रव्येण नैराकांक्ष्याच्च इतरवाक्यवैयर्थ्यमिति वाच्यम्, अत्र विधीयमानदध्यादिद्रव्येषु पूर्ववत् उत्पत्तिशिष्टोत्पन्न शिष्टत्वभेदाभावात्, सर्वेषामुत्पन्नशिष्टत्वेन तुल्यत्वात् `तुल्यबलविरोधे विकल्प’ इति न्यायेन, वैकल्पिकत्वेन यस्य कस्यचित् द्रव्यस्य ग्रहणसंभवाच्च न कस्याऽपि वैयर्थ्यम्। अतश्च एतत्फलितम्- दध्नाजुहोति पयसाजुहोति इत्यादीनि वाक्यानि न होमान्तरविधायकानि, अपि तु `अग्निहोत्रं जुहोति’ इति वाक्यविहितहोमानुवादेनखलेकपोत इ न्यायेन दध्यादिद्रव्यमात्र विधायकानीति। तदेतत्संहृह्णाति- न तु कर्मभेदकत्वमिति।
      मूलम्ः-
      अग्निहोत्रं प्रकृत्य श्रूयते- `दध्नेन्द्रिय कामस्य जुहुयात्।’ इति। तत्र धात्वर्थस्य प्राप्तत्वात् गुणमात्रं विधेयम्। यच्च विधेयं तस्यैव फलम्। अतोऽत्रपूर्वस्मिन्नेव कर्मणि फलाय गुणोविधीयते, न तु गुणः कर्म भिनन्तीति।
      व्याख्याः-
      अधुना प्रसङ्गात् फलाय गुणविधिं विवृणोति- अग्निहोत्रं प्रकृत्येति। गुणमात्रं= केवलं दधीत्यर्थः। धात्वर्थस्य- होमस्य। `अग्निहोत्रं जुहोति’ इत्यनेन वाक्येन प्राप्तत्वात्= विहितत्वादित्यर्थः। अतस्तस्य न विधानापेक्षा। नाऽपि इन्द्रियरूपस्य फलस्य विधेयत्वम्; तस्य अनुपादेयत्वेन विध्यनर्हत्वात्। अतस्तदुद्देशेन दध्येव विधीयत इति वक्तव्यम्। दध्नेति तृतीया च तस्यैव साधनत्वमवगमयति। ननु कथं उदासीनस्य व्यापारानाविष्टस्य दध्नः फलसाधनत्वम्? न हि `कुठारेण छिनत्ति’ इत्यादौ साधनत्वेन श्रूयमाणोऽपि कुठारः उद्यमननिपातनादि व्यापारमन्तरेण छेदनरूपं फलं साधयितुं शक्नोति। इति चेत्, सत्यम्- अत एव अग्निहोत्रंजुहोतीति वाक्यविहितो होमः, `दध्नेन्द्रियकामस्य जुहोयात्’ इत्यत्र जुहोतिना अनूद्यते। स च आश्रयतां प्राप्यदध्नः फलसाधनत्वं निर्वहति। अर्थात् यथाशास्त्रं अग्नौ हूयमानं सत् दधि- इन्द्रियरूपं फलं साधयति, न निर्व्यापारं शिक्यादिस्थितमित्यवगन्तव्यम्।
      यदत्र कैश्चित्- इन्द्रियकामवाक्येन दधिद्रव्यकं इन्द्रियफलकं होमरूपं कर्मान्तरमेव विधीयत इत्युच्यते, तन्नसमञ्जसम्; यतोऽत्र, विशिष्टविदौ दध्नःहोमसम्बन्धसिध्यर्थः `दधिमता’ इत्येवं। मत्वर्थलक्षणाया आवश्यकत्वात्। अस्य वाक्यस्य अग्निहोत्रप्रकरणस्थत्वेन प्रकृतहाना प्रकृतकल्पना प्रसङ्गाच्च।
      मूलम्ः-
      अग्निष्टुति- `वारवन्तीयमग्निष्टोमसामकार्यम्’ इत्युक्त्वा, आम्नायते- “एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसामकृत्वा पशुकामोह्येतेन यजेत” इति। अत्र पूर्वस्मिन्नेव कर्मणि रेवत्यृगाधारवारवन्तीय लक्षणो गुणः पशुफलाय विधातुं न शक्यते दधिवदस्य प्रसिद्धत्वाभावात्। ततश्च प्राप्तकर्मानुवादेन गुणस्वरूपं तत्फलं चेत्युभयं विधातुमशक्यं, वाक्यभेदात्। तस्मात्कृत्वा शब्दकल्पित रेवतीवारवन्तीय सम्बन्धविशेषितः पूर्वोक्तफलाय विधीयते। एतस्येति षष्ठ्यन्तमपि प्रस्तूयमान(पर)मिति न तु पूर्वप्रकृतमित्यपि सिद्धम्।
      व्याख्याः-
      पूर्ववत् फलाय गुणविधित्वमाशङ्यकर्मभेदं साधयति- अग्निष्टुतीति। `त्रिवृदग्निष्टुदग्निष्टोमः’ इति वाक्यविहिते- त्रिवृत् स्तोमके अग्निष्टोमसंस्थाके अग्निष्टुन्नामके यागे- इत्यर्थः। वारवन्तीयमिति- अयमर्थः- प्रकृते अग्निष्टोमसंस्थाके ज्योतिष्टोमे तृतीय सवनसमाप्ते `यज्ञायज्ञिय’ नामकं सोमगीयते। तेन च अग्निष्टोमस्य समाप्यमानत्वात् तस्य अग्निष्टोमसामेति व्यवहारः। तच्च तत्र `यज्ञायज्ञावो अग्नय’ इत्यादिषु आग्नेयीषु ऋक्षुगीयते। इह तु अग्निष्टुति यज्ञायज्ञियस्थाने वारवन्तीयं सामगातव्यमिति विशेषः। एवं स्थिते, एतस्यैव रेवतीष्वित्यादिना किं अनन्तरोक्ते- अग्निष्टुन्नामके- कर्मण्येव पशुरूप फलाय रेवत्यृगाधारवारवन्तीय सामरूपो गुणो विधीयते, उत्त यथोक्त गणविशिष्टं कर्मान्तरमिति विचिकित्सायां, `दध्नेन्द्रियकामस्य जुहुयात्’ इत्यत्रेव पूर्वस्मिन्नेव कर्मणि फलाय गुणविधिरित्याशङ्कां अपाकुर्वन्नाह- अत्र पूर्वस्मिन्निति। अयमाशयः- पूर्वत्र हि दधि स्वरूपस्य लोकप्रसिद्धत्वात् तस्य इन्द्रियरूप फलसम्बन्धमात्रं विधेयमिति न वाक्यभेद प्रसङ्गः। अत्र तु वारवन्तीयं साम, तस्य रेवत्यृगा धारत्वं तस्य- अग्निष्टोमसाम सम्बन्धः। तस्य च साम्नः पशुफलसम्बन्धश्चेत्येनेकेषां विधेयत्वात् अवश्यं भावीवाक्यभेदः। अतश्च रेतत्यृगाधार वारवन्तीय सामकं पशुफलकं यागान्तरमेव विधीयत इति सांप्रतम्। अत्र `कृत्वा’ इत्यनेन रेवतीवारवन्तीय सम्बन्धावगाहिनी काचिद्भावना उच्यते। सा च- यजेतेत्यत्र आख्यातोपात्तायाः भावनायाः उपसर्जनीभूता। तथा च भावनोपसर्जनं भावनान्तरं विधीयत इति विदुषां प्रवादः। भावनान्तरत्वे कर्मान्तरत्वमर्थसिद्धमेव। न च कर्मान्तरत्वे `एतस्यैवेति’ पूर्वप्रकृत परामर्शक एतच्छब्दोविरुध्यत इति वाच्यम्। सर्वनाम्नः प्रकृतपरामर्शकत्वमेव, न तत्र पूर्वापरनियमः। प्रकृते च प्रस्तूयमानार्थपर एतच्छब्दः। न तु पूर्वं परामृशति।
      इति द्वितीयाध्याये- द्वितीयः पादः
  • तृतीयः पादः -

मूलम्ः-
`यदिरथन्तरसामासोमः स्यादैन्द्रवायवाग्रान् ग्रहान् गृह्णीयात्, यदि बृहत्सामाशुक्राग्रान्’ इति प्रकृते ज्योतिष्टोमे ग्रहाग्रत्वमात्रं विधीयते, न तु ततोऽन्यत्कर्मरथन्तरसामादिकम्। विधिशक्त्युपघातक यदि शब्दात्। प्रकरणविच्छेदात्।
`राजा राजसूयेन स्वाराज्यकामोयजेत’ इत्यत्र राज शब्दस्य क्षत्रियवाचित्वात् तन्मात्राधिकारिकायामपि, राजसूयान्तर्गतायामवेष्टिसंज्ञकायामिष्टौ (अत्रमूले- `ह्यदित्यत्रा?’ इत्यक्षरस्थाने- `यदिब्राह्मणो यजेत बार्हस्पत्यं मध्येनिधाय आहुतिमाहुतिंहुत्वातमभिघारयेत्, यदिराजन्य ऐन्द्रं, यदि वैष्यो वैष्वदेवम्’ इति वचनं, बहिरवेष्टौ- इति पदसन्दर्भस्संयोजनीय इत्याभाति।) ह्यदित्यत्रा? अन्नाद्यकामब्राह्मणादीनामपि अवेष्टिं प्रापयति।
एवं `वसन्ते ब्राह्मणोऽग्निमादधीत ग्रीष्मेराजन्यः, शरदिवैश्यः’ `वसन्ते ब्राह्मणमुपनयीत, ग्रीष्मे राजन्यं, शरदि वैश्यम्’ इत्येतान्यपि वचनानि यथावर्णमाधानोप नयनयोः प्रापकाणि।
व्याख्याः-
इत आरभ्य अधिकरणत्रये द्वितीयपादप्रक्रान्ता गुणकृत कर्मभेदाभेदचिन्तैव अनुवर्त्यते, विशेषविवक्षया। तत्राद्यं रथन्तराधिकरणं संक्षिप्यदर्शयति- यदिरथन्तरसामेति। अत्र रथन्तरादि सामनिमित्तकैन्द्रवायवादि ग्रहाग्रत्व विशिष्टं सोमयागान्तरं विधीयत इति पूर्वपक्षीमन्यते। यद्यप्यत्र `सोम’ पदेन प्रकृतोज्योतिष्टोमः ग्रहीतुं शक्यते। परन्तु `रथन्तरसामा’ इति विशेषणं तत्र न संगच्छते। ज्योतिष्टोमे तावत् बहिष्पवमानादि स्तोत्रेषु गायत्रादीनि सामानि विहितानि। एकस्मिन्पृष्ठस्तोत्रे रथन्तरस्य सत्त्वेऽपि सर्वेषु तदभावेन व्यावर्तकत्वा संभवात्। अतः प्रकरणादुत्कृष्य कर्मान्तरविधायकत्वमेवाङ्गीकर्तव्यमिति। सिद्धान्तस्तु- अत्र कर्मान्तराङ्गीकरणे बाधकद्वयं दृश्यते। इदं वाक्यं ज्योतिष्टोमप्रकरणे पठ्यते। तस्य प्रकरणादुत्कर्षः कर्तव्य इत्येकं बाधकम्। द्वितीयं तु अत्र यदि शब्दः श्रूयते। स च यच्चब्द हि शब्दादिवत् प्रमाणान्तरप्राप्तिं द्योतयन् विधिशक्तिं प्रतिबध्नाति। तथा च कर्मान्तरविध्यनुपपत्तेः प्रकृते ज्योतिष्टोम एव हृहद्रधन्तरसाम्नोः वैकल्पिकत्वात् रथन्तरसाम्मिनिमित्ते ऐन्द्रवायवाग्रत्वमात्रं विधीयत इत्यर्थोग्राह्यः। एवं `यदि बृहत्सामा’ इत्येतदपि द्रष्टव्यम्।
अवेष्ट्यधिकरणार्थं संगृह्णाति- राजाराजसूयेनेति। अनेन वाक्येन विहितस्य राजकर्तृकस्य इष्टि- पशु- सोमयाग समुदायात्मकस्य राजसूयनामकस्य क्रतोः प्रकरणे `आग्नेयमष्टाकपालं निर्वपति हिरण्यं दक्षिणा, ऐन्द्रमेकादशकपालमृषभो दक्षिणा, वैश्वदेवं चरुं पिशङ्गीपष्ठौही दक्षिणा, मैत्रावरुणीमामिक्षांवशादक्षिणा, बारहस्पत्यं चरुगंशति पृष्ठोदक्षिणा’ इत्येवं अवेष्टिसंज्ञकाः पञ्चेष्टीः विधाय, अभिधीयते- `यदिब्राह्मणो यजेत बार्हस्पत्यं मध्यतो निधाय आहुतिमाहुतिं हुत्वा तमभिघारयेत्, यदि राजन्य ऐन्द्रं, यदिवैश्योवैश्वदेवम्’ इति। अत्र केचित्- यथा पूर्वाधिकरणे `यदिरथन्तरसामा’ इत्यत्र यदि शब्दयोगात् रथन्तरादौ निमित्ते ऐन्द्रवायवाग्रत्वादिकं विधीयत इत्युक्तं, तद्वदत्राऽपि यदाब्राह्मण इति श्रवणात् ब्राह्मणादि कर्तृकत्वे निमित्ते बार्हस्पत्यमध्यतो निधानादीतिकर्तव्यता विधीयते। न च - राजकर्तृके राजसूये कथं ब्राह्मणवैश्ययोरनुप्रवेश इति- वाच्यम्; ब्राह्मण वैश्ययोरपि कदाचित् राज्ययोगाद्राजत्व संभवात् तादात्विकी इयमिति कर्तव्यतेति- वदन्ति। तन्न; राजशब्दः क्षत्रियजातौ रूढः। न हि राज्ययोगाद्राजत्वम्, किन्तु `पत्यन्तपुरोहितादिभ्योयक्’ `राजाऽसे’ इत्यनुशासनात् राज्ञोभावः कर्म वा राज्यमित्यस्मिन्नर्थेयक् प्रत्यय विधानात् राज्यशब्दस्यैव राजयोगः प्रवृत्तिनिमित्तम्। तथा च- समुचितराजसूयमहाप्रयोगान्तः पातिनी नामवेष्टीनां राजकर्तृकत्वेऽपि, “एतयान्नाद्यकामं याजयेत्, यदि ब्राह्मणो यजेत……..” इत्यादि वचनानुसारेण अन्नाद्यकाम। ब्राह्मणादि कर्तृकत्वं निमित्तीकृत्य पृथक्कृतासुतासु मध्यतो निधानादीति कर्तव्यता संभवात्, एतासां राजसूयात्कर्मान्तरत्वसिद्धिः।
पूर्वत्र अवेष्ट्यधिकरणे ब्राह्मणादि कर्तृकत्वे निमित्ते प्रयोगभेदस्योक्तत्वात् तत्प्रसङ्गागतोऽत्र आधानोपनयन वाक्यविचारः। अत्राधान वाक्येन ब्राह्मणादयः, आधानं वानविधीयते, क्रत्वनुष्ठानान्यधानुपपत्त्या ब्राह्मणादीनां प्राप्तत्वात्। क्रतूनामाहवनीयाद्यग्नि साध्यत्वात् तत्साधकमाधानमप्यर्थसिद्धमेव। किन्तु ब्राह्मणश्चेदादधीत तदावसन्ते इत्येवं कालनियम विधिपरंतद्वाक्यम्। तथा उपनयन वाक्यमपि- ब्राह्मणं चेदुपनयीत तदा वसन्ते इति कालविधिपरम्। उपनयनमपि- क्रत्वनुष्ठानस्यज्ञान साध्यत्वात्, तत्साधनाध्ययनार्थमर्थसिद्धमेवेति पूर्वपक्षीमन्यते। सिद्धान्तस्तु- नाधानमर्थसिद्धम्; परकीयाग्निषु लौकिकाग्निषु वा क्रत्वनुष्ठानस्य कर्तुं शक्यत्वात्। नाऽप्युपनयनम्; गुरुपूर्वकाध्ययनाभावेऽपि, लिखित पाठादिना ज्ञानस्य संपादयितुं शक्यत्वात्। सर्वसाधारण्येन ब्राह्मणस्य कदाचित् कर्तृत्वसिद्धावपि, नियमेन तत्सिद्ध्यर्थं विधेयत्वमपेक्षितम्। तथा च- वसन्तकाल ब्राह्मण कर्तृकत्वविशिष्टमाधानमनेन वाक्येन विधीयते। एवमुपनयीतेति वाक्ये उपनयनमपीतिद्रष्टव्यम्।
मूलम्ः-
कुण्डपायिनामयनाख्ये सत्त्रे `उपसद्भिश्चरित्वावरासमग्निहोत्रं जुहोति, मासंदर्शपूर्णमासाभ्यां यजेत’ इत्यत्राऽपि नैयमिकाग्निहोत्रादेः सत्रे उपस्थित्यसंभवात्, शब्दमात्रेणोपस्थित्यभ्युपगमेऽपि प्राप्तकर्मानुवादेन उपसदानन्तर्यं, मास गुणश्चेति विधातुमशक्यम्, वाक्यभेदात्। न च प्राप्ते कर्मणिमासः संपादयितुं शक्यते, अनुपादेयत्वात् तस्य। तस्मादनुपादेय गुणसम्बन्धानुगृहीतोऽसन्निधिः- कर्मभिनत्ति।
व्याख्याः-
यज्ञविघ्नकारिणामसुराणां निर्हरणाय सोमयागादौ अनुष्ठेयाः इष्टयः- उपसद इत्युच्यन्ते। वैरिदुर्गोपसदन कार्यकारित्वात्तासां उपसन्नामकत्वम्। कुंडपायिनामयनाख्येसत्रयागे प्रथमतः उपसदोऽनुष्ठाय अनन्तरं मासं यावत् अग्निहोत्रहोमः कर्तव्यत्वेनात्र विधीयते। किमिदं नित्याग्निहोत्रमेव, उत तदपेक्षया कर्मान्तरमिति सन्देहे, नित्यमेवाग्निहोत्रमनूद्य, तत्र मासरूपोगुणो विधीयत इति पूर्वपक्षिणोमतम्। तन्नयुक्तम्; यतो न केवलं मासमात्रमत्रविधेयम्, `उपसद्भिश्चरित्वा’ इति त्वा प्रत्ययश्रुत्या उपसदानन्तर्यस्याऽपि विधीयत्वात्। प्राप्तहोमानुवादेन उभय विधाने वाक्यभेदात्। नन्वेवमपि कर्मान्तरत्वे किं गमकमिति वाच्यम्, प्रकरणान्तरमिति ब्रूमः। अयन प्रकरणं हीदं ननित्याग्निहोत्रप्रकरणम्। नन्वत्राऽपि वाजिनवत् पूर्वकर्मणि अनिविशमानात् गुणादेव कर्मभेदोऽस्त्विति वाच्यम्, तन्न प्रथमतर प्रवृत्ते न प्रकरणान्तरेण सिद्धमेव कर्मभेदं मासरूपो गुण उपोद्बलयतीति द्रष्टव्यम्।
मूलम्ः-
अनुपादेयागुणास्तु- देशः, कालो, निमित्तं, फलं, संस्कार्यश्च। तच्च (1) सरस्वत्यादक्षिणेन तीरेणाग्नेयोऽष्टाकपालः, (3) सत्रायागूर्यविश्वजिता यजेत, (4) आग्नेयमष्टाकपालं निर्वपेत् रुक्कामः, (5) त्त्रैधातवीया दीक्षणीया- इत्यश्वमेधे क्रमेण कर्मभेदोदाहरणानि द्रष्टव्यानि। अत्र दार्शपौर्णमासिकादाग्नेयात् काम्य- दैशिकावाग्नेयौभिन्नौ। काम्याभ्यां त्त्रैधातवीया विश्वजिद्भ्यां संस्कारनैमित्तिकौ तौ भिन्नौ। सर्वत्रानुपादेय गुणगणविशेषिताऽसन्निधिरूप प्रकरणान्तरस्य कर्मभेदहेतोस्तुल्यत्वात्। सन्निधौ त्वनुपादेय गुणसम्बन्धेऽपि न कर्मभेदः। यथा 1`समेदर्शपूर्णमासाभ्यां यजेत’, 2`पौर्णमास्यां जयेत’, 3`यावज्जीवं दर्शपूर्णमासाभ्यां जयेत’, 4`एतयान्नाद्यकामं याजयेत्’, 5`शेषात् स्वष्टकृते समवद्यति’ इति।
व्याख्याः-
कर्मान्तरत्वप्रयोजकान् अनुपादेयगुणान् विपुणोति अनुपादेय गुणास्त्विति। (1) तत्र देशरूपात् गुणात् कर्मभेदे उदाहरणमाह- सरस्वत्या इति। (2) कालप्रयुक्तकर्मभेदस्य `उपसद्भिश्चरित्वा’ इत्यादिना पूर्वाधिकरणे प्रपञ्चितत्वात् तमुपेक्ष्य। (3) निमित्तात्कर्मभेदमुदाहरति- सत्रायागूर्येति। आगूरणं= संकल्पः। यः सत्रयागं करिष्यामीति संकल्प्य तं न करोति, तस्य प्रायश्चित्तरूपोऽयं विश्वजित्। अयं च `विश्वजिता यजेत’ इति विहितात् अध्याहृत स्वर्गफलकात् विश्वजिद्यागाद्भिन्नः। (4) `आग्नेयमष्टाकपालं निर्वपेद्रुक्कामः’ इत्येतत् फलभेदप्रयुक्त कर्मभेदोदाहरणम्। नाऽयं `यदाग्नेय’ वाक्याविहितो दर्शपूर्णमासान्तर्गत आग्नेयः। तस्य दर्शपूर्णमासाभ्यां स्वर्गकामोयजेत’ इत्यनेन स्वर्गफलकत्वावगमात्, अस्य च शरीरशोभारूपरुक्फलकत्वात्। (5) संस्कार्यभेदात्कर्मभेदमुदाहरति- त्त्रैधातवीयेति। `सर्वो वा एषयज्ञोयत्त्रैधातवीयं कामायकामाय प्रयुज्यते’ (तै. सं. 2-4-11) इति वाक्येन शाम्येष्टिकाण्पे सर्वकामार्थतया विहिता त्त्रैधातवीयाख्याकाचिदिष्टिः। अश्वमेधप्रकरणे च `त्रैधातवीया दीक्षणीया’ इति श्रूयते। अत्र दीक्षणीया पदेन दीक्षणीया कार्यं यजमानसंस्कारं लक्षयित्वा तदुद्देशेन त्रैधातवीयाविधीयते। इयं च काम्येष्टिकाण्डोक्त त्रैधातवीयातः भिन्ना, संस्कार्यभेदात्- इति प्राञ्चोऽभिप्रयन्ति। यद्यपि अनुपस्थितिरूपं प्रकरणान्तरमेव कर्मभेदबुद्धिं प्रायशोजनयति, तस्य च अनुपादेयगुणयोग सहकृतत्वे अप्रतिहतं सामर्थ्यमित्यर्थः। `औदुम्बरीं प्रोक्षति’ `व्रीहीन्प्रोक्षति’ इत्युदाहृत्य, अत्र `प्रोक्षणस्य एकरूपतया भासमानत्वेऽपि, संस्कार्ययोः औदुंबरी- व्रीहिद्रव्ययोः भिन्नत्वात् कर्मभेदं वदन्ति।’ काम्यदैशिकौ= `आग्नेयमष्टाकपालं निर्वपेद्रुक्कामः’ इति वाक्यविहितः काम्य आग्नेयः। `सरस्वत्या दक्षिणेनतीरेणाग्नेयोऽष्टाकपालः’ इति वाक्यविहित आग्नेयो दैशिकः। तौद्वादित्यर्थः। तथा- संस्कारनैमित्तिकावित्यत्राऽपि “त्रैधातवीयादीक्षिणीया इत्येतद्वाक्यविहिता आश्वमेधिकी, त्रैधातवीया, सत्राया केना गूर्येति वाक्यविहितो विश्वजिच्चग्राह्यौ। अत्र व्यतिरेकदृष्टान्तमाह- सन्निधौत्विति। 1. समेदर्शपूर्णमासाभ्यामिति देशविषये, 2. पौर्णमास्यामिति काल विषये। उपलक्षणमेतत् निमित्त फल-संस्कार्याणामपि। यथा- 3. `यावज्जीवं दर्शपूर्णमासाभ्यां जयेत’ , 4. `दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’, `शेषात्स्विष्टकृतं जयति’ इति शेषशब्दसूचितं। सन्निधिरूपं प्रकरणमेव कर्मान्तरत्वे बाधकमिति भावः।
इति द्वितीयाध्याये तृतीयः पादः ।

  • चतुर्थः पादः -

मूलम्ः-
`दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इति विहितात् काम्यात्प्रयोगात् अन्योऽयं `यावज्जीवं दर्शपूर्णमासाभ्यां जयेत’ इति पुरुषार्थः प्रयोगः।
`अग्निहोत्रं जुहोति’ इत्यादयो विधयः शाखाभेदान्नभिद्यन्ते, शाखाभेदात् पुनश्श्रुत्यनापत्तेः। एकसन्निधौ हि पुनस्श्रुतिर्भेदिका- समिधो यजतीत्यादौ। नासन्निधावित्युक्तं प्राक्।
व्याख्याः-
यावज्जीवाधिकरणार्थं संक्षिप्यदर्शयति- दर्शपूर्णमासाभ्यामिति। यावज्जीवशब्देन कृत्स्नजीवनवाचिना जीवनपर्याप्तः कालोलक्ष्यते। तस्मिन् निमित्ते नैमित्तिकतया दर्शपूर्णमासप्रयोगोऽत्र विधीयते। न तु कर्मान्तरम्।
तथा शाखान्तराधिकरणार्थमपि संगृह्णाति- अग्निहोत्रमिति। यद्यपि नैकासु वेदशाखासु `अग्निहोत्रं जुहोति’ इति वाक्यान्युपलभ्यन्ते। तैस्सर्वैरपि विधीयमानमग्निहोत्राख्यमेकमेवकर्म। न च पुनश्श्रवणरूपादभ्यासात् समिधोयजतीत्यादाविव कर्मभेदः स्यादिति वाच्यम्, अविशेष पुनश्श्रवणमेव कर्मभेदप्रयोजकम्, न पुनश्श्रवणमात्रम्। अत्र तु विशेषोऽस्ति- तत्तच्छाखाध्यायिनां पुरुषाणां भिन्नत्वेन तत्प्रतिपत्त्यर्थं तया पुनश्श्रवणोपपत्तेः।
इति द्वितीयाध्याये चतुर्थःपादः

श्रीमन्नारायणतीर्थमुनि विरचिते-भाट्टभाषाप्रकाशे- तृतीयाध्यायस्य- प्रथमः पादः।
मूलम्ः-
एवं सिद्धे कर्मभेदे भिन्नानां तेषां शेषशेषिभावो निरूप्यते। शेषत्वं च नाविनाभूतत्वम्, आग्नेयादीनां त्रयाणां अन्योन्यशेषतापत्तेः। नाप्युपकारकत्वम्, अङ्गमनुष्ठापयतः प्रधानस्यापिशेषतापत्तेः। अतो यः परार्थः स शेषः पारार्थ्यं च यथाचयं द्रव्यगुणकर्मणां वक्ष्यमाणानां व्रीह्याज्यदेशकालानां यागं प्रत्यस्ति। एवं यागस्य फलंप्रति, फलस्य च पुरुषं प्रति। तेन पूर्वः पूर्व उत्तरमुत्तरं प्रतिशेषः। उत्तर उत्तरस्तु पूर्वं पूर्वं प्रति शेषीति ज्ञेयम्।
व्याख्याः-
अधुना तृतीयाध्यायमङ्गाङ्गिभावनिरूपणपरमारभमाणः, द्वितीयाध्यायेन सहास्य हेतुहेतुमद्भावसङ्गतिदर्शयति- एवं सिद्धेकर्मभेदे इति। अङ्गाङ्गिभावस्य भिन्नपदार्थं निष्ठत्वात् तन्निरूपणं प्रतिभेदनिरूपणपरस्य द्वितीयाध्यायस्य हेतुत्वमर्थसिद्धमेव। शेषत्वमङ्गत्वमित्यनर्थान्तरम्। सूत्रारूढं निर्दुष्टमङ्गत्वलक्षणं वदिष्यन् “तावत्स्वमतमप्रतिष्ठितं भवति, यावत्परमतमनिराकृतमिति” न्यायेन परोक्तान् कांश्चिल्लक्षणाभासानुदाहृत्य दूषयति- नाविनाभूतत्वमिति। अविनाभूतत्वस्य शेषत्व लक्षणत्वाङ्गीकारेदोषमाह- आग्नेयानीनामिति। दर्शे- आग्नेयः पुरोडाशः- ऐन्द्रं पयः- ऐन्द्रं दधि इत्येते यागाः समानतन्त्रेण अनुष्ठीयन्ते। पूर्णमासे च- आग्नेयः पुरोडाशः- उपांशुयाजः- अग्नीषोमीयः पुरोडाश इत्येते त्रयः। एते च प्रधानयागतया परिगण्यन्ते। अविनाभूतत्वस्य अङ्गत्वलक्षणत्वे, समानतन्त्रतया आग्नेयादीनां त्रयाणामविनाभावस्य दुष्परिहरत्वात् परस्परमङ्गाङ्गिभावः प्रसज्येत। प्रधानत्वे न सर्वसम्मतानामेषां अङ्गत्वापत्तिरेवात्रदोष इत्याशयः। प्रथमस्य शेषित्वे द्वितीय तृतीययोः शेषत्वम्। द्वितीयस्य शेषित्वे प्रथम तृतीययोः शेषत्वम्। तृतीयस्य शेषित्वे प्रथमद्वितीययोः शेषत्वम्। अथ च- अविनाभावस्य त्रितयसाधारणत्वात् त्रयाणामपि शेषत्वे, शेषिभूतं किञ्चिदन्यदेव अन्वेष्टव्यं स्यात्। अस्तु तर्हि उपकारकत्वं शेषत्वलक्षणमितिचेत्, इदमपि शेषिण्यतिव्याप्तमेव। तथा हि- साङ्गमेव अङ्गि फलवद्‌भवति, न केवलम्। अतः स्वस्य फलवत्त्वाय अङ्गि, अङ्गमनुष्ठापयतीति वक्तव्यम्। तथा च अङ्गस्य स्वरूपनिष्पत्तौ प्रधानस्य प्रयोजकत्वेन रूपेण उपकारकत्वात् उपकारकत्वरूपं परोक्तमङ्गत्वलक्षणं प्रधाने अतिव्याप्तं भवति। अत स्तदपि नोपादेयम्। किन्तु सूत्रकारोक्तमेव `पारार्भ्य’रूपं लक्षणं निर्दुष्टमुपादेयमित्याह- अतो यः परार्थः स शेष इति। त्रिविधं पारार्ध्यं निर्दिशति- पारार्ध्यंचेति। यथायथं= योग्यतानुसारेणेति भावः। तदेव कथमिति सोदाहरणं दर्शयति- द्रव्यगुणकर्मणामिति। फलितमाह- तेन पूर्वः पूर्व इति। पारार्ध्यस्य निष्कृष्टं स्वरूपं- परोद्देश प्रकृतकृतिव्याप्यत्वं, तादशकृति कारकत्वेन विहितमित्यादिकं मूले अनुक्तमपि इदमिह प्रतिपत्तव्यम्-
अङ्गत्वे च षट् प्रमाणानि शुति- लिङ्ग- वाक्य- प्रकरण- स्थान-समाख्यारूपाणि। अस्मिन् पादे प्राधान्येन श्रुतिप्रमाणक मङ्गत्वं निरूप्यते। श्रुतिर्नाम निरपेक्षोरवः। इतर साहाय्यमनपेक्ष्य स्वातन्त्र्येणार्थबोधकश्शब्द इत्यर्थः। सेयं श्रुतिः विधात्री, अभिधात्री, विनियोक्त्री चेति त्रिविधा। विधात्री- लिङ् लोट् तव्य प्रत्ययात्मिका। यथा- स्वर्गकामो यजेत, आचार्याधीनोभव, स्वाध्यायोऽध्येतव्यः इत्यादिका अभिधात्री- शक्त्यैवार्थबीधिका। यथा- गौः, मनुष्यः इत्यादिका। विनियोक्त्री- द्वितीया तृतीयादि विभक्तिरूपा। ब्रीहीन् प्रेक्षति, व्रीहिभिर्यजेत इत्यादिका विनियोगो नाम अङ्गत्वज्ञापनम्, तत्कर्त्री- विनियोक्त्री। अस्या एव प्रकृतत्वेऽपि प्रसङ्गात् इतरासामपि श्रुतीनां स्वरूपं संक्षेपेणोक्तम्।
मूलम्ः-
तत्रापि, चतुरोमुष्टीन्निर्वपति- व्रीहीन् प्रोक्षति व्रीहीन वहन्ति- आज्यमुत्पुनाति- शाखां छिनत्ति- इत्यादय औषधाज्य सान्नाय्य धर्मा योग्यतया, व्रीह्यादियोगाच्चौषधादिष्वेव यथा योगं व्यवतिष्ठन्ते। अत्र व्रीह्यादि पदमपूर्व व(म)द्द्रव्यलक्षकम्। अन्यथा यवादिभ्यः प्रोक्षणादि व्यावृत्त्यापत्त्या परिसंख्यात्वापत्तेः।
व्याख्याः-
पूर्वत्र द्रव्यगुणकर्मणां यागं प्रत्यङ्गत्वमित्युक्तम्। तत्र कर्म शब्देन विवक्षितानां संस्काराणामङ्गत्वे व्यवस्थां दर्शयति- तत्रापीति। चतुरोमुष्ठी नित्यत्र मुष्टिशब्देन मुष्टिपरिमिताः ब्रीहयोलक्ष्यन्ते, तदुद्देशेन निर्वापाख्यः संस्कारो विधीयते। निर्वापो नाम राशितः पृथक्करणम्। व्रीही न प्रोक्षति= व्रीही न बर्हान्त इति वाक्याभ्यां क्रमेण व्रीह्युद्देशेन प्रोक्षणरूपः, अवहनन रूपश्च संस्कारौ विधीयेते। आज्यमुत्पुनाति इत्यनेन आज्यमुद्दिश्य उत्पवनरूपः संस्कारो विधीयते। उत्पवनं नाम- दर्भरूपाया पवित्राभ्यां पुनराहार माज्येलोडनम्। शाखांछिनत्ति इत्यत्र शाखा शब्देन वत्सापाकरणार्थापलाश शाखा विवक्षिता। तामुद्दिश्य छेदनरूपस्संस्कारो विधीयते। अत्रेयमाशङ्का भवति- अत्राङ्गत्वेन विधीयमानाः निर्वाप प्रोक्षणावहननादयः निरर्थकाः, तदभावेऽपि उद्देश्यभूतव्रीह्यादिस्वरूपस्य प्रागेवसिद्धत्वात्- इति। तादृश वैयर्थ्य परिहारार्थं व्रीह्यादि पदेषु अपूर्वसाधनत्व लक्षणास्वीकारात्। स्वरूपमात्रेण व्रीह्यादीनां पूर्वसिद्धत्वेऽपि अपूर्वसधनत्वेन रूपेण असिद्धत्वात्, तस्य यथोक्त संस्कार साध्यत्वाच्च न वैयर्थ्यं शङ्कावकाशः। तदेतत्सर्वमभिप्रेत्याह- अत्र व्रीह्यादिपदमपूर्ववद्द्रव्यवाचकम्- इति। अपूर्ववत्= प्रकृतापूर्वसाधनमित्यर्थः॥
नन्वेवं संस्कार्यवाचकेषु व्रीह्यादि पदेषु अपूर्वसाधनत्व लक्षणास्वीकारे, आज्यादि पदानामपि तथाविधत्वात् संस्कार सङ्करः प्रसज्येत, यथा- व्रीहिषूत्पवनं, आज्येऽवघातः, इतिचेत्, अत्रोच्यते- योग्यतया, व्रीह्यादियोगाच्चेति। तथा हि। अत्र योग्यता नाम यथा - अवघात प्रोक्षणादयः व्रीह्यादिष्वेव संभवन्ति, नत्वाज्यादिषु। विलापनोत्पवनादयश्च आज्यादिष्वेव, न तु व्रीह्यादिषु। इत्थं तत्तद्वस्तुसामर्थ्यरूपाद्रष्टव्य। उक्तं च सामर्थ्याधिकरणे (1-4-20) “आख्याता नामर्थं व्रुवतां शक्तिः सहकारिणी” इति। व्रीह्यादियोगो नाम शत्त्या अर्थबोधिका, अभिधात्र्याख्या, व्रीह्यादि शब्दरूपा श्रुतिः, तत्प्रयोग इत्यर्थः। अपूर्व साधनत्वलक्षणायां स्वीकृतायामपि लाक्षणिकोऽर्थः शक्यार्थं न सर्वात्मना जहाति। शक्य संबन्धो हि लक्षणा। तथा चात्र न केवलं अपूर्वसाधनत्व मुद्देश्यतावच्छेदकं, अपि तु अपूर्वसाधनीभूतव्रीहित्वम्। तथा च - वस्तुसामर्थ्यरूपायोग्यता, वस्तुवाचक शब्द प्रयोगश्चेत्येताभ्यां संस्कार्यवस्तुपरिच्छेदस्य स्फुटमवभासमानत्वात् न संस्कार संकरः प्रसज्यत इत्याशयः। अथवा- तण्डुलनिर्वृत्तिप्रणाड्या अपूर्वसाधनत्वस्य अपि च व्रीह्यादि शब्देषु अपूर्व उद्देश्यतावच्छेदकत्व स्वीकारेऽपि न दोषः। वच्छिन्नत्वमात्र स्वीकारे अन्यां अनिष्टापत्तिमाह- अन्यथेति व्रीहीन् प्रोक्षति- इत्ययं परिसंख्याविधिः स्यादित्यर्थः। परिसंख्याविधित्वे च श्रुतहानिः, अश्रुतकल्पना, प्राप्तबाधश्चेति दोषत्रयं प्रसज्येत। श्रुतस्य व्रीह्युद्देश्यकप्रोक्षणस्य हानिः, अश्रुतस्य यवोद्देश्यक प्रोक्षणाभावस्य कल्पना, प्रकरणप्राप्तस्य उभयसाधारणस्य प्रोक्षणस्य बाधश्चेति दोषत्रयम्।
मूलम्ः-
यथेयं संस्कारव्यवस्था एवं स्पथेनोद्धन्ति, कपालेषु श्रपयति, अग्निहोत्रहवण्यानिर्वपति, उलूखलमुसलाभ्यामवहन्ति, शूर्पेण विविनक्ति, दृषदुपलाभ्यां पिनष्टि- इत्यादावापि यथा श्रुतं द्रव्यव्यवस्था।
व्याख्याः-
संस्कारव्यवस्थामुक्त्वा द्रव्य व्यवस्थामाह- यथेयमिति। खङ्गाकारः दारुमयः यज्ञायुधविशेषः स्फ्य शब्दे नोच्यते। अत्रायुध शब्दः साधनपर्यायः। उद्धननं खननम्। वेदिनिर्माणे एतदुपयुज्यते। पुरोडाश श्रपणोपयुक्तं तप्तमृन्मयशकलं- कपालम्। अग्निहोत्रहोमोपयुक्ता दारुमयी पात्री- अग्निहोत्रहवणी। तयाव्रीह्यादीनां राशितः पृथककरणं- निर्वापः। उलूखलमुसले प्रसिद्धे। ते चात्र दारुमये भवतः। ताभ्यां व्रीह्यादीनां तुषापनयनार्थँ प्रहरणं अवघातः। शूर्पं- प्रसिद्धम्। अवहननादूर्ध्वं तुषेभ्यः तण्डुलानां पृथक्करणं- विवेचनमित्युच्यते। दृषदुपलेपेषणोपयुक्तौ शिलाखण्डौ। पूर्वत्र व्रीह्यादि द्रव्याणां प्राधान्यं, प्रोक्षणावहननादिक्रियायाः संस्काररूपायाः अङ्गत्वम्। अत्र तु उद्धननादि क्रियायाः प्राधान्यं, स्फ्यादीनां द्रव्याणामङ्गत्वमिति विशेषः। अत्र च उद्धनन श्रपणादिरूपाः क्रियाः यथा वचनं स्प्यकपालादिर्भिरेवकर्तव्याः, इत्येवं नियमपराणि स्प्येनोद्धन्तीत्यादीनि वचनानि। न च- `एतानि वैदशयज्ञायुधानि’ इति वचनेन एतच्छब्देन स्फ्यकपालादीन्यनूद्य तेषां सामान्यरूपेणैव यज्ञायुधत्वकथनात् अनेनैवैतत्कर्तव्यमिति विशेषनियमो व्यर्थ इति वाच्यम्; सामान्यवचनमेकं प्रमाणिकृत्यविशेष व्यवस्थापराणां बहूनामप्रामाण्यापादनस्य- अन्याय्यत्वात्॥
मूलम्ः-
यथेयं द्रव्याणां व्यवस्था, गुणव्यवस्थाप्येवम्। अरुणया पिङ्गाक्ष्यैकहायन्यासोमं क्रीणातीत्यादौ आरुण्यस्य क्रियान्वयेऽपि, अमूर्तत्वात्स्वतः कारकी भवितुमशक्नुवानस्य सन्निहितैक हायनी द्वारैव कारकत्वम्, न व्यवहितेन `वासस्वाक्रीणाति’ इत्यादि वाक्यावगतवास आदिद्वारेति॥
व्याख्याः-
इत्थं द्रव्यव्यवस्थामुपपाद्य, गुणव्यवस्थां दर्शयति- यथेयमिति। ज्योतिष्टोमे सोमक्रयणप्रकरणे इदं वाक्यं श्रूयते - `अरुणयापिङ्गाक्ष्यैक हायन्यासोमं क्रीणाति’ इति। तस्य अरुणया= अरुणवर्ण शरीरया, पिङ्गाक्ष्या= पिङ्गलवर्णे अक्षिणी यस्या स्तादृश्या, एक हायन्या= एकं हायन शब्दोपलक्षितं वयः यस्याः तथाविधया, गवा इति प्रकरणाल्लभ्यते, तया सोमं क्रीणीयादिति सामान्यतोऽर्थः प्रतीयते। अत्र क्रीणातीत्याख्यातोपात्तायां क्रयभावनायां तृतीयाश्रुत्यनुरोधेन अरुणापिङ्गाक्ष्येकहायनीपदार्थानां करणत्वे नान्नयोक्तव्यः। पिङ्गाक्ष्ये कहायनी पदयोः द्रव्यवाचकत्वात् क्रयभावनाकरणत्वे, न कश्चित् बाधः। अरुणया इत्यस्य तु आरुण्यरूपगुण वाचकत्वे अमूर्तस्य तस्य गुणस्य भावनाकरणत्वं कथं संगच्छत इति संशयो भवितुमर्हति। न हि अमूर्तमारुण्यं दत्वा सोमः क्रेतुं शक्यते! अत्र समादधाति- आरुण्यस्य क्रयान्वयेपीति। अयमाशयः- भावनायाः करणाकांक्षायां करणत्ववाचकतृतीया श्रुत्यनुरोधेन पिङ्गक्ष्येकहयन्योरिव आरुण्यस्यापि प्रथमतो भवनायां करणत्वे नै वान्वयो वक्तव्यः, न पदार्थान्तरेण, कारकाणां क्रियान्वय नियमात्। एवमन्वये सति, कथमिदममूर्त मारुण्यं क्रयं प्रतिसाधनं भविष्यति? इत्यनुपपत्ति शङ्कायां उत्थितायां स्ववाक्योपात्तपिङ्गाक्ष्येकहायनी पदवाच्यं गो रूपं द्रव्यमाश्रित्य तत्परिच्छेदकं सत् तद्द्वारा क्रयभावना करणत्वं प्रतिपद्यते। नन्विदमारुण्यं यथा गो द्रव्यपरिच्चेदद्वारा क्रयसाधनत्वं प्रतिपाद्यते, तथा `अजयाक्रीणाति’ `वाससाक्रीणाति’ इत्यादिभिः प्राकरणिकैर्वाक्यैः क्रयसाधनत्वेन विहितानि अजावासः प्रभृतीन्यपि परिच्छिनत्तु, तद्द्वारापि क्रयसाधनत्वं प्राप्नोतु- इति वाच्यम्; स्व वाक्योपात्त गो द्रव्यपरिच्छेदेनैव क्रयसाधनत्वे संभवति। तावता निराकांक्षतया व्यवहित प्राकरणिक द्रव्यपरिच्छेदानपेक्षणात्। तदेतदाह- सन्निहितैक हायनी द्वारैवेत्यादिना। स्वतः=किञ्चिद्द्रव्यमनाश्रित्य कारकी भवितुं= करणत्वेनान्वेतुम्।
मूलम्ः-
एवं क्रमात्संस्कार द्रव्यगुणविवक्षायामपि `ग्रहं संमार्ष्टि’ इत्यादौ ग्रहाद्युद्दिश्य संमार्ग विधौ उद्देश्यविशेषणीभूतमेकत्वं न विवक्षितम्। `ग्रहं संमार्ष्टि, तं चैकं’ इत्यन्वये वाक्यभेदात्। तस्मात् सर्वेषु ग्रहेषु संमार्गः प्राप्नोति। ग्रहस्वरूपं तु विवक्षितमेव, उक्तदोषाभावात्। तेन न ग्रहपदं सोमपात्रमात्रोपलक्षणमिति न च मसेष्वपि संमार्गं प्राप्तिः।
व्याख्याः-
एवमिति- अत्र एवमित्यनेन चतुरो मुष्टीन् निर्वपति- इत्यादौ संस्कारविवक्षा, स्फ्ये नोद्धन्ति- इत्यादौ द्रव्यविवक्षा, अरुणया क्रीणाति- इत्यादौ गुणविवक्षा च पूर्वोक्ता स्मर्तव्या। अधुना बाधक सत्त्वे तदविवक्षां व्यतिरेक दृष्टान्तेन स्पष्टयति- एवं क्रमादिति। एकत्वस्याविवक्षायं कारणमाह- वाक्यभेदादिति। तथा हि- वचनान्तरप्राप्तग्रहोद्देशेनात्रसंमार्गो विधीयते। संमार्गो नाम- ग्रह नामके पात्रे सोमरस ग्रहणकाले उपरिलग्नानां सोमबन्दूनां दशापवित्र नामकेन वस्त्रखण्डेन मार्जनम्। ग्रह पदस्यात्रद्वितीयैकवचनान्ततया प्रत्ययार्थस्य एकत्वस्यापि संमार्गवत् ग्रहोद्देशेन विधेयत्वाङ्गीकारे `ग्रहं संमृज्यात्’ `तं चैकं संमृज्यात्’ इत्येवं वाक्यं भिद्येत, `प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः’ इत्युक्तत्वात्। संभवति एकवाक्यत्वे वाक्यभेदस्यान्याय्यत्वात्। अत एकत्वं न विवक्षणीयम्। एकत्वस्याविवक्षायां कारणान्तरमप्यस्ति। `प्रतिप्रधानं गुण आवर्तते’ इति न्यायोजागर्ति। तेनात्र ग्रहाणां प्रधानत्वात् ते यावन्तस्सन्ति तावत्सु गुणभूतस्य संमार्गस्य कर्तव्यता सिद्धेः `कतिग्रहास्संमार्जनीयाः?’ इत्याकांक्षाया एव अनुत्पादात् एकत्व विवक्षासुत रामनपेक्षितैव।
इदमत्रावधेयम्- `ग्रहं’ इत्यत्र ग्रहविशेषणमविवक्षितं, तद्विवक्षायां वाक्यभेदापत्तेरित्युक्तम्, तद्वत् उद्देश्य विशेषणत्वा विशेषात् `ग्रहत्वस्या’पि विवक्षामाभूत्- इत्याशङ्कायामाह- ग्रहस्वरूपंत्विति। तु शब्दो वैलक्षण्यं द्योतयति। ग्रहत्वस्याविवक्षायां ग्रहस्वरूपमेव न सिध्येत्। न हि असिद्धस्वरूपं किञ्चिदुद्दिश्य तत्संस्कारार्थं अन्यस्य विधानं संभवति। अतः विवक्षिते च तस्मिन् ग्रहवत् सोमपात्राणामपि सतां च मसानां, तेषु ग्रहत्वा भावात् संमार्जनं न प्राप्नोति।
मूलम्ः-
`सप्तदशारत्निर्वाजपेयस्य यूप’ इत्यत्र वाजपेयोद्देशेन सप्तदशारत्नित्वविधौ उद्देश्य स्वरूपमप्यविवक्षितम्। तस्य स्वरूपे यूपस्याभावेनानुपयोगात्। न हि वाजपेयस्य यूपोऽस्ति। किं तर्हि? अनर्थकं सत् वाजपेयाङ्गभूतेषु पशुषु यूपोऽस्तीति तत्र साप्तदश्यं निविशते।
व्याख्याः-
वाजपेयो नाम ज्योतिष्टोमीय सप्तसंस्था नामन्यतमः, एका ह रूपः सोमयागविशेषः। स च `वाजपेयेन स्वाराज्यकामो यजेत’ इति वाक्येन स्वाराज्यरूपं फलमुद्दिश्य विहितः। तदङ्ग तयैव `सप्तदश प्राजापत्यान् पशूनालभते’ इति वचनानुसारेण प्रजपतिदेवताकाः सप्तदश पशुयागा अप्यनुष्ठीयन्ते। तस्य वाजपेयस्य प्रकरणे `सप्तदशारत्निर्वाजपेयस्य यूपः’ इति वाक्यं श्रूयते। तेन वाजपेयोद्देशेन सप्तदशारत्निपरिमाणविशिष्टोयूपो विधीयमान इवाभासते। चतुर्विंशत्यङ्गुलि परिमाणोऽरत्निरिति वेदभाष्यादवगम्यते। यूपस्तावत् पशुनियोजनार्थं पशुयागेषूपयुज्यते। वाजपेयस्तु स्वरूपेण सोमयागः। स सोमधर्मानपेक्षते, न पशुधर्मान्। अतः अतिदेशप्राप्त प्राकृतयूपानुवादेन विधीयमानं सप्तदशारत्नित्वं- सोमयागे वाजपेये प्रवेशमलभमानं, अनर्थकंसत् तदङ्गपशुयागाङ्गभूतं यूपमाश्रित्य सार्थक्यं लभते। अयमेव `आनर्थक्य तदङ्गन्याय’ इति प्रसिद्धः।
मूलम्ः-
`समिधो यजति’ इत्यारभ्य `प्रयाजानिष्टवाह्वींष्यभिधारयति’ इत्यन्तं प्रयाजावान्तरप्रकरणम्। तन्मध्यपठितं `अभिक्रामञ्जुहोति’ इत्यभिक्रमणं प्रयाजाङ्गमेव। सन्दंश मध्यपतितं सन्न(त्र) महाप्रकरणमनुगच्छतीति।
व्याख्याः-
दर्शपूर्णमासप्रकरणे `समिधो यजति’ `तनूनपातं यजति’ इत्यादिभिः पञ्चभिः वाक्यैः पञ्चप्रयाजनामकाः यागाः विधीयन्ते। एतेषांच(ञ्च) प्रकरणाद्दर्शपूर्णमासाङ्गत्वमिति वक्ष्यते। तत्र च समिदादि वाक्यैः प्रयाजान् विधाय, तद्धर्मांश्चकांश्चित् `अभिक्रामं जुहोति’ इत्यभिक्रमणादीन् विधाय, अन्ते, प्रयाजानिष्टवाहवींष्यभिघारयति’ इति प्रयाज शेषाभिघारणेन तत् प्रकरणं समापितम्। अत्र विहितानां अभिक्रमणादीनां प्रयाजाङ्गत्वमिव प्रकरणात् दर्शपूर्णमासाङ्गत्वं वक्तुं युक्तमिति केचिन्मन्यन्ते। तन्न; प्रकरणं द्विविधम्- महाप्रकरण मवान्तरप्रकरणं चेति। तत्र यागसङ्कल्पमारभ्य ब्राह्मणतर्पणान्तं महाप्रकरणमित्युच्यते। तन्मध्यपतितानां सर्वेषामपि अङ्गानां प्रायेण महाप्रकरणात् दर्शपूर्णमासार्थत्वमेव। विशेषतस्तु कानिचिदङ्गानि अङ्गाङ्गान्यपि भवन्ति- अवान्तरप्रकरणात्। अवान्तर प्रकरणं च संदंशेन ज्ञायते। संदंशो नाम- एकाङ्गानुवादेन विधीयमानयोरङ्गयोरन्तराले विहितत्वम्। प्रकृते च एकाङ्ग शब्देन प्रकरणात् दर्शपूर्णमासाङ्गानां प्रयाजानां ग्रहणे, तदनुवादेन= तदुद्देशे न विधीयमानयोरङ्गयोः= `समानयते जुह्वामुपभृतः’ इत्यनेन प्रयाजोद्देशे न उपभृदपादानकजुह्वधिकरणकाज्या नयनरूपमेकमङ्गमुक्तम्। ततश्च `प्रयाज शेषेण हवींष्यभिघारयति’ इत्यनेन हविरधिकरणक प्रयाज शेष क्षारणरूप मपरमङ्गमुक्तम्। अनयोर्मध्ये `अभिक्रामं जुहोति’ इत्यभिक्रमणं विधीयते। अभिक्रमणं नाम- प्रतिप्रयाजं किञ्चित् किञ्चित् आह्वनीयाभिमुख्येन पादप्रक्षेपणम्। अतश्च अभिक्रमणमिदं अवान्तरप्रकरणात् प्रयाजाङ्गमेव, न महाप्रकरणात् दर्शपूर्णमासाङ्गमिति। न महाप्रकरणमनुगच्छति= महाप्रकरणात् दर्श पूर्णमासाङ्गं न भवतीत्याशयः।
मूलम्ः-
`सामिधेनीरन्वाह’ इत्यारभ्य `अन्तरानूच्यं स देवत्वाय’ इत्यन्तं सामिधेन्यवान्तरप्रकरणवद् भासमानमपि तन्मध्य पठितैः `देवेध्दोमन्विध्य’ इत्यादिभिर्निविन्मन्त्रैः प्रकरणविच्छेदात् तन्मध्य पतितमपि यदुपव्ययतेदेव लक्ष्ममेव तत्कुरुते” इत्युपवीतं दर्शाद्यङ्गम्।
व्याख्याः-
अभिक्रमणादीना मवान्तरप्रकरणात्प्रयाजाङ्गत्वं, न तु महाप्रकरणाद्दर्शपूर्णमासाङ्गत्वम्, अवान्तरप्रकरणं च संदंशेन ज्ञायत इत्युक्त्वा, अधुना स्थलविशेषे अवान्तरप्रकरणत्वभ्रमं सोदाहरणं निराचष्टे- सामिधेनीरन्वाहेति। अग्निसमिन्धनार्थाः ऋचः सामिधेन्यः- `प्रवोवाजा’ इत्याद्याः। तासामनुक्रमेण पठनं हीत्राकर्तव्यमित्ययमर्थः `सामिधेनीरन्वाहे’त्यनेन वचनेन आदौ अभ्यधायि। अन्ते च, देवप्रीतिकरत्वात् मध्यमस्वरेण सामिधेनी नामनुवचनं कर्तव्यमित्यर्थकेन `अन्तरानूच्यँ सदेवत्वायेति’ वचनेन सप्रसङ्गस्समापितः। तन्मध्ये `उपव्ययते देवलक्ष्ममेवतत्कुरुते’ इत्येतद्द्वाक्यविहितं यज्ञोपवीतं- साभिधेन्यङ्गमध्यपतितत्वात् संन्दंशेन साभिधेन्यङ्गमेव भावितुमर्हति- प्रयाजाङ्गमध्यपतितस्याभिक्रमणस्य प्रयाजाङ्गत्ववत्, नदर्शपूर्णमासाङ्गमिति पूर्वपक्ष्याशयः। स नक्षोदक्षमः। `अन्तरानूच्यँ्सदेवत्वाय’ इत्यन्तिमसाभिधेन्यङ्गमध्यमस्वर विधानात् प्रागेव `अथ निवित्पदान्यन्वाह’ इत्येवं `देवेद्धोमन्विद्ध’ इत्यादि विजातीयमन्त्रपाठस्य विहितत्वत्, तेन साभिधेन्यवान्तर प्रकरणस्य विच्छिन्नत्वात्। अत उपवीतं महाप्रकरणात् दर्शपूर्णमासाङ्गमेवेति सिद्धान्तः।
मूलम्ः-
वारणो यज्ञावचरो वैकङ्कतोयज्ञावचर इत्यनारभ्याधीतत्वादात्मकृतिद्वारा यज्ञपदोदिताखिलयज्ञाङ्गत्वं पात्राणाम्। आज्यभागगतयो र्वार्त्रध्नलिङ्गकमन्त्रयो र्वृधन्वल्लिङ्गकयोश्च वार्त्रध्नीः (:पौर्णमास्यां यजते) पूर्णमासेऽनूच्येते, वृधन्वती(श्चा) अमावास्यायामिति वाक्याद्विनियोगः।
हस्तावने जनादिसर्वकर्माङ्गम्, प्रकरणात्।
पुरोडाशं चतुर्धाकरोतीति सामान्यवचनमाग्नेयं चतुर्धा करोतीति विशेष वचने नोपसंह्रियते॥
अत्र- वारण- आज्यभाग- हस्तावनेजन- चतुर्थकिरणानां कः प्रसङ्गः?
व्याख्याः-
आधान प्रकरणे (मै.सं. 1-6,7) इदं वाक्यं श्रूयते। अनेन वारुण वैकङ्कतयोः यज्ञप्रचार साधनत्वं बोध्यते। परन्तु आधाने अनयोः उपयोगानुपलम्भात्, आनर्थक्य तदङ्गन्यायेन आधानाङ्गभूतासु पवमानेष्टिषु निवेशो भवत्विति पूर्वपक्षेप्राप्ते, इदमुच्यते- न आधानाङ्गं पवमानेष्टयः, किन्तु आधानमिव इष्टयोऽपि अग्निसिद्धर्था एव। अतोऽत्र अनर्थक्य तदङ्गन्यायो न प्रवर्तते। तथा च प्रकरणादुत्कृष्टेनानेन वाक्येन सर्वयज्ञार्थतया वारणवैकङ्कतौ विधीयते इति। यद्यप्यत्रमूले वाक्यमिदं अनारभ्याधीतत्वेनोक्तम्। बहुषु प्रामाणिकग्रन्थेषु आधान प्रकरणस्थत्वोक्तेरिदं चिन्त्यम्। यदा- प्रकरणादुत्कर्षे सति, अनारभ्याधीततुल्यत्वापाता,त्तथोक्तमिति ध्येयम्। आत्मकृतिद्वारा= स्वसाध्य हविर्धारणादि व्यापारद्वारेत्यर्थः। यज्ञावचरः= यज्ञप्रचारहेतुः। यज्ञक्रियासाधनमित्यर्थः।
आज्यभागौ नाम- आज्यद्रव्यकौ, अग्निषोमदेवताकौ, दर्शपूर्णमासाङ्गभूतौ द्वौ यागौ `आज्यभागौ यजति’ इति प्राकरणिके न वाक्येन विहितौ। तत्सन्निधावेव `वार्त्रघ्नीपूर्णमासेऽनूच्येते, वृधन्वती अमावास्यायां’ इति वाक्यद्वयमपि पठ्यते। आध्वर्य काण्डे दर्शपूर्णमासयोरङ्गानि आधारप्रयाजाज्यभागादीन्द्यम्नातानियेन क्रमेण, हौत्रे तेन वक्रमेण तत्तदङ्गभूता मन्त्रश्च समाम्नाताः। तत्राज्य भाग क्रमे समाम्नातस्य वार्त्रघ्नी- वृधन्वतीमन्त्रयुगलदयस्य दर्शेपूर्णमासे च अव्यवस्थया प्राप्नुवतः व्यवस्थामात्र परमिदं वाक्यद्वयम्। न च- एतद्वाक्य घटकदर्श पूर्णमासपदाभ्यां तदीयप्रधानमस्त्विति- वाच्यम्; प्रधानयागक्रमे पठितैर्मन्त्रैरेव प्रधानयागानां निराकांक्षत्वात्, प्रकृतयोः अग्निलिङ्गकस्य युगलान्तर्गतस्यमन्त्रस्य कथंचित्(कथञ्चित्) आग्नेयपुरोडाशयागे निवेश संभवेऽपि, सोमलिङ्गकस्य दर्शे पूर्णमासे वा सोमदेवता कस्य योगस्यैवा भावेन वैयर्थ्यापत्तेश्च। आज्यभागयोस्तु क्रमात्, लिङ्गाच्च अव्यवस्थया प्राप्नुवतोस्तयोः, वार्त्राघ्नीयुगलं पूर्णमासे उपादेयं, वृधन्वतीयुगल ममावस्य यां इत्येवं व्यवस्थामात्र करणेन वाक्ययोस्सार्थक्यात्, विधिलाघवाच्च। विनियोगः= तत्तत्कालीनाज्यभागाङ्गत्वेन व्यवस्थापनम्।
`हस्ताववनेनिक्ते’ इति श्रूयते। अवने जनं= प्रक्षलनम्। तेन हस्तयोः शुद्धिरूपः संस्कारो जायते। स चकरिष्यमाणसर्वकर्माङ्गं भवितुमर्हति, प्रकरणात्। न तु `उलपराजिं स्तृणाति’ इति सन्निहित वाक्य विहितोलपराजि नामक तृणविशेषस्तरण मात्राङ्गम्। सन्निधितः रूपस्थानं प्रकरणस्य प्रबलत्वात्। पुरोडाशं चतुर्धाकरोतीति। उपसंहारो नाम- सामान्यप्राप्तस्य विशेषे नियमनम्। प्रकृते च पुरोडाश सामान्ये विहितं चतुर्धकिरणं, अग्नेयपुरोडाशमात्रे नियम्यते॥

इति तृतीयाध्यायस्य प्रथमः पादः ।

अथ तृतीयाध्यायस्य द्वितीयः पादः।

यद्यपि मन्त्राणां मुख्ययैव वृत्त्याविधेयार्थ प्रकाशकत्वं सर्वत्र सिद्धम्। तथापि `ऐन्द्य्रागार्हपत्यमुपतिष्ठते’ इत्यादौ तृतीयाश्रुत्या ऐन्द्रस्य लक्षणया, गार्हपत्यप्रकाशकत्वमुपेयते। श्रुत्यपेक्षयेन्द्रप्रकाशन सामर्थ्यरूपस्य लिङ्गस्य दुर्बलत्वात्।
व्याख्याः-
अस्मिन् पादे प्राधान्येन लिङ्ग प्रमाणकमङ्गत्वं विवक्षुः तदुपोद्घाततया प्रथमाध्यायोक्तं मन्त्राणां मुख्यार्थविनियोगं अनुवदति- यद्यपीत्यादिना- सिद्धमित्यन्ते न। तत्र तावत् `बर्हिर्लुनाति’ इत्यत्र बर्हिश्शब्देन किं मुख्यार्थस्य दर्भस्यैवग्रहणं, उत तत्सदृशत्वेन गौणस्य उलपराज्यादेः तृणान्तरस्यापि ग्रहणमिति विचार्यं, पुरः स्फूर्तिकत्वान्मुख्यार्थस्य, दर्भ एव ग्राह्यः, तावतैव शब्दस्य कृतकृत्यतया विलंबोपस्थितिकं गौणमर्थं सः न प्रत्यायतीत्युक्तम्। अधुना सत्यामनुपपत्तौ गौणमप्यर्थं प्रत्याय यतीति सोदाहरणमाह- तथापि ऐन्द्र्येति। महाग्नि चयन प्रकरणे श्रूयते- निवेशनस्सङ्गमनीवसूना ऐन्द्र्यामिति गार्हपत्यमुपतिष्ठते- इति। निवेशन इति मन्त्रस्य उत्तरार्धे इन्द्रपद श्रवणात् सोऽयं मुख्यवृत्त्या स्वर्गाधिपतिं देवराजमिन्द्रं ब्रूते इति नात्रसन्देहः। गार्हपत्योनाम- आधाननिष्पादितः अग्निविशेषः। समीपेस्थित्वा मन्त्रेण देवतागुणकीर्तन पूर्वकमभीष्ट प्रार्थन मुपस्थानमुच्यते। स्वरसतः ऐन्द्रश्चेदुपस्थानाङ्गभूतोमन्त्रः, तेन इन्द्र एवोपस्थातुमर्हति। गार्हपत्यश्चेदुपस्थेयः, तदामन्त्रेण गार्हपत्यवाचके न भवितव्यम्। इह तु ऐन्द्र्यागार्हपत्योपस्थानं कर्तव्यमिति’विदधता अनेन वाक्येन सामर्यादा अतिक्रान्तेव भवति।
इदमिह प्रतिपत्तव्यम्- वस्तुतस्तु नात्र कश्चिदतिक्रमः। अस्मिन् शास्त्रे अङ्गाङ्गिभावः विनियोजकप्रमाणाधीनः। तानि च प्रमाणानि श्रुति, लिङ्ग, वाक्य, प्रकरण , स्थान, समाख्यारूपाणि षट् प्रागेव प्रथमेपादे प्रदर्शितानि। तेषां च विरोधे पूर्वं पूर्वं प्रबल, मुत्तरमुत्तरं दुर्बलमित्येतत् अत्रैव तृतीयेपादे निरूपयिष्यते। प्रमाणानां प्रवृत्तौ शीघ्रत्व- विलम्बितत्वे एव तदीयप्राबल्य- दौर्बल्ययोः कारणतां प्रतिपद्येते। यथा-
षड्भिः सोपानै रधिगन्तव्ये ऊर्ध्वप्रदेशे विद्यमानं फलमधिजिगांसूनां पुरुषाणां षष्ठसोपानस्थः पुरुषः सर्वतः प्रथममधिगन्तुं शक्नोति। पञ्चम सोपानस्थः क्षणविलम्बेन। चतुर्भसोपानस्थः क्षणद्वयविलम्बेनेत्येवं क्रमेण प्रथमसोपानस्थः क्षणपञ्चक विलबामनेति जानीमः। तद्वत् प्रमाणान्यपीमानि स्व पूर्व पूर्व प्रमाणकल्पन पूर्वकमन्ततः श्रुतिं कल्पयित्वैव विनियोक्तुं शक्नुवन्ति, न साक्षात्। प्रकृते च मन्त्रगतं इन्द्रप्रकाशन सामर्थ्यरूपं लिङ्गं-यावत् `ऐन्द्र्या इन्द्रमुपतिष्ठेत’ इति श्रुतिकल्पयित्वा इन्द्रोपस्थाने मन्त्रं विनियोक्तुं सन्नह्यति, तावदेव `ऐन्द्र्यागार्हपत्यमुपतिष्ठत’ इति प्रत्यक्षश्रुताक्लृप्ता, तृतीया श्रुतिः गार्हपत्योपस्थानाङ्गत्वेन मन्त्रं विनियुङ्क्ते- इति स्वकीयां श्रुतिकल्पनाप्रवृत्तिं स्वयमेव स्थगयति। सोऽयं श्रुत्यालिङ्गस्य बाध इति शास्त्रज्ञाः व्यवहरन्ति। तदिह प्रबल तृतीयाश्रुति प्रमाणानुरोधेन इन्द्रपदस्य मुख्यार्थानुपपत्त्या इदि धौत्वर्थपरमैश्वर्यरूपगुणयोगमाश्रित्यगार्हपत्यपरत्वं स्वीक्रियत इति न कश्चित् दोषः॥
मूलम्ः-
`सूक्तवाकेन प्रस्तरं प्रहर्सत’ इति तृतीया श्रुत्या `इदं द्यावापृथिवीभद्रमभू’दित्यादि मन्त्रगणस्य सूक्त वा क संज्ञकस्य प्रस्तरप्रहरणाङ्गतागम्यते। तेन `अग्निरिदँ्हविरजूषत’ इत्यादिमन्त्रवर्णाद्देवतालभ्यते, प्रस्तरोद्रव्यं, प्रहरति लक्षणया याग वचन इति लभ्यते। न चेष्ट देवताप्रकाशने न कृतार्थस्य तस्य पुनर्विनियोगो नयुज्यत इति, तदुपलक्षितेकाले, स्रुग्धारणा दौकृतार्थस्य प्रस्तरस्य अनेन प्रतिपत्तिरत्र विधीयत इति वाच्यम्; `किमिवहि वचनं नकुर्यान्नास्ति वचनस्याति भार’ इति न्यायेन, कारक श्रुतेर्लक्षणापेक्षया बलवत्त्वेन च तत्सन्धात्प्रहरति रिष्टदेवतासंस्कारार्थहोमं विधत्ते- इति कल्पनात्।
व्याख्याः-
हौत्रकाण्ड पठिते `इदं द्यावापृथिवी भद्रमभूत्’ इत्यादि मन्त्रगणे, सूक्तवाकसमाख्या- योगेन, रूढ्या च प्रवर्तते। तत्र `श्रद्धालुरयं यजमानः, सम्यगनेन हविर्दत्तं- इत्यादि वाक्यानि सूक्तानि, तेषां सूक्तानां देवैर्मनुष्यैर्वा वचनं वाकः’ इति योगोद्रष्टव्यः (वि.भा.)। सूक्तवाकेन इत्यत्र करणेत्व वा चिन्याः तृतीया याः श्रवणात् तस्य प्रस्तरप्रहरणाङ्गत्वं गम्यते। अस्य प्रहरणस्य यागरूपतां समर्धयति- अग्निरिदँ्हविरजुषतेत्यादि मन्त्रजातम्। तथा च मन्त्रर्वार्णक्यादेवतायाः, प्रस्तररूपस्य द्रव्यस्य च सद्भावात्तत्सबन्धान्यथा नुपपत्त्यायागः कल्प्यते, स च प्रहरति ना लक्ष्यत इति। अस्मिन् पक्षे कांचिदनुपपत्ति(काञ्चिदनुपपत्ति) मुद्भाव्य, पक्षान्तरं उपस्थापयति- न चेष्ट देवतेति। विनियुक्तविनियोगः पिष्टपेषण वदनुचित इत्याशयः। तथा च `कर्तृकरणयोस्तृतीया’ इतिवत् `इत्थं भूतलक्षणे’ऽपि तृतीयायास्सत्वात्, प्रकृतेकरणत्वस्यानुपपन्नतया सूक्तवाकेनोपलक्षितेकाले स्रुग्धारणादौ उपयुक्तस्य प्रस्तरस्य अग्निप्रहरणरूपं प्रतिपत्तिकर्मानेन वाक्येन विधीयत इति। इमं द्वितीयं पक्षं दूषयन् प्रतिप्रसवरीत्या प्राथमिकमेवपक्षं सिद्धान्तयति- किमिव वचनमिति। तत्र हेतुद्वयमस्ति- विनियुक्तविनियोगादि लिङ्गेन कल्प्य श्रुत्यपेक्षया करणत्ववाचिनी तृतीया श्रुतिः प्रत्यक्षा प्रबला- इत्येकः। द्वितीयस्तु इत्थं भूतलक्षणत्वे तृतीया लाक्षणिकीस्यात्। करणत्वार्थकत्वे तु मुख्या। मुख्यायां संभवन्त्यां लाक्षणिकी न ग्राह्येति।
एवं च- सूक्तवाकोक्तेष्टदेवता संस्कारार्थ एवायं प्रस्तरद्रव्यको होमः प्रहरति ना लक्ष्यते, न तूपयुक्तप्रस्तरप्रतिपत्त्यर्थमिदं प्रहरणमिति।
मूलम्ः-
सूक्त वा के नेति तृतीययाकृत्स्नस्य तस्य प्रहरणाङ्गत्वेऽपि लिङ्गवशात्पर्वद्वये विभज्यविनियोगः कल्प्यः। अन्यथा दर्शे अग्नीषोमाविदँ्हविरिति मन्त्रोऽत्यन्तानर्थकः स्यात्। `अनर्थक्य प्रतिहतानां विपरीतं बलाबल’मिति न्यायेनात्र लिङ्गबलात् तृतीयाश्रुतिः सूक्तवाकैकदेशं लक्षयति।
व्याख्याः-
स्वरसतः श्रुत्यपेक्षया लिङ्गस्य दुर्बलत्वेऽपि, आनर्थक्ये प्रसक्ते, दुर्बलमपि प्रबलं भवतीतीममर्थं दिदर्शयिषुः, सूक्तवाक वाक्यमेवोदाहृत्य विचारान्तरमारभते- सूक्तवाकेनेति। विभज्यविनियोगेकारणमाह- लिङ्गवशादिति। तथाहि सूक्तवाक समाख्याते मन्त्रसमुदाये पूर्णमासयाग संबन्धिनः `अग्नीषोमाविदँ्हविरजुषेता’मित्यादयः, दर्शयागसंबन्धिनः `इन्द्रग्नी इदँ्हविरजुषेता’मित्यादयश्च बहवो मन्त्रास्समाम्नायन्ते। दर्शपूर्णमासयागप्रयोगयोः भिन्नकालिकत्वात् एकैकस्मिन्नपि कृत्स्नमन्त्रपाठे पूर्वत्र अनिष्टानामपि देवानामनुकीर्तनरूप मनिष्टमापद्येत। यथा- पूर्णमासे इन्द्रगन्योः, दर्शे च अग्नीषोमयोरिति। अत आनर्थक्यपरिहाराय या देवताः यत्र इज्यन्ते तत्र तासामेव सम्बन्धलाभायसूक्तवाकमन्त्राणां विभज्यविनियोगः कर्तव्यः। तदर्थं `सूक्तवाकेन’ इत्यत्र प्रातिपदिकस्य स्वरसतः कृत्स्नसूक्तवाकपरत्वेऽपि लक्षणया सूक्तनाकैकदेशपरत्वमङ्गीकृत्य, तस्यैव तृतीययाकरणत्वं वक्तव्यमिति।
यद्यप्यत्र प्रातिपदिक एव एकदेशलक्षणा, न प्रत्यये। ततः `तृतीयाश्रुतिः’ इति मूलग्रन्थस्थं पदं- `तृतीयान्तपद’ परतया योजनीयम्।
मूलम्ः-
काम्यकाण्डे ऐन्द्राग्नादीन्यज्ञान्विधाय तल्लिङ्गकानि याज्यानुवाक्यायुगलानि आम्नातानि- `इन्द्रग्नीरोचनादिव’ इत्यादीनि। तानि लिङ्गमात्रान्न सर्वत्र विप्लवन्ते, किन्तु क्रमसमाख्यावशात् स्वस्थान एव निविशन्ते। क्रमः स्थानं सन्निधिरित्येतदनर्थान्तरम्।
व्याख्याः-
वेदै बाह्यणग्रन्थे `काम्येष्टिकाण्ड’मिति नाम्ना प्रसिद्धः कश्चन भागोऽस्ति तथा मन्त्राम्नाये च `काम्ययाज्यापुरोनुवाक्याकाण्ड’मिति भागान्तरम्। अनयोः ब्राह्मणे येन क्रमेण काम्या इष्टयो विहिताः, मन्त्राम्नाये तेनैव क्रमेण तत्तदिष्ट्यङ्गभूताः याज्यापुरोनुवाक्यामन्त्रा अम्नाताः। तत्र देवतोद्देश्यक द्रव्यत्यागरूपे यागे उपस्थिते, होत्राद्वे ऋचौ पठ्येते, तयोः प्रथमापुरोऽनुवाक्या, द्वितीया याज्या। प्रायशः प्रतिप्रधानयागमेतन्मन्त्रयुगलं भवत्येव। एवं सति काम्यसमाख्यया उभयोः काण्डयोः सामान्यतस्संबन्धे अवगते, स्थानात्मनाक्रमेण इष्टिकाण्डे प्रथमतः पठितायामिष्टौ, मन्त्रकाण्डे प्रमतः पठितं मन्त्रयुगलं अङ्गत्वेनान्वेति। द्वितीयस्यामिष्टौ द्वितीयं युगलमित्येवमङ्गाङ्गिभावोद्रष्टव्यः।
न च- क्रम- समाख्यापेक्षया लिङ्गस्य प्रबलत्वात् ते अनपेक्ष्यैव यत्र क्वापि इष्टौ जपे उपस्थानादौवालिङ्गं न्मन्त्रान् निवेशयितुं शक्नोतीति न तस्य क्रमसमाख्याभ्यां नियन्त्रणं घटत इति- वाच्यम्; यद्यपि प्रबलं लिङ्गम्, तथापि वाचस्तोमे सर्वमन्त्राणां विनियुक्ततया तदीयोपकार्याकांक्षाया निवृत्तत्वेन पुनराकांक्षोत्थापनं विना तेषां कर्मसंबन्धो न स्यात्। स च संबन्धोऽत्र क्रमसमाख्याभ्यां क्रियत इति, उपजीव्ये ते अनुसृत्यैव लिङ्गं व्यप्रियते, न स्वातन्त्र्येणेतिज्ञेयम्। न सर्वत्रविप्लवन्ते=क्रमसमाख्यावगतं संबन्धमनादृत्य अन्यत्र न गच्छन्तीत्यर्थः। अनर्थान्तरम्= अन्योऽर्थोऽर्थान्तरम्। तन्न भवति- समानार्थकमिति पर्यवसितोऽर्थः।
मूलम्ः-
भक्षे हिमाविशेत्यादि भक्षणमन्त्रस्य भक्षानुवाकसमाख्यामात्रेण कृत्स्नानुवाकस्य न भक्षणार्थत्वं, किन्तु ग्रहणावेक्षणसम्यग्जरणादेरपि प्रकाशनाद्यथालिङ्गं ग्रहणादौ मन्त्रा व्यवतिष्ठन्ते। भक्षमन्त्रे इन्द्रपीतस्येति पदमनैन्द्राणां सोमानां भक्षणे ऊ(ग्र)हं, निवृत्तिं वा न भजते, तद्धेतो रिन्द्रेणपीतस्येत्यस्यार्थस्या विवक्षितत्वात्। किन्तु इन्द्रेणपीतः सोमोयस्मिन् सवनेतदिन्द्रपीतम्, तस्य संबन्धिनं सोमं भक्षयामीत्यस्यार्थी विवक्षितः। ऊहलोपहेतो स्तृतीयातत्पुरुषा, दन्यपदार्थप्रधानस्यापि बहुव्रीहि समासस्य लघुत्वात्। सर्वे च सोमा एवंविध सवनसम्बन्धिन इति सर्वेषां यथाम्नात मन्त्रकं भक्षणम्।
व्याख्याः-
अस्मिन् द्वितीयपादे नव ममारभ्य उपैकादशाधिकरणानि सूत्रभाष्यकारादिभिः भक्षानुवाकं पुरस्कृत्य प्रणीतानि। तेषां `भक्षपेटिका’त्वेनापि मीमांसकानां व्यवहारः। तत्र कृत्वा चिन्तारूपतया अधिकरणान्तराण्युपेक्ष्य, प्रधानभूतं लिङ्गसमाख्यानाधिकरण, मिन्द्रपीताधिकरणं च संक्षिप्य निर्दिशति- भक्षे हिमाविशेति। हुतशेष सोमरसभक्षणाङ्गभूतमन्त्रसमुदायात्मकत्वादस्य `भक्षानुवाक’ इति याज्ञिकानां समाख्या। यद्यपि समाख्यामात्र पर्यालोचने कृत्स्नस्यानुवाकस्य भक्षणाङ्गत्वमेवापतति, परन्तु तत्तन्मन्त्रभागानां विभिन्नक्रियाप्रकाशकत्वात् तदनुरोधेन विध्युन्नयनं कर्तव्यम्। अत्र कल्पसूत्रकारा इत्थमामनन्ति- `भक्षेहीति भक्षमाह्रियमाणं प्रतीक्ष्य, अश्विनोस्त्वाबाहुभ्याँ्सध्यासमिति प्रतिगृह्य, नृच क्षसंत्वादेव सोमेत्यवेक्ष्य, मन्द्राभिभूतिरिति —– भक्षयति, हिन्वमेगात्राहरिव इति भक्षयित्वा नाभिदेशममि मृशन्ते —- इत्यादि। समाख्यातः लिङ्गस्य प्रबलत्वात् यथा लिङ्गमत्र विनियोगोन्याय्यः’।
भक्षण मन्त्रे परमयं विशेषः- तस्मिन् `इन्द्रपीतस्य’ इति पदं श्रूयते। तदेतत् सोमविशेषणम्। अत्र तत्पुरुषसमासमाश्रित्य विग्रहे इन्द्रेणपीतः सोमः इन्द्रपीतः, कर्मणिषष्ठी, तं सोमं भक्षायामीत्यर्थो लभ्यते। तेनायं मन्त्रः इन्द्रप्रदान शेष भक्षणाङ्गं भवितुमर्हति। मैत्रावरुणादिशेष भक्षणे, नायं मन्त्रः प्रवर्तते, असमवेतार्थत्वात्। अतस्तत्र अमन्त्रकं भक्षणं स्यात्, मन्त्रान्तरस्य अनुक्तत्वात्। अथवा- ऊहः कर्तव्यः। यथा निर्वापादिमन्त्रेषु अग्निपदस्थाने अग्नीषोमादिपदं निवेश्यमन्त्रः प्रयुज्यते, तथात्रापि इन्द्रपदस्थाने मित्रावरुणादिपदं निवेश्यमन्त्रोभक्षणे विनियोक्तव्यः। इत्थं मन्त्रोह- मन्त्रनिवृत्तिपक्षावुद्भाव्य, तयोस्सामञ्जस्य प्रदर्शनपूर्वकं सर्वत्रानूहमन्त्रप्रयोगपक्षं सिद्धान्तयति- ऊहं निवृत्तिं वा न भजते इति। इन्द्रपीतपदं न सोमविशेषणम्, किन्तु- इन्द्रेणपीतः सोमः यस्मिन् सवने तत् इन्द्रपीतमिति व्युत्पत्त्यासवनपरम्। तत्संबन्धिनं सोमं भक्षयामीत्यन्वयः। नन्वेवं सति पूर्वपदमात्रलाक्षणिकं तत्पुरुषसमासं परित्यज्य उभयपदलाक्षणिको बहुव्रीहिस्समाश्रितः स्यात्। एतच्च वृश्चिकदंशनाद् भीतस्य सर्पमुखे पादप्रक्षेपमनुकरोतीति- वाच्यम्। मन्त्रविकारकारिण ऊहपक्षात्, मन्त्राभावहेतोर्निवृत्तिपक्षाच्च पदद्वयलाक्षणिकस्यापि बहुर्वीहेरेव अल्पदोषतया उपादेयत्वात्। किञ्च इन्द्रपीतस्येतिपदं तत्पुरुषसमासत्वे `समासस्य’ (6-1-222) इति सूत्रेण अन्तोदात्तं स्यात्। नत्विदं पदमन्तोदात्ततया पठ्यते वैदिकैः, किन्तु आद्युदत्ततया। तच्च बहुव्रीहिसमासत्वे संगच्छते, `बहुव्रीहौ प्रकृत्यापूर्वपदम्’ (6-2-1) इति स्मरणात्। इन्द्रपदं च वृषादित्वात् `वृषादीनां च’ (6-1-203) इति सूत्रेणाद्युदात्तं भवति। तदेतत्सर्वमभिसन्धायाह- `ऊहलोपहेतोरित्यादिना सर्वेषां यथाम्नात मन्त्रकं भक्षण’मित्यन्तेन।

  • इति तृतीयाध्याये- द्वितीयः पादः। -

अथ तृतीयाध्यायस्य तृतीयः पादः।

मूलम्ः-
श्रुतिलिङ्गयोर्विनियोग उक्तः। वाक्यप्रकरणस्थान समाख्याभिर्विनियोगश्चिन्त्यते। तत्र `त्रयो वेदा अजायन्त अग्नेर्ऋग्वेदो वायोर्यजुर्वेद आदित्यात्सामवेद’ इत्यर्थवादे नोपक्रम्य, `उच्चैर्ऋचाक्रियते उपांशुयजुषा उच्चैस्साम्ना’ इत्युच्चैस्त्वादिकं विधीयते। तत्र मन्त्रब्राह्मणसमुदायो वेदः, पादबन्धवती गायत्र्यादिरेव ऋक्। असंजात विरोधिनोपक्रमगतवेदपदेन संजातविरोधि विध्युद्देशस्थमपि ऋगादिपदं स्व विषये व्यवस्थाप्यते, न तु विधिप्राधान्यात् वैपरीत्यं वक्तुं शक्यम्। यत्र विरोध स्तत्रैवलक्षणाया औचित्यात्। गुणेत्वन्याय्यकल्पनेत्यस्य अनुपसंजातविरोधिन्यर्थवादेऽप्यप्रवृत्तेः। तस्मादृक्पदेन ऋग्वेद एव ग्राह्यो, न ऋङ्मात्रम्। तेन ऋग्वेदान्तर्गतानां यजुषामप्युच्चैस्त्वं, यजुर्वेदगतानामृचामप्युपांशुत्वं फलम्। अत्रोपक्रमोपसंहारैकवाक्यतया वेदधर्मोऽयम धारित इति वाक्यवशेनायं विनियोगः।
व्याख्याः-
उक्तवक्ष्यमाणानुकीर्तनेन पूर्वोत्तरपादयोः सङ्गतिं अवगमयति- श्रुति लिङ्गयोरिति॥ `उपक्रमाधिकरण’नाम्ना प्रसिद्धोऽयं। सन्दर्भः वाक्यप्रमाणकमङ्गत्वमभिधत्ते। तत्र समभिव्याहारो वाक्यम्। विषयवाक्यं निर्दिशति- त्रयो वेदा अजायन्तेति। अत्राजायन्तेति जनिधातोः अभिव्यक्तिरर्थः, नतूत्पत्तिः, अपौरुषयानां वेदानामुत्पत्त्य संभवात्, धातूनामनेकार्थत्वाच्च। अयमेवार्थोमनुना भङ्ग्यन्तरेणाभ्य धायि- `अग्निवायुरविभ्यस्तु त्रयं ब्रह्मसनातनम्। दुदोहयज्ञरिध्यर्थमृग्यजुस्साम लक्षणम्’ इति। दोहनं च विद्यमान गोरूधसि स्यैव अनभिव्यक्तस्य क्षीरादेः व्यक्तीकरणरूपं भवति, नत्वविद्यमानस्य उत्पादनम्। अग्निवायुरवयस्तु वेदानां धारणे प्रचारणे च परमेश्वरेण नियुक्ताः देवा, ऋषयो वा आधिकारिकाः पुरुषाः।
उपक्रमोपसंहारस्थयोरर्थवाद विधि वाक्ययोः यथा कथञ्चि(कथंचि)देकवाक्यता संपादनीया। अन्यथा अर्थवादाधिकरणे `विधिनात्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः’ इत्युक्तं स्तुत्यस्तावकभावेन विध्येकवाक्यताप्रयुक्तमर्थवादानां प्रामाण्यं व्याहन्येत। स्तुत्यस्तावकभावश्च समानविषयकत्वमन्तरा न संभवति। प्रकृते च अर्थवादे ऋगादिवेदश्रवणात्, विधिवाक्ये च ऋगादिमन्त्रश्रवणात् वैयधिकरण्य परिहाराय अन्यतरत्र लक्षणायां कर्तव्यायां, `गुणेत्वन्याय्य कल्पनेति शास्त्रेण’, `न विधौपरः शब्दार्थ’ इत्यनेन च गुणभूतेऽर्थवादे लक्षणाप्रसक्तौ तामपवदति- `यत्र विरोधस्तत्रैवेति।’ उच्चैस्त्वादीनां ऋगादि वेदधर्मत्वं वाक्यप्रमाणकमिति पर्यवसितोऽर्थः विचारस्य प्रयोजनविशेषं दर्शयति- तेन ऋग्वेदान्तर्गतानामिति।
मूलम्ः-
`दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इत्यतः दर्शपूर्णमासाभ्यां स्वर्गं भावयेदित्यवगते, केन प्रकारेण भावयेत्? इत्याकांक्षायामाह- समिधो यजति, व्रीहीन वहन्ति- इत्यादि। तेनायमर्थः- समिदादिभिरारादुपकारिभिः, अवघातादिभिस्सन्निपत्योपकारिभिश्चाङ्गैः संपन्नौ तौ यथा फलं साधयितुं क्षमौ भवत स्तथा यजेतेति गम्यते। ततश्च उपकारकार्थिनि यागे उपकर्तुं समर्थानां प्रयोजनाकांक्षाणामङ्गनां अन्योन्याकांक्षा लक्षणेन प्रकरणेन शेषभावः।
व्याख्याः-
अधुना प्रकरणलक्षणेन प्रमाणेन अङ्गाङ्गिभावसिद्धिप्रकारं दर्शयति- दर्शपूर्णमासाभ्यामिति। उभयाकांक्षामेव प्रकरण ममनन्ति शास्त्रकृतः। तथा हि- `दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इति वाक्यं श्रुतवतः पुरुषस्य स्वर्ग- दर्शपूर्णमासयोः साध्यसाधनभावावगमेऽपि, तत्प्रकारमजानानस्य भवत्याकांक्षा, कथं दर्शपूर्णमासाभ्यां स्वर्गं साधयेयमिति। यथा- `कुठारेण छिन्द्यात्’ इत्युक्ते, धारयतोऽपि कुठारं, विदितवतोऽपि छिदिक्रियाया अर्थं द्वैधीकरणं, तत्प्रकारमवान्तर व्यापाररूपमजानानस्य भवत्याकांक्षा `कथं कुठारेण छिन्द्या’मिति- तद्वत्। यथा च सेयमाकांक्षा, `कुठारमुद्यम्यवृक्षेनिपात्त्यछिन्द्या’दिति उद्यमननिपातनरूपयोः अवान्तर व्यापारयोरभिज्ञेन उपदिष्टयोस्सतोर्निराकांक्षस्तथा कृत्वाछिनत्ति, तद्वत् प्रकृतेऽपि दर्शपूर्णमासौ प्रकृत्य उपदिष्टं यदन्वाधानादि बाह्यणतर्पणान्तमङ्गकलाप- मवान्तरव्यापारत्वेनानुष्ठाय, तदुपकृताभ्यां दर्शपूर्णमासाभ्यां स्वर्गं भावयेदित्युक्तं भवति। उपकारके अङ्गकलापे द्वैविध्यं दर्शयति- समिदादिभिः, अवघातादिभिश्चेति। तत्र समिच्छब्देन पञ्चानां प्रयाजानां प्रथमोगृह्यते। तदादयः अवशिष्टाः, तनूनपात्- इट्- बर्हिः- स्वाहाकार नामकाः प्रयाजाः, तथा आज्यभागानूयाज, पत्नीसंयानादीनि च अदृष्टद्वारा प्रधानोपकारीणि आरादुपकारकाण्यङ्गानि विवक्षितानि। अवघातादीत्यादि शब्देन पेषण- पिण्डीकरण- श्रपणादीनि, यागोपयुक्तद्रव्यसंस्कारद्वारा प्रधान यागोत्पत्त्यपूर्वजननोपयुक्तानि सन्निपत्योपकारकाण्यङ्गानि विवक्षितानि। प्रधानस्य फलजननोपयुक्तः अयमङ्गानामितिकर्तव्यतात्वेन संबन्धः उभयाकांक्षालक्षणेन प्रमाणेन सिध्यति। यद्यथा- प्रधानं फलवदपि उपकारक्रमङ्गकलापमाकांक्षति- कुठार इवोद्यमननिपातनादिकम्। अङ्गान्यपि निष्फलानि वैयर्थ्यभिया फलवत्प्रधानमुपकार्यमाकांक्षन्ति- उद्यमननिपातनादिकमिव कुठारम्। एवं परस्पराकांक्षावशात् प्रकरणरूपात् दर्शपूर्णमासादीनां प्रयाजादीनां च संबन्धो ज्ञेयः। तदेतत्सर्वं संगृह्णन्नाह- ततश्चोपकारार्थिनियागे इति।
मूलम्ः-
दर्शपूर्णमासादौ येनक्रमेण कर्मणामाम्नानम्, तेनैव मन्त्राणामप्यस्तीति उपांशुयाजस्थाने पठितो `दब्धिर्नामासि’ इति मन्त्रः श्रुत्याद्यभावेऽपि स्थानप्रमाणादेवोपांशुयाजाङ्गत्वं भजते।
व्याख्याः-
क्रमप्राप्तं स्थानप्रमाणकमङ्गत्वं दर्शयति- दर्शपूर्णमासादाविति। ब्राह्मणग्रन्थे दर्शपूर्णमासादीनि कर्माणि येन क्रमेणविहितानि मन्त्रकाण्डे तदङ्गभूता मन्त्राश्च तेनैव क्रमेणाम्नायन्त इत्युक्तम्। पूर्णमासे त्रिषु प्रधानयागेषु मध्यमः प्राजापत्य उपांशुयाजः। प्रथम तृतीयौ आग्नेयाग्नीषोमीयौ। तदनुमन्त्रणमन्त्राश्चयाजमानाः मन्त्रकाण्डे इत्थमाम्नायन्ते- `अग्नेरहं देवयज्ययान्नादो भूयासम्- दब्धिरस्यदब्धोभूयासम्- अग्नीषोमयोरहं देवयज्यया वृत्रहाभूयासम्’ इति। मन्त्राणां मुख्ययैववृत्त्या अर्थप्रकाशकत्वमित्यभिहितं प्राक्। तदनुरोधेन प्रथमतृतीययोः आग्नेयाग्नीषोमीययागयोः प्रथमतृतीयौ मन्त्रौ विनियुज्येते इत्यत्र न कश्चित् संशयः; तयोः मुख्ययैववृत्त्या अग्न्यग्नीषोमप्रकाशन समर्थत्वात्। द्वितीयेतु न तादृशं सामर्थ्यमुपलभ्यते। तत्रत्यदब्धि शब्दः मुख्ययावृत्त्या प्रजापतिमाख्यातुं न शक्नोति। किन्तु हिंसार्थ कदभ् धातुनिष्पन्नत्वात् हिंसकं- औचित्यात् शत्रुहिंसकमाचष्टे। शत्रुहिंसकत्वं च न प्रजापते रसाधारणो धर्मः, किन्तु- अग्न्यग्नीषोमादि साधारणः। न केवलं अस्मिन् मुख्यार्थप्रकाशन सामर्थ्यरूपस्य लिङ्गस्याभावः, अपि तु श्रुत्यादीनां प्रमाणान्तराणामपि। अतोऽयं मन्त्रः उपांशुयाजानुमन्त्रणे विनियोक्तुं नार्हतीति प्राप्ते- उच्यते। माभूवन् प्रमाणान्तराणि। स्थानं तु वर्तत एव उपांशुयागो यथा द्वितीयस्थाने विहितः, तथा मन्त्रोऽप्ययं द्वितीयस्मिन्नेव स्थाने पठ्यते। तथा च समानस्थानत्वादुभयोरङ्गाङ्गिभावः सेत्स्यति। लिङ्गमपि न अननुकूलम्; शत्रुहिंसकत्वस्य प्रजापतावपि अन्वेतुं योग्यत्वात्। मुख्यार्थानुपपत्तौ गौणस्याप्यर्थस्य स्वीकरणीयत्वमैन्द्र्यधिकरणे दृष्टम्॥
मूलम्ः-
दर्शपूर्णमासादिष्वाध्वर्यव हौत्रौदात्रादि समाख्ययाख्याताः पदार्थाः कर्त्रपेक्षाः सन्ति। तेषां येनकेनापि द्यत्किञ्चित् कार्यं कर्तव्यमित्यनियमे प्राप्ते, समाख्यया प्रमाणेन क्रियाकर्तृसंबन्धः सिध्यति।
व्याख्याः-
समाख्यया अङ्गत्वं सोदाहरणं दर्शयति- दर्शपूर्णमासादिष्विति- आदिपदेन ज्योतिष्टोमादयः सोमयागा ग्राह्याः, तेष्वेव औद्गात्रप्रसक्तेः। “कर्त्तपेक्षाः सन्ति” इत्यस्य, “समाख्यया संबन्धाभावे तथाविधाः स्युः” इत्यभिप्रायः। यद्यपि पदार्थाः स्वस्वरूप प्रसिध्यै सामान्यतः कर्तारमपेक्षन्ते, न तु तद्विशेषम्। सामान्यस्य कार्याक्षमत्वात् तद्विशेषमपेक्षते शास्त्रार्थः। स च आध्वर्यवं हौत्रं औदात्तं इत्यादि समाख्यया लभ्यत इति सिद्धं तत्प्रामाण्यम्॥ यथा- यजुर्वेदविहितानामध्वर्युः कर्ता, ऋग्वेदविहितानां होता, सामवेद विहितान्नानामुद्गातेति॥
मूलम्ः-
अथैषां बलाबलं चिन्त्यते। तत्र सूत्रम्- `श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षा’दिति। एतेषु श्रुत्यादिषु परंपरं दुर्बलम्। कुतः? अर्थविप्रकर्षात्। श्रुतिर्हिनिरपेक्ष शब्दरूपास्वयमेव विनियोक्त्री भवति। लिङ्गं तु श्रुतिं कल्पयित्वा विनियोजकम्, न स्वातन्त्र्येण। एवं वाक्यं लिङ्गश्रुती प्रकल्प्यविनियोजकम्। एवं प्रकरणं त्रयस्य कल्पनया। स्थानं चतुष्टयस्य। समाख्या पञ्चकस्येति विप्रकर्षो ज्ञेयः।
व्याख्याः-
तृतीयाध्यायमारभ्य एतावत्पर्यन्तं सार्धपादद्वये न निरूपितानां श्रुतिलिङ्गादीनामङ्गत्वग्राहकप्रमाणानां षण्णां मध्ये किं प्रबलं, किं दुर्बलमिति निश्चेतुं तत्परीक्षामारभते- अथैषां बलाबलमिति। इयं च परीक्षा साक्षाज्जैमिनिनैव शास्त्रकृता प्रवर्तिता, न मध्यस्थैर्व्यवहारसौकार्याय परिकल्पितेति अधीतिनां श्रद्धोत्पादनाय तदीयं सूत्रमुदाहरति- श्रुतिलिङ्गेति। एतेषां समवाये= विरुद्धयोः प्रमाणयोः एकस्मिन् विषये सन्निपाते सति, पारदौर्बल्यं= पूर्वं पूर्वंप्रति परस्य परस्य दौर्बल्यं स्यात्। कुतः? अर्थविप्रकर्षात्= अर्थस्य= विनियोजक प्रमाण प्रवृत्तिरूपस्य विलंबादित्यर्थः। तदेतत् श्रुतिमहिमानु वर्णन पूर्वकमुत्तरोत्तर दौर्बल्यं विवृणोति- श्रुतिर्हीति। उत्तरोत्तर दौर्बल्यस्योक्तत्वात् अर्थसिद्धं पूर्वपूर्वप्राबल्यम्।
मूलम्ः-
तत्र श्रुतिलिङ्गयोर्विरोधे, श्रुतेर्बलीयस्त्वमुक्तम्- ऐन्द्र्यागार्हपत्यमित्यत्र। लिङ्गवाक्ययोर्विरोधेऽपि स्योनंत इत्यत्र वाक्यात्कृत्स्नस्यैकमन्त्रत्वे प्राप्ते लिङ्गात् सदनकरणस्थापनरूपार्थद्वय प्रकाशकान्मन्त्रभेद इत्यायुक्तम्।
व्याख्याः-
श्रुतिलिङ्गविरोधोदाहरणं दर्शयति- तत्र श्रुतीति। उक्तम्= द्वितीयपादारंभ इति शेषः। लिङ्गवाक्येदाहरणमाह- स्योनंत इति। दर्शपूर्णमासप्रकरणस्थोऽयं मन्त्रः- `स्योनं ते सदनं कृणोमिघृतस्य धारया सुशेवं कल्पयामि। तस्मिन् सीदामृते प्रतितिष्ठव्रीहीणां मेधसुमनस्यमानः’ इति। अत्र `तस्मिन् सीद’ इति पूर्वपरामर्शकस्य तच्छब्दस्य श्रवणात् पूर्वोत्तरवाक्ययोरेकवाक्यत्वं प्रतीयते। तदनुरोधेन कृत्स्नस्य वाक्यस्य एकमन्त्रत्वमङ्गीकृत्य पुरोडाशस्य सदनकरणे- प्रतिष्ठापने वा विनियोगः कर्तव्य इति पूर्वपक्षे प्राप्ते, इत्थं सिद्धान्तितम्- वाक्यं स्वातन्त्र्येण क्वचिदर्थे मन्त्रं विनियोक्तुं न शक्नोति, किन्तु मन्त्रस्य विवक्षितार्थप्रकाशनसामर्थ्यमस्ति, नवेति पर्यालोच्यैवापर्यालोचिते च तस्मिन् पूर्वार्धस्य `सदनं कृणोमि’ इत्येवं सदनकरणप्रकाशकत्वात्, उत्तरार्धं स्य च `प्रतितिष्ठ’ इत्येवं प्रतिष्ठापन प्रकाशकत्वात् क्रियाद्वये विभज्य विनियोगः प्राप्नोति। तत्रापि लिङ्गस्य अशब्दात्मकतया स्वतोविनियोगा समर्थत्वात् `स्योनंत’ इत्यनेन सदनं कुर्यात्,- `तस्मिन् सीदे’त्यनेन प्रतिष्ठापनं कुर्यात् इति श्रुतिद्वयं कल्पयित्वा क्रियाद्वये विनियुङ्क्ते- इति वक्तव्यम्। वाक्यं तु सामर्थ्यरूपं लिङ्गं, तत श्शृतिं च कल्पयित्वेति इत्यन्तरितत्वात् विनियोगे विप्रकृष्टम्। लिङ्गं तु केवलांश्रुतिं कल्पयित्वा विनियोक्तुं शक्नोतीत्येकान्तरितत्वात् वाक्यापेक्षया प्रबलम्। अत एव दुर्बलं वाक्यं बाधते। इत्यप्युक्तमिति। अत्र साक्षादनुक्तमपि, ग्रन्थान्तरेषूक्तं, तदत्रानुसन्धेयमित्याशयः।
मूलम्ः-
वाक्यप्रकरणयो र्विरोधोदाहरणं सूक्त वा के। स च लिङ्गवशात्पर्वदये विभज्यविनियोज्य इत्युक्तम्। तत्र इदं हविरजुषेतामित्यादीनि पदानि प्रकरणाविशेषेऽपि अन्यत्र न प्रयुज्यन्ते, अपि तु वाक्यस्य बलवत्त्वादग्नीषोमावित्यनेनैव संबध्यन्ते। ततश्चैकवाक्यत्वादग्नीषोमप्रकाशन सामर्थ्यं लिङ्गं, ततः श्रुति, स्ततो विनियोग इति सन्निकर्षः। इन्द्राग्नीपदेन तु प्रकरणद्वारैक वाक्यत्वमिति विप्रकर्षः। तस्माद्वाक्यं प्रकरणाद्बलवत्।
व्याख्याः-
अधुना प्रकरणाद्वाक्यस्य बलीयस्त्वं सोदाहरणं विवृणोति- वाक्यप्रकरणयोरिति। इत्युक्तमिति। अस्मिन्नेवाध्याये द्वितीयस्मिन् पाद इति शेषः। तत्र हि `सूक्तवाकेन प्रस्तरं प्रहरति’ इति वाक्येन सूक्तवाक संज्ञकस्य मन्त्रसमुदायस्य प्रकरणाद्दर्शपूर्णमासो भयाङ्गत्वे आपद्यमानेऽपि, पूर्णं मासे ऐन्द्राग्नयागा भावेन इन्द्रग्नीलिङ्गकः `इन्द्राग्नी इदँ्हविर जुषेता’मिति मन्त्रो न प्रवर्तते। एवंदर्शे अग्नीषोमीययागाभावात् `अग्नीषो मविदँ्ह विरजुषेता’मिति मन्त्रो न प्रवर्तते। सूक्तवाक वाक्यजातस्य उभय साधारणत्वेऽपि तदपेक्षया लिङ्गस्य प्रबलत्वात् तत्तद्देवतालिङ्गकामन्त्राः तत्तद्देवता कथागबत्येवदर्शे पूर्णमासे वा विभज्यविमियोक्तव्या इत्युक्तम्। अथेदानीं प्रकारान्तरेण शङ्कते- मानामविनियुज्यतां `इन्द्राग्नी इदँ्हविरजुषेता’मित्ययं कृत्स्नोमन्त्रः पूर्णमासयागे, तत्र असमवेतार्थत्वात्। इन्द्राग्नीपदं अपनीय `इदँ्हविरजुषेता’मित्ययं मन्त्रभागः दर्शे पूर्णमासे च उभयत्रविनियुज्यताम्, विरोधाभावात्। तथा सति प्रकरणमपि अनुगृहीतं स्यादिति। इमां शङ्कामपनुदति- तत्र इदं हविरजुषेतामित्यादीनीति। सत्यं अविशेषेऽपि= प्रकरणभेदां नावेऽपीत्यर्थः। अन्यत्र= स्वप्रकरणस्थे नापि वाक्यन्तरेण न प्रयुज्यन्ते= योजयितुं नार्हन्तीत्यर्थः। तथा हि- अस्मिन् मन्त्रे `इन्द्राग्नी’ पदे पृथक्कृते कर्तृपदरहितः इदँ्हविरजुषेतामिति पदसमुदायः साकांक्षतया न विशिष्टं कमपि वाक्यार्थं प्रत्याययितुं क्षमते। तथैव एतद्विरहितं केवलमिन्द्रग्नीपदमपि वाक्यार्थप्रतिपत्तयेनालमिति, भागद्वयमपि निरर्थकं मप्रमाणं स्यात्। तद्दोषपरिहाराय सर्वेषां मन्त्रपदानां एकवाक्यत्वे परिकल्पिते सति इन्द्राग्नीप्रकाशनसामर्थ्यरूपं लिङ्गं, ततः श्रुतिं च कल्पित्वादर्शं यागस्यैव अङ्गं भवति मन्त्रः, न प्रकरणाद्वर्शपूर्णमासयोरुभयोः। एवं च विनियोगेलिङ्ग- श्रुतिद्वयमात्रकल्पनापेक्षिणावाक्येन, वाक्यलिङ्ग-श्रुतिद्वयमात्र कल्पनापेक्षिणावाक्येन, वाक्यलिङ्ग-श्रुतित्रयकल्पनमपेक्षमाणं प्रकरणं विलंब प्रवृत्तिक तया बाध्यते। अतः प्रकरणात् वाक्यं बलवत्।
मूलम्ः-
स्थानप्रकरणयोर्विरोधस्तु, इष्टि- पशु- सोमयागात्मके राजसूये अभिषेचनीयाख्यः सोमयागोऽस्ति। तत्सन्निधौ पठिता हि देवतादयः। यावत् प्राकृताङ्गैः कथं भावे निराकांक्षेऽभिषेचनीये[ऽथ] यथाकथञ्चित् सन्निधानादाकांक्षां प्रकल्प्याङ्गत्वं कल्प्यते, ततः प्रागेव प्रकरणाद्राजसूयाङ्गत्वमेषां गम्यते। अतः सन्निधेः प्रकरणं बलवत्।
व्याख्याः-
अधुना स्थानात् प्रकरणस्य प्राबल्यं उपपादयति- स्थान प्रककणयोरिति। `राजाराजसूयेन स्वाराज्यकामो यजेत’ इति वाक्यविहितः स्वाराज्यफलकः राजकर्तृकः सोमयागविशेषः। राजसूयनाम्नाव्यवह्रियते। अचं च षण्णां सोमयागानां, द्वयोः पशुयागयोः, एकोनत्रिंशदुत्तरशत(129) संख्याकानामिष्टीनां, सप्तदर्वीहोमानां च समुदायात्मकः। तत्र अभिषेचनीयाख्यस्य सोमयागस्य सन्निधौ `अक्षैर्दीव्यति’ `राजन्यं जिनाति’ `शौनश्शेपमाख्यापयति’ इति कानिचिदङ्गानि विहितानि। एतेषां सन्निधिरूपात् स्थानात् अभिषेचनीयाङ्गत्व, मथ वा प्रकरणाद्राजसूयाङ्गत्वमिति सन्देहे, राजसूयाङ्गत्वमेवेति सिद्धान्तः। तत्र कारणं विशदयति- यावत्प्राकृताङ्गैरिति। कथं भावे= कथं भावविषये- इत्यर्थः। तथा हि- देवनादीनां अभिषेचनीयाङ्गत्वं भवत् अन्यतराकांक्षया भवेत्। यतोऽभिषेचनीयः सोमयागत्वात् स्वप्रकृतिभूताज्ज्योतिष्टोमादतिदिष्टैरेवाङ्गैः निवृत्तोपकारकाकांक्षो वर्तते। विदे वनादयस्तु पृथक्फलाश्रवणात् फलवदुपकार्यं किञ्चिदाकांक्षमाणाभवन्तीति, स्वगतयै वा कांक्षया, प्राकृताङ्गैरेव निराकांक्षीकृते अभिषेचनीये आकांक्षामुत्थाप्य तेन सह संबद्धुमर्हन्ति, नान्यथा। एवं विधकल्पनाप्रयुक्तक्लिष्टतैव ग्रन्थकृता `यथाकथंचित्’ इति पदेन सूचिता। ततश्च अन्यतराकांक्षा लक्षणं स्थानं उभयाकांक्षा लक्षणं प्रकरणं, ततो वाक्यलिङ्गश्रुतीश्च कल्पयित्वा यावद्विनियोक्तुं सन्नह्यति, तावत्प्रकरणं वाक्यादि त्रितयमात्रकल्पनेन विनियोजकं भवतीति प्रबलम्। अत एव विलंब प्रवृत्तिकं दुर्बलं स्थानं बाधत इति प्रकरणात् विदे वनादीनां राजसूयाङ्गत्वमेवेति फलितम्।
मूलम्ः-
क्रमसमाख्ययोर्विरोधस्तु- पौरोडाशिक समाख्ये काण्डे सान्नाय्यपात्रशुन्धनक्रमे, `शुन्धध्व’मिति मन्त्रो यावत् समाख्यया सम्बन्धं प्रकल्प्य पुरोडाशाङ्गतां नीयते, तावत् सन्निधिः क्लृप्तसम्बन्धद्वारा आकाङ्क्षाक्रमेणैकवाक्यत्वं, ततः सामर्थ्यं, ततः श्रुतिं च प्रकल्प्य, तस्य सान्नाय्याङ्गत्वं विधत्त इति समाख्यातः सन्निधिर्बलवान्।
व्याख्याः-
स्थान- समाख्ययोर्विरोधे स्थानस्य प्राबल्यं सोदाहरणमाह- क्रमसमाख्ययोरिति। पौराडाशिकमिति समाख्ययाप्रसिद्धेकाण्डे पठितत्वात् `शुन्धध्वं दैव्यायकर्मणे’ इति मन्त्रस्य पुरोडाशीय पात्रप्रोक्षणाङ्गत्वमित्यापाततः स्फुरति। सन्निधिरूपे स्थाने पर्यालोच्यमाने तु सान्नाय्यपात्राणां स्थाने आम्नातत्तवात् सान्नाय्यपात्रप्रोक्षणाङ्गत्वं मन्त्रस्यावगम्यते। किमत्र सांप्रतम्? स्थानमेवात्र समाख्यातः प्रबलं भवति। संबन्ध बोधिकाऽपि सतीसमाख्यो सन्निहितं परित्यज्य, व्यवहिते न संबन्धं बोधयितुं न शक्नोति। अतस्समाख्या सन्निधिं परिकल्प्य, ततः प्रकरणादिकं च यावन्मन्त्रस्य पुरोडाशपात्र प्रेक्षणाङ्गत्वं कल्पयति, तावत् क्लृप्तः सन्निधिः प्रकरणादि चतुष्टयं प्रकल्प्य सान्नय्यपात्रप्रोक्षणेमन्त्रं विनियुङ्क्ते, शीघ्रप्रवृत्तिकत्वात्। अतो मन्थरप्रवृत्तिस्समाख्यादुर्बला बाध्यते।
मूलम्ः-
अत्र श्रुत्यादिभिर्लिङ्गादीनां बाधः कल्पनामूलोच्छेदात्- लिङ्गा (लैङ्गिका)दिकल्प्य पदार्थस्य अप्राप्तत्वादेव। प्राकृताः कुशादयस्तु प्राप्ता एव सन्तो वैकृतैः शरैः बाध्यन्ते। एव `माहवनीये जुहोति’ इति सामान्य शास्त्रेण प्राप्त एवाहवनीयः `पदेजुहोति’ इत्यनेन विशेषेण वाध्येत इति, तार्तीयीकादप्राप्तबाधात् दाशमिकः प्राप्तबाधो विलक्षण इति ज्ञेयम्।
व्याख्याः-
एतावता श्रुत्यादिभिर्लिङ्गादीनां बाधं सोदाहरणमुपवर्ण्य, अधुना बाधस्वरूपं निरूपयति- अत्र श्रुत्यादिभिरिति। बाधोद्विविधः- अप्राप्तबाधः, प्राप्तबाधश्चेति। तत्र तृतीयाध्यायोक्तः श्रुत्यादिभिर्लिङ्गादीनां यो बोधः, सोऽप्राप्तबाधः। दशमाध्याये वक्ष्यमाणः वैकृतैः शरादिभिः प्राकृतानां कुशादीनां यो बाधः स प्राप्तबाधः।
तथा `यदाह्वनीये जुहोति’ इति वाक्येन होमसामान्यं प्रति आधारत्वे न विहितः आह्वनीयोऽग्निः। स च `सप्तमेपदे जुहोति’ `अश्वस्य पदे जुहोति’ `हिरण्यमुपास्य जुहोति’ इत्येवं होमाधारत्वेन विशेषविहितैः पद- हिरण्यदिभिः बाध्यते। अयमपि प्राप्त बाध एव। अन्यत्र सावकाशं सामान्यं, निरवकाशेन विशेषेण बाध्यत इति शास्त्रमयदि॥
ननु अप्राप्तस्य बाधः कथं घटते? अनुत्पन्नस्य पुत्रस्य नाम करणवत्- इति वाच्यम्; प्रवृत्त्युन्मुखस्य तादृश प्रवृत्ति प्रतिबन्ध एव अप्राप्तबाधः। प्रकृतस्य निवर्तनं प्राप्तबाध इति विभागो ज्ञेयः ॥
मूलम्ः-
ज्योतिष्टोमे `तिस्रमवसाह्णस्योपसदोद्वादशाहीनस्य’ इत्यत्र अहीनपदं नहीन इति योगात् ज्योतिष्टोमं वक्ति, तत्रैव द्वादशोपसत्त्वमपि विधीयत इति, न; अह्वांसमूहोऽहीन इति द्विरात्रादावहीन शब्दस्य रूढत्वात् `अह्नः स्वः क्रतौ’ इति अहः शब्दात्समूहेऽर्थे ख प्रत्ययः। तस्यायादि सूत्रेण ईनादेशे `आद्युदात्तश्च’ इति प्रत्ययस्वरेण ईकारस्योदात्तत्वे मध्योदात्तं पदं चात्र पठ्यते। नञ् समासे तु अव्यय पूर्वपद प्रकृतिस्वरत्वेनाद्युदात्तत्वं स्यात्। न च तथा पठन्ति। तस्मादहर्गणाङ्गत्वात् द्वादशोपसत्त्वं त्र्युपसत्त्वस्तुत्यर्थं अत्र कीर्त्यमानमित उत्कृष्यते।
व्याख्याः-
ज्योतिष्ठोम इति। सोमयागे सुत्यानामकात् प्रधानयागानुष्ठानदिनात् पूर्वं त्रिषुदिनेषु यज्ञविघ्नकारिणामसुराणां निराकरणाय अनुष्ठेयाः उपसत्संज्ञकाः अपूर्वा इष्टयः। ताश्च एकाहे सोमयागे तिस्रः कर्तव्याः, अहर्गणरूपे अहीने द्वादशेति विषयवाक्यर्थः। अत्र पूर्वपक्षीमन्यते- त्र्युपसत्त्वं, द्वादशोपसत्त्वं च प्रकृते एकाहरूपे अग्निष्टोमसंस्थाकेज्योतिष्टोम एव विकल्पेन निविशत इति। नन्वेवं सति अहर्गणवाचि अहीनपदं विरुध्यत इतीमां शङ्कां, नञ् समासाश्रयणेन निराकुर्वन्नाह- अहीनपदमिति। अत्र सिद्धान्तमाह- “न; अह्वांसमूहोऽहीन” इति। “रूढत्वा"दिति। अत्रतावत्- `नहीनोऽहीन’ इति योगमाश्रित्य अहर्गणरूपस्य रूढ्यर्थस्य परित्याग एको दोषः, `योगाद्रूढिर्बलीयसी’ इत्यभियुक्तैरुक्तत्वात्। अथ च व्याकरणस्मृतिविरोधोऽपि। तमेवोपपादयति- `अह्नः स्वः क्रतौ’ अत्यादिना। अथादि सूत्रेण= `आयनेयीनीयियः फढस्वछघां प्रत्ययादीनाम्’ इति सूत्रेणेत्यर्थः। व्याकरणस्मृतिसिद्धं स्वरं शिष्टपाठोऽपि संवदतीत्याह- मध्योदात्तं पदं चात्र पठ्यत इति। जहीनः- अह्निः इति योगेन नञ्समासाश्रयणे `निणात आद्युदात्ताः’ इति अहीन पडमाद्युदात्तं स्यात्- निपाता आद्युदात्ताः इति। न च तथा पठन्तीति। आद्युदात्ततया न पठन्तीत्यर्थः। अस्य द्वादशाहीनवाक्यस्य एकाह प्रकरणादहीन प्रकरणं प्रति उत्क्रष्टव्यत्वं ब्रुवन्, प्रकृते तत्पाठस्य प्रयोजनक्तामाह- स्तुत्यर्थमिति। बालस्य अल्पोभारोयुक्तः, प्रौढस्य तु प्रौढ इत्येव मौचित्येन स्तुतिरत्र द्रष्टव्या॥
मूलम्ः-
तत्रैव `युवं हि स्थः स्वर्पती इति द्वयोर्यजमानयोः प्रतिपदं कुर्या’दित्यत्र द्वित्वं न स्त्री पुंसनिमित्तम्। अग्नीषोमयोर्देवतात्ववत्तयोर्यजमानत्वस्य व्यासक्तत्वात्। `सोमेन यजेत, वसन्ते वसन्ते ज्योतिषा यजेत’ इत्युत्पत्ति प्रयोगचोदनयोः आख्यातोपात्तं गुणभूतोपादेयकर्तृगतमेकत्वं विवक्षितमेव। अतो द्वियजमानत्वं कुलायाहीनादिषु उत्कृष्यत एव।
व्याख्याः-
पूर्वत्र अहीन वाक्यस्य प्रकरणादुत्कर्ष उक्तः। तत्प्रसङ्गादधुना उत्कर्षान्तरमुच्यते। पदार्थानुपपत्त्या पूर्वत्रोत्कर्षः, अत्र तु वचनार्थानुपपत्येति विशेषः। ज्योतिष्टोमे….. सामगानप्रसङ्गे इदं वाक्यं श्रूयते। सामगाः ऋक्ष्वेवसामानि गायन्ति। प्रकृतस्य साम्नोगानं `युवं हि स्थः स्वर्पती’ इत्यस्यामृचि आरम्भणीयम्। प्रतिपच्छब्द आरंभणार्थकः युवं= युवाम्, स्वर्पती= स्वर्गफलभोक्तारौ, इत्येवं द्वित्व श्रवणात् स्वर्पतित्वश्रवणाच्च कथमयं मन्त्रः एकयजगानके ज्योतिष्टोमे समवेतार्थः स्यादिति शङ्कायां पूर्वं पक्षीमन्यते- `पाणिग्रहणाद्धिसहत्वं कर्मसु, तथा पुण्यफलेषु’ इति धर्मशास्त्रमनुसृत्य पत्नीयजमानयोः द्वित्वस्य, फलभागित्वस्य च सत्त्वात् तत्पुरस्कारेण अयं मन्त्रः प्रकृति भूते ज्योतिष्टोम एव निवेश गर्हति, अतो न विकृतिषूत्कर्ष इति। सिद्धान्तस्तु- सोमेन यजेत इत्यादावुत्पत्तिवाक्ये, वसन्तादौ प्रयोगवाक्ये वा आख्यात वाच्य भावनया आक्षिप्ते लाक्षणिके कर्तरि समानाभिधा न श्रुत्या एकत्वमन्वेति। कर्ता च गुणभूतः उपादेयश्चेति तद्गतमेकत्वमपि विवक्षितमेव। न तु ग्रहैकत्ववद विवक्षितम्, अनुद्देश्यगतत्वात्। यदीदानीं पत्न्या अपि पृथग्यजमानत्वमङ्गीकृत्य द्वियजमानत्वे समर्थ्येत, उत्पत्तिवाक्या व गतं श्रौतमेकत्वं विरुध्येत। न च- पत्न्या अपि आंशिकं यजमानत्वमस्त्येवेति- वाच्यम्; सत्यमस्त्येव, परन्तु `अग्नीषोमौ देवता’ इत्यत्र यथा अग्नीषोमयोर्व्यासज्यवृत्ति देवतात्वमेकमेव, केवलं देवतात्वाश्रयभूतयोः अग्नीषोमव्यक्त्योरेव द्वित्वं, तथा अत्रापि दम्पत्योः व्यासज्यवृत्ति यजमानत्वमेकमेव, न प्रत्येकवृत्ति। अत एव उत्पत्ति वाक्यावगतकर्त्रेकत्वेन न विरोधः। `द्वयोर्यजमानयोः’ इत्यत्र तु प्रत्येकवृत्ति, यजमानयोर्दित्वस्य वचनेन स्फुटं प्रतीयमानत्वात् तदनुरोधेनैक यजमानके प्रकृते कर्मणि निवेशायोगात्, अनेक यजमानके कुलायाहीनादौ मन्त्रोऽय मुत्कर्षमर्हति। उपलक्षणमेतत्। अनयैव दिशा `एते असृग्रमिन्दव- इति बहुभ्यो यजमानेभ्यः’ इत्यस्याप्युत्कर्षः।
मूलम्ः-
दर्शपूर्णमासयोः पश्वभावेऽपि `जाधन्यापत्नीस्संयाजयति’ इत्येतन्नोत्कृष्यते। तृतीया श्रुत्यायागाङ्गत्वेन तस्या(तद्वि) विधीयमानत्वात्, लौकिक्यापि जाघन्या पत्नी संयाजानां द्रव्याकांक्षा निवृत्त्युपपत्तेः।
व्याख्याः-
जघनी शब्देन पशोः पुच्छभागोऽभिधीयते। अग्नीषोमीयादिषु पशुयागेषु अर्थसिद्धत्वात्तस्य पत्नी संयाजेषु विनियोगो घटते चरुपुरोडाशाज्यादि द्रव्यकासु इष्टिषु कथं तत्संभव इत्याशङ्कायामाह- पश्वभावेऽपीति। नह्यनयाजाघन्या प्रकृतयागाङ्गभूत पश्वनु निष्पादिन्या भवितव्यम्। तृतीया श्रुत्या तस्याः साधनत्वमात्रावगमात् लौकिकेनाज्येन प्रयाजानूयाजादिवत् लौकिक्यैव आपणाद्विक्रीयानीतयापि जाघन्यापत्नीसंयाजानामनुष्ठान संभवात् नास्य वाक्यस्य प्रकरणादुत्कर्ष इत्याह- तृतीया श्रुत्येति॥
मूलम्ः-
दर्शपूर्णमासयोः `पूषाप्रपिष्टभाग’ इति श्रुतम्। तत्र प्रकरणे पूषाभावात् यत्र चातुर्मास्यादौ पौष्णश्चरुस्तत्रोत्कृष्यते। पुरोडाशे प्राप्तत्वात्, पशौ च हृदयादिस्वरूपनाशापत्तेः पेषणस्य अविधेयत्वात्। पिष्टचरावपि पाकवैशद्येन च रु शब्दप्रयोगोपपत्तेश्च। एवं च पौष्णेपेषणम्। देवतान्तरविशिष्टे तु पूष्णि न पेषणम्। विशिष्टस्यातिरिक्तत्वात्तत्र केवलधर्मस्याप्रवृत्तेः।
व्याख्याः-
दर्शपूर्णमासयोरिति। यद्यपि `पूषाप्रपिष्टभाग’ इति वचनं दर्शपूर्णमास प्रकरणे श्रूयते। प्रकर्षेण पिष्टः चूर्णीकृतः पदार्थः भागः सेव्यो यस्य सोऽयं प्रपिष्टभागः। पूषा तावत् सम्यक् चूर्णीकृतं द्रव्यमेव भजते, न कठिनमिति तदर्थः। तत्र हेतुरप्यर्थवादेन निगद्यते- `अदन्तकोहि’ इति। स चेतिहासपुराण प्रसिद्धः परन्तु(परंतु) दर्शपूर्णमासयोः पूषदेवत्यस्य यागस्यैव श्रुतत्वात् यत्र श्रूयते- चातुर्मास्यादौ `पौष्णं चरु’मित्येवं तत्रोत्कृष्टव्यमिदं वचनम्। उत्कृष्टे च भवतीयं विचारणा- किं पूषदेवत्यं यद्यद्धविः- चरुः, पशुः, पुरोडाशोवा तत्र सर्वत्रापि पेषणं कर्तव्य, मुत चरावेवेति। अदन्तकत्वविशेषितस्य पूष्ण एव सर्वत्र देवतात्वात् सर्वत्रपेषणमिति प्राप्ते, सिद्धान्त उच्यते- पुरोडाशेप्राप्तत्वादिति। तथा हि- न पौष्णे पुरोडाशे प्रपिष्टवाक्येन पेषणं विधातव्यम्, प्रकृतिभूतात् दर्शपूर्णमासीयाग्नेय पुरोडाशयागादेवातिदेशेन प्राप्ति संभवात्। नापि पशौ, पेषणेन तस्य स्वरूपना श प्रसङ्गात्। अतश्च चरावेव पेषणं प्राप्नोति। न च - चरु प्रकृतिषु तण्डुलेषु पेषणेकृते, पिष्टानां श्रपणेऽपि चरुस्वरूपं हीयेतेति- वाक्यम्; पाककृतेन वैशद्येन पिष्ट चरावपि चरु शब्दप्रयोगो नानुपपन्न इति समाधत्ते- पिष्टचरावपीति। निष्पन्नेऽपि पाके कणशः पृथगुपलभ्यमानत्वे वैशम्यम्॥
ननु पौष्णेचरौपेषणमित्युक्तम्। एन्द्रापौष्णं चरुं निर्वपेदित्यत्रापि इन्द्रेण साकं पूष्णोऽपि देवतात्वस्य सद्भावात् तत्रापि पेषणं प्राप्नुयादित्याशङ्कायामाह- देवतान्तरविशिष्टेत्विति। यत्र पूष्णः केवलस्य देवतात्वं तत्रैव पेषणं, न तु देवतान्तरविशिष्टस्य, प्रपिष्टवाक्ये केवलस्यैव पूष्णः श्रवणात्। न हि केवलस्य धर्माः विशिष्टे निवेष्टुमर्हन्ति।

  • इति तृतीयाध्याये- तृतीयः पादः -

  • अथ तृतीयाध्यायस्य चतुर्थः पादः -

मूलम्ः-
दर्शपूर्णमासयोः `निवीतं मनुष्याणां प्राचीनावीतं पितृणामुपवीतं देवानामुपव्ययते’ इति श्रुतम्। तत्र `सदोपवीतिना भाव्य’मिति स्मृते र्नित्यमुपवीतस्य प्राप्तिरस्तीति- निवीतमित्यर्थवादः। उपवीतं च पुरुषार्थत्वेन प्राप्तमपि क्रत्त्वर्थं पुनर्विधीयते। संभवति पुरुषार्थोल्लङ्घनेऽपि, क्रत्ववैगुण्यं मन्यमानस्य तदप्राप्तिरिति॥ एवं तत्रैव `नानृतं वदेत्’ इत्यस्यापि पुनर्विधिर्ज्ञेयः॥
व्याख्याः-
दर्शपूर्णमासप्रकरणस्थमिदं `निवीतं मनुष्याणा’मिति वाक्यम्। अत्र `उपव्ययते’ इत्यनेन वासो नित्या सविशेष लक्षणमुपवीतं प्रकरणात् दर्शपूर्णमासाङ्गतया विधीयत इति द्रष्टव्यम्। निवीतं तु मनुष्यकर्माङ्गतया प्रमाणान्तरप्राप्तमेव प्रकृतोपवीतस्तुत्यर्थमनूद्यते, न विधीयते। एवं प्राचीनावीतमपि। यथा- मनुष्यकर्मसुनिवीतमुचितं, यथावा पितृकर्मसुप्राचीनावीतं, तद्वत् दैवकर्मत्वाद्दर्शपूर्णमासयोरुपवीतमुचितमिति स्तुतिर्द्रष्टव्या। नन्वत्र उपवीतविधानमनर्थकम्, `सदोपवीतिना भाव्य’मिति स्मृति वशादेवप्राप्तत्वात्- इति शङ्कते- तत्रेते समाधत्ते- उपवीतं चेति। पुरुषार्थत्वेन तया प्राप्तत्वेऽपि अत्र प्राकरणिक वाक्येन क्रत्वर्थतया तद्विधानस्य सार्थक्यात्। अन्यथा पुरुषार्थविध्युल्लङ्घन प्रत्यवायं सोढ्वा उपवीतं विनैव यः दर्शपूर्णमासावनुतिष्ठति तस्य क्रतुसाद्गुण्य प्रसङ्गात्। सतित्वस्मिन् विधौ उपवीताभावे न केवलं पुरुषार्थाविध्युल्लङ्घनमात्रम्, अपि तु क्रतुवैगण्यमणीत्यर्थविशेषो लभ्यते।
इममेवन्यायं निषेध विषयेऽप्यतिदिशति- एवं तत्रैवेति। तत्रैव= दर्शपूर्णमासप्रकरण एवेत्यर्थः। अनारभ्याधीतात् `नानृतं वदे’दिति पुरुषार्थनिषेधात् यथा अनृत वदनस्य प्रत्यवायजनकत्वमवगम्यते, तथा दर्शपूर्णमासप्रकरणस्थादस्मात् प्रकृत कर्मवैगुण्यजनकत्वमवगम्यते इत्याशयः॥
मूलम्ः-
मृताग्निहोत्रे- `अधस्तात्समिधं धारयन्ननुदवेदुन्नुपद्रव्यत्युपरिहिदेवेभ्योधारयति- इति विज्ञायते’ इत्यत्र परप्रकरणेऽप्राप्तत्वादुपरिधारणमपि विधीयते।
व्याख्याः-
आहिताग्नेर्मरणे तस्य दाहात्पूर्वं ऋत्विजाकर्तव्यमग्निहोत्रं मृताग्निहोत्रमित्युच्यते। अथस्तात्- होमसाधनस्रुग्दण्डस्यधोभागे, अनुद्रवणं- मन्त्रोच्चारणं, देवेभ्यः- देवार्थं क्रियमाणे नित्याग्निहोत्र इत्यर्थः। अत्र मृताग्निहोत्रे स्रुग्दण्डस्याधस्तात्समिद्धारणं विधीयत इत्यत्र नास्ति संशयः। दैवाग्निहात्रे उपरिसमिद्धारणं अन्यतः प्राप्तमेवात्रस्तुत्यर्थं मनूद्यते, आहोस्विदपूर्वमेवात्र विधीयत इत्येवसंशयः। तस्मिन् वाक्ये प्राप्तिद्योतक हि शब्दश्रवणात् स्तुत्यर्थमेवान्यतस्सिद्धमनूद्यत इति पूर्वपक्षीमन्यते। अन्यत्र क्वचिदपि उपरिधारणविधेरनुपलम्भात् अपूर्वमेवात्र विधीयत इत्यतः प्रकरणादुत्कृष्यदैवाग्निहोत्रेनेतव्यमिदं वचनमिति- सिद्धान्तः॥ परप्रकरणे= दैवाग्निहोत्रप्रकरणे। अप्राप्तत्वात्= अविहितत्वादिति भावः॥
मूलम्ः-
`दर्शपूर्णमासयोः तस्माज्जञ्जभ्यमानोब्रूयान्मयिदक्षक्रतू’ इति मन्त्रं वाक्यप्रकरणयोरविरोधात्, क्रतावपि जृम्भायाः सम्भवात् *न प्रकृतं क्रतुमुल्लङ्घ्यवाक्येन(*`प्रकृतं क्रतुमनुल्लङ्घ्य’ इति पाठोयुक्त इति भाति॥) पुरुषार्थोऽपि स्यादिति। तत्रैव `तस्माद्ब्राह्मणाय नापगुरेत’ इत्यव गोरणनिषेधस्तु- `यो ब्राह्मणायापगुरेत तं शतेनयातया’दित्यनेन यातनाख्य पृथक् फलश्रवणात् क्रतुमुल्लङ्घ्याऽपि पुरुषार्थे पर्यवतिष्ठते।
व्याख्याः-
दर्शपूर्णमासयोरिति। जृम्भागात्रविनामः, तं कुर्वाणः पुरुषः `मयि दक्षक्रतू’ इति मन्त्रं पठेदित्यर्थः। अस्यवाक्यस्य दर्शपूर्णमासप्रकरण पठितत्वेऽपि प्रकरणात् वाक्यस्य बलवत्त्वेन प्रकरणमविवक्षित्वा शुद्धपुरुषधर्मत्वं वक्तव्यमिति पूर्वपक्षी मन्यते। वाक्यप्रकरणयोरविरोधेन क्रतुयुक्तपुरुषधर्मत्व संभवे वाक्यमात्रेण पुरुषार्थत्वं स्वीकृत्य प्रकरणादुत्कर्षो नन्याय्य इति सिद्धान्तः तस्मिन्नेव प्रकरणे श्रूयमाणस्य `तस्माद्ब्राह्मणायनापगुरेत’ इत्यपगोरण निषेधस्याऽपि क्रतुयुक्तपुरुषधर्मत्वं पूर्ववन्मन्यमानस्येदमुत्तरम्- क्रतुधर्मत्वे क्रतुयुक्तपुरुषधर्मत्वेवाक्रतुफलेनैव फलवत्त्वं वक्तव्यम्। अत्र तु पृथक् फलं श्रूयते- `यो ब्राह्मणायाप गुरेत तं शतेन यातयेत्’ इति। अतः प्रकरणपठितोऽप्ययं प्रतिषेधः पुरुषार्थो भवितुमर्हति। अपगोरणं- ताडनोद्योगः, तं कृतवन्तं शतनिष्कदण्डेन यातयेत्- क्लेशयेदित्यर्थः। अतः प्रतिषेधोऽयं प्रकरणाद्रुत्क्रष्रव्यः।
मूलम्ः-
एवं `मलवद्वाससानसंवदेत’ इत्यपिपुमर्थमेव। `तामपरुध्य यजेत’ इति वचनेन क्रतुमध्येऽपरुद्धया तया सह संवादाप्रसक्तेः। `तस्मात्सुवर्णँ्हिरण्यं भार्यम्, दुर्वर्णोऽस्य भ्रातृव्यो भवति’ इत्यत्र पुरुषार्था स्वर्णधृतिः।
व्याख्याः-
दर्शपूर्णमासप्रकरण पठितस्यैव प्रतिषेधान्तरस्याऽपि पुरुषार्थत्वं ब्रुवन् तस्य तथात्वे हेत्वन्तरं दर्शयति- एवं मलवद्वाससेति। मल वद्वासाः- रजःस्वला। ऋतुकालिकरजः स्पर्शेन मलिन्ययुक्तं वासो यस्या इति व्युत्पत्तेः। संवादः- संभाषणं, तन्नकुर्यादित्यर्थः। अयं च संभाषणप्रतिषेधः इष्टिव्यतिरिक्तकालिकः पुरुषार्थश्च भवितुमर्हति, इष्टिकाले तु `तामपरुध्य यजेत’ इत्यनेन वचनेन `रजः स्वलां भार्यां दूरतः गृहन्तरे अवस्थाप्ययागं कुर्यादित्यर्थकेन दूरतः स्थितया तया सह संभाषणस्यैव अप्रसक्तत्वेन तत्प्रतिषेधे अप्रसक्तप्रतिषेधापत्तेः’।
सुवर्णं धारणविधेरपि पुरुषार्थत्वं दर्शयति- तस्मात्सुवर्णमिति। अनेन विधीयमानं सुवर्णधारणं न कस्यचित् क्रतोरङ्गम्, अनारभ्याधीतत्वादस्य वाक्यस्य, किन्तु पुरुषार्थमेव। आर्थवादिकं फलं चास्य श्रूयते, `दुर्वर्णोऽस्य भ्रातृव्यो भवति, (स्वयं) सुवर्ण एव भवति’ इति चा सुवर्णधारीपुरुषः सुवर्णः- शोभन शरीरच्छायोपेतः सुन्दर इत्यर्थः। अस्य भ्रातृव्यः- शत्रुः, दुर्वर्णः- कुरूपो भवतीत्यर्थः॥
मूलम्ः-
वारुणेष्टिर्वैदिके एवाश्वदाने, न तु लौकिके।
व्याख्याः-
“यावतोऽश्वान्प्रति गृह्णीयात्तावतो वारुणान् चतुष्कं पालान्निपेत्” इति विहिता वारुणेष्टिः अश्वदातुरेव न प्रतिग्रहीतुरिति वक्ष्यते समनन्तरमेव इह तु तदेतन् दानं वैदिकं, लौकिकमाहोस्वित् उभयविधमिति सन्देहः। तत्र यागेषु ऋत्विग्भ्योदेयत्वेनविहितं `वडबादक्षिणा’ इत्यदिकं वैदिकम्। बन्धुमित्रादिभ्यः प्रीत्यादीयमानं लौकिकम्। `न केसरिणो ददाति’ इति सामान्य निषेधात् उभयविधेऽपि दाने प्रायश्चित्तरूपा इयमिष्टिरिति पूर्वपक्षः। वाक्यशेषे `वरुणोवा एतं गृह्णाति योऽश्वं प्रतिगृह्णाति’ इति दातुः वरुण नामक जलोदरव्याधिप्राप्तिरूपस्य अनर्थस्योक्तत्वात्, तस्य च लौकिके अप्रसिद्धत्वात्, वैदिके दान एवेष्टिरिति सिद्धान्तः॥
मूलम्ः-
यथा `यावतोऽश्वान् प्रतिगृह्णीयात्तावतो वारुणां श्चतुष्कपालान्निर्वषे’दिति प्रतिग्रहीतुरिष्टिः प्रतीयते। अथापि `प्रजापति र्वरुणायाश्वमनयत् सस्वां देवतामार्छत् सपर्यदीर्यत स एतं वारुणं चतुष्कपालमपश्यत् तं निरवपत् ततोवै स वरुणपाशादमुच्यत’ इत्युपक्रमगतार्थवादसामर्थ्यात् दातुरिष्टिं प्रापयन्, `प्रतिगृह्णीया’दित्यत्र प्रतिग्राहयेदिति णिच् श्रुतिमुत्थापयति।
व्याख्याः-
सिद्धे वैदिक एवाश्वदाने इयमिष्टिरित्यस्मिन्नर्थे, कस्येचमिष्टिरित्यधुना विचार्यते। संक्षेपतो विषयवाक्यस्यायमर्थः- अनयत्= दत्तवान्। सः= प्रजापतिः, स्वां देवतां= संप्रदानभूतां वरुणदेवतां, आर्छत्= जलोदरव्याधिरूपेण प्राप्तवान्। वारुणं= वरुणदेवता कं, चतुष्कपालं= चतुर्षुकपालेषु संस्कृतं पुरोडाशं- तादृश पुरीडाशद्रव्यकं यागमिति यावत्। निरवपत्= अन्वतिष्ठदित्यर्थः। वाक्यारम्भेस्थितं `यथा’ इति पदं `यद्यपि’ इत्यस्मिन्नर्थे द्रष्टव्यम्, निपाता नाम नेकार्थत्वात्। प्रजपतिर्वरुणायेत्यादिकमर्थवादः। तदुत्तरभावि यावतोऽश्वानिति वाक्यं विधिः। यद्यपि स्वरसतः अर्थवादवाक्याद्विधि वाक्यं प्रबलम्, `नविधौपरः शब्दार्थः’ इत्यपि शास्त्रकृतां समयः। तथाऽपि अत्र विधावेव `प्रतिगृह्णीयात्’ इत्यस्य लक्षणया `प्रतिग्राहयेत्’ इति णिजन्तार्थः स्वीकृतः सिद्धान्ते। तत्र कारणं- असञ्जात विरोधित्वमेव। स च न्यायः, तृतीय- तृतीय-प्रथमाधिकरणे (3-3-1) प्रदर्शितं। तत्र तावत् प्रकृतौ ऋगादिशब्दे लक्षणास्वीकृता। अत्र तु लिङ्प्रत्यये- इति विशेषः। किञ्च- ऋगादिशब्दानां “ऋग्भिः पूर्वाह्णेदिविदेव ईयते, यजुर्वेदेतिष्ठतिमध्ये अह्नः, सामवेदेनास्तमये महीते” इत्यादौ वेदपरतया बहुशः प्रयोगोदृष्टः। गृह्णातिस्तु दानार्थको न क्वचिद्दृष्ट इति विशेषशङ्का समाधानार्थतया “वेदो वा प्रायदर्शूनात् (3-3-1)” इत्यधिकरणेनास्य न पौनरुक्त्यमिति केचिदभिज्ञा आहुः॥
मूलम्ः-
वारुणेष्टिर्वैदिके एवाश्वदाने, न तु लौकिके।
व्याख्याः-
“यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणान् चतुष्कपालान्निपेत्” इति विहिता वारुणेष्टिः अश्वदातुरेव न प्रतिग्रहीतुरिति वक्ष्यते समनन्तरमेव इह तु तदेतन् दानं वैदिकं, लौकिकमाहोस्वित् उभयविधामिति सन्देहः। तत्र यागेषु ऋत्विग्भ्योदेयत्वेन विहितं `वडबादक्षिणा’ इत्यदिकं वैदिकम्। बन्धुमित्रादिभ्यः प्रीत्यादीयमानं लौकिकम्। `न केसरिणो ददाति’ इति सामान्य निषेधात् उभयविधेऽपि दाने प्रायश्चित्तरूपा इयमिष्टिरिति पूर्वपक्षः। वाक्यशेषे `वरुणो वा एतं गृह्णाति योऽश्वंप्रतिगृह्णाति’ इति दातुः वरुण नामक जलोदरव्याधिप्राप्तिरूपस्य अनर्थस्योक्तत्वात्, तस्य च लौकिके अप्रसिद्धत्वात्, वैदिके दान एवेष्टिरिति सिद्धान्तः।
मूलम्ः-
दर्शपूर्णमासयोराग्नेयोऽष्टा कपालो भवति। तथा उपस्तृणाति, अभिघारयति, द्विर्ह विषोऽवद्यति, चतुरवत्तं जुहोति इत्यत्र कृत्स्नस्य पुरोडाशस्य यागीयद्रव्यत्वेऽपि प्रक्षेपोद्व्यवदानमात्रस्यैव कर्तव्य इति भाष्ये। द्व्यवदानमेव यागीयं द्रव्यमिति वार्तिके। एवं च द्व्य वत्तनाशेषु नरायतनादवदानं श्रूयमाणमुपपद्यते। अन्यथा तदनर्थकं स्यात्। पुनः कृत्स्नस्योत्पत्तिश्चस्यात्।
व्याख्याः-
दर्शपूर्णमासयोरिति। `यदाग्नेय’ इति वाक्ये यागसाधनतया अष्टा कपालपुरोडाशस्य विहितत्वेऽपि न कृत्स्नस्य पुरोडाशस्य होमः कर्तव्यः, अपि तु चतुरक्तस्यैव। तावत एव उपस्तरणादि वाक्यैः विहितत्वात्- इति भाष्यकारोमन्यते। उपस्तरणं नाम- होमसाधनभूतायां स्रुचिहविरवदानात् पूर्वमाज्यलेश प्रक्षेपः। हविरवदानानन्तरं तदुपरि आज्यस्य क्षारणमभिघारणम्। अवदानं नाम- समुदायरूपेण वर्तमानात् हविषः अङ्गुष्ठपर्वमात्रादि परिमाणस्य अंशस्य पृथक्कृत्य ग्रहणम्। आदौ उपस्तरणं, मध्ये द्विरवदानं, अन्ते चाभिघारणमित्येतदाहत्यं `चतुरक्त’मित्युच्यते। तदेतत् चतुरवत्तं द्रव्यं होत्रावषट्कारे कृते, यजमानेन देवतोद्देशेनत्यक्त, मध्वर्युराहवनीये प्रक्षिपति। एवं स्थिते- `द्विर्हविषोऽवद्यति’ इति श्रुतस्य उपस्तरणाभिघारणाभ्यां चतुरवत्तीकृतस्यैव पुरोडाशांशस्य यागसाधनत्वं होमश्च। उत्पत्ति वाक्यावगतः द्रव्यदेवतासम्बन्धः अंशद्वारेणाप्युपपद्यते- इति वार्तिककारस्याभिप्रायः। तमिमं विपक्षे बाधप्रदर्शनपूर्वकमुपपादयति- एवं चेत्यादिना। पुनः पुरोडाश निष्पादन प्रयासः, प्रयोगविक्षेप इत्यादि बाधकम्।
मूलम्ः-
हुतेषु द्व्यवदानेषु शेषाणां प्रतिपत्त्यपेक्षत्वात् सर्वेभ्यो हविर्भ्यः स्विष्टकृदादीनिस्युः शेषकार्याणि। आग्नेयं चतुर्धाकृत्वा इदं ब्रह्मण इदं होतुरिदमध्वर्योरिदमग्नीध इति निर्देशेन, ऋत्विजा मानत्यर्थः परिक्रयो न कर्तुं शक्यते, सकलस्य हविषो देवतायै प्रत्तत्वात्, तत्र यजमानस्य स्वाम्याभावेन ततः परिक्रया योगात्। शेषस्य तु प्रतिपत्त्यपेक्षत्वात् भक्षणार्थं एवायं निर्देशः॥
व्याख्याः-
पुरोडाशैकदेशेषु द्व्यवदानेषु हुतेषु अवशिष्टस्य पुरोडांशस्य क्वविनियोग इत्याकांक्षायामाह- हुतेष्विति। प्रतिपत्त्यपेक्षत्वात्- विहितदेशप्रक्षेपा पेक्षत्वादित्यर्थः। उपयुक्तस्य आकीर्णकरस्य विहितदेशे प्रक्षेपः प्रतिपत्तिरित्युच्यते। प्रकृते द्विप्रकारां प्रतिपत्तिं अभ्युपेत्य तत्राद्यां दर्शयति- सर्वेभ्यो हविर्भ्य इति। हुतावशिष्टेभ्यः सर्वेभ्यो हविर्भ्यः किञ्चित् किञ्चिदादाय स्विष्टकृद्गुणकमग्निमुद्दिश्य जुहुयात्। “स्विष्टं कुर्वन् स्विष्टकृत्” इत्युक्तत्वात्। अनुष्ठिते यागेन्यूनातिरिक्तादिकं सर्वं समीकृत्य सुष्ठु इष्टं यथा भवति तथा करोतीति अयमग्निः स्विष्टकृदुच्यते। द्वितीयं प्रतिपत्तिं दर्शयति- आग्नेयं चतुर्थाकृत्वेति। यदेतत् पुरोडाशस्य चतुर्धाकरणपूर्वकं ब्रह्मादिभ्यः ऋत्विग्भ्योदानं, ततेषां वशीकरणाय परिक्रयरूपमिति केचिन्मन्यन्ते। तन्मत निराकरणपूर्वकं प्रतिपत्तिरूपत्वमुपपादयति- ऋत्विजामानत्यर्थमित्यादिना। तत्र हेतुमाह- सकलस्य हविषो देवतायै प्रत्तत्वादिति। प्रत्तत्वात्- दत्तत्वादित्यर्थः। दानं हि स्वस्वत्वनिवृत्तिपूर्वकं भवति। नह्येस्मैदत्तं पुनरन्यस्मैदातुं शक्यते; स्वत्वाभावात्, दत्तापहार प्रसङ्गाच्च। अतो न परिक्रयार्थं दानं भ्रक्षणरूपप्रतिपत्त्यर्थमेव।

  • इति तृतीयाध्यायस्य- चतुर्थः पादः। -

  • तृतीयाध्याये- पञ्चमः पादः ।-

मूलम्ः-
उपांशुयाजद्रव्याद्ध्रौवाज्यादपि स्विष्टकृदादीनि प्रतिपत्तिकर्माणि कर्तव्यानीत्येतत्- भाव्युपस्तरणाद्युपयोगिनोऽकृतार्थस्य ध्रौवस्य प्रतिपत्त्यनपेक्षत्वात्, सर्वान्ते तच्छेषेण समिष्टयजुर्होमः क्रियत इति न ततः शेषकार्याणां प्राप्तिः।
प्रकृतिहोमार्थं जुह्वभिक्रमणमस्ति, साकं प्रस्थायी ये तु सहकुम्भीभिरभिक्रामतीति जुहूमपहाय कुम्भीरेव होमकार्ये निवेशये दित्यवगम्यते। ततश्च तत्रापि शेषाभावात् न शेषकार्यप्राप्तिः।
पूर्वपादान्ते प्रस्तुतस्य प्रतिपत्तिकर्मणः अधुना क्वचिदपवादो विधीयते। दर्शपूर्णमासयोः `उपांशु याजमन्तरा यजति’- इति वचनेन आग्नेयाग्नीषोमीय पुरोडाशयागयोर्मध्ये उपांशु याजो नाम यागो विहितः। तत्र प्रजापत्यादयस्तिस्रो देवताः विकल्पिताः। द्रव्यं तु ध्रुवास्थमाज्यम्। तेन द्रव्येण उपांशुयाजे अनुष्ठिते सति, अवशिष्टस्य ध्रौवाज्यस्यापि पुरोडाशादिवत् प्रतिपत्तिः कर्तव्येति पूर्वपक्षिमतं संगृह्य निराकरोति- भाव्युपस्तरणादीति। अत्र युग `इत्येतत्’ इत्यनन्तरं स्पष्टार्थ, `न युज्यते’ इति योजनीयम्। गये- उपयुक्तस्य आकीर्णं करस्य द्रव्यस्य खलु विहितदेशप्रक्षेपरूपाप्रतिपत्तिर्भवितुमर्हति। न हि ध्रुवास्थमाज्यं केवलमुपयुक्तमेव, किन्तु भाव्युपस्तरणादिषु उपयोक्ष्यमाणमपि भवति। किञ्च प्रयोगसमाप्तौ समिष्ट यजुर्होमोऽपि तेनैवाज्येनकरिष्यते। अतः असमाप्तकार्यं तत् प्रतिपत्तिं नापेक्षते। सम्यग्यजनं समिष्टम्, समिष्टर्थानि यजूंषि समिष्ट यजूंणि, तान्युच्चर्यकर्तव्यो होमः- समिष्ट यजुर्होमः। अनेन च यज्ञवैकल्यं सर्वविधमपि परिह्रियते॥
असमाप्तकार्यत्वात् प्रतिपत्त्य संभवमुपपाद्य, अधुना शेषस्यैवा भावात् कुत्रचित् प्रतिपत्त्यभावमुपपादयति- प्रकृतिहोमार्थमिति।
मूलम्ः-
प्रकृतौ दर्शयागे सान्नाय्यह्वेमार्थमित्यर्थः। जुह्वभिक्रमणं= जुह्वासह आहवनीयं प्रतिगमनम्। दर्शपूर्णमासीय सान्नाय्ययागस्यैवगुण विकारः कश्चन यागः `साकं प्रस्थायीय’ इत्युच्यते। प्रकृतौ तावत् दधिपयोरूपं सान्नाय्यं जुह्वामवदाय तया सह आहवनीयं गत्वा होमः क्रियते। साकं प्रस्थायीये तु दधिपूर्णाकुंभीद्वयी, पयः पूर्णाकुंभीद्वयी चेति चतसृभिः कुंभीभिः निःशेषं पयः दधि च आहवनीये हूयते। साकं= सह कुंभी चतुष्टयेन प्रस्थायः= प्रस्थानं यस्मिन् यागे सोऽयं साकं प्रस्थायीयः। तथा च अग्निहोत्रे दध्नेन्द्रिय कामस्य जुहुयात्’ इतिवत् `साकं प्रस्थायीयेन यजेत पशुकामः’ इत्ययमपि फलायगुणविधिः। तत्र साकं प्रस्थाय शब्दो गुणसमर्पकः, न तु उद्भिदादिवत् कर्मनामधेयमिति। कुम्भीभिरेव कृत्स्नस्य द्रव्यस्य हुतत्वेन शेषस्यैवाभावान्न शेषकार्यमिति सिद्धम्।
अत्र सोमभक्षो बहुप्रकारो विचारितः। `यदि राजन्यं वैश्यं वा याजयेत्सयदि सोमं बिभक्षयिषेन्न्यग्रोधस्तिभिनीराहृत्य ताः सम्मिष्य दधन्युन्मृज्य तमस्मै भक्षं प्रयच्छेन्नसोम’मित्यत्र यद्यपि स्तिभिनी चमसस्य उपक्रमोपसंहारयो र्भक्षमात्रे सम्बन्धोऽस्ति, तथापि सोमभक्षस्थाने निवेश्यमानोऽयं तद्वदेव यागीयद्रव्य संस्काररूपो भविष्यतीति भक्षसम्बन्ध कथन व्याजेन तद्द्वारावगतयागसाधनत्वेनायं फल चमसोविधीयते, तद्विधौ च भक्षः प्राप्त एवानूद्यते। एवं `सोंमाभावे पूतीका न भिषुणुया’दित्यभिषवयुक्त पूतीकानामपि यागसाधनत्वं ज्ञेयम्॥
व्याख्याः-
यद्यपि प्राचां ग्रन्थेषु इत ऊर्ध्वं षोडशसु अधिकरणेषु सोमभक्षण विषयकाः विचाराः एव नानाविधाः वर्णितास्सन्ति ग्रन्थविस्तरभिया तानुपेक्ष्यफलचमसविषयकं विचारमारभते- अत्र सोमभक्ष इति। न्यग्रोधस्तिभिन्यः= वटवृक्षमुकुला नियथोक्तविधया सम्पादितश्चमसः स्तिभिनी चमसः। स एव फलचमस इत्यपि व्यवह्रियते। अस्मिन् वाक्ये आद्यन्तयोः भक्षणस्यैव श्रूयमाणत्वात् तावन्मात्रमेव कर्तव्यं, न तु होमादिकमिति पूर्वपक्षी मन्यते। परन्तु भक्षणस्य हुतशेषद्रव्यसंस्कारत्वेनैव दृष्टत्वात् फलचमसस्यापि होमादूर्ध्वमेव भक्षणं भवितुमर्हति। श्रूयते च `यदान्यान् चमसान् जुह्वति अथैतस्य दर्भतरुणकेनोपहत्यजुहोति’ इति। दर्भ तरुणकः= दर्भगर्भमध्यस्थो नूतनो दर्भः।(शंभुभट्टः)। अत्र सोमस्येव स्तिभिमीनां पेषण- होम- भक्षणादि संस्कारसंबन्धावगमात् राजन्यस्य, वैश्यस्य वा यजमानत्वे निमित्ते, सोमस्थाने अयं फलचमसो विधीयते इति वक्तव्यात्। हुत शेषस्य भक्षणं तु चमसान्तरवत् प्राप्तमेवानूद्यते। इममेवन्यायं अन्यत्राप्यतिदिशति- एवमिति। सोमाभावे तत्स्थाने पूतीकानां अभिषवं ब्रुवता अनेन वाक्येन तेषां यागसाधनत्वमुपलक्ष्यते अभिषवस्य यागीय द्रव्यसंस्कारत्वेन सोमेदृष्टत्वात्, निर्वपत्यादिवत् इति। तथा हि-
“पूतीकाः यागसाधनं, अभिषव संस्कार्यत्वात्, सोमवत्” इति अनुमानम्।

  • इति तृतीयध्याये पञ्चमः पादः। -

  • तृतीयाध्याये- षष्ठः पादः। -

मूलम्ः-
`यस्य पर्णमयी जुहूर्भवति’ इत्यनारभ्याधीतं पर्णतादिकं प्रकृतिद्वारैव विकृतिं प्रतिपद्यते, जुह्वादिवत्। न तु विकृतावपि तद्विधानं न्याय्यम्, अतिदेशे न जुहूद्वैरैतत्प्राप्तौ सत्यां पुनर्विधाना योगात्।
व्याख्याः-
`यस्य पर्णमयी जुहूर्भवतीति’ वाक्यं अनारभ्याधीतं= कंचित् क्रतुं आरभ्य तत्प्रकरणे पठितं न भवति, किन्तु स्वातन्त्र्येण क्वचिदाम्नातं, अनेन च समभिव्याहाररूपेण वाक्येन पर्णता जुह्वङ्गत्वेन विधीयते। जुह्वाः होमसाधनत्वात् प्रकृतौ विकृतावपि तदपेक्षावर्तते। तथा च तदुद्देश्येन विधीयमाना इयं पर्णता प्रकृति विकृत्योरुभयोर्गच्छति, अथवा प्रकृतावेव इति संशये, प्रकृतिविकृत्योरुभयोरपि जुहूसापेक्षत्वात्, तत्प्रकृति द्रव्यतया विधीयमानापर्णता उभयत्र गन्तुमर्हतीति पूर्वपक्षं मनसि निधाय सिद्धान्तमुखेनैव अधिकरणार्थं संगृह्णाति- यस्य पर्णमयीति। सिद्धान्तिनोऽयमाशयः- प्रकृतिमेव गच्छति, न विकृतिम्, प्रथमतः प्रकृतिं प्राप्तायां पर्णतायां, अतिदेशेन विकृतावपि प्राप्तिसंभवात्। उभयगामित्वाङ्गीकारे द्विरुक्तत्वदोषापातादिति।
मूलम्ः-
`सप्तदशसामिधेनीरनुन्रूया’दित्यनारभ्याधीतं सा प्रदश्यं, पाञ्चदश्यावरुद्धायां प्रकृतौ निवेशमलभमानं विकृतिमेव। श्रयते। तत्रापि श्रुतसाप्तद(श्यं)श्यां मित्रविन्दादिकामेवेति वक्ष्यते।
व्याख्याः-
पूर्वोक्तस्यापवादमाह- यद्यपि `सप्तदशसामिधेनीरनुब्रूयात्’ इति वाक्यं अनारभ्याधीतमेव `यस्य पर्णमयी’तिवत्। अनेन च सामिधेनो ऋगुद्देशेन सप्तदशत्व संख्याविधीयते। सेऽयं संख्या अनारभ्याधीतत्वात् पूर्वोक्त पर्णतान्यायेन प्रकृतिमेव गच्छतीति मन्यमानस्य इदमुत्तरम्- सप्तदशेत्यादि। तत्र कारणमाह- पाञ्चदश्यावरुद्धायामिति। प्रकृतौ दर्शपूर्णमास प्रकरणे `पञ्चदशसामिधेनीरन्वाह’ इति वचनेन सामिधेन्यङ्गत्वे न पञ्चदशत्वं विहितम्। तेन तदाकांक्षायाः शान्तत्वत् पुनरनेनानारभ्याधीतेन वाक्येन संख्यान्तरं सप्तदशत्वं, न शक्यं निवेशयितुम्, अनपेक्षितत्वादेव। अतोऽगत्याविकृतिष्वेव गच्छति। तत्रापि न सर्वासु, तासां चोदकप्राप्तपाञ्चदश्या वरुद्धत्वेन तद्बाधप्रसङ्गात्। किन्तु श्रुतसाप्तदश्यासु मित्रविन्दादिष्वेवेति उपरिष्टादुपपादयिष्यते।
मूलम्ः-
सामान्यतः प्रथमं प्राप्तं, ब्राह्मणादिषु सावकाशं च नित्यं पाञ्चदश्यं, `साप्तदश्यं वैश्यस्य’ इति वैश्ये निमित्ते, नैमित्तिके न विशेषेण साप्तदश्येन पाश्चात्यतया पूर्वबाधं विना जात्वात्मा न मलभमानेन वैश्यमात्रविषयतया निरवकाशेन बाध्यते। एतैरेव हेतुभिः काम्य `मेकविंशतिं प्रजाकाम’ इत्येकविंशत्याद्यनुवचनं नित्यस्य पाञ्चदश्यस्य बाधकं तथाऽपुरुषार्थत्वान्नैमित्ति कस्यापि साप्तदश्यस्य। एतेन चमसेनापः प्रणदेद्गोदोहनेन पशुकामस्येति गोदोहनेन चमसबाधो व्याख्यातः।
व्याख्याः-
अनारभ्याधीतं साप्तदश्यं न प्रकृतौनिविशते, प्राकरणिक पाञ्चदश्यावरोधात्, किन्तु विकृतिषु। तत्रापि न सर्वासु, अपि तु प्रत्यक्षश्रुतसाप्तदश्यासु- इत्युक्तम्। अधुना साप्तदश्य विषयकमेव कंचिद्विशेषं वक्तुमारभते- सामान्यत इति। सामिधेन्यनुवचनमनुक्रम्यैव श्रूयमाणेन `साप्तदश्यं वैश्यस्य’ इति वचनेन वैश्यस्वामिकत्वे निमित्ते सप्तदशसंख्याकानां सामिधेनीनामनुवचनं विधीयते। अर्थात् सामिधेन्यङ्गत्वेन साप्तदश्यं विधीयते। एतच्च प्राकरणिकस्य नित्यस्य बाधकं भवत्येव। पाञ्चदश्यस्य बाध्यत्वे इमानि चत्वारिकारणानि- सामान्यरूपत्वं, प्रथमतः प्राप्तत्वं, सावकाशत्वं, नित्यत्वं चेति। साप्तदश्यस्य बाधकत्वे च इमानि चत्वारि कारणानि- विशेषरूपत्वं, पश्चात् प्राप्तत्वं, निरवकाशत्वं, नैमित्तिकत्वं चेति। तथा हि- तत्र पाञ्चदश्यवाक्ये साभिधेन्यङ्गत्वेन पाञ्चदश्यमात्रं विधीयते, न कोऽपि विशेष इति स्पष्टमेव तस्य सामान्यरूपत्वम्। तथा प्रथम पठितत्वात् प्राभम्यमपि स्पष्टमेव। विशेषवचनेन वैश्यविषयकत्व पर्युदासेऽपि, ब्राह्यणक्षत्रिय विषयकत्व संभवात् सावकाशत्वं सुगमम्। फलनिमित्तादीनामश्रवणात् नित्यत्वमपि सुज्ञेयमेवा साप्तदश्य वाक्येतु- विधीयमानं साप्तदश्यं, वैश्यस्वामिकत्वं निमित्तीकृत्य विधीयत इति- विशेषरूपत्वम्। पाञ्चदश्यवाक्यानन्तरं पठितेन `साप्तदश्यं वैश्यस्य’ इति वाक्येन साप्तदश्यविधानात् तस्य पश्चात् प्राप्तत्वम्। वैश्यमात्र विषयकत्वेन, ब्राह्मणादीना मवकाशाभावात् निरवकाशत्वम्। वैश्यस्वामिकत्वरूप अनियतनिमित्तप्रयोज्यत्वात् नैमित्तिकत्वं चेति स्पष्टमेव। एवं च पूर्वप्राप्तस्य पाञ्चदश्यस्य बाधनमन्तरेण स्वरूपमेवालभमानं साप्तदश्यं, तदवश्यं बाधत इत्यभ्युपेयम्। `आनर्थक्यप्रतिहतानां विपरीतं बलाबल’मित्युक्तत्वात्।
यथा नैमित्तिकं नित्यस्य बाधकं, तद्वत् काम्यमपि नित्यस्य बाधकमिति सोदाहरणं दर्शयति- एतैरेव हेतुभिरिति। सामिधेनीप्रकरण एव श्रूयते- `एकविंशतिमनुब्रूयात्प्रजाकामस्य’ इति वाक्यम्। एतच्च `दध्नेन्द्रियकामस्य जुहुयात्’ इतिवत् प्रजारूप फलाय प्रकृतसामिधेनी ऋगाश्रितं एकविंशति संख्यारूपं गुणं विधत्ते। अस्य काम्यत्वादेवनित्यपाञ्चदश्यबाधकत्वं ज्ञेयम्। नात्र नूतनानां हेतूना मन्वेषणापेक्षा, पूर्वोक्ता एव सामान्यविशेषरूपत्व- सावकाशनिरवकाशत्वादयोऽत्रापि योजनीया इत्याह- एतैरेव हेतुभिरिति। अनेनैव हेतुना काम्यमेकविँशत्यादिकं नैमित्तिकस्य साप्तदश्यादेरपि बाधकमित्येतत्समर्थयति- तथा अपुरुषार्थत्वादिति। यद्यपि नित्यनैमित्तिकयोरपि प्रत्यवाय परिहारार्थं तया पुरुषार्थत्वं समस्त्येव, तथापि प्रत्यासन्नफले काम्ये पुरुषाणां स्वरसतः प्रवृत्तैः प्रायशोदर्शनात् तत्र पुरुषार्थत्वप्रसिद्धिः।
`काम्यं नित्यस्य बाधक’मित्यस्मिन्नेवार्थे भाष्यकारीय मुदाहरणान्तरं प्रदर्श्य, तस्य पूर्वोक्त विचारेणैवगतार्थत्वं ज्ञापयति- एतेन इत्यारभ्य व्याख्यात इत्यन्तेन।
मूलम्ः-
आधानं पवमानेष्ट्यश्चमिथः सन्निहिताः समाम्नाताः। तत्र फलवदग्निहोत्राद्यर्थत्वादग्नयः फलवन्तः, तदर्थमाधानम्। इष्टयस्तु अग्न्यङ्गमाधानाङ्गं वेत्यन्यदेतत्। ननु जुहूद्वारा पर्णतेव अग्निद्वारा आधानमपि प्रकृत्यर्थमेवेति चेन्न; दृष्टान्तवैषम्यात्। लोकप्रसिद्धजुहूस्वरूपस्यान्यतोऽपि संभवेन पर्णतायाः तत्स्वरूपे आनर्थक्यात् अगत्याप्रकृत्यङ्गत्वम्। आहवनीयादेस्तु अदृष्टरूपत्वेनाधानस्य तत्स्वरूप एवार्थवत्त्वादर्थमेवाधानमित्यर्थः।
व्याख्याः-
मिथः सन्निहिताः समाम्नाताः= अव्यवधानेन (एकस्मिन् प्रकरणे) पठिता इत्यर्थः। अग्निहोत्रं जुहुयात् स्वर्गकामः, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत इत्यादि वचनानुरोधेन फलवन्ति अग्निहोत्रदर्शपूर्णमासादीनि कर्माणि। तानि च आहवनीयाद्यग्निसाध्यानीतिकृत्वा फलवदग्निहोत्रदर्शपूर्णमासादि साधनत्वात- साध्यसाधनयोरभेदोपचारेण- अह्वनीयाद्यग्निसाध्यानीतिकृत्वा फलवदग्नयोऽपि फलवन्तो भवन्ति। तत्साधनमाधानम्। अत एव याज्ञिकाः आधानसङ्कल्पे `अग्नीनाधास्ये- सर्वक्रत्वर्थम्, यैरस्म्यधिकृतोयांश्च शक्ष्यामि प्रयोक्तम्’ इति यजमानेन वाचयन्ति। अन्यदेतत्= अप्रकृतं-विषयान्तरमितिभावः। पूर्वत्र अनारभ्यपठितेन `यस्य पर्णमयी जुहूरितिवाक्येन विधीयमानापर्णता प्रकृतावेव गच्छति, न विकृतौ, अन्यथाद्विरुक्तत्वप्रसङ्गादित्युक्तम्। तं न्यायमाधानेऽपि अति दिदिक्षुःशङ्कते- ननु जुहूद्वारापर्णतेवेति। समाधत्ते- दृष्टान्तवैषम्यादिति। दृष्टान्ते जुह्वाः स्वरूपं दर्व्यादिवत् लोकसिद्धमेव, निम्बजम्बीरादि नायेन केनापि दारुणा निष्पादयितुं शक्यते। पर्णताविधिस्तु नियमार्थः। दार्ष्टान्तिके तु आहवनीयाद्यग्नीनां स्वरूपं न लोकप्रसिद्धम्, अपि तु शास्त्रैकसमधिगम्यम्। लौकिक दाहपाकाद्युपयुक्तत्व दृष्ट्या तुल्यरूपत्वेऽपि, तस्य अविवाक्षितत्वात्, शास्त्रीय होमाधारत्वापूर्वजनकत्वादिरूपस्य अलौकिकाकारस्य विवक्षितत्वात्, तस्य च वैध समन्त्रकाधानमन्तरासिद्धौ प्रमाणाभावाच्च। अतश्च अदृष्टात्मका हवनीयाद्यग्निसिद्धर्थमाधानं न प्रकृतिमात्रार्थं, अग्निद्वारा सर्वक्रत्वर्थंमिति।
मूलम्ः-
नैमित्तिकं क्रत्वर्थस्तिभिन्यादिकं, ननित्येन सोमेन समानविधानं भवत्यनित्यत्वात्। तेन तत्र सोम इव क्रयादेरप्राप्तिः। प्रतिनिधौ तु शिष्टव्रीह्यादि द्रव्यसादृश्यादुपादीयमाने नीवारादौ मुख्येन समानवि(बि)धानं भवत्येव, मुख्यद्रव्यावयवानां बहूनां तत्र दर्शनात्। एवं विसदृशेऽपि `सोभाभवेपूतीकानभिषुणुयादिति वाचनिके प्रतिनिधावपि वचन बलादेव सादृश्यं मुख्येन सह समानविधानं च ज्ञेयम्।’
व्याख्याः-
`यदिराजन्यं वैश्यं वा याजये’दित्यत्र राजन्यवैश्यकर्तृके सोमयागे न्यग्रोधस्तिभिनी निष्पादितं फल चमसं भक्षणाय यजमानार्थं प्रयच्छेन्नसोममित्युक्तम्। तत्र यद्यपि सोमो नित्यतया प्राप्तः, फल चमसस्तु नैमित्तिकः, तथाऽपि सोमस्थानापन्नत्वात् सोमधर्माः प्राप्नुवन्ति, नवेति जिज्ञासा यामाह- नैमित्तिकमिति। समान विधानं= समान धर्मकमित्यर्थः। क्रयादेरित्यादि शब्देन अभिषव ग्रहणासादनादयो गृह्यन्ते। नित्यतया प्राप्तं संस्कार्यं सोममुपलभ्यचरितार्थाः क्रयाभिषवादयः संस्काराः, न पुनरनित्यास्तिभिनी रपेक्षन्ते- इत्ययमभिप्रायः `अनित्यत्वात्’ इत्यनेन सूचितः।
नैमित्तिकं समानविधानं नार्हतीत्युक्त्वा प्रतिनिधिविषये तु समानविधानमङ्गीकरोति- प्रतिनिधौत्विति। तथा हि- `व्रीहिभिर्यजेत’ इति वाक्येन व्रीह्योयागसाधनत्वेन विधीयन्ते। कदाचित् व्रीहीणामलाभे तत्प्रतिनिधितया नीवाराः गृह्यन्ते। नीवारो नाम आरण्यको धान्यविशेषः। प्रतिनिधिना च प्रधानसदृशेन भवितव्यम्। सादृश्यं च- तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वमिति प्रसिद्धम् प्रकृते च व्रीह्यवयवानां बहूनां नीवारेषूपलभ्यमानत्वात् तेषां प्रतिनिधित्वं युक्तम्। अत एव व्रीहिधर्माः प्रोक्षणावघातादयः नीवारेष्वपि प्राप्नुवन्ति। ननु प्रतिनिधित्वं सादृश्यमूलकमित्युक्तम्। तच्च सादृश्यं सुसदृशं- मन्दसदृशं- विसदृशमित्येवमनेकविधं भवति। सुसदृशस्य नीवारादेः अस्तुनाम व्रीहिप्रतिनिधित्वम्। विसदृशानां पूतीकानां कथं सोमप्रतिनिधित्वमित्याशङ्कायामाह- एवं विसदृशेऽपीति। सत्यं पूतीकेषु सोमसादृश्यं मृग्यमेव, तथाऽपि `सोमाभावे पूतिकानाभिषुणुयात्’ इति वचनादेव तेषां सोमप्रतिनिधित्वमभ्युपेयते। अतश्च तेषु सोमधर्माः क्रयाभिषवग्रहण सादनादयः कर्तव्याः। `किमिव हि वचनं न कुर्यात्? नहि वचनस्यातिभारोऽस्ति’ इति न्यायात्॥

  • इति तृतीयाध्याये षष्ठः पादः। -

  • तृतीयाध्याये- सप्तमः पादः -

मूलम्ः-
वेदिं खनतीत्यादीनां वेद्यादि धर्माणां, `वेद्यां हवींष्यासादयति’ इत्यङ्गप्रधानसाधारण हविश्शब्दात्साधारण्यं, प्रधान हविर्मात्रार्थत्वेन हविश्शब्दस्य संकोचे नियामकाभावात्।
व्याख्याः-
गार्हपत्या हवनीयमध्यगता, मन्त्रैः परिगृहीता, परिष्कृता च, भूमिः वेदिरित्युच्यते। तस्याः परिग्रहावसरे खननावोक्षणादि संस्काराः वेदिं खनति इत्यादिवाक्यैर्विधीयन्ते। `उपयुक्तमुपयोक्ष्यमाणं वा संस्कारमर्हति’ इति न्यायेन संस्कृताया वेदेः कुत्रोपयोग इति जिज्ञारायां- `वेद्यां हवींष्यासादयति’ इति वचनेन प्रकृतयागीयहविरासादनाधारतया उपयोग इति ज्ञायते। तत्र संशयः- किं आग्नेयपुरोडाशादीनि प्रधान हवींष्येववेद्यामासादनीयानि, उत प्रयाजाद्यङ्गोपयुक्तानि आज्यादीन्यपीति। पूर्वपक्षस्तु- आग्नेयादि प्रधान हविषामेवेदं प्रकरणं, प्रकरणबलात् तेषामेव वेद्यामासादनं, न प्रयाजाद्यङ्ग हविषामिति। तन्न, प्रकरणात् वाक्यं बलीयः, वाक्ये च उभयसाधारणं `हवींषि’ इति पदमेव श्रूयते, न तु प्रधानत्वेन अङ्गत्वेन वा विशेषितम्। तथा च तस्य प्रधान हविर्मात्रपरतया सङ्कोचे नियामक प्रमाणाभावात् सर्वहविरासादनाङ्गत्वमेववेद्या अभ्युपगन्तव्यं, तादर्थ्यमेव च संस्काराणामिति सिद्धान्ते, वेद्यादि धर्माणामित्यत्र आदिपदेन `बर्हिषि हवींष्यासादयति’ इति वाक्यविहित बर्हिर्धर्माः लवनास्तरणादयोग्राह्याः।
मूलम्ः-
केशश्मश्रुवापादयस्तु नाङ्गप्रधानार्थाः, क्रियाङ्गभूतकर्त्रंशानन्तः पातित्वात्। असंस्कृतस्याऽपि कर्तृत्वसंभवाच्चाभोक्तृत्वं तु क्रियां प्रति प्रधानभूत, मदृष्टं च। अतस्तद् गुणभूताः संस्काराः प्रधानार्थाः, न तु गुणार्थाः `गुणानां च परार्थत्वादसंबन्धः समत्वात् स्यात्’ इति न्यायेन (तेषां गुणानां विशेषेणापि यागाङ्गित्वायोगात्)। यजेत स्वर्गकाम इत्यात्मनेपदात्कर्तृगामित्वं क्रियाफलस्य गम्यते। कर्तृत्वं च हविस्त्याग दक्षिणादानादे रन्यत्र प्रयोजकत्वेनापि यजमानस्य संभवति, नित्यवदाम्नात परिक्रयसामर्थ्या, देकेन कृत्स्नतन्त्रानुष्ठानायोगा, दन्यैरपि कारयितव्यम्।
व्याख्याः-
वेदि खननादिवत् केशश्मश्रुवपनादि संस्काराणामपि अङ्गप्रधानार्थत्वं मन्यमानस्य भ्रान्ति निरासायाह- केशश्मश्रुवापादयस्त्विति। न गुणार्थाः= सोमाङ्गभूत अग्नीषोमीयाद्यर्थाः नभवन्तीत्यर्थः। तथा हि- कर्मण्यधिकृतस्य यजमानस्य रूपद्वयं भवति- कर्मकर्तृत्वं, तत्फलभोक्तृत्वं च। तत्र वपनादयः संस्काराः किं कर्तृत्वे उपकुर्वन्ति, उतभोक्तृत्वे- इति विचार्यमाणे कर्तृत्वं तावत् नैतान् संस्कारानपेक्षते, यतो विनापितैः कर्मकुर्वाणानृत्विजः, कृषीवलादींश्च पश्यामः। तथा च कर्तृत्वांशे नैरर्थक्य प्रतिहताः वपनादयः संस्काराः भोक्तृत्वांशमाश्रयन्ते। स्वर्गादिफलभोगस्तु अदृष्टरूपः वपनादयश्च शास्त्रीयाः संस्काराः यजमाननिष्ठास्सन्तः अदृष्टद्वारैव फलोत्पत्तानुपकुर्वन्ति। `ज्योतिष्टोमेन स्वर्गकामो यजेत’ इति श्रवणात् साक्षात्फलसाधनं सोमयाग एव प्रधानं, नाग्नीषोमीयादयः, तेषां प्रधानस्य फलोत्पादनयोग्यतासंपादने विनियुक्तत्वात्। अतः प्रधानार्थत्वमेवयुक्तं केशश्मश्रुवपनादीनां, नाङ्गप्रधानोभयार्थत्वमिति। किं च- यथा अग्नीषोमीयादीनि प्रधानस्य सोमयागस्याङ्गानि, तथा केशश्मश्रुवपनादीन्यपि। अविशेषे च उभयोरङ्गत्वे सति न तयोः परस्परमङ्गाङ्गिभावोन्याय्यः, `गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्’ (3-1-12-22) इत्युक्तत्वात्।
अत्र मूलग्रन्थपाठः मुद्रणप्रमादग्रस्त इव भाति, स च इत्थं भवितुमर्हति-
“तेषां गुणानां अविशेषेणापि या गङ्गत्वायोगात्” इति। केशश्मश्रुवापादीनां, अग्नीषोमीयादीनां च सोमयागाङ्गत्वे, अविशेषेणापि= विशेषाभावेन- समानत्वेन- हेतुनापि केशश्मश्रुवापादीना मग्नीषोमीयाद्यङ्गत्वायोगात् प्रधानसोमयागार्थत्वमेव वक्तुं युक्तम्। अपि च - `यजेत’।
इत्यात्मनेपद श्रवणात् `स्वरितञितः कर्त्रभिप्राये क्रियाफले’ इतिव्याकरणस्मृत्या क्रियाफलस्य कर्तृगामित्वमवगम्यते। कर्तृत्वं च यजमानस्य देवतोद्देश्यक हविस्त्याग-ऋत्विग्दक्षिणादानादौ मुख्यमेव दृष्टम्। अन्येषु च ऋत्विक्कर्तृकपदार्थेषु साक्षात्कर्तृत्वाभावेऽपि प्रयोजकत्वेन कर्तृत्वमव्याहतम्- `तत्प्रयोजको हेतुश्च’ इति पाणिनि स्मरणात्। अत एव- एकेन यजमानेन कृत्स्नस्य यज्ञतन्त्रस्य निर्वोढुमशक्यत्वादेव ऋत्विजां वरणं, दक्षिणादानेन परिक्रयणं च नित्यवदाम्नातमुपपद्यते।
मूलम्ः-
ते च इष्टौ नामभेदा, द्वरणभेदाच्च चत्वारः- ब्रह्माहोताध्वर्युरग्नीदिति। चातुर्मास्येषु प्रतिप्रस्थाता पञ्चमः। पशौ मैत्रावरुणः षष्ठः। सोमे मुख्या श्चत्वरो ब्रह्माहोताध्वर्युरुद्गातेति। ब्राह्मणाच्छंस्याग्नीध्रः पोताचेति ब्रह्मणो द्वितीय- तृतीय- चतुर्थाः। होतुस्तु मैत्रावरुणोऽच्छावाकोग्रावस्तुच्च। अध्वर्योः प्रतिप्रस्थातानेष्टोन्नेता च। उद्गातुः प्रस्तोता प्रतिहर्तासुब्रण्याः च। सदस्यः सप्त्दशो वैकल्पिकः। तदभावे यजमानः सप्तदशः। पत्नी अष्टादशी। दशचमसाध्वर्यवः, शमिता, सोमविक्रयीचेति द्वादशतेभ्योऽन्ये। उद(प)गातारस्त्वृत्विक्ष्वेवान्तर्भूताः।
तेषां च कार्यव्यवस्था- आध्वर्यवं हौत्र मौद्गात्रमिति काण्डसमाख्यावशादेव। * (*चू. 3-8-1)
व्याख्याः-
`ते च इष्टौ’ इत्यादि- `अन्तर्भूता’ इत्येतदन्तं निगदव्याख्यातम्। अधुना समाख्यारूपेण प्रमाणेन ऋत्विजां कर्तव्यं विभजते- तेषां चेति। यौगिकशब्दरूपया आध्वर्यवमित्यादि समाख्यया तत्तत्काण्डविहितपदार्थान् प्रति अध्वर्य्वादीनां कर्तृत्वेनाङ्गत्वं सिध्यतीत्यर्थः।
मूलम्ः-
`आह्वनीये जुहोति’ इत्यादि वचनप्रापिता आहवनीयादयः- प्रकृतिविकृत्यात्मक सर्वक्रत्वर्थाः, अनारभ्याम्नतत्वेनाप्रकरणाधीनत्वात्।
व्याख्याः-
अनारभ्याधीतायाः पर्णतायाः प्रकृतावेव निवेशः, न विकृतिषु, द्विरुक्तत्वदोषापत्तेः- इति प्राङ्निर्णीतम्। तन्न्यायेन अनारभ्याधीताधानसिद्धस्याह्वनीयाद्यग्नेरपि कृतिगामित्वं युक्तमिति शङ्कायामिदमुच्यते- आह्वनीये जुहोतीति। सत्यं, पर्णतान्यायस्तु अग्निविषये न प्रवर्तते, वैषम्यात्। तथा हि- पर्णताजुहूद्देशेन विधीयते। जुहूस्तावत् प्रकृतावेव विहिता। अतस्तां दूरीकृत्य पर्णता तत्रैवगच्छति। अग्नीनां तु प्रवेशद्वारभूताः होमाः। ते च प्रकृतौ यथा उपदेशेन प्राप्नुवन्ति, तथा कतिचित् विकृतिष्वपि उपदेशेनैव प्राप्नुवन्ति। यथा- साङ्ग्रहण्यामिष्टौ `आमनमस्यामनस्य देवा इति स्त्रि आहुतीर्जुहोति’ इति विहिताः आमनहोमाः। एतेषां होमानां अप्राकृतत्वात् अतिदेशा संभवात् तदाधारभूताग्निलाभः अनारभ्याधीतवाक्ये नैव भवितुमर्हतीति पर्णतान्यायापवादेनाग्नीनां प्रकृति- विकृत्युभयगामित्वं द्रष्टव्यम्। अप्रकरणाधीनत्वात्= प्रकरणेन नियन्तुमशक्यत्वात् इत्यर्थः।

  • इति तृतीयाध्याये सप्तमः पादः। -

  • तृतीयाध्याये - अष्टमः पादः। -

मूलम्ः-
या दक्षिणाद्वादश शतदानादि, संस्कारः श्मश्रुवापादि, तपोद्यहं नाश्नीयादित्यादि, एतानि समाख्यात आध्वर्यवाण्यपि यजमानस्यैव अध्वर्य्वादि परिक्रेतृत्वात्, क्रतुयोग्यतापेक्षत्वात्, फलभागित्वाच्च। यत्र तु `य एतामिष्टकामुपदध्यात्सत्रीन् वरान् दद्यात्’ `हिरण्यमालिनः प्रचरन्ति’ `ऋत्विजः प्रचरन्ति’ इत्यादिवचनं, तत्र ऋत्विजामेव हिरण्यमालित्वादि, संस्काराणां यावत्संस्कार्यमावर्त्यत्वात् सर्वर्त्विग्विषयता।
व्याख्याः-
पूर्वस्मिन् पादे आध्वर्यवं- हौत्रं इत्यादि समाख्यावशात् तत्तत्काण्डोक्तानां पदार्थानां अध्वर्यु- होत्रादेः कर्तृत्वे नाङ्गत्वमित्युक्तम्। तदवलंब्य दक्षिणादानादि विषये उद्गच्छन्तीं शङ्कामिहापनुदति- यादक्षिणेति। अध्वर्युकाण्डे ज्योतिष्टोमप्रकरणे `गौश्चाश्वश्च’ इत्यारभ्य- तस्य द्वादशशतं दक्षिणा’ इति श्रूयते। द्वादशशतं= द्वादशोत्तरं शतमित्यर्थः। केशश्मश्रुवापादयः पूर्वमुक्ता एव। आदिशब्देन नखनिकृन्तनादिकं ग्राह्यम्। नियत संख्याकस्तननिष्पन्नगोक्षीरमात्रेण, भोजनं विनाद्व्यहंत्र्यहं अवस्थानं तपोवत् अतिक्लेशावहत्वात्तप इत्युच्यते। तदेतत्त्रितयं अध्वर्युकाण्डे पठितत्वात् अध्वर्युणा, तत्सहकारिणा ऋत्विगन्तरेण वा कर्तव्यमिति पूर्वपक्षिणो मतम्। तन्न्युक्तम्; `ऋत्विग्भ्योदक्षिणां ददाति’ इति श्रूयते। तत्र चतुर्थी श्रुत्यादक्षिणादानस्य ऋत्विक्संप्रदानकत्वावगमात् दुर्बलया समाख्यया ऋत्विक्कर्तृकत्वस्य वक्तुमशक्यत्वात्। एवं केशश्मश्रुवपनादि संस्कारोऽपि यजमानस्यैव घटते, न ऋत्विजाम्। वाक्यशेषे- `मृतावा एषात्वगमेध्या यत्केशश्मश्रु, मृतामेवत्वचममेध्यामपहत्य,यज्ञियो भूत्वा मेधमुपैति’ इति श्रूयते। यत् केशश्मश्रुस्वरूपं, तत् प्राणानधिष्ठितत्वात्, छेदनेऽपि बाधाभावाच्च मृतजन्तुचर्म सदृशं, अत एव अपवित्रत्वात् यज्ञानर्हं च। तन्निरासेन यज्ञानुष्ठानयोग्योभूत्वा यज्ञमारब्धवान् भवतीति तदर्थः। एवं च समाख्यया आध्वर्यवत्वावगमेऽपि फलिसंस्कारत्वलिङ्गात् यजमानस्यैवायं केशश्मश्रुवपनादिसंस्कारः। अत एव अनशनात्मकं तपोऽपि यजमानस्यैव भवितुमहीति, नर्त्विजाम्। स्वच्छन्दं चरतामिन्द्रियाणामौद्धत्य निवारणे न यागविषये चित्तूसमाधानसंपादनार्थमनशनादिरूपं तपः श्रुत्या विधीयते। कल्पसूत्रकाराश्चामनन्ति- `यदावैदीक्षितः कृशो भवति अयमेध्यो भवति। यदास्मिन्नन्तर्न किञ्चनभवति, अथ मेध्योभवति। यदास्यकृष्णं चक्षुषोर्नश्यति, अथ मेध्यो भवति। यदास्यत्वचास्थिसन्धीयते अथ मेध्यो भवति। पीवादीक्षते कृशो यजते। यदस्याङ्गंमीयते जुहोत्येव तदिति विज्ञायते’ इति। भाविस्वर्गादि फलप्रतिबन्धकं पापमेवं विधेनक्लेशात्मकेन तपसा विना न नश्यतीत्यवश्यमेतद्यजमानेनैवानुष्ठेयम्।
अत्र विशेषमाह- यत्रत्विति। `य एतामिष्टकामुपदध्यात् सत्रीन्वरान्दद्याउदित्यत्र `य उपदध्यात् सः दद्यात्’ इति सामानाधिककरण्यानुरोधेन इष्टकोपधान वरदानयोरेककर्तृकत्वावगमात् अध्वर्योरेव वरदानं भवितुमर्हति। हिरण्यमालिनः प्रचरन्ति इत्युक्तोमालाधारणरूपः संस्कारोऽपि ऋत्विजामेव। तत्रापि `प्रतिप्रधानं गुण आवर्तनीय’ इति न्यायेन यावन्त ऋत्विजस्ते सर्वेऽपि हिरण्यमालाधारणरूपं संस्कारमर्हन्ति। न च- समाख्यानुरोधेन अध्वर्युकाण्ड पठिताः संस्काराः अध्वर्युगणस्थैरेव, होतृकाण्ड पठिताः होतृगणस्थैरेव प्राप्तव्याः इति व्यवस्थास्यादिति- वाच्यम्, ऋत्विक् सामान्य संबन्धबोधकस्य प्रत्यक्षश्रुति वचनस्य समाख्यया संकोचा योगात्।
मूलम्ः-
`यदि कामयेतवर्षुकः पर्जन्यः स्यादिति नीयैः सदोमिनुया’दिति सदोमानादिषु गुणैरध्वर्युकाण्डस्थैरपि यष्टुरेव फलम्। वचनात्तु `आत्मने च यजमानाय च यं कामं कामयते तमागायति’ इत्यादौ वचनादृत्विजोऽपि। आयुर्दा अग्नेस्यायुर्मेदेहीति प्रत्यगाशिषो मन्त्रान् आध्वर्यवस्थानपि यजमान एव प्रयुञ्जीत, तत्फलस्य यजमानगामित्वात्, लिङ्गेन समाख्याबाधाच्च। वाजस्य मेत्यादयस्तु काण्डद्वयपाठादध्वर्युणा यजमानेन च प्रयोज्याः।
व्याख्याः-
गुणफल संबन्ध विधिवाक्येषु श्रूयमाणं फलं किमध्वर्यो, रुत यजमानस्येति विचिकित्सायामाह- यदि कामयेतेति। ज्योतिष्टोमे प्राचीन वंशशालायाः पुरस्तान् हविर्धानमण्डपस्य पश्चात्, मध्ये निर्मातव्यः सदो नामकः मण्डपविशेषः। यत्र निखातामौदुम्बरीमुपासीनाः उद्गातारः सामानिगायेयुः। तच्च सदः `पर्जन्यः वर्षण शीलो भवतु’ इति कामनायां सत्यां नीचैः= ह्रस्वोर्ध्वपरिमाणं यथा भवति तथा निर्मातव्यमित्यर्थः। सा च कामना किमध्वर्यो, रुत यजमानस्येति जिज्ञासायामाह- यष्टुरेव फलमिति। यजमानत्वस्य फलभोक्तृत्वसमानाधिकरणकर्तृत्वरूपत्वात् अन्यस्वामिके यज्ञे अन्यस्य स्वाभिमतफलसाधनप्रयत्नानौचित्याच्च। यत्र तु `आत्मने च यजमानाय च’ इत्येवं प्रत्यक्षमेव उभयोः फलं श्रूयते, तत्र तावत् यजमानेन साकमृत्विजोऽपि उद्गातुः फलमिष्टमे वेत्याह- वचनात्त्विति। प्रत्यगाशिषः= आत्मगामिफलप्रकाशकाः मन्त्राः, आयुर्दां अग्नेऽस्यायुर्मेदेहि- इत्यादयः। तेषु `मे’ इत्येवं अस्मच्छब्दश्रवणात् आयुरादिफलस्यात्मगामित्वमवगम्यते। अत एव अध्वर्युकाण्डस्थितत्वेन अध्वर्युणा पठनीयानपि, लिङ्गस्य समाख्यापेक्षया प्रबलत्वात् यजमान एव पठेदित्यभिप्रायः। येषां तु मन्त्राणां अध्वर्युकाण्डे यजमानकाण्डे च समानः, समानविषयकश्च पाठः तथा विधान् उभावपि पठेतामित्याह- वाजस्यमेति। वाजस्य माप्रसवेनेत्यादिमन्त्रद्वयं दर्शपूर्णमासप्रकरणे स्रुग्व्यूहनाङ्गत्वेन आम्नायते। अन्यतरपाठेनैव अर्थप्रकाशनरूपे अर्थे सिद्धेऽपि, अन्यतरपाठस्य अवैयर्थ्याय, अदृष्टाय च उभयोः पाठः।
मूलम्ः-
वाजपेये- `क्लृप्तीर्यजमानं वा चयति’ इति वचनात् विदुषोऽपि यजमानस्य वाचनम्।
व्याख्याः-
क्लृप्तीः= आयुर्यज्ञेन कल्पतां, `प्राणो यज्ञेन कल्पता’मित्यदीन् `कल्पयति’,… धातुघटितान् मन्त्रान्। स्वयं वक्तुमनभिज्ञस्य अविदुषो यजमानस्यैवेदं वाचनं, अभिज्ञस्य स्वयमेव वक्तुं शक्तत्वात्- इति शङ्कायामिदमुच्यते- विदुषोऽपीति। अधिगतवेदवेदार्थस्य, प्रयोगाभिज्ञस्य विदुष एव हि कामस्वधिकारो विज्ञायते, `अर्थीसमर्थो विद्वान्’ इत्यादिवचनेभ्यः। तथा च अविदुषः कर्माधिकारस्यैवाभावे, कुतः क्लृप्तिवाचनम्? तर्हि किमर्थं वाचनम्? विदुषः स्वयमेव वक्तुं शक्तत्वादितिचेत्- अदृष्टार्थमिति वक्तव्यम्, वाचयतीति वचनबलात्।
मूलम्ः-
`वत्सं चोपावसृजत्युखांचाधिश्रयतीत्यनुकीर्त्य, एतानि वैद्वादश द्वन्द्वा(ह्यङ्गा)नि दर्शपूर्णमासयोस्तानि य एवं संपाद्य यजते’ इति द्वन्द्वसंपादनं, आत्मनेपदावगमितस्य यष्ठुः कार्यम् `संपाद्य यजत’ इति क्त्वा श्रुत्यासंपादन यजनयोः समानकर्तृकत्वावगतेरिति पूर्वः पक्षः। प्रयोजकत्वेनापि द्वन्द्वानां यजमानकर्तृकत्वसंभवात्, अध्वर्युकाण्डपाठाच्च अध्वर्युरेव तेषां कर्तेति राद्धान्तः।
व्याख्याः-
वत्संचेति। वत्सोपावसर्जनादीनां द्वादशानामपि द्वन्द्वानां संपादनस्य याजमानकाण्डे पठितत्वात्, `संपाद्य यजते’ इत्यत्र क्त्वा प्रत्ययसमानार्थक ल्यप् श्रुत्या संपादन यजनयोस्समानकर्तृकत्वावगमाच्च, यजमान एव कर्तेति पूर्वपक्षी मन्यते। तन्न; याजमानकाण्ड मध्वर्युकाण्डात् न अत्यन्तं पृथक् भूतम्, किन्तु तदेकदेश्भूतमेव, उभयोर्याजुर्वेदिकत्वात्। किञ्च- द्वन्द्व संपादनमात्रस्य याजमानकाण्डे पठितत्वेऽपि तदनुष्ठान प्रकारस्सर्वोऽपि अध्वर्यव एव प्रपञ्चितः। अपि च एवं विध कार्यनिर्वहणार्थमेव अध्वर्योः दक्षिणया परिक्रीतत्वात् स एवै तेषां द्वन्द्वानां कर्ता भवितुमर्हति। यजमाने प्रयोजककर्तृत्वस्य जागरूकत्वाच्च `संपाद्य यजते’ इति क्त्वा प्रत्ययावगतस्य समानकर्तृकत्वस्यापि नात्यन्तं बाध इति सिद्धान्तः।
मूलम्ः-
अग्नीषोमीय पशूपाकृतौ यूपस्य परिव्याणे `परिवीरसी’त्यध्वर्येर्मन्त्रः। युवासुवासा इति होतुः। कुण्डपायिनाम यनादौ ऋत्विक् समासे `योहोतासोऽध्वर्यु’रिति अध्वर्युकार्ये विहितस्य होतुः वाचनिकोऽध्वर्युमन्त्रः चोदकप्राप्तहोतृमन्त्रं बाधते।
व्याख्याः-
`कुण्डपायिनामयनं’ नाम सोमविकृतिरूपः कश्चन सत्रयागः। तत्र श्रूयते `योहोतासोऽध्वर्यु’रिति। अनेन वाक्येन अध्वर्युपदे अध्वर्युकार्यं लक्षयित्वा तत्र होता कर्तृत्वेन विधीयते। उभाभ्यां ऋत्विग्भ्यां कर्तव्यानां पदार्थानां एकर्त्विक्कर्तव्यत्वमेवात्र `ऋत्विक्‌समास’ इति पदेन विवक्षितम्। एवंस्थिते एतदयनाङ्गत्वेन कर्तव्ये पशुयागे सर्वपशुयागप्रकृतिभूतात् अग्नीषोमीयात् अतिदेशेन धर्माः प्राप्ताः। तेषां पशूपाकरणात्प्राक् कर्तव्येषु यूपसंस्कारेषु `परिव्याण’मप्येकम्। परिव्याणं नाम- दर्भमय्यारशनया यूपस्य पतितोवेष्टनम्। तदङ्गतया अध्वर्युणा `परिवीरसि’ इति करणमन्त्रोक्क्तव्यः। तदानीमेव होत्रा `युवासुवासाः’ इति क्रियमाणानुवादीमन्त्रोवक्तव्यः(मन्त्रोक्क्तव्यः)। प्रकृते च हौत्राध्वर्यवयोरुभयोरपि समासविधानात्, युगपदे केनमन्त्रद्वयस्य क्क्तुमशक्यत्वात् कतरोहेयः, कतरश्चोपादेय इति भवति संशयः। होतुराध्वर्यवस्य `यो होतासोऽध्वर्यु’रिति उपदेश सिद्धत्त्वेन प्रबलत्वात् आध्वर्यं वः उपवीरसीतिमन्त्रः, आतिदेशिकं हौत्रं `युवासुवासा’ इति मन्त्रं बाधत इति सिद्धान्तः।
मूलम्ः-
प्रैषाणां तदर्थानां च कर्तारीऽन्ये। प्रोक्षणीरासादयेत्यादि मध्यमपुरुषप्रयोगाल्लिङ्गात्। तत्रापि प्रैषकर्ताध्वर्युं, स्तदर्थ कर्ताग्नीदादिः। `ममाग्ने वर्चो विहवेष्वस्त्वित्यध्वर्यु मन्त्राङ्गं फलं’ `मम यजमानस्य’ इत्यध्याहारेण यजमानगतमेव। `मा मा संताप्त’मित्यादिकमृत्विग्गतमेव। तन्नौ सहेत्याद्युभयगतम्। एव मन्यदप्यूह्यम्॥
व्याख्याः-
प्रैषणामिति। कर्तारोऽन्ये- इति पदद्वयमुभयत्र संबध्यते- प्रैषाणां कर्तारोऽन्ये, तदर्थानां कर्तारोऽन्ये- इति। तत्र किं गमकमित्यत आह- मध्यमपुरुष प्रयोगादिति। अध्वर्यु वेदोक्तत्वमात्रेण प्रैषार्थानां प्रोक्षण्या सादनादीनां नाध्वर्युकर्तृकत्वमित्यर्थः। तथात्वे हिमध्यमपुरुष प्रयोगो विरुध्येतेत्यभिप्रायः। `ममाग्ने’ इति। दर्शपूर्णमासाङ्गभूतं आहवनीयाग्नौ समित्प्रक्षेपरूपमन्वाधानं कुर्वत। अध्वर्युणा अयं मन्त्रः पठ्यते। अस्मिन् ममेत्यस्मच्छब्दश्रवणात् श्रूयमाणं वर्च आदिकं फलं अध्वर्योरेव भवितुमर्हतीति शङ्का न कार्या, दक्षिणां प्रतिगृह्य यजमानार्थं कर्मकुर्वतामृत्विजां दक्षिणातिरिक्तं कर्मफलं अनाशङ्क्यमेव। अतः प्रधान फलेन साकं संभवतामङ्गफलानामपि यजमानगामित्वमेव। अत एव मन्त्रार्थानुसन्धानावसरे ममेत्यनन्तरं `यजमानस्य’ इति पदमध्याहर्तव्यम्। मामासंताप्तमिति। दर्शपूर्णमासयोः आघारहोमार्थं उत्तरतः स्थितोऽध्वर्युः दक्षिणांदिशं गच्छति। तदा पूर्वस्यांदिशिस्थितस्या हवनीयाग्नेः, पश्चिमायां दिशि वेद्यामासादितानां हविः पूर्णानां स्रुचामग्रे शास्त्रदृष्ट्या वस्थितस्य यज्ञाभिमानिनो विष्णोश्च मध्यतो गन्तव्यम्। गमनावसरे उपस्थितान् देवब्राह्मणाचार्यादीन् प्रदक्षिणीकृत्य गन्तव्यम्, न मध्यतो गन्तव्यमिति धर्मज्ञास्समामनन्ति। तथासति प्रकृते शास्त्र चोदनां पुरस्कृत्य अग्नाविष्ण्वोः मध्यतो गच्छन्नध्वर्युः स्वस्य निर्दोषत्वाय तौ प्रार्थयते- `अग्नाविष्णूमावा मवक्रमिषं, विजिहाभां मामा संताप्त’मिति। हे अग्नाविष्णू! आघार होमार्थं मध्यतो गच्छन्नपि अहं युवां पादेन न स्पृशामि मम गमनावकाशाय युवां वियुक्तौ भवतम्। मां प्रतिसन्तापं माकुरुतमिति तदर्थः। एतच्च सन्तापाभावप्रार्थनं अस्मच्छब्दश्रवणात् पूर्वोक्त(ममाग्नेवर्यः)न्यायेन यजमान विषयकमेवेति न मन्तव्यम्; औचित्यादध्वर्युगामित्व संभवात्। तथा हि अध्वर्युश्चेत् सन्तापं प्राप्नुयात् कर्मकर्तुं न शक्नुयात्। तेन च कर्मान्तरितं भवति। तन्न यजमानस्येष्टम्। असंतप्तस्तु कर्म यथावदनुतिष्ठति। तद्यजमानस्यापीष्टमेव। अतस्सन्तापाराहित्यप्रार्थन मध्वर्योर्युज्यत एव। `तन्नौसह’ इत्यत्र तु नौ इति द्विवचनाश्रवतस्पष्टमेवाध्वर्यु यजमानयोरुभयोः फलमिति।

  • इति तृतीयाध्यायस्याष्टमः पादः। -
    अध्यायश्च समाप्तः॥

  • चतुर्थाध्यायस्य प्रथमः पादः -
    श्रीमन्नारायणतीर्थमुनि विरचिते- भाट्टभाषाप्रकाशे-
    चतुर्थाध्यायस्य- प्रथमः पादः।

मूलम्ः-
अथ यत्रानेकः शेषी, तत्र कः शेषं प्रयुङ्क्ते, कोनेति चिन्ता। तत्फलं च `पुरोडाशकपालेन तुषानुपवपती’त्यादौ कपालस्य तु षोपवापाङ्गत्वेऽपि यत्र सौर्येचरौ तु षोपवापेसत्यपि कपालं ना सादनीयम्, `कपालेषु पुरोडाशं श्रपयति’ इति तत्प्रयोजकस्य पुरोडाशस्याभावात्। तादृशस्थले हस्तेनैव तुषापवाप इति।
व्याख्याः-
तृतीये शेषशेषिभावं निरूप्य अधुना चतुर्थे प्रयोज्यप्रयोजकभावं निरूपयितुमारभते- अथ यत्रेति। यत्र प्रयोज्यप्रयोजकभावस्तत्र अङ्गिनैव अङ्गानि प्रयुज्यन्त इति, प्रयुक्तिनिरूपणं प्रति अङ्गाङ्गित्वनिरूपणस्य हेतुत्वात् तृतीय चतुर्थयोः अध्याययोः हेतुहेतुमद्भावसङ्गतिर्द्रष्टव्या। न हि शेषशेषिभावज्ञानमात्रेण प्रयोज्यप्रयोजकभावो ज्ञातो भवति, क्वचित् सत्यपि अङ्गाङ्गित्वे, प्रयोज्यप्रयोजकत्वादर्शनादिति सोदाहरणमाह- तत्फलं चेति। तत्फलं= प्रयोज्यप्रयोजकत्व विचारप्रयोजनमित्यर्थः। तुषोपवापाङ्गत्वेऽपि= कपालेनेति तृतीयाश्रुत्या कपालस्य तुषोपवापाङ्गत्वे प्रतीयमानेऽपि। सौर्येचरौ= `सौर्यं चरुं निर्वपेद्ब्रह्मवर्चस काम’इत्येतद्वाक्यविहिते- ब्रह्मवर्चसफलके- सूर्यदेवताके- चरुद्रव्यके- यागे। चरोः तण्डुल साध्यत्वेऽपि, तेषां व्रीह्यवहन न साध्यत्वात् तुषोपवापोऽवश्यं भावीत्यमुमर्थं सूचयति- तुषोपवापे सत्यपीति। कपालं नासदनीयमिति। पुरोडाशद्रव्यके यागेतच्छ्रपणार्थं कपालान्यासाद्यन्ते। प्रकृतस्य यागस्य चरुद्रव्यकत्वात्, चरोश्च स्थाल्यामेव श्रपणीयत्वात्, अनुपयोगात् कपालानि ना साद्यन्ते। `पुरोडाश कपाल’ संज्ञापि तेषां पुरोडाशार्थत्वमवगमयति। तर्हि तुषोपवापस्य का गतिरित्यत आह- हस्ते नैवेति। नायं हस्तनियमः, उपलक्षणत्वात्। येनकेनचिददुष्टेनेत्यर्थः।
मूलम्ः-
तत्र यत् क्रतोः साधनं, तत् क्रतुप्रयोज्यं क्रत्वर्थम्। यत्पुरुषं प्रीणयति रागसिद्धप्रवृत्तेः फलादन्यत् द्रव्यादिकं, तत्पुरुषप्रयोज्यं- पुमर्थम्। यथा- `चमसेनापः प्रणयेत् गोदोहनेन पशुकामस्य’ इत्यत्र प्रणयनमाश्रित्य पुरुषार्थं साधयद्गोदोहनं, अर्थात् क्रतुमप्युपकरोति।
व्याख्याः-
प्रयोजकं- अनुष्ठापकम्, प्रयोज्यं- अनुष्ठेयम् इति साधारणोऽर्थः। अनयोः निष्कृष्टलक्षणादिकं `यन्निष्ठकृतिव्याप्यता निरूपितोद्देश्यताशालिवत् तत् तस्य प्रयोजकम्- यथा आमिक्षादर्शादि दध्यानयन प्रयाजादेः। यदुद्देशप्रवृत्तकृति व्याप्यत्वं यस्य, तत् तत्प्रयोज्यम्- यथा दध्यानयन प्रयाजादि आमिक्षादर्शपूर्णमासादेः’ इत्येवं भाट्टदीपिकादावुक्तम्, तत्तत एवावगन्तव्यम्। अधुना प्रयोज्यप्रयोजकभावनिरूपणावसरे क्वचित् द्वारत्त्वेनोपकारकत्वात् क्रत्वर्थत्व पुरुषार्थत्वे सोदाहरणं निर्वक्ति- तत्र यत् क्रतोस्साधनमिति। `चमसेनापः प्रणयेत्’ इत्येतत् क्रत्वर्थस्योदाहरणम्। चमसो नाम जलधारणोचित दारुमयः बिलयुतः चतुष्कोणः पात्राविशेषः अपांप्रणयनं नाम चमसे पूरितस्य जलस्य गार्हपत्यादाहवनीयपर्यन्तं प्रापणम्। क्रतुः स्वसाद्गुण्यार्थं, अर्थात्- स्वस्य फलजनकत्वयोग्यतासिध्यर्थं, यं प्रयुङ्क्ते, सक्रत्वर्थः। प्रकृते चमसस्तथाविधः, स हि अपां प्रणयनद्वारा दर्शपूर्णमास साद्गुण्याय कल्पते। यद्यपि चमसाभावे पात्रान्तरेणापि प्रणयनं कर्तुं शक्यते, तथापि विधेरवैयर्थ्याय नियमापूर्वमङ्गीक्रियते। तदभावे फलापूर्वमेव नोत्पद्यत इति क्रतुरवश्यं चमसं प्रयुङ्क्ते। अतस्सिद्धमस्य क्रत्वर्थत्वम्। गोदोहनेन पशुकामस्य (प्रणयेत्) इति पुमर्थस्योदाहरणम्। यस्मिन् पात्रे गां पयः दोग्धि, तत् गोदोहनमित्युच्यते। एतच्च न क्रतुसाद्गुण्यार्थम्, अपि तु पुरुषाभिलषित पशुरूपफलसिध्यर्थम्। अत एव पुरुषः स्वप्रीतये यत् प्रयुङ्‌क्ते, तत् पुमर्थम्। गोदोहनं च तादृशम्। ननु साक्षात्प्रीतिजनकेषु पशुपुत्रकलत्रादिष्वेव पुमर्थशब्दः प्रसिद्धोलोके, गोदोहनादीनां पुमर्थत्वं लोकविरुद्धमिति चेत्, अत्रोच्चते- पारिभाषिकमेवेदं गोदोहनादीनां पुमर्थत्वम्। अपि चैतद्विधेयपदार्थविषयकम्। पशुपुत्रकलत्रादीनां पुमर्थत्वेऽपि अविधेयत्वादनुदाहरणत्वमेव। तत्र हि रागादितः प्रवृत्तिः प्रसिद्धालोके, न शास्त्रतः। अत एव तद्व्यावृत्त्यर्थं विशेषितं पुमर्थत्वमत्र ग्रन्थकृता- `रागसिद्ध प्रवृत्तेः फलादन्यत्’ इति। अयमत्र विशेषः - क्रत्वर्थश्चमसः प्रणयनं द्वारीकृत्य केवलं क्रतुमुपकरोति, पुमर्थगोदाहनं तु प्रणयनाश्रितं सत् न केवलं पशुफलं संपादयति, अपि तु क्रतुमप्युपकरोति प्रणयनद्वारा। परमेतदार्थिकं, न वैधम्।
मूलम्ः-
एवं द्रव्यार्जनमपि। तस्य क्रत्वर्थत्वेऽल्पे (न्याये) नाप्यार्जिते नारम्भसिद्धेः `अपवा एष सुवर्गाल्लोकाच्च्यवते’ इति क्रत्वनुपक्रमे दोषदर्शनं न सङ्गच्छते। तस्मात्तदपि पुमर्थमेव सत क्रतावप्युपकरोति।
व्याख्याः-
पूर्वोक्तं (गोदोहनस्य) पुरुषार्थत्वं द्रव्यार्जनेऽप्यतिदिशति - एवमिति। क्रत्वर्थत्वे बाधकमाह- तस्येति। यस्यानारंभे, आरब्धस्य परित्यागे वा दोषः श्रूयते तन्नित्यं कर्मेति तावदवगतम्। नित्येषु `यथा शक्ति’न्यायो जागत्यैवेति अल्पेनाष्यार्जितेन कर्मारम्भ सम्भवात्, अनारम्भस्यैव अप्रसक्तेः अनारम्भे दोषदर्शनमसङ्गतं स्यादितिभावः। पुमर्थत्वे तु वायं दोषः। अर्जितेन धनेन मिष्टान्नभोजन- कुटुम्बभरणादिना ऐहिक सुखस्य आबालगोपविदितत्वात्। रागतः प्राप्तत्वाच्च नात्र शास्त्रचोदनाप्रवर्तते। परन्तु निन्दितया अनिन्दितया वा यया कयाचनविधया धनार्जने रागादिना प्रवृत्ति संभवात्- निन्दितांवृत्तिमाश्रित्यजनाः माप्रत्यवेयुरिति- करुणया नियमः क्रियते शास्त्रेण, यथा- ब्राह्मणविषये `षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका। याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः’ इति। तथा क्षत्रियस्य प्रजापालनादिकं, वैश्यस्य कृषिगोरक्षादिकं, शूद्रस्य सेवा शिल्पादिकंचेति। इत्थं धनार्जनस्य पुमर्थत्वेऽपि अर्जितेन धनेन ऐहिकसुखोप भोगवत् क्रत्वनुष्ठानेन आमुष्मिक सुखोपभोगस्यापि संभवात्, क्रतुमप्युपकरोति तत्।
मूलम्ः-
`नेक्षे तोद्यन्तमादित्य’मित्यत्र नञः क्रियान्वये यत्र क्रत्वर्थमुद्यदादित्ये क्षणं प्राप्तं, तस्य प्रतिषेधो भवति। ततश्च ग्रहणाग्रहणवद्विकल्पे, नञर्थश्च श्रौतोलभ्यते। तथापि `तस्य व्रत’मित्युपक्रमाननुगुणत्वान्निषेध पक्षमपहाय उपपदार्थेन नञोऽन्वयात् पर्युदासपक्षमाश्रित्य अनीक्षण सङ्कल्पो लक्ष्यते। तेन विकल्पदोषो नानुषज्यते। `एतावता हैनसावियुक्तो भवती’ति वाक्यशेषरूपं फलवचनमर्थवद्भवति॥
व्याख्याः-
नञ् घटितानि वाक्यानि वाक्य घटकपदार्थानां अन्वयभेदेन प्रतिषेधरूपाणि, पर्युदासरूपाणि च भवन्ति। स च भेदः आचार्यैर्दर्शितः- `प्रसज्यप्रतिषेधोऽयं क्रियया सह यत्र नञ्। पर्युदासः सविज्ञेयो यत्रोत्तरपदेन नञ्’ इति। अधुना `नेक्षेतोद्यन्तमदित्य’मित्यत्र पर्युदासत्वं स्वीकृत्य पुरुषार्थ सिद्धान्तपरतां निराकरिष्यन्, आदौ प्रतिषेधत्वशङ्कामुद्भाव्य परिहरति- नेक्षेतेति। क्रियान्वये= आख्यातार्थ भावनान्वये। भावनायाः प्रधानत्वात् प्रधानान्वयस्य अभ्यर्हितत्वाच्चेतिभावः। श्रौतः= निरपेक्षस्वरूपप्रत्यक्षशब्दाभिहितः। यद्यपि नञः क्रियान्वयं स्वीकृत्य उद्यदादित्येक्षणं न कुर्यात्- इत्यर्थं वर्णने र्नञः श्रौतोऽर्थोरक्षितो भवति, परन्तु क्रतुप्रकरणस्थेन, उद्यदादित्येक्षणकर्तव्यता बोधकेन `यस्य होताप्रातरनुवाकमनुब्रुवन्नग्निमप आदित्यमभिविपश्यति’ इत्यादि वाक्येन विरोधेसति, उभयोः तुल्यबलत्वात् ग्रहणाग्रहणवत् विकल्पः प्रसज्यते। स चाष्टदोषदुष्ट इति तत्परिहाराय पर्युदासपक्षमाश्रित्य अस्य वाक्यस्य कर्तव्यार्थपरत्वं वक्तव्यम्। तच्चेत्थम्- नञर्थस्य आख्यातार्थ भावनया अन्वयमकृत्वा ईक्षति धात्वर्थेन ईक्षणेनान्वयः कार्यः। तथासति `ईक्षण भिन्नं’ इत्यर्थलाभात् तस्य आख्यातार्थेन साकमन्वये सति- `उद्यदादित्येक्षणभिन्नं कुर्यात्’- इत्यर्थस्सिध्यति। ईक्षणभिन्नानां घटपटादीनां आनन्त्यात्, तत्कर्तव्यताया अशक्यत्वाच्च नञीक्षतिभ्यां अनीक्षण संकल्पं लक्षयित्वा आदित्योदयास्तममयोः तस्य कर्तव्यता पुरुषार्थतया विधीयते। ननु पुरुषार्थत्वे फलकल्पनागौरवं स्यात्, क्रत्वर्थत्वे तु क्रतुफलेनैव सफलत्वाल्लाघवमिति वाच्यम्; `एतावताहैन सावियुक्तो भवति’ इति प्राकरणिकेन वाक्येनैव पापक्षयरूपस्य फलस्योक्तत्वात् न कल्पनायुक्तं गौरवम्। किञ्च - एवंसति `तस्य व्रतम्’ इति कर्तव्यार्थो पदेशोपक्रमोऽपि समञ्जसो भवति। अन्यथा कर्तव्यार्थोपदेशं प्रतिज्ञाय प्रतिषेधोपदेशेवैरूप्यापत्तेः॥
मूलम्ः-
पशुनायजेतेत्यत्र पशुरुपादेयः। तत्र कारकाणां क्रिययैवान्वय इति नियमात् कारकेण समानप्रत्ययश्रुत्याऽऽत्मसात्कृतासंख्या तद्द्वारा क्रियामेवोपसर्पति, न समानपदोपात्तमपि कारकापेक्षया व्यवहितं पशुं स्पृशति। तेन सर्वत्रोपादेयगतं विशेषण विवक्षितमेव। एवं लिङ्गमप्युपादेयगतं विवक्षितमेव, सिंहः सिंहीत्यादौ ततोऽप्यर्थं विशेषप्रतिपत्तेः।
व्याख्याः-
वाक्यघटकपदार्थानां क्रियाव्यतिरिक्तानां साक्षात् परंपरया वा क्रिययैवान्वयः, तस्याः प्रधानत्वात्, प्रधानान्वयस्याभ्यर्हितत्वाच्च। क्वचित्तु बाधकसद्भावे प्रथममन्येनान्वितमपि, पश्चात् तेन साकं प्रधानान्वय एव पर्यवस्यति तत्रैकमुदाहरणं पूर्वत्र `नेक्षेतोद्यन्तमादित्य’मिति वाक्योदाहरणेन दर्शितम्। अधुना `पशुना यजेत’ इति वाक्यमवलंब्य विचार्यते- उपादेयः= अनुष्ठेयः, कृतिसाध्य इति यावत्। विधेयगत त्रिके उपादेयत्वमपि अन्यतममित्युक्तम्। `पशुना’ इति तृतीययापशोः करणकारकत्वं प्रतीयते। तथैव च तद्गता एकत्वसंख्या, पुंस्त्वरूपं लिङ्गमपि प्रत्याय्यते। तथाऽपि अन्वयावसरे तेषां त्रयाणां मध्ये करणत्वमेव क्रियायां प्रथममन्वेति। तद् द्वारैव लिङ्गसंख्ये अन्वयं प्राप्नुतः। तत्र तृतीया विभक्तिरूपा समानाभिधानश्रुतिः कारणम्। यद्यपि तया करणत्व- लिङ्ग- संख्यारूपास्त्रयोऽर्था अभिधीयन्ते, तेषां च करणत्वं प्रधानम्, लिङ्गसंख्येतु गुणभूते। अत एव ते करणत्वेन वशीकृत तया प्रथमं तेन साकमन्वयं प्राप्य, पश्चात् तद्द्वारैवान्यत्रान्वेतुं शक्नुतः अत एव न तयोः साक्षात्पश्वन्वयोऽपि। तत्र हि पशोः प्रकृत्यर्थत्वात्, लिङ्गसंख्ययोश्च प्रत्ययार्थत्वात् समानपदश्रुतिरूपप्रमाण संभवेऽपि, तदपेक्षया समानाभिधानश्रुतेः प्रबलत्वात् तया प्रथमं कारकान्वय एव युज्यते।
तथा - एवं विधेषु लिङ्गमपि विवक्षितमेव। अत एव सिंहः- सिंही इत्यादौ अर्थविशेषप्रतिपत्तिरूपपद्यते। विशेषणस्य अविवक्षा तु उद्देश्यगतत्वे एव, यथा - ग्रहं संमार्ष्टि इत्यादौ। विधेयगतं तु विवक्षितमित्यत्र प्रतिपादितम्।
मूलम्ः-
स्विष्टकृदादीनि स्मरणांशेन प्रतिपत्त्यंशेन च यागीयद्रव्यदेवतं संस्कुर्वन्ति, त्यागांशेनादृष्टमपि कुर्वन्तीति ज्ञेयम्॥
व्याख्याः-
स्विष्टकृदादीनि- इत्यत्रादि पदेन उत्तमप्रयाजपशुपुरोडाशादयोग्राह्याः। एकत्वेऽपि कर्मणः, अंशभेदेन प्रयोजनभेदो न विरुध्यते। प्रकृते च स्विष्टकृदादिषु मन्त्रपाठः, द्रव्यप्रक्षेपः, देवतोद्देशेन द्रव्यत्यागश्चेति त्रयोंऽशाः उपलभ्यन्ते। तत्र मन्त्रपाठस्य इष्ट- यक्ष्यमाणदेवतास्मरणजनकत्वे न दृष्टप्रयोजनकत्वं स्पष्टमेव। प्रक्षेपस्य च प्रधानयागावशिष्टद्रव्यप्रतिपत्तिरूपत्वात् स्पष्टमेव उपयुक्तस्य- आकीर्णकरस्य विहितदेशेप्रक्षेप एव हि तल्लक्षणम्। दृष्टं प्रयोजनम्। देवतोद्देश्यकद्रव्यत्यागां शेन तु न किञ्चित् दृष्टं प्रयोजनमुपलभ्यत इत्यदृष्टमेवेष्टव्यम्।
मूलम्ः-
यथार्थतः सन्निधानादुपादेयगतमेकत्वादिकं क्रियाप्रयोज्यम्, एवं `तप्ते पयसिदध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्’ इत्यत्रापि सेति तत्पदेन प्रकृतस्य पयस एव आमिक्षात्वावगमात्, तस्यैव च द्विकर्माणमानयति प्रतिमुख्यकर्मत्वावगमात् तदेवानयनं प्रयुङ्क्ते, न तु वाजिनम्, शब्दतोऽर्थतश्च व्यवधानात्।
व्याख्याः-
चातुर्मास्ययागान्तर्गते प्रथमे वैश्वदेवपर्वणि श्रूयते- `तप्तेपयसि दध्यानयति, सा वैश्वदेव्यामिक्षा, वाजिभ्यो वाजिनम्’ इति। संतप्ते पयसि दधनिप्रक्षिप्ते सति, तत् पयोद्रव्यं द्वेधा विभक्तं भवति। तत्र उपरितनं घनीभूतं `आमिक्ष’ इत्युच्यते। अधस्तनं द्रव्यं वाजिनमित्युच्यते। तत्र दध्यानयनं प्रति आमिक्षावाजिनं चेत्युभयं प्रयोजकं, अथवा आमिक्षैव, इति सन्देहे, दध्यानयनेन उभयस्यापि निष्पद्यमानत्वात् उभयं प्रयोजकमिति पूर्वपक्षीमन्यते। सिद्धान्ती तावत् आमिक्षाया एव दध्यनयनप्रयोजकत्वमङ्गीकरोति। यतः आमिक्षार्थं कृते नैव दध्यानयनेन वाजिनमनुनिष्पद्यते, न पृथक् प्रयत्नमपेक्षते। अतो गुणभूतं तत्। आमिक्षातु न तथाः, स्वार्थं कृतेनैव दध्यानयन प्रयत्नेन निष्पद्यमानत्वात्। अत एव तस्यद्विकर्मिकायां अनयतिक्रियायां मुख्यकर्मत्वमपि। तत्र गमकमाह- सेति तत्पदेन प्रकृतस्य पयस एव आमिक्षात्वावगमात्- इति। अत्र पूर्वाधिकरणसिद्धमर्थं दृष्टान्तत्वेनोपन्यस्यति - यथार्थतः सन्निधानादिति। अयमाशयः- पशुना यजेतेत्यत्र पुंस्त्वैकत्वे उपादेयेन पशुना एकीभूय यागक्रियां निष्पादयतः। अतो यागक्रियाप्रयोजिका, पुंस्त्वैकत्वे प्रयोज्ये। प्रकृतेतु आमिक्षाप्रयोजिका, दध्यानयनं प्रयोज्यम्। एतावान् विशेषः- दृष्टान्ते पुंस्त्वैकत्वाभ्यां यागक्रियायास्सन्निधानं आर्थिकम् दार्ष्टान्तिके तु दध्यानयने आमिक्षायास्सन्निधानं शब्दमिति। आर्थिकम्= कारकस्य क्रियान्वयनैयत्यात् तत्समानाभिधानयोः लिङ्गसंख्ययोरपि तत्रैवाच्चय इति अर्थापत्त्या सिद्धम्। शाब्दम्= प्रत्यक्ष शब्दगम्यम्।
मूलम्ः-
`उत्तरार्धात्स्विष्टकृत’मित्युत्तरार्धं न हविरेन्तस्कर्तव्यम्। अपि तु विनियुक्तस्यैवायं विनीयोगः।
व्याख्याः-
दर्शपूर्णमासयोः `यदाग्नेयोऽष्टाकपालं’ इति वाक्येन अग्निदेवताकः अष्टाकपालपुरोडाशद्रव्यको यागो विहितः। तेन यथा शास्त्रं पुरोडाशं सज्जीकृत्य, मध्यादवद्यति, पूर्वार्धांदवद्यति इति वचनात् मध्यात् पूर्वार्धाच्च अङ्गुष्ठपर्वपरिमाणं पुरोडाशमवदाय, तेन अग्निदेवता इज्यते। तत ऊर्ध्वं `उत्तरार्धात्स्विष्टकृतं यजति’ इति वाक्यं श्रुतम्। अत्र सन्देहः- अवशिष्टस्य आग्नेय पुरोडाशस्यैव उत्तरार्धादवदायायस्विष्टकृद्यागः कार्यः, अथवा- एतदर्थं पुरोडाशान्तरं निर्माय तेन स्विष्टकृद्यागः कार्य इति। तत्र अग्न्यर्थं निर्मितः पुरोडाशः कृत्स्नोऽपि अग्न्यर्थमेव विनियोक्तुमर्हति, न तदेकदेशस्य स्विष्टकृद्देवतायै दानमुचितम्; भुक्तशेषत्वेन गर्हितत्वात्। अतः स्विष्टकृद्यागार्थं पृथक् पुरोडाशः करणीय इति पूर्वं पक्षं अभिप्रेत्य, सिद्धान्तोऽभिधीयते- न हविरन्तरं कर्तव्यमिति। तथा हि- उत्तरार्धात् इत्युक्ते, तस्य सापेक्षशब्दत्वात् कस्योत्तरार्धात्? इति शङ्का अवश्यं जायते। पूर्वत्र आग्नेयं पुरोडाशं प्रकृत्य मध्यादवद्यति, पूर्वार्धांदवद्यति इति श्रुतत्वात् स एव पुरोडाशो बुद्धौ विपरिवर्तमानः पूर्वमुपतिष्ठत इति, तदीयस्यैव उत्तरार्धस्य ग्रहण संभवात् पुरोडाशान्तरनिष्पादनं न प्रसज्यते। न च अग्न्यर्थं निष्पादितस्य स्विष्टकृदर्थं प्रदानं विरुध्यत इति वाच्यम्; यतो नायं स्विष्टकृद्यागः आग्नेययागवत् प्रधानः अपि तु आग्नेययागावशिष्टस्य द्रव्यस्य प्रतिपत्तिरूपः उपयुक्तसंस्कारः। `उपयुक्तस्य आकीर्णकरस्य विहितदेशे प्रक्षेप’ इत्युक्तं प्रतिपत्तिलक्षणम्। अतो न पुरोडाशान्तरप्रयोजकः स्विष्टकृत्।
मूलम्ः-
वाक्यात्तु प्रयाजशेषेणहवींष्यभिघारयतीति गम्यमानोऽपि हविस्संस्कारोऽदृष्टार्थत्वान्नाद्रियते, शेषे प्रतिपत्तिरूपदृष्टप्रयोजने संभवति, तदयोगात्। अतः प्रयाज(प्रधान)शेषं हविरधिकरपकेन क्षारणेन संस्कुर्यादिति तदर्थः। अधिकरण नियमात्तत्संस्कारोऽपि- इत्युभयार्थत्वमपि। फलं तु- वाजपेयक्रतुपशूनां प्राजापत्येन च सहोपक्रमेऽपि प्रातस्सवने क्रतुपशूनां आलंभो, माध्यन्दिने इतरेषाम्। तत्र प्राजापत्यवपा(पयो)भिघारणार्थं शेषः स्थाप्य इति पूर्वपक्षे, न स्थाप्य इति सिद्धान्ते।
व्याख्याः-
अग्नीषोमीय पशुयागप्रकरणे - `प्रयाजशेषेण हवींष्यभिघारयति’ इति वाक्यं श्रूयते। अत्र यद्यपि तृतीययाप्रयाजशेषस्य संस्कारकत्वसूपंकरणत्वं, द्वितीयया हविषां संस्कर्यत्वरूपं कर्मत्वं च प्रतीयत इति, प्रयाज शेषाभिघारणेन हवींषिसंस्कुर्यादित्यर्थः पर्यवस्यति। प्रोक्षणेन व्रीहिष्विव अभिघारणेन हविष्णुकश्चिदपूर्वोऽतिशयोजयत इति पूर्वपक्षीमन्यते। परन्तु दृष्टे संभवत्यदृष्टकल्पनाया अन्याय्यत्वात् प्रयाजशेषस्यैव प्रतिपत्तिरूपः संस्कारोऽयं हविरधिकरणकः प्रक्षेप इति सिद्धान्तिनो मतम्। युक्तं चैतत्; यतः पूर्वं जुहूस्थेन आज्येन प्रयाजा इष्टाः, अनन्तरमाज्यभागौयष्टव्यौ। तदर्थं जुह्वां आज्येग्रहीतव्ये प्रथमतः तस्याः रिक्तीकरणमावश्यकम्। अन्यथा प्रयाजशेषेणाज्येन आज्यभागार्थमाज्यं संकीर्येत। तन्निवारणार्थमेव प्रयाजशेषस्य हविरधिकरणकंक्षारणं उपायतया शास्त्रेणोपदिश्यते। यद्यप्येवं विधस्यार्थस्य लाभाय विषयवाक्ये प्रयाज शेषेण- इति तृतीयाकर्मत्वे हवींषि- इति द्वितीयाचाधिकरणत्वे लक्षणयानेतव्या भवति, तथाऽपि दृष्टार्थलाभाय सासोढव्या। अयमत्र विशेषः- शेषाभिघारणरूपस्य क्षारणस्य दृष्टार्थत्वेऽपि हविरधिकरणकत्वनियमस्यादृष्टार्थत्वमेष्टव्यमेव।
ननु किमनया चर्चया? प्रयाजशेषो वा संस्क्रियतां, हवींषिवा संस्क्रियन्तां उभयथापि विरधिकरणक प्रयाजशेषक्षारणरूपमनुष्ठानं पूर्वोत्तरपक्षयोस्समानमेव, न कश्चित् विशेषः- इति चेत्, तत्राह- फलंत्विति। विशेषः कश्चित् विद्यत एव। वाजपेयेसुत्यादिने आग्नेयैन्द्रग्नादीनां क्रतुपशूनां, `सप्तदशप्राजापत्यान् पशूनालभते’ इति विहितानां प्राजापत्यपशूनां च सहानुष्ठानं विहितम्। उभयेषामपि पशूनां प्रयोगे प्रातस्सवन एव उपक्रान्तेऽपि पर्यग्निकरणानन्तरं क्रतुपशूनामेव आलंभोवपाहोमादिकं च क्रमेणानुष्ठीयते, प्राजापत्य पशूनां तु आलंभादिकं- `ब्रह्मसाम्न्यालभते’ इति वचनात् माध्यन्दिनसवने ब्रह्मसामस्तोत्रकाले उत्कृष्यते। प्रयाजानां `तिष्ठन्तं पशुं प्रयजति’ इति वचनेन पूर्वमेवानुष्ठितत्वात् प्रकृतिभूतादग्नीषोमीयात् अतिदेशेन प्राप्तं प्रयाजशेषाभिघारणं, तदानीमेव आलंभादिभिस्संस्कारै रूपस्थापितेषु क्रतुपशु हविष्णुनिर्विघ्नं कर्तुं शक्यते। प्राजापत्यपशूनां तु माध्यन्दिने सवने आलब्धव्यतया उत्कर्ष विधानात् तदीयहविर्निष्पादनपर्यन्तं तदभिघारणार्थं प्रयाजशेषस्य धारणं कर्तव्यं भवति। तदर्थं पात्रान्तरमपि संपादनीयं भवति पूर्वपक्षे। न च- तत्रैव तिष्ठतु, यत्र पूर्वं वर्तते, किं प्रात्रान्तरेण? - इति वाच्यम्; जुह्वां खलु वर्तते, क्रतुपशु हविरभिघारण- प्राजापत्य हविरभिघरणयोर्मध्ये तथैव जुह्वाकर्तव्यत्वेन विहितानां बहूनां कार्याणां उपरोधस्तेन भवेत्। सिद्धान्ते तु- कृत्स्नस्य प्रयाजशेषस्य क्रतुपशुहविष्ष्वेवक्षारणेऽपि न काचित् क्षतिः, नापि कार्यान्तरप्रतिरोधः, न वा पात्रान्तर संपादन प्रयास इति।

  • इति चतुर्थाध्यायस्य प्रथमः पादः। -

अथ चतुर्थाध्यायस्य द्वितीयः पादः।

मूलम्ः-
`यूपस्य स्वरुं करोति’ इत्यादौ यूपस्य विधिनास्वरुकरणं न विधेयम्, लक्षणागौरवात्। `स्वरुणा पशुमनक्ति’ इत्यञ्जनार्थत्वेन प्राप्तः स्वरुः कुत उपादेय इत्यकाङ्क्षायां यूपस्येतिषष्ठ्या तस्य यूपादानकत्वं गम्यते। तथा च आत्मार्थं विधानं भवति।
व्याख्याः-
यूपच्छेदनावसरे यः प्रथमपरापाती शकलः, स स्वरुरित्युच्यते। स च - `स्वरुणा पशुमनक्ति’ इति वचनेन यागीयपश्वञ्जन साधनतया विनियुज्यते। स कथं निष्पाद्य इत्याकांक्षायामाह- यूपस्य स्वरुं करोतीति। अत्र यूपपदेन यूपधर्मान् लक्षयित्वा तत्समानधर्मकः स्वरुः कर्तव्य इत्यर्थं ब्रवीति पूर्वपक्षी। तस्य च- यूपो यथा स्वादिरो बैल्वोवा भवति, यथा वा तक्षणाष्टाश्रीकरणादिनासं स्क्रियते, तथा विधः स्वरुः कर्तव्य इत्याशयः। न चैतद्युक्तं, यूपपदे यूपधर्मलक्षणा प्रसङ्गात्। अतो यूपस्येत्यत्र षष्ठ्या संबन्धसामान्यवाचिन्या अपादानत्वं विवक्षित्वा यूपादानकः स्वरुः कर्तव्य इत्यर्थग्रहणाल्लघवं मन्यते सिद्धान्ती। तस्मात् यूपानुनिष्पादीस्वरुः न यूप धर्माणां प्रयोजकः। तथा च, विधान= `यूपस्य स्वरुं करोति’ इति विधिवाक्य, आत्मार्थं= स्व (स्वरु)स्वरूप सिद्ध्यर्थं भवति इति फलितम्। अत एव `खले वाली यूपो भवती’त्यत्र स्वरोरसंभवात् पश्वञ्जनार्थं यः कश्चिच्छकल उपादेय इति॥
मूलम्ः-
एवं `मूलतः शाखां परिवास्योपवेषं करोति’ इत्यत्र परिवासनस्य शाखैव प्रयोजिकाः; द्वितीया श्रवणात्, न तु मूलम्; तदनु निष्पन्नत्वात्। तेन शाखाया अभावे यतः कुतश्चित् काष्ठादुपवेषः कर्तव्यः।
व्याख्याः-
दर्शपूर्णमास प्रकरणे श्रूयते- मूलतः शाखां परिवास्योपवेषं करोति- इति। तत्र दर्शेवत्सापाकरणार्थं प्राचीं प्रागुदीचीं वा पलाशशाखां इषेत्वा इति मन्त्रेण छित्वा आनयत्यध्वर्युः। आनीय च पुनस्तस्या श्शाखयाः मूलभागे प्रादेशमात्रं छित्वा तेन उपवेषं करोति। वत्सापाकरणं नाम- यजमानगृहे विद्यमानानां गवां लौकिकप्रातर्दोहानन्तरं मातृभिः सह सञ्चरतां गोवत्सानां पृथक्करणम्। उपवेषो नाम- पुरोडाशश्रपणार्थेषु कपालेषु अङ्गाराणां प्रोहणाद्यर्थः पूर्वोक्त पलाश शाखामूले छिन्नः काष्ठविशेषः। परिवासनं नाम- छेदनम्। आनीतायाः पलाशशाखायाः छेदने भागद्वयं निष्पद्यते- मूलभागः अग्रभागश्चेति। तत्र परिवासनं मूलभागसिध्द्यर्थं वा अग्रभाग सिध्द्यर्थं वा इति सन्देहे- अग्रभागरूपायाः शाखायाः सिध्द्यर्थमेवेति वक्तव्यम्, तस्या एव प्रथमतः वत्सापाकरणार्थमानीतत्वात्, तथैव च वत्सापाकरणस्य करिष्यमाणत्वाच्च। मूलभागस्तु अनुनिष्पादी, अप्रयत्नलब्धः, अस्तीति कृत्वा तेन अङ्गारप्रोहणं क्रियते। अत एव पौर्णमास्यां सान्नाय्य यागाभावे वत्सापाकरण- शाखाहरणयोरप्यभावात् येन केनचित् काष्ठेन उपवेषकृत्यं निर्वर्त्यते॥
मूलम्ः-
`यजतिचोदनाद्रव्यदेवता क्रियां समुदाये कृतार्थत्वात्’ (सू. 4-2-27) `तदुक्ते श्रवणाज्जुहोति रासे च नाधिकः स्यात्’(सू. 4-2-28) यदाग्नेयोऽष्टाकपाल इत्याद्युत्पत्तिवाक्येषु यजेरश्रवणेऽपि यत्र द्रव्यदेवतं दृश्यते तत्र यजिरस्तीत्यवगन्तव्यम्। होमस्तु यज्युक्त एवार्थे। चतुरवत्तं जुहोतीति वाक्यात् आसेचनमधिकं विधीयते॥
व्याख्याः-
अधुना मूल(जैमिनि)सूत्रोदाहरणपूर्वकं याग होमस्वरूपनिरूपणाधिकरणं संगृह्णाति ग्रन्थकारः- यदाग्नेय इति। यदाग्नेय इति वाक्ये यागवाचकस्य पदस्य अश्रवणेऽपि अग्निदेवतायाः, अष्टाकपालपुरोडाशरूपस्य द्रव्यस्य च श्रुतत्वात्, तयोस्संबन्धस्य यागमन्तरा अनुपपन्नत्वात्- अन्यथानुपपत्त्या- तत्र यागवाचकं यजेतेति पदं अवश्यं कल्पनीयमित्यर्थः। यदि देवतोद्देश्यकद्रव्यत्यागो यागः, तर्हि होमः कः? इति जिज्ञासायामाह- होमस्तु इति। यथोक्तयागरूप एव कर्मणि `चतुरवत्तं जुहोति’ इत्यादि वचनानुरोधेन पूर्वं देवतोद्देश्यकत्यागविषयीकृतस्य द्रव्यस्य आहवनीयादिरूपे विहिते अधिकरणे प्रक्षेपोऽपि क्रियते, स एव होम इत्युच्यते। आसेचनं- प्रक्षेपः। यागहोमस्वरूपस्योक्तत्वात् अनेन `स्वकीय द्रव्यस्य स्व स्वत्वनिवृत्तिपूर्वकं परस्वत्वापादनं दान’मिति दानस्वरूपमप्युप लक्षणीयम्। अस्मिन्नेवार्थे सूत्रं योजनीयम्॥

  • इति चतुर्थाध्याये- द्वितीयः पादः। -

  • अथ चतुर्थाध्यायस्य - तृतीयः पादः।-
    मूलम्ः-
    `एकस्यतूभयत्वे संयोग पृथक्त्वम्’ (4-3-5) अग्निहोत्रे- `दध्नेन्द्रियकामस्य जुहुयात्’ `दध्नाजुहोति’ इति वाक्यद्वयं पृथग्विपरिवृत्तिलब्धहोमाश्रयंमिथो निराकाङ्क्षतया न संबध्यते- यद्दध्नाजुहुयात्तदिन्द्रिय कामस्येति। तेन नित्यार्थं, कामार्थं चेत्युभयार्थंदधि, संयोग पृथक्त्वात्॥
    व्याख्याः-
    अग्निहोत्र प्रकरणे इदं वाक्यद्वयं श्रूयते- दध्नेन्द्रियकामस्य जुहुयात्, दध्नाजुहोति, इति च पृथक् पृथक् श्रूयमाणमपीदं वाक्यद्वयं एकवाक्यतां प्राप्य `यद्दध्ना जुहोति तदिन्द्रियकाममस्य’ इति विशिष्टमर्थं विदधातु, किं वाक्यभेदेन अगतिक गतिना? इति वाच्यम्, यतः एकैकमपि वाक्यं अन्यनिरपेक्षमेव स्वं स्वमर्थं बोधयत् निराकांक्षमेव वर्तते। तदेतदाह- पृथग्विपरिवृत्तिलब्धहोमा श्रयमिति। पृथग्विपरिवृत्तिः= इतरनिरपेक्षतयार्विविधा प्रवृत्तिः, तथा लब्धो होमरूप आश्रयो यस्य तत् तादृशम्। इन्द्रियकामवाक्ये होमस्य आश्रयत्वरूपं- `फलाय विधीयमानो गुणो यत्र कारकता मापद्यते स आश्रयः’ इत्युक्तं पारिभाषिकम्। `दध्ना जुहोति’ इति वाक्ये उद्देश्यत्वरूपम्। साकांक्षयोर्हिवाक्ययोरेकवाक्यतादृष्टा, यथा- दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत- समिधो यजति इत्यादौ। प्रथमस्य इति कर्तव्यताकांक्षायाः, द्वितीयस्य भाव्याकांक्षायाश्च सद्भावात्। सूत्रार्थस्तु- एकस्य = दध्यादेः उभयत्वे= उभयार्थत्वे- नित्यत्वे काम्यत्वे च, संयोगपृथक्त्वम्= संयोगयोः- क्रतुसंयोग फलसंयोगयोः, पृथक्त्वम्- भिन्न वाक्योक्तत्वं कारणं भवति। तच्चेहास्ति- दध्ना जुहोति, दध्नेन्द्रियकामस्य इति वाक्यद्वय श्रवणात्। पर्यवसितार्थस्तु- दध्नः इन्द्रिय फलकत्वेन न केवलं पुरुषार्थत्वमात्रम्, अपि तु होमसाधनत्वेन क्रत्वर्थत्वमपीति॥
    मूलम्ः-
    स्वर्ग आमुष्मिक एव। कारीर्यावृष्टिकामो यजेतेति कारीरी शुष्यत्सस्य संजीवनकामस्य विहितेत्यै हिक फलैव। चित्रया यजेत पशुकाम इति चित्रादिफलं तु असतिप्रतिबन्धके ऐहिकं, अन्यथा आमुष्मिकम्।
    व्याख्याः-
    स्पष्टार्थत्वान्न व्याख्यायते॥
    मूलम्ः-
    `वाजपेय नेष्ट वा बृहस्पति सवेन यजेत’ इत्यत्र वाजपेयप्रकरणात् तदङ्गत्वेन बृहस्पति स वाख्यं कर्मान्तरं विधीयते। पौरोहित्यकामस्य यो बृहस्पति सवस्तस्यात्रानुपस्थिते स्तत्सदृशत्व लाभार्थं तन्नामकत्वमत्र ज्ञेयम्, कुण्डपायि नामयनस्था(मासा)ग्निहोत्रवत्।
    व्याख्याः-
    वाजपेय- बृहस्पति सवनामकौ पृथक्फलौस्वतन्त्रौ द्वौसोमयागौ तत्र वाजपेयप्रकरणे `वाजपेयेनेष्ट वा बृहस्पति सवेन यजेत’ इति वाक्यं श्रूयते। किमनेन वाक्येन बृहस्पति सवानुष्ठानाय वाजपेया नन्तर्यरूपः कालोऽङ्गतया विधीयते, आहोस्वित् वाजपेयाङ्गतया बृहस्पति सवनामकः, `यः पुरोधाकामः स्यात् सबृहस्पति सवेन यजेत’ इति विहितप्रसिद्धबृहस्पति सवसमानधर्मको यागः विधीयते वा इति संशयः। तत्र- बृहस्पति सवाङ्गतया वाजपेयानन्तर्यरूपः कालो विधीयत इति पूर्वपक्षं पुरस्कृत्य, सिद्धान्तोऽभिधीयते- वाजपेयेनेति। वाजपेयाङ्गतया बृहस्पतिसव एवात्र विधीयते। तत्र उपपत्तिमाह- प्रकरणात् इति। अयमाशयः- श्रुतेः बृहस्पति सवाङ्गतया कालविधित्साचेत् तर्हि बृहस्पति सवप्रकरण एव विदध्यात्। किमिति वाजपेयप्रकरणे विधास्यति! अतः वाजपेयाङ्गत्वपक्ष एव वाक्यमिदमुपपद्यते, प्रकरणं चानुगृह्यते। ननु क्वापि सवप्रकरणे पठितस्य अनुपस्थितस्य बृहस्पति सवस्य कथं वाजपेयाङ्गत्वं सिध्यति? श्रूयताम्। प्रसिद्ध बृहस्पतिसवसमानधर्मकं अत एव बृहस्पति सवनामकं कर्मान्तरमेवात्र वाजपेयाङ्गतया विधीयत इति न कश्चिद्दोषः। स्मर्यतामेकवारं, कुण्डपायि नामयने पठितं- `उपसद्भिश्चरित्वामासमग्निहोत्रं जुहोति’ इति वचनम्।
    मूलम्ः-
    ज्योतिष्टोम प्रकरणे तु `दर्शपूर्णमासाभ्यामिष्टवासोमेन जयेत’ इति तु कालार्थः संयोगः, नत्वङ्गाङ्गिभावार्थः, ज्योतिष्टोमप्रकरणात्।
    व्याख्याः-
    पूर्वोक्तस्यार्थस्य अपवादमाह- ज्योतिष्टोम प्रकरणेत्विति। तु शब्दः पक्षं व्यावर्तयति। अत्र दर्शपूर्णमासाविष्टवासोमेन यजेतेति वाक्यस्य ज्योतिष्टोम प्रकरण एव पठितत्वात् प्रकरणमहिम्ना दर्शपूर्णमासानुष्ठानोत्तरकालिकत्वं ज्योतिष्टोमस्यावगमयितुं शक्नोति, न तु ज्योतिष्टोमस्य दर्शपूर्णमासाङ्गत्व बोधयति। न चात्र पूर्वोक्त बृहस्पति सवन्यायेन सोम समानधर्मकं कर्मान्तरमेव दर्शपूर्णमासोद्देशेन विधीयतामिति- वाच्यम्; सोमपदस्य द्रव्यविशेष वाचकत्वेन कर्मविशेष वाचकत्वाभावात् अग्निहोत्रादि शब्दवत् नामातिदेश विधया स्वसमान धर्मकस्य सोमयागरूपस्य कर्मान्तस्स्यैव दर्शपूर्णमासाङ्गत्वेन विधानायोगात्॥
    मूलम्ः-
    `वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रेजात’ इत्युपक्रम्य `यस्मिन् जात एतामिष्टिं निर्वपति पूत एव स’ इत्यादिफलंजात गतंज्ञेयं, वचनात्। न च `शास्त्रफलं प्रयोक्तरि’ इति न्यायविरोधः; गुणवत्पुत्रताया अपि पितुः प्रीतिकरत्वेन तदनुग्रहस्यापि लाभात्॥
    व्याख्याः-
    वैश्वनर देवताकाद्वादशकपालपुरोडाश द्रव्यका काचिदिष्टिः पुत्रजन्मनि निमित्ते कर्तव्याजातेष्टिरिति व्यवह्रियते। अस्य फलंत्वार्थवादिकं `पूत एव ते जस्व्यन्नाद इन्द्रियावी पशुमान् भवति’ इति श्रूयते। `शास्त्रफलं प्रयोक्तरि’ (3-7-18) इति सूत्रानुगृहीतेन `यः कर्ता स भोक्त।’ इति न्यायेन एतत्फलं पितुरैव भवितुमर्हति; तस्यैवेष्टिकर्तृत्वात्। परन्तु- फलवाक्ये यस्मिन् जाते सः निर्देशात् पुत्रस्यैव तत्फलं स्यात्। न्यायात् प्रत्यक्ष वचनस्य प्राबल्यात्। पुत्रफलेन पितुरपि फलवत्त्वप्रसिद्धेश्च।

  • इति चतुर्थाध्यायस्य तृतीयः पादः। -

अथ चतुर्थाध्यायस्य चतुर्थः पादः।

मूलम्ः-
सू. पितृयज्ञः स्वकाल विधाना दनङ्गं स्यात् (4-4-18)`अमावास्याया महराह्णे पिण्डपितृ यज्ञेन चरन्ति’ इत्यत्रामावास्यापदेन कर्मोपादाय तदङ्गत्वं पितृयज्ञस्य। ततश्च फलकल्पनापि नास्तीति प्रापस्य, काले शब्दस्य मुख्यत्वात् अपराह्ण इति कालसामानाधिकरण्याच्च पितृयज्ञः स्वकालविहितो, नेष्ट्यङ्गम्।
व्याख्याः-
ओदनपिण्ड साध्यत्वात्, पितृदेवताकत्वाच्चायं यज्ञः पिण्डपितृयज्ञ इत्युच्यते। सोय ममावास्यायां कर्तव्यः। स च दर्शायागाङ्ग, मुत स्वतन्त्रं पुरुषार्थरूपं कर्मेति चिन्तायां दर्शाङ्गमिति पूर्वं पक्षमवतारयति- अमावास्यापदेनेत्यादिना। `य एवं विद्वानमावस्यां यजते’ इत्यादौ अमावास्यापदस्य अग्नेयैन्द्रद्वयरूपकर्मत्रिक परत्वेन दृष्टत्वात्, तदङ्गत्वमेव पिण्डपितृयज्ञस्य वक्तव्यमित्युक्त्वा, तत्र लाघवं दर्शयति- ततश्चेति। दर्शाङ्गत्वे दर्शफलेनैव फलवत्त्वात् न पृथक् फलकल्पना प्रसज्यते। अन्यथा पुरुषार्थत्वे- अत्र फलस्याश्रवणात्, विश्वजिदादावि व फलकल्पना गौरवम्। प्रापय्य= पूर्वपक्षं प्रापयित्वा। सिद्धान्तमाह- काल इति। अमावास्या शब्दः कालेमुख्यः, तत्कालकर्तव्ये कर्मणि, लाक्षणिकः। किञ्च `अमावास्याय मपराह्णे इति सामानाधिकरण्येन प्रयुज्यमानोऽपराह्ण शब्दः कालावाचितया, अमावास्यायाः कालपरत्वं गमयति।’ अतः स्वतन्त्रो, नेष्ट्यङ्गम्।

  • इति चतुर्थाध्याये- चतुर्तः पादः। -

अथ पञ्चमाध्यायस्य प्रथमः पादः।
श्रीमन्नारायणतीर्थमुनिविरचिते- भाट्टभाषाप्रकाशे-
पञ्चमाध्यायस्य- प्रथमः पादः।
मूलम्ः-
एवं सिद्धानां प्रयोज्यानां क्रमो विचार्यते। `अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति’ इत्यत्र, `नपूतः पावयेत्’ इति वचना ददीक्षित एवाध्वर्युरन्यान् दीक्षयति सत्रे। तत्र हि ये यजमानास्त एव ऋत्विज इति सर्वेषां दीक्षाया आवश्यकत्वात्। अध्वर्यादि संज्ञाश्च तत्कार्यपरिग्रहात्। तं च ब्रह्मचारी वा चार्थप्रेषित इत्यन्तमयं श्रौतः क्रमः क्त्वा श्रुत्यवगतः।
व्याख्याः-
चतुर्थ- पञ्चमाध्याययोः सङ्गतिं दर्शयति- एवमिति। सिद्धानां= भेदनिरूपण- अङ्गाङ्गिभाव विचारण- प्रयोज्य प्रयोजकभावनिरूपणैः स्पष्टीकृत स्वरूपाणां, प्रयोज्यानां, प्राप्तकालत्वात् अधुना अनुष्ठानक्रमो विचार्यत इत्यर्थः। तत्र क्रमो नाम न कश्चित् स्वतन्त्रः पदार्थः, किन्तु पदार्थगुणभूतः पौर्वापर्यरूपोऽयं, पदार्थेषूक्तेषु नान्तरीयकतया स्वयमेव उपतिष्ठते। कर्मभेदक प्रमाणवत्, अङ्गत्वबोधक प्रमाणवच्च क्रमनियामकप्रमाणान्यपि षडेव- श्रुत्यर्थपाठस्थान मुख्य प्रवृत्तिरूपाणि। तत्रादिमं श्रौतक्रममुदाहरति- अध्वर्युरिति। `अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति, तत उद्गातारं, ततो होतारमाततस्तं प्रतिप्रस्थावादीक्षयित्वा अर्धिनो दीक्षयति- बाह्यणाच्छंसिनं बह्यणः, प्रस्तोतार मुद्गातुः, मैत्रावरुणं होतुः। ततस्तं नेष्टादीक्षयित्वा तृतीयिनो दीक्षयति- अग्नीधं ब्रह्मणः, प्रतिहर्तारमुद्गातुः, अच्छावाकं होतुः। ततस्तमुन्नेता दीक्षयित्वा पादिनोदीक्षयति- पोतारं ब्रह्मणः, सुब्रह्मण्यमुद्गातुः, ग्रावस्तु तं होतुः। ततस्तमन्यो ब्राह्मणो दीक्षयति’ इति समग्रं वाक्यम्। सत्रे सर्वेयजमानाः सर्वे ऋत्विजश्च। अध्वर्य्वादिरूपेण ऋत्विक्त्वं, फलस्वाम्यात् यजमानत्वं च। प्रकृतौ ज्योतिष्ठोमे यजमान इव अत्रापि यो यजमानस्थानीयः प्रधानः पुरुषः, स गृहपतिरित्युच्यते। प्रकृतौ यजमानस्य केशश्मश्रु वपनादिरूपादीक्षाप्रसिद्धा। सत्रस्य सोमयागविकारत्वात्, स त्रिणां सर्वेषामपि यजमानत्वाच्च अतिदेशेन दीक्षायां प्राप्तायां `अनेन क्रमनियमो विधीयते। अयं च श्रौतः क्रमः। अत्र- क्त्वा, ततः, अथ इत्यादिः निरपेक्षरवरूपः शब्द एव श्रुतिरिति व्यपदिश्यते। `न पूतः पावयेत्’ इति निषेधात् प्रथममध्वर्युरपूत एव ब्रह्मादीन् दीक्षयति, स्वयं च अपूतेनैव प्रतिप्रस्थात्रादीक्षां स्वीकरोति, एव मुत्तरत्रापि। `ब्रह्मचारी वाचार्य प्रेषित इति कल्पान्तरम्’॥
मूलम्ः-
`अग्निहोत्रं जुहोति- यवागूंपयति’ इत्यादावार्थः क्रमः पाकस्य होमार्थत्वे दृष्टार्थता लाभादत्र पाठक्रमो नाद्रियते, होमोत्तरं यवागूपाक्कस्था दृष्टार्थतापत्तेः॥
व्याख्याः-
द्वितीयमर्थक्रम मुदाहरति- अग्निहोत्रमिति। अर्थः- प्रयोजनम्। तदनुरोधीक्रमः आर्थः इत्युच्यते। पाठक्रमप्राप्तस्य अग्निहोत्रहोमस्य यवागूपाकस्य च क्रमवैपरीत्यापादने कारणमाह- दृष्टार्थता लाभिदिति। यथा पाठमनुष्ठाने न केवलं होमोत्तरं कृतस्य य वागूपाकस्य अदृष्टार्थत्वप्रसङ्गः, अपि तु यवागूपाकात् पूर्वमनुष्ठेये अग्निहोत्रे द्रव्याभाव प्रसङ्गः, अपि तु यवागूपाकात् पूर्वमनुष्ठेये अग्निहोत्रे द्रव्याभावप्रसङ्गश्च। “अमावास्यायां रात्र्यां स्वयं यजमानोयवाग्वाग्निहोत्रं जुहोति” इत्युक्तत्वात्॥
मूलम्ः-
समिधो यजति तनूनपातं यजातीत्यादौ पाठक्रम एव।
व्याख्याः-
येनक्रमेण विधायकानि वाक्यानि पठितानि, ते नैव क्रमेण तद्विधेयानां कर्मणामनुष्ठानमित्यर्थः। अयं पाठक्रमः।
मूलम्ः-
`सप्तदश प्राजापत्यान् पशूना लभते’ इत्यत्र पशूनामुपाकरणप्रोक्षण-संज्ञपनादिषु प्रथमः पदार्थो येन क्रमेण प्रवृत्तस्तेनैव क्रमेण द्वितीयादयः पदार्थाः कर्तव्याः। सोऽयं प्रवृत्तिक्रमः प्रधानस्याङ्गैः सहन्यूनमधिकं वा विप्रक्रर्षमसहमानस्यानुरोधा दाश्रीयते॥
व्याख्याः-
वाजपेयप्रकरणे `सप्तदशप्राजापत्या’निति वाक्यं श्रूयते। स मानद्रव्यदेवता का इमे सप्तदशयागाः साङ्गाः सहैव कर्तव्या इति `वैश्वदेवीं कृत्वाप्राजापत्यैश्चरन्ति’ इति वचनादवगम्यते। तत्र एकैकस्मिन् पशौकर्तव्याणां उपाकरणप्रोक्षणादीनामङ्गानामपि नैरन्तर्येणानुष्ठानरूपं सहत्वं चोदकात् प्राप्तम्। प्रकृतिभूते अग्नीषोमीये तथा दृष्टत्वात्। तच्चात्रानुपपन्नम्। प्रकृतौ पशोरेकत्वे न तद्धर्माणां उपाकरणप्रोक्षणादीनां नैरन्तर्येणानुष्ठान संभवेऽपि, इह पशूनां बहुत्वात्, तद्धर्माणामपि बहुत्वात् अगत्या समानव्यवधानरूपं गौणमेव सहत्वमाश्रयणीयम्। तथा च - यस्मिन् कस्मिश्चित् पशौ प्राथमिकमङ्गमारभ्य सर्वेष्वनुष्ठाय, ते नैव क्रमेण द्वितीयादीन्यष्यङ्गो व्यनुष्ठेयानि। अयमेव प्रवृत्तितमः। अन्यथा अङ्गप्रधानयोः क्वचिदल्पो विप्रकर्षः, क्वचिदधिकश्चेति वैषम्यं प्रसज्येतेत्याशयमाविष्करोति- पशूनामित्यादिना। अयं प्रवृत्तिक्रमः।
मूलम्ः-
साद्यस्क्रे सवनीयस्थाने `सह पशूना लभते’ इत्युक्तम्। तत्र स्थानिनः स्वस्थानात्प्रच्युतौ कारणाभावात् प्राथम्यम्। अग्नीषोमीयानुबन्ध्ययोस्तु ततःपरं प्राप्तयोः प्रकृतौ दृष्टं पौर्वांपर्यमसति बाधके नोल्लङ्घनीयमिति द्वितीयोऽग्नीषोमीय, स्तृतीय आनुबन्ध्य इति, ते नैव क्रमेण तेषां प्रोक्षणादयः॥
व्याख्याः-
स्थानक्रमं दर्शयति- साद्यस्क्र इति। साद्यस्क्रो नाम ज्योतिष्टोम विकारः एकाहरूपः कश्चित् सोमयागः। तत्र सुत्यादिनकर्तव्य सननीय पशुसन्निधौ श्रूयते `सह पशूना लभते’ इति। प्रकृतौ अग्निष्टोमेसुत्यादिनात्पूर्वस्मिन् औपवसथ्यनामके अह्नि अनुष्ठेयः अग्नीषोमीयः पशुयागः। सुत्यादिने कर्तव्यः सवनीयाख्यः आग्नेयः पशुयागः। अवभृभादूर्ध्वमाचरणीयः मित्रावरुणदेवता कः अनुबन्ध्याख्यः पशुयागः। एतेषां त्रयाणामपि साद्यस्क्रनाम्निसोमविकारे सुत्यादिने एकप्रयोगेणानुष्ठानं `सह पशूना लभत’ इत्यनेन विधीयते। तत्र त्रयाणामनुष्ठानक्रमः स्थानात् निर्णीयते। स्थानं नाम-देशः, उपस्थितिर्वा। विभिन्नदेशेषु विहितानां एकस्मिन् देशे अनुष्ठाने सति यद्यप्यवश्यं भावी केषांचित् स्थानभ्रंशः। स च यावदर्थभावी, अनतिप्रसक्तश्च यथा स्यात् तथा संपादनं स्थानक्रमस्य प्रयोजनमित्याह- तत्रस्थानिन इति। स्थानक्रमाश्रयणात्सिद्धं प्रयोजनमाह- ते नैवक्रमेणेति। तेषां= आग्नेयाग्नीषोमीयानूबन्ध्यानाम्। अन्यथा- ऐच्छिकेक्रमेस्वीक्रियमाणे, कदाचित् सवनीयस्यापि स्वस्थानभ्रंशः प्राप्नुयादिति।
मूलम्ः-
“सारस्वतौ भवत” इति सरस्वतीदेवतः सरस्वद्देवत इति च यागद्वयं श्रुतम्। तत्र याज्यानुवाक्या युगलक्रमो मुख्यः। तेन स्त्री देवतस्य पूर्वं निर्वापः, पश्चात्पुंदेवतस्येति प्रवृत्तिक्रमेणैव तत्सिद्धमित्युदाहरणान्तरं मृग्यम्।
व्याख्याः-
“चित्रया यजेतपशुकाम” इति विहितायां पशुफलायां चित्रभिधानायामिष्टौ सप्तहविष्कायां श्रूयते `सारस्वतौ भवतः’ इति वाक्यम्। तत्र- सरस्वती च सरस्वांश्च सरस्वन्तौ, तौ देवतेय योस्तौ सारस्वतौ- इति विग्रहात् सरस्वती देवताकः, सरस्वद्देवताकश्चेति द्वौ यागौ विवक्षितौ। सरस्वती देवतायस्य यागस्य सोऽयं सरस्वती देवतः। सरस्वान् देवतायस्य यागस्य सोऽयं सरस्वद्देवतः इति। इमौ द्वावपि आग्नेयादिषु सप्तसु यागेषु अन्तर्भूतौ मुख्यौ। एतदर्थं क्रियमाणानि हविर्निर्वाप प्रोक्षणादीन्यङ्गानि कस्य पूर्वंकर्तव्यानि कस्य परमिति जिज्ञासा भवति। तत्र नियामको मुख्यः क्रमः। तत्स्वरूपं दर्शयति- तत्र याज्यानुवाक्येति। `याज्यापुरोनु वाक्याकाण्ड’मिति समाख्याते वेदभागे यद्देवत्यं याज्यानुवाक्ययुगलं पूर्वं पठितं, तदेवत्योयागः पूर्वमनुष्ठेयः। यद्देवत्यं पश्चात् पठितं स पश्चादनुष्ठेयः। एवं सिद्धं मुख्ययागक्रममनुसृत्य कर्तव्यतया तदीयनिर्वांप प्रोक्षणादीनां क्रमो मुख्यक्रम इति व्यवह्रियते। फलितमाह- तेन स्त्री देवतस्येति।
*अत्र कंचिद्दिशेषमाह- प्रवृत्तिक्रमेणैवेति। प्रमाणान्तरसिद्धं मुख्ययागक्रममनुसृत्य तद्धर्माणामनुष्ठानक्रमो मुख्यक्रमः। इच्छया यत्र क्वचन पशौ प्राप्तं प्राथमिकाङ्गानुष्ठानमनुसृत्य तेनैव क्रमेण द्वितीयाद्यङ्गानामनुष्ठानं प्रवृत्तिक्रम इत्यनयोः प्रयोजकभेदो दृश्यते।
*(अतोऽत्र उदाहरणान्तर मृग्यता कथनं प्रौढोक्तिमात्रं द्रष्टव्यम्॥)
मूलम्ः-
तत्र दर्शपूर्णमासयोः प्रथमं दधिधर्माः शाखाहरणादयः समाम्नाताः। पश्चादाग्नेयधर्मानिर्वापादयः। याज्यानुवाक्यायुगलक्रमस्तु विपर्ययेण। अतस्तत्र प्रवृत्तिद्वयसत्त्वेऽपि मुख्यक्रमेणैव नियमः। तेन प्रथमं प्रयाजशेषेणाग्नेयाभिधारणं, पश्चाद्दध्न इत्यादि फलम्।
व्याख्याः-
एतावता अनुष्ठानक्रमबोधकानि श्रुत्यादीनि प्रमाणान्युक्तानि। अधुना तेषां बलाबलं वक्तुमारभते- तत्रेति। दधि धर्माः= दधिद्रव्यकेन्द्रयागधर्मा इत्यर्थः। आग्नेय धर्माः= अग्निदेवताक पुरोडाशयागधर्मा इत्यर्थः। पूर्वोक्तः पाठक्रमो द्विविधः- मन्त्रपाठक्रमो ब्राह्मणपाठक्रमश्चेति। तयोर्मन्त्रपाठक्रमोपि द्विविधः- मुख्ययाग संबन्धिमन्त्रपाठक्रमः, अङ्गसंबन्धिमन्त्रपाठक्रमश्चेति। अस्मिन् द्विविधे मन्त्रपाठप्रमे अङ्गपाठक्रमात् प्रधानपाठक्रमो बलवान्। तदेतत् सोदाहरणमाह- प्रथमं दधिधर्मा इति। तथा हि- प्रयोग समवेतार्थस्मारकत्वं मन्त्राणां मुख्यं प्रयोजनमित्युक्तं मन्त्राधिकरणे। तदतुरोधेन, `इषेत्वा’ इत्यादिमन्त्राणां प्रथमतः पाठात् तज्जन्यस्मृतिमनुसृत्य पलाशशाखाच्छेदनादीनि अङ्गानि प्रथममनुष्ठीयन्ते। पश्चात्पठितनिर्वापादिमन्त्रजन्यस्मृत्या निर्वापादीनि पश्चादेवानुष्ठीयन्ते। मुख्य यागानुष्ठानस्य तु याज्यापुरोऽनुवाक्यामन्त्रजन्यस्मृत्यधीनत्वात्, तत्र च आग्नेययाज्यापुरोऽनुवाक्यायुगलस्य पूर्वं, ऐन्द्रयाज्या पुरोऽनुवाक्यायुगलस्य पश्चाच्च पठितत्वात्तेनैव क्रमेण तयोरनुष्ठानं भवितुमर्हति। न च- पूर्वप्रवृत्तोऽङ्गानुष्ठानक्रमः मुख्ययागानुष्ठानक्रमंनियच्छतीति वाच्यम्; मुख्ययोः फलवत्त्वेन प्रधानत्वात्, शाखाच्छेदनादीनां अङ्गत्वेनतदर्थत्वाच्चनियामकत्वा संभवात्। नहि भृत्यस्स्वामिनं नियन्तुमर्हति।
अस्य विचारस्य फलं दर्शयति- तेन प्रथमं प्रयाजशेषेणेति।
मूलम्ः-
दर्शपूर्णमासयोरेव प्रथममग्नीषोमीयस्य ब्राह्मणं दाग्नेपश्चायस्य। याज्यानुवाक्यक्रमस्तु विपरीतोऽस्ति। तत्रापि स्मृत्येक प्रयोजनामन्त्रा इति मन्त्रपाठक्रम एव बलवान्।
व्याख्याः-
अधुना ब्राह्मणपाठक्रमापेक्षया मन्त्रपाठक्रमस्य प्राबल्यं सोदाहरणं दर्शयति- दर्शपूर्णमासयोरेवेति। तैत्तिरीय संहितायां - द्वितीयकाण्डस्य पञ्चमप्रपाठके द्वितीयानुवाके अग्नषोमीयपुरोडाशस्य वृत्तान्तस्सविस्तरमुपर्वार्णत उपलभ्यते। तत्रत्यमेव `ताभ्यामेतमग्नीषोमीयमेकादश कपालं पूर्णमासे प्रायच्छत्’ इत्युत्पत्ति वाक्यमपि। तथा तस्मिन्नेव काण्डे षष्ठप्रपाठकस्य तृतीयानुवाके आग्नेय पुरोडाशयागस्य विधायकं `यदाग्नेयोऽष्टा कपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति’ इत्येतद्वाक्यमाम्नायते। तथा च ब्राह्मणक्रमानुसारेण प्रथमोऽग्नीषोमीयः, द्वितीय आग्नेय इत्यवगम्यते। अनुष्ठानक्रमस्तु एतद्विपरीतः। कुत एतत्? उच्यते- अनुष्ठानं तावत् अनुष्ठेयपदार्थस्मृतिपूर्वकम्। स्मृतिश्च मन्त्रवाक्यजन्यैव भवितुमर्हति `मन्त्रैरेवार्थः स्मर्तव्यः’ इति नियमात्। स्मारकेषु याज्यापुरोनुवाक्यामन्त्रेषु प्रथमतः आग्नेययाज्यापुरोनुवाक्यायुगलं, पश्चाच्चाग्नीषोमीय याज्यापुरोनुवाक्यायुगलं पठितमिति तेनैव क्रमेण यागस्मृति संभवात् तेनैव क्रमेण प्रथमत आग्नेयस्य, पश्चादग्नीषोमीयस्य चानुष्ठानं सिध्यति। कर्मानुष्ठानकाले व्याप्रियमाणस्य अनुष्ठेयार्थस्मृतिं जनयतो मन्त्रवाक्यस्य अन्तरङ्गतया प्रबलस्य ब्राह्मणवाक्यावगतक्रमबाधकत्वं युज्यते। ब्राह्मणवाक्यं तावत् `अनुष्ठानाद् बहिरेवस्थित्वा इदं कर्तव्य, मित्थं कर्तव्यमित्युपदिश्य तावता विरमति, नानुष्ठानकाले व्याप्रियत इति बहिरङ्गमेव तत्। अतो बाध्यत्वं न विरुध्यते। स्मृत्येकप्रयोजनाः= अनुष्ठेयार्थस्मरणमेव एकं - मुख्यं प्रयोजनं येषां ते तथोक्ताः मन्त्राः।
मूलम्ः-
एवमप्यङ्गानां पाठक्रमो बलीया, ननपेक्षत्वात्। तेनाग्नेयाग्नीषोमीययोरन्तराले मुख्यक्रमानुरोधा(त्मासो)त्प्राप्तोऽपि उपांशुया जार्थाज्यनिर्वापो यथा पाठमेव भवति। अत एव प्राकृतात् क्रमात् निराकाङ्क्षाया माग्नावैष्णवमेकादश कपालं निर्वपेत्सरस्वत्याज्यभागास्यात् बार्हस्पत्यश्चरुरित्यादि विकृतौ न(कर्मा)क्रमान्तरकल्पना ॥
व्याख्याः-
अधुना मुख्यक्रमात् पाठक्रमस्य प्राबल्यं दर्शयति- एवमपीति। तत्र हेतुमाह- अनपेक्षत्वादिति। यतोऽयमनादिस्वाध्याय पाठसिध्दो, न केनचित् कल्प्या, स्तत एव मुख्यक्रमादिकं कमपि अनपेक्ष्यैव स्वार्थं विधातुं प्रभवतीत्यर्थः। पौर्णमास्यां कर्तव्यामुख्ययागास्त्रयः- अग्नेयः, उपांशुयाजः, अग्नीषोमीय इति क्रमेणक्रियन्ते। अस्मिन् क्रमे ततस्मृतिजनक तदीय याज्या पुरोनुवाक्यामन्त्रयुगलक्रमो नियामकः। यद्यपि मुख्यक्रमानुसारिणा अङ्गक्रमेण भवितव्यमिति औचित्यपर्यालोचनया प्राप्नोति। तथा सति आग्नेयहविर्निर्वापादनन्तरं उपांशुयाजाज्यनिर्वापं कृत्वा अग्नीषेमीय हविर्निर्वापः कर्तव्य आपतति। परन्तु स्वतन्त्रः ब्राह्मणपाठः विलम्बमप्रतीक्षमाण एव आग्नेयाग्नीषोमीय हविर्निर्वापानन्तरमुपांशुयाजाज्यनिर्वापं प्रापयति। वस्तुतस्तु- आग्नेयाग्नीषोमीययो रौषधद्रव्यकतया तदीयव्रीह्यादि द्रव्यनिर्वापयोर्मध्ये विजतीयाज्यनिर्वापप्रापणेन बहुतरं प्रयोगाविक्षेपमापादयतो मुख्यक्रमादयं पाठक्रम एव श्रेयानौचित्यपूर्णंश्चेति ध्येयम्। इत्थमिह अङ्गपाठप्राबल्याङ्गीकारेण उपांशुयाजाज्य धर्माणां निर्वापादीनां पौरोडाशिकनिर्वापोत्तरकालिकत्व समर्धनात् अस्यैव अध्वरकल्पायामतिदेशतः प्राप्तत्वात् आग्नावेष्णव बार्हस्पत्यनिर्वापादूर्ध्वमेव सारस्वताज्यनिर्वाप इति फलविशेषमाह- अत एवेति॥
मूलम्ः-
अग्नीषोमीये पशौ प्रकृतितः हविरासादनान्ते प्राप्ताः प्रयाजाः `तिष्ठन्तं पशुं प्रयजन्ति’ इत्यपकृष्यमाणाः अघारावप्यपकर्षन्ति। ततःपूर्वं तेषामनुष्ठाने क्लृप्तक्रमलोपाद्वैगुण्यं स्यादिति तदन्तापकर्षः। एवमाग्निमारुतादूर्ध्वमनूयाजैश्चरन्ति’ इत्यत्रापि। तदाद्युत्कर्षः। तत्रापि तदनन्तरं कर्तव्यस्य सूक्तवाकस्य ततः प्राककरणे क्लृप्तक्रमभङ्गात्।
व्याख्याः-
श्रुत्यर्थपाठादिभिः ज्ञापिते पदार्थानुष्ठानक्रमे उत्कर्षापकर्षविधिवशात् जायमानं पूर्वपरीभाव वैषम्यं दर्शयति- अग्नीषोमीये पशाविति। पूर्वत्रानुष्ठेयस्य परत्रानुष्ठानमुत्कर्षः। परत्रानुष्ठेयस्य पूर्वत्रानुष्ठानमपकर्षः। अग्निष्टोमाख्ये सोमयागे औपवसथ्येऽह्निविहितः अग्नीषोमदेवताकः पशुयागः। तस्य च दर्शपूर्णामासान्तर्गतः पयोद्रव्यकः सान्नाय्ययागः प्रकृतिः। तत्र तावत् प्रधानयागेषूपयोक्तुं पुरोडाशदधिपयोरूपाणि हवींषिनिष्पाद्य, वेद्यामासाद्य अग्निसमिन्धनाघारहोमानन्तरं प्रयाजा इज्यन्ते। अत्र तावत् विशेषवचनेन हविरासादनात्प्रागेव, हविः प्रकृतिभूते पशौ असंज्ञप्तेतिष्ठत्येव प्रयाजाः कर्तव्यत्वेन विधीयन्ते। तथा प्रकृतौ प्रधानयागानन्तरमनुष्ठीयमाना अनूयाजाः अत्र सवनीय पशुयागे आग्निमारुत शस्त्रपाठादूर्ध्वं कर्तव्यत्वेन विधीयन्ते। उभयत्रापि उत्कर्षापकर्षयोः यावदुक्तमात्रत्वे, तयोः प्रकृतौ दृष्टस्य पूर्वोत्तरप्रदार्थक्रमस्य शास्त्रीयस्य बाधप्रसङ्गात् तद्वारणा यतदन्तापकर्षः, तदाद्युत्कर्षश्चग्राह्यः। एवं च सति अग्नीषोमीये आधार सहितानां प्रयाजानामपकर्षः, सवनीये सूक्तवाकान्तानामनूयाजानामुत्कर्षश्च सिध्यति।
मूलम्ः-
अमावास्यायां `वेदं कृत्वा वेदिंकरोती’ति अपकृष्यमाणावेदिः स्वस्मात् पूर्वान् हविरभिवासनान्तान् नापकर्षेत्। निर्वापादीनां परेद्युश्चोदितत्वात्। तेन तत्र तन्मात्रापकर्षः।
व्याख्याः-
दर्शपूर्णमासाख्यौ द्वावपि यागौ द्रव्यहकालिकौ। उभयोरपि पूर्वेद्युः पर्वणियागसंकल्पपूर्वकं अग्निविहरणादिरूपमन्वाधानं क्रियते, उत्तरेद्युः प्रतिपदिसाङ्गं प्रधानयागत्रयमनुष्ठीयते। तत्र वेदिकरणं नामकिञ्चिदङ्गम्। गार्हपत्याहवनीययोर्मध्यस्थां भूमिं मन्त्रपूर्वकोद्धननप्रोक्षणग्रहणादिनां संस्कुर्वन्ति। सैव वेदिरित्युच्यते। तस्यां पुरोडाशाज्यसान्नाप्यादीनि हवींष्यासाद्यन्ते। सेयं वेदिः पौर्णमास्यां हविरभिवासनादूर्ध्वं क्रियमाणा, अमावास्यायां पूर्वेद्युरेव कर्तव्यत्वेन विहिता। अपकृष्यमाणा इयं वेदिः पूर्वोक्तप्रयाजन्यायेन स्वपूर्वकालिकं हविरभिवासनान्तमङ्गजातमप्यपकर्षतीति शङ्कामपनुदति- नापकर्षेत् इति। अतः केवलावेदिरेवापकृष्यत इत्यर्थः। अन्यथा निर्वापादेः अभिवासनान्तस्य अङ्गकलापस्य परेद्युः कर्तव्यतां बोधयत श्शास्त्रस्य बाधः स्यादित्याह- निर्वापादीनामिति। फलितमाह- तेन तत्रेति। अभिवासनं नाम- श्रवणार्थं तप्तकपालेषु स्थापितस्य पुरोडाशस्य सूक्ष्माङ्गारमिश्रितेन भस्मना आच्छादनम्। तच्च भस्मनाभिवासयतीत्युक्तम्॥
मूलम्ः-
मरुद्भ्यस्सान्तपनेभ्यो मध्यन्दिने चरुमित्यम्नाता सान्तपनीयादैवान्मानुषाद्वा (प्रतिबन्धात्)भावत्सायमुत्कृष्टाचेत् `सायमस्तमितेजुहोति’ इति कालस्यानुपादेयत्वेन `यावज्जीवमग्निहोत्रं जुहुयात्’ इति जीवनरूपनिमित्तविशेषणत्वात् तत्र प्राप्तमग्निहोत्रं किञ्चिदङ्गमपहायापि कृत्वैव सान्तपनीया कर्तव्या॥
व्याख्याः-
चातुर्मास्येषु तृतीये साकमेधाख्ये पर्वणि कर्तव्यानामिष्टीनामन्यतमा सान्तपनीया। सा च मध्यह्ने कर्तव्या। यथा कालमारब्धायामपि तस्या मिष्ट्यां केनापि प्रतिबन्धेन सायमग्निहोत्रकालात्प्रागसमाप्तायां, किं `नहिकर्मणि कर्मान्तरारंभ’ इति शास्त्रमनुसृत्य इष्टिं समाप्यैव पश्चादग्निहोत्रमनुष्ठेय, मथवा इष्टिं तथैव अवस्थाप्य, प्राप्तकालमग्निहोत्रमनुष्ठाय पश्चादिष्टिः समापनीया? इति सन्देहे, `नहि कर्मणि कर्मान्तरारंभ’ इति शास्त्रालम्बनं- इष्टिमध्ये अग्निहोत्रस्य अननुष्ठेयत्व लक्षणं पूर्वपक्षं निरस्यति- `सायमस्तमिते जुहोति’ इत्यादिना। प्रापशः कर्माङ्गानि उपादेयानुपादेयभेदेन द्विविधानि भवन्ति। तत्र यानि कृतिसाध्यानि प्रोक्षणावहननादीनि, तान्युपदेयानि। यानि तु अकृतिसाध्यानि देशकालादीनि, तानि अनुपादेयानि। कालो हि अस्माभिरनुसरणीयः, न तु अस्मदिच्छामनुसृत्य कालः प्रवर्तते। प्रकृते च सूर्यास्तमयकालः अग्निहोत्राङ्गत्वेन विहितः। तस्मिन्नेवकाले अग्निहोत्रमुष्ठेयम्। न हि यथोक्तकालादूर्ध्वं यदाकदाचित् क्रियमाणमग्निहोत्रं अस्तंगतः सूर्योऽनुवर्तेत!
किञ्च सायमस्तमितेजुहोति वाक्यस्य, यावज्जीव वाक्यस्य च एकवाक्यतायां जीवनविशिष्टास्तमयकालस्य अग्निहोत्रं प्रतिनिमित्तत्वेन, निमित्ते सति नैमित्तिकस्य अवश्य कर्तव्यत्वेन, अन्यथा प्रत्यवाय श्रवणेन च इष्टिमध्येऽपि यत्किञ्चिदङ्गलोपेनापि कर्तव्यमग्निहोत्रम्। नित्यकर्मविषये यथा शक्तिन्यायस्य वक्ष्यमाणत्वात्। न हि महाप्रभुरपि यावज्जीवमग्निहोत्रादिनित्यं कर्म सर्वाङ्गोपसंहारेण निर्वोढुं प्रभवति।
यत्तु `न हि कर्मणि’ इत्यादि वचनं तत्सावकाशकर्मान्तरविषयकं द्रष्टव्यम्॥

  • इति पञ्चमाध्याये- प्रथमः पादः। -

  • अथ पञ्चमाध्याये- द्वितीयः पादः। -
    मूलम्ः-
    वाजपेये प्राजायत्यानां पशूनामेकस्योपाकरणादि प्रदानान्तकृत्वा, परस्य तथैव कर्तव्यमिति काल्पनिकः काण्डानु समयः, वैश्वदेवीं कृत्वाप्राजापत्यैश्चरन्तीत्येककालप्रयोगेण बाध्यते। तमनु उपाकरणादयोऽपि तेषामेककाला एव प्राप्ताःसन्तोऽशक्यत्वात् क्रमेण क्रियन्त इति पदार्थानुसमय एवात्र बोध्यः॥
    व्याख्याः-

प्रधानानां बहुत्वे, तदङ्गत्वेन कर्तव्यानां पदार्थानां च बहुत्वे सति अनुष्ठाने प्रकारद्वयमुपलभ्यते। एकस्मिन् प्रधाने कृत्स्नमङ्गजातमनुष्ठाय, द्वितीयादिष्वपि तथैव कृत्स्नाङ्गानुष्ठानमित्येकः प्रकारः। स एव काण्डानु समय इत्युच्यते। काण्डशब्देन अङ्गभूतः पदार्थसमुदाय उच्यते। समयः= आचारः (आचरणम्), काण्डानुसारी आचार इत्यर्थः। एकस्मिन् प्रधाने प्राथमिकमङ्गमनुष्ठाय, तदेव सर्वेष्ववशिष्टेष्वपि प्रधानेष्वनुवर्तयित्वा, तेनैव क्रमेण द्वितीयाद्यङ्गानामप्यनुष्ठानं पदार्थानुसमयः। पदार्थ शब्देनात्राङ्गं विवक्षितम्। तदनुसारी समयः। प्राथमिकमङ्गं येन क्रमेण प्रधानेषु संयोज्यते, तेनैव क्रमेण द्वितीयाद्यङ्गानां तत्संयोजनमिति पर्यवसितोर्थः। वाजपेये `सप्तदशप्राजापत्यान् पशूना लभते’ इति विहितत्वात् सप्ददशसु पशुयागेषु कर्तव्येषु सत्सुपश्वङ्गतया कर्तव्यानि चोदकप्राप्तानि उपाकरणप्रोक्षणनियोजनादीन्यङ्गानि किं काण्डानुसमयेन कार्याणि, अथवा पदार्थानुसमयेनेति विचिकित्सायां, प्रकृतौ अग्नीषोमीये काण्डानुसमये नैव अनुष्ठानस्य दृष्टत्वात् अत्रापि तथैवानुष्ठेयमिति पूर्वपक्षिणोमतम्। तत् न युज्यते, यतोऽत्र `वैश्वदेवींकृत्वा प्राजापत्यैश्चरन्ति’ इति वचने श्रुसेन, क्त्वा प्रत्ययेन वैश्वदेव्यानन्तर्यं सर्वेषां प्राजापत्यपशूनामित्ववगम्यते। तदन्यथानुपपत्त्या सर्वेषां पशूनां सहत्वं एककालानुष्ठेयत्वरूपं प्राप्नोति। तच्च काण्डानुसमये सति नाध्यते। एकैकेन काण्डेन द्वितीयादि प्रधानयागानां व्यवधान संभवात्। न तु अङ्गसाहित्यमपि प्रधानानामपेक्षितमेव, प्रयोगविधि प्राप्तत्वात्, प्रकृतौ दृष्टत्वाच्चेति- वाच्यम्; अङ्गप्रधानसाहित्यं हि आनुमानिकम्। अतो दुर्बलम्। तच्च प्रत्यक्षवचनप्रतिपन्नत्वेन प्रबलयाक्त्वा श्रुत्याबाध्यते। ननु पदार्थानु समयस्वीकारेऽपि, पश्वन्तरेष्वपि तत्तदङ्गानां कर्तव्यतया व्यवधान संभवात् प्रधानानां साहित्यमपि मुख्यं दुर्लभमेवेति वाच्यम्; अगत्या अवशिष्टस्वसजातीयषोडपशुसंस्कारसिध्यर्थं षोडशक्षणमात्र व्यवधानस्य सोदं शक्यत्वात्। काल्पनिकः= `प्रकृतिवद्विकृतिः कर्तव्या’ इति न्यायेन कल्पित इत्यर्थः।
मूलम्ः-
यत्राश्वप्रतिग्रदृष्ट्यां शतं सहस्रं वा पुरोडाशास्तत्र पदार्थानुसमये सर्वेषामधिश्रयणान्ते प्रथमस्योद्वासनं चेत् क्रियते, तस्यदाह एव स्यादिति प्रधान बाधात् तादृशस्थलेऽपि काण्डानुसमय एव। मुष्टिकपालावदानेष्वपि काण्डानुसमय एव, यथा- एकस्य चतुरोमुष्टीन्निरूप्यपरस्य निर्वपेत्॥
व्याख्याः-
`यावतोऽश्वान् प्रतिगृह्णीयात्तावतो वारुणान् चतुष्कपालान्निर्वपेत्’ इति विहिता अश्वप्रतिग्रहेष्टिः। इयं चदातुरेव न प्रतिग्रहीतुरिति तृतीय-चतुर्थपादे निर्णीतम्। यदा शतं सहस्रं वा अश्वान् ददाति कश्चित् सः तद्दोषपरिहारार्थं दत्ताश्वसमसंख्याकाः, चतुष्कपाल पुरोडाशद्रव्यकाः, वरुणदेवताकाः इष्टीः कुर्यात्। यत्र अत्यधिक संख्याकाः पुरोडाशाः कर्तव्याभवन्ति, तत्र पुरोडाशसंस्काराणां तप्तकपालाधिश्रयण- प्रथन-श्लक्ष्णीकरण- पर्यग्निकरण- उल्मुकप्रतितपनादीनां किं काण्डानुसमयेनानुष्ठान,मुतपदार्थानुसमयेनेति सन्देहे समाधानमुच्यते- यत्राश्वप्रतिग्रहेष्ट्यामिति। पदार्थानु समयपरिग्रहे बाधकमाह- सर्वेषामधिश्रयणान्ते इत्यादीना। न केवलं पुरोडाशदाहमात्रं, अपि तु द्रव्यानाश्वात् प्रधानयागस्यापि विघातः। अतस्तत्र काण्डानुसमय एव ग्राह्यः। इमंन्यायं अन्यत्राप्यतिदिशति- मुष्टिकपालेति। तथा हि- पौर्णमास्यां आग्नेयोऽग्नीषोमीयश्चेति द्वौपुरोडाशयागौ भवतः। तत्र पुरोडाशीयानां निवीपावसरे `चतुरोमष्टीन् निर्वपेत्’ इत्युक्तत्वात् प्रथमं आग्नेयार्थं चतुरोमुष्ठीन् निरूप्य, ततोऽग्नीषोमीयार्थं चतुरोमुष्टीन्निर्वपेत्- इति काण्डानुसमय एव। न तु आग्नेयार्थँ अत्रैकोमुष्टिः, अग्नीषोमीयार्थं तत्रैकोमुष्टिः, ततः अत्र द्वितीयोमुष्टिः, तत्रापि द्वितीयः, एवं तृतीयश्चतुर्थश्चेति विभज्यनिर्वपेदिति। एवं कपालोपधानमपि। तत्तन्मन्त्रैः आग्नेयस्याष्टौ कपालानुपधाय अग्नीषोमीयस्यैकादश कपालानुपदध्यात्। तथैवावदानमपि पुरोडाशावदानक्रमः इत्थं श्रूयते- सकृदुपस्तृणाति, द्विर्हविषोवद्यति, सकृदभिघारयति, चतुरवत्तं जुहोति- इति। अनेन क्रमेणावदाय आग्नेयं हविर्हुत्वा, तथैवाग्नीषोमीयमपि जुहुयात्। न तु उभयत्रापि प्रथमतः उपस्तरणं, ततोऽवदानं, ततोऽभिघारणं, ततः प्रदानमिति पदार्थानुसमयः।
मूलम्ः-
नक्षत्रेष्ट्यादौ अग्नयेस्वाहाकृत्तिकाभ्यस्स्वाहेत्यादय उपहोमाः प्राकृतान् वारिष्ठान् कृत्वैवकर्तव्याः, न तु ततः पूर्वम्, प्रधानानन्तरं प्रधानविधिवाक्यशेषेण `प्रकृतिवद्विकृतिः कर्तव्या’ इति शब्देन प्रापितात्प्राकृतात् पश्चादेव वैकृतस्य प्राप्तेः॥
व्याख्याः-
कृत्तिकादि भरण्यन्त नक्षत्रदेवता उद्दिश्यक्रियमाणाः काम्या इष्टयः तैत्तिरीयब्राह्मणे तृतीयकाण्डे उपलभ्यन्ते। एकैकस्यामपीष्टौ कर्तव्याः `अग्नये स्वाहाकृत्तिकाभ्यस्स्वाहा’ इत्यादि मन्त्रसाध्या उपहोमा अपि प्रधानहोमादूर्ध्वंकर्तव्यास्तत्रैव श्रूयन्ते। नक्षत्रेष्टीनां दर्शपूर्णमासविकृतित्वात् तत्रापि अस्मिन्नेवस्थाने विहिताः नारिष्टहोमा अपि अत्रातिदेशेन प्राप्नुवन्ति। तत्र केषां पूर्वमनुष्ठानं, केषां परमिति सन्देहे- अत्रत्या उपहोमाः उपदिष्टत्वेन अतिदिष्टनारिष्ठेभ्यः प्रबलत्वेऽपि कल्प्योपकारतया दुर्बला एव भवन्ति। नारिष्ठास्तु प्रकृत्युपकारकतया क्लृप्तत्वात् विकृतेरिति कर्तव्यताकांक्षायां, त एव पूर्वमुपतिष्ठन्ते, तावता शान्ताकांक्षा च भवति विकृतिः। तदीया आकांक्षा च उपकारकाङ्गविषयिण्येव, नत्वङ्गमात्रविषयिणी। तथा च उपहोमाः विकृत्यङ्गतां भजमानाः स्वीयोपकार्याकांक्षयैव, अर्थात् स्थानत एव भजन्ते। अतो नारिष्ठान्कृत्वैव उपहोमाः कर्तव्या इति पर्यवस्यति। तदेतत्सर्वं गृह्णन्नाह- नक्षत्रेष्ट्यादाविति। प्रधानविधिशेषेणेति- प्रधानविधिः= `नक्षत्र सत्रेण ज्योतिरानन्त्यायज्योतिषा यजेत’ इत्येवंरूपः। तत्र फलकरणयोः श्रुतत्वेन तद्विषये नैराकांक्ष्येऽपि, अश्रुतेति कर्तव्यता विषयिणी या, `कथम्?’ इत्याकांक्षा, तत्पूरणार्थं प्रवृत्तेन प्रधानविधि वाक्यशेषेण `प्रकृतिवद्विकृतिः कर्तव्या’ इति शब्देन= वाक्येनेत्यर्थः। प्राकृतात्= प्रकृत्युपकारकत्वेन क्लृप्तात्।
इति पञ्चमाध्याये- द्वितीयः पादः।

अथ पञ्चमाध्याये- तृतीयः पादः

मूलम्ः-
प्रकृतौ पञ्चप्रयाजा, स्त्रयोनुयाजाः। पशौत्वेकादशप्रयाजा एकादशानुयाजाः। तत्रैकादशत्वं प्रयाजादि स्वरूपेऽनर्थकम्, न हि पञ्चत्रयोवैकादशी भवितुमर्हन्ति। अतस्तेषां प्रयोगे इयं संख्यासु संपादिनी।
व्याख्याः-
प्रकृतौ= दर्शपूर्णमासयोः। पशौ= पशुद्रव्यकेयागे अग्नीषोमीये। अनर्थकम्= कर्तुमशक्यमित्यर्थः। न हि प्रयत्नशतेनापि एकस्य घटस्य घटद्वयीकरणं शक्य संभवम्। भेदनेन द्विधाकरणेऽपि घटशकलावेव तौ भवतः, न तु घटौ। अतः प्रकृतेऽपि स्वरूपतः पञ्चानां प्रयाजानां, त्रयाणामनूयाजानां वा एकादशत्व संपादनस्य दुर्घटतया, एकादशत्व विधात्र्याः श्रुतेस्स्पर्थक्याय संख्या प्रयाजप्रयोगाश्रिता स्वीक्रियते। तथासति पञ्चापि प्रयाजान् द्विवारं प्रयुज्य, चरमस्य पुनरेकवारप्रयोगेण एकादशत्व संख्यासिध्यति। प्रयोगः= अनुष्ठानावृत्तिरित्यर्थः।
मूलम्ः-
तिस्र उपसदः प्रकृतौ। विकृतौ तु षट्। तत्र संस्थानवृध्यैवावृत्तिः। दण्डकलितवदावृत्तौ तु तृतीयां कृत्वा प्रथमायां क्रियमाणायां क्लृप्तक्रमभङ्गस्यात्।
व्याख्याः-
आवृत्तिः द्विविधा- दण्डकलितवदावृत्तिः, स्वस्थान विबृद्धिरूपावृत्तिश्चेति। यथा दण्डेन भूमिं संमिमानः आमूलाग्रं कृत्स्नं दण्डं पुनःपुनः पातयति न तु दण्डावान्तर विभागानुपयुङ्क्ते, सेऽयं दण्डकलितवदावृत्तिः। पूर्वत्र प्रयाजानूयाजानां एकादशत्व संपादने परिगृहीता। अधुना स्वस्थान विवृद्धिरूपां द्वितीयाप्रकारामावृत्तिं परिगृह्यतिसृणामुपसदां षट्त्वं साधयति- तिस्र उपसद इति। उपसदो नाम सोमयागाङ्गतया ततः पूर्वं दिनत्रये अनुष्ठेयाः, यागविघ्नकरासुर परिभवार्थाः इष्टयः। ताश्च `तिस्र एव साह्नस्योपसदः’ इति वचनेन प्रकृतिभूते अग्निष्टोमेतिस्रः कर्तव्यत्वेन विधीयन्ते। सोमविकृति विशेषेताः षट् संख्याकाः कर्तव्यत्वे न विहिताः। कथं तिसृणां षट्त्वसंपादनमिति जिज्ञासायामाह- स्वस्थानवृध्यैवावृत्तिरिति। तद्यथा- प्रथमाया उपसदः स्वस्थानं- दीक्षानन्तरदिनम्। तस्मिन् दिने प्रथमामुपसदमनुष्ठाय, तामेव पुनरनन्तरदिनेऽप्यनुतिष्ठेत्। तदनन्तरदिने अर्थात्- दीक्षादिनमारभ्य षष्ठेदिने तृतीयामुपसदमनुष्ठाय तामेव पुनरनन्तरदिनेऽप्यनुतिष्ठेत्। एवं दिनषट्के प्रथमद्वितीयतृतीयोपसदां द्विर्द्विरनुष्ठानात् षडुपसदो भवन्ति। स्वस्थानशब्देनात्र स्वानुष्ठानायशास्त्रेण निर्दिष्टं दिनंग्राह्यम्। तत्रैवद्विरनुष्ठानात् वृद्धिर्द्रष्टव्या। नात्र दण्डकलितवदावृत्तिर्ग्रहणमर्हति; प्रथमायाः उपसदः द्वितीयावृत्तौ चतुर्थीत्वापातात्। उपसदनन्तरभाविनः प्रबर्ग्योद्वासनादेः तत्पूर्वभावित्वापत्त्या शास्त्रीयक्रमभङ्गप्रसङ्गाच्च।
मूलम्ः-
`एकविंशतिमनुब्रूया’दिति सामिधेनीवृद्धौ, `अन्ते तु बादरायण’ इति न्यायेन `आगन्तूनामन्ते सन्निवेश’ इति प्राप्तेऽपि याः धाय्याशाब्दिता ऋचः `पृथुपाजवत्यौधाय्ये’ इत्याद्यास्तासां `इयं वैसमिध्यमानवती- असौ समिद्धवतीयदन्तरातद्धाय्या इति अन्तरालत्वेन स्तुतत्वात् समिध्यमान समिद्धवत्योरन्तराले निवेशः। अन्यासामागन्तूनामन्त एव। अत एव त्रै(धातव्या)धातवीयायां `अग्नेत्रीतेवाजिना’ इत्येतस्या स्त्रिष्टुभोऽन्तेनिवेशेन, त्रिष्टुभापरिदधाति’ इति दर्शनमुपपद्यते॥
व्याख्याः-
`दर्शपूर्णमासयोः सामिधेनी प्रकरणे एकविंशतिमनुब्रूयात्प्रतिष्ठा कामस्य’ इति कश्चित् काम्यसामिधेनी पक्षः श्रूयते। दर्शपूर्णमासीय हौत्रकाण्डे पठितानां एकादशा नामेव ऋचां `त्रिः प्रथमामन्वाह त्रिरुत्तमा’मित्युक्तरीत्या प्रथमोत्तमयोस्त्रिरावृत्त्या पञ्चदशत्वसंपादनेन, `पञ्चदशसामिधेनीरन्वाह’ इति प्राकरणिकं वचनमन्वर्थीकृतं नैत्यकेप्रयोगे। इदानीं काम्येप्रयोगे श्रूयमाणं सामिधेनीनां एकविंशतित्वं कथं संपादनीयमिति चिन्तायां- अपेक्षितानां ऋचां

श्रीसद्गुरुःशरणम्

व्याख्यातुर्विज्ञापनम्
दैविकीघटना :-
इतः पञ्चषवत्सरेभ्यः पूर्वं अपेक्षित कतिपय पुस्तक चिक्रीषया काशीस्थ चौखम्बा संस्कृतपुस्तकसंस्थायाः सूचीपत्रं पश्यतो मम श्रीमन्नारायणतीर्थप्रणीतस्य भाट्टभाषाप्रकाशस्य नामधेयं दृष्टिगोचरमभूत्। इतःपूर्व मदृष्टश्रुतचरत्वात्, अभिमतमीमांसाशास्त्र विषयकत्वात्, आन्ध्रपण्डितप्रणीतत्वात्, अल्पमूल्यत्वाच्च सञ्जातकुतूहलः, तत्पुस्तकं प्रेषणीयमिति-चौखम्बा संस्थाधिकृतेभ्यः पत्रमलिखम्। तेच यथाकालं प्राहिण्वन्।
तच्चपुस्तकं, की.श. 1900 संवत्सरे मुद्रितं, 61 पृष्ठात्मकं, जीर्णपत्रं, इतस्ततः पत्रपरिवर्तनमात्रेणापि शैथिल्यमापद्यमानं, नैकविधाक्षर पद वाक्यस्खालित्योपेतमपि-स्थूलस्फुटाक्षरतया, औत्सुक्यात् कथञ्चित् सप्ताहाभ्यन्तर एवाधीत्यसन्तुष्टि-मसन्तुष्टिंचान्वभवम्।
सन्तुष्टिः-असन्तुष्टिश्च :-
ग्रन्थस्य वेदार्थनिर्णयोपयोगिमीमांसा मीमांसा विषयकत्वं, तत्रापि अतिगहन शास्त्रज्ञानोपकारि प्रकरणग्रन्थरूपत्वं, एतज्जातीयतया अधुना छात्रैरधीयमान न्यायप्रकाश-अर्थसङ्ग्रहमीमांसापरिभाषाद्यपेक्षया मूलशास्त्रभूतद्वादशलक्षणीस्थितसर्वार्थसङ्ग्राहकत्वं, विषयप्रतिपादने विस्पष्टता, भाषायां च सारल्यं, विशिष्य ग्रन्थकर्तुः आन्ध्रब्राह्मणविद्वद्वंशीयत्वं चेत्यादिषु सन्तुष्टिकारणेषु सत्सु- अतिप्राचीनकालप्रणीतस्यापि पठनपाठन प्रचारमनवाप्य, यत्र क्वापि कोणे प्रक्षिप्तत्वं, चिरेण मुद्रितस्यापि, नकेवलं पूर्वोक्तैः अक्षरपदवाक्यस्खालित्यैः, अपितु शोधकानां शास्त्र सम्प्रदायानभिज्ञत्वा श्रद्दधानन्वादिप्रयुक्तैरनेकै श्शब्दार्थदोषैरभिभूयमानत्वं, शुद्धाशुद्धपत्रिकयापि शून्यत्वं- इत्यादीनि असन्तुष्टिकारणान्यभवन्।
अत्रत्याः कतिचन विशेषाः :-
अस्यग्रन्थस्यप्रणेतुः परमपूजनीयस्य श्रीमन्नारायणतीर्थस्य ग्रन्थ रचनाप्रकारं तथा ग्रन्थसंस्करणप्रकाशनयोः स्वीकृतस्य प्रयासस्य-प्रयोजनस्य च विशेषान् प्रायशः अत्र प्रथमतः प्रकाशितया काशीस्थ प्रमुखपण्डितानां श्रीस्वामि भागवताचार्याणां भूमिकया अवगन्तुं शक्नुवन्ति प्रियपाठक महाशयाः। अन्यांश्चकांश्चन मया विदितान् इहनिवेद्यमानानपि विदाङ्कुर्वन्तु विपश्चिदपश्चिमा इति सविनयमभ्यर्थये।
(1) (A) तइमे ग्रन्थकर्तारः श्री तल्लाबज्झुल नीलकण्ठशास्त्रिणां तनूभवाः, गोविन्दशास्त्रिनामधेयाः काशीक्षेत्र एव निवसन्तः बाल्ये ब्रह्मचर्याश्रम एव सद्गुरुभ्यः वेदं, वेदाङ्गानि, न्याय-पूर्वोत्तरमीमांसादि शास्त्राणि च कुशाग्रधिषणतया अल्पेनैवकालेनाधीत्य प्रमुख काशीपण्डितानां प्रथमश्रेण्यां स्थानमलभन्त। तदानीमेव पूर्वपुण्यवशतः सांसारिक विषयतृष्णा विमुखास्सन्तोऽपि सुहृद्बन्धुजनानुरोधेन अनुरूपां कन्यां परिणीय, गृहस्थधर्मं निर्वहन्तः, शिष्यानध्यापयन्तश्चासन्। तस्यामेव दशायां `भाट्टभाषाप्रकाशाख्यस्यास्यग्रन्थस्य रचनामारभ्य समाप्तेः प्रागेव दैवात् सद्गुरु श्रीशिवरामतीर्थस्वामिना मनुग्रहेण सन्न्यासदीक्षां स्वीकृत्य, ब्रह्मतत्त्वविचारेण, तीर्थक्षेत्राटनेन च कालं गमयन्तिस्म।
(B) कतिपयवत्सरानन्तरं यदच्छयापुनः काशीं प्राप्ता एते महाभागाः आप्तैः अभिज्ञैः प्रार्थिताः सन्तः, “आरब्धस्यान्तगमन"मितिन्यायेन ग्रन्थं समापयामासुः। अतएव पूर्वषट्का दुत्तरषट्के, तत्रापि उत्तरोत्तरं विषयविचारः तनुतां प्रतनुतां च प्राप्त इवावभासत इति केचिदभिप्रयन्ति।
(c) तथा-काश्यां “चौखम्बा” द्वारा (1900 स.) मुद्रिते अस्मिन् भाट्टभाषाप्रकाशग्रन्थे, प्रथमाध्यायान्ते “इति नीलकण्ठसूरिसूनु गोविन्दविरचिते भाट्टभाषाप्रकाशे प्रथमोऽध्यायः” इति वाक्य दर्शनात्, ततः अध्यायान्तरेषु तदभावात्, ग्रन्थसमाप्तावुपलेभ्यमानात्- “भगवच्छिवरामतीर्थशिष्यो मुनिनारायण तीर्थनामधेयः। व्य(अ)तनोदधिकाशिभाट्टभाषाग्रथनं भाट्टनयप्रवेशहेतोः” इति श्रीपरमहंस परिव्राजकाचार्यभगवच्छिवरामतीर्थपूज्यपादशिष्य श्रीनारायणतीर्थमुनिविरचितो भाट्टभाषाप्रकाशोऽयं समाप्तिमगमत्। हरिः ओंतत्सत्” इति पद्यगद्ययोरुपलम्भाच्चपूर्वोक्तोवादस्सालंबन एवेतिभाति।
(D) गानकलाकौशलं, भगवति श्रीकृष्णेनिरुपमाभक्तिश्चैषां अप्रयत्नलब्धे, आजन्मसिद्धे आभरणे, निर्वाणकारणे चाभूताम्। एतैरेव प्रणीता “श्रीकृष्णलीलातरङ्गिणी” भक्तिसङ्गीतसंप्रदाये मणिदीपायिता अनन्यसाधारणं महिमानमावहति।
(2) सर्वतः प्रथमं ग्रन्थारम्भेशिष्टाचारपरिप्राप्तं इष्टदेवता-गुरुनमस्कारादिरूपं मङ्गलाचरणमुपेक्ष्य `प्रणम्य धर्ममीशानं’ इत्येवं धर्मप्रणामनिबन्धनात् अस्य ग्रन्थकर्तुः, वैदिकधर्मस्यैव चतुर्विधपुरुषार्थसाधनक्षमत्वं, तस्यैव जगच्चक्रप्रवृत्तिहेतुतया ईशानत्वंच अभिमतमित्यवगम्यते। किञ्च `धर्मं-ईशानं’ इतिपदयोः विशेषण विशेष्यभावस्य पर्यायेण परिवर्तने पूर्वोत्तरमीमांसयोः नकेवलं सिद्धान्तसिद्धोऽर्थः, अपितु तयोः साध्यसाधनभावेन समञ्जस्यमपिकयाचन विधयासेत्स्यतीति सुमनसस्सङ्गिरन्ते।
(3) भगवती भागीरथीव त्रिपथगायां पूर्वमीमांसायां बहुसम्मत श्रीमत्कुमारिलभट्टसम्प्रदायानुयायित्वमस्य ग्रन्थस्य `भाट्टभाषाप्रकाशं’ इति नामधेयमेव अभिव्यनक्ति। किञ्च-ग्रन्थोपक्रमे प्रायशः एवंविधेषुग्रन्थेषु धर्मं लक्षयितुं चोदनालक्षणोऽर्थो धर्मं इति जैमिनिसूत्रं, वेदबोधितेष्टसाधनताकत्वमिति प्राचीनविद्वद्वाक्यं, नव्यग्रन्थेषु उदाह्रियमाणं प्रश्यामः। अत्रतु क्षीमद्भट्टपादप्रणीतायाः `फलतोऽपिचयत्कर्म’ इतिकारिकायाः धर्मलक्षणत्वेन निबन्धनं-श्रीमद्भट्टपादविषये, तत्संप्रदायविषयेचविद्यमानं ग्रन्थकर्तुः निरुपमानमभिमानमाविष्करोति।
(4) ग्रन्थकारा इमे न केवलं दाक्षिणात्याः, अपि तु आन्ध्रदेशीयाश्चेतिस्थिरीकरोत्ययंवक्ष्यमाणः सन्नवेशः। तथाहि- मीमांसादर्शने प्रथमाध्यायस्य तृतीयस्मिन् स्मृतिपादे “तेष्वदरशनाद्विरोधस्य” ( ) इत्यदिसूत्रमवलम्ब्य प्रवृत्ते पञ्चमाधिकरणे वार्तिककारीय वर्णकान्तरविवरणे बहुभिः व्याख्यातृभिः मातुलसुतापरिणयाचारस्य स्मृति विरुद्धत्वेन अप्रामाण्यमुक्त्वा समापितत्वेऽपि, तीर्थं चरणास्तावत् आचारस्य प्रत्यक्षश्रुत्यनुगृहीतत्वं प्रदर्श्य अनयोः स्मृत्याचरयोरुभयोरपि श्रुतिमूलकत्वेन तुल्यबलत्वेसति षोडशिग्रहणाग्रहणवत् वैकल्पिकत्वमुपपाद्य, स्मृत्यन्तरानुरोधेन देशभेदात् विकल्पस्य व्यवस्थितत्वमपि प्रसाध्य, आन्ध्रदेशीयाचारस्य धर्म्यत्वं निरचैषुः॥
(5) “स्वाध्यायोऽध्येतव्य” इति विधिवाक्यार्थविवृण्वद्भिःग्रन्थकृद्भिः तत्र शाब्दीभावनां प्रस्तुत्योक्तम्- `तत्र शाब्द्यामध्ययने प्रवृत्तिः फलम्। करणं तव्यप्रत्ययः। वेदे वक्तभावेऽपि लोके ग्रामोगन्तव्य इत्यादौ अयं मामनेन शब्देन प्रवर्तयतीति प्रत्ययाच्छब्दस्यैवकरणत्वदृष्टेः’
इति। सर्वत्र स्वाभिमतमर्थमवबोधयितुमेव शब्दः प्रयुज्यते। लिङ्गादिशब्दोऽपि तथा। प्रकृतेलिङर्थे तव्यप्रत्ययो विहितः। श्रोताचेत् शब्दार्थं संबन्धाभिज्ञः- `अयं मां प्रवर्तयतीति’ जानाति। तावता शब्दप्रयोगप्रयोजनमवसितं भवति। तत ऊर्ध्वं श्रोतुः ग्रामगमनादौप्रवृत्तिर्वा, निवृत्तिर्वातस्य प्रमाणान्तरावगतेष्टानिष्टसाधनताज्ञान प्रयोज्या भवति। इष्टसाधनं चेत् प्रवर्तते, अन्यथा न प्रवर्तते। तथा च - लिङादिशब्द एव कर्तव्यताज्ञानं जनयतीति तस्यैवकरणत्वं युक्तम्।
इत्थंलिङ एव शब्दभावनाकरणत्वे उपपद्यमाने मीमांसान्यायप्रकाश-मीमांसाशास्त्रसारकृदादीनां लिङ्ज्ञान पर्यन्तमनुधावनं किंनिबन्धनमिति न ज्ञायते। किञ्च व्यापारवदसाधारणकारणं हि-करणमिति व्यवह्रियते?, लिङ्गज्ञानस्य शाब्दभावनाकरणत्वाभ्युपगमे, तत् कीदृशं व्यापारान्तरमपेक्षेतेत्यालोचनीयम्। जैमिनीयन्यायमालाविस्तर-तन्त्रसिद्धान्तरत्नावल्यादिषुलिङ एव करणत्वमुक्तमितिनाविदितमिदंविदुषाम्।
अधुना मीमांसा शास्त्राध्ययन प्रणाल्यां प्रथमकक्ष्याकैः छात्रैरधीयमानेषुग्रन्थेषु मीमांसापरिभाषा, अर्थसङ्ग्रहः, न्यायप्रकाशश्चेत्येतेषां नामानि प्रायशः श्रूयन्ते। तेषां मीमांसापरिभाषा शब्दतोऽर्थतश्चनातिकठिनापि शास्त्रीयं प्रमेयं क्वचिदतिसंक्षेपेण क्वचिदति विस्तरेण च उपक्षिपन्ती, तच्छास्त्रीय प्रौढग्रन्थाध्ययनानुरूपां व्युत्पत्तिमधातुं नक्षमत इति अभिज्ञामन्यन्ते। अर्थसङ्ग्रहस्तु-न्यायप्रकाशात् यथातथं कानिचित् पदानि वाक्यानि च परिगृह्य, कानिचित्परित्यज्यसङ्कलितो नामान्तरेण प्रख्यापितश्च ग्रन्थ इति सर्वविदितम्। तदध्ययनेनापि तच्छास्त्रीयप्रौढग्रन्थाध्ययनयोग्यता सिध्यति-नवेति सन्देहास्पदमेव। श्रीमदापदेव प्रणीतोन्यायप्रकाशस्तु सर्वधासमुचितः व्युत्पत्तिजननक्षमः प्रकरणग्रन्थ इति, न केवलं मीमांसकैः अन्यैरपि शास्त्रज्ञैः श्लाध्यते। परन्तु विमर्शकलाकुशलाः कथयन्ति- मूलशास्त्रभूतायां द्वादशलक्षण्यां पूर्वषट्कगता एव विषयाः आपदेवेनात्रसन्निवेशिताः, उत्तरषट्कगतानामनेकेषां मुख्यविषयाणामत्र प्रासङ्गिकमेवोदाहरणं, नतु विवरणमित।
अहं तु चिन्तयामि- यदि ते अन्ते वासिनः न्यायप्रकाशेनसाकं भाट्टभाषाप्रकाशमप्यधीयीरन्- अस्मिन् द्वादशस्वप्यध्यायेषु सर्वेष्वपि पादेषु सन्निविष्टानां मुख्यविषयाणां सङ्गृहीतत्वात् मीमांसा शास्त्रविज्ञानं- लक्ष्यलक्षणसमन्वयपरिष्कारभासुरं सत्- सुगन्धं बन्धुरसुन्दरमन्दारमिव सहृदयहृदयानन्दकरं बहुशोभनं च भविष्यतीति।
व्याख्यानप्रवृत्तिनिमित्तम् :-
एवंस्थिते- ग्रन्थस्यनातिकठिनत्वेऽपि सुकुमारमतीनामाधुनिकछात्राणां अपरिचित शास्त्रसंप्रदायानां सव्याख्यानत्वे सत्वरोपयोगाय प्रभविष्यतीति भावनया मया व्याख्याकरणाय सादरमभ्यर्थिता अपि द्वित्राः प्रमुख पण्डिताः कैरपिकारणैः यदा नान्वमन्यन्त, तदा किङ्कर्तव्यतामूढाः, आत्मानमल्पप्रज्ञमवगच्छन्नपि औत्सुक्यत् सर्वज्ञं सर्वशक्ति सर्वमङ्गलाजानि विश्वेश्वरं, सद्गुरुवरांश्च संस्मरन् व्याख्यानमारभ्य तत्र तत्र प्रसक्तान् संशयान् मूलग्रन्थपर्यालचनेन, गुरुजनानुग्रहेण च अपाकुर्वन्, शनैः शनैः मासद्वयेन समाप्तिमगमयम्। मूलग्रन्थकाराभिप्रायं, औचित्यंचानुसुत्यव्याख्यामिमां बालप्रियाख्यां अकरवम्।
यद्यपि मन्दप्रज्ञेन मादशेन कृता इयं व्याख्या -
“पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपस्य समाधानं, व्याख्यानं पञ्चलक्षणण् ॥”
इति प्राचीन लाक्षणिक वचनानुसारेण पञ्चलक्षणा सती, भूमन्यायेन मुख्यव्याख्यानरूपत्वमलभमानापि, लिङ्गसमवायेन वा तत्पदमर्हतीति विश्वसिमि।
किं बहुना? अत्रत्याये केचन गुणास्तेसर्वे अस्मद्गुरुचरणानां करुणा कटाक्षपरिणामा एवेति-
वस्तुस्थितिकथन मेवैतत्। दोषास्तु मदीयाज्ञानतमः प्रतिमानभूता एवेति मन्वानाः क्षन्तुमर्हन्ति सन्तः श्रृणुमः खलु-
“गुणदोषौ बुधोगृह्णन् इन्दुक्ष्वेला विवेश्वरः ।
तत्राद्यं शिरसाधत्ते, परंकण्ठे नियच्छति ॥”
इति शुभाषितम्।
कृतज्ञता …………..

]