[[नयविवेकः Source: EB]]
[
?R?0॥ श्रीः ॥
?R?0नयविवेकः
?R?0(भवनाथप्रणीतः)
?R?0प्रथमाध्याये प्रथमः पादः
?R?0 गणाधिपं ग्रहान् वन्दे हरिं हरमुमां गुरून् ।
?R?0 वाग्देवीं स्वर्धुनीं विप्रान् कर्तुं गुरुनये कृतिम् ॥ 1 ॥
?R?0 विहाय विस्तरं शब्दसौन्दर्यपरनिन्दने ।
?R?0 व्यज्यते भवदेवेन तत्त्वं नयविवेकतः ॥ 2 ॥
?R?0 महता प्रणिधानेन शक्यमेव विधान्तरम् ।
?R?0 लोकानुमतमित्येव शालिकोक्तं प्रसाध्यते ॥ 3 ॥
?R?0 ग्रन्थेऽस्मिन् वस्मयो भावी नवा किं तस्य दुष्करम् ।
?R?0 यो ददाति हि सर्वस्वं सहस्रोत्पत्तिशासनम् ॥ 4 ॥
?R?0अथातो धर्मजिज्ञासा ॥ 1 ॥
?R?0 देवगुरुपूजास्तुतिनमस्कारादिरूपं मङ्गलमुच्यते ।
?R?0 “?Rमङ्गलाचारयुक्तानां विनिपातो न विद्यते” ?R॥
?R?0 इत्यादिस्मृतेश्चाभिमताविनिपातोऽस्य फलम् । ?R?0ग्रन्थारम्भे च पक्षप्राप्तविघ्नहेतुपापक्षयापेक्षया यन्मङ्गलं युक्तम् , तन्निवेशनं च ग्रन्थे युक्तम् , महापुरुषकृतस्तुत्याद्यनुकीर्तनाच्छिष्याणां महामङ्गलार्थम् । तदिह सत्रभाष्यटीकासु न निवेशितम् । तद् दृष्ट्वा न कृतमित्यपि भाति । मैवम् , नित्यं मङ्गलाचारयुक्तत्वात् सूत्रकारादीनाम् । सूत्रे चाथादिपदं तत्कालमङ्गलमपि सूत्रकृतः ;?R तन्निवेशिनानुकीर्तनाच्छिष्याणां भाष्यकारादीनामपि मङ्गलं सिद्धम् ।
?R विषयप्रयोजनपरमिदं सूत्रमिति परमतम् । तन्मन्दम् ;?R वेदाध्ययनस्याविवक्षितार्थतया हि नाध्ययनविध्याक्षिप्तं
?Rशास्त्रमित्यारम्भहेत्वभावादनारभ्य तां निवर्तयितुं युक्तम् ;?R विषयस्त्वापातप्रतीतोऽपि वेदार्थाऽस्तु ;?R प्रयोजनं चाननुष्ठानरूपमेवास्तु । न चाननुष्ठानमाद्यपूर्वपक्षनयमात्रादिति न शास्त्रारम्भः, अविवक्षाया अपि विनियोगोपादानादिलक्षणापेक्षत्वात् । यथारिप्सितमप्रयोजनमितिचेत् , तन्न शास्त्रारम्भस्तावदाक्षेप्तुमशक्यः ।
?R ‘?Rबहुविद्यान्तराश्रितत्वान्मीमांसायाः प्रयोजनापेक्षा शुश्रूषूणाम्’ ?Rइत्यपि मन्दम् , आप्तप्रवर्त्यत्वादेव प्रयोजनवत्त्वनिश्चयात्तेषाम् । अथ विषयप्रयोजनोक्त्चैव तत्प्रवर्त्यता, तन्न ;?R साङ्गवेदाध्येतुः स्वोपयुक्तार्थधीर्मनाक् इति तत्सम्यक्त्तेच्छोस्तदुपायोन्मुखस्यानर्थपरत्वधिया विमुखतापत्तावर्थपरत्वोक्त्या च तन्निवृत्त्यर्थं विषयप्रयोजनज्ञं प्रत्येव सूत्रम् , न त्वाद्यप्रवृत्यर्थम् । अस्तु वानुषङ्गाद्विषयप्रयोजनधीः ;?R अतो न विषयप्रयोजनपरमिदं सूत्रम् ।
?R अत्र च यद्यपि परमते ‘?Rलोके’ ?Rइत्यादिभाष्यस्य षडर्थानुक्त्वा दशपक्षी चापरोक्ता ;?R तथाप्यथशब्ददूषणार्थमौचित्यानुभाषणपरत्वमेव स्वीकृतम् । तदपि मन्दं मत्वा गुरुः सप्तदशमर्थमाह । मन्दता चोचितानुवादमात्रपरत्वाद्वाक्यान्तरार्थत्वात् अथपदमात्रदोपपरत्वात् अतःपदस्य लौकिकार्थताननुकीर्तनात् । अत उक्तम्- “?Rअथात इत्येतस्मिन् पदद्वयेऽलौकिकार्थाशङ्कानिवृत्तिः प्रयोजनम्” ?Rइति । “?Rनाध्याहारादिभिरेषां कल्पनीयोऽर्थः -” ?Rइथि अस्यार्थः - शब्दशक्तिर्न कल्प्या, न त्वध्याहारादि सूत्रे वार्यते । न चैतावन्मात्राच्छङ्का न निवृत्तेत्येतावता नास्य निवृत्त्यर्थता । शङ्का चेत्थम्- स्वाध्यायाध्ययनविधेराचार्यकविध्यधिकारपरत्वेनाध्ययनस्यानर्थपरत्वादविवक्षितार्थो
?Rवेद इति नाध्ययनानन्तरा तद्धेतुका वेदार्थजिज्ञासा युक्तेतु सामयिकार्थं पदत्वयमिति । दृष्टश्च पाणिनिपिङ्गलादिग्रन्थे समयः । अनुक्ते च कस्मिंश्चित्किमपेक्ष्य “?Rअथातः” ?Rइति ??R न चार्तआदुपस्थितं वेदाध्ययनमपेक्ष्येति वाच्यम् ;?R अनर्थपरत्वाद्वेदस्येति तन्निवृत्त्यर्थं लोक इत्यादि यत्नगौरवं प्रसज्येतेत्येवमन्तं भाष्यम् । अध्ययनविधेरर्थबोधाधिकारपरत्वादर्थबोधस्य च मीमांसाधीनत्वादध्ययनविधिरेवानन्तरं शास्त्रारम्भाक्षेपक इति लौकिकार्थं पदद्वयमिति शास्त्रारम्भप्रतिज्ञासूत्रं लोक इत्यादिना लौकिकार्थत्वमुक्त्वोपपादितम् । धर्मजिज्ञासापदे तु नालौकिकार्थताशङ्का, अदृष्टार्थतयापि कथंचित्तदुपपत्तेः । यद्यपि प्रतिज्ञामुखेन शास्त्रान्तर्गतो न्याय एवोच्यते, तथापि शास्त्रारम्भसिध्यर्थत्वाच्छास्त्रोपोद्धातेनाद्यम् । नन्वेवं तर्हि कृत्स्नमेव प्रमाणलक्षणमुपोद्धातः स्यात् ;?R प्रामाण्ये हि शास्त्रारम्भोऽर्थवान् । मैवम् ;?R शास्त्रारम्भो ह्यध्ययनविधेः ;?R ततोऽनाक्षेपेऽनारम्भो युक्तः ;?R प्रामाण्यादिभिस्तु न साक्षादाक्षेप इति तेषां शास्त्रतैव । नन्वर्थाविवक्षायामध्ययनमपि नानुष्ठेयम् । सत्यम् ;?R मुखमात्रं शास्त्रानारम्भः । ननु अस्वाध्यायरूपनित्यानुमेयवेदार्थविचारार्थं शास्त्रं युक्तम् । मैवम् ; ?Rप्रत्यक्षवेदेऽनर्थपरे नार्तपरवेदानुमा स्मृतितोऽपि युक्ता, अयोग्यस्याननुमानात् । वेदे चानर्थपरे तन्मूलानीतिहासपुराणादीनि धर्मस्थानान्यपि नार्थपराणीति न तदर्थमपि शास्त्रं युक्तम् । ननु मानान्तरविषयार्थे लौकिकवाक्येऽर्थपरे न्यायापेक्षे शास्त्रमर्थवत् । मैवम् ;?R अभिप्रायाधीने वाक्यार्थे नातीवशास्त्रापेक्षा । अथवा नाध्ययनविध्याक्षेपाच्छास्त्रारम्भ इत्येतावन्मात्रमत्र निरस्यते, हेत्वन्तरादारम्भोऽत्र न चिन्त्यते ।
?R अत्र परैरेवं चिन्तितम्- विध्यवरुद्धाया भावनाया नापुरुषार्थमध्ययनं भाव्यम् ;?R स्वाध्यायार्थबोधौ च विध्यानर्थक्यापत्तेरभाव्यौ ।
?Rअतोऽतिदेशागतार्थवादोक्तपितृतृप्तिद्वारकं सार्वकाम्यं भाव्यं कल्प्यम् । नच शास्त्रातिदेशानुपगमादर्थवादानतिदेशः, शब्दभावनायाः स्तुतिरूपोपकारजनकतया तदतिदेशात् । अतः फलभावनाकरणाध्ययनार्थत्वात् स्वाध्यायस्यानर्थपरतया विषयप्रयोजनाभावादनारभ्यं शास्त्रम्- इति पूर्वः पक्षः ।
?R सिद्धान्तस्तु तव्यावगतकर्मत्वस्य स्वाध्यायस्यैव भाव्यता । व्युत्पन्ना, अर्थपरत्वानुरोधात् ;?R क्रत्वनुप्रवेशकल्पनया भावनया विधेरर्थवैत्त्वात् । एवमर्थपरतया विषयप्रयोजनलाभादारभ्यं शास्त्रम्- इति ।
?R तदयुक्तम् ;?R लिङाद्यर्थो हि भावना अपूर्वभाच्यैव श्रुतेति न पूर्वपक्षे भाव्यान्तरकल्पना । राद्धान्तेऽप्यनीप्सितकर्मणः स्वाध्यायस्य न भाव्यता ;?R अपूर्वस्य भाव्यत्वात् स्वाध्यायस्यानीप्सितता । नच दूरस्थविध्यनुवादः । नचानारभ्याधीतत्वेऽपि कर्मबोधकतया कर्माव्यभिचारात् कर्मविध्यनुवादः, हुमित्येवमादीनां स्तोभाक्षराणामकर्मबोधकत्वेन व्यभिचारात् । तात्पर्यसंन्देहे चार्थपरत्वस्याननुरोध्यत्वान्न शास्त्रारम्भः । तन्मते च क्रतुविधिप्रयुक्तमध्ययनमनुपनीतस्यापीति शूद्रस्याप्यधिकारो विद्यासाध्ये कर्मणि स्यात् । उपनेयस्यैव ह्यननुपनीतावस्थस्य निषेधः, नानुपनेयस्यापि शूद्रस्य । यस्तु शूद्रोल्लेखेन निषेधः, नासौ क्रत्वधीनप्रवृत्तिविषयः । गुरुनये त्वाचार्यकरणविधिप्रयुक्तव्द्वत्तैवर्णिकलाभे क्रतुप्रयुक्त्युपरतेर्निर्विद्यः शूद्रः ;?R रागाधीनप्रवृत्तिस्तु निषिद्धेति न शूद्राधिकारप्रसङ्ग इत्याचार्यकरणविधिप्रयुक्तिपूर्वकमेव पूर्वोत्तरपक्षवर्णनम् ॥
?R ननूपनीयाध्यापके लोक आचार्यपदप्रयोगात्तत्कर्तृतैव लोकसिद्धाचार्यतेति न
?Rतत्र विध्यपेक्षा । मैवम् , स्मृतौ “?Rउपनीयाध्यापयेत्” ?Rइति विधिमुक्त्वा विधिप्रसिद्धमर्थं “?Rयस्तु” ?Rइति निर्दिश्याचार्यलक्षणं कृतम् । अतो वचोभङ्ग्या विहितानेकनियमकोपनयनयुक्ताध्यापने कृत आचार्य इत्युक्तम् । तद्यदि क्रियागर्भोऽध्येत्रध्यापकसम्बन्धोऽप्यनुवर्तते, तथापि न तावन्मात्रे शब्दः, दृष्टस्यानियमे नियमे चाभेदाददृष्टादेव भेद इत्यलौकिके शब्दः ;?R तदलौकिकं विध्यर्हं फलम् ;?R इयमेव यूपाहवनीयादिविधौ । उपाध्यायशब्दस्तु नियमानपेक्षोऽध्यापकमात्रे स्मृत इति लौकिकार्थो न विध्यर्हार्थ इति भेदः ।
?R इयं वा विधा- अध्यापनक्रियातिवृत्तौ तत्कारकत्वेऽतीत एव “?Rआचार्यायवरो देयः” ?Rइत्यादिश्रुतेस्तदासावाचार्यो वाच्यः । नच भूपूर्वगत्योपलक्षणेन तदासावाचार्यः । नच लौकिकं किञ्चित्तद्गतं रूपमुपलभ्यते । अतोऽलौकिके तद्गते रूपे सति दानविध्यर्थः श्रौत इत्यलौकिकार्थता भाति । सा च तदुत्पत्तिविधेर्निर्वहतीत्युत्पत्तिविध्यपेक्षायां स्मृतेरपेक्षितविधिपरता लक्षणान्वाख्यानरूपाया अपि निश्चीयते । “?Rयोऽध्यापयेत्” ?Rइति च यत्पदस्यावधृते तात्पर्ये न विधअयुपघातकता “?Rयदाग्नेयः” ?Rइतिवत् । एवमुपनीय वेदाव्यापनेनाचार्यकं भावयेत्- इत्येवंरूपवेदानुमानसिद्धिः । यूपाहवनीयादावप्येवमेव ;?R तत्रं विहिततक्षणाभ्यञ्जनादिकारकतातिवृत्तावपि यूपाहवनीयादिपदप्रयोगस्य वेदेऽदृष्टरूपाविशेषेऽपि कदाचिद्दर्शनादलौकिकार्थता । व्रात्यता तु निन्दिता न विध्यर्हा सोमपानश्रुतिविरुद्धा चेति न तत्स्मृतेर्विध्यनुमा उपाध्यायपदे तु यदि कारकतातिवृत्तावपि वेदे निर्देशोऽस्ति, तदा तत्पदमप्यलौकिकार्थं यूपादिवत् ;?R अथ न, तदा लौकिकार्थम् । लोके तु तत्पदप्रयोगोऽभिप्रायवशात् भूतपूर्वगत्यापि युक्तः, अवेदाध्यापकेऽप्युपाध्यायपदप्रयोगवत् । एवामचार्यपदमपि लोके भूतपूर्वगत्या ।
?Rभ्रान्तिमूलश्च कौलादावपि तत्पदप्रयोगः ।
?R यत्तु विधित एवालौकिकार्थाश्रयणम् , तथाङ्गन्वयात् ;?R तन्मन्दम् , प्राग्विधित्वासिद्धेः । सिद्धावपि संस्कारविधिमात्रता प्रोक्षणादिविधेरिव व्रीह्यादौ ;?R न हि व्रीहिपदमप्यलौकिकार्थम् । अङ्गान्वयोऽप्यसिद्ध एव, लौकिके हि पुरुषार्थता प्राङ्मुखतादेरिव भोजनाद्यन्वयेऽपि इत्यभिसन्धायोक्तम्- आचार्यत्वस्य यूपादिवदलौकिकत्वात्तदुत्पत्तिविधानं युक्तम्- इति ।
?R श्रौतोवा आचार्यकरणविधिः उपनयन आचार्यकरणप्रयोजनक आत्मनेपदस्मृतेरध्यापनविधिरपेक्षिताचार्यकरणविधिरेव, न त्वयं प्रयोज्यव्यापाररूपाध्ययनविधिः । “?Rएतयान्नाद्यकामं याजयेत्” ?Rइति तु कामिन एव विद्ध्यंपेक्षेति याजनमनुवादो युक्त एवेत्युपनयनाङ्गकश्रौनाचार्यकविधिसिद्धिः ।न च “?Rअध्यापयेत्” ?Rइति परस्मैपदान्नाचार्यकफलता, कर्त्रभिप्राये “?Rणिचश्च” ?Rइत्यात्मनेपदापत्तेः इति वाच्यम्, कर्त्रभिप्रायेऽपि ण्यन्तादिङः “?Rबुधयुध” ?Rइत्यादिना विशेषतः परस्मैपदविधेः । वृत्तिश्च “?Rअणावकर्मकात्” ?Rइति प्राप्तेरकर्मकेष्वचित्तवत्कर्तृकार्थतामाह, नेङि । न च इङि गत्यर्थे सूत्रम् , “?Rमाणवकमध्यापयति” ?Rइत्युदाहरणात् , चलनार्थसूत्राच्च प्राप्तेः । ननु क्त्वातोऽङ्गता कथञ्चिदस्तु, न त्वात्मनेपदादङ्गता ;?R आचार्यकरणे ह्यात्मनेपदकर्त्रभिप्राये स्मृतम् । आचार्यकविध्यङ्गं चोपनयनं कर्तृरूपाचार्यगतफलजनकं स्यात् । मैवम् ;?R क्रियाफलं तदुच्यते, यत्कारकावस्थायां जातमीप्सितं च । न चोपनयनात्कारकावस्थायामाचार्यकरूपफलोत्पत्तिः । उपनेये तु कारकावस्थायामेव संस्कारः, ईप्सितश्चासौ इति कर्मगतमेवात्र फलमित्यकर्त्रभिप्रायतैव । “?Rस्वर्गकामो यजेत” ?Rइत्यत्राप्याख्यातोपसन्दानात् ब्राह्मणतर्पणादिपर्यन्तस्य यज्यर्थस्य फलमपूर्वं
?Rकारकारस्थायां जातमेव । स्वर्गः परं न क्रियाफलमिष्यते । एवं लोकप्रयोगे सर्वत्रानुसन्धेयम् । यत्तु- एकस्यैव “?Rउपनयीत” ?Rइत्यस्य वैदिकपदस्य साधुत्वं कर्त्रभिप्रायाकर्त्रभिप्रायलक्षणद्वयेन- इति, तन्मन्दम् ;?R यदि उपनेत्रुपनेययोः स्वफलार्थम्- यदा माणवकोपयोगेनोपनयने प्रयुज्यते, तदा कर्त्रभिप्रायलक्षणतः साधुता ;?R यदा त्वाचार्योपयोगेन, तदा अकर्त्रभिप्रायलक्षणतः - तर्हि सकृत्प्रयुक्तं पदं कालावस्थाभेदेन नानार्थं स्यात् । अथ नित्यमेवोभयार्थम् , तदा कर्त्रभिप्रायतयैव सिद्धमात्मनेपदमिति व्यर्थं लक्षणान्तरं स्यात् । शाब्दप्रक्रियाविरुद्धश्चायं प्रकारः । नन्वङ्गत्वे सत्युपनयनजन्यसंस्कारः प्रयोगापवर्गी स्यात् ;?R पुरुषार्थसंस्कारान्तर्भावश्च संहितासु न दृश्येत । मैवम् ; “?Rद्विजातीनामध्ययनमिज्यादानम्” ?Rइत्यादिस्मृतेः पुनरुपनयनान्तरास्मृतेश्चोपनयनसंस्कार इज्याद्यधिकारानुवृत्तावनुवर्तत इति कल्प्यते । अत एव पुरुषसंस्कारैस्तुल्यत्वात्तदन्तर्भावः । आचार्यकविध्यर्थता तु तदुपकारजननोत्तरकालमनुवृत्तावपि न विरुद्धा । नन्वध्यापने धनायन्नधिकारी, नाचार्यीवुभूपुः । मैवम् ;?R धनायन्नध्यापनोपायेनाचार्यीवुभूषतीति तदवस्थस्यैवाधिकारान्तरम् , धनमनिच्छन्नपि वा शिष्योपास्यतामिच्छन्नाचार्यीवुभुषुरेव ;?R यशस्यन्नप्याचार्यीबुभूषुतावस्थोऽन्य एवाधिकारीति- उक्तम् “?Rअर्थादाचार्यीबुभूषोराधिकारः” ?Rइति । एवमुपनयनस्य स्थिते साधिकाराचार्यकविध्यङ्गत्वे दृष्टोपनेयासत्तिद्वारेणाध्यापनोपयोगिकर्मापेक्षायां सन्निधिश्रुतं स्वाध्यायाध्ययनं कर्मावगतम् ;?R अध्ययनादेवाध्यापनरूपतासिद्धेस्तदुपयोगिद्वारलाभः । एवं च स्वाङ्गोपनयनप्रयुक्तिर्द्वारभूताध्ययनप्रयुक्तिपूर्विका, न तु तत्पूर्विकाध्ययनप्रयुक्तिरिति नाङ्गेन स्वद्वारं प्रयुक्तं स्यात् इत्युनुयोगः । न चाध्यनाङ्गाप्रयुक्त्यनुयोगः, विहिताध्ययनविशेषदेहनिवेशादध्ययनसन्निपातिनामनध्यायादरादीनां प्रयुक्त्यन्तर्भावो दुर्वारः । आरादुपकारि त्वध्ययने नास्त्येव । किञ्च स्मृतौ “?Rशिष्यम्” ?Rइत्युक्ते
?Rसाङ्गाध्ययनप्रयुक्तिः । शासनाद्धि शिष्यः, हिते प्रेरणं च शासनम् ;?R हितं च साङ्गमिति साङ्गप्रयुक्त्या विधिप्रयुक्तिः । स्मृत्यन्तरे च व्यक्तो विधिः, साङ्गादाचार्यकं च व्यक्तम्-
?R “?Rउपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।
?R वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥” ?Rइति ।
?Rइहोपनीयाध्यापको गुरुभेद आचार्य एवोक्तः, “?Rआचार्यः श्रेष्ठोगुरूणाम्” ?Rइति स्मृतेः । शौचाचारानिति च भिक्षादिशिक्षकताप्याचार्यकहेतुरुक्त इति साङ्गाध्ययनप्रयुक्तिः ;?R तत्प्रयुक्तिरेव तद्विधिप्रयुक्तिः । एतेन परोक्तं निरस्तम्- विधेरध्यापनानुपायस्याप्रयुक्तेः साधकनरापेक्षायामधीतादर्थबोधोत्पत्तेरर्थबोधाह्यो नियोज्यः - इति ;?R अर्थपरत्वे ह्यर्थबोधार्ह्ये नियोज्यः, ततश्चार्थपरता- ततश्चार्थपरता- इत्यन्योन्याश्रयम् । न च करणान्वयार्था सनियोज्यता, साधिकारतयापि हि तदन्वयात् । पापमोकार्थिनस्तु निपेध्यात् पापोत्पत्तिर्युक्तेत्याचार्यकविधिप्रयुक्तोऽध्ययनविधिः । क्रतुविधयस्तु विद्याङ्गकाः स्वाङ्गोपायेऽध्ययने द्राङ्न प्रयोजकाः ;?R उपायात् कार्यस्याभ्यर्हितत्वादङ्गकार्यत एव द्राक् प्रयुक्तिः । तथा प्रयोज्यापेक्षयैवाध्यापनविधेः प्रयुक्तिः । प्रयोज्यफलाद्यपेक्षया क्रतुविधीनां विलम्बितता । नन्वेवमाचार्यकविध्यङ्गमध्ययनं स्यात् , विधिप्रयोज्यतया विधेयत्वात् । मैवम् ;?R विधिगृहीतं सिद्विनियोगादङ्गम् । न च प्रयोज्यतया विधिस्पर्शो ग्रहणम् , आधानादेरपि ग्रहणापत्ते । पश्वेकत्वमपि विधिना गृहीतं साधनावस्थास्थतां नातं वस्तुलिङ्गसचिवेनोपादानेनाङ्गं कृतम् । न चेदमपि विध्यगृहीतं लिङ्गमात्रादङ्गम् । न च णिच्छ्रुत्याङ्गम् , प्रयोज्यव्यापारस्यैव तच्छ्रुत्या साध्यत्वावगतेः । न चानधिकारं साधिकारादन्वयादङ्गम् ; “?Rअध्यापयेत्” ?Rइति द्वयानवगतेर्न द्वयान्वय इत्यनङ्गमध्ययनमध्यापनस्य । अस्मिन् प्रक्रमे पञ्चिका “?Rमैवम्” ?Rइति । ऐक्येऽपि परिहारः - इति तदर्थः । पारार्थ्यमेवाङ्गता-
?Rइत्येवमैक्येऽप्युक्ते विनियोगात् पारार्थ्ये चोद्यवादिनोऽप्यनुमते प्रयुक्तितोऽङ्गत्वपरिहारसिद्धिरिति, “?Rअतः प्रयोज्यं न चाङ्गम्” ?Rइत्यनङ्गत्वे स्थिते एव विचारो गुरोरभिमतः ; “?Rसर्वो हि विधिरधिकारपर्यवसायी” ?R- इत्यपि स्थिते ।
?R नन्वनुष्ठानार्थमधिकारापेक्षा ;?R तच्च विध्यन्तरप्रयुक्त्या लब्धम् । मैवम् ;?R विधौ हि लिङादयः ;?R विधिश्च पुरुषार्थ एव प्रथितो लोके । अयं भावः - विधिर्हि प्रवृत्तिहेतुः कार्यरूपः ;?R कार्यं च कृतिप्रयोजनं पुरुषार्थः ;?R तत्प्रयोजनता च स्वसाधने नरैश्वहेतुतया ;?R तद्धेतुतैव प्रवृत्तिशक्तिरिति विधित्वायाधिकारापेक्षान्यप्रयुक्तेऽपि । क्रियाकार्ये च लौकिके विधौ पुरुषार्थता फलसाधनतया ;?R वेदे त्वफलसाधनेऽपूर्वे कार्ये स्वप्रधाने स्वसाधनद्वारेणैव पुरुषैश्चर्यापादनात् पुरुषार्थतालाभः । विध्यन्तरेषु चानुष्ठानार्थेऽधिकारे लब्धे विधितासिद्धिः । इह त्वन्यतोऽनुष्ठाने लब्धे विधितार्थमेव पुरुषविशेषपर्यवसानाकाङ्क्षा ।
?R तत्राचार्यमाणवकरूपनरद्वयैश्वर्यदरशनादेकनरैश्वर्यपर्यवसाने च विधितासिद्धेः कतरनरपरता- इति चिन्ता ;?R न तु विधेः कार्यस्य सम्बन्धिरूपत्वात् सम्बन्ध्यन्तरनरपर्यवसायित्वं मतम् । यदि हि स्वकार्ये वोद्धा सम्बन्धी, तर्हि नियोज्यपर्यवसानं स्यात् ;?R अथ कृतिसमयायी सम्बन्धी, तर्हि कर्तृपर्यवसानं स्यात् । न चान्यतः कृतिसाध्यत्वे सिद्धेऽपि कृतिप्रधानत्वायाधिकारापेक्षा, विधेराचार्यकृतिप्रधानत्वसिद्धेः । साधिकारविध्यतिक्रमाद्व्रात्यतेति तन्मुक्तिरधिकारान्तरपूर्विकेति न ततः साधिकारता । नन्वैश्वर्यपर्यवसानं स्वसाधनेऽप्यध्ययने सिद्धम् । सत्यम् ;?R तदेव तु कस्य नरस्येति चिन्ता । ननु यन्नरैश्वर्यं प्रकारान्तरेणाध्ययने दृष्टम् , तदनुज्ञायात्मसाधनतयापि तन्नरैश्वर्यं लाघवादनुजानातु, न नरभेदबुभुत्सा । सत्यम् ;?R प्रतीतत्वादुपनेयेऽर्थबोधस्य
?Rउपनेतर्यध्यापनसिद्धेर्दृष्टस्यैव नरद्वयगतेः सन्देहः । नन्वसत्युपनयने पातस्मृतेस्तन्नित्यम् ;?R न काम्यविध्यङ्गम् , नित्यानित्यसंयोगदोपात् । मैवम् । तदङ्गतयैवोपनीतकर्तृकाध्ययनेऽर्थबोधाधिकारात् स्वाध्यायान्तर्गतगायत्र्यादिग्रहणविधेर्नित्यत्वादुपनयनं नित्यमङ्गं सदेवेत्याचार्यकविधेरप्वध्ययनाधिकारतः प्रयुक्तेमूलमाचार्यकविधेरेव प्रयुक्तिरुक्ता । न च पावनार्या मीमांसा- “?Rयश्च मीमांसतेऽध्वरम्” ?Rइति स्मृतेर्वाच्या ;?R न्यायमूलमीमांसायाः कार्यान्तरमिदमिति न तद्विधिप्रयुक्ता मीमांसा युक्ता ।
?R तत्र पूर्वः पक्षः ः पूर्वमेवाध्यापनसिद्धेराचार्यनराधिकारपरता विधेः, अनर्थपरता च वेदाध्ययनस्य । नन्वध्ययनकर्तृगतमैश्वर्यमन्तरङ्गत्वादध्ययनानन्तरं बुद्धमपि विधिरनुजानातु । मैवम् , अध्ययनविध्यवगमसमये नोपनेयैश्वर्यधीरित्यन्तरङ्गमप्यधीस्थं दुर्बलम् । अतो वेदाध्ययनस्यानर्थपरत्वे नार्थनिश्चयार्थो गुरुगेहवास इति तन्निवृत्तौ सकलब्रह्मचारिधर्मास्नानादिनिवृत्तिरेव स्नानमुखेन स्मृता । दृष्टे च पूर्वपक्षनये मूले सति नादृष्टार्था स्नानस्मृतिः श्रुतार्थानुरोधाद्युक्ता । दृष्टा च पूर्वपक्षनयमूलापि पितृयज्ञस्य दर्शाङ्गतास्मृतिरिति नाध्ययनविध्याक्षिप्तं शास्त्रम् ॥
?R राद्धान्तस्तु- अन्यप्रयुक्तस्य पश्चादवगतफलद्वाराप्यैश्वर्यधीपूर्वकमधिकारपरत्वमित्यतुल्यकालत्वेऽप्यन्तरङ्गं बलीय इत्यर्थपरत्वमध्ययनविधेर्युक्तम् । विवरणे तु प्रयोजकविधेः प्रयोज्यविधेश्च शाखान्तर्गतत्वादनर्थपरता स्यात् । तत्पूर्यवसाने च पूर्वावगतप्रयोजकत्वविरोधान्न तत्पर्यवसानं युक्तम् ;?R अतः पश्चाद्भाव्यर्थावयोधपर्यवसानम् । अर्थपरत्वव्युत्पत्तिनिर्वाहार्थं त्वर्थबोधपर्यवसानं नोक्तम् । तात्पर्यतो
?Rह्यर्थपरत्वव्युत्पत्तिः ;?R तदेव चेत् सन्दिग्धम् , कथं तद्वलेनार्थबोधपर्यवसानम् ?
?R एवं च विधिपर्यवसानार्थमध्ययनात्परतो मीमांसातः पूर्वमवगतस्य स्वीकारान्मध्येऽधिकारो न वृथा । एवं च न यदा आचार्यीबुभूषुः, तदा माणवकः स्वसंस्कारं द्विजातिकर्मानुगुणं प्रबुद्धः प्रयुङ्क्ते तद्वितार्थी त्वेत्याचार्यकविधिप्रयुक्तिमूलकः शास्त्रार्थ इत्युक्तम् । यदाचार्यविध्यप्रयुक्तं सोपनयनमध्ययनम् , तदा साधिकाराध्ययनविधिप्रयोज्यमिति न कामश्रुतिप्रयोज्यम् । अतो न शूद्रस्याप्यध्ययनप्रयुक्तेर्विद्यासाध्येष्वधिकारापत्तिः । ननु येषामेवाध्ययनं श्रुतं तेषामेव तच्छास्त्रप्रसङ्गादधिकारः क्रतौ । युक्ता ह्यलौकिकार्त्विज्ये स्वशास्त्राद्वर्णभेधाश्रुतौ शास्त्रप्रसङ्गापेक्षा ; ?Rक्रत्वधिकारस्तु न तथा । एवं च धर्मजिज्ञासया यत् प्रक्रियते शास्त्रं तद्धमजिज्ञासाप्रकरणमारभ्यम् ॥
?Rइति प्रथमसूत्रं समाप्तम् ॥
?R—–
?R?0चोदनालक्षणोऽर्थो धर्मः ॥ 1-1-2 ॥
?R?0 ?0"?Rतदभिधीयते" ?Rइति । यदारभ्यतया साधितम् , ताच्छास्त्रमभिधीयत इत्यर्थः । अत्रान्तरङ्गत्वात् प्रथमं वेदार्थजिज्ञासा- इति तत्स्वरूपमेव प्रतिज्ञारूपेण सूत्रयितुं चोदनाप्रमाणकताद्वारा शक्यमित्यर्थात् तत्प्रमाणतापि सूत्रिता । प्रतिज्ञासम्भवार्थं च कार्यव्युत्पत्त्यर्थसंस्पर्शित्वे अपीहान्तर्भूते । तदेवम् “?Rको धर्मः, कथंलक्षणश्च” ?Rइत्येतद्द्वयंस्येदमुत्तरं सूत्रम् । धर्मशब्दश्च पूर्वत्रात्र च वेदार्थमात्रपरः, तद्विशेषानिषिद्धफलपरश्च । यस्य च वाक्यस्यार्थमयगम्य क्रियाप्रवृत्तिः, तद्वाक्यमपि स्वार्थद्वारा प्रवर्तकत्वात् प्रवर्तनारूपविवक्षया चोदनेत्युच्यते । सा च कार्यार्थैव । तच्चेत् कार्यमलौकिकम् , तत्प्रमाणकमेवेत्युक्तम्- “?Rकार्येऽर्थे वेदस्य प्रामाण्यं
?Rदर्शयति” ?Rइति ॥
?R
?R ननु यदि कार्यधीतः प्रवृत्तिः, तदा चोदना कार्यार्था भवेत् ;?R सा त्विष्टोपायताधीत एवेति परमतम् । कार्यधीतोऽपि प्रवृत्तौ न कार्यमेव वेदार्थः, “?Rआनन्दं ब्रह्म” ?Rइत्येवमादिवेदान्तवाक्यानां सिद्धार्थावगतेः । मैवम् ;?R कार्यधीत एव प्रवृत्तिः । वेदान्तानामपि कार्यपरतैवेष्टोपायता ;?R ईष्टोपायताधिया हि ‘?Rममेदं कार्यम्’ ?Rइति बुद्धा स्वतन्त्रः प्रवर्तते । इष्टोपायताधीमात्रात्रात् प्रवृत्त्यनुज्ञानेऽतीतांनागतेष्टोपायताधीतोऽपि प्रवृत्तिः स्यात् । नन्वयमनुयोग इष्टोपायतायाः कार्यधीजननेऽपि समः । मैवम् ;?R कृत्त्युद्देश्यतैवेष्टोपायस्यातीतादिव्यावर्तिका ;?R द्वयी ह्युपायधीः - अतीताद्यकारा, कार्याकारा च । तत्र कार्याकारातः प्रवृत्तेः कार्यधीतः प्रवृत्तिरित्युच्यते । नन्वेवमिष्टोपायताधीवेद्यमेव कार्यं स्यात् , नेष्टोपायताज्ञाप्यम् । मैवम् ;?R इष्टोपायताकारोल्लेखादेव कार्यपर्यन्तं वेद्यमिति तज्ज्ञाप्यत्वमुक्तम् , यथैकधीवेद्यत्वेऽप्याकृतितो व्यक्तिधीरुक्ता । कृत्या भावी इष्टोपायः - इत्येवंधिया कृत्युद्देश्यताबुद्ध्युत्पादादिष्टोपायताधीतः कार्यधीः । न च ‘?Rकृत्या भावी इष्टोपायः’ ?Rइत्येवंधिया प्रवृत्तिरस्तु, अलं कृत्त्यद्देश्यतया इति वाच्यम् ;?R इष्टकोटाविष्टोपाये हि कृतियोगस्तदुद्देश्यतयैव धीस्थः, नान्यथा ;?R कार्यता च कृतीप्सितकर्मता इत्युक्तम्- “?Rकृत्यधीनसिद्धि यत्कृतेः प्रधानम्, तत् कार्यम्” ?Rइति । “?Rकृतिभावाभावानुविधानाच्च कृत्यधीनसिद्धित्वमनुमानवेद्यम् , कृतिप्रयोजनता च प्रधानत्वं मानसवेद्यम् ।” ?Rननूत्पन्नायां कृतौ तद्भावभाविता मानसवेद्यता चेति न तद्धीतः प्रवृत्तिः । मैवम् ;?R मूलभूतमानद्वयमिदमुक्तम् , प्रवृत्तिहेतुस्तु कार्यतास्मृतिरेव । नन्विमं व्यक्तिभेदमुररीकृत्य प्रवृत्तिः, न तत्कार्यतास्मृतेः । मैवम् । मानसानुमानाभ्यामन्यव्यक्तिष्वपि कार्यतामनुभूय
?Rतज्जातीयतामवधारयतोऽनागतव्यक्तिभेदेऽपि स्मृतिर्युक्ता । नन्वाद्यप्रवृत्तावनुभवाभावान्न स्मृतिहेतुता । मैवम् , तस्यामपि प्राग्भवीयवासनोद्वोधो जीवनादृष्टादिष्टोपायेऽपि- इत्युपेयत्वात् कृतिकर्मतावस्था चेयं कृतियोगकालमात्रे न प्राङ् न पश्चादित्यस्थिरत्वात् सिद्धावस्था नास्त्येवेति कदा साध्यता इति नायमनुयोगः ॥
?R ननु च कृतिकालेऽपूर्वादिप्रधानतेति न मानसता । मैवम् ;?R तस्यापि प्रधानता कृतेरेव धर्मः ;?R तन्निरूपणीयतया ‘?Rतस्य’?R इति व्यपदिश्यते ॥
?R ननु ‘?Rममेदं कार्यम्’ ?Rइति न धीः ;?R किन्तु सङ्कल्पोऽयं चिकर्षारूपः । मैवम् ;?R यावदियं धीर्नोत्पद्यते, तावद्बुद्धिपूर्वकारिणश्चिकीर्षैव नोत्पादिता स्यात्, इष्टोपायताधीमात्राञ्चिकीर्षानुत्पत्तेरित्युक्तम् । सङ्कल्पकार्यधियोस्तुल्याभिलापादबेदाभिमानः । न चेष्टोपायतैव कार्यता, उपायोपेययोर्भेदादिष्टस्यापि कार्यतादृष्टेः ;?R इष्टोपायताधीत एव क्लेशरूपस्य कार्यतेति नित्यप्रत्यासत्तेरभेदाभिमानः । बालस्य च स्तनपानान्तस्वप्रवृत्त्यनुसन्धाने शब्दतद्मापारमित्यसम्बवान्न तयोर्हेतुता शङ्किता । शब्दवाच्यतार्थं च प्रवृत्तिहेतुनिरूपणे सङ्कल्परूपेच्छानन्तरत्वेऽपि प्रयत्नस्य नेच्छायाः प्रवृत्तिहेतुतोक्ता । उत्पन्ना हि सा तद्धेतुः, न बोधिता । तदेवं पार्श्वस्थो व्युत्पत्सुः शब्दशुत्यनन्तरं चेष्टां दृष्ट्वा तद्विपयां प्रयोज्यगतां शब्दजां कार्यधियमवधारयन्नावापोद्धारभेदात् कार्यान्वितस्वार्थआभिधानेऽन्येषाम् , लिङादेस्तु कार्याभिधाने व्युत्पद्यते । वेदे च प्रसिद्धार्थनियोज्यपरकामिपदसमभिव्याहारात् स्थायिकार्ये मानान्तरागोचरे व्युत्पद्यते । तेन कार्येऽर्थे वेदस्य प्रामाण्यं युक्तम् ।
?R यदुक्तम् वेदान्तानां सिद्धार्थपरता इति, तन्न ;?R नाद्या व्युत्पत्तिः सिद्धार्थे युक्ता । ननु ‘?Rपुत्रस्ते जातः’ ?Rइति पदनिचयसमधिगममनु परनरगतविदितवदनविकसनगमकगमकगमितसमभिलषिततनयभवनमितिमनु वचनजनितमतिरियमिति सुखमनुभवति । तन्न, सुतजन्मैवानेनावगतम्- इति विशेषानवधारणात् । न च ‘?Rतदेवास्य प्रियम्’ ?Rइिति पारिशेष्यादनुमानाद्विशेषधीः ;?R न हि कस्यचिज्जन्तोरेकमेव प्रियम् । न च स्वाधिगततत्प्रिये तद्धीरिति क्लृप्तत्वादवधृतिः, तत्रैवानेकस्य सम्भवात्- सुतो जातः, सूता ते सुखं प्रिया- इत्यवमादः क्लृप्तत्वात् , क्लृप्ताचातीतादेरपि स्वहर्पहेतुतेति परहर्षेऽपि तद्धीर्भवति ;?R चेष्टा तु नियतैव दृष्टेति भेदः । न च चेष्टाधीरपि न शब्दजा इति शङ्का, दृष्टे हेतौ कल्पनानुपपत्तेः अतः सूक्तं व्यवहारत एवाद्या व्युत्पत्तिरिति । ननु व्यवहारतोऽपि व्युत्पत्तौ न कार्यार्थतासिद्धिः, निधिमानेष भूभागः - इति श्रुत्वा निध्यर्थितया तद्ग्रहणकार्यतां बुध्वा कार्यार्थशब्दाभावेऽपि प्रवृत्तेः । तन्न ;?R शब्दादस्य धीः - इति बुध्वा कार्यार्थशब्दाश्रुतेरध्याहृत्य कार्यं शब्दस्य तत्परतामवधारयति । निधिमत्ताकथाविवक्षायामपि वक्तुः कार्यार्थस्यैव सिद्धार्थपरतालक्षणेति धीः । नन्वर्थान्तरान्वितपरत्वकल्पनयापि कार्यपरताधीसिद्धेर्मया कार्यरूपविशेषे शक्तिगौरवं च । मैवम् ;?R कार्यान्विते धीनियमात्तत्रैव शक्तिः, न त्वर्थान्तरान्विते ;?R महाविषयत्वे हि गौरवमुक्तं स्यात् । न हि वह्निजातीयनियते पाकफले द्रव्यमात्रे शक्तिः । होलाकमूलवेदस्य तु प्राच्यविषयत्वम् , तत्तत्रैव वाच्यम् । कार्यपरत्वद्वारतयैव परस्परान्वयोऽपि व्युत्पन्न इति न प्रतिपदं धर्मः । न च लोकवद्वेदान्तेषु परस्परान्वयमात्रपरता लक्षणया युक्ता, विवक्षाभावात् । अतः कार्यपरतानुपगमेऽबोधकतैव तेषां स्यात् । ननु यदि लोके लक्षणया सिद्धान्वयपरता, तदानभिधानं वाक्यस्य स्यात् ;?R मुख्यार्थस्यैव हि वाक्येऽन्विताभिधानमिष्यते । मैवम् ;?R सिद्धापदेशेषु वक्रभिप्रायादेव वाक्यार्थधीः,
?Rनान्विताभिधानात् सङ्गेतपदेभ्य इव । “?Rन च वाक्ये सर्वाण्येवामुख्यार्थानि” ?Rइति यदुक्तम् , तदन्विताभिधायके कार्यार्थे वाक्ये, न तु सिद्धार्थेऽपि । लिङादिरेव तु कार्यार्थो लाक्षणिकः । न चामुख्यार्थपरे लिङादावन्येषामन्विताभिधानाभावः ;?R न ह्यपूर्वकार्यान्विते स्वार्थेऽन्येषां व्युत्पत्तिः, लोकवेदव्यापितया मुख्यामुख्यकार्यान्वितस्वार्थ एव व्युत्पत्तेः । सिद्धार्थे तु प्रसिद्धार्थाभिव्याहारात् व्युत्पत्तिर्व्युत्पत्तिपूर्विकैव, नाद्या व्युत्पत्तिः । अतो मन्त्रार्थवादार्थः स्वरूपतः सिद्धोऽपि कार्यान्वितरूपेण कार्य एव, तद्रूपे मानान्तरगम्यतेति “?Rचोदना हि” ?Rहि भाष्यम् , “?Rनान्यत् किञ्चनेन्द्रियम्” ?Rइति च ;?R अतो न प्रतिज्ञाहानिः कार्यरूप एव वेदार्थ इति ॥
?R “?Rनन्वतथाभूतम्” ?Rइति भाष्यं प्रतिज्ञादोषमाह- न चोदनालक्षणं किञ्चिदिति, पुंवाक्ये व्यभिचारदर्शनोत्थं संशयरूपमर्थासंस्पर्शित्वं शब्दस्य ब्रुवत् । न च प्रत्यक्षादिवत् भेदाग्रहसमाधेयो व्यभिचारः ;?R तत्र हि दोषादग्रहः, इह तु शाब्दधीहेतोः शब्दस्य न दोषः ;?R नरगतस्तु दोषो न धीहेतुः, किन्तु शब्दव्यक्तिहेतुदोष इति । इदमेवोक्तं गुरुणा- “?Rअन्तरा बाधकेऽप्यदुष्टशब्दोत्था धीर्व्यभिचरत्येवेति नाग्रहोऽयम्” ?Rइति । आप्तवाक्याद्व्यवहारः सन्देहान्मानान्तराद्वा । वेदार्थे तु मानान्तरानुमानादपि न निश्चयः, मानान्तरामेये वेदार्थे वक्तुरनुपगमात् ।
?R उच्यते- न हि ज्ञानं व्यभिचरति वेद्यम् , तदारूढस्यैव वेद्यत्वात् । नरगिरान्त्वियं गतिः । अबुद्धबोधनायापि हि वाक्यं प्रयोक्तुं शक्यम् । अतो नराभिप्रायानुविधायि नरवाक्यमिति न स्वतोऽर्थधीः । तथा च नरानसत्यप्यर्थे भूयोवाक्यरचकान् दृष्ट्वा न वाक्यमात्रादर्थनिश्चयः ;?R यदा तु ‘?Rमानान्तरार्थं बुद्ध्वा तद्विवक्षया निजशक्त्यप्रमादाभ्यां तद्वाचकमुच्चारितवान्’ ?Rइति धीः, तदार्थनिश्चयः ।
?Rनन्वेवमपि वक्तुरेवंरूपतां बुद्ध्वा तद्वाक्यादेवार्थनिश्चयोऽस्तु । तन्न ;?R एवंरूपताबोधे हि मानान्तरान्तर्भावोदुर्वारः ;?R यदर्थधीयोग्यं यद्वाक्यम् तन्मानधीर्हि तद्वाक्याद्यावन्न जातां, तावद्व्यभिचारशङ्का नास्ति ;?R तच्छङ्का हि ‘?Rअमानबुद्धार्थविषयं वाक्यम्’ ?Rइत्येवम् ;?R सा च तन्मानतद्विवक्षातदुच्चारणाविसंवादादपैतीति बलान्मानान्तरान्तर्भावः । नन्वेवमाप्तवधारणान्तर्गता मानान्तरधीरिति नाप्तवाक्याल्लिङ्गद्गम्यमवशिष्यते । मैवम् ;?R वाक्ययोग्यार्थे निरस्तभ्रमादिचतुष्टयोऽयम्- इत्येवंरूपमाप्तत्वमवधार्य, ‘?Rतत्प्रयुक्तमिदं वाक्यम्’ ?Rइति चानुसन्धाय मूलमाननिश्चयः । ननु वाक्यं बुद्धैव तद्योग्यतां च, आप्तत्वानु सन्धानमिति नाप्ततां बुद्ध्वा पुनर्वाक्यलिङ्गानुसन्धानम् । मैवम् ;?R नाप्तता नरधर्मो मानस्य कार्यम् ;?R किन्तु वाक्यप्रयोग इति कार्यं वाक्यमनुसन्धाय तत्कारणमानानुमा, ततो निःशङ्काद्वाक्यादर्थधीः । या च मानात्तन्मेयानुमोक्ता, सा सानमात्रस्यैव, तत्कारणत्वात् ;?R मानादेव तु मेयसिद्धिः । यद्यपि पक्षधर्मताबलान्मेयसिद्धिः, तथापि प्रमित्साप्रकारभेदादपि तत्सिद्धिरित्युभयथा व्यवहारः ; ?Rएवं च मेयनिश्चयात् पूर्वं वाक्यादर्थधीरस्त्विति न वाच्यम् । न चैवं व्यवहारावसितशक्तिबाधः ;?R शक्तिविषय एवार्थे व्यभिचाराशङ्का निश्चयश्च, लिङ्गता च शक्तिमत एव, वाक्यस्यानुवादकता च । नन्वनुवादकधीर्न मितिः, न च स्मृतिः, न च विधान्तरमनुज्ञातमिति न निरूप्यते । मैवम् ;?R मितिरेवेयम् ;?R किन्तु अस्यां दशायां मितिरूपानभिव्यक्तेर्न ‘?Rमितिः’ ?Rइति व्यपदिश्यते । अनभिव्यक्तिश्च शङ्कोत्थाननिरसनाय मानान्तरधीपूर्वकतापत्तेरौपाधिकसापेक्षताभिमानात् । शब्दशक्तिस्तु मितिजनन एवावधृता लोके, वेदे तु उपाधिविरहात् फलिता । संस्कारमात्रस्य तु नापरिच्छिन्ने शक्तिः क्लृप्तां, न च च क्वचित् फलितेति स्वभावत एव तस्य सापेक्षधीजनकतेति तज्जापि धीः सापेक्षस्वभावा स्मृतिः प्रमोषेऽनभिव्यक्तस्वरूपापि हेतुशक्तिनिरूपणात् ;?R एवमिहापि शब्दशक्तिधीतः
?Rप्रमितितैव निरूप्यते । एवं वैदिकानुवादेऽपि द्रष्टव्यम् । यदि तु ‘?Rस्मृतिरियम्, संस्कारोद्बोधकाच्छब्दात्’ ?Rइत्युपेयते, तदाशङ्कापगमेऽपि मित्यनुत्पत्तेस्तच्छक्त्यनुपगमोऽपि निर्वीज इति वेदादपि मितिर्न स्यात् ;?R अन्वितविशेषे च स्मृतिरिति नान्विताभिधानव्युत्पत्तिः स्यात् । न च कर्त्रनुमानतो वेदादप्यव्यक्तमितिरूपा धीः, पूर्वमपूर्वकार्यस्य बुद्धावारोपयितुमशक्तेः, कर्त्रयोग्ये वेदे कर्तुरननुमानात् । यत्तु “?Rअपि च पौरुषेयाद्वचनात्” ?Rइति भाष्यं व्याख्यातम् ‘?Rपूर्वं मानान्तरपूर्विका पुंवाक्यादर्थधीरुक्ता ;?R अधुनानुमानादेवार्थधीरित्याह’ ?Rइति, तदनुवादानादरात् ;?R न त्वनुवादाभावात् । तदेवं पुंवाक्यमव्यभिचारि, लिङ्गाभासादनुमाव्यभिचाराभिमानः - इति न प्रतिज्ञा दृष्टा ॥
?R “?Rनन्वतथाभूतम्” ?Rइति भाष्यं परैरेवं व्याख्यातम्- प्रामाण्याप्रामाण्ये द्वे स्वतः, द्वे परतः, अप्रामाण्यं स्वतः, प्रामाण्यं परतः इति पक्षत्रयेऽप्यतथाभूतताशङ्का ;?R प्रामाण्यं स्वतः अप्रामाण्यं परतः इति पक्षेणोत्तरम् । यदा द्वे स्वतो निश्चयाकारे, तदा चिढाभावादविवेक इति चोदनार्थे सन्देहः । यदा द्वे परतः, तदा गुणवत्सामग्रीजन्यत्वान्निश्चयः दोपरत्वादनिश्चय इति गुणदोपानवगमाच्चोदनार्थे सन्देहः । यदा परतः प्रामाण्यम् स्वतो ज्ञानस्य सन्देहग्रस्तत्वम् तदा पराभावाद्वेदार्थे सन्देहः । स्वतः प्रमाण्यात्तु वेदार्थे निश्चय एव, ज्ञानस्य स्वतोनिश्चयाकारत्वात् ;?R परतस्तु शङ्कया सन्देहः । न च सर्वत्र शङ्का ;?R किन्तु यादृशे व्यभिचारदर्शनम् , तादृशे ;?R सर्वत्र शङ्कायां हि परतोऽपि प्रामाण्यं न स्यात् । न च चोदनार्थे शङ्काहेतुरस्तीति ततो निश्चय एव इति ।
?R परव्याख्यानमिदं मन्दम् , वृत्तिकारग्रन्थे स्वतःप्रामाण्यस्थितेः । अर्थासंस्पर्शिता तु न क्वचिन्निरस्तेति गुरुरर्थासंस्पर्शितानिरासार्थं भाष्यमाह ।
?R ननु कार्यरूपो न धर्मः, तीर्थिकविमतेः - शुभा चित्तवासनेति सौगताः, पुण्याः पुद्गला इत्यार्हताः, बुद्धिगुण इति संख्याः, सिद्धरूप एवात्मगुण इति योगाः । मैवम् ;?R श्रेयस्करो धर्म इति सर्वसिद्धम् । श्रेयस्करं चापूर्वं कार्यमेव नानानयसिद्धमित्यस्यैव धर्मता । अधिकृतकर्तृकयागावपूर्वसिद्धेर्यागकर्तरि धार्मिकव्यपदेशादप्यपूर्वमेव धर्मः ॥
?R वेदार्थोऽपि श्येनाद्यपूर्वं निषिद्धफलत्वादधर्म इति वक्तुमर्थपदं सूत्रे कृतम् ;?R तद्धि कार्यत्वेन पुरुषार्थमपि सन्निषिद्धफलहेतुतया विपरीतमपीति द्विरूपम् । अर्थपदं च पुरुषार्थपरमिति तदतद्रूपमर्थपदादानान्निवर्त्य धर्मपदेनोक्तं वेदार्थमेव द्विधा विवेक्तुम् । परानुमतं तु निषिद्धक्रियाया अधर्मत्वं वक्तुमर्थपदमित्ययुक्तम् , तस्या अवेदार्थत्वेनैव विवेकात् । न च निषेध्यस्यापूर्वकार्यतानालीढस्य वेदार्थता । न च नञ्विधेः प्रत्यवायपरिहारकल्पनया निषिद्धफलस्याप्यपुरुषार्थतेति वाच्यम् ;?R नञर्थे नरैश्वर्यसिद्धेरेव नरार्थता यथा श्येनापूर्वसाधनैश्वर्यमेव नरार्थता । ज्योतिष्टोमादावपीयमेव निःश्रेयससिद्धिरनुज्ञाता ;?R सैव हि कामिनियोज्यान्वयात् फलपर्यन्ता ;?R सैव च शंयुनयान्नरकनिरसनान्ता । न च निषिद्धाचरणे सर्वत्रैव प्रायश्चित्ताम्नानात् सामान्यतो विशेषतश्च नरकनिरसनान्ततया नरार्थता, नञ्विधेस्तदयोगात् ;?R प्रायश्चित्तविधेस्तदन्ततैवेति निषिद्धफलतामात्रान्नञ्विध्यसिद्धेरेवानर्थत्वमुक्तम् । ननु हिंसा निषिद्धा ;?R न चापूर्वाद्धन्तृव्यापारोत्पत्तिरिति न निषिद्धफलता । मैवम् , आयर्दभाग्यविच्छेदान्मरणापत्तेः ;?R भाग्यविच्छेदं कर्तुकामो हन्ता “?Rअभिचरन्” ?Rइत्युच्यते ;?R लक्षणे हेतौ च शतुरनुशासनादयमेवार्थः । तदेवं तद्विच्छेदं श्येनापूर्वद्वारमाचरन्निषिद्धफलमनर्थकं कुरुते । ननु श्येयनस्यापि तदनुकूपत्वान्निषिद्धता ;?R न तु फलमात्रं निषिद्धम् । मैवम् ;?R
?Rअपूर्वानुकूलत्वायाभिचारानुकूलत्वादपूर्वांशे मुख्ये न निपिद्धतेति न निषिद्धतेति न निषिद्धकरणतोक्ता श्येनापूर्वस्य ;?R फलतस्तु तत्र प्रवृत्तेस्तत्काले निषिद्धताभिव्यक्तेः “?Rहिंसा हि सा, सा च प्रतिषिद्धा” ?R- इत्युक्तम् । न च आततायिहिंसा न निषिद्धा इति वाच्यम् , “?Rअभिचरन्” ?Rइत्यविशेषश्रुतेर्निषिद्धफलान्तर्भावात् । यत्तु समर्थनम्- घ्नत एवाततायिनो वध्यत्वात् , तदा च श्येनाशक्तेर्न तद्विषयतेति ;?R तन्न, दिनान्तरेऽपि निश्चित्य घ्नतः श्येनवध्यत्वसम्भवात् । न च ज्योतिष्टोमोऽपि निषिद्धपशुहिंसाङ्गकत्वादधर्मः ;?R अङ्गे हि वैधी प्रवृत्तिः । न च स्वतन्त्रनिषेधस्तद्विषयः ;?R तथात्वे हि निषेधः क्रत्वर्थः स्यात् , रागप्रवृत्तिविषयस्तु पुरुषार्थः । न च द्विकरः, न च क्रत्वर्थ एवेति वाच्यम् ;?R स्वतन्त्रविधेर्या स्वतः प्रयोजकताधीः सा बाध्येत । एतच्च कर्त्रधिकरणे स्थितम् । न च प्रधानेऽपि विधिकरणे वैधी प्रवृत्तिः ;?R फलकरणीभूतस्य च विधिकरणत्वात् फलेऽपि वैधी- इति वाच्यम् ;?R काम्ये फलं प्रतिकरणीभूतस्य विधिविषयत्वधीपूर्वकविधिकरणत्वधीक्रमादुत्कटा फलतः प्रवृत्तिः ;?R अङ्गे त्वफलार्थेऽपूर्वमात्रार्थे तादर्थ्यादुत्कटा विधेरेव प्रयुक्तिः । तदिदं लिप्सासूत्रे निपुणतरमुक्तम् । न च विध्यनाक्षिप्तत्वात् प्रधानमविधेयम् ;?R फलकरणीभूतत्वापादनेन च विधिमूकमेव फलाक्षिप्तं प्रधानं विषयतया स्वीकृतम् । अतो विधेयमेव । शेषं सुगमम् ॥
?Rइति द्वितीयसूत्रं समाप्तम् ॥
?R?0तस्य निमित्तपरीष्टिः ॥ 1-1-3 ॥
?R?0 ?R?0ननु द्वितीयसूत्रेण श्रुत्यर्थाभ्यामर्थस्वरूपप्रमाणे प्रतिज्ञाते । तत्र श्रुतिप्रतिज्ञातं प्रधानं भेदाभेदरूपेण वाच्यमिति तदवसरोऽयम् । अथानपेक्षशास्त्रावगम्यसाध्यानुबन्धभेदहेतुकशास्त्रभेदात्तदर्थभेदधीरिति
?Rप्रामाण्यहेत्वनपेक्षत्वावसरोऽयम् ;?R तन्न ;?R प्रधानं ह्यनागतापेक्षणनयादनपेक्षतामादाय भेदेन वक्तुं युक्तम् ।
?R
?R मैवम् ;?R आर्थी हि प्रामाण्यप्रतिज्ञैव श्रौतालौकिककार्यप्रतिज्ञासम्भावनार्थेत्यनपेक्षत्वेऽनुक्ते प्रामाण्यानवगमे कार्यस्यैवासम्भावितत्वमित्यनपेक्षतां साधयित्वैव कार्यं स्थिरीकृत्य शास्त्रभेदतस्तदर्थभेदो वाच्य इत्युक्तम्- ‘?Rप्रामाण्यहेत्वनपेक्षत्वावसरः कथ्यते’ ?Rइति ।
?R
?R विवरणे तु शङ्का- प्रतिज्ञानन्तरं हेत्वभिधानं युक्तम् । शिष्यशिक्षार्थमपि ‘?Rहेत्ववसरोऽयम्’ ?Rइति वाच्यम् ;?R न तु ‘?Rहेतुपरीक्षा’ ?Rइति वाच्यम् । मैवम् ;?R शिष्यो हि सिद्धहेतुकथनान्न व्याख्यायां शिक्षितो भवति, स्वसंविदनुसरणप्रकारमसौ ज्ञाप्यः ;?R हेतुपरीक्षात एव हि तस्य हेतुप्राप्तिः ;?R सिद्धहेत्वभिधानं तु परबोधनार्थे वादे, न तु शिष्यशिक्षार्थे ग्रन्थे ;?R न हि साध्यावस्थइतिविमतसन्दिग्धाज्ञबोधनार्थोऽयं ग्रन्थः ;?R किन्तु स्वसंविदनुसरणप्रकाराज्ञशिष्यशिक्षार्थः ;?R शिक्षितप्रकारो हि हेतुमनुसृत्य वस्तु ज्ञास्यतीति युक्तं परीक्षावसरकथनम् । क्वचिदपवादविषयेऽप्युत्सर्गानुशासनात् क्तिना परीक्षार्थे परीष्टिरिति रूपम् । तदेवमध्यायार्थप्रतिज्ञासूत्रमिदम् । द्वितीयसूत्रेण शास्त्रमारब्धम् ;?R अनेनाध्यायार्थः प्रतिज्ञातः ॥
?Rइति तृतीयसूत्रं समाप्तम् ॥
?R?0सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं
?R?0विद्यमानोपलम्भनत्वात् ॥ 1-1-4 ॥
?R ?Rअधुना वेदार्थस्य प्रत्यक्षाद्यविषयतामुक्त्वानेन सूत्रेण औत्पत्तिकसूत्रेण
?Rवेदस्यानपेक्षतां वदता परीक्षा कृता । ‘?Rसति संप्रयोगे बुद्धिः प्रत्यक्षम्’ ?R- इत्यनूद्य वेदार्थवोधं प्रत्यनिमित्तता वर्तमानविषयतयोक्ता । अनुमानोपमानार्थापत्तीनां तु लिङ्गसदृशानुपपन्नद्वारत्वात् वर्णद्वारत्वाच्च वेदार्थस्य वर्णानां च लिङ्गादिद्वारत्वानुपपत्तेरनुमानादेरप्यनिमित्तता । न चेयं न सूत्रिता, विद्यमानमुपलम्भनं यस्य इत्यनुमानाद्यर्थेन सूत्रितत्वात् , प्रायेण विद्यमानस्यैव लिङ्गदिभावात् । विवरणे तु विद्यमानं सिद्धरूपं कार्यप्रतिपक्षमभिमतम् । अतोऽनुमानादेरप्यनिमित्तिता सूत्रिता, न भविष्यद्रूपता कार्यस्य भाष्योक्ता ;?R किन्तु वेदप्रमेयत्वाधिष्ठानं भविष्यद्रूपं व्याख्यातम् । तद्द्वारत्वादित्यनेन तु दूरापेततोक्ता, शब्दे निमित्तेऽप्यनुमानाद्यभावात् । न च नित्यानुमेयः शब्दोऽस्तीति च यदुक्तं न तद्वेदवाक्यस्य नित्यानुमेयतां विहन्ति, तद्वाक्यगतानामपि शब्दानां प्रत्यक्षत्वात् । एतच्च मेयप्रत्यक्षस्वरूपं सूत्रितम् , न तु मितिमातृप्रत्यक्षस्वरूपमपि ;?R मेये हि वेदार्थे प्रसक्तमेतदेव निरसनीयम् ।
?R
?R संप्रयोगश्चात्र त्रिविधः - संयोगः संयुक्तसमवायः समवायश्चेति । संयोगाद्धि द्रव्यं स्पर्शमहत्त्ववत् पार्थिवाप्यतैजसवायवीयात्मकमैन्द्रियकम् , संयुक्तसमवायाज्जातिगुणौ, समवायाच्छब्दः । गुणपदेन च संख्यासादृश्यादेरूपसंहारः । संख्या न गुणः - इति साध्यम् ;?R सादृश्यं तु स्वरूपत एव साध्यम् । गुणकर्माश्रितत्वात्संख्या न गुणः । न च गुणे न संख्यासमवाय इति वाच्यम् । समवायो ह्यनाश्रित एव समवायिनोः सम्बन्धबुद्ध्या कल्प्यते, न तु ‘?Rइह’
?Rइति धिया । न च कर्मणामस्थायित्वात् द्वित्वाद्यनन्वयो वाच्यः । द्वितीयाद्यनवस्थानेऽपि द्वित्वाद्यन्वयात् । सर्वानवस्थाने तु द्वित्वादिधीर्वाधकदर्हतालम्बना । सादृश्यस्थितिस्तु उपमानवादे । न च गुणादिसादृश्यार्थं सन्निकर्षान्तरं धीहेतुः कल्प्यम् ;?R अनन्याधीनधिया हि तता ;?R
?Rक्लृप्तसन्निकर्षैरेव चानुमानान्तर्भावात् सादृश्यधीसिद्धिः । संयोगाच्चक्षुस्पर्शनाभ्यां द्रव्यधीः । प्राप्यकारि चक्षुः, बहिरिन्द्रियत्वात् त्वगिव । तैजसं हि तत् , रूपधीहेतुत्वाद्दीपवत् । तस्य रश्मयः पृथ्वग्राः प्रसरन्तः पृथून्यपि द्रव्याणि प्राप्नुवन्ति, सान्तरालधीस्तु देहापेक्षया नयनरश्मिभिरेकीभूतस्य बाह्यतेजसो भागः कोऽपि धीहेतुरदृष्टादिति समकालं भौमध्रुवधीः, न चातिदूरव्यवहितधीः । नन्वेवं रश्मीनां स्वतोऽपि पृथुद्रव्यव्याप्त्या बाह्यतेजसैकीभूत चेति द्विधा धीहेतुता कर्तव्या । नायं दोषः, द्विधा कार्यदर्शनात् । वितेजोदेशस्थस्य सतेजोदेशस्थपृथुद्रव्यधीर्दृष्टेति तद्व्याप्त्या धीहेतुता । अतिदूरानन्तरितयोर्युगपद् दृष्टेरेकीभूयापि हेतुता । अतिक्षेपीयस्तया तु युगपत्ता दृष्टविरुद्धा न कल्प्यते । प्रसरद्भिरेव रश्मिभिरेकीभूताभिमुखतेजोभागमध्यवर्तिन धीर्दृष्टेति नातिदूरव्यवहितानभिमुखधीहेतुता । न त्वेवमादिकल्पनाभयान्मानसिद्धप्राप्यकारित्वहानं युक्तम् । किञ्च अभिमुखतेजोभागमध्यवर्तिधीहतुतोभयवादिसिद्धा प्रसरत्तैकीभूतता च तेजःस्वभावसिद्धा न कल्प्येति यथोक्तं युक्तम् । न च घ्राणश्रोत्ररसनादिभिरपि द्रव्यधीरिति वाच्यम् , अनुपलब्धेः । स्पृष्टे तु द्रव्ये न रसनादिना धीः ;?R किन्तु सर्वव्यापित्वगिन्द्रियेण, तस्य क्लृप्तशक्तित्वादन्यदेशे द्रव्यधियं प्रति । द्रव्ये त्रिविधे दर्शनस्पर्शनजा धीः ;?R वायोस्तु स्पर्शनमात्रात् । न च स्पर्शमात्रे धीरिति वाच्यम् ;?R तद्गतनानास्पर्शानुभवेऽप्येकप्रत्यभिज्ञानाद्वायोः प्रत्यक्षता, न तु चाक्षुषता ;?R महदनेकद्रव्यारब्धमपि न नीरूपं वाय्वादि चाक्षुषम् । नन्वमहत्वादेव द्व्यणुकस्येव परमाणोरप्यप्रत्यक्षतासिद्धेरनेकद्रव्यारब्धत्वोपादानं व्यर्थं स्यात् । मैवम् ;?R लक्षणान्तर्निवेशे हि द्वयोर्व्यर्थता ;?R इह तु महत्त्वानेकद्रव्यत्वस्य हेतुतोक्ता ;?R सा चान्वयव्यतिरेकानुविधानात् । तत्र व्यतिरेकानुविधानं परमाणूनामनेकद्रव्यारब्धत्वस्य शक्यं
?Rवक्तुमित्यनेकद्रव्यारब्धत्वाभावात्परमाणोरदर्शनमुक्तम् । रूपवदालोकस्य रूपधीहेतुत्वदर्शनाद्रूपधीन्द्रियं रूपवत् , गन्धधीन्द्रियं गन्धवत्वार्थिवम् , शब्दधीन्द्रियं शब्दवन्नभः ;?R रूपवत्तेजसोदीपस्य रूपधीहेतुत्वदर्शनार्द्रूपधीन्द्रियं तैजसम् , रसधीन्द्रियं रसवदाप्यम् , स्पर्शधीन्द्रियं स्पर्शवद्वायवीयम् ;?R भूतानां वहिरिन्द्रियारम्भकत्वनियमादियं व्यवस्था । यदि हि स्पर्शधीन्द्रियं न वायुः, तदा तसयेन्द्रियारम्भकता न स्यादेव । एवं नित्यद्रव्यगतवैशेषिकगुणासमवायिकारणभूतद्रव्यान्तरसंयोगार्थं द्रव्यं मनोऽनुज्ञानम् । तच्चाणु, आरब्धत्वे कल्पनागौरवापत्तेः ;?R परममहत्त्वे च हेत्वभावादात्मना सह संयोगाभावात् । न च पार्थिवाद्यणु तत् इति वाच्यम् , तस्य द्रव्यारम्भकत्वनियमात् , अस्य तदनुपगमात् । तच्चान्तरमुखदुःखेच्छाद्वेषप्रयत्नधीहेतुः ;?R बाह्यार्थस्मृतौ च संस्कारसहितम् । एवमान्तरबोधे सुखादिमदात्ममनस्संयोगः, सुखादिमनस्संयुक्तसमवाय इति द्वयं हेतुः । रूपादिग्रहे त्वात्मनस्संयोगः, मन इन्द्रियसंयोगः, द्रव्येन्द्रियसंयोगः, रूपादीन्द्रियसंयुक्तसमवाय इति चतुष्टयम् । अनेकसन्निकर्षानुज्ञानं च- असमवायिकारणभूतः संयोगो ह्यात्मना सहानुज्ञातः ;?R आत्मसमवेतसुखाद्यग्रहात्सुखादिसंयुक्तसमवायोऽनुज्ञातः ;?R एवमन्यचित्तस्येन्द्रियार्थसंयोगेऽप्यग्रहात् तस्येन्द्रियसंयोगोऽनुज्ञातः ;?R इन्द्रियद्रव्यसंयोगेऽपि द्रव्ये रूपाद्यसमवाये रूपाद्यग्रहात्तत्संयुक्तसमवायोऽनुज्ञातः ;?R द्रव्यग्रहे संयोगत्रयमर्थादुक्तम् । एवं सन्निकर्षान्निर्विकल्पकसविकल्पकरूपद्वयं बाह्यमेयप्रत्यक्षम् । नन्वनिन्द्रियसन्निकर्षजमपि भावनाप्रकर्षजं युक्तं साक्षादूद्विरूपं मेयप्रत्यक्षम् । तन्न, तस्य स्मृतिभेदत्वात् ;?R अनुभूतिर्हि साक्षाद्धीः प्रत्यक्षम् ;?R स्मृत्यनुभूती च नानास्वाभावे मानबलसिद्धे ;?R साक्षाद्धीः स्वरूपधीः ;?R अक्षाद्धि स्वेन रूपेण भानम् ;?R लिङ्गशब्दसदृशानुपपन्नेभ्यस्तु
?Rलिङ्ग्यदिरूपपरसम्बन्धितारूपेण भावम् । सविकल्पके नामादिरूपतः स्वरूपतोऽपि भानमिति साक्षाद्धीत्वम् । अनक्षजापि मितिमात्रोः स्वरूपभानात्साक्षाद्धीरेव । दूरादशेषविशेषाभानेऽपि त्वचा चाशेपरूपाभानेऽपि परसम्बन्धितारूपेणाभानात्साक्षात्त्वम् । तदेव विशदावभासः संवेदनं चोक्तम् , न तु धीस्फुटता साक्षात्त्वम् ;?R सर्वैव हि धीः स्फृटा । स्मृतेर्विशदत्वेऽप्यमानत्वादप्रत्यक्षता ;?R अविशदत्वे हि विशदावभासेन सह भेदाग्रहो न स्यात् । सापेक्षतापि स्मृतेः परवेद्यतोल्लेखरूपितार्थवेदनात् स्ववेद्ये, न तु स्ववेद्येऽनुमादिकथा । न च मच्छिष्यधीवेद्यत्वान्मत्पूर्वधीवेद्यमित्यनुमानेऽपि तत्तास्पदतापत्तिः ;?R अनुमा हि पूर्वधीवेद्यताविशिष्टे ;?R न तु वेद्यतावधृते, अनपेक्षस्वभावत्वात् । अनुभूतांशमोपेऽपि स्मृतेः परवेद्यवेदनताशक्तिनियमः कारणानुसारतः ;?R अनुमाने तु परवेद्यतोल्लेखादर्शनान्न तद्रूपे शक्तिनिश्चय इत्यवधेयम् । यदि तु भेदकबहुधर्मवत्त्वेन वेद्यता साक्षात्त्वम् , तदा दूरात्सामान्यवेद्यं प्रत्यक्षं न स्यात् ;?R पक्षधर्मताबलादिनानुमानादावपि बहुधर्मवत्त्वेन धीरिति न भेदः । न च लक्षणं प्रायिकतया समर्थनमर्हति । न च स्वकीयरूपतो वेद्यता साक्षात्त्वम् ;?R पररूपतो हि न वस्तुनो वेद्यता ;?R न हि द्विरूपं वस्त्विति पूर्वोक्तमे साक्षात्त्वं युक्तम् । स्मृतेः प्राची धीरेव वेद्या, नार्थः - इति न वाच्यम् , ‘?Rतत्’ ?Rइत्यवमर्शस्यार्थविषयत्वात् । पूर्वधीवेद्यतारूपितार्थपरिच्छदात्परिच्छेदे सापेक्षतया अप्रकृष्टा स्मृतिः ;?R अनेवंरुपा प्रकृष्टा धीः प्रमेति भेदः । वर्तमानविषयता च या प्रत्यक्षस्योक्ता, सा सूक्ष्मक्षणभेदानवमर्शादिदन्तया भानात् ;?R न तु यत्क्षणवतोऽर्थस्य सन्निकर्षः, तत्क्षणवतोऽर्थस्य भानादित्यवधेयम् । मितिमातृप्रत्यक्षतापि यथोक्तेनैव साक्षात्त्वेनेति तदवसरे वाच्यम् । अतः सूक्तं प्रत्यक्षादेर्वेदार्थेऽनिमित्तत्वम् ॥
?R?0औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्यज्ञानमुप-
?R?0देशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं
?R?0बादरायणस्यानपेक्षत्वात् ॥ 5 ॥
?R ननु लोके शब्दस्य मानान्तरवेद्यतोपहिते स्वार्थे शक्तिरव्यभिचाराद् व्युत्पन्ना यथा कार्यान्विते । अतः प्रत्यक्षाद्यवेद्यस्य न वेदार्थतापीत्यभाव एव वेदार्थस्येति शङ्कायामुत्तरं सूत्रेण । कार्यान्तवितस्वार्थमात्रे स्वभाविकसम्बन्ध्युत्पत्तेर्वेदार्थधीः । मानान्तरवेद्यता तु न व्युत्पत्तिनिवेशिनी ;?R यत्र हि व्यवहारदर्शनम् , तत्र शक्तिधीः । न च मानान्तरवेद्यतापि व्यवहारान्तर्भूता ;?R कार्यबोधाधीनस्तु व्यवहार इति तदन्विते शक्तिर्युक्ता । स्वार्थमात्रावधृतशक्तेरेवाप्तवाक्यान्मानान्तरं वाक्यार्थविषययनुमान मानान्तरवेद्यार्थता पश्यतां न मानान्तरवेद्यत्वेऽपि शक्तिधीः । ननु तदवेद्येऽपि न शक्तिधीः । मैवम् ;?R प्रसिद्धार्थकामिदपदसमभिव्याहाराल्लोकव्युत्पत्त्युपायादपूर्वकार्यार्थता लिङादेः, शब्दान्तराणां च तदन्वितस्वार्थव्युत्पत्तेर्मानान्तरानपेक्षार्थत्वमपौरुषेयवेदवचसां युक्तम् । लोके मानान्तरात् स्वार्थधीः ;?R तत्पूर्विकैव पुंसां वाक्यरचना यतः ;?R इदमेव हि पौरुषेयत्वं वाक्यस्य, न तु वर्णादिकार्यता । कार्यव्युत्पत्तिस्तु चोदनासूत्रे ;?R चोदनासूत्रे ;?R अपूर्वव्युत्पत्तिरपूर्वाधिकरणे ;?R इह तु मानान्तरवेद्यताप्रत्युक्तितोऽनपेक्षतया वेदः स्वार्थे प्रमाणमित्युक्तम् । स्वयं प्रतीयते शब्देनेति “?Rस्वयं प्रत्ययो ह्यसौ” ?Rइत्युक्तं भाष्ये । विवरणे तु- ‘?Rदेवदत्तादिपदे सङ्केतादर्थधीदर्शनात्सर्वशब्दानां सङ्केतादर्थबोधकता ;?R न चेत्प्रत्यक्षादिगम्यो वेदार्थः, न तत्र सङ्केतः शक्य इत्यभाव एव वेदार्थस्य’ ?R- ?Rइति शङ्कासूत्रेण निरस्ता । वृद्धव्यवहारतो निश्चितशक्तेर्गवादिशब्दादर्थधीदर्शने सत्यन्यत्र देवदत्तादिपदे दृष्टः सङ्केतो नानुमेयः ;?R न हि दृष्टे हेतौ हेत्वन्तरानुमा ;?R प्रत्यनुमानाच्च न सङ्केतसिद्धिः । पूर्वे जना व्यवहारसिद्धशक्तिज्ञानाद्गवादिशब्दादर्थधीभाजः,
?Rगवादिशब्दादर्थधीयोगित्वात् , अधुनातनजनवत्- इति प्रत्यनुमानम् । देवदत्तादौ मूलभूतः सङ्केतो दृष्टः तत्रापि ये व्यवहारतोऽर्थधीभाजः, ते तत एव ;?R न सङ्केतात् । वृद्धव्यवहारपरम्परादिमत्तया च सङ्केतपूर्वत्वं सम्बन्धाक्षेपपरिहारे परिहार्यम् । अतो वेदो वेदार्थेऽपूर्वे प्रमाणम् , नान्यदिति ॥
?R “?Rवृत्तिकारस्तु” ?R। अधुना लोकसिद्धप्रत्यक्षादिव्यभिचारदर्शनान्निरालम्बनतापाते वेदार्थाभावशङ्का । सेह लक्षणपरं तत्सद्व्यत्ययेन सूत्रं व्याख्याय प्रत्यक्षव्यभिचारं कल्पनापञ्चकसमीचीनतया निरस्य अनुमानादीनां तत्सूत्रार्थायातलक्षणान्युक्त्वा निरस्यते । अतः सङ्गतिर्वृत्तिकाराद्यभावान्तवादस्थानानाम् ;?R स्वसंविदनुसरणस्यापि परसम्बोधनपर्यन्तत्वाद्वादर्थानतैवंविधानाम् । वृत्तिकारकृता सूत्रव्याख्या न युक्तेति वक्तुं वृत्तिकारकीर्तनम् । नञध्याहारो हि श्रुतिविरोधादयुक्तः ;?R अपरीक्षां प्रातज्ञाय छलेन परीक्षाप्ययुक्ता ; “?Rप्रसिद्धत्वात्” ?R- इति चासिद्धम् ;?R सर्वथा माने विवादात् , चोदनासूत्रे च प्रामाण्यप्रतिज्ञानात् परीक्षाभिमता । सर्वं चेदं दूषणं व्यक्तत्वान्न भाष्ये शाब्दोत्थं कृतम् । व्यत्ययस्त्वनुमतः । पूर्वोक्तसूत्रत्रयार्थोपपत्तिः सूत्रकृतैवोक्ता लक्षणद्वारेण- इति वक्तुम् ;?R उत्सूत्रत्वे तु सूत्रकृदनिपुणः स्यादिति भाष्यानुमतो व्यत्ययो लक्षणकरणं च । अत्र भाष्ये कल्पनां प्रत्यक्षमेवाभिप्रेत्य प्रत्यक्षव्यभिचारः शङ्कितः, अविद्यमानार्थान्तरानुसन्धानात्कल्पनानाम् । अनुसन्धानस्य च ज्ञानाकारत्वात् स्वलक्षणे असतोऽपि नालीकता ;?R साकारता च ज्ञानस्य शुक्तिरजतादाववश्योपेतव्यापि, तत्र हि बाधकोदयाज्ज्ञानाकारो रजतमिति वाच्यमिति । एवम् “?Rशुक्तिका हि रजतवत् प्रकाशते” ?Rइति भाष्ये निदर्शनत्वेनोक्तम् । अतः कल्पनासु लौकिकबाधानुदयेऽपि यौक्तिकबाधात् प्रत्यक्षव्यभिचारशङ्का, तामपनेतुमुक्तम्- न रजतं प्रत्यक्षम् , इन्द्रियसंयोगविरहात् ;?R
?Rकिन्तु स्मृतिः । अतो न ज्ञानमात्रं साकारम् ; ‘?Rनेदं रजतम्’ ?Rइति बाधकोदयाच्चातत्संप्रयोगजतानिश्चयः । तर्हि लौकिकबाधकरहिते जात्याद्यनुसन्धानेऽतत्संप्रयोगजत्वा निश्चये प्रत्यक्षव्यभिचारो दुर्वारः । मैवम् । जात्याद्यनुसन्धानाकारस्यापि स्वलक्षणे समीचीनत्वान्न व्यभिचारः ;?R न ह्यसमीचीनं किञ्चिज्ज्ञानम् ;?R शुक्ते र्हि रजतात्मना भाने धीरयथार्या स्यात् ;?R न च ‘?Rरजतं शुक्तेरात्मा’ ?Rइति काचिद्धीः ;?R अत उक्तम् ‘?Rअन्यस्यान्यथा भानं धीहतम्’ ?Rइति । धीरेव हि भानम् ;?R यदर्थव्यवहारानुगुमं हि यद्भानम् , तत् तदर्थभानमित्युच्यते । स चार्थो भानस्य वेद्यो विषय इति चोच्यते । ननु धीजन्यो व्यवहारयोग्यतात्मा धर्मो विषयता, तत्कल्पनायां मानाभावात् । तेन ‘?Rइदम्’ ?Rइति भानं पुरोवर्तिन व्यवहारानुगुणम् , रजतभीनं च रजततावच्छिन्ने तस्मिन् व्यवहारानुगुममिति रजततापि वेद्येति । ननु ‘?Rइदम्’ ?Rइत्येतत्समानाधिकरणतया रजतभानम् ;?R न च वस्तु तथेत्ययथार्थमेव । मैवम् ‘?Rइदम्’ ?Rइति रजतव्यक्तितुल्यधर्मकवस्तुभाने रजतजातिस्मृतौ च सत्यां रूप्यन्तर्भावाच्च रूपबुद्धेरिदमन्तर्भावो जातः ;?R तत्र तु विवेको न भातः - किमपररूपिसन्निधेरित्थं भानमुत निजरूपिसन्निधेरिति । अतो भानस्थमात्रापेक्षया सत्यधीतुल्यतेति युक्ता समानाधिकरणता । विवेकग्रहावसरे तु निजजातिरूपितम् ‘?Rइदम्’ ?Rइति रूपिभानम् ;?R रजतजातिभानमपि निजव्यक्त्यन्तररूपतया । एवं च विवेकाग्रहावसरे रजतव्यवहारः विवेकग्रहे तु तद्वाधः तद्वाधाच्च भ्रमता । अयं भावः - निरन्तरभानं हि रूपरूपिणोरेकधीवेद्यतया स्वतो युक्तमित्येकधीवेद्यताङ्गीकृता । यत्र धीद्वयं युक्तिसिद्धमविच्छिन्नम् , तत्रापि तद्वेद्याविच्छेदादन्तर्भूतरूपकं रूपिभानमिति बलाद्भिन्नधीवेद्यतास्वीकारोऽपि युक्तः । यदा तु शुक्तिजातिरूपितम् ‘?Rइदम्’ ?Rइति रूपिभानम् , तदा रजतजातिरन्तरितभाना ;?R न तु धीद्वये वेद्यनिरन्तरतान्यथात्वभानम् ।न चात्यन्तोद्ग्रन्था सामानाधिकरण्येऽपि स्मृतिरुपेया । तदेवं यद्यपि पुरोवर्तिनि भानमुभयथापि
?Rसत्यम् , तथाप्यनुवृत्तस्य भानस्य फलमनुवर्तते ;?R तेनतद्बलवत् । अत एव यत्र ‘?Rइदं रजतम्’ ?Rइति, तत्र ‘?Rइदं रजतम्’ ?Rइत्यस्यानुवृत्तेर्यन्मध्ये भेदकधर्मभानम् , तत् स्मृतिरूपम् ;?R रजतधर्माग्रहश्चानुज्ञेयः ;?R अभेदकरजतधर्मभानमेव तु गृहीतिः, न तु भेदकधर्मभानमित्येवं बलवत्ता । यत्र त्वननुवृत्तिस्तत्र भेदाग्रहो दोषाधीनोऽनुज्ञायते ;?R लोकसिद्धदोषपदार्थस्य हि कार्यखण्डकता क्लृप्तेव । ये तु दोषोपहतधीसामग्रीतोऽन्यथाख्यातिमाहुः, तेषां दोषस्वभावविपरीतशक्तिकल्पना स्यात् । यद्धि यस्य कार्यम् , न तद्विकृतं दोषात् ;?R जाठराग्नेः कार्यं रसो विहत एव भस्मकात् , पाकाधिक्यं त्वग्निमात्रतया प्रबलीभूतस्य युक्तम् ;?R न तत्र दोषता भस्मकादेः । दग्धं तु वेत्रबीजं कदलीकार्ये सामग्री, न तु दाहोऽस्मिन् कार्ये दोषः ;?R वेत्राजननात्तु दोषता, न तु विकृतवेत्रजननात् । एवं च यज्जातीयकार्यजनिका या सामग्री न सा दोषात्तज्जातीयं कार्यं विकृतं करोतीति न धीजातीयं दोषाद्विकृतं युक्तम् । एतेन वेत्रदाहादिवन्नेत्रादिदुर्बलतैवान्यथाख्यातिसामग्रीत्युपगमोऽपि मन्दफलः । समग्रधीकार्यगम्यसामग्र्या विशेषोपधानात् सामग्र्यन्तरं न धीजातीयमेव विकुर्यादिति नान्यथाख्यातिसिद्धिः । सन्दिग्धे चान्यथाख्यातिकार्ये सामग्र्यन्तरोपगमोऽप्ययुक्तः । एवं हेतुमुखेनाप्यन्यथाख्यातिरयुक्ता ।
?R किञ्च अयथार्थधईपक्षे धीतोऽर्थनिश्चयरूपोऽनाश्वासः स्यात् । न च निर्दोषधीहेतुजा धीरर्थाश्वासकरी, निर्दोषत्वेऽप्यनाश्वासात् । न च धीयथार्थत्वपक्षेऽपि व्यवहारानाश्वासतुल्यतापातः ;?R धीतोऽर्थदार्ढ्ये हि विरोध्यन्तरानुदये च न व्यवहारविचिकित्सा ;?R पक्षान्तरे तु किंदार्ढ्येनार्थनिश्चयाद्व्यवहारोदयः मूलशैथिल्यात् ??R किञ्च रजताकारस्य स्वरूपवत्त्वेन भानान्नालीकता न चार्थरूपतेति धीरेव साकारा स्यादिति बाह्यार्थापलापो दुर्वारः । तदेवं विवेकाग्रहात् क्वचित् स्मृत्योः क्वचित् गृहीत्योः
?Rक्वचित् गृहीतिस्मृत्योः स्वप्नपीतशङ्खशुक्तिरजतादिभ्रान्तिसिद्धिरिति दिङमात्रम् ;?R भ्रमवच्च सत्यतयैव सन्देहधीसिद्धिः ।
?R ननु कल्पनापञ्चके सत्यता न सिद्ध्यति । तथा हि- अवस्तुभूतजातिगुणकर्मात्मकं तत्तयाध्यवस्यन्ती धीरसत्या, अवस्तुभूतनामद्रव्यात्मकं तत्तयाध्यवस्यन्ती धीरसत्या, अवस्तुभूतनामद्रव्यात्मकं तत्तयाध्यवस्यन्ती धीरसत्वैव । वस्तुसमानाधिकरणतया च भानात्तदात्मकतया धीः । ननु व्यधिकरणभानमपि पञ्चसु- अस्य संज्ञा, दण्डोऽस्य, कर्मास्य, गोत्वमस्य, शुक्लो़स्य इति । अत एवानवस्थितभानं न वस्तुनो युक्तमित्यसत्यतैव । जातेरवस्तुता पृथगग्रहणादुक्ता । पृथग्ग्रहश्च द्विदोक्तः ;?R वस्तुभूता हि तुल्यवद्व्यक्त्या सह पृथक् भासेत ;?R तथा व्यक्त्यग्रहेऽपि कदाचिद्गृह्येत । तदेतदुभयं निवर्तमानं वस्त्वन्तरतां जातेर्निवर्तयति गुणस्य च । ‘?Rआश्वयद्रव्यानुत्पत्तेर्निराश्रयत्वादाश्रयभेदाभेदविकल्पासहत्वादाश्रये वृत्तिविकल्पासहत्वादाश्रयोत्पत्तिविनाशयोराश्रयान्वयानन्वयप्रकारानिरूपणात्’ ?Rइत्यादिना जात्यपलापप्रपञ्चोऽप्युक्तः । जातिवद् गुणापलापः । कर्मापलापस्त्वाश्रयाभिमतात् क्षणिकादेवागन्तोः कर्मफलस्यागन्तुकस्य सिद्धेर्न कर्मकल्पनेति । ननु तुच्छरूपा जातिः कथं स्वरूपवत्त्वेन भाति ??R मैवम् ;?R कल्पनाज्ञानाकारकतया वस्तुनोऽवगमात् ;?R बाह्यात्मकताभिमानस्त्वतद्व्यावृत्तिसामान्याद् भेदाग्रहादध्यासापरपर्यायात् । अत एव नित्यात्मसुखानां ज्ञानाकाराणामेव भेदाग्रहाद्बाह्याभिमानात् संसारस्थितिः । तदुक्तम् “?Rप्राक्बाधकज्ञानात्” ?Rइति । प्राक्पदं विनार्थे ;?R कल्पनापञ्चके बाधकं विना तत्संप्रयोगजता दुर्निरूपेति ।
?R अत्र समाधिः - शुक्तिरजतादौ तावद्वाह्यताकारस्योक्ता । कल्पनाकारस्यापि बाह्यत्वात् तत्संप्रयोगजतैव, जास्यादेर्बाह्यत्वात् तद्योजनाकारस्यापि बाह्यत्वात् ;?R न हि योजनमेकताभानम् ;?R किन्त्वभेदव्यपदेशमात्रम् ;?R तदपि कदाचित् । न च जातेरसत्त्वात्तत्कल्पना न बाह्येति वाच्यम् ;?R न तावज्जातेराश्रयानुत्पत्तेरसम्भवः, सद्वितीयेनाणुना तत्संयोगाद्द्व्यणुकाद्यारम्भात् स्थूलोत्पत्तेः यथानेकवस्त्वनुपगमेऽपि परमतेऽणुचयो धीहेतुः । वृत्तिस्त्वेकैकत्रावयविबुद्धेरनुत्पत्तेर्व्यासङ्गादेवेष्टा । येनापि सूत्रस्य कुसुमेषु वृत्तिमवयवान्तरतो व्यासङ्गाद्दृष्ट्वावयविवृत्तिर्व्यासङ्गतो वार्यते, तेनापि सूत्रस्य स्वावयवेषु व्यासङ्गवृत्तिरनुज्ञातेति तन्निषेधोऽशक्यः । एवं भिन्नाया एव जातेर्द्विधा पृथग्ग्रहणं रूपतया । येनापि हि भिन्नानां घटपटादीनां पृथग्ग्रहो दृष्टः, तेनापि घटत्वादिरूपस्य पृथग्ग्रहोऽप्यनुज्ञात एव ;?R प्रत्येकं च व्यक्तितः पृथग्ग्रहोऽप्यस्त्येवेति भेदसिद्धिः । जातेस्तु वृत्तिः प्रत्येकं कार्त्स्न्यन ;?R वृत्तिर्ह्यपरिमाणस्यानेकत्रापि कार्त्स्न्येन नादृष्टा । व्यक्त्यन्वयानन्वयौ च जातेः समवायोदयापायाभ्यां व्यक्त्युत्पादापायहेत्वधीनाभ्यां समर्थितौ । आगमसन्निधिहीनस्याप्युत्पन्नवस्तुपरतन्त्रतया भानादेव संयोगविलक्षणः सम्बन्धः कल्पितः समवायशब्दवाच्यः । समवायश्च स्वयमनाश्रित एव स्वभावात् स्वतन्त्रपरतन्त्रयोः समवायिनोराश्रयाश्रितताभानहेतुः । अत एव यावत् समवायकल्पना न जाता तावन्न ‘?Rइह गोत्वम्’ ?Rइति धीरित्युक्तम् । भिन्नोऽप्यवयवी द्विधा न पृथग्गृह्यते, अवयवसमवेतत्वादवयवग्रहाधीनग्रहत्वाच्च । येनापि हि घटादेर्भिन्नस्य पृथग्ग्रहो दृष्टः, तेनापि पृथग्ग्रहोऽवयविनोऽनुज्ञात एव । तादात्म्याङ्गीकारे त्वेकतैव स्यान्न तु सम्बन्धितेति स नानुज्ञात इत्यनुसन्धेयम् , धीबलात् । यत्र च भेदभानेऽप्येकाकारावमर्शः, तत्रैव जात्युपगम इति सत्त्वशब्दत्वब्रह्मणत्वादिजातिर्नोपेता ;?R न हि द्रव्यादिभाने पूर्वाकारावमर्शोऽस्ति, येन सत्त्वं जातिः स्यात् । सच्छब्दप्रवृत्तिनिमित्तमेकमपि न जातिः, किन्तु क्रियैव
?Rमितिरूपा ;?R तयोपलक्षिता योग्यतैव सत्ता । योग्यतां तु न स्वरूपातिरिक्ता, स्वरूपमात्रे मितिदर्शनात् । सत्ताजातिमनुजानतापि स्वरूपमतिरिक्तमुपेयम् ;?R अन्यथा सत्ताया नित्यत्वात् त्रैकाल्यव्यवस्था न स्यादिति सत्ता सत्त्वद्रव्यत्वादेरपि स्वरूपसत्त्वमेव युक्तम् । ननु प्रतिस्वं स्वरूपभेदान्न मित्यर्हत्वमेकम् । तन्न ;?R यद्विधे हि द्रव्यगुणादौ मित्युत्पत्तिः, तत्सत्त्वमित्युपलक्षणोपाधिरेकः ;?R अतस्तत्र सत्स्वरूपवस्त्वादिशब्दा इति । ककारखकारादावप्येकाकारधीविरहाच्छब्दत्वजातिरप्ययुक्ता । शब्दपदानुवृत्तिस्तु श्रोत्रोत्थधीक्रियोपलक्षितयोग्यतात एव । तद्योग्यता तु केषांचिदेव तद्धीवेद्यत्वदर्शनात् स्थिता । शब्दत्वजातिमनुजानतापि केचिदेव जात्यन्वयिनो वाच्याः । ‘?Rननु जातियोगः केषाम् ??R ’ ?Rइति पृष्टो जात्युपलक्षणेनैव प्रतिवक्तीति युक्तम् । ब्राह्मणत्वादिजातिरप्ययुक्ता ;?R न हि नानानरेषु नरत्वातिरिक्तं शूद्रादिनिवृत्तमनुगतमाकारमनुसन्दधाना धीरुदेति । ब्राह्मणादिशब्दानुवृत्तिस्तु सन्ततिविशेषजस्त्रीपुंव्यतिकरजन्मक्रियोपलक्षणा । सन्ततिविशेषास्तु प्रत्येकं लोकत एवावधार्याः - एतज्जो ब्राह्मशब्दवाच्यः - इत्येवं गृहीतसम्बन्धस्य ब्राह्मणपदप्रयोगो मूलभूतः । न तु ब्राह्मणशब्दवाच्यमातापितृजतया सम्बन्धग्रहो वाच्यः, मातापितृब्राह्मण्यबहिर्भावे सर्वब्राह्मण्यानुपसंहारात् । नानासन्ततिष्वपि लोकप्रसिद्धितो गणत्वेन सम्बन्धग्रहणान्नानेकार्थता । अगणितोऽपि गणः सम्बन्धग्रहहेतुः आकृतिगण इव शब्दानाम् । जात्युपगमेऽपि कतिपयसन्ततिजतयावधृतब्राह्मण्यमातापितृजत्वधीपराधीनैव जातिधीरनुज्ञेया ;?R अन्यथा हि मातापितृब्राह्मण्यधीव्यवस्था न स्यात् । एकवर्तिकावर्तिनीनां ज्वालानां जात्यन्तरं न युक्तं विना भेदभानात् । अतो भेदभानेऽप्येकाकारभानाज्जातिसिद्धेर्जातिकल्पनां संप्रयोगजैव । तथा गुणकल्पनापि, पृथगग्रहेऽपि जातिवत् भेदसिद्धेः । द्रव्यकल्पनापि व्यक्तभेदत्वात् द्रव्यस्य
?Rतत्संप्रयोगजैव । नामकल्पनायां तु संज्ञाशब्दस्य स्मृत्यारोहेऽपि संज्ञिनस्तत्संप्रयोगजता न हेया । कर्मकल्पनायामनुमेयकर्मयुक्ते द्रव्ये तत्संप्रयोगजा धीः । न च द्रव्यमेवागन्तु क्षणिकत्वात्तत एव कर्मफलोत्पत्तेर्न कर्मानुमेति वाच्यम् , प्रत्यभिज्ञादार्ढ्यात् क्षणिकतानुमानादार्ढ्याच्चाक्षणिकतासिद्धेः । अतो भ्रमसन्देहकल्पनादेरप्रकारान्तरत्वात् प्रकारद्वयमेव- प्रमाणं स्मृतिश्च प्रत्ययः - इति सिद्धम् ॥
?R “?Rननु” ?R। संप्रति बाह्यार्थापह्नवेनार्थसंप्रयोगाभावात्तत्संप्रयोगजत्वाक्षेप इति संगति । पूर्वपक्षस्तु- स्वप्ने तावत् स्मृतित्वमशक्यम् , संस्कारोद्बोधहेतोः सदृशचिन्तादेर्दृष्टस्याभावात् ;?R अचिन्तितेऽपि क्वचित् स्वप्नोत्पत्तेः । न चादृष्टमुद्बोधकं कल्प्यम् ;?R क्लृप्तेनैवोपपादयितुं स्मृतिप्रमोषप्रकारोऽङ्गीकृतः ;?R स्वप्ने चेन्न तथा, तद्वरं वासनात एवार्थाकारः स्वप्नोदयः ;?R प्रवोधे बाह्यार्थं प्रतिबाधोदयान्नार्थहेतुकता । एवं च जाग्रंद्बोधोऽपि वासनात एव ;?R एकहेतुकत्वं हि लाघवाद्युक्तम् । अर्थस्य च स्वप्ने बाधितत्वादव्यापिता, वासनायास्तु न बाध इति सैव सर्वधीहेतुः । वासना चानाद्वियामोहधीसन्ततिरेवेति नातीव तत्कल्पनापि । न च संविदद्वैतविरोधः । तदुक्तम्- “?Rवासनातो व्यामोहः, व्यामोहाद्वासना बीजाङ्कुरवत्” ?Rइति । एवं च सर्वधीकार्याल्लघुनि कारणे वासनाख्येऽनुमानमिदम् ;?R न तु प्रत्ययत्वादित्येवम् , येनानैकान्तिकताद्युद्भावनं स्यात् ॥
?R राद्धान्तस्तु- यथाकार्यं हि कारणानुमानम् ;?R स्वप्नधीकार्यं च बहिरर्थभानरूपमर्थमेव यथासम्भवं हेतुतयाऽनुमापयति, न वासनाम् । न चार्थे बाधः, स्मृतित्वात् स्वप्नस्य । न चादृष्टकल्पनादोषः, सुखदुःखहेतुतयादृष्टस्य क्लृप्तत्वात् । स्वप्ने च सुखदुःखोदयात् क्लृप्तमेवादृष्टम् ;?R स्वल्पकालान्तरितापि
?Rचिन्तोद्बोधहेतुः दृष्टेति, यत्र तथा, तत्र चिन्तैव हेतुः । स्वप्ने च स्मृतीनामेव ‘?Rतत्’ ?Rइत्यग्रहान्मिथ्यात्वम् । भाष्ये च “?Rसुपरिनिश्चिता बुद्धिः कथं विषर्यसिष्यति” ?Rइति बुद्धेरविपर्ययोक्त्या विवेकाग्रह एव मिथ्यात्वमुक्तम् । एवं जाग्रत्स्वप्नधीषु सर्वत्र बाह्यार्थसिद्धेर्युक्तं तत्संप्रयोगजतया प्रत्यक्षलक्षणम् ॥
?R “?Rशून्यस्तु ।” ?Rस्वप्नद्वारके बाह्यार्थाक्षेपे समाहितेऽपि युक्त्यन्तरेण पुनराक्षेपसमाधानाभ्यां बादान्तरं संगतमवान्तरसंगतं च । प्रत्ययप्रक्रमात्तस्यैवार्थशून्यतोक्ता, न तु ज्ञानस्याप्यभावाच्छून्यता माध्यमिकमतोक्ता । योगाचारयुक्तितो हि बाह्यार्थापह्नवे सति माध्यमिकमतं तद्युक्तिबाधाद्बाध्यत इति न पृथङिनरासः । अत्र च ग्राह्यग्राहकयोः संविदन्तर्भावादद्वैतमनेन क्रमेण ग्राहकं ग्राह्येऽन्तर्भूतम् , ग्राह्यं तु संविदि इति । तथा हि- ग्राह्यं संविदः संम्बद्धमेव युक्तम् ;?R अन्यथा ग्राह्यव्यवस्था न स्यात् । सम्बन्धिता च ग्राहकस्य, ग्राहकता चात्मनो मनसो वा मतभेदतः ;?R युक्तितस्तु नोभयोरपि ;?R किंतूभयसन्निकर्षस्य, तस्यैवाव्यभिचारिणस्तादात्म्यादाश्रयत्वसम्भवाद् ग्राहकत्वमिति ग्राहकमेव ग्राह्यम् । संविच्च प्रत्यक्षोपेया ;?R साकारं च प्रत्यक्षम् । एकश्चायं ग्राह्यभूत आकारः संविद एव युक्तः । न च वाच्यं यथाश्रयत्वमसत्यपि सम्बन्धान्तरे व्यवस्थितम् , तथा ग्राह्यता अनाश्रयास्त्विह ;?R स्पष्टे हि ग्राहकस्याकारान्तरे तद्बलादसम्बन्धेऽपि ग्राह्यता युक्ता । इह त्वेक एव नीलाद्याकारः ;?R स चेत्संविदि निवेशितः, अपह्नुते तर्हि ग्राह्यग्राह्यके । अयं भावः - व्यवहारानुगुणं हि वस्तुसंवित् ;?R सैव प्रकाशः ;?R तदन्यज्जगज्जडम् , तदधीनव्यवहारात् । तद्यदि प्रकाशोऽपि पराधीनव्यवहारः, तदा सोऽपि जड एव स्यादिति व्यवहारानर्हं जगदन्धं स्यात् । अथार्थं प्रति प्रकाशता संविदः, न स्वं प्रति ;?R तन्न, प्रकाशस्वभावताहानात् । न च अधीकर्मतया संविदो न सिद्धिरिति वाच्यम् ;?R धीकर्म सिद्ध्यति- इत्यनुजानता धीत्वेनापि
?Rसिद्धिरुपेतैवेति धीस्तत्कर्म चोभयं सिद्धम् ; ?Rकिन्तु धीः प्रकाशस्वभावा स्वरूपवती वाच्या, निःस्वरूपस्याभानात् ;?R स्वरूपं च नीलाद्यतिरिक्तं न निरूप्यते इति नीलाद्याकारैव संवित् ।
?R यत्तु कीर्तेर्हेतुत्रयम् , तन्मन्दमिति गुरुणा नोपन्यस्तम् । तथा हि- निराकारापि धीर्नीलादिव्यवहारानुगुणतया ‘?Rनीलधीः, पीतधीः’ ?Rइति व्यवस्थामर्हति, सहोपलम्भनियमस्तूपलभ्ययोरभेदसाधनम् , नोपलम्भोपलभ्ययोः ;?R जडस्य प्रकाशात्मकता नेष्टा । प्रकाशसम्बन्धिता तु जडस्यैव भिन्नस्य युक्ता । यत्तु सौत्रान्तिकवैभाषिकनये धियः साकारतां मुक्त्वापि यद्बाह्यं साधितम् , तदपि मन्दम् ;?R नानाभूतसमनन्तरप्रत्ययेभ्य एव नानाविधज्ञानोदयदर्शनात् बाह्यहेतूपगमो न युक्तः ॥
?R राद्धान्तस्तु- सत्यं संवित्प्रकाशरूपा, न तु नीलाद्याकारा ;?R तदाकारत्वे प्रकाश्यत्वापत्तेः प्रकाशताहानिः स्यात् । यथा च नीलादिकं स्वरूपम् , तथा संविदपि स्वरूपमिति तद्भानं युक्तम् । भानं हि संविदेव तत्त्वतः । सैव नीलादेरिति नीलादेर्भानमुच्यते । सा च यद्यप्यान्तरी ‘?Rइदम्’ ?Rइत्यनिर्देशात् , तथापि सा स्वभावाद्बाह्यनीलादिव्यवहारानुगुणत्वान्नीलादिभानमित्युच्यते ;?R न तु नीलाद्याश्रितोऽसौ धर्मः, अतीतानागतनीलादेरपि भानोपगमात् । यत्र च भाने नीलादि साक्षातकारव्यवहारादि भजते, तत्र नीलादि संवेद्यतया प्रत्यक्षम् ;?R संविद्धेतुश्च ज्ञानं न नीलादिभानारूढमिति तदमेयं प्रमेयमात्रम् , न संवेद्यम् ;?R निरावरणं स्वलक्षणं ज्ञानारूढं संवेद्यम् ;?R दूरात् सामान्यमात्रमपि तथेति संवेद्यमेव । तदेवं प्रत्यक्षेऽर्थे साक्षात्कारः ;?R धीस्त्वतिरोहितस्वलक्षणभाना सर्वत्रैव साक्षात्कारवती प्रत्यक्षा, तथा ज्ञाततापीति वक्ष्यते । न च संविदनुमेया, लिङ्गाभावात् । नार्थमात्रं लिङ्गम् , व्यभिचारात् । न च ज्ञातताविशिष्टम् ,
?Rविशेषणस्याज्ञानारूढत्वे विशिष्टस्यालिङ्गत्वात् ;?R ज्ञानारूढत्वं गम्याभावात् । न चार्थधर्मः प्राकट्यं लिङ्गम् , अतीतानागतार्थधर्मत्वानुपपत्तेः । किञ्च, तत्प्राकट्यं चेत् , नामान्तरेण धीरेव ;?R नापरं गम्यम् । अथ तदन्यत् प्रकाश्यम् , तदार्थवत् प्राकट्यान्तरापेक्षेति प्राकट्यानन्त्यप्रसङ्गः । यच्च प्राकट्येऽर्थधर्मे दूषणम् , तदभावोद्धारेऽप्यर्थधर्मे तुल्यम् ;?R नामान्तरेण चाभावोद्धारो धीरेवोक्ता । न च स्वचेष्टादिरेव स्वधियो लिङ्गम् ;?R आगन्तुप्रयत्नवदात्मदेहसंयोगभेदादेव चेष्टाहेतोस्तत्सिद्धेर्न धीलिङ्गता । न चात्मधर्म एव तैरश्चीन्यादि लिङ्गम् ;?R तस्य प्रकाशस्वरूपत्वे धीत्वमेव ;?R प्रकाश्यत्वे तदानन्त्यम् । भाष्ये तु बुद्ध्यनुमानोक्तिर्धीहेतोरपि
कथञ्चिद्बुद्धिव्यपदेशात् । दिङ्नागेन हि तद्धीतोरेव नीलाद्याकारवत्तया प्रत्यक्षतामास्थायार्थापह्नवः कृतः ‘?Rज्ञातो ह्यः’ ?Rइति स्मृतिबलात् ;?R तन्निराकर्तुप्रत्यक्षार्थानुमेयज्ञानाभ्यामपि ‘?Rज्ञातः’ ?Rइति स्मृत्युपपत्तिरिति वक्तुं बुद्ध्यनुमानमुक्तम् । यदि चैकेनाकारेण संविदर्थात्मकं द्वयमशक्यमुपगन्तुम् , तद्वरं स्पष्टे बहिरर्थे संविदपह्नवात्तदनुमेयबुद्ध्यपह्नवोऽस्तु ;?R नार्थहानम् । बाह्यतन्तूपादाने नियमेन पटबुद्धेर्बाह्यः पटो वाच्यः ;?R वासनोद्बोधाधीनत्वे नियमासौरस्यम् । एवं च बहिरर्थसद्भावादिन्द्रियार्थसन्निकर्षजता प्रत्यक्षलक्षणं युक्तम् ॥ ?R
?Rअनुमानम् ।
“?Rअनुमानम्” ?R। प्रत्यक्षलक्षणं लोकप्रसिद्ध्यनुसारतः सूत्रयता दिगुपदर्शनद्वारानुमानादिलक्षणान्यपि सूत्रितानि ; भाष्यं स्फुटमाह ; लोकप्रसिद्धे हि मानान्तरे व्यभिचरति तत्साधर्म्याच्छास्त्रेऽपि व्यभिचारशङ्का ; सा लक्षणाव्यभिचारादपैतीति सङ्गतिः । अनुमा च प्रत्यक्षत्वप्रसिद्धेर्बहुवादिसंमतेश्च प्रत्यक्षानन्तरं लक्ष्यत इत्यवान्तरसङ्गतिः । लक्षणे च “?Rज्ञातसम्बन्धस्य” ?Rइति न कर्मधारयः, सम्बन्धस्यैकदेशितापत्तेः ‘सम्बन्धोऽग्निमान्’ इति धीर्लक्षिता स्यात् ; न
?Rचैवं लोकधीः । अतो बहुव्रीहिणैकदेशस्योपसर्जनस्यापि ‘कस्य’ इति साकाङ्क्षस्यानुपसर्जनावस्थस्य वाक्यभेदाद्विशेष्यता । आकाङ्क्षा च व्याप्यैकदेशार्था । अत एव वाक्यभेदाश्रयणम् । विशेषणापेक्षस्य च समर्थता ; ‘गुरुकुलम्’ इत्यत्र हि ‘कस्य’ इत्यपेक्षायां गुरुविशेषणं दृष्टम् । नित्यसापेक्षतया हि वैधर्म्यं शिष्यविशेषणे शक्यम् । यस्य च मते स्वर्ग उपसर्जनं पदान्तरार्थेन भावनयान्वितः, कस्तस्य विशेषणान्वये प्रद्वेषः ? इदं च शाब्दैरेव शब्दोत्थं कृतम्- “?Rअथ शब्दानुशासनम् । केषां शब्दनाम् ? लौकिकानां वैदिकानां च” ?Rइत्यत्र । किञ्च स्वभावाद्दृश्यमेव दर्शनस्य प्रधानमिति तदहानादेव दृश्यदर्शनयोरन्वयान्नोत्तरपदार्थप्रधानता तन्त्रम् । शब्दानां पूर्वनिपातार्था तूपसर्जनसंज्ञा, अन्तर्गतविभक्तिलोपार्था च । यत्तु भट्टमतम्- ज्ञातः सम्बन्धो येनेति व्युत्पत्त्या बुद्धिगम्यो बोद्धा विशेष्यः, यस्येति व्युत्पत्त्या एकदेशद्वयगम्यस्तत्समुदायो वा एकदेशी वा विशेष्यः इति, तत्स्वोक्तिहतम्-
“?Rगम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् ।”
?Rइति वदता । न च वाच्यम्- क्वचिद्गम्यस्यापि विशेषणं संख्यादि दृष्टम् ‘षट् गावः’ इति ; न सर्वत्र गम्यमविशेष्यमिति दुर्लभलब्धमिव योज्यम् इति ; यतस्तद्धि गम्यमविशेष्यम् , यदतत्परात् पदादविनाभावाद्गम्यते धूमपदादिवाग्निः ;
?Rव्यक्तिपर्यन्ते हि गोपदे पडिति विशेषणं युक्तमेव । अतः सर्वत्र गम्यमविशेष्यम् । न च स्वत एव विशेष्यनिष्ठमिति वाच्यम् , अनामत्वात् । पिनाकपाणिपदं तु नाम विशेष्यार्थं युक्तम् । न च वाच्यम्- गुरुनये वाक्यभेदाध्याहारानुषङ्गदोषाः ; तद्वरं लाक्षणिकप्रमात्रादावन्यतमो विशेष्यः ; तथा हि- ज्ञातसम्बन्धस्येति वाक्यान्तरम् , ‘कस्यैकदेशस्य’ इत्यध्याहारः, ज्ञातसम्बन्धस्येत्यत्र वाक्ये ‘एकदेशस्य’ इत्यनुषङ्गः इति ; यत उक्तं विवक्षितपरे नरवाक्ये वाक्यभेदादि न
?Rदोषः इति । किञ्च आकाङ्क्षाभिलापोऽयम् ‘कस्यैकदेशस्य’ इति ; न त्वद्ध्याहारः ; यथाश्रुतस्य विशेषणानर्हत्वादवस्थान्तरान्तर्भावार्थं विरम्यविशेषणान्वयादवान्तरवाक्यभेदेऽपि महावाक्यमेकमिति नानुषङ्गः । सकृच्च मुख्यलाक्षणिकत्वायोगात् बुद्ध्यादिपदानां न लाक्षणिकप्रमात्रादिविशेषणता । योऽपि गुरूक्ते युक्त्यन्तरे दोषोद्भेदः - नैकदेशजानुमा, अतीतेऽपि लिङ्गे धीस्थेऽनुमोदयात् ; दर्शनमेव कार्यबलात् प्रधानम् , न तु दृश्यम् इति, सोऽयुक्तः ; व्याप्यतया ज्ञातस्यैकदेशस्य विज्ञातकार्यस्य संस्कारो युक्तः, न तु सत्तयैकदेशः ; कार्यवत्तया संस्कार्योऽवगत इति दृश्यं प्रधानमेव । नन्वाकाङ्क्षापूर्तिर्विशेषणेऽपि नास्ति ; ज्ञातो हि सम्बन्धो व्यापकस्यापि । तन्न ; ‘यस्य’ इति विग्रहवाक्यस्थषष्ठ्या सम्बन्धितया व्यपदेशः सः, - यस्य सम्बन्धोऽस्त्येव, तस्यासाधारण्याद्युक्त इति षष्ठीतो व्याप्यताधीः ; अव्याप्येऽपि हि व्याप्तिविवक्षायां षष्ठी । लोकेऽपि ‘ममायम्’ इत्यत्र ममेति व्याप्यम् ‘अयं पुनरन्यस्यापि’ इति वाचा व्याकृतम् । अतो विशेषणादाकाङ्क्षापूर्तिः । यत्तु भट्टोक्तम्- न सम्बन्धोऽस्त्येवेति व्याप्यता ; किन्तु व्याप्तेर्नियमपर्यायात्सम्बन्धान्तरात् इति, तन्न ; नियमो हि सदात्वं सम्बन्धादेर्धर्मः, न सम्बन्धः ; तदा कादाचित्कत्वमपि सम्बन्धः स्यात् । क्रियागर्भ एवंजातीयकः सम्बन्धः - इति कल्पनाप्यमानिकी स्यात् । तादात्म्यतदुत्पत्तिभ्यां व्याप्यतेत्यपि न ; पञ्चभियाप्यतेत्यपि न; सम्बन्धान्तरेऽपि
?Rतद्दर्शनात् अत्राप्यदर्शनात् गणनमयुक्तम् । व्याप्यत्वे मानमुच्यते- यद्वस्तु येन मानेन सम्बन्धविशिष्टतयावसीयते, तेनैव सम्बन्धव्याप्यतापि । धर्मी हि कालाद्यवच्छिन्नो भाति, न तत्सम्बन्धोऽपि धर्मः कालादिधर्मावच्छिन्नः ; गुणानामगुणपरतन्त्रस्वभावत्वात् । जैमिनिनापि स्वभावानुसारादेव समत्वादसम्बन्ध उक्तः, नाशब्दत्वात् । यदि हि धर्मोऽपि कालाद्यवच्छिन्नो भासेत न धर्मिमात्रानुबन्धितया, तदा निजधर्मनिरूप्यो धर्मी न प्रत्यभिज्ञायेत । अथ
?Rधर्म्यवच्छेदकेन धर्मोऽप्यन्तर्भावित इति यावद्धर्मितया निजधर्मिता सिद्धा, तर्हि सम्बन्धव्याप्यता धूमादेः । या तु सम्बन्धस्य सर्वथानवच्छेद्यतोक्ता, सा तथा प्रतीते व्याप्तिदार्ढ्यार्थम् । अत उक्तम्- ‘धूमसत्तैव परमानमपेक्षते ; अग्निसम्बन्धस्तु धूममात्रानुबन्धी सकृद्दर्शनसिद्ध एव’ । ननु धूमाकृतिकव्यक्तिभेदे संयोगभेदवति सकृद्दृष्टेन व्यक्त्यन्तरं संयोगान्तरवद्दृष्टमिति न व्याप्तिः । मैवम् ; एवं हि व्यक्तिभेद उपाधिरिति शङ्केयम् ; सा च व्यक्त्यन्तरेऽपि धियापैति । यदि चानेकव्यक्त्युपाधिशङ्का, तदानुगतं तदाकृतिकत्वमेकमुपाधिर्लाघवात्तर्कतः ; उपाधिशङ्कापनयनमपि तर्कान्मानोत्पत्तिसहायादिति दिक् । एवं प्रतीतेऽपि विषयेऽनुमानुभूतितया मानान्तरमिष्टेति । अग्निस्त्वसम्बन्धोऽपि दृष्टः । सम्बन्धासम्बन्धयोर्नानाकालाग्निगतयोश्च दर्शनादेवमविरोधार्थं कल्प्यते- सविशेषण एवाग्निः कालाद्यवच्छेद्य इति । विरोधे त्वसति धूममात्रस्यैवाविच्छिन्नोदयस्य नभोवर्तिनः स्वतः - सिद्धोऽवच्छेदः । ननु धूमेऽप्यसम्बन्धो द्रक्ष्यत इति शङ्कायां व्याप्यत्वानिर्वाहः । मैवम् ; यद्विधे हि यस्य दर्शनम् , तद्विध एव अर्थान्तरे तस्य शङ्का ; यस्य कुताश्चिदुपाधेः सम्बन्धः, तस्योपाधिविगमादसम्बन्धोऽपि स्यात् यथार्द्रेन्धनोपाधिरग्नेः । न च धूमस्य सम्बन्धेऽप्युपाधिः कश्चिन्निश्चितः, यद्विगमादसम्बन्धोऽपि स्यात् । नन्वनौपाधिकत्वस्याप्यनिश्चयादुपाधिशङ्का । तथापि निश्चितोपाधिविगमाधीना शङ्का नास्त्येव । किन्तु उपाधिशङ्कापि नास्ति,
?Rसम्भावितोपाधेर्विगमेऽपि सम्बन्धदर्शनात् । एतच्चासकृद्दर्शनायत्तमिति तदादृतं वृद्धैः । ननु दीर्घकालादेरुपाधिता, यस्य विगमानवगतेर्न तत्र शक्यं वक्तुम्- विगमेऽपि सम्बन्धनियमानुवृत्तेर्नोपाधितेति । तन्न ; तद्विधस्य कालादेः क्वचिदुपाधितानवगतेर्नेहोपाधिताशङ्का ; यद्विधे त्वृत्वादौ कुसुमादिसम्बन्धोपाधिता तद्विधविगमे सम्बन्धानुवृत्तिदर्शनार्थं भूयोदर्शनमुक्तम् । किञ्च ‘अस्मिन् काले सम्बन्धो नान्यदा’ इत्येवं कालस्योपाधिता वाच्या । न च कालाद्यवच्छेदान्तर्भावः
?Rसमवायदर्शनादर्शनविरोधं विना ; यद्विधे हि यद्दृष्टं तद्विध एव तच्छङ्केत्युक्तम् । सकृद्दर्शनादेव स्वभावमात्रानुबन्धित्वं स्वतःप्रामाण्यनयसिद्धमिति दिङ्मात्रम् ।
?R परोक्तं त्वयुक्तम्- भूयोदर्शनसंस्कारसचिवं मनो बहिरर्थे व्याप्तौ मानमिति, संस्कारस्यापरिच्छेदकत्वात् । किञ्चासाधारणसंस्कारानुप्रवेशे तेनैव मानव्यवहारान्मानान्तरमलोकसिद्धमनुज्ञातं स्यात् । किञ्च इत्थं व्याप्तिरग्न्यादावपि दुर्वारा । न चार्थापत्त्या व्याप्तिः, शतशोऽग्नौ धूमदर्शनमनग्नौ चादर्शनं शतशो व्याप्तिं विनानुपपन्नमिति ; यतो यत्र यदा च दर्शनादर्शने तत्र तदा सम्बन्धभावाभावाभ्यामेव तदुपपत्तेर्न व्याप्तिसिद्धिः । व्याप्तिस्मृतिश्च अनुमाङ्गमिति वक्तुं ज्ञातसम्बन्धतोक्ता । तदभावे साधारणासाधारणविरुद्धा हेत्वाभासाः । एकदेशश्च यथआसम्भवमाश्रितोऽभिमतः । आश्रिताभ्यां च लाघवादेकाश्रयाक्षेपः, अन्तरशब्दस्वरसाच्च । अत एकाश्रयाश्रितयोरेव गम्यगमकतोक्तेत्यपक्षधर्मस्याहेतुता । न च नितम्बोपरि भागभेदे भिन्नाश्रितता, नगावयव्येकत्वात् । अतः कदाचिन्नगाश्रितयोर्गम्यगमकता कदाचिद्धूमाश्रितोऽग्निसंयोगो गम्यः, धूमत्वं च तदाश्रितं निजं हेतुः । कृत्स्नपक्षानाश्रितस्य चाहेतुता उपाख्यानात्मकत्वस्येव कृत्स्नवेदानाश्रितस्य ; नगस्य त्ववयविनः पक्षत्वात् कृत्स्नाश्रितो धूमः । दर्शनशब्दात् स्वरूपासिद्धो न हेतुः । असाधारणस्य संशयहेतुता केनचिदुक्ता, सा न युक्ता ; उभयसम्बन्धिनो हि दृष्टस्योभयस्मृतिजनकत्वादेकस्य
?Rद्वायात्मकत्वविरोधात् सन्देहहेतुत्वं साधारणस्य युक्तम् ; न त्वसाधारणस्य, धर्मिमात्रादपि सन्देहापत्तेः । कथञ्चित्सम्बन्धात् कथञ्चिदेककालाश्रिततया चानुमानोदयादेककालादिसम्बन्ध एककालाद्याश्रिततापि मता । तथा दर्शनशब्दात् सतोऽपि दर्शन एव हेतुता । एकदेशान्तरपदादस्वतन्त्रस्य गम्यता । अन्तरशब्दाच्चैकाश्रिताश्रितयोरेव गम्यगमकता । एवं समाप्तेऽपि लक्षणे
?Rसुहृद्भूत्वोत्पत्तिहेतुगणनार्थमसन्निकृष्टपदं कृतम् । तज्जिज्ञासितधर्मपरं परिशिष्टे व्याख्यातम् । जिज्ञासा च तद्धर्मत्वनिश्चये तद्विरुद्धधर्मत्वनिश्चये च नास्तीति नानुमा ; यदि तु निश्चितेऽपि मानान्तरतो निश्चयेच्छा, कथञ्चित् तदानुमोदेतीत्युक्तम् । प्रकरणे विरुद्धधर्मत्वनिश्चये तु जिज्ञासापि न हेतुरित्यभिसन्धाय बाधित एव नानुमेति स्थापितम् , न तु साधिते तथा ; गुरुनर्ये हि सिद्धविषयमेवानुमानम् । परोक्तम्- “?Rअसन्निकृष्टवाचा च द्वयमत्र जिहासितम् ।” ?Rइति । न तत् तुल्यं द्वयम् । असत्प्रतिपक्षता च यथोक्तहेतुद्वयाद्विरुद्धसाध्यद्वये सन्देहापत्तेरिष्टा ; सा त्वतुल्यत्यात् द्वयस्य प्रत्युक्ता ; तुल्यत्वे वा वस्तु नित्यसन्दिग्धं स्यादिति दिङ्मात्रम् ।
“?Rतत्तु द्विविधम्” ?Rइत्यनेन व्यापि लक्षणमित्युक्तम् , अदृष्टस्वलक्षणेऽपि क्रियाशक्यादौ सामान्यरूपेण सम्बन्धग्रहणादेवानुमोत्पत्तेः । क्रियायां तावत् कादाचित्कं ह्यागन्तुजं दृष्टम् ; अतः सेयोगवीभागादागन्त्वनुमा ; समवायिकारणस्य पूर्वस्थितेरसमवाय्यागन्तु, तत्कर्मेत्युच्यते । न च कर्मण आगन्तोरसमवाय्युपेयम् , तत्कर्मजस्यास्त्विति वाच्यम् । कर्मासमवायिहेत्वभिमतसंयोगस्तावन्नोदनाभिघातादिरूपोऽसमवायितया कार्यान्तरजनने निरूपितनियतस्वभावः - यत्स्वाश्रये स्वाश्रयसमवेते वा करोति, नान्यत्र- अवयवसंयोगः स्वाश्रयेऽवयविनम् ; प्रचयाख्योऽवयवसंयोगः स्वाश्रयसमवेतेऽवयविनि महत्त्वम् ; तन्तुतुरीसंयोगः पटतुरीसंयोगं जनयन्नेकदैव
?Rस्वाश्रयतत्समवेतयोः - न सोऽपि नियममतिक्रामति । तथा गुरुत्वद्रवत्ससंस्काराः कर्महेतवः ; तेऽपि न नियममतिक्रामन्ति । अवयवगुरुत्वं स्वाश्रयसमवेतेऽवयविनि गुरुत्वं करोति । कथावयवद्रवत्वादवयविद्रवता । संस्कारोऽप्यात्माश्रयःस्वाश्रये स्मृतिं करोति । वेगाख्योऽपि संस्कारतया तथा ।
?Rएवं नियमानतिक्रमात् कर्महेतुभ्यः कर्मजन्यसम्भावना मानहता । कर्मणि त्वपूर्वे नियमोऽयं नावधृत इत्यतद्विधेऽपि देशे तज्जन्यं युक्तम् । नन्वसमवायिकारणतया संयोगादेरयं नियमः ; अत एवार्थेन्द्रियसंयोगादिरतद्विध आत्माश्रये धीकार्येऽतिक्रान्तनियमः । युक्तं चेदम् ; समवायिनि द्विधा प्रत्यासत्तिरसमवायिनस्तदसमवायतत्कारणसमवायरूपेष्यते । स चेन्नियमोऽत्र कार्ये कर्मकल्पनेऽपि हेयः किं कर्मणा ? तन्न, न तावदसमवायिहेतोरयं नियमः, वेणुदलविभागजे खदलविभागेऽतिक्रमात् , द्वित्वाद्युत्पत्तौ च । प्रत्यासत्तिस्तु समवाय्यन्तर्भावात् , न त्वसमवायिबहिर्भावनियमात् । किञ्च यद्यसमवायितामात्रेणायं नियमोऽवधार्येत, कर्मजन्यं कार्यमसमवायिशून्यं स्यात् । संयोगादेर्दृष्टस्यासमवायिनोऽयं नियमो नासमवायितामात्रस्येति स्वीकृते द्वयं सुस्थम् । असमवायिनियतता सर्वकार्याणम् ; असमवायिनां दृष्टानां नियताश्रये कार्यकारिता च ; द्वेधासत्त्युपगमो दृष्टासमवायिन्येव । नन्वदृष्टं स्थाणावपि कल्प्यताम् ; यावदसमवायिविषय एव नियमोऽस्तु । तन्न ; यदि तावदेकमेव स्थाणुश्येनाद्याश्रितं तन्नानास्वभावं स्यात्- श्येनं प्रति देशान्तरप्रापकं स्थाणुं प्रति नेति । अथ द्वयं कल्प्यं नानास्वभावम् , तन्न ; विभागोपक्रमे संयोगे द्वयाश्रितेऽप्येकस्मिन् कार्ये लाघवतर्कसहायैकासमवाय्यनुमायुक्ता । लाघवादेव श्येने ; स्थाणौ हि कर्मणि क्लृप्तेऽपि विभागांशस्य स्थाण्वनाश्रितस्य कृते कर्मान्तरं श्येनेऽपि कल्प्यं स्यात् । नियमे तु दृष्टासमवायिगतेऽपि व्यवस्थिते लाघवमेव । यत्तु केनचित् दृष्टासमवायिन्यपि नियमासिद्धिरुद्भाविता-
?Rतन्तुद्वयसंयोगात्तन्त्वराश्रितोऽपि पटः कार्यं दृष्टमिति, तन्न ; तन्तुजखण्डावयविनन्तुसंयोगजो हि पटः स्वाश्रय एव दृष्टः । एवं द्व्यणुकत्रयसंयोगे त्र्यणुकहेतौ योज्यम् ।
?R नन्विन्द्रियानन्तरं स्फुरत्कर्म नासति बाधके लौङ्गिकं युक्तम् । तन्न, लिङ्गातिरिक्तस्वलक्षणास्फूर्तेः ; स्फूर्तिविवादे चायं निर्णयः - रूपिद्रव्याश्रितेष्वपि कार्यगम्यं चक्षुरादेर्नियतग्राहित्वम् ; तत्र किं कर्मग्राहित्वमपि कल्प्यताम् उत क्लृप्तं तद्ग्राहीति ? लाघवाल्लैङ्गिकत्वे स्थिते क्षणभेदाग्रहादनन्तरताभिमानः । एवंविधे सर्वत्र हि इयमेव युक्तिरिति दिङ्मात्रम् । यस्तु प्रयत्नवदात्मदेहसंयोगस्यान्तरस्य बर्हिःकार्यं नेति नियमात् समाधिः ; स तु न, उक्तनियमासिद्धेः ; सुखवदात्मदेहसंयोगाद्बह्रिदेहदेशे रोमाश्चादिदर्शनादव्यापित्वाच्च ; आन्तराभिघातादिसंयोगस्य बहिःकार्यार्हत्वात् । तथा शक्तावप्यनुमैकगम्यतेष्टा ; कुण्ठदशायामजनकस्य कुठारस्य तैक्ष्ण्यतिशयवतः कार्यदर्शनात् , अग्नेर्मन्त्रादियोगदशायामजनकस्य दाहकार्यं सातिशयस्यैवेत्यतिशयानुमा ; सोऽतिशयः शक्तिरित्युच्यते । अथ जनकेऽप्यग्नौ मन्त्राद्यप्रयोगस्यापि हेतुत्वान्मन्त्रप्रयोगे न सामग्नीति न कार्यम् । तन्न, अप्रयोगस्याभावत्वात् सर्वकार्याणां च भावरूपकारणनियतत्वदर्शनात् अभावरूपस्य क्वचिदपि कार्यजनकत्वाश्रयणायोगात् । अयं भावः - भावाभावयोः भावहेतुकयोरेवाभावोऽपि सहकारी वाच्यः मुद्गरपाताभावे घटोत्पत्तेः ; तन्न ; पाताभावे हि भावहेतुसाकल्पादेव घट इति नाभावस्यापि हेतुताश्रयणम् ; अन्यत्रातः शक्तिसम्बन्धविषयेऽपि नाभावस्य हेतुतेति परमदृष्टस्वलक्षणहेतुकता । न चादृष्टं सर्वहेतुः सिद्धमिति नापरा शक्तिः कल्प्यति वाच्यम् । उक्तं हि- जनकदशायामतिशयवत्ता दृष्टेति अग्न्याश्रित एव धर्मः कल्प्य इति आत्माश्रितादृष्टहेतुतासिद्धावपि शक्तिः कल्प्येति । न च
?Rअतिशयनाशादजनकतास्तु- अभिभवे कथम् ? अभिभवस्यानिरूपणात्- इति वाच्यम् ; यथा शक्तिः कार्यैकनिरूप्या तथा पुनःकार्योत्पत्तिगम्योऽवस्थाभेदोऽभिभव इत्युच्यते । अत्र परसिद्धमभावमुपेत्य
?Rहेतुता निरस्ता । अनुपगमे तु दूरोत्सारिता । अत एव गुरुनये- संयोगाभावात् पतनम् , भेदाग्रहात्प्रवृत्तिः, विद्ध्यतिक्रमात् प्रत्यवायः, नञर्थान्नियोगसिद्धिरित्याद्यननुयोगः । भावभेदादेव हि सर्वत्र कार्यम् , अभावानुपगमात् । एकदेश्यपि शक्तिवादी विद्ध्यतिक्रमे नाभावात् प्रत्यवायमाह-
“?Rस्वकाले यदकुर्वंस्तु करोत्यन्यदचेतनः ।
?R प्रत्यवायोऽस्य तेनैव नाभावेन स जन्यते ॥” –
?Rइत्याह । परोक्ता प्रतिबन्धकाभावस्यांहेतुत्वे युक्तिः - विरोधिप्रयोगे सत्युत्तेजकमन्त्रेऽपि कार्यं न स्यात् ; अथ विरोधिमन्त्रवदुत्तेजकमन्त्राभावोऽपि प्रतिबन्धकः, उत्तेजके सति तन्निवृत्तेः कार्यम् , तर्हि उत्तेजकाभावे विरोध्यभावेऽपि कार्यं न स्यात् ; अथ विरोधिविशिष्ट उत्तेजकाभावः प्रतिबन्धकः, तर्हि बहु कल्प्यम् ; वरं शक्तिकल्पनास्तु । तन्न ; प्रमाणाविरुद्धं बहु कल्प्यमेवेति अभावस्याहेतुत्वं यथोक्तमानविरोधादिति दिक् । एवमग्न्यादौ सिद्धा शक्तिर्भावान्तरेष्वपि कार्यकरेष्वनुमानसिद्धा । सा च नित्याश्रया नित्यैव अनित्याश्रयाश्रयहेतुजा । संस्कारस्तु नित्येष्वनित्यः हेत्वन्तरादनित्येष्वपि । सर्वशक्तौ तु ‘कार्ययोग एव शक्तेरुद्बोधः’ इति यदुक्तम् , तत् उद्भवधीस्तदैवेत्येवमविरोधः । क्वचिच्छक्तिनाशः क्वचिदभिभव इति च सर्वशक्तिनयोपयोगी ; इह तु सर्वत्र नाशोत्पत्त्युपगमेऽपि न दोषः । यत्र हि क्रियाहेतोः फलसिद्धिनिश्चयः तत्क्रियानुमानपूर्विकान्यत्रापि क्रिया फलानुमेयेति वक्तुं भाष्ये “?Rदेवदत्तस्य गतिपूर्विकाम्” ?Rइत्युक्तम् । यदि त्वादित्येऽपि गतिहेतोः फलसिद्धिः शक्यनिश्चया, तदानादरोऽन्यपूर्विकतायाः ।
?Rगतिनियततास्मृतितोऽनुमितेर्गतिस्मरणमुक्तं भाष्ये ।
?R परार्थानुमानवाक्यस्येयमेव सामग्री वाक्यार्थः । अबाधितार्था
?Rएकश्शान्तरार्था च प्रतिज्ञा ; साध्ये हि ज्ञाते सत्यवाधितधीरेकदेशान्तरधीश्च ; न तु साध्यबोधनार्था प्रतिज्ञा, सामग्रीत एव साध्यबोधोत्पत्तेः स्वानुमायामिव ; सम्बन्धनियमार्थो दृष्टान्तः ; एकदेशदर्शनार्थो हेतुः ; एवं त्र्यवयवता । हेतुदृष्टान्तयोः पौर्वापार्ये न नियमः, नियमस्मृतिपूर्वके तत्परके वैकदेशदर्शनेऽनुमोत्पत्तेः । एवं प्रतिज्ञया सह हेतुदृष्टान्तयोर्न पौर्वापर्ये नियमः । प्रायेण प्रतिज्ञा च यदग्रे, तज्जिज्ञासोत्पादात्सुखमनुमोत्पत्त्यर्थम् , न तु सामग्रीत्वात् ; यथा स्पष्टार्था- ‘यो यः स सः’ इति वीप्सा, ‘अग्निमानेव’ इत्यवधारणा च । एवं च यत्तत्पदे अपि किञ्चित्स्पष्टार्थे । पूर्वोच्चारणस्वरसादपि लिङ्गमुद्देश्यरूपं लभ्यते । परत उच्चारणे यत उद्देश्यता । वाक्यं च- ‘पर्वतोऽग्निमान्,’ ‘यो यो धूमवान् सोऽग्निमान् महानसादिः,’ ‘धूमवांश्चायम्’ इति । संक्षेपपक्षे- पंर्वतोऽग्निमान् धूमवत्त्वात् महानसवदिति । धूमवत्त्वादित्युक्तेऽर्थात् सम्बन्धिनियतता धूमस्याभिप्रेतावगम्यते । एवं ‘पर्वतोऽग्निमान्,’ ‘यो यो धूमवान् सोऽग्निमान्’ इत्युक्तेऽर्थात् धूमवत्त्वादित्यभिप्रायधीः । एवमङ्गुल्यादिनिर्देशेऽभिप्रायधियानुमोत्पादसिद्धिः । एवमवाचकादिप्रयोगेऽप्यभिप्रायधिया; किन्तु योग्यवाक्याज्ञता वक्तृदोषः । पञ्चावयवता तार्किकोक्ता न मता । प्रतिज्ञाहेतुदृष्टान्तानन्तरम् ‘धूमवांश्चायम्’ इत्युपनयः ‘तस्मादयमग्निमान्’ इति निगमः - द्वयं व्यर्थम् ; ‘धूमवत्त्वात्’ इत्युक्तेः ‘धूमवांश्चायम्’ इति पुनरुक्तिः ; ‘तस्मादयमग्निमान्’ इति च पुनरुक्तिः । वैधर्म्यदृष्टान्तं केचिदाहुः - ‘यत्राग्निर्नास्ति, तत्र धूमोऽपि नास्त्येव’ इत्येवम् ; तदपि व्यर्थम् ; साधर्म्यदृष्टान्तादेव नियततासिद्धेर्विपक्षे निवृत्तिरुक्तैव । सपक्षवृत्तिता पक्षवृत्तिता च हेतूक्त्यैवोक्ता- इति त्रिरूपतया हेतुतासिद्धिः । अथ वैधर्म्यदृष्टान्तेन
?Rसह विकल्पोऽस्तु । न ऋजुवक्रयोर्विकल्पः । न चोपायतापि वक्रस्य ; न हि विपक्षनिवृत्तेरभावरूपायाः सपक्षेऽस्तित्वनियमहेतुता । न चानन्तविपक्षनिवृत्त्या
?Rनियमः सुगमः । पक्षहेतुदृष्टान्तदोषाश्च यथोक्तसामग्रीवैगुण्यमेव । वैगुण्यं सर्वं हेतोरेव, विवक्षया पक्षदृष्टान्तयोः । अतत्त्वदोषाश्छलजातिनिग्रहा विमतबोधोपायतयादृतास्तार्किकैः ॥
?Rअथ शास्त्रवादः
“?Rशास्त्रम्” ?Rप्रत्यक्षानुमानाधीनव्युत्पत्त्यपेक्षस्येदानीं लक्षणमुच्यते । शास्त्रमिति लक्ष्यं निर्दिष्टम् ; लोके च यतः शब्दाच्छासनधीः, तच्छास्त्रं प्रसिद्धम् । शासनं च प्रेरणमभिमतम् , न च प्रेरणाधीः शब्दालम्बनाज्ज्ञानात् । कार्यज्ञानं च प्रेरणाविषयम् ; किन्तु शब्दाद्यत् ज्ञानं कार्यविषयम् , ततः प्रेरणाज्ञानं शास्त्ररूपम् । अतो ज्ञानं शास्त्ररूपं लक्ष्यमिति समर्थपञ्चमीसमासाश्रयणम् “?Rपञ्चमी,” “?Rभयेन” ?Rइति योगविभागात् । सप्तमीसमासपक्षेऽपि कार्यधीव्यवहिते प्रेरणाधीहेतुत्वेन दोषः । “?Rसप्तमी शौण्डेः” ?Rइत्याकृतिगणत्वाददोषः । कारकविशेषतयान्वयेऽस्मिन् सम्बन्धमात्रस्मृतषष्ठीसमासो नोक्तः । ननु कार्यधीरेव शाब्दी प्रमितिः, तत्परत्वाच्छब्दस्य ; न प्रेरणाधीः । मैवम् ; कार्यधीरेव हि स्वसाधनाक्षेपरूपा प्रेरणपर्यन्तेति पर्यन्ते लक्षिते तावती कार्यधीरेव लक्षिता भवति । प्रेरणाधीहेतुतया च शब्दः शास्त्रं चोदना चेति वृद्धप्रसिद्धिः समर्थिता भवतीति भावः । ननु लक्षणमतिव्यापि, ‘वन्ध्यासुतो याति’ इत्यतोऽपि शब्दाद्धीः शास्त्रं स्यात् । अथाप्रेरणाधीरियमिति नातिव्याप्तिः, तर्हि ‘वन्ध्यासुतं पश्य’ इति प्रेरणाधीर्भ्रान्तिमूलापि शास्त्रं स्यात् । अनास्थया ‘याति’ इत्युदाहृतम् । मैवम् ; उक्तं हि- पुंवाक्ये लिङ्गोपस्थितमानान्तरादर्थधीः, न शब्दादिति ; अनुवादधीस्त्वसन्निकृष्टपदाच्छाब्द्यपि न शास्त्रम् । ननु न सा मितिर्न स्मृतिरिति
?Rविधान्तरं स्यात् । मैवम् ; मितिस्वभावेयमनपेक्षतांशमोषेण स्मृतिवद्भाता- इति न लक्षिता, मितिकार्यादर्शनात् । अशासनाच्च न शास्त्रमुच्यते ।
?Rएवंविधविवेकार्थमित्थं लक्षणं कृतम् । न त्वविशिष्टं विशिष्टस्य लक्षणमिति शङ्का, लक्षणस्यापि विशिष्टत्वात् ; ‘शब्दादसन्निकृष्टेऽर्थे धीः’ इत्येवं लक्षणात् । एवं वेदवाक्यात् सम्यगवधृतवचनव्यक्तिकाद्धीर्लक्षिता । अनवधृततात्पर्याद्धर्माणां स्वरूपान्वयधीः विपरीतावधृततात्पर्यात् पूर्वपक्षधीः । पुंवाक्याद्धीर्निरस्ता, अर्थाप्रतिबन्धात् । बौद्धोक्तविसंवादित्वं च शास्त्रादीनां निरासानर्हम् , स्वतः प्रामाण्यात् परतो विसंवादाभावाच्च ; लक्षणग्रन्थोपयोगि तत्र तत्र स्थितत्वान्नोच्यते । “?Rशब्दविज्ञानात्” ?Rइत्यस्योपयुक्ताः शब्दार्थसम्बन्धव्युत्पत्तयः ; “?Rअसन्निकृष्टे” ?Rइत्यस्य सपरिकरापूर्वस्थितिः ; “?Rशास्त्रम्” ?Rइत्यस्य शास्त्रभेदादीति ॥
?Rअथ उपमानवादः
?R “?Rउपमानम्” ?Rअसन्निकृष्टार्थशास्त्रानन्तरमसन्निकृष्टार्थमुपमानं लक्ष्यते । लक्षणे सादृश्यमुक्तं न तद्द्रव्यम् , गुणकर्मणोरप्याश्रितत्वात् । अत एव च न गुणः, न च कर्म । न सामान्यम् , अननुवृत्तेः । न समवायः, असम्बन्धत्वात् । विशेषपदार्थस्तु न मानार्हः ;?R स्थूलकार्यगम्यं हि परमाणूनां पृथक्त्वम् ;?R स्थूलं हि द्व्यणुकादिक्रमेण ;?R द्व्यणुकमणुद्वयात् ;?R भेदे च द्वयम् ;?R भेदश्च विशेषोगादिति वेशेषानुमा ;?R भेदस्तु पृथक्त्वात् दृष्ट इति स्थूलात्पृथक्त्वानुमेत्युक्तम् ;?R स्थूलकार्योन्नेयं पृथक्त्वम् ;?R तदधिकस्तु विशेषो न मानार्हः ;?R अथ पृथक्त्वहेतुतया तदनुमा, तन्न, नित्यत्वात् परमाणुपृथक्त्वस्य ;?R अथ भेदकधर्मनियतात् पृथक्त्वात्तदनुमा, अथ भेदकधर्मनियतात् पृथक्त्वात्तदनुमा, तन्न, भेदकधर्मासिद्धेः स्वरूपत एव वस्तूनां भेदप्रसाधनात् ;?R एवं योगिप्रत्यभिज्ञयापि भेदकधर्मासिद्धिः ;?R असिद्धा च योगिप्रत्यभिज्ञा- इति सादृश्यं धीसिद्धं पदार्थान्तरम् । तत्र यदपि परोक्तम्- गुणावयवकर्मसामान्यानि तद्योगो वा जात्यन्तरस्य सादृश्यमिति- जात्यन्तरस्येति प्रायिकम् , यमलयोरपि दर्शनादिति, तत्प्रत्युक्तम् ;?R न सामान्यम् ,
?Rअननुवृत्तत्वात् ;?R न योगः, असम्बन्धत्वात् ; ‘?Rतद्वत्’ ?Rइति हि तद्धीः ;?R न तु ‘?Rतत्’ ?Rइति ‘?Rसम्बन्धः’ ?Rइति वा । किञ्च सामान्ययोगयोर्गुणादिवर्तिता अवहुता च ;?R सादृश्यं गुणादिमद्वर्ति बहु चेति भेदः । गुणादिसामान्यं होकार्थसमवेतसमवायात् गुणादिमद्योगि ;?R सादृश्यं तु तद्गतं धीस्थमिति भेदः । सामान्यान्याश्रयभेदेऽपि तान्येव ;?R सादृश्यं तु न तथेति भेदः । सादृश्यं हि प्रत्याश्रयं भिन्नम् , न संयोगादिवदेकम् ; ‘?Rसदृशम्’ ?Rइति प्रत्येकं धीः प्रत्येकं भिन्नविषया ;?R यापि ‘?Rसदृशौ द्वौ’ ?Rइति धीः, सा सादृश्यद्वयधीपूर्विका । एकधीस्थयोरपि हि प्रतियोगिस्वरूपप्रतिसन्धानापेक्षा प्रतियोग्यन्तरे सादृश्यधीः ;?R संयोगिनोरेकधीस्थयोस्तु संयोगालिङ्गितयोरेव धीरित्येकः संयोगः सादृश्यमनेकमन्योन्यनियतं च धीसिद्धं पदार्थान्तरम् । तच्च प्रीतिकरत्वादिसामान्यादेः गुणगतमनुमेयम् , कारकसामान्यादेः कर्मगतमनुमेयम् ;?R प्रत्यक्षत्वोपगमे हि संयुक्तसमवेतसमवायादपीन्द्रियशक्तिकल्पनापत्तिः ।
?R नन्वेवं सादृश्यात् प्रत्यक्षात् परोक्षद्रव्यगतमनुमेयम् , नोपमानमेयं स्यात् । मैवम् ;?R भिन्नधर्मिधर्मभूताविह गम्यगमकौ ;?R आद्यदर्शन एव चेह धीः ;?R अनुमाने तु एकधर्मिधर्मता ज्ञातसम्बन्धता च ;?R न ज्ञायमानसम्बन्धता, निरुपाधिकत्वविपक्षव्यतिरेकत्वयोरसकृद्दर्शनाधीनत्वात् ;?R न चेह सम्बन्धः । ननु सदृशमवयवसामान्यबहुलभाजं पश्यन् ‘?Rयस्तद्भाक् स तत्सदृशः’?R इत्य?Rवधारयन् ‘?Rस्मृतोऽपि गौस्तद्वांस्तत्सदृशः’ ?Rइत्यवैति ;?R तद्भाक्त्वतत्सदृशत्वयोरेकधर्मिधर्मता एकार्थसमवेतसमवायसम्बन्धनियतता चेत्यनुमैव । मैवम् ;?R सम्बन्धनियमस्मृतिरनुमानाङ्गम् , न तदवधारणमेव । अत एव निरुपाधिकत्वविपक्षव्यावृत्त्योरसकृद्दर्शनाधीनत्वमुक्तम् । अतो हेतुभेदान्मानान्तरमुपमा । यत्तु नौयायिकोक्तम्- ‘?Rया गौस्तथा गवयः’ ?Rइत्येवं
?Rश्रुतातिदेशवाक्यस्य वने गवयं पश्यतः ‘?Rअयं स गवयः’ ?Rइत्युपमानम् , तन्न ; ‘?Rगोसदृशो गवयः’ ?Rइत्याद्या धीर्वाक्यप्रभवा । यापि वनगते गवये तद्गते च गोसादृश्ये धीः, सा सप्रत्यभिज्ञं प्रत्यक्षम् । यापि तस्य गवयशब्दवाच्यताधीः, सा गवयशब्दप्रयोगादनुमा ;?R वने संज्ञिनमुपलभ्य ‘?Rअस्येयं संज्ञा’ ?Rइति धीः स्मृतिरिति नोपमानावकाशः । लक्षणेन च सादृश्याभासात् सादृश्यान्तरे धीर्नोपमेत्युक्तम् , यथा हि पलालकूटे हस्तिसादृश्यं ज्ञात्वा ‘?Rएतत्सादृश्यं हस्तिनि’ ?Rइति धीः, भूयोऽवयवसामान्यवाहुल्यभ्रमात् सादृश्यभ्रमः । अथ एव सन्निधौ प्रबलालोके च बाधधीः । स्तोकसाधर्म्यात् सादृश्यव्यवहारस्तु कवीनां व्यवहारमात्रम् ॥
?Rअथार्थापत्तिवादः
?R “?Rअर्थापत्तिः” ?Rअनुमानाद्भिन्नेयमर्थापत्तिरविशिष्टा सतीदानीं लक्ष्यते । उपलब्धोऽर्थः कल्पनां विना अर्थान्तरं सन्देहयन्नर्थं कल्पयति, सन्देहित एव वा कल्पयति इति द्विधा लक्षणम् । परोक्तम् उपलब्ध एव सन्दिग्धः कल्पयतीति । जीवतो गृहाभावः सन्दिग्धः, न तु जीवनं सन्देहितं कल्पयतीत्यर्थः । इयमिह स्थितिः - यः सदा गृह एव दृष्टो गणितागमादेः कञ्चित्कालं तज्जीवनं निश्चितम् , तदन्तर्गत एव क्षणे तस्य गृहेऽदर्शनात् पूर्वनिरूपितगृहदेशत्वधर्महानाज्जीवनं सन्देहं नीतं बहिर्देशत्वकल्पनया पुनर्निश्चितम् ;?R सन्देहमर्हति ;?R गृहदेशता त्वौत्सर्गिकी आगमनिश्चयानुरोधात् बाधमर्हति । बहिर्भावधीस्तु जीवतो गृहादावदर्शनाद्वा जीवनादेव वा गृहादर्शनात् सन्दिग्धा ;?R विवक्षाभेदात् विधाद्वयम् ;?R सत्युत्पत्तेर्नानुयोगः । न च सन्देहान्तर्भावविधा ;?R कारणानुमाने कार्यं हि कल्प्यकारणाकल्पनयैव सन्दिग्धम् ;?R जीवनं तु गृहाभावदर्शनात् कल्प्याकल्पनसहितात्सन्दिग्धम् ;?R गम्यं चेदं बहिर्वर्तितया । गमकपक्षेऽप्यन्यापादितः सन्देहः ;?R कार्यं तु कल्प्याकल्पनमात्रान्नीतसन्देहमिति भेदः । कार्यानुमानादपि परोक्तो भेदः - जीवनं देशव्याप्तम् ;?R अव्याप्त एव हि
?Rगृहाभावोऽनुपपद्यमानतया बहिर्भावं गमयतीति । तन्न ;?R गृहाभावो हि निश्चित एवेत्युक्तम् ;?R जीवतो हि गृहाभावोऽपि बहिर्भावव्याप्त एव गमकः ;?R शुद्धस्त्वगमक एव, अव्याप्तत्वात् । अस्तु वा जीवतो गृहाभावस्य वहिर्भावं विनानुपपत्तिः ;?R सा तु व्याप्तित एवेत्यनुमापत्तिः । साध्येन हेतुव्याप्तेः साध्याभावो हेत्वभावव्याप्त इति साध्याभावे हेत्वभावापत्तिरूपानुपपत्तिर्मा भूदिति हेतोरेवान्वयव्यतिरेकप्रतिसन्धानात् साध्यधीरनुमैव । अत एव जीवतो गृहाभावबहिर्भावावेककालत्वसम्बन्धनियतावेकदेशौ कालस्यात्मन्येव दृष्टौ ;?R तथैकत्राभावे जीवनं देशान्तरसंयोगेन नियतैकार्थसमवायमेकदेशश्च जीवत इत्यनुमानसामग्रीसम्भवेऽपि विधाद्वयादुक्तो भेदः । एवमपि धीदर्शनाल्लोके मानान्तरतेत्युक्तम् ;?R दृष्टस्य हि जीवनादेः पूर्वनिरूपितरूपादर्शने सन्दिग्धता लोकसिद्धेत्यप्ययुक्तम् । भाष्ये दृष्टश्रुतशब्दाभ्यां गोबलीवर्दवदुपलब्धमात्रमुक्तम् ;?R इत्थमपि लोके प्रयोगान्न गौरवानुयोगः गुरुपर्यायप्रयोगवत् । परस्तु- ‘?Rश्रुतार्थापत्तेः शब्दकल्पनेति भेदं वक्तुं श्रुतपदम्’ ?Rइत्याह । यद्यपि पीनत्वानुमितं भोजनं दिवानिषिद्धं रात्रिवर्ति कल्पयितुं प्रवृत्तिः, तथापि शब्दविकल्पितं तत् कल्प्यमिति तद्वाचकशब्द एव प्राथम्यलाघवाभ्यां कल्प्यते, ततोऽप्यर्थबोधादनुपपत्तिशान्तेः ;?R न चैवमिन्द्रियादि सविकल्पकेऽपि शब्दो वेद्यः ;?R तिर्यगादिधीषु शब्दशून्यास्वर्थे शक्त्यवधृतेर्न शब्देऽपि शक्तिकल्पना । न च दृष्टार्थापत्तावर्थे शक्तेरत्राप्यर्थ एव ;?R उपपादकतया हि शक्तिरर्थे, नार्थतयेति शब्देऽप्युपपादके सा । मन्दतयेदं गुरुणा न निरस्तम् , मन्दतामाह नाथः ;?R सविकल्पके हि संज्ञाविशिष्टोऽर्थो वेद्यः, न तु संज्ञामेय इति तदवस्थे शब्देऽपि नार्थमित्यनुपपत्तिशान्तिः । अथ तदवस्थस्यार्थधीशक्तेरर्थपरत्वमवस्थान्तरं कल्प्यम् ;?R एवं कल्पनागौरवाद्वरमर्थकल्पना । किञ्च दृष्टार्थापत्तेः साक्षादुपपादकेऽर्थे शक्तिः ;?R इह तूपपादकबोधके शब्दे कल्प्या । किञ्च अन्यत्र सविकल्पके शब्दः स्मृतिस्थ इति
?Rअत्रापि तथा, न तु मितिस्थः कल्प्यः । ये तु विश्वजिदादौ प्रमाणत्वेनापरिपूर्णः शब्दः शब्दमेव कल्पयतीत्याहुः, ते निरस्ताः, अर्थाभावेऽप्रमाणत्वेनापरिपूर्णतार्थादेव शाम्यतीत्यर्थः एव कल्प्यः । भाष्ये च श्रुतेऽप्यर्थकल्पनैवोक्ता, न शब्दकल्पना । अर्वाचीनोक्तं हेयम्- ऊहादौ शब्दकल्पना न स्यादिति । यत्र हि शब्द एव साक्षादुपपादकः, तत्र शब्दकल्पनैव मता ;?R प्रकृतिवदाभिधानिकं प्रकाशनं मन्त्रकार्यमिह धीस्थमिति ‘?Rसूर्याय’ ?Rइति प्रक्षेपादेव कार्योपपत्तिरिति शब्दकल्पनोक्ता नवमे । अध्याहारेऽपि “?Rइषे त्वा” ?Rइत्यत्र छिनद्मि इति शब्दकल्पनं मन्त्रोपदेशादाभिधानिकप्रकाशोपपत्त्यर्थम् । विश्वजिदादौ त्वर्थाद्ध्याहार एव । अशब्दोपस्थितेनापि प्रतियोगिना श्रुतः शब्दोऽन्विताभिधायीत्येवं शाब्दतापि । अनुषङ्गे तु न कल्पना, तन्त्रोच्चरितशब्दस्यैव सर्वशेषत्वात् । स्मृतिलिप्यपभ्रंशानां वेदवर्णसाधुप्रभवतया तदुपस्थापकता साधुत्वेऽन्वितार्थतेति । विभक्तेरसाधुत्वेऽर्थानन्वयो नाशब्दतया । एवं पचति इत्युक्ते प्रत्यक्षेणौदनेऽनन्वयो नाशब्दत्वात्, किन्तु तद्विवक्षानवधृतेः ;?R अवधृतेऽन्वय एव । अथ यथा वः कार्यपरान्वये व्युत्पत्तिः, तथा नः शाब्देनैव शाब्दान्वयव्युत्पत्तिरिति, तन्न ;?R कार्यधियैव व्यवहारात्सा तथा ;?R नैयम् , अध्याहारेणापि व्यवहारात् । अध्याहारस्य चोपपादकेऽर्थ एव स्थितेः शाब्दत्वस्य श्रुतशब्दार्थतयापि व्युत्पत्तेः । यदि च शाब्दोपपत्त्यर्थं शाब्दमेव, तर्हि प्रत्यक्षोपपत्त्यर्थं प्रत्यक्षमेव स्यादिति दिक् ॥
?R
?R
?R
?R
?R
?R
?R?0अथाभाववादः
“?Rअभावोऽपि ।” ?Rउक्तलक्षणसमाध्यर्थं भाष्यमनन्तरं कृतम् । पूर्वः पक्षः - प्रसिद्धेः षष्ठं प्रमाणं लक्ष्यं प्रमेयशून्यत्वान्न लक्ष्यमिति सन्देहो भाष्यादपि नापैतीति । राद्धान्ताभासी लक्षणपरं भाष्यमाह, प्रमेयसम्भवात् ; भूतले घटो नास्तीति । धीर्हि शून्यत्वे न भूतलमात्रे, घटवत्यपि प्रसङ्गात् । पादन्यासादिव्यवहारोऽपि न भूतलमात्रधिया ; धीः सैव प्रतियोगिना ; सकण्टकधियाप्यापत्तेः । अथ द्वयी धीः - संसृष्टे तन्मात्रे ; तन्मात्रे च द्विधा- प्रतियोगिन्यदृश्ये दृश्ये च ; तत्र दृश्ये या तन्मात्रधीः, सैव प्रतियोगिनास्तित्वधीः । धीरेव नास्तित्वमिति यदुक्तम् , तत्तद्धीवेद्यतयैव तन्मात्रकेवलैकाकि तदेकपर्यायं नास्तित्वं विमतो बोध्यते । यथा धीविमतावर्थनिर्देश्या धीः, तथार्थविमतौ धीनिर्देश्योऽर्थः ; धीनिर्दिष्टेऽप्यर्थे विमतस्तत्संमत्या बोद्ध्यः । अभावधीहेतुर्हि भावधीर्न संसृष्टे, विरोधात् ; नाभावविशिष्टे, आत्माश्रयात् । अतस्तन्मात्र एव वाच्या, एवं च तन्मात्रावस्थैव घटभङ्ग इति तद्धीहानेऽपि जलपातो युक्तः । मृतसंजीविनी चाप्रसक्ता । धीहाने तु व्यवहारहानम् । धीभावेऽपि दृश्यतार्था सूक्ष्मजिज्ञासा । संसृष्टबुद्ध्यनन्तरं च तन्मात्रधीर्युक्ता, स्वहेत्वागमात् । कपालमाला वा देशान्तरस्थितिर्वा घटस्य तद्धीहेतुः । संसृष्टधीस्तु स्वहेतुध्वंसाद्भावान्तरोदयरूपान्निरन्वयविनाशिबुद्ध्यादेः धर्मिस्वरूपमात्रस्थितिरूपान्न भवति । धर्मिमात्रस्थितिरेव ध्वंसो व्यापी । अनुमाद्येकवेद्यस्य धर्मिणो धर्माभावेऽप्यनुमाद्यात्मिकैव तन्मात्रधीः । लिङ्गव्याप्तिदृश्यतया प्रतियोगिनो धर्मस्य दृश्यता । तन्मात्रधीश्च यस्मिन् दृश्यते, तदभावव्यवहारहेतुः । अतो नातिप्रसङ्गाप्रसङ्गौ तन्मात्रधियैव शशशृङ्गानुमाबाधः । न च तन्मात्रधिया अभावमेयनिह्नवे भावधिया भावनिह्नवात् बाह्यापलापापत्तिः, मितेर्बहिर्नीलादिस्फुटस्वरूपमपलापानर्हम् ; अभावस्त्वस्फुटत्वान्निह्नुतः ।
?R अत्राह राद्धान्ताभासी - न मन्मतेऽपि तन्मात्रावस्था स्वरूपाधिका ; स्वरूपधीरेवाभावधीहेतुः ; संसृष्टस्वरूपधीस्तु यन्नाभामधीः तत्र प्रतियोगिस्मृत्यभावात् , न तु स्वरूपधीहेत्वभावात् । तदुक्तम् - “?Rस्मृत्वा च प्रतियोगिनम्” ?Rइति ; संसृष्टग्रहे च न तत्स्मृतिः । अतो नामान्तरेण तन्मात्रावस्था अभाव एव ।
?R राद्धान्तस्तु - यत्र यस्याभावधीः तत्र तत्संसृष्टस्वरूपधीर्नास्ति, स्वरूपधीस्त्वस्तीति द्वयी स्वरूपधीरास्थेया । तत्र या संसृष्टधीतोऽन्या विधा, सा तन्मात्रधीविधा ;?R तन्मात्रमपि तद्धीवेद्यत्वविधया मेयान्तरम् । व्यवहारशक्तिधीस्तमात्रमिति हेयम् ;?R तन्मात्रधिया व्यवहारः, ततः शक्त्यनुमेति न शक्तिधीस्तन्मात्रधीरिति न शक्तिस्तन्मात्रम् । अभावधीपक्षे च धीहेतुरनुपलम्भः सत्तया न ज्ञानेन, अनवस्थापत्तेः । यदा तु दृश्यमानस्यैव ‘?Rप्राङ् नासीदयमिह’ ?Rइति धीः, तदानुपलम्भो निवृत्तः सत्तया न हेतुः स्यात् । अथ प्रत्यक्षानुपलम्भे निवृत्तेऽपि स्मृत्यनुपलम्भः सन्नेव, प्राक्तनी च तास्स्थितिः स्मृत्यर्हेति स्मृत्यनुपलम्भः सत्तयैव हेतुः, तन्न ;?R यदा मध्याह्ने दृष्टस्य प्रातरभावः सायं बुद्ध्यते, तदा माध्यन्दिनदर्शनस्मृत्या स्मृत्यनुपलम्भसत्ता हता न धीहेतुः । अथेयं विधा - यदोपलम्भस्तत्कालमात्रानुपलम्भबाधः, न तु प्रातर्गतबाधः ;?R तन्न ;?R माद्ध्यन्दिनोपलम्भैकत्वे तत्प्रागभावोऽप्येक एव । स चेदुपलम्भहतः यावत्पूर्वक्षणगत एव हतः ;?R प्रागर्गततोपाधिभेदस्तु प्रातर्हानादेव हतः । एवमनन्तरक्षणहततापि तत्क्षणहानादेव हता । उपलम्भक्षणे तु प्रसक्तः प्रागभावो भावबाध्यो न क्षणाबद्धप्रसक्तिमात्रं बाद्ध्यम् ;?R अन्यथा भावोऽपि प्रध्वंसबाध्य एकक्षणान्वयितयेति पूर्वक्षणान्वयोऽनुवर्तेत । न च प्रातरुत्पत्त्यर्होपलम्भप्रागभावादभावधीः, नित्यतुच्छस्योपलम्भसजातीयत्वासिद्धेः
?Rतदर्हत्वमसिद्धम् । माध्यन्दिनोपलम्भ एव तज्जातीयस्तदर्ह इति दिक् । दृश्यता चानुलम्भविशेषणं न युक्तम् ;?R योगाद्धि विशेषणता ;?R न च भावस्तद्योगो वा तुच्छाभावाश्रयः, विरोधात् ;?R अत एव सिद्धेऽप्यभावे संयुक्तविशेषणतया नेन्द्रियग्राह्यता । इन्द्रियोपरमे च तद्धीरुक्ता । न च दृश्यसत्ता दर्शनेन व्याप्तेति दर्शननिवृत्तिलिङ्गात् दृश्याभावधीरनुमा । व्यापकनिवृत्तिव्याप्याभावयोः पूर्वबुद्धयोर्न व्याप्तिधीरिति नानुमामात्रादभावधीः । तन्मात्रधीस्तु भावरूपा दृश्यविशेष्या युक्ता । दृश्यता च तदधीनान्यधीहेतुसाकल्पमेव व्यापि । एवमसति मानान्तरे षष्ठप्रसिद्धिरमूला । भाष्यं च न लक्षणपरम् ;?R किन्तु उक्तलक्षणमानसमाध्यर्थं तद्युक्तं ग्रन्थे । न चापरं मानपञ्चकं सम्भवैतिह्यलोकप्रसिद्धिह्रस्वदीर्घप्रतिभाख्यं महासंख्यावच्छिन्नवस्त्ववयवेऽवान्तरसंख्याधीः सम्भवोऽनुमैव । मूलशून्यनृपरंपरावचनमैतिह्यं न मानम् ;?R अनुभवप्रत्यक्षादिर्न लोके मानान्तरम् । लिङ्गाभासजा प्रतिभा अनिश्चयो न मानम् । ह्रस्वदीर्घे परिमाणे प्रत्यक्षादिग्राह्ये ;?R ह्रस्वदीर्घशब्दप्रवृत्तिस्तूपाद्ध्यपेक्षा । अल्पदेशव्यापि ह्रस्वमुच्यते । हस्तादिसंख्याल्पत्वाद्देशाल्पता । संख्याल्पता पूर्वगणनीयतया, परगणनीयसंख्यया तु दीर्घशब्दः । अत एावाल्पान्तरत्वेऽङ्गुल्यर्द्धाङ्गुल्यवच्छेदं विना न ह्रस्वदीर्घशब्दः । संख्यापूर्वपरता च प्रत्यभादिसिद्धेति न मानान्तरतेति पञ्चैव प्रमाणानि इति स्थितम् ॥
?R?0अथ सम्बन्धाक्षेपवादः
?R?0 ?0"?Rननु प्रत्यक्षादीनि" ?Rतत्सद्व्यत्ययेन सूत्रावयवे लोकप्रसिद्धप्रत्यक्षपरे लोकसिद्धिसामान्यान्मानान्तरेषु भाष्योक्तेषु लोकसिद्धव्युत्पत्तित एव “?Rअनिमित्तं विद्यमानोपलम्भत्वात्” ?Rइति सूत्रावयवान्तरेण शब्दस्यानपेक्षता औत्पत्तिकसूत्रावयवोक्ताक्षिप्यते । तत्समाधित्सया सम्बन्धौत्पत्तिकत्वे प्रक्रान्ते
?Rतस्मिन्नप्याक्षिप्ते समाधातैकदेशी शाब्दः शब्देऽर्थे च सम्बन्धे चान्यथास्थितो यावन्न बोध्यते तावत्सम्यकू समाधिरशक्य इत्येवं वादस्थानानेकान्तरितोऽत्र प्रस्तुतसमाधिरिति चित्रापरिहारान्तानां सङ्गतिः । विद्यमानोपलम्भनत्वादित्थमनपेक्षताक्षेपः - लोके हि फलसाधनतया कार्ये लिङादिर्दृष्ट इति वेदेऽपि न स्वतन्त्रकार्यार्थः । अतो विनियोगाधीनमेव नियोगमाहेति फलसाधनतात्मकविनियोगे मानान्तरापेक्षतयानपेक्षताहानिः । विशेषतश्चित्रायागादेः पश्चादि विद्यमानोपलम्भनम् । यद्धि क्रियानन्तरं भवनार्हं तस्य मानान्तरोपलम्भार्हता विद्यते । तेन मानान्तरापेक्षफलसाधनतया कार्यता व्यक्तेति विशेषतश्चित्रोदाहृता । शुष्यत्सु व्रीहिषु वृष्ट्याद्यनन्तरमेव काम्यं मानान्तरगम्यं व्यक्तम् । कालान्तरफले स्वर्गादौ मानान्तरानर्हेऽपि मानान्तरापेक्षे विनियोगाधीनो नियोगोऽनुगम्यत एव । न च कार्यतामात्रे लिङादिरुक्तेति वेदे फलानपेक्षैव कार्यताधीः ;?R फलादेवानेन कार्यं बुद्धम् , न वेदादप्यन्यथा बोद्धुं शक्यम् । कामी कामोपायमेव कार्यं बुद्ध्यते इत्येवमपूर्वव्युत्पत्तिरुच्यते । कामी तु सर्व एवेति फलसाधनतापेक्षमेव कार्यं मानान्तरार्हमिति नापूर्वे वेदप्रामाण्यं शक्यम् । किन्तु फलसाधनतया क्रियैव कार्या । इत्थमाक्षेपः क्वचिन्न निरस्त इत्यपुनरुक्तिः । पश्वनुपलब्ध्यापि मानान्तरापेक्षैवोक्ता । यद्धि मानान्तरापेक्षं तदसति मानान्तरे हेयमित्युक्तम् ;?R न तु विपर्ययाद्धेयताभिप्रेता । क्रियाफल च पशुरनन्तरम् ;?R अतो मार्नार्हम् । कृषिफलमपि भूविभागोऽनन्तरमेव । प्रयोजनं तु सस्यमन्तरितम् । इह फलमेव पशुः प्रयोजनमित्यनन्तरतया मानान्तरार्हमित्युक्तम् । मूलयुक्तिसापेक्षता स्वर्गादिफलकेऽप्युक्ता । एवं विधितः सापेक्षता । तथार्थवादतोऽपि “?Rएषः” ?Rइति शरीरं प्रत्यक्षं निर्दिष्टम् । तद्यातीति दृष्टविरुद्धम् । न चार्थवादतया लक्षणया “?Rएष यज्ञायुधी” ?Rइत्यात्मोकः “?Rस स्वर्गं याति” ?Rइति, देहातिरिक्तात्मासिद्धेः ।
?R विवरणे तु सम्बन्धस्य पौरुषेयतया वेदस्यापि पौरुषेयतेति विद्यमानोपलम्भनं साध्यसाधनरूपं वेदार्थः, नापूर्वम् । चित्रेष्टिफलस्य चैहिकत्वानुमतेरनन्तरादर्शने नेष्टिजन्यता संस्कारद्वारा कल्प्या, कालान्तरे च प्रतिग्रहादहेतुदर्शनात् मानान्तरार्हफलनिष्ठे च नापूर्वमित्युक्तम् । कामश्रुतिरपि न नियोज्यपरा ;?R किन्तु ‘?Rआरोग्यकामः पथ्यमश्नीयात्’ ?Rइतिवत् फलपरेत्यनपेक्षता हता, सत्यार्थताप्यनन्तरादर्शनहता । आमुष्मिफलेऽप्यपूर्वार्थहानान्मानान्तरार्हतया नाश्वासः । दृष्टविरुद्धञ्च “?Rएष यज्ञायुधी” ?Rइति । चित्रेष्टौ संवादाभावः, इह विरोध इत्युदाहृतमात्मसाधनार्थम् । “?Rन चैष यातीति विधिशब्दः” ?Rइत्यनेन वेदगम्य आत्मेति वेदान्तिमतं निरस्तम् ;?R विधिशब्द एव कदाचिदात्मप्रमितिशक्तः, न चायं तथा ।
?R मतद्वये राद्धान्तमुपक्रमते- “?Rऔत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः तस्य ज्ञानम्” ?Rइत्यनेन । स्यान्मानान्तरार्हता, यदि पौरुषेयः सम्बन्धः, न चैवम् । नन्वौत्पत्तिकत्वेऽपि लोके फलसाधनताधीनं कार्यं मानान्तरार्हमुक्तम् । मैवम् , मानान्तरप्रमिते लोके प्रयोगोऽस्तु ;?R शक्तिस्तु कार्यमात्रे, स्वर्गकामान्वयादपूर्वे, पदार्थस्यैव वाक्यार्थत्वात् । वाक्यार्थसम्बन्ध एव सूत्रेणौत्पत्तिक उक्त इत्याक्षिप्तवाक्यार्थसमाध्यर्थं सूत्रम् । तर्हि पूर्वव्याख्ययैव समाधिसिद्धेः पुनर्व्याख्या व्यर्था । न, शङ्कान्तरनिरासाय पुनर्व्याख्या । शङ्का च - सम्बन्ध एव नास्ति, कस्यौत्पत्तिकतयानपेक्षता वेदस्य ??R संश्लेषो हि पाटनाद्यापत्तेरशक्यः । यद्यपि राद्धान्ती वाच्यवाचकतामिच्छति न संश्लेषम् , तथापि प्रथमश्रुतादर्थाप्रतीतेर्धूमादेरिव सम्बन्धान्तरपूर्विकैव गम्यगमकतेत्यापाद्य शाब्दानुमतः संश्लेषः पाटनाद्यापत्तेर्वारितः । यौनादिस्तु केनाप्यननुमतो हेत्वनपेक्षहानः । शब्दाध्यासरूपोऽर्थः, ‘?Rगौः’ ?Rइति शब्दार्थयोस्तुल्यनिर्देशात् इति
?Rशब्दाः । न निर्देशसाम्यादध्यास इत्याकृतिग्रन्थे वक्ष्यते । अतः सम्बन्धान्तराभावात् संज्ञासंज्ञिता प्रयत्नजन्या । उत्पत्तिमत्ता तु धीक्रियागर्भत्वात् सिद्धैव, चक्षुष आलोकापेक्षास्तु, शब्दस्तु गमकत्वावगतो गमयति ;?R तत्रात्माश्रयदोष इति हेत्वन्तरापेक्षायां चैत्रादौ समयदर्शनात् समय एव गवादिष्वर्थधीहेतुः । तदाह कीर्तिः -
?R “?Rयज्जातीयो यतः सिद्धः स तस्मादग्निकाष्ठवत् ।
?R अदृष्टहेतुरप्यन्यो विशिष्टः संप्रतीयते” ?R॥ इति ।
?Rद्विविधा यत्नाधीनता संज्ञा वास्तु सङ्केतो वा- यदायमर्थो बोधयितुमिष्टस्तदा चायं शब्दः प्रयोज्यः इत्येवम् । तदेवं नरयत्नापेक्षार्थधीः वेदादपीति पौरुपेयवेदा मानान्तरगम्यार्थाः । एवं सम्बन्धाक्षेपाच्चित्राक्षेपसमाध्यपर्यवसानम् ॥
?R?0अथ स्फोटवादः
?R?0 ?0"?Rअथ गौरित्यत्र कः शब्दः" ?Rइति सम्बन्धसमाधित्सोर्नायं प्रश्नः ;?R एवं हि “?Rगकारौकारविसर्जनीयाः” ?Rइत्युत्तरमाचिक्षिप्सोः स्यात् ;?R अतः शाब्दस्यैवायमनुयोगः । पूर्वपक्षिणा राद्धानि निर्जिते निर्जितं प्रत्याह शाब्दः - संज्ञासंज्ञितां वदतः संश्लेषं त्यजतः अवर्णात्मकशब्दाध्यासमनिच्छतः कस्ते शब्दोऽभिमतः ??R न हि संश्लोषो यत्नापेक्षः । राद्धान्ती श्रोत्रग्राह्या वर्णा इत्याह । न तेऽर्थसंश्लिष्टाः, भिन्नदेशत्वाद्वर्णार्थयोः । शाब्दस्तु- अर्थधीकार्याद्वर्णादन्यः शब्दः ;?R स संश्लिष्टोऽस्तु । वर्णा हि धीस्था अर्थधीहेतवो वाच्याः ;?R उच्चारणक्रमात्तत्क्रमवन्तो धीस्थाः ;?R तद्धियां च क्षणिकत्वान्न साहित्यम् । न च तत्स्मृतीनां साहित्यमुत्पत्तौ स्थितौ वा अनुभूतिवदेव । न च संस्कारसाहित्यादनेकवर्णविषयता, एकस्मृतिस्थत्वेऽपि व्यतिक्रमोच्चरितस्मृतिस्थेभ्योऽप्यर्थधीप्रसक्तेः स्मृतावक्रमकत्वादुच्चारणक्रमानुपयोगात् । अतो वर्णेभ्योऽर्थधीरशक्येति वर्णादन्यस्यार्थविवर्तोपगमः । तत्र न
?Rमानान्तरविरोधः । ननु विवर्तपक्षेऽपि श्रोत्रादेः शब्दार्थभेदधीः समाधेया । तन्न ;?R श्रोत्राद्युपधानादेव सास्तु, मणिदर्पणाद्युपाधेरिव मुखानेकत्वधीः । ननु च मुखैकता ग्राहकचक्षुरेकतया, इह तु ग्राहकश्रोत्रादिक्षेदान्नैकता । न तत्रापि ग्राहकैक्यादेकता, किन्त्वेकधिया ;?R सेहास्ति शब्द इत्येका धीः ;?R अभिव्यञ्जकधअवनिभेदाद्भेदः । एवं शब्दस्य जात्यादिभिरभेदस्तुल्यनिर्देशात् , भेदस्तु श्रोत्राद्युपाधेः । एवं विश्वमेकम् । श्रोत्रादिभेदोऽपि शब्दादिधीभेदात् । अन्योन्याश्रयमविद्यानुगुणम् । तत्त्वपक्षे वर्णेभ्योऽर्थधीतः संस्कारैः सम्भूय स्मृतिः, ततो वर्णेभ्योऽर्थधीरित्यन्योन्याश्रयदोषः । अत एव न स्फोटाभिव्यक्तेः साम्यमर्थधिया ;?R नैकैकेन वर्णेन ध्वनिना वाभिव्यक्तिः ;?R न मिलितैः ;?R न भागशः, निर्भागत्वात् स्फोटस्येति दुर्घटतयैवाविद्याश्रयणान्न दोषः । तत्त्वपक्षेऽप्यन्योन्याश्रयता बीजाङ्कुरवदिति चेत् , न ;?R व्यक्तिभेदादनादितया च बीजाङ्कुरयोर्नान्योन्याश्रयम् ;?R अर्थधीस्तु न तथा । ननु शब्दाभेदपक्षे चोदनार्थभेदधीर्न स्यात् । मैवम् ;?R अर्थैकत्वे वर्णपदभेदो न वाक्ये ;?R अर्थभेदे तु न वाक्यानामेकता । ननु शब्दाद्वैतमुक्तम् । ब्रह्मावस्थायां तत् ,?R शास्त्रार्थदशायां तूपाधितो भेदः । ननु शास्त्रार्थो विद्येष्यते, ततोऽभ्युदयोक्तेः ;?R अविद्या हि प्रत्यवायहेतुः । सत्यं निषिद्धापेक्षया स्वर्गादिकरमुदयहेतुः ;?R मोक्षापेक्षया प्रत्यवायतैव तत्त्वत इति । गुणविधिकर्मविधिवाक्यानामेकतैकानुष्ठानोपाधेः तदेवम् ‘?Rशब्दः’ ?Rइति सर्वत्रैकतानिर्देशाच्छब्दानामेकता शब्दजात्यादिनिर्देशसाम्यात् जात्यादेः शब्दरूपतेत्यद्वैतम् । अर्थरूपत्वाच्छब्दस्य तादात्म्यादौत्पत्तिकादर्थधीः । तात्त्विके त्वेकत्वे उपाधितः सर्वभेदधइयामुपपत्तिः शब्दप्रामाण्यं चाविद्यावस्थायाम् ॥
?R राद्धान्तस्तु - नैकनिर्देशादेकधीसिद्धिः ;?R एकनिमित्ता ह्येकशब्दवाच्यता, न पुनरेकताकृता । एकं च निमित्तं जातिः क्रिया गुणो द्रव्यं वा गौर्गन्ता शुक्लो
?Rविषाणीति यथाक्रमम् । क्वचिद्वस्त्वेकता निमित्तमाकाशमिति । शब्दशब्दप्रवृत्तौ च श्रोत्रग्रहणक्रिया निमित्तम् । न च सत्त्ववर्णत्वादेरपि शब्दतापत्तिः, सत्त्वादिजातेरसिद्धेरश्रोत्रग्राह्यत्वात् । न च शब्दत्वजातेर्निर्निमित्तता, शब्दत्वासिद्धेः । यद्वस्तुग्रहे हि पूर्वदृष्टावमर्शः, तत्र जातिधीसिद्धिः ;?R न च वर्णान्तरग्रहे तथेति शब्दत्वासिद्धिः । एवं सत्त्वाद्यसिद्धिः । प्रमाणक्रियातः सच्छब्दः । अतः शब्दैकत्वासिद्धेर्दूरे निर्देशसाम्याच्छब्दरूपतार्थानाम् । अतः श्रोत्राद्युपाधेर्भेद इत्यत्युक्तम् । मुखादौ विम्बाकारप्रत्यभिज्ञया उपाधितो भेदधीर्युक्ता । एवं विवर्तपक्षे मानहतेऽर्थधीकार्यात् संस्कारैः सम्भूयानेकवर्णस्मृतिः कृतेति युक्तम् । व्यतिक्रमोच्चरितेषु कार्यादर्शनात् क्रमविशेषोच्चरितवर्णधीभिर्जनितैः संस्कारैः सम्भूय स्मृतिसिद्धिः । अथ स्वरूपतो न क्रमः, किन्तु धीकृत एव ;?R एका चानेकवर्णस्मृतिरिति न क्रमः, तन्न ;?R क्रमवदनेकधीस्थताप्यनुभूतेति सक्रमानेकवर्णस्मृतिसिद्धिः । विच्छेदोच्चारणे च नार्थधीरिति न तदानेकवर्णस्मृतिसिद्धिः । एवं कार्यानुरूपं सर्वं सिद्धम् । भाष्ये तु “?Rपूर्ववर्णजनितसंस्कारसहितोऽन्त्यो वर्णो वाचकः” ?Rइत्यनास्थावादः ;?R तत्त्वतो हि स्मृतिस्थवर्णेभ्योऽर्थधीः, अन्विताभिधानस्य न्यायसंपादनाधीनतया विलम्बात् । वर्णभेद उपाधिकल्पना एकशब्दकल्पना च “?Rसा च शब्दकल्पना च” ?Rइत्युक्तम् । शब्दार्थभेदश्चाकृतिग्रन्थे पुनर्वाच्यः । ‘?Rशब्दादर्थम्’ ?Rइत्येकवचनं लोके शास्त्रे चैकार्थधीकरतोपाधेः । पदं वाक्यं लौकिकं वैदिकमित्येकवचनमुपाधित एव । अतः सिद्धं गकारादय एव गौरित्यत्र, न ततोऽन्यः शब्दः । अकारस्तु प्रत्यभिज्ञानादेकोऽष्टादशधोपाधिभिन्नो युक्तः न शब्दे प्रत्यभिज्ञा, येन वर्णभेद उपाधितः स्यात् ॥
?R?0अथाकृतिवादः
“?Rअथ गौरित्यस्य शब्दस्य कोऽर्थः”?R इति वाचकरूपैव वाच्येषु धीर्वनादौ
?Rवाच्या, सा वर्णाधिके वाचके युक्ता इति विधान्तरेण पूर्वाक्षेपः प्रश्नार्थः । उत्तरं राद्धान्तिनः - वाचकाद्भिन्नं वाच्यमाकृत्यादि गवादेः । प्रश्नोत्तरयोर्विशेषनिर्देशः प्रदर्शनार्थः, अरुणादेर्गुणार्थतोपगमात् । ननु प्रतिगुण्यरुणादिभेदादरुणादिजातिरेवार्थः । तन्न, भेदभाने हि यत्रैकावमर्शस्तत्र जात्युपगमे जात्यर्थता ;?R न चारुण्यभेदधीः गुणिभेदधीरेव परम् । पटुमन्दतादयस्तु वस्तुतत्त्वाधीना न वस्तुभेदायालम् , गवाद्याकृतेरपि परम् । पटुमन्दतादयस्तु वस्तुतत्त्वाधीना न वस्तुभेदायालम् , गवाद्याकृतेरपि पटुमन्दतया भेदापत्तेः । यत्तु परमाणुषु पाकजं कार्यद्रव्ये कारणगुणजं न तदरुणादि, किन्तु तत्समवाय इति नो मतम् ।
?R केचित्तु सत्यप्यरुणादिजातिर्न वाच्येत्याहुः - गुणिन्यरुणादिशब्दप्रवृत्तेर्गृणार्थता जातिमति प्रवृत्ताविव जात्यर्थता ;?R गुणाश्रया जातिरुपलक्षणं गुणाभिधाने । स्यादेवं यद्यरुणभेदः स्यात् । स नेति नाथः । वाचकरूपा वाच्येषु धीः । इत्थम् ‘?Rवनम्’ ?Rइति बहुषु तरुष्येकवचनम् । तदेकस्मिन्नर्थे शब्दश्चैकः । शब्दानां स यद्यर्थः तदैकवचनं युक्तम् । वर्णात्मकं तु पदं स्पष्टभेदं नार्थरूपार्हम् । न च तदेकवचनार्हम् । एवं च वस्तु ?Rबाह्यमव्यपदेश्यमस्तु, शब्दादर्थधीस्तु शब्दविवर्त एव । न च प्रयोगसाध्वेकवचनम् ,?R “?Rएकस्मिन्नेकवचनम्” ?Rइत्यनुशासनोपगमात् ॥
?R राद्धान्तस्तु - व्युत्पत्तितः स्पष्टं बाह्यमेव वाच्यं स्थितम् । वनादावेकवचनं तु प्रयोगसाधुतया । प्रायिकमेकस्मिन्नेकवचनं स्मृतम् , प्रयोगमूलत्वात् स्मृतेः । यद्यपि वनादौ समुदायावस्थयैकार्थता शक्या ‘?Rदाराः’ ?Rइत्यादौ प्रयोगसाधुतैव गतिरिति सैव वनादावुक्ता व्यापितया । दारादिष्ववयवापेक्षया बहुवचनं परोक्तं
?Rहेयम् , प्रातिपदिकार्थसंख्यां विभक्तिराह ;?R न चावयवपरं प्रातिपदिकमिति “?Rपाशान्” ?Rइत्यत्र स्थितम् । एवं समर्थिते वनाद्येकवचने बाह्ये चाकृत्यादौ वृत्तिकारग्रन्धे स्थिते संविदद्वैते च विज्ञानवादनिरस्ते शब्दरूपा न वाच्ये धीः । अत्राकृतिव्युत्पत्तिरिति परोक्तं हेयम् । भाष्ये त्वाकृत्याद्यपलापो यदि परमाकृत्यादिरेवाभिधीयेतेत्येवंपरतया गुरुणा प्रपञ्चितम् ॥
?R?0अथ सम्बन्धाक्षपपरिहारः
?R?0 ?0"?Rअथ सम्बन्धः कः" ?Rइति प्रश्नः शाब्दस्यैव । यदि युतसिद्धौ शब्दार्थौ, न तु विवर्तपक्षः ;?R तर्हि संज्ञासंज्ञिसम्बन्धः कृतक इत्यनपेक्षताहतिरुक्ता दुस्तरा । मत्पक्षे हि तादात्म्यसम्बन्धः । स हि कृत्यर्ह इत्यनपेक्षता । संज्ञा तु चैत्रादिः कृतैव दृष्टा इति कृतकसम्बन्धानुबन्धा वेदा अपि कृतका एव । अन्यथा सङ्केतात् प्राच्यत्वे वेदानामर्थबोधकता न स्यात् । अतः सङ्केतयितृवेदकर्तृसंप्रतिपत्तिर्वा एकतैव वा वाच्येति सम्बन्धाक्षेपवादस्थानोक्तसङ्केतवादिपक्षनिवेशान्मीमांसकमतमाक्षिपतः शाब्दस्यैव पुनः प्रश्नः । उत्तरं तु वृद्धव्यवहारानादिताबलात् सङ्केतकल्पनाहानात् संज्ञासंज्ञित्वापौरुषेयत्वसिद्धेः । व्यवहारानादित्वेऽपि यत्र सम्बन्धृदर्शनं तत्र सङ्केत एव ;?R सोऽत्र मा भूदिति सम्बन्धुरभावादित्युक्तम् । न सम्बन्धरि प्रत्यक्षम् । अतस्तत्पूर्वकानुमागमासम्भवः । न चाप्रत्यक्षपूर्वकार्थधीकार्यानुमागम्यः, व्यवहारानादितयापि कार्योपपत्तेः । न चाप्रत्यक्षपूर्वको वेदगम्यः, अपूर्वानात्मकत्वात् । न च पूर्वेषां प्रत्यक्षाभावासिद्धिः, परेषामस्मृतेः तत्सिद्धेः । न च स्मृत्यनर्हता, व्यवहाराविच्छेदादुपयोगाच्च ;?R सम्बन्धृसंप्रतिपत्त्या हि व्यवहारार्थं स्मृत्युपयोगो महान् । न चेह विस्मरणम् ;?R ज्ञातास्मृतौ हि विस्मरणम् । नन्वर्थधीकार्यात् , न प्रथमश्रुतात् ;?R अस्ति चातोऽर्थात् सम्बन्ध्रनुमापत्तिरिति ।
?Rइयमेव भाष्येऽर्थापत्तिरुक्ता, न तु सम्बन्धुर्गम्यस्यानुपपत्तिरत्र इति न प्रसिद्धार्थापत्तिरियम् । इत्थं चार्थधीर्व्यवहाराद्व्युत्पत्त्यपेक्षयापि इति न सम्बन्धुर्गमिका, प्रथमश्रुतादप्रतीतेश्च न भागासिद्धता । वेदात् प्रथममेव प्रतीतेर्व्याप्या ;?R पदं हि प्रथमश्रुतं नान्वितपदार्थधीव्यावृत्त्या वाक्यार्थं बोधयतीति वेदवाक्येऽपि तुल्यम् । सौत्रं पदम् “?Rउपदेशः” ?Rइति पञ्चम्यन्ततया विपरिणमय्य सिद्धवदित्यध्याहृत्य भाष्ये व्याख्यातम् । सिद्धमपौरुपेयत्वम् , वृद्धोपदेशात् वृद्धान्तरानुष्ठानोपदेशे पार्श्वस्थस्य सम्बन्धग्रहणसंस्कारादेवार्थधीसिद्धेः सम्बन्धकल्पनानुपपत्तेः । यदि व्यवहारोऽनादिर्न स्यात् तदा प्रथमवृद्धयोः सम्बन्धग्रहोपायाभावात् शब्दप्रयोगार्थप्रतिति न स्याताम् ;?R ततः पार्श्वस्थस्य सम्बन्धग्रहो न स्यात् । अनादिस्तु वृद्धव्यवहारः, पुरुषान्तरपूर्वकत्वात् पुरुषान्तरोत्पत्तेः । यथाद्यतना नरा नरान्तरपूर्वकाः तथा प्राच्या अपि । न चायोनिजा धर्माधिपत्यजाः स्वर्गिणः संस्वेदजाश्चाधर्माधिपत्यजा इति जरायुजाण्डजा अप्ययोनिजाः ;?R तेषां योनिजत्वव्याप्तेरित्यनादिरेव नरपरंपरा । न च भुवनादेः कार्यतया विनाशित्वान्निराश्रयतया परम्परोच्छेदः ;?R सृष्टिस्थितियोग्यावयवविभागादपि विनाशः अवयवान्तरोत्पादाच्च पुनरुत्पत्तिरस्तु ;?R एकदा कृत्स्नसृष्टिविलयौ मानशून्यौ प्रत्युत यथादर्शनं क्रमेण तदनुमेति जगतीश्वरकर्तृकेऽपि न गुरुनयविरोध इति गुरोरवधीरणम् । अनादित्वेऽपि कशाद्यभिधाताद्धस्तसंज्ञातश्चाभिप्रायादर्थधीतः पार्श्वस्थानां व्युत्पत्तिः । चैत्रादौ सङ्केतदर्शनात् ;?R न गवादौ “?Rयज्जातीयो यतः सिद्धः” ?Rइति सामान्यतोदृष्टम् , विशेषानुमाबाधात् । पूर्वेऽपि जना गवादिभ्यो व्यवहारादेवार्थधीमन्तः, गवादिभ्योऽर्थधीमत्वात् अर्वाचीनजनवत् । किञ्च वेदं कृत्वा तदर्थव्यवहारार्थः सङ्केतो दुर्गस्थम्लेच्छेषु व्यर्थः । किञ्च व्यवहारानर्हदेवतादौ व्यर्थः । संप्रति सुहृद्भावेनाह नाथः - केषांचिच्चेतनाधिष्ठानानुमानमयुक्तम् । अथ तेषां तत्रैवं
?Rप्रयोगः - अदृष्टमणुद्वयसंयोगहेतुकर्मकरं चेतनाधिष्ठितम् , अचेतनत्वात् ;?R यदचेतनं कार्यकरं तच्चेतनाधिष्ठितम् , यथा वास्यादि ;?R तथा चेदम् , तस्मात्तथा । ज्ञाताधिष्ठेयस्वरूपशक्तिकार्यश्चाधिष्ठातेति क्षेत्रज्ञान्यज्ञातृविशेषानुमा ;?R सामान्यतोऽपि व्याप्तावन्तर्भावितज्ञातृविशेषमेव सामान्यं पक्षधर्मतयाधिकरणसिद्धान्तापरपर्यायया साध्यधर्मिण्यनुमेयं पर्वतगताज्ञाताग्निविशेषवत् । न चान्यस्यापि हेत्वभावादधिष्ठेयस्वरूपादिज्ञानासम्भवः, तद्बुद्धेर्नित्यत्वात् । न च नित्या क्षेत्रज्ञधीर्दृष्टेति तन्नित्यत्वासम्भवः ;?R न हि पार्थिवाणौ रूपादि कार्यमिति जलाणौ रूपादि तथा ;?R अधिष्ठानं च तत्संयुक्तक्षेत्रज्ञादृष्टे संयुक्तसमवायात् । अजसंयोगेऽप्यसति तत्संयुक्ताणुसंयुक्तक्षेत्रज्ञादृष्टे संयुक्तसंयोगिसमवायात् । वृत्तिरप्यदृष्टस्य कार्याभिमुख्यम् । तच्च देशकालाद्यपेक्षमिवाधिष्ठातृयत्नापेक्षं विषविद्यत्नापेक्षविषप्रवृत्तिः । धीच्छायत्ननित्यत्वे च न तदुत्पत्त्युपयोगिदेहानुमा । न च तस्य प्रयोजना भावादकर्तृतानुमा । न च तद्धीरनित्या धीत्वादित्यनुमा, तदनुमापूर्वकत्वे तद्बाधितत्वादतत्पूर्वकत्वे चाश्रयासिद्धेः । प्रसङ्गापादनमपि नोक्तविधाद्वयाधिकम् , तत्कर्तृकत्वतद्धीनित्यत्वानुमयोश्च विशेषविषयत्वात्प्रयोजनाभावान् धीत्वादकर्तृत्वबुद्ध्यनित्यत्वानुमयोश्च सामान्यविषयत्वात् बाधः । एवं स्थितेऽणुद्वयसंयोगहेत्वदृष्टाधिष्ठातरि द्व्यणुकाधीनोत्पत्तिस्थूलकार्यजाते तदधिष्ठानाधीनतासिद्धिः । अतो भूतरादेरपि सावयवत्वात्कार्यस्य तदधिष्ठानाधीनतासिद्धिः । न च सावयवत्वमप्रयोजकं कार्यत्वस्य ;?R प्रागभाववत्त्वप्रयुक्तं हि तत्क्रियादिष्वपि कार्यत्वदर्शनादिति ;?R यतः कार्यत्वं नामान्तरेण प्रागभाववत्त्वम् ;?R तदन्यत्वे तु सावयवत्वेन प्रागभाववत्त्वं प्रसाध्य कार्यत्वं प्रसाध्यमित्यदोषः । महत्त्वे सति स्पन्दवत्त्वात् कार्यतेति तु नोक्तम् , द्व्यणुककार्यतार्थं सावयवत्वस्यावश्यवाच्यत्वात् सविशेषणस्य च हेतोजघन्यत्वात् । विवादाध्यासिता धीमत्कर्तृकाः, कार्यत्वादचेतनापादानत्वाद्वा
?Rइति तु नोक्तम् , सिद्धसाधनत्वात् । तदाहुः -
?R “?Rकस्यचिद्धेतुमात्रत्वं यद्यधिष्ठातृतेष्यते ।
?R कर्मभिः सर्वजीवानां तत्सिद्धेस्सिद्धसाधनम् ॥” ?Rइति ।
?Rअथोपादानोपकरणसंप्रदानप्रयोजनज्ञधीमत्कर्तृका इत्युच्यते, तन्न ;?R सर्वोत्पत्तिमतामदृष्टमुपकरणम् , न च तज्ज्ञः कुलालादिरपीति व्याप्त्यसिद्धिः । दृष्टान्तश्च साध्यविकलः बालोन्मत्तादिश्च प्रयोजनाद्यज्ञः कर्तेत्युक्तदोषद्वयम् । अचेतनं तत्स्वरूपशक्तिकार्यविच्चेतनाधिष्ठितं कार्यकरमित्येतत् कुलालबालादौ दृष्टम् , न चेह सिद्धसाधनतेति । न च श्रुतितः स्मृतितश्च तत्सिद्धिरुक्ता । श्रुतिः “?Rद्यावापृथिवी जनयन् देव एकः " ?Rइति । स्मृतिः " ?Rईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा” ?Rइति । श्रुतिः “?Rपश्यत्यचक्षुः स श्रृणोत्यकर्णः । स वेत्ति विश्वम्” ?Rइति । स्मृतिस्तावन्मूलापेक्षा । श्रुतिरपि कार्यानुगुणे मानान्तराविरुद्धे स्वर्गादौ युक्ता, न तु धीमत्कर्तृकत्वे भूम्यादेरपूर्वकार्याननुगुणेमानान्तरविरुद्धे । धीहेत्वभावेन धीमत्त्वाभावान्मानान्तरविरुद्धता ;?R न तु स्वर्गे तथा ;?R स्वर्गशब्दस्य प्रकृष्टप्रीतिहेतौ प्रयोगात् प्रकृष्टप्रीत्यर्थताभानम् ;?R प्रकर्षश्चापेक्षिकोऽनवस्थित इति नियोज्यविशेषणं स्वर्गः किंरूप इत्यपेक्षायां वाक्यशेषस्थप्रकृष्टरूप इत्येवं कार्यानुगुणता । तदनुगुणता च विशिष्टदेहदेशयोरिति तत्र चापूर्वस्य हेतुत्वान्न हेत्वभावान्मानान्तरविरोधः । किं च कार्ये स्वर्गदेहदेशादौ शब्दगम्ये न मानान्तरविरोधः । सिद्धे तु बुद्धिमद्भेदे मानान्तरविषये युक्तो मानान्तरविरोधः । देवता तु कार्यानुगुणापि शाब्दस्मृतिनिश्चिता सूक्तहविर्भागित्वरूपा न वाक्यशेषावसेयविग्रहादिमती । न च देहदेशविशेषार्हा ;?R देशान्तरस्था हि आराधनाद्यनर्हा स्यात् । यथाश्रुतवाक्यशेषाच्च “?Rगृभ्णाते तक्षिणमिन्द्र हस्तम्” ?Rइति मानान्तरविरोधः अननुगुणता च । न चोत्पाद्या देवतेत्युक्तम् । अतोऽनुमानादेव चेतनाधिष्ठातृसिद्धिः ।
?R अत्र समाधिः - उक्तं हि, यो यत्स्वरूपकार्यशक्तिज्ञः, स तदधिष्ठाता ;?R नान्य इति । शक्यज्ञानमेवाचेतनं चेतनाधिष्ठितमिति व्याप्तिः । अशक्यज्ञानं चादृष्टम् , क्षेत्रज्ञवदन्यस्यापि तज्ज्ञानहेत्वभावात् । एवं च तज्ज्ञानहेत्वभानेनाचेतनविशेषे चेतनाधिष्ठानं वार्यते । अचेतनसामान्ये चेतनाधिष्ठानं विशेषानुमाबाधितम् । न चान्तर्भावितज्ञानेऽनुमिते तज्ज्ञानहेत्वभाव उक्तः, येन तत्पूर्वकत्वे तदनुमाबाधः ;?R अतत्पूर्वकत्वे चाश्रयासिद्धिरिति वाच्यम् , अधिष्ठेयाश्रयचेतनाधिष्ठानस्य वारणात् । पक्षधर्मतापि हेत्वभावात् विशेषतो वारितं ज्ञानं सामान्यतोऽन्तर्भावयितुमर्हति । यत्तु परेण ज्ञाननित्यतामास्थाय चिकीर्षायत्नोत्पत्तये मुक्तात्ममनोयोगमुपेत्य तन्मनोधिष्ठानं चिकीर्षायत्नप्रवाहानादितयोपपाद्य दूषणमुक्तम् , सृष्टिं संहृत्य पुनः सिसृक्षोः प्रवाहविच्छेदे कुत इच्छाप्रयत्नयोर्जन्मेति । अथ ज्ञानेच्छादिनित्यम् , तत्तद्भावोपधानात्तत्तद्विषयं रविप्रकाशवत् ;?R तन्न, अन्योन्याश्रयात् । उपाधानेऽधिष्ठानमधिष्ठाने चोपधानम् । अतो नेदृशो विशेषः पक्षधर्मतया । नेदं साधनदूषणम् ;?R किन्तु वादिन इत्युपसंहृतम् ;?R तद्वैदग्ध्यमात्रम् ;?R न हि साधनमदुष्टं वादी च दुष्ट इति । अथानुमिते विशेषे तदनुमाबाधः, अननुमिते आश्रयासिद्धिप्रसङ्गापादनमपि एतद्विकल्पासहमिति न साधनदोषः ;?R तर्हि न वादिनोऽपीति परसमाधानं हेयमेव । तथाधिष्ठानानर्हमदृष्टम् ;?R करादिसंयोगो हि वास्याद्यधिष्ठानम् ;?R न चादृष्टे गुणे संयोगः । न च समवायोऽप्यन्यगुणे अयुक्ते युक्ते चासंयोगे संयुक्तसंयोगिसमवायो वाच्यः । न चेयमधिष्ठानविधा दृष्टा, उत्पत्तावेवादृष्टस्येयं विधेति तयैव प्रवृत्तिः स्यात् । तथा प्रवृत्त्यनर्हमदृष्टम् ;?R क्रिया हि वास्यादिप्रवृत्तिः ;?R न च गुणे क्रिया ;?R विशेष्ये तु द्रव्ये सा युक्ता । न चोत्पत्तिरेव प्रवृत्तिर्दृष्टा । न चाभिमुख्येऽवस्थाभेदेऽधिष्ठानापेक्षा । देशकालापेक्षा तु दृष्टा । न चेच्छामात्रमधिष्ठानम् , अणूनामदृष्टस्य वा तथाविधाधिष्ठानादर्शनात्
?R। स्वदेहस्यापि नेच्छामात्रमधिष्ठानम् ;?R किन्तु यत्नः ;?R स्वादृष्टोपगृहीते देहे, नान्यत्र । अधिष्ठानं च देहान्तर्भावात् व्याप्तमिति देहहानं दुष्करं युक्तं नरहानम् , वन्मीकेऽन्याधिष्ठानदर्शनात् । अतो दृष्टविपरीतहानार्थं चेतनाधिष्ठानताहानमेव । एवं चेश्वरे परोक्तमेवानुमानं निरस्तम् । नेश्वरोऽपि निरस्तः ॥
?R?0अथ चित्राक्षेपपरिहारौ ॥
?R “?Rअथ यदुक्तमनिमित्तं शब्दः” ?Rइति भाष्यम् । तस्यार्थः - कृते सम्बन्धे बलात् वेदेऽपि कृततया सापेक्षतापत्तिरौत्पत्तिकतया प्रतिकृता । लोके इष्टसाधनतानुरक्ता कार्यता मानान्तरत इति वेदेऽपि तथा लिङर्थ इत्येतच्चोदना चोद्यमनुभाषितम् । कर्मकाले फलाभावादिति भाष्यार्थः । यद्यपि कर्मानन्तरं न फलम् , तथाप्यपूर्वात् फलं वाच्यम् । मानान्तरगम्यं चेत् कार्यम् , तर्हि नापूर्वम् ;?R अतः फले विपर्ययात्स्फुटं वेदाप्रामाण्यम् ॥
?R
?R राद्धान्तस्तु - यद्यपीष्टसाधनतानुरक्ता कार्यता ;?R कार्यमात्रं तु लिङर्थः, तन्मात्रस्यैव प्रवृत्तिहेतुत्वेन व्युत्पत्तेः । इष्टसाधनतानुरागोऽपि कार्यधीहेतुः । तत्स्थान एव लिङिति नेष्टसाधनतापेक्षा शब्दात् कार्यधीः । अतः कामिनियोज्यान्वयादपूर्वं कार्यं लिङर्थः फलसाधनमिति न विपर्ययात् स्फुटमप्रामाण्यम् । न च सापेक्षतापत्ति । भाष्यं शब्दातिरेकि मानपञ्चकमाह । व्यवहारहेतुभेदोपाधेरभावव्यवहारहेतोरपि भेदाद्व्यवहारावसरे मानप्रक्रमे त्वभावः प्रमाणं न भवतीत्याह । तच्चोपपादितम् । आत्माक्षेपसमाधिस्तु वादान्तराधीनः ॥
?R?0अथात्मवादस्थानकम्
?R?0 ?0"?Rएष यज्ञायुधी" ?Rइतिपदे देहादिभिन्न एवात्मनि गौणे स्तुत्या ;?R एषपदार्थो हि
?Rस्पष्टसत्त्वः प्रत्यक्षः ;?R आत्मापि देहादिभिन्नस्तद्विध एवात्र वादे साध्य इति गुणयोगः । तथा यज्ञायुधी देहः स्फुटसद्भावः ;?R सोऽपि तद्विध इति गौणता । धीरेण देहार्थे पदे सम्बन्धादात्मनि लक्षणे उक्ते, “?Rमञ्चाः क्रोशन्तीतिवत्” ?Rइति गुरूक्तेः । तन्न ;?R गुरोरभदोपचारवाचा गौण्येन वृत्तिर्मता ;?R परशब्दतासाम्यात् “?Rमञ्चाः क्रोशन्तीतिवत्” ?Rइत्युक्तम् । सति हि गौणे ततो जघन्या लक्षणा न युक्ता । गौणे च स्तुतेः स्पष्टसत्त्वादाञ्जस्यम् । पूर्वपक्षी देहादिभिन्नानुपलब्धिमाह । राद्धान्तैकदेशिनस्तु योगाः प्राणादिलिङ्गगम्यं भिन्नमाहुः । आन्तरवायुक्रियाभेदैः कार्यैर्देहादिभिन्नकर्त्रनुमा । भूतात्मवादी त्वाह - देह एव तत्कर्तास्तु क्लृप्तः । योगास्तु देहकार्यत्वासम्भवात् प्राणादिबुद्ध्यादेः भिन्नानुमामाहुः । देहो हि भूतसमवायिकारणकः ;?R पञ्चभूतारब्धो ह्यचाक्षुषः स्यात् , चाक्षुषाचाक्षुषद्रव्यारब्धस्याचाक्षुषत्वात् वाततरुसंयोगवत् ;?R वायोरचाक्षुषत्वं सिद्धम् । नभोऽपि न चाक्षुषम् , द्रव्यत्वे सत्यरूपत्वात् । न च रूपवन्नभः, तेजोहिमहानेऽपि निशि नीलबुद्धेरिति वाच्यम् , नीलबुद्धेर्हेत्वभावेनासिद्धेः । आलोकानपेक्षं चक्षुर्न हेतुः । एतेन तमसि नीलधीः प्रत्युक्ता तमोधीरपि । किञ्च रूपवत्तमोऽनेकद्रव्यारब्धं सच्चाक्षुषं स्यात् । न चास्यारम्भकद्रव्याणि सन्ति ; ?Rसन्ति चेत् सतेजोदेशेऽप्यारभेरन् । “?Rस्वतो दिवा सतेजसो देशाः” ?Rइति दिवाग्रहणं सतेजोदेशपरं प्रकरणे । न च तेजसा विरोधाननारम्भः ;?R तेजोविरुद्धमपि जलं सालोके देशे दृष्टमारम्भकम् । न च कार्यधिया दृष्टहेतुस्वभावान्यत्वम् । भ्रमरूपा हि धीर्दृष्टा । न चेन्द्रियान्तरं कल्प्यम् , चक्षुरेकग्राह्यत्वनियमाद्रूपस्य । न च भ्रमो धीभेदः । सर्वथा धीहाने कथमिति वाच्यम् ;?R न हि सर्वधीहानिरुक्ता, किन्तु ‘?Rनीलं तमः’ ?Rइति मित्यभावेऽपि मित्भ्रम उक्तः । तन्मीलिताक्षस्य हि तेजसो रूपमपश्यतः तद्रूपविपरीतनीलरूपि द्रव्यं सामान्यतः स्मरतः स्मृतित्वमगृह्णतो ‘?Rनीलद्रव्यम्’ ?Rइत्यभिमानात् स्यादेव तमोव्यवहारः । अन्धानां नीलाभिमानासिद्धिरित्यपि न,
‘?Rतमसि प्रविष्टोऽहम्’ ?Rइत्यन्धवाक्यात् । निमीलिताक्षस्य च सर्वस्य नीलधीः । न च सा पक्ष्मच्छायाधीः, अप्रसरतो नेत्ररश्मेरग्राहकत्वात् । छायैव तम इति तु छायावस्त्वसिद्धेरसिद्धम् । भूगुणादितापि तु परैरेव प्रत्युक्ता । नभस्त्वचाक्षुषमपि शब्दगुणानुमेयम् - शब्दो गुणः स्पर्शान्यैकेन्द्रियग्राह्यत्वात् । भूजलतेजोवायुगुणानां गुणिना सह ग्रहणम् , शब्दस्य न तथेति न तद्गुणता । अणुमनोगुणत्वमशक्यम् । दिक्कालात्मगुणनामबहिरिन्द्रियग्राह्यता, न शब्दस्तथेति गुण्यन्तरं नभः । एवं न पञ्चारब्धो देहः । भूम्यप्तेजोभिरनुष्णाशीतशीतोष्णैरारब्धोऽपि तदन्यस्पर्शः स्यात् नानागुणतन्त्वारब्धतदन्यगुणचित्ररूपपटवत् । अनुष्णाशीतस्तु देहः ;?R सगन्धागन्धारब्धत्वेऽप्यगन्धतापत्तिः । एवमरसतापत्तिः । तदतद्धर्मारब्धं चातद्धर्म वाततरुसंयोगवत् । धीरेण चतुर्भिरारब्धताप्युक्ता । संयोगो हि निःशेषसंयोगिग्रहाच्चाक्षुषः रज्जुघटसंयोगवदिति युक्तम् । वाततरुसंयोगोऽचाक्षुषः ;?R अवयवी तु न सर्वावयवग्रह एव चाक्षुषो दृष्ट इत्यचाक्षुषारब्धोऽपि चाक्षुषो युक्तः । स्पर्शश्चान्योऽप्यनुद्भूतो भूवाय्वोरनुष्णाशीत उद्भूतो भाति । सगन्धरसावयवगन्धानां रसानां च गन्धरसारम्भकतास्त्विति । तन्न, भुजजङ्घादिकतिपयावयवचाक्षुषत्वे हि देहावयवी चाक्षुषो दृष्टः, चतुर्भिरारम्भे च न कश्चिदवयवश्चाक्षुषः स्यात् , भुजादेरपि चाक्षुषाचाक्षुरब्धत्वात्तदवयवानामपि तथात्वात् । अथ चाक्षुषखण्डावयविग्रहात् भुजाद्यवयविग्रहे देहग्रहः ;?R तन्न, अचाक्षुषानपेक्षेण चाक्षुषेण खण्डावयव्यारम्भे सिद्धे महावयव्यारम्भोऽपि तथैवोपेयः । सगन्धरसावयवानां गन्धैरसैर्गन्धरसारम्भे समवायिकारणं न समर्थितम् । अन्यश्च स्पर्शः कदाचिदननुभवान्नास्तीत्येवोक्तम् ॥
?R गुरुणा तु यत् “?Rचातुर्भोतिकः सङ्घातः” ?Rइत्युक्तम् तद्भूतान्तरारब्ध चक्षुरादिकार्यद्रव्यान्तरयोगाच्चतुर्भूतसमूहोपलक्षणम् । योगमते देहस्य
?Rपार्थिवत्वस्थापनात्तस्यैव गुरुणोपन्यासात् । एवं पार्थिवो देहः । न च बुद्ध्यादेः समवायिकारणम् । कारणगुणपूर्वको हि वैशेषिकगुणः । न च कारणेषु बुद्ध्यादिः । यदि स्यात्तदारब्धे तत्कार्यान्तरेऽपि घटादौ स्यात् । न च करकाकाठिन्यमकारणगुणपूर्वकमित्यनेकान्तः । काठिन्यं ह्यवयवसंयोगभेदः ;?R न च संयोगो वैशेषिकगुणः । न च गोमयाच्चेतनत्पत्त्यानेकान्तः, वृश्चिकदेहचैतन्यासिद्धेः । वैशेषिकगुणास्तु रूपादयो यावद्भूतभाविन एव । भाष्ये च “?Rअयावच्छरीरभावित्वात्” ?Rइत्यृजु न, युक्तम् - “?Rअयावद्भूतभावित्वात्” ?Rइत्येवं गुरुः, न च देहादर्मत्वं मृतेऽननुवृत्तेर्युक्तम् ;?R अविगुणदेहधर्मोपगमे मृते विगुणे धर्मनिवृत्तिर्ना युक्ता । निजरूपादिनिवृत्त्या च विगुणत्वसिद्धिः । किञ्च भूतगणा रूपादयः परेन्द्रियग्राह्याः, न तथा सुखादय इत्यभूतगुणास्ते । किञ्च गुण्यग्रहे गुणग्रहात्तद्गुणता दुर्भणा । प्रत्यक्षगुणिगुणयोर्गुणस्य गुणिना सह ग्रहणात् । संप्रति योगोक्तदोषानुपत्य भूतचैतन्यवादी बौद्धदृष्ट्या बुद्ध्यादिहेतुं बुद्ध्याद्यन्तरमाह । योगाभिमतविजातीयसमवायिकारणं प्रक्रियामात्रम् । भाष्ये च सम्बन्ध्यन्तरनिषेधो विजातीयाभिप्राय एव । अन्तरशब्दो जात्यन्तरे स्वरसात् । व्यक्त्यन्तरेऽपि च शक्यः । भाष्यान्तरात् “?Rसमानायां सन्ततौ” ?Rइत्यस्मात् सजातीयोपगमात् विजातीयनिषेधार्थ एवान्तरशब्दः । विजातीयहेतूपगमेऽनवस्था । विजातिर्ह्यात्मा कार्यप्राक्क्षणसत्तामात्रेणानुमेयः क्षणिक इति तस्य विजातिह्रेतूपगमादनवस्थैव । प्रत्यक्षे च बुद्ध्यादेर्बुद्ध्यादिहेतौ न हेत्वन्तरानुमा । देहादिभिन्ने साध्येऽपि यत्प्राणादिलिङ्गात्तत्सिद्धिः परोक्ता निरस्ता तत्प्राणादेर्भिन्नसिद्धिरशक्येत्येवम् । प्राणादेश्चलनभेदत्वात् बाह्यावायौ चलनदर्शनादयावद्भूतभावित्वासिद्धेर्न भिन्नात्मसिद्धिः । सुखादयोऽपि भूतगुणाः, देहे प्रसादादिविकारासमवायिकारणत्वात् ;?R देहतद्धेत्वनाश्रितत्वे च द्विधा समवाय्यप्रत्यासत्तेरसमवायिकारणता नेति भूतधर्मः सुखादिः विशेषत
?Rइत्ययावद्भूतभावित्वासिद्धिः । उपेत्याभूतधर्मतां बौद्धदृष्ट्या “?Rकामं सुखादय एवं स्युः” ?Rइति भाष्यम् । “?Rकामम्” ?Rइत्युक्तेरुपेत्यवादनिश्चयः । बौद्धा हि सर्वभावानां क्षणिकतया कारणकार्ययोः पूर्वापरक्षणतामाहुः । अतो न समवायिकारणं भिन्नं सुखादिगम्यम् , सुखान्तरादिहेतुकमेव सुखादीति । एवमनाश्रयित्वे स्वातन्त्र्ये च सुखादेर्न भिन्नात्मसिद्धिः । अथ वायोस्तिर्यग्गतेर्देहे चान्यथावृत्तिरन्याधीना भस्त्रायामिव, निमेषोन्मेषौ चान्याधीनौ दारुयन्त्र इव, तन्न ;?R अचेतने ह्यन्याधीनता, न सा देहे । योगमतं निरस्य सांख्यमतमुपन्यस्य निरस्यति । जानातीति कर्त्रभिधानान्महदादिभूतान्ताद्देहात् भिन्न आत्मेति सांख्याः । तत्र प्रक्रियेयम्- सुखदुःखमोहात्मिका प्रकृतिः महदात्मकबुद्धितया परिणमते ;?R महतोऽहङ्कारः परिणामः । अहंकारस्य पञ्चतन्मात्राणि गन्धरसरूपस्पर्शशब्दात्मकानि एकादश चेन्द्रियाणि ज्ञानेन्द्रियकर्मेन्द्रियमनांसि । पञ्चतन्मात्राणां पृथिवी चतुर्णामापः त्रयाणां तेजः द्वयोर्वायुः एकस्याकाशं यथाक्रमम् । देहश्च सर्वः प्राकृत उक्तः । तन्मध्ये महदहङ्कारमनांसि ज्ञानात्मकमन्तःकरणमुक्तम् । अन्यत् ज्ञेयम् । अतः कर्मकरणाधिकः कर्ता पुरुषः, जानातीत्यभिधानात् । यद्यपि निष्क्रियः पुरुष उक्तः ;?R बुद्धिधर्मा ज्ञानधर्मवैराग्यादय उक्ताः ;?R तेन साक्षादात्मनो न ज्ञानकर्तृता, तथाप्यात्मनो भोगार्थं बुद्धिर्ज्ञानपरिणत्या भोग्यरूपेति निमित्ततया कर्तोक्तः ;?R तथा पूर्वभुक्त इच्छोत्पत्तेर्भिन्नात्मसिद्धिः । बौद्धमते हि क्षणिकेषु विज्ञानरूपवेदनासंज्ञासंस्कारस्कन्धेषु पूर्वभोक्तुः परभोक्तुर्भेदात् पूर्वभुक्तिः पूर्वापरक्षणस्थं विना नेति स्कन्धाधिकसिद्धिः । तथा स्मृतिरिच्छावदनुभूतविषयेति ततोऽप्यक्षणिकात्मसिद्धिः । परबोधनार्थं चेदं युक्तित्रयम् ;?R अनुभवादेवात्मसिद्धिः । तन्न, बौद्धयुक्तिभिरनुभव एवानुभूयते । इच्छास्मृती चैकसन्ततिजे एव दृष्टे ;?R जानातीत्यधिकाभिमान इत्यात्मशून्याः स्कन्धाः । ब्रह्मणमपि “?Rविज्ञानघन एव” ?Rइत्याद्यनुगुणं भूतचैतन्ये । विज्ञानचैतन्यमुपेत्योक्तम् ;?R भूतचैतन्यमेवोपसंहृतम् ।
?Rजानातीच्छास्मृतीनां भूतचैतन्ये युक्ततरता व्यक्तैव ॥
?R राद्धान्तस्तु अमिश्रितेदंप्रत्ययात् ‘?Rअहम्’ ?Rइति प्रत्यक्षाद्देहादिभिन्नात्मसिद्धिः । ‘?Rअहम्’ ?Rइति कर्तृतया संविदः प्रतिभानं च बौद्धस्यापि भ्रमतया मतम् , संविद्याकारनिवेशात् ;?R तद्विज्ञानवादे निरस्तमिति न भ्रमः । संविच्च धात्वर्थत्वात् क्रिया, क्रियार्थस्यैव धातुसंज्ञित्वादिति वेद्यज्ञानात्मककर्मकरणभिन्नार्थप्रत्यभिज्ञामुखेन नैरात्म्यं निरस्तम् । क्षणिकत्वे हि संविद्रूपक्रियायोगिता न स्यात् ; ‘?Rअहम्’ ?Rइति भिन्नकर्तृभ्रम एव स्यात् । इदंधीविषये तु देहादौ गौणाहंपदानुविद्धा धीः, अहंमात्रानुविद्धं द्राक् धीस्थं मुख्यम् । एवं सप्रत्यभिज्ञानात् स्थिरस्य नित्यतां प्रसाध्य स्वमधिकं निश्चित्य भाष्यकृत् परार्थं शास्त्रमित्येवं परबोधनार्थमनुमामाह । ‘?Rअहम्’ ‘?Rमम’ ?Rइति देहाद्भिन्नधीरिति भ्रम इति भूतचैतन्यवादिनो ब्रह्मविदश्च तदर्द्धकृतसमापनादिचेष्टयाभिन्नधियमनुमायाविपर्ययान्न भ्रम इत्याह ;?R न तु चेष्टया भोक्तृरूपधीः, तद्रूपस्याप्रमेयत्वात् । स्वसंवेद्यमपि सुखादि परगतं भ्रूभङ्गादिकार्यानुमेयम् , मेयत्वात् ;?R अहंशब्दात् भिन्नधीः परबोधनार्था । परस्याहंशब्दः साक्षाद्भिन्नधीहेतुरिति भ्रमः ;?R तमपनेतुम् “?Rन वयमहंशब्दम्” ?Rइत्यादिभाष्यम् । अहंधीरेव शब्दद्वारोच्यते विज्ञानमपास्येति भाष्यार्थः । अहंधीमेयत्वे मेयान्तरे ज्ञानज्ञात्रन्तरमनिच्छता ज्ञानज्ञात्रनपेक्षाहंधीर्वाच्येति परं प्रत्यपि ज्ञानमपास्य कथ्यताम् । उत्तरं तु स्वसंवेद्यतया ;?R मेयत्वे हि कर्मकर्तृतादिदोषः ;?R मेयान्तरधीषु न भानम् ;?R न ज्ञानं विना कथनम् । ज्ञानाकारता तु निरस्ता, ज्ञानस्यानुमेयत्वात् । अनीलाद्याकारापि संवित् प्रत्यक्षेत्यप्युक्तम् । पुनश्च भाष्यम् “?Rविज्ञानमपास्य” ?Rइति ;?R न तत्पुनरुक्तम् ;?R अधिकेयं शङ्का - धीज्ञानयोरेकतां मत्वा यद्यर्थधीष्वात्मभानं धीप्रत्यक्षतानुज्ञानात् ज्ञानप्रत्यक्षता इत्यात्माकारो ज्ञान एवेति तदपास्य नात्मा दर्शयितुं शक्यः । उत्तरं तु “?Rयद्युपायमेव” ?Rइति भाष्यम् । अस्यार्थः - उक्तं शून्ये, ग्राह्याकारा धीर्न
?Rग्राहकभूतज्ञानाकारेति ;?R अनाकारं ज्ञानमनुमेयम् , धीस्तु स्वरूपतः प्रत्यक्षेति भेदः । आत्ममनोयोगो ज्ञानमुपायमात्रमर्थधियः । तथाप्युपायमपास्येत्युक्तम् , तर्ह्यशक्योपेयधीः यथा शुक्लतां विना न शुक्लधीः । यद्यपि शुक्लता धीस्थोपायः, तथाप्युपायत्वमात्रात्साम्यम् । शून्ये प्रत्युक्तमपि ज्ञानप्रत्यक्षत्वमुपेत्यात्मसिद्धिं वक्तुमुक्तम् । साकारमपि ज्ञानं ज्ञेयप्रवणं ज्ञेयारापमेव वाच्यम् , न ज्ञात्राकारमित्यात्मसिद्धिः । उपमापि भाष्ये कथनोपायवाक्याभिप्राया, न मानान्तररूपा । प्रत्यभिज्ञया च मातृस्थैर्ये शब्दादिविषयस्थैर्यमपीति शब्दाधिकरणसमीपोक्तावुपयोगः । मातृक्षणिकत्वे तु नार्थस्यानेकक्षणानुवृत्त्यनुभूतिः स्यात् । ‘?Rप्रत्यगात्मन्यहम्’ ?Rइति भाष्यम् । तस्यार्थः - भोक्ता हि साध्यः, प्रत्यगात्मनि भोगदर्शनात् ;?R तत्रैवाहमिति । ब्राह्मणं तु भूतचैतन्यं निरस्याविनाशित्वमात्मन आह ॥
?R अत्रेदं सारम् - सर्वार्थधीषु ‘?Rअहम्’?R इति भानमास्थेयम् ;?R ज्ञातृशून्ये हि ज्ञेये भाते ‘?Rमयेदं विदितम्’ ?Rइत्येवं धीर्न स्यात् ;?R तदा च स्वपरवेद्ययोरनतिशयः । अयं भावः - स्ववेद्यपरवेद्ये अन्योन्यं विलक्षणस्वरूपे विलक्षणफले च, स्ववेद्ये स्वव्यवहारात् परवेद्ये परव्यवहारात् । न च वेद्यभाताभातयोः स्वपरयोर्वेद्यरूपे वैलक्षण्यापादकता ;?R न च वेद्यभाताभातयोर्वेद्ये व्यवहर्तृत्वम् , अभातस्य व्यवहारानन्तर्भावात् ;?R वित्त्यन्तराद्भानोपगमे चानित्यत्वात् वित्त्यन्तरस्य नित्यं वैलक्षण्यद्वयं न स्यात् । वित्त्यन्तरं चेत् स्वपरंवेद्यभेदकम् , वेत्तृता न स्यादिति वस्तुतोऽपि धीसमवायो दुःसाधः । न च वस्तुतो धीसमवायात् स्ववेद्यता ;?R न हि यस्य दीपेन यत्प्रकाश्यं तत्तस्यैव वेद्यं दृष्टम् ;?R कर्मत्वकर्तृत्वयोरेकस्यैकस्यांक्रियायां चासम्भवः, परस्था क्रियाफलवत्ता हि कर्मता, न तथा कर्तृतेति । विवक्षया च न वस्तुसिद्धिः । यद्धीरेणोक्तम् - यथा ‘?Rअहम्’ ?Rइत्यभाने तत्सम्बन्धितयार्थो न भासेत,
?Rएवं स्वपरभानभेदो न स्यादिति, तस्याप्युक्तविधैव । प्रत्यक्षश्चायमहंधीभातः, साक्षाद्भानात् । तेनांशेन धियां प्रत्यक्षत्वेऽपि वेद्यांशेनानुमादिव्यवस्था ;?R वेद्यभूतकर्मप्रवणा हि गुणकर्मभूता धीर्वेद्यभेदात् भिन्ना ;?R बुद्धीन्द्रियदेहान्यता चाहंधीत एव । ज्ञेयज्ञानरूपा हि स्कंधाः अहंधीविरुद्धेदंधीग्राह्या नाहंमित्यर्हाः । किञ्च देहादिभिन्न एव ‘?Rअहं जानामि’ ?Rइति भाति । न हि कराद्यवयवं वस्तु ‘?Rअहम्’ ?Rइति भाति । एवं च ‘?Rअहं गच्छामि’ ?Rइति गौणेन लाक्षणिकेन वाहंशब्देनानुविद्धा देहधीः ; ‘?Rममात्मा’ ?Rइत्यपि लक्षणया देह एव ममशब्दः ;?R चेतन एवात्मशब्दो मुख्यः । वेद्यासमवेतापि धीर्वेद्यव्यवहारानुगुण्यात् वेद्यस्योच्यते । अहंधिया चात्मा स्वरूपत्वेन भातः सन्नकारणश्च, कारणकल्पने मानाभावात् । अतो नित्यः । अर्थवित्त्यधीनभानतया सदा न भाति । सर्वगतश्च, सर्वत्र तद्गुणोपलम्भात् , गुणदेशगतिकल्पने गतेश्चासमवायिकल्पने गौरवापत्तेः । न च सर्वगतत्वे देहाद्वाहिरपि तद्गुणधिया भाव्यमिति वाच्यम् ;?R तद्गुणानामात्ममनःसंप्रयोगजत्वात् संयोगस्य च द्विष्ठतया मनसि वृत्तेः मनसश्च देहान्तरवस्थितेरसमवायिदेशे च कार्योत्पत्तेर्न बहिस्तद्गुणधीः । न चैवं देहेऽपि गत्यकल्पनम् ;?R तत्र हि सर्वत्र स्थितिः योग्यधीनिवृत्तिबाधिता ;?R आत्मनि तु न सर्वत्र धीर्योग्या । अग्न्यूर्ध्वज्वलनादौ चादृष्टं निमित्तम् ;?R अदृष्टवदात्माग्निसंयोगोऽसमवायिकारणम् ;?R न च निमित्तमपि स्वदेशे कार्यकरमिति देहाद्वहिरूर्ध्वज्वलनादि । न च स्वप्रकाश एवात्मा, एवं तुरीयेऽपि प्रकाशान्मोक्षस्य पुरुषार्थतेति वाच्यम् ; ?Rस्वप्रकाशत्वे हि जाग्रत्स्वप्नतुरीयेष्विव सुषुप्तेऽपि प्रकाशापत्तिः । प्रकाशस्वभावो हि न सुष्वापेत्यन्यथा । न च मोक्षस्यापुरुषार्थता ;?R अर्थवित्त्युपरमे सन्मात्रतया स्थितिरप्यर्थ्यते विवेकिभिर्विविधदुःखसंभिन्नसुखजिहासया । न च वाच्यम् - विभुश्चेदात्मा सर्वदेहेष्वेक एवास्त्विति । न हि स्वात्मनीव परात्मनि ‘?Rअहम्’ ?Rइति धीः ;?R किन्तु परात्मनोऽनुमाग्राह्यता, न भोक्तृतया धीरित्यन्यथाभानान्नानात्वे
?Rसुखदुःखादिव्यवस्थापि नोपाधेः कल्प्या ;?R आत्माद्वैते ह्यनाद्यविद्यया देहाद्युपहितः सद्वितीय इव जीवात्मा भाति । अनाद्यविद्यैव संसारः, विद्योदय एव तदस्तमयो मोक्ष इत्यास्थेयम् । न चाद्वैते मानम् । अथ प्रत्यक्षं विधातृ अस्पृष्टान्योन्यभेदमद्वैते मानम् , तन्न ;?R विधात्रपि रूपं रूपतया रसं रसतया विधत्ते, न पुनः सर्वमेकस्वरूपतया ;?R यदि हि यथा रूपे धीधारा तथाभूता यदि रसं रसयतः स्यात् , तदा प्रत्यक्षादद्वैतं स्यात् ;?R न त्वेवं सर्वबोद्धृधीः । यच्च मेयविकल्पात् सामान्यमेव तत्त्वमित्युक्तम् , तत्सामान्यविशेषवस्तुनोः सम्बद्धयोः ‘?Rइह’ ?Rइति बुद्ध्यभावेऽपि साधित्वादयुक्तम् । अथागमादेवाद्वैतम् , तन्न ;?R अगमस्य कार्यैकपरस्य सिद्धे तत्त्वे न मानता । किञ्च वाक्यात्मनोऽनेकपदार्थात्मनि वाक्यार्थे धीजननात्ततो नाद्वैतम् । अथ “?Rएष नेति नेति” ?Rइति सर्वोपाधिनिषेधान्नानावस्त्वन्तरवारणादद्वैतम् , तन्न ;?R यो हि ‘?Rएषः’ ?Rइति सद्रूपतया निर्दिष्टः पदार्थः, सोऽसद्रूपापादकेन नञा सह संबन्धुमयोग्यः अस्ति नास्तीतिवत् । अन्वयायोग्ययोश्च पदार्थयोः न वाक्यार्थीभवनम् । निषेधवाक्यैर्हि नात्यन्तिको निषेधः ;?R किन्तु क्वचित् कस्यचित् ;?R अद्वैतवादे चात्यन्तनिषेधः ;?R स स्वोक्तिपराहतः । “?Rलब्धरूपे क्वचित् किञ्चित्तादृगेव निषिध्यते ।” ?Rइति हि स्वोक्तिः । प्रत्यक्षविरुद्धश्चाद्वैतबोधक आम्नायो न यथाश्रुति युक्तः । यच्च प्रपञ्चेन भाषितम् - “?Rप्रत्यक्षादिविरोधेऽप्याम्नायस्य बलीयस्त्वात् प्रत्यक्षादेर्भ्रान्तता” ?Rइति, तन्न ;?R प्रत्यक्षादिविरोधे हि पदानामन्वयायोग्यत्वात् आम्नायार्याबोधात् । अतः प्रत्यक्षादिविरोधादाम्नाये गौणी लाक्षाणिकी वा वृत्तिः । तत्रानन्दश्रुतयः स्वाभाविकदुःखाभावपराः । लौकिकानन्दाल्पतोक्तिः दुःखानुषङ्गात् । एकत्वश्रुतय एकस्मिन् देह एक एव स्वमीत्येवंपराः । नानात्वनिषेधश्रुतिरनेकदेहग्रहेऽप्येक एवात्मेत्येवंपरा । “?Rएष नेति नेति” ?Rइति देहादीनामात्मत्वनिषेधः । विज्ञानश्रुतयश्चिच्छक्तियोगपरा व्योमादिभ्यो भेदफलाः । सर्वात्मश्रुतयः
?Rसर्वस्यात्मार्थत्वेनोपचारात् । “?Rआत्मनि ज्ञाते सर्वं ज्ञातम्” ?Rइति श्रुतिरात्मज्ञानं परमपुरुषार्थमोक्षफलम् , तदन्यत् सर्वं ज्ञानं कृतार्थमित्येवंपरा इति दिक् । अथ यत् प्रकाशते तत्प्रकाशादभिन्नम् ;?R प्रकाशात्मकं च ब्रह्म, अतो ब्रह्मात्मकं सर्वमित्यद्वैतं ब्रह्म, तन्न ;?R एवं हि नानाभूताकाराणां प्रकाशादभेदे प्रकाशस्यापि नानात्वापत्तेः नाद्वैतम् । अथ विविधोऽयमाकारप्रपञ्चोऽविद्याध्यासात् भाति, तन्न ;?R सदात्मा प्रकाशः तेन सहाभिन्ना असदात्मान आकारा इति स्वमतहतम् ;?R अप्रकाशात्मानस्ते कथं प्रकाशेरन् ??R किञ्च अप्रकाशात्मन एव प्रकाशः सम्बन्धीति बाह्यार्थसिद्धावुक्तम् । किञ्च अत्यन्तासन्तं प्रपञ्चं कथमविद्यापि दर्शयितुमलम् ??R न ह्यसत्ख्यातिरविद्या इति शक्यम् ;?R अग्रहरूपा सा इत्युक्तम् । अतो नाविद्यास्तमयो मोक्षः ;?R किन्तु अत्यन्तदेहेन्द्रियोच्छेदः । स च निःशेषसुखदुःखदकर्मक्षयात्तदधिकारानुत्पादाच्च ;?R अनादिदेहसन्ततिसञ्चिताल्पकर्मक्षयो भोगात्, निःशेषक्षयः शमदमब्रह्मचर्याद्यङ्गकेनात्मज्ञानेनापुनरावृत्तये श्रुतेन । आत्मज्ञानविधावपरार्थेऽपुनरावृत्तिफलश्रुतिः नियोज्यविशेषणं रात्रिसत्रवत् ॥
?R बुद्धीन्द्रियशरीरेभ्यो भिन्न आत्मा विभुर्ध्रुवः ।
?R नानाभूतः प्रतिक्षेत्रमर्थवित्तिषु भासते ॥
?R?0अथ शब्दानित्यताधिकरणम् ॥
?R “?Rविद्यमानोपलम्भनत्वात्” ?Rइति सूत्रावयवोक्तमानान्तरगम्यार्थत्वमानान्तरविरुद्धार्थत्वे सम्बन्धनित्यताबलादौत्पत्तिकसूत्रोक्ताद्वादद्वयेन निरस्ते । अथ शब्दानित्यतया सम्बन्धानित्यता तत्समाधिश्च सूत्रैरधिकरणम् । पूर्वपक्षस्तु - उत्पन्नविनाशिनः शब्दस्य न वृद्धव्यवहारात्सम्बन्धग्रहः ;?R किन्तु समयादेवार्थधीः ।
?Rशब्दत्वजातिनिरासाद्धि न शब्दत्वेन सम्बन्धग्रहः । न च शब्दत्वे विशेषोपहिते शक्तिग्रहः । श्रोत्रग्राह्यत्वोपाधेः सम्बन्धग्रह इति चेन्न । अस्तु तावदुपाधिरेकः ;?R स तु सकलवर्णेष्विति न गौरित्यादिविशेषस्य स्वार्थे सम्बन्धग्रहहेतुः । न च क्षणिकगादिव्यक्तिषु गत्वादिजात्या सम्बन्धग्रहः, गत्वादेरेव वा वाचकत्वग्रहः ;?R गत्वादिजात्युपगमाशक्तेः ;?R भेदे भातेऽप्यभेदधिया जातिसिद्धिः ;?R गादिभेदाभाने त्वभेदधीः बौद्धोक्तयुक्तिहता भेदाग्रहव्यवस्थाप्या ज्वालैकत्वधीरिव । एतेन ये ज्वालायां प्रत्यभिज्ञा जातावित्याहुः, ते निरस्ताः । न च गादिभेदभानं नरशुकादिवक्तृभेदेऽपि, किन्तु वक्तृमात्रभेदे । अत एवैकस्य पुनर्वक्तृत्वे मनागपि न भेदधीः । नन्वेवं यत्नकृतोऽपि सम्बन्धो गादेरननुवृत्तस्य व्यवहाराङ्गं न स्यात् । तन्न, भिन्नेष्वपि गादिषु भेदाग्रहादभिन्नतामास्थाय समयक्रियाभिप्रायधियालोकेऽर्थधीरित्येवं व्यवहाराविसंवादात् सफलता यत्नस्य । वेदे तु नाभिप्रायादर्थधीः, वास्तवसम्बन्धादित्यभिधानस्य नित्यत्वं प्रसाध्यम् । न चानित्यत्वेऽपि व्यक्तिकारकादेर्जातिक्रियादिसम्बन्धो यत्नानपेक्ष इति शब्दस्यापि तथास्त्विति वाच्यम् । समावायोऽसावयुतसिद्धयो र्यत्नानपेक्षः, शब्दार्थयोर्न तथा ;?R तयोर्हि पृथगाश्रयाश्रयित्वं पृथग्गतिश्च युतसिद्धिः । इयं च यथासम्भवम् । एवं चानित्ये शब्दे वाच्यवाचकसम्बन्धो यत्नादेव । न च चक्षुरादेरिवानित्यस्य स्वभावादेव प्रमाजनकत्वं शब्दस्यापि वाच्यम् । प्रथमश्रुताच्छब्दाद्बुद्धेः सम्बन्धग्रहापेक्षोक्ता । यत्नजता च शब्दस्याभिधानात्मकस्योच्यते, तत्प्रामाण्यप्रतिज्ञया तदधिकारात् । अतो यत्नानन्तरदर्शनादिति हेतोर्न भागासिद्धता ;?R अब्धिघोषादेरतथात्वाद्वाच्या पक्षस्य वा मानान्तरहतिः । न च मूलजलादिनानेकान्तता, पूर्वास्तित्वमानेऽसतीति हेतोर्विशेषणात् । ननु शब्दे विशेषणासिद्धिः, प्रत्यभिज्ञया पूर्वस्थितिमितेः । एवं च पूर्वोऽपि यत्नोऽभिव्यञ्जकः परयत्नवत् । तन्न ;?R विशेषधीपूर्विका ह्यभेदधीः प्रत्यभिज्ञा ;?R भेदाग्रहे तु
?Rप्रत्यभिज्ञाभ्रमः । ध्वस्तोत्पन्नयोरन्यतानुमया, न तु साक्षाद्विशेषग्रहादिति ज्वालादिवदप्रत्यभिज्ञैव । यदि हि विशेषाग्रहमात्रं प्रत्यभिज्ञा, कर्मण्यपि सा स्यात् । अथ स्वरूपग्रहे विशेषाग्रहो न कर्मणीति न प्रत्यभिज्ञा, तर्हि ज्वालादेः स्वरूपग्रहे सा स्यात् । अथ स्वरूपग्रहेऽप्यनुमया ज्वालाभेदे प्रत्यभिज्ञा भ्रमः, तर्हि शब्देऽप्यस्थानाद्यनुमया भिन्ने प्रत्यभिज्ञा भ्रम इति यत्नात् प्रागस्तित्वासिद्धेर्यत्नानन्तरधिया यत्नजता । न चास्थानं घटादेरिव, येन तद्वद्व्यवहाराङ्गता स्यात् , अपि तु क्षणान्तरास्थानात् । न चोन्मीलितावस्थं चक्षुः क्षणिकमपि रूपधीव्यवहाराङ्गम् , शब्दोऽपि स्वार्थधियोऽङ्गमस्त्विति । उक्तं हि - ‘?Rसम्बन्धबुद्ध्यपेक्षाच्छब्दादर्थधीः ;?R न सा क्षणिकात् इति’ ?Rअस्थानात् समयादेवार्थधीः ॥
?R किञ्च लोके शब्दं कुर्वित्युच्यते ;?R करोतिश्चोत्पादने मुख्य इत्युत्पादनं लोकोऽपि मन्यते । यद्यप्यनेकहेतुप्रयोग एकत्र साध्ये निन्दितो वादेऽपि विशेषतोऽमन्दत्वे हेत्वन्तराणाम् ;?R तथापि मन्दामन्दधीशिक्षार्थे शास्त्रे युक्तः । अन्यथा हि मन्दधियामुक्तेऽप्यमन्दे राद्धान्तहेतौ मन्दामन्दविपक्षहेत्वाच्छादनाशक्तेर्न राद्धान्तधीः स्यादिति सफलावनेकहेतूपन्यासनिरासौ मन्दविषदष्टचिकित्सेवेत्युक्तं द्वितीये भाष्ये । किञ्च नानादेशेषु युगपच्छब्दधीः ;?R सा चैकत्वान्निवृत्ता भेदे स्थिता शब्दभेदे हेतुः । अत्र भाष्यम् “?Rअसति विशेषे नित्यस्य नानेकत्वम्” ?Rइति । नानेकदेशत्वमित्यर्थः । भाष्यं चेदं शङ्कानिराकारणार्थमित्युक्तम् । गोत्वादेरेकस्याप्यनेकत्र युगपद्धीर्दृष्टेति न शब्दानेकत्वे लिङ्गमिति शङ्का ;?R निरासस्तु गोत्वादेरप्यसति विशेषस्य देशत्वे नानेकदेशत्वम् ;?R विशेषा एव नानादेशा भान्ति, न गोत्वम् ;?R न हि ‘?Rइह गोत्वम्’ ?Rइति भानम् । किन्तु गोत्वादिधर्मनिरूपितव्यक्तिधर्मभानम् । यदपि “?Rइहप्रत्ययहेतुः समवायः” ?Rइति तत्
?Rक्रियासमवायविषयम् ;?R क्रिया हि धर्मान्तरनिरूपिते धर्मिण्यनुमेयेति इहधीहेतुः । अतः “?Rसत्त्वान्तरे च यौगपद्यात्” ?Rइत्यनेन भेदद्वारा कार्यता शब्दस्य ॥
?R किञ्च प्रकृतिविकृतिता शब्दस्य शाब्दस्मृतेरनुगुणा कार्यत्वे । सादृश्यमपि अवयवसामान्यात् ;?R सावयवत्वात् कार्यः शब्दः । कर्तृभूम्रा च हेतुबहुत्वात् सावयवतया शब्दस्यापि कार्यता ॥
?R संप्रति पूर्वपक्षत्वनैकान्तिकतोच्यते । यदि हि प्रत्यभिज्ञा स्थास्यति, तदा प्रागस्तित्वे मानात् यत्नानन्तरधीरभिव्यङ्ग्येऽपीत्यनैकान्तिकता । एवं सतोऽप्यदर्शनमित्यदर्शनमस्थानेऽनेकान्तम् । ननु नित्यत्वेऽपि विषयानागमाददर्शनम् , तच्च न स्वाश्रयस्वग्राह्यैकशब्दे । अतो नष्टस्यैवादर्शनम् । अथावरणादि तदग्रहबलात् कल्प्यम् ;?R तन्न ;?R दृष्टविरोधात् । एकदेशस्थैकेन्द्रियग्राह्याभिव्यक्तौ सर्वशब्दधीः सर्वेषां च स्यात् दीपाभिव्यक्तघटदेशस्वरूपपरिमाणादिवत् । न च प्रतिशब्दमभिव्यञ्जकभेदान्न सर्वशब्दधीः, अभिव्यक्तिर्हि न शब्दगता, सर्वेषां प्रसक्तेः ;?R किन्तु श्रोत्रसंस्काररूपा । न चेन्द्रियाभिव्यक्तिस्तत्तदिन्द्रियग्राह्यविशेषार्था दृष्टेति सर्वशब्दधीर्दुस्तरा ;?R प्रत्यभिज्ञास्थितौ हि दृष्टान्यता ;?R न हि प्रत्यभिज्ञाख्यं प्रत्यक्षमसन्निहितदेशकालग्राहि । अथ संस्कारसहितेन्द्रियजा प्रत्यभिज्ञा, तथापि भेदाग्रहतुल्या भेदग्राहिकयानुमया बाध्या प्रत्यक्षान्तराद्विपर्ययाभावेऽपि कारणदोषधीतः । शुक्तिकारजतादौ प्रत्यक्षतो विपर्यये भेदाग्रहे तद्ग्रहभ्रमः इति ज्वालाशब्दादावपि भेदाग्रहे तद्ग्रहभ्रमः । अन्यथाख्यातिपक्षेऽन्यथाभातेऽनुमा न स्यात् ;?R अख्यातिपक्षे तु नानुमाशक्यबाधा । यद्यपि शब्दे प्रत्यक्षान्न कदाचिदपि भेदग्रहः, तथाप्यनुमया भेदग्रहो ज्वलादिष्विव । न च यथा मण्डूकवसाक्तं चक्षुर्वंशमुरगरूपं गृह्णाति, तथा संस्कारभेदाच्छ्रोत्रमपि
?Rकंञ्चिदेव शब्दं ग्रहीष्यदीति ;?R तत्र हि भेदाग्रहोऽशक्तेः शक्तिप्रतिबन्धात् ;?R श्रोत्रे तु शब्दग्रहणार्थः संस्कारः सर्वशब्दार्थ इत्युक्तम् । अथ व्यञ्जकमणिदर्पणभेदान्मुखे नानारूपधीर्दृष्टा, तन्न ;?R मण्यादिरूपानुरक्तमुखग्रहात्तत्र नानात्वम् ;?R ससंस्कारश्रोत्रानुरक्तशब्दग्रहो नेह । अतो न तुल्यतेति श्रद्धयैव शब्दनित्यतोक्ता शब्दात्मके वेदेऽप्यनित्यतया निन्दा मा भूदिति । एवं वेदवेदार्थादरोऽन्धपरम्परया । इयं यदि नेष्टा, तर्हि वेदार्थज्ञप्रणीताद्वेदादर्थं निश्चित्य लोको व्यवहरतीति कल्प्यम् । अथ मानान्तरागम्यज्ञो न शक्यः कल्पयितुम् , तर्हि प्राज्ञैः स्वभोजनाद्यर्थमृजवः सुप्रयुक्तदम्भविस्नब्धाः । वेदवादिनोऽपि हि दृष्टलोभादिमूलसम्भवे नादृष्टार्थानां स्मृतिमाहुः । तथा वेदेऽप्यस्त्वित्याह बृहस्पतिः । अथैतन्नेष्टम् , तर्हि कार्यः सप्रत्यभिज्ञप्रत्यक्षगम्यत्वे शब्दस्य यत्नः । उच्यते - परं शब्दं बोधयितुं वायवीयसंयोगविभागावारभ्येते । तयोश्च श्रोत्रसंस्कारद्वारा शब्दाभिव्यञ्जकता । तत्र दीपादेरिन्द्रियसंस्कारेण व्यञ्जकत्वादेकदेशस्थसर्वव्यक्तिदृष्टेस्तन्निवृत्त्यानभिव्यञ्जकत्वानुमा पारिशेष्याच्चोत्पादकतानुमा तत्पूर्विका ;?R प्रत्यभिज्ञया पूर्वस्थितेर्व्यञ्जकतान्तरसाधर्म्यबाधान्नियतविषयतानुमा ;?R प्रत्यक्षपूर्विकानुमापूर्विकाया बलीयसी । न च तद्ग्रहो भ्रमः, अनुमितानुमया भेदासिद्धेः । ज्वालाभेदस्तु प्रभाततिकार्यस्य प्रत्यक्षत्वात् सिद्धः । इह तु न किञ्चित्प्रत्यक्षं भेदलिङ्गं कार्यम् , वायुसंयोगविभागात्मकश्रोत्रसंस्कारानुमितेर्व्यञ्जकान्तरसाम्यात् सर्वव्यञ्जकताप्रसक्तेस्तन्निवृत्त्योत्पादकताप्यनुमितेः । प्रत्यक्षप्रभातत्या शीर्णावयवा ज्वालेत्यनुमैव ध्वंसानुमा ;?R पुनर्ज्वालाप्रत्यक्षात् भेदानुमेति प्रत्यक्षद्वयं भेदाग्रहानर्हम् ;?R तद्ग्रह एव भेदाग्रहार्हो व्यवस्थाप्यः । किञ्च संयोगविभागौ लोकतः परनरार्थौ । तत्र श्रोतरि संस्कारानर्हे श्रोत्रसंस्कारकौ, न तु शब्दोत्पादकौ ;?R तथाहि शब्दार्थौ स्याताम् । एवं चैकैकशब्दधीकार्यात् संस्कारकसंयोगविभागा नानेति कल्प्यम् ।
?Rभाष्ये ‘?Rसंयोगविभागो परमे शब्दश्रुतेर्न तौ व्यञ्जकौ’ ?Rइति चोद्यं ताल्वादिसंयोगविभागाभिप्रायम् । उत्तरम् - “?Rन नूनमुपरमन्ति” ?Rइति कार्यकल्प्यवायवीयाभिप्रायम् । परभाष्येणापि वायवीयाभिप्रायं चोद्यम् - अभिव्यक्तिः कार्या अभिव्यञ्जकदेशस्थास्तु ;?R व्यङ्ग्यं तु खदेशमेकम् , श्रोत्रान्तर्वहिश्च खमित्यन्यत्रत्यैर्व्यक्तं तदन्यदेशस्थैरपि ज्ञायेत । उत्तरभाष्यम्- शब्दव्यक्तौ स्यादेवम् , श्रोत्रसंस्काररूपा तु व्यक्तिरिष्टा ;?R खमवच्छिन्नं श्रोत्रमिति न सर्वेषां धीः । अपरमापाद्यचोद्यम् - आसन्नानासन्नयोर्धिया वायवीयाः प्राप्त्यनपेक्षाः ;?R अन्यथा ते व्यञ्जकाः व्यञ्जकान्तरकरा इति द्विविधा शक्तिः स्यादित्येक एव वायवीया यावत्संस्कारं श्रोत्राण्यप्राप्यं संस्कुर्युः । अतो दूरासन्नयोर्युगपद्धीः स्यात् । शब्दोत्पत्तिपक्षे न चोद्यम् ; ?Rवायवीयाः शब्दारम्भकाः ;?R ततः शब्दादेव शब्दपरम्पराक्रमेण दूरस्थश्रोत्रे शब्द इति क्रमेण शब्दधीः । दृष्टं हि लोके मूलहेत्वपेक्षया कार्यं स्वकार्यापेक्षया कारणम् , न तु व्यक्तिर्व्यञ्जिका दृष्टा । न च नायनतेजोव्यक्त आलोको व्यञ्जकः, तद्वद्व्यक्तः शब्दो व्यञ्जकोऽस्त्विति वाच्यम् ;?R धीयोग्यताभिव्यक्तिरालोके स्वतः, न सजात्यपेक्षेति वायवीयः शब्दः संयुक्तसमवायाच्छ्रोत्रग्राह्योऽस्तु । योगोक्ता वा संयोगाद्विभागाच्छब्दाच्च शब्दोत्पत्तिरस्तु । भेरीदण्डसंयोगसचिवाद्भेरीखसंयोगात् खे शब्दजन्म, ततः शब्दादेव शब्दः । एवं वीचीचयसञ्चारवत् कर्णशष्कुल्यवच्छिन्ने खे जातः समवायात् ग्राह्यः । एवं वंशदलविभागसचिवाद्वंशदलखविभागात् खे शब्दजन्म, ततः शब्दपरम्परा । तथैवाद्यः शब्दः कार्यबाध्यः ;?R अन्त्यः कारणबाध्यः ;?R मध्यस्थाः कार्यबाध्याः कारणबाधकाः । योगोक्तविधापि क्रमेण धिया तुल्यनयादिभिमता भाष्ये तद्ग्रहान्निरस्ता ‘?Rअनुवाते दूरेऽपि शब्दधीः’ ?Rइति । अनेन योगोक्तबोद्धोक्तयोर्निरासः, शब्दपरम्परायामप्राप्त्याग्रहे अनुवातानुपयोगात् । शीक्षाकारोक्ते वायवीयशब्दे अनुवाते दूरे धीर्युक्तैव । दूरादूरयोर्युगपद्धीचोद्ये
?Rसमाधिभाष्यम् “?Rअभिघातेन” ?Rइत्यादि । तदेवं न व्यक्तिकरी व्यक्तिः । अभिघातप्रेरितकोष्ठ्यवायुना श्रोत्राच्छादकस्तिमितवातबाधः । सर्वत्र हि स्तिमितवातसत्ता तूललबधारणाल्लिङ्गात् । बहवश्च कोष्ठ्या एकैकश्रोत्रव्यञ्जकाः क्रमगतयः क्रमाद्दूरादूरधीहेतवो यथाकार्यकल्प्याः उत्पत्तिपक्षवत् । श्रोत्रस्थस्तिमितवातबाधेऽपि न सर्वबाध इत्यसर्वशब्दधिया कल्प्यम् ॥ ‘?Rशब्दं कुरु’ ?Rइति च निर्देशो मानपूर्वकः शब्दप्रयोगाभिप्रायः । युगपन्नानादेशेषु शब्दधिया नानात्वधीर्भ्रान्तिरेव । नानात्वं वस्तूनां स्वरूपमेव, यद्वैलक्षण्येन विमृश्यते ;?R न तत् तद्ग्रहे सति । भ्रमबीजम् - अन्यानपक्षेध्वनिभिः श्रोत्रसंस्कारभेदाद्धीभेदे भेदाग्रहाच्छब्दभेदभ्रमः नेत्रवृत्तिभेदादिव चन्द्रभेदभ्रमः । एवं सान्तरालधीरपि भ्रमः । शब्दो हि स्वदेशशून्यः श्रोत्रग्राह्यः, श्रोत्रेन्द्रियस्य शब्ददेशत्वादिन्द्रियाणां स्वबोधाशक्तेः ;?R शब्दं गृह्णच्छ्रोत्रं व्यञ्जकध्वनिमूलदेशग्राहीति धीबलसिद्धम् । मूलदेशलिङ्गभेदं व्याहर्तुं विमतं प्रत्यशक्तेः श्रोत्रशक्तिरुक्तर्जुविमलायाम् । सौहार्द्दं तु न्यायशुद्धौ । सूक्ष्मधियां लिङ्गभेदाद्देशभेदधीः ;
?Rस्थूलधियां देशं प्रति भ्रम एव, मूलदेशलिङ्गाद्यभावात् । एवं देशशब्दयोरसम्बन्धाग्रहात्तद्देशत्वधीः । कोष्ठ्यध्वनिरष्टस्थानाभिघातजसंस्कारभेदाच्छ्रोत्रसंस्कारभेदान् कुर्वन् वर्णधीभेदहेतुः । अतो व्यञ्जकध्वनिमूलदेशतोक्ता । “?Rकामं देशा एव भिन्नाः” ?Rइति भाष्यमन्वारुह्यवादः । प्राप्यकारिश्रोत्रदेश एव शब्दधीरिति वस्तुतो न देशभेदः । एकस्य वेद्यस्यानेकत्र धीर्युगपदित्येवं रविदृष्टान्तः ;?R रवावनेकनराणाम् , शब्दे त्वेकस्येति भेदोऽस्तु । इक्स्थाने यणुच्चार्य इत्येवं पाणिनेर्विकारोक्तिः, विकारे मानाभावात् । न च सादृश्याद्विकारता, तधिकुन्दयोरदृष्टेः । शब्दो महान् - इत्यपि भ्रमः । व्यञ्जकनादाः प्रचिताः कृत्स्नकर्णच्छिद्रव्याप्त्या निरन्तरधियः कुर्वन्तोऽसम्बन्धाग्रहाच्छब्दनैरन्तर्यमिव बोधयन्तो नैरन्तर्याग्रहान्महत्त्वमिव बोधयन्ति तरुषु ‘?Rवनं महत्’ ?Rइतिवत् । तद्ग्रहे स्थास्यति पूर्वोक्तहेतुजातमनेकान्तम्
?R। संप्रति तद्ग्रहः शब्देऽनुमया साध्यते । शब्दो नित्यः परार्थदर्शनसम्बन्धित्वात् धूमादिवदिति । एवमपक्षधर्मता हेतोः प्रत्युक्ता, दर्शनसम्बन्धस्य पक्षधर्मत्वात् । धूमादिदर्शनस्य स्वबुद्ध्यर्थत्वेऽपि परबुद्ध्यर्थताप्यस्तीति न हेत्वसिद्धिः दृष्टान्ते । दर्शनकालात् कालान्तरस्थायितात्मकं नित्यत्वं साध्यतयाभिप्रेतम् । एवं हि धूमादिव्यक्तेर्दृष्टान्तता । कालान्तरस्थायित्वे च परयत्नस्यानुत्पादकत्वात् पूर्वयत्नोऽपि तथेति सदकारणत्वसिद्धिः । न च क्षणिकेऽपि शब्दे सङ्केतितार्थे तत्सदृशेऽभेदभ्रमादर्थधीरित्येवमपि परार्थमुच्चारणनितीतरथापि हेतुसिद्धिरिति ;?R यतस्तद्ग्रहे न प्रत्यक्षबाधो नानुमाबाध इत्युक्तम् । सदृशत्वबोधे चार्थधीर्न स्यात् । शालाशब्दान्मालार्थधी र्मालासदृशधीयेव बाध्येत । न च गावीशब्दात् गोशब्दभ्रान्त्यार्थधीः सादृश्यधियापि न विपर्येतीति वाच्यम् ;?R यो हि गोशब्द एव साधुरिति वेत्ति, सः अशक्त्या ‘?Rगावी’ ?Rइत्युच्चरितं गोविवक्षोः इत्येवं ज्ञात्वा गोशब्दादेवार्थमवैति ;?R यस्त्वेवं न वेत्ति, स गावीशब्दादेव ;?R न गोभ्रमात् । न चाद्यः शब्दः सङ्केतितः तत्सादृश्यादितरेभ्योऽर्थधीरिति शक्यम् , अनादिसंसारे आद्याभावात् । अतः प्रत्यभिज्ञयार्थधीः । सा च स्मृतिग्रहणच्छायावाहिनी संस्कारेन्द्रियाभ्यां प्रत्येकं तत्तेदन्ताशक्ताभ्यामेकबोद्धरि जन्यत इति हेत्वभावोऽप्यस्या न युक्तः । न च क्षणिकत्वादभिव्यक्तेरेकैव शब्दधीः, न सा संस्कारबोधिता प्रत्यभिज्ञा युक्तेति वाच्यम् ;?R हेत्वान्तरोद्बुद्धसंस्कारस्य प्रत्यभिज्ञास्तु । अन्वयव्यतिरेकाधीनाकृतिवाचिता च स्थायिशब्दस्य, न क्षणिकस्य ;?R अङ्गुल्यादिनिर्देशादियं गौरित्याकृतिवाचनता शक्या ;?R पिण्डलीना हि न पृथङ्निर्देशार्हा । किञ्च अष्टकृत्वो गोशब्द उच्चरितः - इति कृत्वसुच् क्रियावृत्तौ । अनुमेयक्रियावृत्तिः कार्यावृत्तिगम्या न वाच्या ;?R कार्यं ह्यन्यदन्यत् कार्यत्वात् । अतो ज्ञाप्यैकशब्दापेक्षया क्रियैकतामाश्रित्य क्रियावृत्तौ कृत्वसुच्स्मृतिः प्रत्यभिज्ञाबृंहिका । एकहेतुसिद्धेऽपि साध्ये आहार्यधियां हेतुप्रचयः । यदि
?Rज्ञाप्यात्मककार्यैक्यात् क्रियाभ्यासं कृत्वसुजाह, तर्हि न क्रियान्यत्वधीः । अनन्यताधियैव प्रत्यभिज्ञामिच्छतः क्रियायां प्रत्यभिज्ञा स्यात् । बौद्ध्यैक्यात् बुद्धावपि स्यात् । अतश्च स्थायितापत्तिरिति “?Rबुद्धिकर्मणी” ?Rइत्यादिचोद्यभाष्यार्थः । उत्तरभाष्यम् - “?Rअथ प्रत्यक्षे नित्ये एव” ?Rइति । अस्यार्थः - यदि प्रत्यभिज्ञात्मकप्रत्यक्षवेद्ये तदा स्थायिनी ;?R स्वलक्षणाग्रहणार्हे हि तद्ग्रहः, न तु कार्यतोऽस्तीत्येवमनुमेये ;?R न ह्यन्यत्वाग्रहः तद्ग्रहः क्रियावृत्तिरुपाधित ऐक्याद्युक्ता । बुद्धस्यान्तराबोधो नास्तीतिधीव्यवहारारोहः ;?R अन्यथा नास्तीति निर्विषयमिति चोद्यभाष्यम् “?Rह्यस्तनस्य” ?Rइत्यादि । तन्न ;?R बुद्धस्य हि पुनरत्यन्ताबोधो नास्तीति ;?R तद्ग्रहात्मके पुनर्बोधे न नास्तीति, भावधीनिवृत्त्यपेक्षत्वान्नास्तीत्यस्य । अत एव लोको जायादि दृष्ट्वान्तरा अपश्यन् पुनर्बोधे नास्तितां हित्वा विश्वासं याति । यापि सर्वभावानां नाशितान्ते क्षयात् बौद्धैरुक्ता, सा न शब्दस्य, न हि शब्दस्यान्तक्षयौ धीसिद्धौ । यत्रापि घटादौ तौ स्तः, तत्रापि न नाशिस्वभावतया क्षणिकतानुमा प्रत्यभिज्ञां बाधते । इत्थमनुमा वाच्या - भावस्वभावाः क्षणिकाः, स्वहेतुतो नश्वरत्वात् । न चासिद्धो हेतुः ;?R हेत्वन्तराधीने हि नाशे भावस्वभावानन्तर्भूते जातेऽपि प्रागिव भावधीः स्यात् ;?R न च हेत्वन्तरजन्यो नाशो भावस्वभावार्हः, हेतुभेदात् भेदापत्तेः ;?R अन्ते नाशान्नश्वरक्षणात्मकाद्भावात् सदृशपरम्परोत्पत्तेः स्थिरभ्रमः । विसदृशहेतोस्तु विसदृशक्षणोत्पत्तावन्ते क्षयधीः । कृतको नाशीत्येवमपि स्वहेतुतो नाशीति ;?R कृतकाश्च सर्वे भावाः । तन्न ;?R भागासिद्धेः हेत्वभावाच्छब्दस्याकृतकत्वात् शङ्कितहेतोर्यत्नस्य व्यञ्जकत्वात् । शब्दधीश्च यत्नसंस्कृतश्रोत्रापेक्षा, न तु शब्दस्तदपेक्षः । तेनास्वभावकरत्वे नापेक्षा;?R स्वभावकरत्वे शब्दोऽन्त्य इत्यनुयोगो हेयः । न च नियतदेशकालप्रकृतितयापि कृतकता, नियमासिद्धेर्विभोर्नित्यस्य ;?R प्रकृतिनियमः काल्पनिकोऽनिदंप्रथमे । न च कृतका भावा विनाशस्वभावाः, गुरुनये नाशवस्त्वसिद्धेः । अथेत्थमनुमा - यत्सत्
?Rतत् क्षणिकम् , सन्तश्च सर्वे भावाः । सत्ता हि क्रमयौगपद्याभ्यां व्याप्ता ;?R ते ह्यक्षणिकान्निवृत्ते स्वव्याप्तां सत्तामपि ततो निवर्त्य क्षणिककोटिं सत्तां नीत्वा तत्कोटिव्याप्तां कुरुत इत्येवं सत्त्वात् क्षणिकत्वसिद्धिः ;?R सत्त्वं ह्यर्थक्रियाकारित्वम् , तदधिकानिरूपणात् । अर्थक्रिया चाक्षणिकस्य न क्रमात् , शक्तस्य कालक्षेपायोगात् ;?R अशक्तौ न कुर्यादेव । अथ शक्तोऽपि सक्रमसहकारिसन्निध्यपेक्षः क्रमात् करोति, तन्न ;?R किञ्चित्करो ह्यपेक्ष्यः ;?R स यदि भावस्वभावकरः, तदा भावस्योत्पत्तेः नाक्षणिकात् क्रमादर्थक्रिया ;?R अथास्वभावकरः, तर्हि पूर्वावस्थात् भावान्नार्थक्रिया ;?R तत एवागन्तोः सा स्यात् , तदनुविधानात् । अथ यौगपद्यादर्थक्रिया, तर्हि क्षणान्तरे तच्छून्यो न अक्षणिकः सन् स्यात् । क्रमयौगपद्ययोश्चैकाभावे नियमादपरदर्शनात् तृतीयकोट्यभावसिद्धिः । न च असाधारणानैकान्तिकता सत्त्वादिति हेतोः क्षणिकादर्थक्रियानिवृत्तेः ;?R अशक्तादर्थक्रिया न स्यात् ;?R शक्तस्य सहकार्यपेक्षा न स्यात् ;?R न च विधान्तरमस्तीति वाच्यम् ;?R यतोऽन्त्यक्षणप्राप्तः शक्तः सहकार्यनपेक्ष एव कार्यकरः । सहकारिणोऽपि स्वहेतोरन्त्यक्षणप्राप्तास्तत्कार्यशक्ता युगपत्तत्करा अनपक्षैकसामग्रीत्वापन्ना इति नानपेक्षा ;?R न कृतकरता न कार्यभेदः सहकारि तापीति यथादृष्टमविरुद्धम् । तन्न ;?R घटते हि स्थिरादपि क्रमादर्थक्रिया सहकार्यधीनस्वाधिकोपकारापेक्षात् । न चागन्त्वनुविधानात् कार्यस्य भाव उदास्ते ;?R आगन्तूपकृतभावानुविधानं हि कार्यस्य, नागन्तुमात्रानुविधानम् । आगन्तुजोऽप्युपकारो भावश्रयो भावस्योच्यते लोके । न च परोक्तप्रतिवन्दीतोऽसाधारणता सत्त्वादित्यस्य क्षणिकादप्यर्थक्रियानिवृत्तेर्वाच्या । यद्यप्येकं कार्यमनेकस्मात् कारणान्मतम् , तथाप्यन्योन्यानपेक्षाणामपि स्वहेतुवशादप्रेक्षाणां मेलनं युक्तम् । तत्र नायमनुयोगः - कृषीबलः प्रेक्षावान् कुसूलादवनीय बीजं भुवि न वपेत् ;?R कुसूलनिहितबीजः कृती स्यादिति । यथा हि
?Rकृषीबलो बीजक्षणसन्ततिजः कोऽपि क्षणभेदोऽङ्कुरहेतुरिति ज्ञात्वा बीजं कुसूले निधत्ते, तथा क्षित्यादिसहभूर्बीजक्षणः कोऽपि हेतुरिति ज्ञात्वा स्वलक्षणसहभूश्च बीजक्षणः क्षित्यादिसहभुवो हेतुरिति च ज्ञात्वा स्वयमपि क्षणात्मको बीजक्षणं स्वसहजं कर्तुं प्रेक्षावानपि चेष्टत इति दिक् । अतो गुरूक्तमेव यत् परोपसंहृतम् - अक्षणिकादपि क्रमेणार्थक्रियेत्येवं साधारणत्वं हेतोः इति तदेव युक्तम् ।
?R एवमनुमया तद्ग्रहाबाधाद्धटाद्यपि स्थिरम् ;?R शब्दस्तु सुतराम् ;?R घटादेर्ह्यवयवसंयोगासमवायिकारणकस्यासमवायिनाशे नाशशङ्का ;?R सापि शब्दे तद्विधानपेक्षे नास्तीति “?Rअनपेक्षत्वात्” ?Rइति सूत्रम् । न चानपेक्षत्वासिद्धिः, शीक्षाक्षरैः “?Rवायुरापद्यते शब्दताम्” ?Rइत्येवंविधैरित्याह सूत्रम् “?Rप्रख्याभावात्” ?Rइति । प्रख्या हायचाक्षुषस्यापि वायोस्त्वचा, न शब्दप्रख्या तथेति न वायवीयता ;?R शीक्षाक्षराण्युपचारतो वाय्वधीनत्वात् । वेदाक्षरापि “?Rवाचा विरूपनित्यया” ?Rइति नित्यत्वे स्पष्टानि । न तु शीक्षा “?Rवायुरापद्यते शब्दताम्” ?Rइति स्पष्टमनित्यतामाह ।
?R अत्र पूर्वोत्तरपक्षसंक्षेपः - न यत्नाद्वर्णाश्रयात् व्यक्तिः खेन्द्रिये, खगुणस्य नित्यानावृतसन्निधेः । व्यक्तश्चैकखस्थो दूरस्थैरपि ज्ञायेत, सदा च ज्ञायेत, सर्वस्छैकस्थः सकृद्व्यज्येत एकस्थरूपसंख्यादिवत् । अथ श्रोत्राश्रयः संस्कारो व्यक्तिः, न सा दृष्टेन कोष्ठ्यैः उन्मेषादिनेव चक्षुषः ;?R सकृच्च संस्कृते श्रोत्रे सर्वधीः स्यात् घटार्थोन्मेषे पटादिधीवत् । एवमव्यक्त्यर्थो यत्नः कारकतयापेक्ष्यः । प्रयोगश्च - वर्णा यत्नजन्याः, तदव्यङ्गत्वे तदपेक्षवेद्यत्वात् कुलालयत्नापेक्षवेद्यघटवत् । यत्नजत्वे वायवीयता मन्दा त्वचा बधिरवेद्यत्वापत्तेः । न चाभिभूतेतरवेद्यता, श्रोत्रार्हतयोन्द्रियार्हत्वानभिभूतेः । अतो यत्नजः स्वगुणः । किञ्च यत्नभेदे वर्णनानात्वधिया यत्नजत्वम् ;?R हेतुभेदे हि कार्यं नाना, न व्यञ्जकदीपादिभेदे व्यङ्ग्यं
?Rनाना । एवं यत्नमृदुत्वामृदुत्वतो वर्णमृदुत्वामृदुत्वधिया यत्नजत्वम् ;?R न व्यङ्ग्ये तथात्वम् । तन्न, स्पष्टे तद्ग्रहे व्यञ्जकभेदमास्थाय तद्धीव्यवस्था ;?R कोष्ठ्यवायोस्तत्तत्स्थ्यानसंयोगान्यत्वे व्यञ्जकान्यतया नैकस्थानेकधीः सकृत् ;?R व्यञ्जकैक्ये हि सा सकृत् । न चैकस्थैकेन्द्रियग्राह्येषु सकृद्धिया व्यञ्जकैक्यनियमान्न तद्भेद इति वाच्यम् ;?R यतः सकृद्धिया व्यञ्जकैक्यं दृष्टम् । यत्न त्वसकृद्धीः तत्र व्यञ्जकाभेदो न दृष्ट एव । व्याप्तेश्चानौपाधिकत्वनिश्चयात् स्थिरता । अत्र च किमेकेन्द्रियग्राह्यतया घटादेस्तद्गतरूपादेश्चैको व्यञ्जकः, उत रूपिद्रव्यतया घटादेस्तत्समवायितया रूपादेरित्यनिश्चितव्याप्तिकमेकेन्द्रियग्राह्यत्वं न व्यञ्जकैक्ये शक्तम् । ननूभयमविनाभूतं व्याप्यमित्येकेन्द्रियग्राह्यत्वमेकमपि व्यञ्जकैक्ये शक्तम् । न हि धूमे व्याप्ये भस्माव्याप्यम् । अतोऽसत्यपि धूमे भस्माग्निधीशक्तमेव । तन्न ;?R अत्र ह्येकं व्याप्यं रूपिद्रव्यतद्रूपाद्यात्मकम् ;?R तत् किमनेनैवाकारेण उतैकेन्द्रियग्राह्यत्वेनेत्यनिश्चयः । ननु धूमः कार्यत्वेनापि व्याप्तः संयोगित्वेनापि, तथेहाकारद्वयेनास्तु, तन्न ;?R धूमे हि सम्बन्धद्वयात् द्विधा व्याप्तिः ;?R इह त्वेक एवैकाश्रयत्वसम्बन्ध एकव्यङ्ग्यत्वस्य रूपिद्रव्यतद्रूपादेश्च । सम्बन्धस्य नियततात्मिका व्याप्तिरेकैव, तत्र विशेषानध्यवसानं केन स्वभावेन नियततेत्यशक्तमेकेन्द्रियग्राह्यत्वं व्यञ्जकैक्ये । न च स्थिरवाय्वपनय एव श्रोत्रस्य व्यक्तिरिति सर्ववर्णधीः स्यादिति वाच्यम् ;?R यतो यत्नकोष्ठ्यवायुभेदात् स्थिरवायुविभागरूपव्यक्तिभेदो धीव्यवस्थयोपेयः । न च स्थिरवाय्वपनयो व्यक्तिः, किन्तु पूर्वभाविकोष्ठ्यवायुसंयोग एव । भाष्ये तु स्थिरवायुवाधो वायुवेगनाशार्थ उक्तः । सर्वैः सर्वदा च धीर्न युक्ता ;?R एकमपि स्वं श्रोत्रतया भिन्नं व्यक्तमिति न सर्वेषां धीः । कोष्ठ्यवायुसंयोगक्षणिकतया न सर्वदा धीः । नानात्वधीर्भ्रान्तिरित्युक्तम् । मृदुत्वामृदुत्वे च नादतो भ्रम एवेत्यादि न्यायशुद्धावुक्तम् ॥
?R?0उत्पत्तौ वावाचनाः स्युरर्थस्यातन्निमित्तत्वात् ॥ 24 ॥
?R?0 ?R?0शब्दे नित्ये तदनित्यतया समयादर्थधीरिति निरस्ते वृद्धव्यवहारादर्थधीर्वाच्या । न चालौकिके वेदार्थे प्रयोज्यवृद्धव्यवहारं हानोपादानात्मकं बालो बुद्ध्वा तेन शब्दशक्तिमनुमाय वेदार्थं बोद्धुमलम् । अतो नाकृतकसम्बन्धादपि वेदप्रामाण्यम् । प्रयोजकवृद्धेन न वैदिकः पदसमुदायो व्यवहारे न प्रयुक्तः ;?R ततोऽपि न तदर्थे बालव्युत्पत्तिः । नन्वावापोद्धाराभ्यां पदानां पदार्थेषु शक्तिः, पदार्थानां च वाक्यार्थे ;?R वेदे च त एव पदपदार्था इति लोकव्युत्पत्तितो वेदादप्यर्थधीः । यदि तु समुदायादर्थधीः स्यात् , तदैकपदोद्धारेऽर्थधीरेव न स्यात् पदादिव वर्णोद्धारे । तन्न ;?R पदार्थेभ्यो हि वाक्यार्थविशेषार्थमाकाङ्क्षासन्निधियोग्यतोपाध्याश्रयणं वृद्धव्यवहारात् ;?R व्यवहारे च यत्र प्रयुक्तः समुदायो यः तत्पदपदार्थशक्तिधीर्मानान्तरगम्य एवार्थे, न वैदिके । न च सामान्यतोदृष्टम् - वेदे पदार्थाः स्वान्वयनिमित्तम् , पदार्थत्वात् लोकवाक्यपदार्थवदिति । सामान्यतोऽप्यन्वयनिमित्तत्वे विशेषार्थमाक्ङ्क्षादि व्यवहारत एव वाच्यम् । एवं च वैदिकोऽन्वयभेदो न सिद्ध्येत् । मानान्तरार्हे च वेदार्थे वाक्यत्वादिति पौरुषेयत्वानुमा, शक्यसङ्केते चार्थे चैत्रादिदृष्टसङ्केतानुमा इति सम्बन्धो नौत्पत्तिकः । न च सङ्केतव्युत्पत्तये कश्चिदसङ्केतितः शब्दः आस्थेयः । सङ्केतव्युत्पन्नानां सङ्केतोऽनादिपरम्परयास्तु । एवं चान्यत्र दृष्टं साध्यसाधनत्वमन्यत्रारोप्य वक्तुं वेदाः प्रणीताः । न च कार्यान्वयिनः पदार्था लोके, वेदेऽपि कार्य इत्येवं लोकत एव वेदार्थे व्युत्पत्तिर्वाच्या । मानान्तरगम्ये हि कार्ये लोके सङ्गतिग्रहः, नान्यत्र । न चानुबन्धान्यत्वाद्वेदे कार्यान्यत्वम् ;?R अलौकिके हि कार्ये स्थितेऽनुबन्धभेदादवान्तरभेद इति व्यवहारव्युत्पत्त्या मानान्तरगम्यो वेदार्थ इति गहनेयं न्यायपदवी । एवं जैमिनिमते वेदास्वातन्त्र्यात् सूक्तं शब्दब्रह्मविद्भिः “?Rएक एव शब्दो बहुधा प्रकृतिप्रत्ययपदविभागविकल्पारोपितभेदो लोके वेदे च
?Rवाक्यार्थतया विवर्तते” ?Rइति । तेन यद्यपि वेदार्थे न सम्बन्धग्रहः, तथापि वेदवाक्यमर्थतया विवर्तते । प्रत्यक्षवर्णपदभेदेऽप्यपूर्वधीकार्यानुगुणमेकमनुमितं भेदैरुपप्लुतमित्युक्तम् । अस्तमितव्याकरणोक्तप्रकृत्यादिविकल्पं स्वयं ब्रह्म प्रकाशत इति हि शाब्दाः । न च लोके श्रोत्रग्राह्ये शब्दशब्दप्रसिद्धिः ;?R लोके हि गौरिति शब्दो गौरिति धीर्गौरित्यर्थ इति युगपदेकाभिधाननिर्देशाच्छब्दात्मताधीः । अनेकर्थोऽक्षादिर्न युगपन्निर्देश्यो दृष्टः । एवं च लोकतः कार्यतश्चैकतावस्थितावतात्त्विकं वर्णादिभेदभानम् । एवं च कल्पितविभागाश्रयव्युत्पत्तये वृद्धव्यवहारापेक्षया वेदार्थधीरदुष्टा । तात्त्विकव्युत्पत्तौ हि मानान्तरावेद्यधीर्न स्यादेव । अतात्त्विकव्युत्पत्तेर्बीजं बहुधा - पदमाद्यम् , वाक्यम् , सर्वाणि पदानि, आख्यातं वा इत्यादि । अतोऽप्युपप्लुतता । अतत्त्वोपायतोऽपि तत्त्वभूतमोक्षफलत्वात् श्रुतेः प्रामाण्यम् । न वैदिकी कल्पना प्रत्यवायाय । भेदातात्त्विकत्व एव विनियोगाधीनो मन्त्रार्थः ;?R तात्त्विकत्वे हि नियतार्थतैव । विनियोगात्तु मन्त्रार्थे “?Rउणादयो बहुलम्” ?Rइत्यादि युक्तम् । निरुक्तव्याकरणाद्यङ्गविद्याश्च युक्ताः । भेदे तु लोकत एवार्थे व्यर्थता । लौकिकानां वैदिकानां छन्दसि भाषायां निगम इति चातत्त्वे भेदे युक्तम् । व्याकरणमतभेदश्च - अस्तिं सकारमात्रं पठन्ति, केचित् असभुवीति ;?R अतत्त्वे भेदे युक्तम् । अतत्त्वे भेदे चैकादशद्वादशकपालमेकं कर्म ;?R सर्वशाखास्वेकं कर्म ;?R तत्त्वे एकवाक्यार्थधीगम्यमेकं प्रमाणम् , तस्मिन्नानापदार्थान्तर्भावेण नानात्वमित्येकत्वनानात्वविरोधः । समासे शिष्टेऽप्यवान्तरार्थभेदादेव वाक्येऽपि प्राप्ते वावचनम् , अतत्त्वे समासवाक्ययोरर्थ युक्तम् । वर्णप्रत्यभिज्ञानेऽपि नामाख्यातोपसर्गादिभेदः विलम्बते प्रलम्बते विप्र इति न स्यात् तत्त्वे । वर्णप्रत्यभिज्ञानेऽपि भवति - इति सप्तम्याख्यातसंबोधनभेदो न तत्त्वे । वर्णात्मकपदप्रत्यभिज्ञानेऽपि राज्ञः पुरुषस्य द्विपा इति द्वयेन द्विपान्वयो
?Rराजपुरुषस्य द्विपा इति पुरुषमात्रान्वयो न तत्त्वे ;?R उपगोरिदमपत्यस्येदमिति द्वयमिदमर्थान्वयि औपगवस्येदमित्यपत्येन न तत्त्वे । करणं करणेनेति पदार्थयोः प्रत्यभिज्ञानेऽपि तृतीयोत्पत्तिर्न चेति न तत्त्वे । सुबन्तो धातुश्चैकोऽश्वऽश्वतीति न तत्त्वे । अवर्ण एव एवोपाधेरष्टानशधा नानार्थधीहेतुर्न स्यात् ;?R तत्त्वे ह्येकत्वादस्य सदा सर्वार्थधीः सर्वाधीर्वा । उपाधिभिर्हस्वदीर्घप्लुताः प्रत्येकमुदात्तानुदात्तस्वरिता न व सानुनासिकनिरनुनासिकतया अष्टादश । भिन्नेन्द्रियादिना भेदेन भातेऽपि गुणद्रव्येऽपि शब्दादेकताभानम् - सुरभि चन्दनम् इत्यादि शब्दविवर्तादेव । एकस्य प्रादेः प्रयातीति प्रकर्षार्थता प्रतिष्ठत इति विपरीतार्थता प्रलम्बत इत्यनर्थकत्वमतत्त्वे ; ?Rतत्त्वे च पदार्थतो वाक्यार्थे न निर्णयः । प्रयोगे लम्बत इत्यर्थवदिति नानर्थकतेति न ;?R लम्बत इत्यत्र व्युत्पत्तौ प्रलम्बत इत्यतोऽर्थधीर्न स्यादित्यनर्थकतैव । अनर्थकत्वे चैकवाक्यतां विभागधीश्च न ;?R किन्तु प्रलम्बत इत्यत्र वर्णाधिक्यम् । अतत्त्वे सर्वं युक्तम् । प्रकृत्यादिविकल्पस्तु व्याकरणपरम्परानादितयोक्तः । वेदान्तैरपि ब्रह्म ज्ञेयमित्येवंपरैर्विभागः काल्पनिक उक्तः - “?Rयदल्पं तन्मर्त्यं यद्भूमा तदमृतम्” ?Rइति । अवच्छेदोऽल्पम् , मर्त्यम् अस्थायि, कल्पितत्वादवच्छेदास्थायिता न तत्त्वे स्यात् । तत्त्वसाक्षात्कारपरे “?Rयावद्वाचो गतम्” ?Rइत्यद्वैतपरं घटते ;?R अन्यथा कर्मविधयो भिन्नपरा वेदान्ता अद्वैतार्था इति विरोधः । शब्दविवर्तोऽर्थ इत्येवमविरोधः । अत एकब्रह्मानुगुणो वेदराशिरित्येवंविदो ब्रह्मविदो वैयाकरणा एव ।
?R तन्न । यदि व्याकरणोक्तविकल्पादर्थधीः, व्याकरणं बोद्धुं व्यवहारापेक्षा ;?R तद्वरं व्यवहारात्तात्त्विकविभागादेवार्थधीरस्तु । अर्थधीकार्यं च भेदेऽपि घटत इति तत्र तत्रोक्तम् । अद्वैतबोधे च न वेदान्ताः शक्ता इत्युक्तम् । तत्त्वे यद्दोषजातं तत्तुच्छत्वादुपेक्षितम् । एवं निरस्ते विवर्ते जातिगुणयोरिवैकाश्रयतयान्वयो
?Rजातिगुणशब्दार्थयोरपि सन्निध्यादेरस्तु, अनन्वितार्थत्वे वैयर्थ्यात् । तन्न ;?R व्यवहारे पदार्थमात्रे शक्तिः, नान्विते । अतो मानानुसाराद्व्यर्थतैव इत्यकृतकसम्बन्धसाधनेऽपि न वैदिकान्वयधीः शब्दादिति कृतकतापातः । पूर्वपक्षभाष्यव्याख्या विस्तरभयान्नोक्ता ॥
?R राद्धान्तस्तु - वेदार्थे व्यवहारस्योपायत्वमेकत्वाल्लोके वेदे च पदपदार्थयोः । नन्वेकत्वेऽप्यन्वयात्मकवाक्यार्थधीरहेतुः । न च पदेन पदार्थोऽन्वितो लक्ष्यत इति वाच्यम् ;?R निश्चिते ह्यन्वयपरत्वे लक्षणा । वेदे च तत्परत्वानिश्चये वैयर्थ्येऽपि न हानिः । किञ्च कोऽन्वयः केन लक्ष्यतामित्यपि न निश्चयः । तन्न ;?R पदार्था हि सदा अन्विता एव दृष्टाः, अन्ततोऽस्त्यर्थेन । अतः शब्देनापि यथास्थिता अभिधेयाः । नन्वावापोद्धाराभ्यां स्वरूपमात्रे शक्तिः, अन्विते च शक्तिकल्पनागौरवम् । किञ्च सामान्येनान्विताभिधा व्यर्था । अर्थशक्त्यापि तत्सिद्धेः । विशेषेण चेदानन्त्येन सम्बन्धग्रहशक्तिः । किञ्च यदि विशेषेणान्वितोक्तेनान्वितो वाच्यः, तदान्योन्याश्रयः ;?R यद्यनुक्तेन, तदा पदान्तरवैयर्थ्यम् । अत एव पदमावापोद्धाराभ्यामर्थस्वरूपे शक्तम् , अर्था एवाकाङ्क्षासन्निधियोग्यतासहिता अदृष्टमेवान्योन्यान्वयमाहुरित्याहुः परे । न च सम्बन्धग्रहाशक्त्यनुयोगः, गृहीतसम्बन्धपदोक्तानामगृहीतसम्बन्धानामेवार्थानामन्वयबोधकत्वदृष्टेः नवकविरचितेषु वैदिकेषु च वाक्येषु तद्बुद्ध्याविवादादिति । तन्न ;?R अन्वित एवावापोद्धाराविति साक्षात्पदान्येवान्वितवाचीनि । न च सम्बन्धग्रहाशक्तिः, आकाङ्क्षाद्युपाधेर्व्युत्पत्तेः । पदार्थबोध्येऽप्यन्वयेऽपि विधेयम् । शक्तिकल्पनापि तुल्या । अथ क्लुप्ता पदार्थानामन्वये शक्तिः, श्वेतिमाश्वत्वगन्तृत्वैः प्रत्येकं मानान्तरमितैरन्योन्यान्वयधीजननात् ;?R तन्न ;?R हेषयाश्वत्वं
?Rहेषमाणपुरोवर्तिद्रव्यगतमेवानुमीयते । यत्र हि लिङ्गं तत्रैव लिङ्गिधीः ;?R यस्य तु हेषापादानदेशानिश्चयः, तस्य नाश्वत्वाश्रयनिश्चयः । योऽपि पारिशेष्यादाश्रयं वेत्ति, सोऽर्थापत्तेः, न पदार्थादन्वयः । यदि च श्वेतिमादयो मानान्तरगम्या अन्वयबोधिनः तदा तस्मिन्नन्वयेऽशब्दमूले मानमपरमुपेयम् । शक्तिकल्पना चेत् , वरं मुख्ये शब्दे ;?R नार्थे जघन्ये । शब्दस्य चार्थशक्तावन्वयधर्माधिक्यमात्रम् , अर्थस्य शक्त्याधिक्यं शब्दे च शक्त्याधानशक्तिरिति शक्तित्रयम् । न चान्योन्याश्रयम् ;?R स्मृतपदार्थमात्रेण ह्यन्विताभिधानम् ;?R अन्वितान्तर्गतस्वरूपमात्रमपि स्मृत्यर्हम् ;?R न्यायावधृतवचनव्यक्तिकं ह्यन्वितमभिधेयम् । पदार्था अपि स्मृता एवान्वयबोधिन इत्याहुः । –
?R “?Rतेऽपि नैवास्मृता यस्माद्वाक्यार्थं गमयन्ति नः” ?R। इति ।
?R तात्पर्यं पदानामन्वये चेदिष्टम् , शक्तिरपि तत्रैव युक्ता ;?R किमर्थद्वारतया ??R अन्वयवत्तयैवाभिधेत्यन्वयोऽर्थाद्वाच्यांशः, न व्यक्तिमत्तयैव जातेरभिधेति न व्यक्तिर्वाच्यांशः ;?R तथापि रूप्यन्तर्भावाद्रूपधीरित्येवं साम्यमुक्तम् । अर्थाद्वाच्यांशतया पृथगनभिधेति न व्यतिषङ्गाभिधोक्ता । एवं स्थितेऽन्विताभिधाने कार्यव्युत्पत्त्या च कार्यान्वय उक्ते प्रसिद्धार्थान्वयार्हतया च व्युत्पत्तेरुक्तेः वेदे च साध्यस्वर्गविशिष्टावस्थस्य लिङर्थे कार्ये बोद्धृतोक्तेरन्वयार्हं स्थायि कार्यं वेदवाक्यार्थो व्युत्पन्नः । लोकव्युत्पत्तिर्वेदानुसारादपूर्वान्ता - इति पदान्येव वाक्यमेकप्रयोजनतयैकमिति अर्थधीतो न भेदापवादादेकता सिद्धिः । यदि हि पदार्थादन्यो वाक्यार्थः, तदा प्रचितसंस्कारस्य पदार्थानवमर्शेऽपि वाक्यार्थधीः स्यात् । यत्र सम्न्धस्मृतिर्हेतुः तत्र संस्कारप्रचयमात्रमपि दृष्टम् धूमात् सम्बन्धास्मृतावपि प्रचितसंस्कारादग्निधीः । ‘?Rअन्धस्य च प्रचितसंस्कारस्य चक्षुर्निरपक्षमेव चलनम्’ ?Rइति भाष्योक्तम् । “?Rपदार्थेभ्यो वाक्यार्थः” ?Rइति भाष्येऽन्वयो निष्कर्षाद्वाक्यार्थ उक्तः, सोऽन्वितपदार्थाधीन इत्यभिप्रेत्य । विना पदोच्चारणं शौक्ल्ये बुद्धे शुक्लपदार्थतया
?Rगुण्यन्वितगुणस्मृतेरन्वितस्य पदार्थतामाह भाष्यम् । यद्भाष्यं पदार्थमात्रं श्रौतमिति, तत् श्रुतिमात्रादन्वितस्मृत्यनभिप्रायम् ;?R स्मृतौ हि पदस्य संस्कारोद्बोधकता, न धीजनकतेति न शक्तिः । बौद्धाः ‘?Rगुणान्तरप्रतिषेधः शुक्लपदार्थः’ ?Rइत्याहुः । तन्नेति भाष्यम् , अन्यापोहकल्पनाप्रत्युक्तेः । ‘?Rकरणादिवाचिनामतो विभक्तिस्मृतेः करणत्वेनान्वितो नामार्थः’ ?Rइति भाष्यम् । एवं मानान्तरावेद्यार्थे वेदे कृतकतानुमा प्रत्युक्ता । लोके तु मानान्तरवेद्येन व्यवहारात् क्रियाकार्ये लक्षणया प्रयोगः । विलम्बते प्रलम्बते विप्र इत्यादौ वर्णतत्त्वेऽप्यभिधानान्यत्वान्नानात्वम् , अभिधाविधान्यत्वात् समासासमासयोरन्यथान्वय इतीयं दिक् । श्रीकरोक्तम् - अन्वतेऽभिधेयेऽन्वयो गम्यो नाभिधानिविष्ट इति न शक्तिगौरवमिति । तन्न ;?R न ह्यन्वयात् बहिरन्विते रूपेऽभिधा शक्येति स्वार्थमात्रमविशिष्टम् ;?R तत्तु नान्वयं गमयितुमलम् । अन्वितान्वययोरस्तु भिदा ;?R अभिधा तु न तथा । यदपरं तेनोक्तम् - अन्वितमात्रे पदार्थे न प्रतियोग्यपेक्षा, किन्तु गम्येऽन्वये ;?R सा च पदान्तरोक्तेऽन्विते तत्प्रतियोगिकोऽयमन्वयः - इति धिया पूर्णा । इयं हि शब्दशक्तिः यत्सन्निहिते विशेषे तत्रैव बुद्धिवृत्तिः उत्तरार्धेक्षुखण्डाग्नेयीषूक्तेत्यन्योन्यान्वयसिद्धिः ;?R अन्योन्याश्रयं च न प्रतियोगिस्मृत्यापास्यम् - इति, तन्न ;?R उक्तमन्वयोऽभिधानिवेशी ;?R स चेत् प्रतियोग्यपेक्षः, अभिधैव तदपेक्षेति स्मृत्यैवान्योन्याश्रयमपास्यम् । किञ्च पदार्थः सन्निहित उक्तः, न तु गम्योऽपीति नान्वयविशेषधीसिद्धिः । महोदध्युक्तं सर्वं वृत्तौ निरस्तम् । तत्र किञ्चिद्व्यज्यते नोक्तम् । साहचर्यात्स्मृतिरन्वित एवेति कलायान्विता ज्ञाता उखा स्मृता श्रुतमोदनं नाकाङ्क्षेदिति तदन्वयधीर्न स्यात् । किञ्च उखापदादुखार्थसम्बन्धिनोऽपि स्मृतेस्तदन्विताभिधानं स्यात् । अथोखापदं न कलायाविनाभूतम् , किन्तु स्वार्थेनैवेति स्वार्थमात्र एव स्मृतिः ;?R तन्न ;?R अनुमाने ह्यविनाभावस्तन्त्रम् , स्मृतिस्तु साहचर्यमात्रात् । तदेतदनवहितचोद्यम् ।
?Rअस्त्वन्विते स्मृतिः, अस्त्वस्वार्थेऽपि साहचर्यात् ;?R व्युत्पत्तेस्तु व्याहृतस्वार्थान्वयार्थमाकाङ्क्षाद्यनुसन्धानं स्मृतैकदेशस्वार्थनिष्कर्षाच्छक्यमिति नोक्तदोषद्वयं युक्तम् । किञ्च अभिहितान्वयेऽप्याकाङ्क्षाद्यर्थं स्मृतिस्थतापि पदार्थानामुपेयैव ।
?R “?Rतेऽपि नैवास्मृता यस्माद्वाक्यार्थं गमयन्ति नः ।”
?Rइति भट्टोक्तेः । स्वमतं तेनोक्तम् - अनुमानाद्यभावेऽपि दृष्टा पदार्थानामन्वये शक्तिः ;?R स्वार्थमात्रे चतुरिन्द्रियसन्निपाते पश्यतो लिहतः स्पृशतो जिघ्रतः ‘?Rआम्रो मधुरः शीतः सुरभिः’ ?Rइत्यन्वितधीः । अतः स्वार्थमात्रेऽपि पदार्थे सन्निध्यादेरन्वयधीरस्तु इति । तन्न ;?R रसादेराश्रयानुमा ; ‘?Rद्रव्यम् नान्यदिहाम्रात्’ ?Rइत्येवं पारिशेष्यानुमयान्वयधीः, नार्थाधीना । न चेन्द्रियसमाहारजा । प्रत्यभिज्ञानेऽपि संस्कारेन्द्रिययोरेकार्थान्वयधीशक्तिः, नार्थयोस्तत्तेदन्तयोः । अतः सन्निध्याद्युपहितान्मानान्तरगम्यान्नान्वयधीर्दृष्टेति शब्दस्पर्शाद्वाच्येऽर्थेऽन्वयशक्त्याधानशक्तिः शब्दस्योपेया । महाव्रतेन - आम्रादन्यत् ‘?Rमधुरा शर्करा’ ?Rइत्युदाहृत्य ‘?Rतिक्ता शर्करा’ ?Rइत्यधिकमुक्तम् - जानत एव मधुरां पित्तदुष्टजिह्वस्य ‘?Rतिक्ता’ ?Rइत्यन्वयधीरनुमानात्मिका बाधिते न स्यात् ;?R सन्निधिस्त्विन्द्रियसमशीलां बाधितेऽपि भ्रमयतीति युक्तमिति । तन्न, जानत एव मधुरां पारिशेष्यानुमया तत एव ‘?Rतिक्ता’ ?Rइत्यपि धीर्दुर्वारा ;?R जिह्वास्थतिक्तपित्तनिश्चये तु पारिशेष्यासिद्धिः । ‘?Rमधुरा’ ?Rइति तु जिह्वास्थमधुरद्रव्यान्तरानिश्चयान्न पारिशेष्यासिद्धिरित्यनुमैवेयम् । ‘?Rतिक्तः’ ?Rइत्यनुमाभासता पश्चाद्बाधात् , न तु प्रत्यक्षबाधितेऽनुमाभासोदय इत्यवधेयम् । विधग्धेनास्मन्मतं दूषितं श्रूयताम्- विरुद्धासिद्धसन्दिग्धोदाहरणानि -
?R “?Rप्रथम्यादिभिधातृत्वात्तात्पर्योपगमादपि” ?Rइति ॥
?Rन हि पदान्यन्वयधीतः पूर्वम् ;?R अर्थानन्तरं तद्धीरित्यर्थस्य शक्तिरिति विरुद्धम् ;?R
?Rअभिधातृत्वं स्वत एवासिद्धम् ;?R तात्पर्यं साक्षात् प्रणाड्या च सिद्धमिति साक्षात्त्वे सन्देहकरं सन्दिग्धमिति । तन्न, व्युत्पत्तेर्हि शक्तिधीः, सा च पदश्रुत्यनन्तरं प्रयोज्यस्यान्वितेऽर्थे चेष्टादृष्टेः पद एव प्रथमम् ;?R तदा ह्यर्थे शक्यकोटितया धीर्न शक्ततयेति प्राथम्यमविरुद्धम् । द्विधा हि तन्मतम् - पदमभिधातृ वा, स्मारकं वा वाक्यार्थधीपरम् । तत्र अभिधातृपक्षे नासिद्धाभिधातृता । तात्पर्यपक्षे च यो यत्परः स साक्षात्तत्परत्वसम्भवे न प्रणाड्येति व्याप्तेर्न तात्पर्योपगमादिति सन्दिग्धम् । यत्तेनापादितम् - अमुख्यार्थैकमेये वाक्ये न किञ्चिदभिधायीत्यर्थादेवान्वयधीरुपेया ‘?Rप्रियासरसीमवगाहते’, ‘?Rसागरं ददाति’ ?Rइत्यादौ, तन्न ;?R द्वयेऽपि तिङः कर्तृसंख्यायां मुख्यार्थत्वात् ;?R एवंविधं सर्वत्रावश्यकम् । अत उक्तम् - “?Rन हि सर्वपदान्येवामुख्यार्थानि वाक्ये” ?Rइति । यदि च सर्वममुख्यार्थं परं मुख्यार्थमभिधानपर्यवसानार्थमध्याहार्यमूह्यपदवत् । यद्वा न वाक्यात् स्वार्थधीः, किन्तु अभिप्रायात् , सिद्धार्थपरात्तथानुमितेरित्यवधेयम् । वाचस्पत्युक्तम् - अन्विताभिधानपक्षेऽनेकत्र शक्तिः, अवन्येऽर्थे च, अभिहितान्वये त्वेकत्र स्वार्थे ;?R अन्वितावस्थे तु लक्षकता सम्बन्धात्तत्परपदप्रयोगव्युत्पत्त्यनुपपत्त्या च । यथा मानान्तरदृष्टोऽर्थो लिङ्गमनुपपत्त्यान्वयधीहेतुः तथा पदोक्तो व्युत्पत्त्यनुपपत्त्यास्तु । वाच्येऽन्वयायोग्ये योग्यसम्बन्ध्यन्वयो लक्षणावृत्तिर्निरूढा, नेह तथेति चेन्न ;?R अनन्यलभ्ये शब्दशक्तिरिति परं वाच्यानुपपत्तिमात्रात् सम्बन्धिस्वीकारमात्रं व्यापि लक्षणालक्षणमस्तु । अन्वितभेदावस्था सम्बन्धिनी न पूर्वदृष्टेति चेन्न ;?R सन्निद्ध्याद्युपाधेः सामान्यतोऽन्वितभेदस्य धीस्थतास्तु । सम्बन्धस्मृतावेव स्मृते स्वार्थमात्रे नाभिधातृतेति चेन्न ;?R शब्दादर्थधीरेवाभिधोच्यते लोके ;?R अतः स्मृतिरप्यभिधा व्युत्पत्तितः । स्मार्यस्मारकत्वादसत्यपि सम्बन्धान्तरे स्मृतिरस्तु । तन्न, अस्त्वेवम् ;?R एवं चेत् लक्षणा विधान्तरेण कल्प्या ;?R कल्पनाद्वयं दुर्वारम् । स्मारकत्वे, लक्षणाविधा पदस्मारिते च सेति सूक्तम् ;?R स्मारकत्वे कल्पनाद्वयम् ;?R
?Rअन्वयविशिष्टेऽर्थे त्वेकत्रैवैकस्य शक्तिः ;?R उपेत्यैवेदमुक्तम् ;?R वृत्त्यन्तरे हि कल्प्ये जघन्यं धीहेतुत्वम् , परं शक्तिकल्पनेति दिक् ॥
?R?0वैदांश्चैके सन्निकर्षं पुरुषाख्याः ।
?Rअपौरुषेयत्वाधिकरणम् ।
?R अनन्तरचिन्तापर्यन्तेन पदवाक्योत्थमप्रामाण्यं निरस्तम् । विभागतोऽभिधोपाधेः पदता एकपरतोपाधेः पदानामेव वाक्यतेति भेदोक्तिः । अधुना वाक्ये समाख्यानादप्रामाण्यं निरस्यत इति सङ्गतिद्वयम् । पूर्वपक्षस्तु - कर्तुरस्मृतेरलौकिकार्थे कर्तुरनुमानुत्पत्तेरकृतका वेदा इत्युक्तम् ;?R काठकादिसमाख्यया कर्तृस्मृतिरूपया मानान्तरार्हार्था वेदाः सापेक्षतया न प्रमाणम् । ननु यथा “?Rकृते ग्रन्थे” ?Rइति सूत्रात् कृतिनिमित्तता, तथा “?Rतेन प्रोक्तम्” ?Rइति सूत्रात् प्रवचननिमित्ततापीति न कृतिनिश्चयः । तन्न ;?R असाधारणेन हि निर्देशाञ्जस्ये कृत्यैवाख्या ;?R प्रोक्तिस्तु बहुभिः शक्येति न “?Rतेन प्रोक्तम्” ?Rइत्यस्य विग्रहस्यार्थे समर्थोऽयं तद्धितः । न च सूत्रं निर्विषयम् , यत्र मानान्तरात्तस्मिन् विग्रहार्थे तद्धितनिश्चयः तद्विषयं सामर्थ्यात् सूत्रम् । ‘?Rप्रोक्तसूत्रमयुक्तम्’ ?Rइति यदुक्तं तत्प्रकृतपरम् । कृततानुगुणं च वेदे दर्शनं प्रावाहणिरित्यपत्यार्थप्रातिपदिकोक्ततद्धितान्तं प्रावाहणिजन्मनः पूर्वं नासीद्वेद इत्येवमनुगुणम् ॥
?R राद्धान्तस्तु- कर्तृस्मृतिः साक्षान्नास्ति । मानान्तरावेद्ये चार्थे नानुमानार्हः कर्ता । समाख्यास्मिन्नेव विषये प्रवचनात् समर्था ;?R प्रकृष्टं वचनं कस्यचिदेव क्वचिदद्यत्वेऽपीत्यसाधारण्यात् निर्देशः । प्रावाहणिरित्याद्यन्यार्थे गुणवादादर्थे लक्षणोक्तकृतदिकारादिस्वीकारो वक्ष्यतेऽर्थवादपादे । यद्भाष्ये वक्ष्यमाणं व्याहृतम् ‘?Rवक्ष्यमः’ ?Rइत्येवं नोक्तम् , तदसम्बद्धार्थमेवमाद्युन्मत्तवाक्यतुल्यमस्त्वित्युपन्यस्य
?Rनिरस्यमिति । गुणवादव्याहृतिः, “?Rअपिच अविप्रगीतः, सुहृदुपदेशः” ?Rइत्यादि भाष्यम् । तत्सर्वजनाविपर्ययाच्चोदनाप्रामाण्यदार्ढ्यार्थम् ॥
?Rइति महोपाध्यायश्रीभवनाथमिश्रकृतौ नयविवेके
?Rप्रथमस्याध्यायस्य
?Rप्रथमः पादः
?R—–
?R
?R ?R?0 नयविवेकः
?R ?R?0 महामहोपाध्यायश्रीभवनाथमिश्रविरचितः ।
?R ?R ?R?0प्रथमाध्यायस्य द्वितीयः पादः प्रारभ्यते
?R ?R?0 त्रिपाद्यामनवद्यं यन्मतं व्यक्तं गुरोः स्वतः।
?R?0 विस्तरं सुग्रहं कर्तुं भवः सङ्क्षिप्य वक्ष्यति ॥
?R ?R?0आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्॥ 1॥
?R उक्तं कार्यमर्थं प्रतिपादयतो वेदस्य प्रामाण्यमिति । मतद्वयेपि समानमिदं पूर्वपक्षोत्थानायोक्तमत्र । चोदनासूत्रे अर्थाद्वा शब्दाद्वा चोदनात्वेन वेदस्य प्रामाण्यं कार्यार्थतयैवोक्तम् । कृतिसाध्यता कार्यता इष्टसाधनता वा अस्तु, कार्यमेव प्रधानतया बेदार्थः । योऽपि परमते वेदान्तानां सिद्धोऽर्थः सोऽप्यात्मज्ञानचोदनैकवाक्यतया कार्यप्रधानकः अथबा न वेदान्तानां चोदनैकवाक्यता । न चास्मिन् शास्त्रे तत्प्रामाण्यप्रतिज्ञा । अथातो ब्रह्मजिझासेति शास्त्रान्तर एवेति स्थतेः ।
?R परपूर्वपक्षाः - कार्यस्य हि कार्ये वाक्यार्थेऽन्वयः करणेतिकर्तव्यतयोः स्वरूपतस्साध्ययोरेव साधनतयाऽन्वयः अधिकारिणोऽपि साध्यस्यैवान्वयः । अर्थवादानां तु असाध्यार्थानां नान्वयः, अतस्तेषामप्रामाण्यमस्तु । इति राद्धान्तैकदेशी दूषयति - माभूत्तेषां प्रमाण्यं विध्युद्देशस्यैव प्रामाण्यमस्तु । नहि कृत्स्नो वेदः प्रमाणमिति प्रतिज्ञातम् ।
?R किन्तु चोदनालक्षणको वेदार्थ इति प्रतिजानता अर्थात् स्वार्थे चोदना प्रमाणमिति प्रतिज्ञातम् । तद्यद्यचोदनात्मको वेदो न प्रमाणं न हानिः । यस्तु अर्थवादेनैकवाक्यत्वे " ?Rयजमानः प्रस्तर " ?Rइत्यादिः अबोधकः किंपदं गौणमित्यनिश्चयात्, सोऽप्रमाणं एकवाक्यत्वे हि यद्विधेयार्थं ततोऽन्यद्गौणमिति निश्चयात् । बोधकतया योऽपि " ?Rआपो वै शान्ताः
?Rइत्येवंविधो बोधको
?Rमानान्तरगम्यस्यार्थस्य, स सति मानान्तरे तथ्यः असति तु वितथः । योऽपि " ?Rउत्ताना वै देवगवावहन्ति " ?Rइत्येवंविधो मानान्तरविरुद्धार्थः स्वतः किंपदं मुख्यं किं गौणमित्यनिश्चयात् सोऽप्रमाणम् , एकवाक्यत्वेऽपि हि विधेयानुगुणतया निश्चयः । एवं च त्रिविधमेवाप्रमाणमस्तु न नः प्रतिज्ञाहानिः । अथेदं परमतम् -
?R ?R?0 सिद्धप्रमाणभावस्य धर्मे वेदस्य सर्वशः ।
?R?0 विध्यर्थवादमन्त्राणामुपयोगोऽधुनोच्यते ॥
?R विध्युपयोगो विधिवन्निगदाधिकरणणे, विधौ हि भाव्यता पश्वादेः तदभावे नेति । अर्थवादानां प्रवृत्तौ रुच्युत्पादः मन्त्राणामनुष्ठेयस्मृतिरिति । एवमुपयोगकथैव त्रिपाद्यामिति ॥ तन्न ॥ एवं हि द्विविधोऽध्यायार्थ इत्यध्यायभेद एव स्यात् ।
?R अथायमुपयोगः प्रामाण्यमेव भागशः त्रिपाद्याम्, सर्वशः प्रथमपादे (उक्तः)। अत एव एकं प्रामाण्यमध्यायार्थ इति ।
?R तन्नः भागानामचोदनात्वेनाप्रामाण्येपि न प्रतिज्ञाहानिः । अथ प्रतिज्ञातचोदनाप्रामाण्यचिन्तैवेयं, अन्यथा अर्थानुपयुक्तेऽर्थवादभागे स्वाध्यायविधेः अव्याप्त्याऽर्थबोधहानात् प्रयोजनान्तरपरतया चोदनानां प्रामाण्यं न स्यादिति । तन्न। अर्थबोधहानेपि न प्रयोजनान्तरपरत्वानङ्गीकारात् अर्थाविवक्षा स्वाध्यायस्य। स्वसिद्धिरेव हि विधेः प्रयोजनम्, विधिवाक्यस्य च तद्बोधसिद्धिरेव। कामाधिकारेऽपि विधिसिद्धिरेव प्रधानं प्रयोजनम् । फलसिद्धिस्तु नान्तरीयकी। विधेश्च स्वाध्यायग्रहणमात्रात् सिद्धिः । अर्थज्ञानं तु विषयस्वभावाज्जातं न विधिज्ञापितम्, यथाजात एवाधिकारी नरः पर्यवसानार्थिना विधिना स्वीकृतः। अतो न नियोज्यार्थिताऽस्य विधेरित्युक्तं शास्त्रादौ । विषयफलं न काम्यतया नियोज्यविशेषणमित्यपि तृतीये शंयुनये वक्ष्यते । परमतमास्थायार्थज्ञानकामस्य अधिकारशङ्का । यदि तदधिकारः स्यात् तदा कृत्स्नस्वाध्यायस्य विधिरेवार्थज्ञानार्थतामाक्षिपेत् हुमित्येवमादीनामप्यर्थपरता स्यात् न च सेष्यते । ते
?Rहि स्तोभाक्षरतया ऋृगक्षराव्याप्तसामभागपरिपूरणार्था नार्थज्ञानपरा इति नवमे वक्ष्यते । तेऽपि न तथाभवेयुः । प्राक्चाध्ययनात् प्रियत्वेनाज्ञानात् कामनानुपपत्तेश्च।
?R अथाध्यापयिता ज्ञात वेदार्थोऽध्यापनसिध्यर्थ अध्ययने प्रवर्तयितुं अध्ययनमभ्युदयकरतया बोधयन् कामनामुत्पादयिष्यति । तन्न । न हि सर्वो नित्यनैमित्तिकनिषेधार्थोऽपि तथा । नित्यादिनियोगो हि स्वतो वेदात् व्युत्पत्तिबलात् अर्थबोधे कृतीप्सितः । न परोक्तेः प्रियः । न चैकदेशप्रियतया कृत्स्नस्वाध्यायाध्ययनविधिः कार्यतया बोधार्हः । परोदयकरेषु तु न कामनेति तु नोक्तम् । परोपदेशकरतया लाभादिसंभवात् कामनोपपत्तेः । न चेदमुक्तम्, उदयकरेऽपि न सर्वस्याध्येतुः सर्वत्र कामनेति न सर्वस्य कृत्स्नाध्ययनेऽधिकारः स्यादिति । स्वपरोपयुक्तकृत्स्नस्वाध्यायार्थज्ञानकामस्यापि कस्यचित् संभवात् कृत्स्नशाखाध्ययनसिद्धेः । यदपि परोक्तं सामान्यतो ज्ञानवतो विशेषजिज्ञासा काव्यालङ्कारादिष्विवेति।
?R तन्निरस्तम् । न हि कश्चित् अर्थोऽस्तीत्येतावतैव महाप्रयासे प्रवृत्त्युपयोगिनी विशेषज्ञाने कामना । न चोदयकरतया सामान्यं व्यापीत्युक्तम् काव्यालङ्कारादिषु काव्यदोषगुणादिज्ञानकरतया सामान्यज्ञो विशेषजिज्ञासुर्युक्त एव ।
?R अथ स्वाध्यायार्थो विशेषतोऽप्युपनेत्रादिनरवचनतो ज्ञातः अर्थवत्त्वाय नियमार्थविदः स्वाध्यायेनैव पुनर्ज्ञातुं काम्यते ।
?R तन्न। न नियमार्थता । स्वाध्यायादन्यतो वेदार्थज्ञानसंभवात् पुंवाक्येभ्योऽपि वेदमेवानुमाय तत एवार्थनिश्चयात्। स्वाध्यायार्थविषयश्चानुमितस्वाध्याय एव न नित्यानुमेयो यो निवर्त्यः । अथ तव्येनात्र प्राप्यकर्मतोक्तेः प्राप्तेः ग्रहणपर्यन्तत्वात् ग्रहणान्ततैवात्र स्वाध्यायशब्देनोक्तेत्यगृहीतावस्थादर्थझाननिवृत्त्यर्थो नियमः ।
?R तन्न। किमग्रहणे पदानि अर्थबोधकतया गृहीतानि ? ?Rन तर्हि अगृहीतार्थज्ञाननिवृत्तिः । अथ तथा न ग्रहणं किं तर्हि ? ?Rवर्णमात्रतया, न च
?Rवर्णमात्रतया अर्थज्ञानानुपायस्यैव निवृत्तिः । स्वाध्यायशब्दवाच्यकृत्स्नशाखया अर्थज्ञाननियम इत्यपि न, अनुपायत्वात् शाखायाः । तदेकदेशानां वाक्यानां गृहीतानामेवोपायत्वात् कस्य नियमः? ?Rअध्ययननियमस्तु न शङ्कितोऽस्मिन्नवसरे,
?Rअनुपयोगात् । न हि ज्ञातोऽप्यर्थः अध्ययनगृहीतेनैव स्वाध्यायेन पुनर्ज्ञातुं काम्यते इत्येवमध्ययननियमः अर्थवान्, काम्यकोटिनिविष्टत्वादध्ययनोपायस्य न विधेयता स्यात् । न चाध्ययनं नियमादेव पश्चात् तेन बोधः काम्यकोटिः। बोधकामनाधिकारपूर्विका, नियमशङ्का यतः ।
?R स्वाध्याये तु काम्यकोटिनिविष्टत्वमुपेत्य निवर्त्याभावादनियम उक्तः। अध्ययने तु लोपेत्यपि काम्यकोटिनिविष्टत्वं निवर्त्याभावश्शक्यत इति तन्नियमशङ्का इहेति दिक् ।
?R शास्त्रादावेव स्वावसरे अध्ययननियमो निरस्तः। अर्थबोधे साक्षादनुपायत्वादध्ययननियमनिरसनं त्वयुक्तम् परम्परोपायस्यापि नियमसंभवात्। यत् परोक्तं ग्रहणं धारणं स्मृतिसन्तानानुवृत्त्यनुगुणसंस्कारविषयत्वमिति यावत्। अस्ति चातथाभूतादप्यर्थज्ञानमिति तन्निवृत्तिकरोऽयं नियम इति ।
?R तदपि निरस्तम्। धारणं हि अर्थबोधानुवृत्त्युपाय नार्थबोधे । स हि तत्कालस्मृतित एव न स्मृत्त्यनुवृत्तित इति न धारणनियमः । अत एव नाध्ययनविधिमुखेनापि अर्थवादानां प्रामाण्यम्, भिन्नवाक्यत्वे चोदनाप्रामाण्याक्षेपकम् । एवं परपूर्वपक्षे स्वपूर्वपक्षावतारः ।
?R सत्यमसाध्यार्थस्य करणेतिकर्तव्यतया अधिकारितया वा नान्वयः तथापि श्रुतसकलपदानां कार्यपरतयाऽन्वयव्युत्पत्तेः, सति संभवे समभिव्याहृतेनैकवाक्यताव्युत्पत्तेश्च । सिद्धस्य च साध्ये हेतुतयाऽन्वयदर्शनात् भूतं भव्यायेति न्यायात् भव्योत्पत्त्यर्थतैव । भव्योत्पत्त्यर्थता च ‘?R मलिनः स्नायात् ‘?R इत्यादौ दृष्टेति रुद्ररोदनादिहेत्वन्वितं सन्निहितं सत् कार्यं चोदनार्थः ।
?R एवं हि हेत्वपेक्षां कार्यतां वदतोऽनपेक्षताहानिः । न चानपेक्षत्वक्षतिदोषात् हेतुतयाऽन्वयहानम् । नहि अनपेक्षत्वं व्युत्पत्तिसिद्धम्। प्रत्युत पुंवाक्ये सापेक्षत्वव्युत्पत्तिः । अुपुंवाक्ये या अनपेक्षता सा सिद्धार्थहेत्वन्वयहता । न च हेतुतां हित्वा स्तुत्याऽन्वयो वाच्यः, स्तुतिपरत्वे परोक्षार्थतापत्तेः । न च विध्युद्देशस्वरसावसितानपेक्षतानुरोधात् परोक्षार्थताङ्गीकारो वाच्यः वाक्यैकदेशार्थस्याननुरोध्यत्वात् संभूयकारितव्युत्पत्तेरित्युक्तम् । अन्यथा नञः परोक्षार्थतैव स्यात् । पदान्तरस्वरसावसितान्वयबाधभयात् भाष्येऽपि हेतुतयाऽन्वयो दर्शितः “?R रुद्रः किल रुरोद अतोऽन्येनापि रोदितव्यम् " ?R।
?R ननु अध्याहारोऽयमुक्तः नैकवाक्यता । मैवम् । उपेत्याप्यध्याहारं सर्वथा हेतुत्वेनान्वय इत्युक्तम् ।
?R यदप्युक्तं भाष्ये रोदनादयो न शक्यन्त इति तत् सिद्धहेतुकतयैव। आवश्यकत्वे हि इष्टवियोगादिसंपादनेनापि शक्यत्वात् । रुद्ररोदनादौ मानाभावोक्तिस्तु, हेतुस्वरूपासिद्धेः सुतरां हेत्वपेक्षकार्यत्वासिद्धिरिति वक्तुम्। सूत्रेऽपि अतदर्थानामिति अकार्यमुखमिदमप्रामाण्यम् इत्यकार्यार्थसंबन्धितयोक्तम् । अनर्थवादकेऽपि " ?Rवसन्ताय कपिञ्जलानालभेत " ?Rइत्यादौ सार्थवादकप्रधानविध्येकवाक्यतया हेत्वपेक्षता, यत्र प्रधानविधिरेवानर्थवादकः तत्राङ्गार्थवादाद्धेत्वपेक्षता, एकवाक्यतया सर्वाक्षेपो व्यक्तो भाष्ये " ?Rतान्येकदैशाक्षेपेणाक्षिप्यन्ते " ?Rइति वदता एकदेशता हि एकवाक्यत्वेन, नान्यथा ।
?R यत्तु भाष्यं वाक्यैकदेशस्याक्षेपो न कृत्स्नस्येति, तदपि आक्षेपकत्वेनैव संबन्धित्वं प्रतिपादयति नाक्षेप्यत्वेन। राद्धान्ते यदेकवाक्यतां प्रति प्रश्नोत्तरे तदभिप्रायस्तत्रैवोक्तः ।
?R शास्त्रदृष्टिविरोधाद्यनिरासे हि मूलहेतोर्मन्दधियां प्रबोधनं दुष्करमितितदुपन्यासनिरासौ;?R इह यत्नान्तरात्तन्निरास इत्यधिकं शब्दाधिकरणनयात् ।
?Rतत्रैकेन प्रत्यभिज्ञाप्रत्ययेन सर्वहेतुनिरासः। तस्मादनित्यमुच्यत इति सूत्रम्। नित्यं हि हेत्वनपेक्षत्वं स्वरूपे, अन्यदपि हेत्वनपेक्षं अर्थे गौणं नित्यं तन्नेत्यनित्यम् । नपुंसकतया च सामान्येनोक्तिः कृत्स्नसापेक्षत्वार्था ।
?R यत्तु वाक्ये पुंसामस्वतन्त्रत्वं नित्यत्वं नाम अस्वतन्त्रपुरुषप्रयुक्तमिति यावत् । एवं हि तत्र नित्यधर्मायोग इति न गौणनित्यतापि सुकरा ।
?R राद्धान्तग्रन्थव्याख्ययैव राद्धान्तो व्यक्त इति न पृथक् गुरुणोक्तः । स उच्यते। स्तुत्याऽन्वयो न हेतुतयाऽन्वयः ।
?R अयं भावः । असाध्यार्थानां योग्यतयैव हेतुतयाऽन्वय उक्तः । साध्यप्रतिबन्धो हि हेतुतयाऽन्वययोग्यः नाकार्यार्थतामात्रात् । न तु साध्यव्याप्यता मानसिद्धेति न तथाऽन्वयः। स्तुतियोग्यता तु स्तुतिपरतामात्रात्सर्वस्य ।
?R ननु स्तुतिपरत्वेपरोक्षार्थतापत्तेः वरमनुवादमात्रतैवास्तु । तन्न। प्राप्तस्य पश्चाद्वादोऽनुवादः। तत्र वाक्यभेदो दुस्तरः । ननु एकवाक्यत्वेप्यनुवादः पदार्थमात्रस्यास्ति;?R सत्यं । स्तुतिपर एवासौ नानुवादमात्रम् । अनुवादोक्तिस्तु अविधेयार्थतामात्रात् गौणी । सस्तुतिककार्यपर्यवसानान्नानुवादता । अत एव एकवाक्यत्वे अनुवादमात्रासंभवात् तदाशङ्का न कृता। स्तुत्याऽन्वयनिर्वाहो भाष्यव्याख्यायां वक्ष्यते । अपरानुभाषितस्त्वस्मद्राद्धान्तः अस्मदीयैरादृतः । यथोपेयं उपायप्रवृत्तेः हेतुतया चानपेक्षकार्यानिर्वाहात् हेतुताहानात् स्तुत्यर्थतेति । स न युक्तः । यदि स्वतो हेतुताऽयुक्ता तदा तदधीनं उपेयमेव अनिरूढं वस्तुत एवेति तन्निर्वाहोऽपि नास्त्येव, वाक्यैकदेशस्याहेतुत्वादित्युक्तं विधिनात्वेकवाक्यत्वादित्यत्र। विधिनेति विध्युद्देशेनेत्यर्थः । विध्यर्थोऽपि लिङादिः परम्परया विधिः । तेनावयवेन तत्समुदायो विध्युद्देशो लक्ष्यते। यावदुदाहृतस्तुतिपदानां विधेयस्तुतिपरत्वात् विधेयार्थविध्युद्देशैकवाक्यत्वात् एवं व्याख्या । अत एव प्रश्नः कथमेकत्वमिति ।
?R कार्यान्वयो हि सर्वस्यातो विधिनाऽनन्वयेऽनन्वयः एव स्यात् । उत्तरं
?Rसस्तुतिक विधेयान्वितकार्यान्वयः । परम्परया विध्युद्देशैकवाक्यता च ।
?R ननु विध्युद्देशमात्रात् यावदाकाङ्क्षितान्वितकार्यावगतेः किमर्थं सस्तुतिकपदोपायाश्रयणं ? ?Rअनेन ’ ?Rकिमर्था स्तुतिः ’ ?Rइति भाष्यं व्याख्यातम्। विनापि स्तुतिपदैः कृत्स्नकार्यावगतेः सस्तुतिकपदोपायता वा कथम् ? ?Rअनेन " ?Rननु प्राक्स्तुतिवचनादि " ?Rति व्याख्यातम् ।
?R प्रथमं चोद्यं परिहर्तुमाह केन चेदं कृतं आश्रितं वा सस्तुतिकपदमुपायानतरं एक एवायमुपायोऽनिदंप्रथमः । द्वितीयं परिहर्तुमाह - " ?Rस्तुतिपदेषु सत्सु न तैर्विनाऽवगतिः “?R संभूय पदानामवगत्युपायताव्युत्पत्तेः। रक्तः पटो भवतीतिवत् । नानुपायता स्तुतिपदानाम् । ननु स्वक्तपदमधिकार्थमस्तु, स्तुतिपदानि तु न तथेति न प्रयुज्यन्ताम् । अनेन " ?Rनन्वेवं सति किं स्तुतिपदेनेति व्याकृतम् “?R। उत्तरं - प्रयोगे ह्यनिदंप्रथमे कस्योपालम्भ इति। " ?Rसत्यपि प्रयोगे अवान्तरवाक्यादवगतिरस्तु “?R। अनेन " ?Rननु सत्स्वपि स्तुतिपदेषु " ?Rइति व्याख्यातम् । उत्तरं - निमित्तमात्रमवान्तरवाक्यार्थो न नैमित्तिकवाक्यार्थ इति ।
?R ननु यथा स्तुतिपदरहिते विध्युद्देशे तावन्मात्रावगतिः दृष्टा तथा स्तुतिपदसमवहितेष्वस्तु । अनेन " ?Rननु स्तुतिनिरपेक्षादपीति व्याख्यातम् । उत्तरं - अस्तु विध्युद्देशमात्रप्रयुक्तौ तथा । नाधिकप्रयुक्तावपि । न हि तत्र केवलादधिकारावगतिव्युत्पत्तिरिति ।
?R ननु स्तुतिपदानां कार्योपायत्वेनानवगमात् न वैदिकता, किन्तु वेदवाक्यतैव । अनेन यदुक्तं न क्रियाऽवगम्यते, क्रियासंबन्धं वा किञ्चित् । इत्यपुनरुक्ततया व्याख्यातम्, उत्तरं - सस्तुतिककार्यप्रतिपत्त्यौपयिकतया स्तुतिपदानां वेदतैव ।
?R ननु वेदसंबन्धितारूपं वैदिकत्वं, विध्युद्देशस्य तु साक्षात् कार्यार्थस्यैव वैदिकार्थयोगात् वैदिकतापि । स्तुतिपदानां त्वतथात्वात् वेदतैवेति भेदः । अयं च भेदः प्रसङ्गादुक्तः नाप्रामाण्यसमाधानार्थम् । बालानां कृते प्रक्षिप्ता अर्थवादा इत्यपि
?Rन, अकर्तृतास्मृतितुल्यत्वात् । अध्यायानध्यायादरतौल्याच्च । न चानन्वितार्थतया प्रक्षेपकल्पना, उक्ता हि अन्वितार्थता । एवं रुद्ररोदनादि अमानसिद्धं विरुद्धं चेति न वाच्यम् । स्तुतिपरत्वे च यथामानमेव स्तुतिः । स्वरूपपरत्वे अयं दोषः कार्यार्थत्वेऽपि । विधौ हि न परश्शब्दार्थ इति। न चावकाविधौ अपां स्तुतिर्व्यधिकरणतया न युक्ता । एकवाक्यत्वे गौणी लाक्षणिकी वा वृत्तिः । अभ्युच्चयहेतवः तन्निरसनं च भाष्ये व्यक्तम् ।
?R विवरणोक्तमधिकमुच्यते - वेदानुगतं बाह्यसमुत्थं सापेक्षत्वं निरस्तम् । अधुना वेदवाक्यैकदेशोत्था शङ्का निरस्यते । अनेन पादान्तरतां गतपादानन्तरतां चाह । हेतुतयाऽर्थवादान्वयात् हेतुसापेक्षमानान्तरगम्यं कार्यं लिङादिवाच्यमिति निश्चयादनर्थवादकोऽपि लिङादिस्तदर्थ एवेति कृत्स्नवेदप्रामाण्याक्षेपः । उपेत्यापि स्तुत्याऽन्वयं स्तुतिपूर्वके कार्यबोधे स्तुति पदार्थो न गौणादिः तदादरादेव हि कार्यता । कार्यबोधपूर्विकायां तु स्तुतौ कार्यधीबलात् गौणादिः युक्त एव। स्तुतिस्तु कार्यबोधानङ्गमिति न स्तुत्यर्थतोपगमः । राद्धान्ते तु स्तुतिपूर्वकता नेष्ट।, यतो हिताहितलाभहानहेतुतया श्रेयानयं अतः कार्यमिति नामान्तरेण हेत्वन्वय एव उक्तः। किन्तु कार्यबोधपूर्विकेयं स्तुतिः कार्यबोधाङ्गं च, वाक्यैकदेशादर्थानवबोधात् । प्रयुक्ताद्धि प्रतिपत्तिरित्युक्तम् ।
?R शास्त्रदृष्टविरोधः उदाहृते नास्ति;?R अन्यत्रास्तु न नयहानिः । कल्पनाकाले अक्रत्वर्थत्वेन तदेकविषयतया विरोध इति कस्यचित्समाधिरयुक्तः ।
?R यथाहि - तत्काले न क्रत्वर्थता तथा पुरुषार्थतापि नेत्यविरोध इति अन्यत्रैव न्यायः । भाष्यान्तरव्याख्या विस्तरभयान्नोक्ता । टीकाद्वये पदैकवाक्यतैव यथाभाष्यं रक्तपदसमानतोक्तेः । स्तुतिपदानीत्युक्तेश्च । वाक्यैकवाक्यता हि विधेयान्तरे सति नियोगैक्यात् । इह न तथा ।
?R यद्यपि स्तुतिपदानां वाक्यतुल्यता अवान्तरपदार्थान्वयाहानात् तथापि
?Rअवान्तरार्थपरत्वाविवक्षया तन्नान्तरीयकं श्रेष्ठत्वं विधेयगतं बोधयितुं प्रयुक्तानां न वाक्यता । किन्तु श्रेष्ठताविशिष्टविधेयपरपदविशेषणता । अत एवान्यपरत्वेऽपि न गौणता क्षणिकार्थता । अन्वयवित्तिपरतैव हि तदा नास्ति यथा विषं भुंक्ष्वेति भोजननिषेधपरे वाक्ये अन्योन्यान्वयबोधोऽप्येवं विधेयान्वययोग्यतास्मृतिरेवेति इयं दिक् ।
?R प्रजाहिततया प्रजापतित्वंः मध्यस्थसारतागुणात् वपाः वायोर्वपावृष्टिः, रश्मिरादित्यस्य, वायुराकाशस्य । अग्नौ प्रक्षेपः- वैद्युते वृष्टेः आर्बीसे जाठरे वायोःरश्मेः लौकिके वायोः अजत्वं चिरस्तागुणात् । तमन्नादिकमुपयुज्य प्रजां पशून् प्रजापतिः कथञ्चित् निमित्ततया, प्रासृजत् इतीयं व्याख्या अन्यत्राप्युन्नेया। शेषं सुगमम्।
?R?0 ॥ 2॥ विधिर्वा स्यादपूर्वत्वात् वादमात्रं ह्यनर्थकम् ॥ 19 ॥
?R?0
?R स्तुत्यर्थतापिविधिवन्निगदानामध्यवसातुमशक्येत्यप्रामाण्यं पुनरितिसङ्गतिद्वयम् । ननु विधिवन्निगदवत्येव चोदना माभूत् प्रमाणं, न प्रतिज्ञाहानिः इति तन्न । अपुंवाक्येपि चेल्लिङादिः स्वार्थे सापेक्षः तदातत्स्वभावत्वनिश्चयात् सर्वचोदनास्वपि तथात्वात् प्रतिज्ञाहानिनिबन्धना । नत्वेवं समाधिः -
?R स्तुत्यर्थमपि न व्यापि प्रामाण्यं प्रतीति वृथा परोक्षार्थतेति । हेतुतयैवान्वये हि पूर्वाधिकरणन्यायात् सर्वाक्षेप इति । न हि सर्वव्यापी एक एवान्वयप्रकार इति सर्वाक्षेपः । न चैवं समाधिः - सर्वचोदनाप्रामाण्यप्रतिज्ञानात् एकाप्रामाण्येऽपि प्रतिज्ञाहानिः । पूर्वत्र यत् सर्वानाक्षेपे अचिन्त्यत्वमुक्तम् [?Rतत्]?R तत्र सर्वाक्षेपेपि शक्तेरिति। यतो न हि सर्वचोदनाप्रामाण्यप्रतिज्ञा, किन्तु या चोदना सा प्रमाणमिति । यदि तु चोदनैव न स्यात् सा प्रमाणं वा न भवेत् तदैव निर्विषया प्रतिज्ञा स्यात्, नान्यथेति । पूर्वत्रापि निर्विषयतार्थो यत्नः न शक्यतामात्रादिति गुरुरहस्यम् ।
?R अनध्यवसायोऽत्रैव साध्यद्वयमेकवाक्यता चेत्यन्योन्यविरुद्धद्वयभानात् । न च सर्वचिन्तानां सन्देहादेव प्रवृत्तेः सर्वत्रानध्यवसायो वाच्यः, प्रवृत्त्युत्तरकालेपि पक्ष परिग्रहाशक्तेरनध्यवसायः । विध्यर्थत्वात् । सर्वत्र विधिना च नियोज्यार्थं साध्यतयैवाकाङ्क्षितत्वात् साध्यपशुविशिष्टनियोज्यानुगुणो विधिः साध्यो भाति। ऊर्जा पशूनाप्नोतीति श्रुतेः उदुंबरव्यापारविषयोऽयं विधिर्भाति । व्यापारश्च प्रकृत एव औदुंबरं यूपं यूपकार्यं वा कुर्यादिति । विध्यन्तरलब्धो नियोजनादिः। आप्नोतीति आप्तेः फलभूताया एव अविधेयत्वात्। पञ्चमलकाराच्च विधिरित्येवं साध्यद्वयधीः । अत एव न गुणफलसंबन्धोऽयं आख्यातद्वयावगतस्वतन्त्रसाध्यद्वयविरोधात् । संभूयकारित्वात् सर्वस्य स्तुत्याप्यन्वयवर्णनात् । उदुंबरेण पशूनाप्नोतीत्येवं श्रेष्ठः औदुंबरो यूपः कार्यः। इत्येकवाक्यतानुगुणमेव साध्यमित्येकवाक्यताधीः। सतिसंभवे साध्यार्थत्वसंभूयकारित्वयोः व्युत्पत्तिस्तुल्या । न चैकवाक्यता जघन्यान्वयादप्यनुरोध्या गङ्गाघोषादौ दृष्टेति वाच्यम् । नहि (सर्वत्र) तत्र साध्यार्थता विध्यपेक्षिता प्रतिपक्षभूताऽस्तीति । न चाध्याहारं विना तत्र वाक्यभेदः सिध्यतीति
अध्याहाराद्वरं जघन्यार्थता । यत्रनाध्याहारः स्योनं ते मन्त्रे तत्र वाक्यभेद एव साकाङ्क्षेऽपीति । ऊर्गुदुंबरादेः निश्चितस्तुत्यर्थत्वस्य साध्यद्वये यथार्हमन्वयः । साधारणता वा, गौः क्रय्येत्यत्रानेकगुणकथनेपि क्रयविवक्षया एकं वाक्यं लोकेऽस्तु। इह त्वनध्यवसाय एव ।
?R राद्धान्तस्तु - साकाङ्क्षोऽपि विधिः नैकार्थावगतं विनियोगं बाधते । अस्ति चेयं यस्मादुदुंबरेण पशवो भवन्ति तस्मादौदुंबरं यूपं कुर्यात् इत्येकार्थावगतिः । पशूनाप्नोतीति विवृतं पशवो भवन्तीति । भवत्यर्थोऽयं प्रमाणसिद्ध्यर्थः न तूत्पत्तिसिद्ध्यर्थः । तत्र हि भूता इति स्यात् । अतोऽनध्यवसायधीः ।
?R ननु यथाविनियोगं नियोगः प्रतिपदाधिकरण एवोक्तः, सत्यं, न स्तुतितोऽप्युक्तः । इह [?Rअ] ?Rप्रवृत्तिविशेषकरोऽपि विनियोगोऽनुरोध्य इति
?Rव्युत्पादितम् । पर्णमय्यधिकरणे(तु) एकवाक्यताहानादेव उपादानतः फलविधिताशङ्का निरस्ता । अभ्युञ्चयमाह - यथा अप्सु योनिर्वा अश्वः कार्यः इत्येवं विध्यसंभवे वेतसेऽपि विधेये कथञ्चित् स्तुतिः । तथा एकवाक्यतया साध्यद्वयासंभवे कथञ्चित् स्तुतिरिति इदं तत्सामान्यम् । किञ्च यो विदग्धः सनैऋत इति स्तुत्या विनियोगः सन्निहिते प्रकरणिनि। निऋतिदेवतान्वयविनियोगसन्निधिमास्थायोत्कर्षो न युक्तः ।
?R विवरणे त्वधिकम् - पूर्वत्र वाक्यभेदेऽपि सिद्धार्थानुगम इति स्तुत्या एकवाक्यतोक्ता । इह तु वाक्यभेदे साध्यार्थलाभात् न परोक्षान्वयात् स्तुत्यैकवाक्यतेति पूर्वः पक्षः ।
?R प्रसङ्गात् सङ्गतिः । यद्यपि परमार्थतः नियोगचिन्तेयं तथापि पूर्वोक्तवैधर्म्यरूपेण चिन्तेयं प्रसङ्गादत्र कृतेति साक्षाद्युक्तं न प्रसज्यत इति । न्यायस्यायमविषयः । हेतुवन्निगदचिन्तापीत्थमेवेति मन्त्राधिकरणे स्वयं व्यक्तं वक्ष्यति । राद्धान्तः निबन्धनोक्त एव । न च गुणफलविधयैकवाक्यता। यूपाश्रितता हि न मानान्तरात्। न विध्यन्तरात्, तदश्रुतेः । पृष्ठगतसर्वताविधौ पृष्ठतावत् नाक्षेपात्, कल्पनापत्तेः । खादिरं वीर्यकामस्येत्यत्र तु अगत्याऽऽक्षेपः विध्यन्तरं वा । इह त्वेकवाक्यत्वे स्तुत्याऽस्ति गतिः । एकार्थावगमादेव विध्यन्तरावगतिर्निरस्ता । विधौ च वाक्यभेद इत्यत्र शङ्कान्तरनिरासः । तन्त्रेण यूपस्योभयार्थत्वेनान्वयात् एकवाक्यताशङ्का या सा पशुं प्रति गुणत्वं उदुंबरं प्रति प्रधानत्वं इति द्वैरूप्यात् वाक्यभेदापत्तेर्निरस्ता ।
?R?0 ॥ 3 ॥ हेतुर्वा स्यादर्थवत्त्वोपपत्तिभ्याम् ॥ 26॥
?R इह हेतुत्वेनान्वयश्रुतेः एकवाक्यता चेति न स्तुत्याऽन्वयः । एवं चेत् हेत्वपेक्षं कार्यं वेदेपि लिङाद्यर्थ इति सर्वप्रामाण्याक्षेपः । हिशब्दोऽत्रहेत्वर्थः । शूर्पेण
?Rयस्मादन्नं क्रियते तस्मात् तेन होमः कार्य इति अन्नकरणत्वरूपेण होमे शूर्पविधिः । एवं चान्नकरणान्तरेणापि दर्वीपिठरादिना होम इति विधिः । न चान्ननिष्पत्तौ व्यवहितव्यापारस्य शूर्पस्यासाधकतमतया नान्नकरणतेति वाच्यम् । ततोऽपि व्यवहितापेक्षया साधकतमत्वसंभवात् । स्तुतिरप्यापेक्षिकान्नकरणत्वात् । न च क्रियत इति वर्तमानान्नक्रियस्य होमकरणत्वमशक्यमिति वाच्यम्। भूतभविष्यतोरेव प्रत्यासत्त्यपेक्षया वर्तमानता । सेहापि शक्या । न च प्रतिबन्धासिद्धेः न हेतुतयाऽन्वय इति वाच्यम् । पूर्वतरत्र हि योग्यतयैव हेतुतान्वयः उक्तः । प्रतिबन्धाभावात्तन्निरासः । इह तु श्रुतितो हेतुता, प्रतिबन्धाभावे प्रतिभामात्रं नान्यथाऽन्वयः शाब्दः । अथवा आक्षेपात् प्रतिबन्धसिद्धेः हेत्वपेक्षतयैवाप्रामाण्यम् ।
?R राद्धान्तस्तु - यद्यपीह हेतुतयैव श्रुतिः, तथापि न हेत्वपेक्षा कार्यता, हेतुत्वाप्रसिद्धेः किन्तु कार्यधीपूर्विकैव स्तुतौ हेतुता । शूर्पेण जुहुयात् यस्मात् तेनान्नं क्रियत इति अन्नकरणतोत्कर्षात् होमकरणतामप्यर्हतीति प्रशंसायां हेतुता, न कार्यतायां इत्येवंविधानामपि स्तुत्याऽन्वयः ।
?R किञ्च वेदादपौरुषेयात् कार्यधीः न हेत्वपेक्षिणीति प्रशंसायां हेतुत्वेनान्वयः। एवं च मानान्तरानुसारात् स्तुतिरिति वर्तमानान्नव्यापारतयापि होमकरणतोपपत्तिः । न तु तदपह्रवात् समर्थनम् । एकफलकः पूर्वापरीभूतक्रियाक्षणनिचयो वर्तमान इति वृद्धाः । स्तुतावेवापेक्षिकमन्नकरणकत्वम् । अन्यथा हि अव्यवहित एव धीः। शूर्पसमभिव्याहृतेः यथा शूर्पस्य तद्धीरिति चेत् । तर्हि तर्वीपिठरादेः न तथेति न तद्विधिः स्यादिति व्यर्थो हेत्वर्थः ।
?R अथ शूर्पसमभिव्याहृत्या यथाकथञ्चित् अन्नकरणताधीरिति दर्वीपिठरादावर्थवत्ता तर्हि सर्वस्य साक्षात्परम्परया वाऽन्नकरणत्वात् अन्नकरणेन होम इति व्यर्थो विधिः । अथ कृतस्याकरणात् न सर्वं करणं ज्ञातस्य तु ज्ञापनं शक्यमिति । तन्न । क्रियमाण एव हि साक्षात् परम्परया वा सर्वस्य करणतेति
?Rव्यर्थतैव ।
?R विवरणेत्वधिकम् - सङ्गतिरस्य प्रसङ्गात् । इहैकवाक्यत्वाहानादेव हेतुद्वारा विधेयार्थतैवेत्येवमुत्थानात् सङ्गतिद्वयम् । अस्तु विनियोगे विशेषः । तथापि न तेन रूपेण चिन्तेयं इति न तृतीये युक्ता पूर्वचिन्तोत्थापितेति न विनियोगरूपतया चिन्तेयम् । यस्मात्तेनान्नं क्रियते यस्मात्तेनान्नं क्रियते तस्माच्छूर्पेण होमः कर्तव्य इति वाचोभङ्ग्या अन्नकरणे विधेये न हेत्वपेक्षा। हेतोरन्नकरणविधेयधीपर्यवसानात् न तत्सापेक्षतापातात् साक्षात्संगतिः। पूर्वपक्षरीतिरुक्ता ।
?R राद्धान्तस्तु शूर्पेण जुहोतीति श्रुतेः सस्तुतिकविधिरेव । तस्यैवान्नकरणता हेतुः न तु शूर्पशब्दोऽन्नकरणोपलक्षणपरः। हेतुश्रुतेश्चान्यार्थत्वे वरं श्रुतिपरतैव॥
?R
?R ?R?0 ॥4॥ तदर्थशास्त्रात् ॥ 31 ॥
?R चोदनैकदेशोत्थमाप्रामाण्यं अन्तरङ्गं निरस्य अचोदनात्मकबहिरङ्गभूतमन्त्रोत्थमप्रामाण्यं निरस्यत इति सङ्गतिद्वयम् ।
?R प्रथमसूत्रे अर्थपरत्वं स्वाध्यायस्योक्त्वा द्वितीयसूत्रे कार्यपरत्वमुक्तम् । चोदनालक्षणतया च कार्यात्मकतोक्ता । अर्थात् चोदनात्मकत्वेन प्रामाण्यमपि। अचोदनात्मकस्यापि चोदनाप्रमेयार्थलक्षणतया कार्यार्थतेत्यनुष्ठानावस्थ कार्यलक्षणतया मन्त्रणां कार्यपरतोक्ता । सा च तदर्थशास्त्रादिभिर्हता। तदहाने च तदर्थशास्त्राद्यर्थहानमित्यन्योन्यहतार्थैकवाक्यतापन्ना सर्वेव प्रयोगविधिचोदना न प्रमाणमित्यविवक्षितार्थस्वाध्यायैकदेशमन्त्रद्वारा अप्रामाण्यं वेदस्येति प्रामाण्यप्रतिज्ञा निर्विषया ।
?R ननु तदर्थशास्त्राद्यहतार्थमन्त्रवति चोदना प्रमाणमस्तु। मैवं, न साऽस्तीत्युक्तम् । यद्यस्ति सा तदा वैदिकलिङादेः सापेक्षार्थत्वनिश्चयात् सर्वाक्षेपः। न च वाच्यं मन्त्राणामर्थपरत्वे तल्लिङ्गात् विनियोगे तदर्थशास्त्रमनुवादोऽस्तु।
?Rनत्वन्योन्यव्याघात इति नानुवादः । यस्मात् तदर्थसास्त्रादेवाग्रतो विनियोगधीः। पश्चान्मन्त्रलिङ्गतः । एवं तर्हि मन्त्रलिङ्गाद्विनियोगोऽनुवादोऽस्तु माभूदन्योन्यव्याहतिः । तन्न । अगत्या लिङ्गाद्विनियोगः स च वचने सति विगुणेऽनुगुणे वा नेति नानुवादः ।
?R ननु अनुगुणे विनियोज्यमन्त्रलिङ्गसचिवात् तदर्थशास्त्राद्विनियोगोऽस्तु । तन्न । लिङ्गशास्त्रयोरनपेक्षयोरेव शक्तेः एकैकस्य विनियोजकतेति ध्रुवमन्यतरस्य व्यर्थता । विशेषानिर्धारणे च द्वयोर्व्यर्थता । ननु अविनियोजकमपि लिङ्गं प्रयोगकाले वक्तुमर्थपरम् । तदर्थशास्त्रं तु विनियोक्तुम् । तन्न । विनियोगे प्रयोगे च एकाभिधानशक्तिर्मन्त्रस्य । तामनर्थपरां विनियोगं प्रत्यापादयत् तदर्थशास्त्रं अर्थपरतामेव हन्ति । मन्त्रोऽपि तत्तुल्यरूपतया तदर्थपरतां हन्ति । न चार्थपरता विकल्पार्हेत्यन्योन्यव्याहतिः । न च परिसङ्ख्यादिकं निजदोषापेक्षयापि शङ्क्यम्। लिङ्गादेवाग्रतः प्राप्तौ हि तदर्थशास्त्रात् परिसङ्ख्या स्यात् । न च तथेत्युक्तम्, अनर्थपरत्वे च वाक्यनियम - बुद्धशास्त्र -अविद्यमानवचन अचेतनार्थबन्धन - अर्थविप्रतिषेध - स्वाध्यायवदवचन - अविज्ञेयार्थ-अनित्य - संयोगाः सुस्था भवन्ति ।
?R युक्त्यन्तरं च अनुवादपरिसङ्ख्याद्यसंभवे यन्मन्त्रलिङ्गतदर्थशास्त्रविरोधेन सन्दिग्धेऽर्थपरत्वे नानुवादो न परिसङ्ख्येति । तद्धेयम् । अनुवादात् परिसङ्ख्यया वा सन्देहापगमात् ।
?R भाष्ये तु विनियोगविशेषचिन्तैवेदमिति तु मुखमात्रम् । तत्परत्वे तल्लक्षण एव स्यात् ।
?R राद्धान्तस्तु- व्युत्पत्त्याऽर्थपरत्वं मन्त्राणामविशिष्टम्। न तदर्थशास्त्रादिभिर्बाधितव्यं तदर्थशास्त्रमनुवादकमस्तु । " ?Rय एवं विद्वान् पौर्णमासीं यजते " ?Rइतिवत् । अनुवादे पृथगर्थप्रमापकता परं नास्ति । कार्यार्थता त्वस्त्येव।
?R ननु तदर्थशास्त्रं पूर्वं, पश्चाद्वादः अनुवादो मन्त्राणामेवास्तु । तन्न । सति हि वचने मन्त्र उदास्त एव । ननु न तर्हि मन्त्रतः प्राप्तानुवादः । उक्तं पञ्चिकायां मन्त्रलिङ्गापेक्षयैव तदर्थशास्त्राद्विनियोगः । अतो (ऽत्र) लैङ्गिक एव पूर्वमिति तदर्थशास्त्रमनुवादः । अयं भावः - तदर्थशास्त्रात् शेषशेषितामात्रार्पणम् । किञ्चित्करता तु मन्त्रशक्तिनिरूपणात् । तन्निरूपणे च किञ्चित् कार्यात्मा शेष्यपि लब्ध एवेति स्वतो हेतुसाकल्यात् विनियोगधीर्जाता तस्यां दशायां तदर्थशास्त्रमनुवादः । ऐन्द्र्यां तु वचनादेव गार्हपत्यं किञ्चित्कार्यं लब्धम् ।
?R किञ्चित्करताभिधानमिति स्वत एव हेतुतासाकल्यात् विनियोगधीः। अतो न मन्त्रलिङ्गापेक्षा । प्रत्युत लिङ्गं वाचनिकानुसारादन्यथा ।
?R यद्यपि धान्यमसीत्यत्र वचनान्न किञ्चित्करता, मन्त्रलिङ्गादपि न सा। लिङ्गाद्धि धान्यस्य किञ्चित्करतापत्तिः न तण्डुलाधिवापस्य । अतो वचनं किञ्चित्करतापेक्षं मन्त्रलिङ्गं तिरस्कृत्य वाक्यरूपतयाऽभिधानदृष्टमाश्रित्य विनियोजकम् । इह तु विनियोज्यविशेषलिङ्गोपस्थापितकिञ्चित्करताविशेषो न तिरस्कारमर्हतीति दिक् ।
?R यस्तु समाधिः ग्राहकान्वयसमय एव शक्यद्वारको मन्त्रो विध्यर्थ इति उपक्रान्तविनियोगसमाप्तिमात्रं मन्त्रलिङ्गेनेति पूर्वं लैङ्गिकम् । ऐन्द्र्यां तु वचनविरोधेन तदनुगुणशक्यद्वारत्वेधीः इति न लिङ्गात् समाप्तिरिति। लिङ्गवचनसम्प्रतिपत्तौ तु वचनवेगबाधात् लैङ्गिकमेवाग्रे । पश्चादेव वा। त्रिकालायामप्राप्तौ विधिरिति नात्र विधिः, अनुवाद एवेति । स न युक्तः । (न हि) लिङ्गात् पश्चादपि ग्राहकमन्त्राम्नायोः वाचनिकेनैव चरितार्थत्वात् । अथापि यदि लिङ्गात् तथापि लैङ्गिक एवोचितोऽनुवादः । अनवधारणं वा । अत एवाग्रतोऽपि न लैङ्गिकं वाचनिके सति तदनुपपत्तेः, समाप्तिमात्रं तत इति अग्रत इत्यपि वचनादपि समाप्तिमात्रमेव । अतश्शीघ्रतया तत एव समाप्तिः । यदि च शीघ्रं लिङ्गं तदैन्द्रीलिङ्गविनियोज्येति न
?Rलिङ्गबाधः स्यादिति पूर्वोक्तैव दिक् ।
?R तदर्थशास्त्रादेरनुवादकता उपेत्योक्ता । गुणविधानादिभिः अर्थवत्ताप्युक्तैव। मन्त्रोऽर्थपर इत्यत्र लिङ्गदर्शनं आग्नेय्या आग्नीध्रमुपतिष्ठते इत्येवमादिभाष्ये व्यक्तम्।
?R विवरणे त्वधिकम् - असत्यर्थपरत्वे योग्यमन्त्राणामप्यर्थबोधो न प्रयोजनमध्ययनविधेः । न चान्यत् चक्रकादित्युक्तम् शास्त्रादौ। अतो न स्वाध्यायप्रामाण्यरक्षा । अनर्थपरोच्चारण एव जपपदव्युत्पत्तेः न जपमन्त्रस्यार्थपतायोग्यतेति नाव्यापिता । अतो योग्यमन्त्राणामनर्थपरत्वेन तत्तुल्यतया चोदनानामपि तथात्वमिति । एवमव्यापितया अर्थधीप्रयोजनताहानिः। अतस्तदर्थशास्त्रादेः अभिधानशक्तिरुद्भूता नास्तीति निश्चयः । नत्त्वभिधानशक्तितो न विनियोग इतिनिश्चयः । विनियोगचिन्तेयमिहाप्रसक्ता तृतीये युक्ता । इह स्थितेऽर्थपरत्वे लिङ्गात् विनियोगस्तृतीये वक्ष्यते । उक्तयुक्तेश्च सर्वत्र अविवक्षेत्यविवक्षितार्था मन्त्रा इति युक्तम् । लिङ्गविनियोगस्तु तदर्थशास्त्राद्यवरुद्धे न युक्तः । वाक्यनियमादीनामर्थाविवक्षायामुपयोगो न लिङ्गाद्बिनियोगे ।
?R राद्धान्ते नाधिकम्, भाष्ये तदर्थाद्युपेक्ष्य देवताभिस्सल्लापे न किञ्चिद् दृष्टमित्युक्तम् अर्थधीरेव नास्ति दूरे विवक्षेति वक्तुम् । परिहृतं न सल्लापपरं वाक्यम् यागसाधनस्तुतिपरं तद्धीरस्त्येवेति । जर्भरीत्यादेः अर्थधीरुपायवतामस्त्येवेति ।
?R
?R ?R?0 इति श्रीभवनाथमिश्रविरचिते नयविवेके
?R?0 प्रथमाध्यायस्य द्वितीयः पादः?R?0।
?R ______?R
?R
?R
?R ?R?0 नयविवेके प्रथमाध्यायस्य
?R ?R?0 तृतीयः पादः
?R?0 ॥ 1 ॥ धर्मस्य शब्दमूलत्वादशब्दमनुमानं स्यात् ॥ 1 ॥
?R ‘?Rयां जना’ ?Rइत्यादिमन्त्राः मानान्तरापेक्षस्य मन्वादिस्मृताष्टकाकार्यस्य रात्रिप्रकाशनद्वारा तत्कार्यार्थाः । एवमपौरुषेयमपि चेन्मन्त्रवाक्यं मानान्तरापेक्षार्थं तदा स्वाभाविकमेव शब्दस्य सापेक्षार्थबोधकत्वमिति सर्व एव वेदः सापेक्षार्थ इति निर्विषया प्रतिज्ञेति पादान्तरं अनन्तरं च ।
?R
?R ननु अपुंवाक्यस्य मन्त्रस्य मानान्तरगम्यकार्यार्थता न युक्ता । न । अगत्या युक्तेत्युक्तं पञ्चिकायाम् । मन्त्रोऽयं रात्रिं प्रकाशयन् प्रकाश्यरात्रिमत्कार्यार्थतार्हः । अनिदंप्रथममष्टकाकार्यं रात्रिदेवताकमाह । इदंप्रथमकार्यं तु रात्रिमदपि नानिदंप्रथममन्त्रार्थतार्हमिति न तदाह । न च वैदिकस्यैव लाभे अन्यदनिदंप्रथमकार्यं न मन्त्रार्थतार्हमिति वाच्यम् । वैदिको हि रात्रिः कालतया क्वचित् । न च कालः प्रयोगावस्थकार्यप्रकाशकमन्त्रप्रकाश्यः । कथञ्चिदनुष्ठेयोऽपि प्रयोगात्प्राक् स्मार्यते । अत एव कालाभीज्यापक्षे पार्वणहोमयोरसंस्कारतोक्ता नवमे । न चासति सामान्यसम्बन्धे लिङ्गान्न विनियोग इति वाच्यम् । कार्याभिधायिता मन्त्रस्य साधिता न लिङ्गविनियोगः । अतस्तत्कार्यान्वयात् तद्विनियोगोऽस्तु वा मा वा । नात्रास्था। अतोऽष्टकालिङ्गमन्त्रा इति भाष्यस्थसमाख्यया सामान्यसम्बन्धानपेक्षं लिङ्गं विनियोजकमिति च व्यर्थम् । कालरात्रिके वैदिके देवतारूपरात्रिप्रकाशकोऽयं मन्त्रः नेति न पञ्चिकोक्तम्। न च युक्तम्। चतुर्थ्यन्तताद्यभावे न देवतात्वधीः । न च प्रतिनन्दनं देवताया एव न च धेनुता (न च) पत्नीत्वं, सानो अस्तु सुमङ्गलीरिति स्तुतयोऽपि देवताया एव, कालरूपाया अपि रात्रेरङ्गत्वात् सा च स्तुत्यर्हैव देवतेव । यापीयं मानान्तरापेक्षार्थतामन्त्रस्य सा अष्टकादिस्मृतेरर्वेदमूलत्वे तु
?Rमूलभूतानपेक्षवेदापेक्षो न मानान्तरापेक्षः ।
?R ?R?0 पूर्वपक्षः
?R पूर्वपक्षस्तु भाष्यकारादिभिरष्टकादिमूलवेदेषु योग्यानुपलम्भात् स्मर्तॄणामपि योग्यानुपलम्भोऽवधृतः । तेन महाजनादृतमपि मन्वादिवाक्यं न वेदमूलकम् । न च आप्तमन्वादिवाक्यं वेदार्थविषयं वेदजप्रमाकार्यं स्वकारणीभूतप्रमां पक्षधर्मताबलात् वेदजामेवानुमापयति [?Rइति] ?Rमूलभूतवेदानुमानसिद्धिरिति वाच्यम् । यद्युत्सन्नोऽसौ अनुमेयो वेदः, न तदुत्सादे हेतुः । यथाहि अनन्तचरणाधारत्वात् अहरहरभ्यासे च कृते संस्कारपाटवादिनाऽतिशयादन्यवेदधारणं तथाऽस्यापि स्यात् । अयमपि केषाञ्चिच्छाखिनां शाखान्तर्गत एव । स्वशाखाधारणे चानन्ता मेधाशालिनोऽभियुक्ता दृश्यन्ते । अतस्त्यागानवकाशः । अवकाशे च सर्ववेदव्यवहाराणां हानम् । सर्वाङ्गधीना हि विधिसिद्धिः त्यक्तवेदोक्ताङ्गप्रहाणाशङ्कया नानुष्ठानं स्यात् । त्यक्ते च स्मृतेः सङ्ग्रहाशक्तिः। त्यक्ष्यमाणो च मानाभावः । पदवर्णत्यागशङ्कया च वाक्यार्थावगमो न स्यात्। यदप्यापस्तम्वेनोक्तम्(आ.ध. 1-12-10) अत ब्राह्मणोक्ता विधयः तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्ते इति । तदुक्तानुमाने मूलेऽसति अनादृत्यमेव । विप्रकीर्णवेदानुमा न शङ्किता तुच्छत्वात् ।
?R ?R?0 भट्टमतनिरासः
?R यत्परोक्तं - शाखानां विप्रकीर्णत्वात् पुरुषाणां प्रमादतः ।
?R नानाप्रकरणस्थत्वात् स्मृतेर्मूलं न लक्ष्यते (तं. वा. 1-3-2) इति । यदि स्मर्तृभिरपि न लक्ष्यते कथं तन्मूलत्वं स्मृतेः । लक्ष्यते चेत् अथ यत्र न वैदिकं शब्दमुपलभामहे अथ च स्मरन्ति’?R इति भाष्यं हेयम् । अयोग्यैरनुपलब्धे पूर्वपक्षस्तुच्छः स्यात् । यत्नलक्षितमूलोद्भूत एव राद्धान्तः स्यात् । न नयव्युत्पत्तिः
?Rस्यात् । प्रयोगविधिमूलता मन्त्रार्थवादमूलतापि विप्रकीर्णवादमूलतेव हेया । न च मूलान्तरं विनापि पुंवाक्यपरम्परात एव स्मृत्यर्थधीः शब्दार्थसम्बन्धवदिति वाच्यम् । युक्तं हि स्वदृष्टोऽर्थः सम्बन्धमूलं पुंवाक्ये त्वर्थानिश्चय एव ।
?R
?R ननु कार्यधीः स्मृतिबाक्यकरणिका स्वकारणकारणतया सम्बन्धिना वेदवाक्येन व्याप्ता वेदमनुमापयतु । एवं तर्हि वेदकारणत एव स्मृतिवाक्यं कार्यमित्येवं कारणतः कार्यं विज्ञेयम् । तच्च न । अन्यकारणिकापि स्मृतिः चैत्यवन्दनादिका दृष्टा । कथं पटः तन्तुसंयोगकारणकः कारणकारणकुविन्द व्यापारमनुमापयति । तन्न । तन्तुसंयोगव्यवहितव्यापारस्यापि कुविन्दस्य निमित्तकारण ताऽन्वयव्यतिरेकगम्या अस्त्येव न तथा कार्यधीकारणं वेदः ।
?R
?R ननु आप्तवाक्यात् स्मृतिमनुमाय स्मृतितोऽपि कार्यधीरस्तु सा स्मृतिकारणिकाऽस्तु । स्मृतेस्त्वलौकिकार्थायाः कारणं वेदोऽनुमीयताम् । चैत्यवन्दनादेस्तु वेदमूलतानुपगमात् न वेदानुमानम् । तन्न । मितिसाधनस्य वेदस्य योग्यानुपलम्भात् निरासे कृते मितिनिरासान्न मित्यनुमितिपूर्विका स्मृतितः कार्यधीरिति न तद्बलात् वेदानुमा । न चानुमानैकगम्ये वेदे योग्यानुपलम्भासिद्धेः अस्तु श्रोत्रग्राह्यवर्णात्मकतया शब्दत्वं अपौरुषेयग्रन्थात्मकतया च वेदत्वम्। किन्तु अनिरूपितनियतरूपपदजातात् नार्थधीः । लिपितस्तु नियतपदानुमितेरर्थधीर्युक्तैव ।
?R
?R अथ यथा लिपितो वर्णपदधीः तथैव तदर्थशक्तानि पदानि इत्यनुमितौ नियतपदाबोधेऽपि तुल्यार्थपदद्वयानिश्चयेऽपि नियतार्थधीदर्शनात् इहाप्यस्तु । वर्णक्रमोऽपि बुद्धिस्थतया पदताहेतुः, अनुच्चारणेऽपि लिप्यनुमितपदवदस्तु। परमतेऽपि लिङ्गादेव श्रुतिः कल्पिता विशेषतोऽनवधारितापि विनियोजिकैवोक्ता;?R
?Rतद्वदिहाप्यस्तु । न च स्मर्तृणामपि मूलाश्रवणात् जात्यन्धपरम्परामूलमानशून्यस्मृतिवत् अनुमेयस्मृतिमूलतेति वाच्यम् । उक्तं हि - स्मृतिलिङ्गात् वेदानुमितिसिद्धेः अबाधात् रूपस्वरूपे तु चक्षुरेकग्राह्ये जात्यन्धस्य मानं असम्भवान्निरस्तम् । न जात्यन्धस्मृतेरनुमानार्हम् । अथ चक्षुष्मद्वाक्यानुमितजात्यन्धस्मृतं रुपं न तर्हि जात्यन्धपरम्परामात्रात् स्मृतिः । इह तु श्रोत्रग्राह्योऽपि शब्दः कादिवर्णमयः श्रुतिवाक्यसजातीयतया अर्थधीशक्तः अनुमानार्ह इति अन्धपरम्परावैषम्यम्। नत्वेवं चक्षुर्ग्राह्यतोपाधिकरुपतास्मृतेः जात्यन्धानर्हतेति । न ह्यौपाधिकं रुपत्वम् । अनिदंप्रथमा अन्धपरम्परा नेत्यनुमानाऽपेक्षेति नातुल्यता, कृत्वाचिन्तया तुल्यतापादनात् ।
?R
?R एवं स्थितेऽपि मन्वादिस्मृतेर्न वेदजा मितिः शक्याऽनुमातुं, वाक्याद्धि मितिमनुमाय मितितोऽर्थं च मितिसाधनवेदानुमा वाच्या । न च तथा नसिद्धिः । न चेदं वाच्यं स्मृतेः मूलासम्भवनिरासाय पूर्वं वेदमनुमाय ततो वेदात् प्रमितिमुत्पाद्य पश्चात् स्मृतितोऽर्थधीः । अतः प्रमाणभूतवेदानुमानसिद्धिरिति। उक्तं हि - अयथार्थत्वशङ्कापगमाय आप्तवाक्यात् मितिमनुमाय मितितोऽर्थं च अयथार्थत्वशङ्कामपास्य पुंवाक्यादर्थधीः । मितिसाधनवेदादर्शनात् बाध्यगानायां मित्यनुमायां नित्यानुमेयं वेदंपक्षधर्म बलात् (वेदम) मित्यनुमितौ निवेश्यानुमित्यन्तरतो वा बाधनिराकरणात् दृढीकृते मित्यनुमाने तदर्थे च पुंवाक्यादेवार्थधीपर्यवसाने जाते अनुमितवेदाद्धीरनुवाद एव । न हि पुंवाक्येन श्रोता वक्तृमितिं ससाधनामनुमाय स्वयमनुमितात् योग्येन्द्रियादेः स्वप्रमामुत्पाद्य पुंवाक्यादर्थं वेत्तीति व्युत्पत्तिः ।
?R एतेन इदं निरस्तम् - मूलवेदासम्भवहेतोः वक्तृज्ञानानुमाने प्रागेव बेदानुमानं वेदादर्थज्ञानं चेत्यतो नानुवाद इति । अस्तु वेदानुमा अग्रे। श्रोतुस्तु ततो नार्थधीः
?Rवक्तृधीहेतोरिन्द्रियादेः अर्थमित्यदर्शनात् ।
?R राद्धान्तस्तु-स्मृतितो वेदवेद्यतार्हकार्य(ता) धीः पुंवाक्यान्तरमर्यादया ननु स्मृत्यर्थानुष्ठानदर्शनात् अनुष्ठानगतकार्यधीः प़ञ्चिकाविरोधात् । ननु अनुष्ठानमादाय चिन्तेयम् । सा जातापि तादृग्धीशक्तस्मरणानुगुणाकारणभूतमितिसाधनवेदादर्शनात् बाध्यमाना दृढतरस्मरणेनैव स्वकारणकोटिनिविष्टवेदानुमानात् स्थापिता। परोऽपि-
?R ?R?0 " ?Rभ्रान्तेरनुभवाद्वापि पुंवाक्याद्विप्रलम्भनात् ।
?R?0 दृष्टानुगुण्यसामर्थ्यात् चोदनैव लघीयसी ॥ इति ।
?Rपरेण तु नित्यानुमेयना बहुदोषत्वान्नेष्टा । ते दोषाः प्रत्युक्ताः । यदुक्तमनुमेयवेदादनुवादो न प्रमितिरिति । तदपि न । सापेक्षानुवादे हि न प्रमितिः न दैवादनुवादेऽपि, धारावाहिकवत्। न हि वेदः पुंवाक्यवदयथार्थत्वशङ्कापगमाय मानान्तरप्रवृत्त्यपेक्षः । किन्तु पुंवाक्यात् स्मृतिरुपात् तदर्थावगमे अन्यतो वेदान्न बुभुत्सतीति न वेदादर्थमितिः । यो यदाऽनुमेयवेदस्य प्रमितिशक्तिपरीक्षार्थं वेदादपि बुभुत्सति स तदावेदादप्यवैति इति गुरुरहस्यम् । नित्यानुमेये सति च " ?Rप्रत्यक्षविधानाद्गार्हस्थ्यस्यै इति गौतमोक्तिरप्यञ्जसा । न तदध्ययनविधिः अतस्तदनाम्नानम् । अतोऽनभिव्यक्तेर्न प्रत्यक्षता। न ह्यनभिव्यक्तं प्रत्यक्षं;?R यदि स्यात् शब्दविस्मरणं न स्यात् । प्रत्यक्षानुवृत्तेः स्मरणानुवृत्तिः न भवेत् । वेदमूलता च स्मृतेः स्मर्तृभिरेवोक्ता " ?Rयः कश्चित् कस्यचिद्धर्मः " ?Rइति । श्रुतिरपि " ?Rयद्वैकिञ्चमनुरवदत्तद्भेषजम् " ?Rइत्यादिका । बुद्धस्मृतौ तु विपरीतम् । अष्टकादिलिङ्गा मन्त्रा इति च मान्त्रवर्णिकी रात्रिः स्मृत्योक्तेति दर्शनादन्यदपि वेदोक्तमेव स्मृतिष्वितिधीः । पूर्वं मन्त्रस्य सापेक्षार्थत्वं स्मृत्यैकवाक्यत्वेनौक्तम् । इदानिं स्मृतेः तदेकवाक्यतया वेदमूलतोक्ता । गुर्वनुगमनादिस्मृतेः यद् दृष्टमूलत्वमुक्तं न तत् तदङ्गकाध्ययनविधेः मानान्तरापेक्षत्वावहम् । अङ्गता हि न दृष्टमूला किन्तु वेदमूलैव
?Rसा । दृष्टद्वारतामात्रमवघातादिवद्विधेः अनुमतमिति दृष्टमूलता । हेतुदर्शनादवेदमूलतां तु वक्ष्यति।
?R
?R विवरणे त्वधिकम्-प्रयोगविधेः स्मार्ताचमनादिविशिष्टत्वात् विशेषणांशे मानान्तरापेषता । न चानिदंप्रथमस्मृत्युपस्थापितविशेषणहानमनपेक्षत्वार्थम् । न हि प्रयोजनानुरोधात् मानान्तरावगताङ्गहानम् । न त्वाचमनं वेदोक्तम् तदितिकर्तव्यता स्मार्तापेक्षया विशेषणं हेयमिति समाधिः दीपशिखाविरोधात् । यदाह - ‘?Rन चाचमनं कार्यमिति साक्षाद्वेदोऽस्ति ‘?R इति । यां जनामन्त्रोऽपि स्मार्तरात्र्यपेक्षः । रात्रिदेवताप्रकाशको मन्त्र इति यदुक्तं तत् कालस्य रात्रिमन्त्रप्रकाशनानर्हत्वात् पारिशेष्यात् देवतात्मकरात्रिवाचित्वात् । ‘?R धन्वन्निव प्रपा असि ‘?Rइत्यनुवादोऽपि स्मार्तप्रपापेक्षः । तदेवं त्रिविधं स्मार्तमुखं [?Rअ] ?Rप्रमाणयं न वेदभागोत्थमिति भाष्यं " ?Rएवं तावत् कृत्स्नस्य वेदस्ये “?Rति?Rव्याख्यातम् । न तु भाष्ये स्मृतिमात्राक्षेपः यदाह- “?R अथ यत्र न वैदिकं शब्दमुपलभन्ते अथ च स्मरन्ति एवमयं पदार्थोऽनुष्ठेय " ?Rइति। एवं वैदिकाकाङ्क्षोक्ता । सा च स्मृतिषु वैदिकस्यैवेति तदलाभे चापरिपूर्णं वैदिकं वाक्यमिति न प्रमाणमिति तात्पर्यम् । राद्धान्ते नाधिकम् । तत्तु नानुभवनं इति भाष्यम्। अनुभवनं वेदादतिरिक्तं मानान्तरं तद्वेदार्थकार्यधीशक्तस्मरणाननुगुणत्वाद्धेयम् । ननु अन्वयव्यतिरेकगम्यमष्टकादिकर्म पुष्टिफलकमिति जन्मान्तरानुभवार्हम् ।
जातिस्मरता च लोकानुभवात् सिद्धेति अनुगुणमनुभवनमपीति । अत्र भाष्यम् - ‘?R जन्मान्तरानुभूतं च न स्मर्यते ’ ?Rइति । जन्मान्तरानुभवो हि साध्यसाधनत्वेन तन्न स्मर्यते, स्मृत्या नोच्यते; ?Rकिन्तु अपुर्वं स्मृत्यर्थः । तन्नेहामुत्र वाऽनुभवार्हम् । वेदार्थता च स्मृतेः स्मर्तृभिरेवोपेता । कर्तृसामान्यमेकाधिकारिता, कर्त्रेकता हि एकप्रयोगत्वे । तच्चैकाधिकारित्वे । अतस्तदेव कर्तृसामान्यादिलक्षितं एकाधिकारत्वम् । तच्च स्मार्ताचमनादेः
?Rअङ्गत्वेनाष्टकाकर्मणो मन्त्राङ्गित्वेन । अतः स्मार्तेऽप्यपूर्वपर्यन्ततया वेदानुमानसिद्धिरिति । अष्टकायां प्रयोगविध्यनुमा आचमने उत्पत्तिविध्यनुमा आचमनक्रियाविध्यनुमेत्यर्थः । कर्तृसंस्कारो हि न विध्यन्तरम् । मन्त्रस्य प्रयोगविध्यपेक्षायां अष्टकैक्ये स्थिते शेषभूतमन्त्रात् शेषिभूतविध्यनुमेति लिङ्गदर्शनसिद्धिः । गुर्वनुगमनादौ गुरुप्रीत्यर्थस्यावघातादिवत् प्राप्तेर्नोत्पत्तिविधानम् नियममात्रार्थं विधानमस्तु । प्रपादौ च परोपकारः कर्तव्य इति विधिप्राप्तेः नियममात्रे विध्यनुमा ।
?R?0 ॥ 2 ॥ विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम् ॥ 3 ॥
?R यदि स्मृतेर्वेदानुमा तर्हिप्रत्यक्षश्रुतिविरुद्धाया अपीति अनुमेयप्रत्यक्षश्रुत्योः परस्परव्याघातादप्रामाण्यं इति सङ्गतिद्वयं पूर्वपक्षबीजं च । ननु तुल्यत्वे विकल्पः, अतुल्यत्बे तु अनुमेयबाधो न त्वनयोन्यव्याघातः । तन्न, अन्योन्याश्रयापातात् । तुल्यं हि विरुद्धद्वयं युगपदुपस्थितमिति विकल्पार्हम् यथा षोडशिग्रहणाग्रहणादि । न च ग्रहणप्रसक्तिपूर्वकं अग्रहणमिति अयुगपद्भाविता वाच्या । द्वयोर्हि प्रत्यक्षश्रुत्योरेकदैवोपस्थितेः तथैव स्वरूपद्वयं क्रत्वर्थमन्योन्यविरुद्धत्वात् विकल्प्यानुष्ठेयम् । न तु विधिनिषेधरूपशब्दद्वयं क्रत्वर्थं, अङ्गविधिरनुवाद एव । यतः प्रयोगवचनादेव विधिनिषेधतेति न ग्रहणप्रसक्त्यपेक्षमग्रहणम् । विरोधस्तु एकपात्र विषयद्वयायोगादिति दिक् ।
?R यत्र तु क्रमोपस्थितद्वयं विरुद्धं तत्र चरमबाधे स्तिते व्याघातो दुर्वारः। पूर्वमनुपसञ्जातविरोधि न विकल्पार्हम् । अपरमपि अवश्यंभाविपूर्वाबाधादशक्यम् । पूर्वमपि परबाधकं तुल्यशक्ति । न च पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत् " ?Rइत्यस्यायं विषयः येन प्रत्यक्षतः श्रुतेर्बाध एव स्यात् । तत्र हि एकैकशोऽपि नैमित्तिकद्वयं सावकाशमिति क्वचित्पूर्वबाधेपि न सर्वथा बाधः । न त्वेवं, व्याघातः विधौ,
?Rअन्योन्यव्याघातः प्रत्यक्षश्रुतयोरपि। स तु विकल्पादपास्यः । इह स्थायिसिद्धान्तेन बाधादिनेति । एवं तर्हि व्याधातो राद्धान्तात् प्रागदृढ एव विकल्पापास्यत्वात् । न चैवं व्याघातविधा - वेदानुमानसिद्धान्तात् तद्विरोधिश्रुतवेदप्रामाण्यशङ्कारूपो व्याघातः । अनपेक्षतया कृत्स्नश्रुतवेदप्रामाण्यादनुमानव्याघातशङ्केति सिद्धान्तद्वयदर्शनादन्योन्यव्याघात इति। यतः सिद्धान्तद्वयसिद्धश्रुतानुमेयवेदद्वयप्रामाण्याद्विकल्पापत्तिः । नापि सिद्धान्तद्वयादन्योन्यव्याघातः ।
?R ?R?0 पूर्वपक्षः
?R पूर्वपक्षस्तु आप्तस्मर्तृवाक्यात् श्रुत्यविरोधे यदि वेदानुमा तर्हि विरोधेऽपि। न च प्रत्यक्षश्रुतिविरोधे नानुमेति वाच्यम् । यद्विधं हि विरुद्धद्वयं न दृष्टं यथा उष्णस्वभावं न शीतं न तत्रानुमितिः। श्रुत्योस्त्वन्योन्यविरुद्धार्थत्वं दृष्टम् । तदुक्तम् भङ्गवादिना -
?R ?R?0 परस्परविरुद्धत्वं श्रुतीनां न भवेद्यदि ।
?R?0 स्मृतेः श्रुतिविरुद्धायाः ततोमूलान्तरं भवेत् ॥
?R अथानाप्तत्वात् विरुद्धार्थे स्मर्तॄणां नानुमा तर्हि अष्टकादिविषयेऽपि नानुमा । तदुक्तं तेनैव -
?R?0 कदाचिच्छ्रुतिमूलत्वं उक्त्वा भ्रान्त्यादिमूलता ।
?R?0 स्मृतिभिः प्रतिपन्ना चेत् कस्तामिन्द्रोऽपि वारयेत “?R॥ इति ।
?R राद्धान्तस्तु-साक्षाच्छ्रुतवेदविरोधे नानुमानम् सिद्धेन हि साध्यं उत्पत्तिप्रतिबन्धाद्बाध्यते वह्नाविव शैत्यानुमा । यत्तु विरुद्धश्रुतिद्वयं दृष्टमिति तद्धि तुल्यवद्दृष्टं अगत्या विकल्प्य व्यवस्थाप्यम् । अतुल्ये त्वस्मिन् जघन्यबाध एवेति वेदमूलत्वभ्रमात् स्मृत्यनुवृत्तिः । अविरुद्धेन विरुद्धापि मन्वादिस्मृतित्वसामान्यात्
?Rवेदमूलेति भ्रमबीजम् । यदि विरुद्धा न तथा तत्सामान्यादविरुद्धापि न तथा स्यादिति च भ्रमबीजम् । इष्यते हि पूर्वपक्षनयमूला स्मृतिः । अधीत्य स्नायात् ’ ?Rइति । स्मर्त्रापि स्वयं न्यायाभासमूलत्वं पिण्डपितृयज्ञस्य दर्शाङ्गतास्मृतेरुक्तम्। अङ्गं वा समभिव्याहारादित्युक्तेः । विरुद्धाविरुद्धयोरतुल्यत्वान्न तुल्यमूलतेति परोक्तं निरस्तम् । अविरोधे स्मृतिर्मूलं न मूलान्तरसम्भवः। विरोधेत्वन्यमूलत्वं इति स्यादर्धवैशसम् ॥ इति अधिकरणारम्भङ्गमाहुः ।
?R
?R ?R?0 विरोधसमर्थनम्
?R ननु विरोध एवेह नास्ति। कथमन्योन्यव्याघातात् पूर्वपक्षः । कथं वा अनुमानवाधाद्राद्धान्तः । न हि कार्यार्थशास्त्रयोर्विरोधः। सिद्धस्य हि वस्तुनः एकस्वभावस्य तदतत्स्वभावतया धीद्वये विरोधः । कार्यं त्वेकतया न वेद्यं कार्यानुरूपानुबन्धभेदात् भिन्नमेव । अनपेक्षैकद्वारतया सहानुष्ठानविरोधमात्रं;?R न च स्वरूपविरोधः अन्यदनुष्ठानं अन्यच्च स्वरूपं यतः । ज्ञातस्वरूपस्य हि अनुष्ठानं अर्थिभिः क्रियते सकृदसकृद्वा । अत एव कर्मभेदेऽपि क्वचित्तन्त्रमनुष्ठानम् ऐन्द्रदधिपयसोरिव । कर्माभेदेप्यावृत्त्या अनुष्ठानं सोमयाग इव । अनुष्ठानविरोधश्च विकल्पापास्यः प्रसङ्गात् कार्यसिद्धेः । अतो विकल्प एवेह न व्याघातबादौ अतो न यथाभाष्यमधिकरणं किन्तु वेदविरुद्धबौद्धादिस्मृतिविषयं सूत्रम् । तन्न, अनुष्ठानमेव हि कार्यमुच्यते नापरं कार्यम् । अयं भावः - कृतियोग्यतावस्था हि कार्यता नापराऽतदवस्था । सैव कृतिरनुष्ठानम् । अतोऽनुष्ठानविरोधः कार्यविरोध एव । न त्वयं भावः अनुष्ठानं कृतिः सैवेच्छादिव्यापारात् कार्या तद्द्वारा कर्मापि कार्यमिति ऋज्वेवानुष्ठानं कार्यशब्दार्थो न कृतिरिति पूर्वोक्त एव भावः। दधिपयसोर्यत्कर्मभेदेऽपि तन्त्रमनुष्ठानं तत् कार्यावस्थायामपि तथात्वात्, तत्रापि त्याज्यभेदात् त्यागभेद एव श्रुतः एकदेवतोद्देशोपाध्यैक्यात् यागानुष्ठाने तन्त्रव्यवहारः
?R। एवमावृत्तिरपि कार्यावस्थायामपि तथात्वात् । तथा बहुभिरप्येकस्य चाधिकारावृत्त्या आवृत्तिरपि । न चैवमनुष्ठानविरोधे कार्यविरोधे व्याघातः । प्रत्यक्षश्रुतिद्वयेप्येकाधिकारशास्त्रेणैकीकृत्य कार्यद्वयस्य पाक्षिकतापादनात् । न चेह स्पर्शनवत् सर्ववेष्टनमेकीभूतं तद्विरोधे वेष्टनस्यानादेयत्वादितीह न विकल्पः । उपेत्यापि विरोधं श्रुतानुमेयश्रुत्योः तुल्यबलत्वात् विकल्पो नानुमेयबाधः इत्येवं भङ्गः ।
?R
?R यथाहि पाठाच्छ्रुत्यभिव्यक्तिः तथा श्रुतेरनुमानं स्मृतेरित्यपि न भेदः । पाठेऽपि हि श्रुतितोऽनुमेयैव । तदाहुः -
?R ?R?0 वेदो हीदृश एवायं पुरुषैर्यः प्रकाश्यते ।
?R?0 स पठद्भिः प्रकाश्येत स्मरद्भिर्वेति तुल्यता ॥
?R एवं तुल्यत्वे विकल्पः । तदाहुः -
?R ?R?0 परस्परविरुद्धत्वं श्रुतीनां न भवेद्यदि ।
?R?0 स्मृतेः श्रुतिविरुद्धायाः ततो मूलान्तरं भवेत् ॥
?R श्रुतिमूलत्वे च विकल्प एवोक्तः । तुल्यत्वे चैकत्र भ्रममूलत्वे अन्यत्रापि तथा स्यात् । तदाहुः -
?R ?R?0 कदाचिच्छ्रुतिमूलत्वं मुक्त्वा भ्रान्त्यादिमूलता ।
?R?0 स्मृतिभिः प्रतिपन्ना चेत् कस्तामिन्द्रोऽपि वारयेत् ॥
?Rस्मृत्योरपि तौल्यान्न नानामूलतेत्याहुः -
?R ?R?0 अविरोधे श्रुतिर्मूलं न मूलान्तरसम्भवः ।
?R?0 विरोधे त्वन्यमूलत्वं इति स्यादर्धवैशसम् ॥ इति ।
?R अत्रानन्तरोक्तं वार्तिकत्रयं पूर्वपक्षे प्रक्षिप्य प्रतिक्षिप्तमेव । ततः प्रागुक्तं पूर्वपक्षाक्षमम् । पाठाद्धि श्रुतिस्मृत्योरभिव्यक्तिस्तुल्या। श्रुतिता स्मृतिता च
?Rवृद्धव्यवहारगम्या तुल्या स्मृतेस्तु श्रुत्यनुमेयतेत्यतुल्यता व्यक्ता । यत् काठकादिशाखागतश्रुतिमूलकस्मृतिमध्ये पठितमपि अपश्रुतिस्मृतिवाक्यं किञ्चिदित्यवाच्यम् । तदाहुः -
?R?0 कठमैत्रायणीयादिपठितश्रुतिमूलिकाः ।
?R?0 दृश्यन्ते स्मृतयस्सर्वाः यथोपनयनादिषु ॥
?R?0 " ?Rतदातन्मध्यपात्येकं किञ्चिद्वाक्यमपश्रुतिः ।
?R?0 मूलान्तरोद्भवं वक्तुं जिह्वा नो न प्रवर्तते ॥ इति ।?R?0
?R तदपि पूर्वपक्षाक्षमम् । मध्यस्थत्वेऽपि विरोधात् भ्रममूलता वाच्यैव । यद्बाधिता न्यायविदा भूत्वा स्मृतिः शाखान्तरमूलिका तदैव यदि दृश्येत तदा ते मुखच्छायाहानिः । तदाहुः -
?R?0 बाधिता च स्मृतिर्भूत्वा काचिन्न्यायविदा यदा ।
?R?0 श्रूयते न चिरादेव शाखान्तरगता श्रुतिः ॥
?R?0 तदा का ते मुखच्छाया स्यान्नैयायिकमानिनः ।
?R?0 बाधाबाधानवस्थानं ध्रुवमेवं प्रसज्यते ॥ इति ।
?R तदपि न पूर्वपक्षार्हम् योग्यानुपलम्भे हि बाधः । तदसिद्धावबाधेऽपि न नयहानिः ।
?R यत्कथञ्चित् समुच्चयमाश्रित्य बाधहानं सर्वशब्दो हि द्वित्राङ्गुलभागेतरकृत्स्नौदुम्बर्यामस्तु द्वित्राङ्गुलभागे स्पर्शोऽस्त्विति । तदाहुः -
?R ?R?0 यदि द्वित्राङ्गुलं मध्ये विमुच्येतरभागतः ।
?R?0 वेष्टितौदुम्बरी तत्र किन्नाम न कृतं भवेत् ॥ इति ?R?0।
?R तन्न । तस्य सर्वशब्दस्य कृत्स्नार्थत्वात् द्वयङ्गुलमात्रेऽप्यवेष्टिते तदर्थहानात् स्मृत्यर्थहानमेव । यदन्तरितस्पर्शात् बाधहानं अन्तरितस्पर्शश्चात्र अन्यथापि, कुशैः वेष्टनस्मृतेः अलोभमूलत्वात् अबाध्यत्वात् । यद्यपि तन्न सर्ववेष्टनं तथापि प्रमादात्
?Rसर्ववेष्टने वेष्टितदेशे वा प्रमादात् स्पर्शे अन्तरितस्पर्शः । तदाहुः
?R ?R?0 प्राक च लोभादिह स्पर्शः कुशैरेवान्तरीयते ।
?R?0 वेष्टितैषा कुशैः पूर्वं वाससापरिवेष्ट्यते ॥ इति ।
?R तन्न । अन्तरितस्पर्शो न स्पर्शः । किन्तु उपस्पर्श एव, लोके प्रयोगात् । अतः श्रुत्यर्थहानमेव । प्रमादादिति च वदन् नायं शास्त्रार्थः इति स्वयमाह । यत्सर्ववेष्टनमनुदाहरणमाहुः शाट्यायनशाखास्थश्रुतिमूलत्वात् तामुभयतो वाससा परिवेष्टयन्तीति श्रुतेरिति । तदुभयतो वेष्टनसर्ववेष्टनयोः भेदात् हेयम् । यदपरमनुदाहरणमाहुः क्रीतराजको भोज्यान्न इति क्रीतराजकान्नभोजनं पुरुषार्थं " ?Rअग्नीषोमीये संस्थिते यजमानस्य गृहे अशितव्यं " ?Rअग्नीषोमीयसंस्थाऽपूर्वार्थत्वेनाविरुद्धमिति । तन्न । अर्थात्तुल्यार्थतां प्राप्यापि विरुद्धमेव ।
?R
?R यदपि अष्टाचत्वारिंशद्वर्षं ब्रह्मचर्यं कृष्णकेशाधानविरुद्धमुक्तं शक्ताशक्तविभागव्यवस्थितत्वादिति । तद्व्यवस्थापि विरोधहानापेक्षैवेति हेयम् । यन्महाजनपरिग्रहलक्षणमुक्तबाधे तल्लक्षणमपि बाधितं स्यादिति तत् विरोधलक्षणयुक्तबाधाद्धेयम् । यच्च प्रतिबन्दिग्रहात् भङ्गभङ्गप्रतिविहितं साक्षाच्छ्रुत्या विनियोगे लिङ्गान्न श्रुत्यन्तरानुसेति युक्तम् । तत्र मन्त्रप्रकरणिनोः आकाङ्क्षानिवृत्तेरजिज्ञासितेऽननुमानान् । स्मृतेस्तु- कारणाजिज्ञासा न निवृत्तेति प्रतिबन्दितेति तच्छ्रुतिविरोधे भ्रान्त्यादिकारण्यनिश्चयात् कारणजिज्ञासानिवृत्तेः नानुमेति प्रतिविहितम् ।
?R यद्यज्ञशालास्थूणोदुम्बर्याः कर्णे मूले च स्पर्शावकाशादविरोध इति तत् सर्वशब्दात्मूलाग्रवेष्टनाद्धेयम् । यत् वेदानधीत्येति विकल्पस्मृतेः कृष्णकेशाधानादविरोध इति तत् कृष्णकेशश्रुतेः मेधादियोगातिशयात् कृष्णकेशोऽपि
?Rवेदानधीयाधत्ते इति सम्भवात् हेयम् । यत्तु स्पर्शनपूर्वके सर्ववेष्टने न विरोध इति । तत् पूर्वस्य शालानिर्माणस्याङ्गं सर्ववेष्टनम् । परस्य पृष्ठस्तोत्रस्याङ्गं स्पर्शनं न तयोर्मिथः क्रमः विरोधहानायापीति हेयम् । एवं तावत् उपेत्यापिविरोधमुक्तम् तदुदाहरण्यदूषणं तन्निरासादरानर्हमिति गुरुणाऽवधीरितम् । अविरोधात् । भङ्गस्तु विरोधोक्तेः प्रत्युक्तः । प्रमाणायां स्मृतौ इति भाष्ये प्रमाणपदमेवम् । यदाहुः-
?R?0 प्रमाणमयते याति मूलभूतां श्रुतिं यतः ।
?R?0 क्लीबान्तादयतेस्तस्मात् प्रमाणा स्मृतिरिष्यते ॥ इति ।
?R ?R?0 ॥ अधिकरणान्तरं वा ॥
?R युक्त्यन्तरपेक्षिणी युक्तिः पूर्वत्रौपपादिता । अत्र पुनः निरपेक्षतयोच्यमानाऽधिकरणान्तरमित्यपुनरुक्तिः। सङ्गतिद्वयं च । हेतुदर्शनं च श्रुतिविरोधयुक्तेः वेदानुमानबाधदाढ्र्यार्थं पूर्वमुक्तम् । यद्यपि विरोधमात्रादेव बाधधीः सुधियां;?R मन्दधियां चाभ्युच्चयापेक्षेति सर्वगामितया सर्वबाधधीदाढ्र्यार्थमुक्तम् । इह हेतुदर्शनमात्रात्
बाधव्युत्पत्तेः पूर्वोक्तयुक्तिशक्तिनिष्कर्षात् पूर्वचिन्ताशेषतया न पृथक् सङ्गतिद्वयम् । न त्वेवं सङ्गतिः - यदि हेतुदर्शनमात्रात् वेदानुमानबाधः तर्हि सर्वस्मिन् कथञ्चित् हेतुसम्भवात् सर्वत्र स्मृत्यधिकरणपूर्वपक्षापत्तेः प्रामाणयाक्षेप इति । न च सर्वत्र हेतुदर्शनसम्भावनयाऽत्र पूर्वः पक्षः । किं तर्हि ? ?Rहेतुदर्शनमात्रं न बाधहेतुरिति। दृष्टमपि मूलं लोभादि न स्मृत्यनुगुणमिति तद्धानादनुगुणवेदानुमेति स्मृत्यधिकरणराद्धान्तनयात् पूर्वः पक्षः ।
?R
?R राद्धन्तस्तु दृष्टे मूले लोभे नादृष्टानुमा । सति हि कल्पनेऽनुगुणकल्पना न क्लृप्तहाने । दृश्यन्ते हि ऋत्विजां लोभानुगुणाचारानुगुणोपदेशाः। तदादरोऽवैगुण्यशङ्कया तदादराच्च स्मृतिः अमीमांसितत्वात्। सान्दृष्टिकी
?Rयाज्ञिकानामिवामीमांसातो " ?Rमृगोऽसी " ?Rत्यूहः। भ्रान्तिमूलता च स्मृतेः स्ववचनात्। क्वचिदङ्गं वा समभिव्याहारादित्याभासोक्तेः। न चैवमष्टकादिस्मृतिः। न हि अष्टकोपदेशे विशेषलाभो ऋत्विजाम्। न च स्मर्तृभ्रमो निर्बीजः। स्मर्तॄणां धर्मैकभावनान्नाशयदोषो बीजम्। न च स्मृतिविषये प्रमादाशक्ती बीजम्। कल्प्यं चेद्वरं अनुगुणो वेदः कल्प्यः। एतेन परापादितं निरस्तम् -
?R?0 रागद्वेषमदोन्मादप्रमादालस्यलुब्धताः ।
?R?0 क्वा नोत्प्रेक्षितुं शक्याः स्मृत्यप्रामाण्यहेतवः॥ (तं.वा.1-3-2)
?R उक्तदोषचतुष्कमेव वार्तिककृता प्रपञ्चितम् । उत्प्रेक्षितुं आरोपयितुं शक्या इति वदतैव निरस्तप्रायम्। न भङ्गतया निराकरणार्हम्। यदपिक्रत्वर्थाक्षिप्तानुरूपदक्षिणाश्रिततया प्रकारभेदनियमस्मरणं अनृत्विजे च दानस्मरणं तत् न ऋत्विग्लोभविषयमिति कल्प्यवेदमूलमेव। प्रत्यक्षवेदविहितपरोपकाराक्षिणाप्तदानाश्रयं सुवर्णशृङ्गिकाद्यनेकनियमस्मरणं न लोभमूलमिति कल्प्यवेदमूलमेव । नन्वत्र ऋत्विगप्यादेयवाक् स्वार्थदापनात् स्मर्तुर्भ्रान्तिकरः। तन्न। एवंभूतपुंसन्निधिः कल्प्यः । ऋत्विक् तु तत्र क्रतौ कलृप्त एवेति ऋत्विग्दानं दक्षिणाधिकं हेतुदर्शनमूलं युक्तम् ।
?R ?R?0 ॥ 4 ॥ शिष्टाकोपेऽविरुद्धमिति चेत् ॥ 6 ॥
?R स्मृतिमुखमप्रामाण्यमविरोधे विरोधे च प्रतिविहितम् । इहाविरोधादहानं स्मृतेरित्येवं स्मृत्यधिकरणनयस्य विषयव्याप्तये नयान्तरमुच्यते । अतः शास्त्रेऽध्याये गतानन्तरं च सङ्गतिः । नयान्तरव्युत्पत्तेः शास्त्रे स्मृत्यधिकरणविषयताव्युत्पत्तिः तच्चिन्तानिवेशात् तत्सङ्गतिरेवास्य अध्याये। विरोधे हानं पूर्वोक्तमिह शङ्कितमिति तदुत्तरता । तदभ्युच्चयहेतुदर्शनशक्तिनिष्कर्षोक्तिविश्रान्तये विरोधहाननये चिन्तेयमनन्तरं युक्ता ।
?R
?R पूर्वपक्षस्तु - मन्दधियां श्रुतवेदार्थक्रमकालविरुद्धक्षुताद्याचमनदक्षिणाचारादिस्मृतिराभाति । क्षुतादिनिमित्तेपि अन्तरा आचमने वेदं कृत्वा वेदिं करोतीति श्रौतोऽयं क्रमो बाध्येत। विततेरन्यत्वापत्तेः । तथा श्रुतवेदार्थप्रधानता अङ्गनां दक्षिणैककरेणानुष्ठाने प्राप्ते स्मार्ते विलम्बापत्तेर्बाध्येत । ननु गृहीतकृत्स्नश्रौतस्मार्तानुष्ठेयानुगुणक्रमकालग्रहविषयेयं चिन्तेति न क्रमकालयोः स्मार्तग्रहविपरीतता । तन्न । श्रौतानुष्ठेयमात्रानुगुणः श्रुत्यादिगम्यः क्रम इति पञ्चमे स्थितम् । प्रत्यक्षचोदनालक्षणानुज्ञानात् क्रमस्य स्मार्तानामनुमेयचोदनार्थतया जघन्यत्वात् न तद्गुणता क्रमस्येति फलतः पञ्चमे स्थितम्। अतश्च क्रमाविरोधी स्मार्तनिवेशः । एवं प्रत्यक्षचोदनालक्षणं अङ्गानां मुख्यकालत्वं विरोधिस्मार्तनिवेशनिरोधकं दक्षिणैककराचारे यज्ञोपवीते चलति च प्रयोगविलम्बापत्तेः मुख्यकालताहानिः ।
?R राद्धन्तस्तु - विलम्बिनोऽपि स्मार्तस्य कार्यत्वत् कार्ये च शब्देन तात्पर्यतः प्रमिते पश्चात् तदनुष्ठानानुगुणतया क्रमोऽपि शाब्द इति स्मार्तमपि कार्यं विलम्बितं प्रतीक्ष्य प्रत्यक्षशाब्दान्तर्गतक्रमग्रह इति स्मार्तनिवेशानुरोधी क्रमः इति । पञ्चमे तु यच्छ्रौतमात्रागुणत्वं फलत उक्तं तदेतन्नयाननुसन्धानादुक्तमिव फलतो भाति। कालोऽपि प्रचयः कार्याणां, ततः स्मार्तकार्यनिवेशात् पश्चात् तदनुरोधी ।
?R अत्र भाष्यम् - ‘?R अपि च प्राप्तानां पदार्थानामुत्तरकालं क्रम आपतति ‘?R इति पूर्वोक्तैव युक्तिः अन्तरा ’ ?Rअपि चे’?R ति कृत्वोक्तेति शङ्कामपनेतुं व्याख्यातम् । क्रमकालयोरपि कार्यत्वान्न कार्यगुणतया राद्धान्तसिद्धिरित्यपि च न
?Rविप्रतिपत्तव्यमित्यर्थः । अतो न पुनरुक्तिः । पौर्णमासीकालोऽपि विहितत्वात् कार्यरूप एव । नतु विधेयक्रियाप्रचितिः कालः तस्य द्वितीयादिष्वपि तुल्यत्वात् न पौर्णमासीत्वम् । न चैतदतिरिक्तोऽत्रान्वयी कालः विधेयप्रचयात्मा लौकिकः । तथा क्रमोऽपि क्त्वाश्रुतिविहितोऽध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयतीति (न) कार्य एव न कार्यगुणः । अत्रोत्तरं - अपि च प्राप्तानां पदार्थानामुत्तरकालः क्रमः प्रवर्तत इति भाष्यमेवमाह ।
?R
?R प्राप्तायां दीक्षायां कर्तृनियमार्थं वाक्यं, न क्रमनियमार्थम् क्रमादरः कथञ्चित् क्त्वाश्रुतिबोधितः कार्यानुष्ठानानुगुणतया पश्चादापतित इति स्वावसरे पञ्चमे वक्ष्यामः। कालोऽपि प्रचयो विधेयक्रियाणां तदुत्तरकालमापततीति न साक्षाद्विधेयः। पौर्णमास्यपि प्रचितिकाल एव । न हि काल एको विभुर्नित्यः, पौर्णमासीद्वितीयादिष्वपि नित्यस्याविशेषात् । किन्तु ग्रहक्रियान्तरप्रचितिरेव। संयोगजा प्रतिपदादिः पौर्णमास्यन्ता । विभागजा प्रतिपदादिरेवामावास्यान्तेति नित्यकालोपहित प्रचितिभेदे प्रतिपदादिप्रयोगात् प्रचितिवाचिता। प्रगीतमन्त्रे सामशब्दप्रयोगात् गीतिवाचित्ववत् । एवं विधेयप्रचितिरपि कालः। तस्यां प्रधानप्रचितौ सत्यामङ्गानीति प्रधानकालता । एवं कालोपाधेः प्रचितौ कालशब्दः । एवं च कार्या पौर्णमासी दक्षिणाचारेप्यविरुद्धा । प्रधानकालता तु न कार्या । कार्यानुगुण एव तु भवति । सर्वस्यास्य स्मार्तस्य कर्तृसंस्कारकस्य प्रयोगाङ्गतया प्रतिप्रयोज्यमङ्गतेति न स्वाङ्गस्य व्यवधायकत्वमिति न क्रमकालविरोधिता । स्वाङ्गवत एव क्रमादरादिति अधिकरणाधिकं सौहार्दमात्रम् । एवं च तार्तीयक्रमे साक्षाद्विहितकालविरोधे च स्मृत्यधिकरणविषयव्याप्तिरनेन न कृतेति व्यक्तम् ।
?R?0 ॥ 5॥ तेष्वदर्शनाद्विरोधस्य समाविप्रतिपत्तिः स्यात् ॥ 7 ॥
?R यत्र न श्रुतिः न च स्मृतिः किन्तु विरोधात् पदार्थानध्यवसानं तत्र तर्ह्यप्रामाण्यं वेदस्यायातीति शङ्गतिद्वयं पूर्वपक्षबीजं च । यथा केषांचित् व्यवहारतो दीर्घशूको यवशब्दार्थोऽवसीयते । केषांचित् प्रियङ्गुः। एकस्य शब्दार्थत्वेऽन्यस्य च गौणत्वसम्भवान्नानेकार्थता । न च विशेषावधारणे हेतुरप्यस्तीत्यभिधानस्यानध्यवसायादप्रामाण्यं वेदस्येति । ननु विशेषानवगमाद्वरमुभयार्थता नत्वनवगतिर्युक्ता । मैवम् । सदृशयोरन्यतरत्र गौणता न्याय्येति नोभयत्र शक्तिर्युक्तेति अनवगतिरेव न्याय्या । ननु वाक्यशेषाद्विशेषाध्यवसानं युक्तम् । मैवम् । न वाक्यशेषः शक्तिं कल्पयति गौणतयापि वाक्यशेषोपपत्तेः । अतो नाध्यवसायः।
?R ननु वाक्यशेषान्वयानुगुणार्थपरता शब्दस्य गौणपक्षेऽपीति पदशक्त्यनवधारणेऽपि पदतात्पर्यावधारणात् वाक्यार्थधीर्युक्ता । मैवम् । शक्त्यनवधारणे हि गौणमुख्ययोरुद्भूतत्वात् कतरार्थपरता । विध्युद्देशपरतन्त्रार्थवाक्यशेषानुगुण्येनावधार्यतामित्यनध्यवसायः । न च वेदविरोधात् सर्ववेष्टनस्मृतिवत् प्रियङ्गुव्यवहारबाधादध्यवसायः। चरोः प्रियङ्गुभिरपि सम्भवात्।
?R ननु चोपानहौ वायसचर्मणा न प्रसरतः न तर्हि सूकरचर्मणापि । यदि कथञ्चित् सम्भावना सा वायसचर्मणापीति न वेदविरोध इति पूर्वः पक्षः ।
?R राद्धान्तस्तु - वाक्यशेषरूपवेदविरोधो वायसादिरूपविषयव्यवहारा दर्थावगमस्य। वाक्यशेषाद्धि गोसदृशता व्यवहारस्य । न च वायसे गोसदृशताधीः। सूकरे तु बहुतरावयवसामान्ययोगात् सदृशताधीः, गवयवत् सुसदृशताभावेऽपि। अतो वाक्यशेषात् सूकरव्यवहारो बलीयान् वायसव्यवहारात् । अतः सूकरवचनताध्यवसायः। तथावाक्यशेषात् दीर्घशूकावगमो वार्तिककृता प्रपञ्चितः ।
?Rतदुक्तम्।
?R?0 फाल्गुने ह्योषधीनां तु जायते पत्रशातनम् ।
?R?0 मोदमानास्तु तिष्ठन्ति यवाः कणिशशालिनः ॥
?R?0 यदा वर्षासु मोदन्ते सम्यग्जाताः प्रियङ्गवः ।
?R?0 तदानान्योषधिग्लानिः सर्वासामेव मोदनात् ॥
?R?0 प्रियङ्गवश्शरत्पक्वाः तावद्गच्छन्ति संक्षयम् ॥ इति ।
?R ननु वाक्यशेषान्न शक्तिकल्पनेत्युक्तम् । तन्न । वाक्यशेषानुगुणस्तावदर्थः शब्देन बोध्यः । स च तदा यदि तत्तुल्यवदपरपदार्थोत्थानं मुख्यगौणानध्यवसायद्वारेण बोध्यान्तरमेव न विहन्ति इत्यर्थवादानुगुणमेव बोध्यं तुल्यवद्व्यवहारः बोध्यान्तरं वारयतीति वाक्यशेषानुगुणव्यवहारविषय एव बोध्यत इति तत्रैव शक्तिः । व्यवहारान्तरं तु अतुल्यतया गौणमेव युक्तम् ।
?R यत्तूच्यते यद्वाच्यं शब्दस्य तत्रानादिता । सा अनादिता च वैदिकप्रयोगस्यावधृतेति वाक्यशेषाद्वाच्यावधारणम् । तन्न । वैदिकस्यानादित्वनिश्चयेऽपि गौणस्याप्यनादेर्वेदे । दर्शनात् न वाक्यशेषाद्वाच्यनिर्णयः । अनादिता च वृद्धव्यवहारपरम्परया वायसादावप्यवधृता । गौणता हि तत्रेष्यते न त्वादिमत्ता गाव्यादिवत् । अत्र परोक्तभङ्गोपन्यासो गुरोः । प्रथमं तावत् (ननु) सन्दिग्धे वाक्यशेषादित्युद्धृतमिदमप्रामाण्यं इति । चरमं तु तदेवेदमापतितं वाक्यशेषाद्वाच्यनिर्णय इति । तेनात्रायं विचारो न युक्त एवेत्युक्तम् ।
?R नन्वस्मिन् सति स व्यर्थः स्यात् । तन्न । तत्र हि सूत्रं व्यक्तमस्य न्यायस्येति तत्कर्तव्यमित्येतस्यैव व्यर्थंता । अथवा तद्वा इदं वा व्यर्थमिति भङ्गार्थः । ननु प्रयोगेदंपरत्वसन्देहे तत्र निर्णयः । स च वाक्यशेषैकवाक्यतया युक्त एव। अभिधाने त्वयं सन्देहः । तन्निर्णयस्तु वाक्यशेषानन्वितेऽपि प्रयोगे वाच्य इति न
?Rवाक्यशेषस्य निर्णयहेतुता सिद्धा । मैवम् । अभिधानस्वभावात् सर्वविषयता, वाक्यशेषस्य तु अभिधेयनिर्णायकतैव । सा च सिद्धैवेति व्यर्थतैव । ननु विपर्ययोऽत्र निराक्रियत इत्युक्तम् । मैवम् । अभिधानसन्देहोऽयमिति पूर्वोक्तेन विरोधात् । न च व्यवहारद्वयदर्शनाद्विपर्ययः किन्तु सन्देह एव। तन्निरसनं तु वाक्यशेषाद्वक्ष्यत एव । तदाह भङ्गवादी -
?R?0 सन्दिग्धेषु तु सर्वेषु वाक्यशेषेण निर्णयम् ।
?R?0 वक्ष्यत्येव न तेनात्र पृथक्कार्या विचारणा ॥
?R अत्र समाधिः । अभिधानसन्देहे विपर्ययोऽत्र निराक्रियत इति । इदमत्राभिप्रेतम् । न वाक्यशेषः साक्षात् सूकरविषय इति न तत एव सूकरनिर्णयः । किन्तु गोसदृशतामाह । सा च गवयादेरपीति न सूकरनिर्णयः। किन्तु सूकरे योऽयं वराहव्यवहारः तदनुगुणो वाक्यशेष इति ततः सूकरव्यवहारबलवत्ता । तया तु तद्विपर्ययव्यवहारो बाध्यते । तद्द्वारेण च सन्देहापगम इति सूक्तमभिधानसन्देहे विपर्ययोऽत्र निराक्रियते वाक्यशेषादिति । न चानेन प्रकारेण वाक्यशेषान्निर्णयो वक्ष्यत इत्यर्थवानेवायं विचार इति । एवं च विपर्ययव्यवहारनिराकरणद्वारा सन्देहापाकरणात् सन्देहे विपर्ययनिराकरणमुक्तम् । न हि वाक्यशेषात् साक्षाच्छक्तिकल्पनेत्युक्तम् । किन्तु तुल्यवद्व्यवहारात् अर्थान्तरवाचकतारूपविपर्ययनिवृत्तिद्वारेणेति दर्शयितुमिदमुक्तम् ।
?R यत्त्वपरं भङ्गे निमित्तमुक्तं व्यवहारविप्रतिपत्त्युदाहरणत्वं यववराहवेतसानां नास्तीति तत्र चिन्तेयं न युक्ता किन्तु पील्वादौ युक्ता चिन्तेति। तदुक्तम् -
?R ?R?0नैवोच्यन्ते क्वचिद्देशे यवश्रुत्या प्रियङ्गवः ।
?R?0 जम्बूं न वेतसं प्राहुर्वराहं नैव वायसम् ॥
?R?0 अध्यारोप्य विचारेण किं मुधा खिद्यते मनः ।
?R?0 तस्मात्पील्वादिशब्दानां वृक्षहस्त्यादिबोधने ॥
?R?0 समाविप्रतिपत्तिः स्यात् आर्यम्लेच्छप्रयोगतः ॥ इति ।
?R तदिदं निराकरणानर्हमिति गुरुणाऽवधीरितम् । न्यायनिष्ठत्वाद्विचारस्याध्यारोप्य विचारो न दोष इति तत्र तत्रोक्तम् । सर्वथा निर्विषयता तु पील्वाद्युपन्यासात् स्वयमेव परिहृता । किञ्च योग्यानुपलम्भस्य सर्वत्रदुष्करत्वात् नैवोच्यत इति दुर्वचं वचः । विवरणे तु उदाहरणदोषपरिहारार्थमेव सामान्येनोक्तं यत्र निमित्तविप्रतिपत्तिरित्यादिना ।
?R ननूभयाभिधानं युक्तं पील्वादिवत् पील्वादौ हि असदृशतया न गौणमुख्यता । किन्तु उभयाभिधायकमेव। तथाऽत्रापि भवत्विति । मैवम् । तथापि यत्र वेदे प्रकरणवाक्यशेषाद्यभावः तत्र विशेषानवगतेरनध्यवसाय एव ।
?R राद्धान्तस्तु कथञ्चित् सदृशतया गौणमुख्यतानुसन्धानेन अन्यगतवाक्यशेषादपि मुख्यनिर्णये जाते मुख्यस्यैव वाक्यान्तरेऽप्यवगतिर्युक्तेति प्रकारान्तरात् चिन्तान्तरं युक्तमिति । चरावेवायं वाक्यशेषो न करम्भपात्र इति तु न्यायनिष्ठतया न दूषणम् । एवं च न यूपादिवत् वेदादेव शब्दार्थावधारणं किन्तु वेदोपबृंहितादार्यव्यवहारात् ।
?R
?R ।?R?0। 6॥ चोदितं तु प्रतीयेताविरोधात् प्रमाणेन ॥ 10॥
?R यद्यनार्यव्यवहारो गौणस्तर्हि तन्मात्रप्रसिद्धपिकाद्यर्थानध्यवसायात् तद्वती चोदना न प्रमाणमिति सङ्गतिद्वयं पूर्वपक्षबीजं च । न च निगमनिरुक्तव्याकरणबलादर्थोहनं जर्फर्यादिवद्युक्तम् । आदेयप्रयोगेदंपरत्वे हि विनियोगादिवशात् स्थिते मन्त्रार्थवादानां तद्गतपदभेदस्य वृद्धप्रयोगप्रसिद्धार्थस्य
?Rप्रकृतिप्रत्ययविभागोहनादर्थधीरित्युपयोगो निगमादेः । विध्युद्देशे तु पदार्थधीत एव प्रयोगेदंपरतेति न निगमादिना ऊहः ।
?R भाष्ये तु धातुतोऽर्थः कल्पयितव्यः स च न शक्यः काल्पनिक एवेति शेषः । ननु वेदविरुद्धानार्यव्यवहारो नादेयः । पिकादिविषयस्तु न तथा । अथ सामान्यतोदृष्टं पिकादावनार्यव्यवहारो नार्थनिश्चायकः अनार्यव्यवहारत्वात् यवादिविषयवदिति। तन्न। विशेषविरोधात् । पिकादिव्यवहारादर्थधीदर्शनात्। अनार्यव्यवहारादपि राजार्थानुज्ञानादनैकान्त्याच्च । मैवम् । राज्ञः कर्म भावो वा राज्यमित्येवमर्थपरपाणिनिस्मृतिमूलतयाऽनुज्ञानात् । अर्थधीश्च यवादावपीत्य नैकान्त्यात् ।
?R राद्धान्तस्तु यवादावर्थधीरिव बाधाभावात्। अतस्सामान्यतोदृष्टबाधादनार्यव्यवहारादेव पिकाद्यर्थाध्यवसायात् पिकमालभेतेत्यादि प्रमाणम् । अतोऽनार्यव्यवहारमूलैव पिकः कोकिल इत्याद्यभिधानकोशस्मृतिः ।
?R विवरणे तु अनार्याणां अवेदव्यवहारितया शब्दार्थानादरात् अपभ्रंशादपि व्यवहारोपपत्तेः निगमादिवशात् प्रसिद्धार्थप्रकृतिप्रत्ययवर्णबाहुल्यात् पिकाद्यर्थधीरिति पूर्वः पक्षः । प्रसङ्गात् सङ्गतिः । राद्धान्तस्तु निगमादिस्मृतिरपि प्रयोगमूलतया दृष्टमनार्यप्रयोगमप्यनुवर्तते । यत्रार्यैः अनार्यैर्वा न सर्वैः क्वचित् केनचित् कदाचिददृष्टः तत्र निगमादिस्मृतेरर्थवत्ता । न तु स्पष्टदृष्टेऽपि पिकादौ। अवेदार्थव्यवहारित्वात् शब्दार्थानादरेपि व्यवहारान्तरान्मुख्यान्तरादर्शने अपभ्रंशमूलादर्शने च शब्दार्थव्यवहारिता अस्मिन् विषये सिद्धा ।
?R ?R?0 ॥ 7॥ प्रयोगशास्त्रमिति चेत् ॥ 17॥
?R विरोधाकरणविषयव्याप्तिरिहेति न पृथक् सङ्गतिः । विरोधनयस्य सप्रतिपक्षस्य विरामानन्तरं तन्नयव्याप्तिरित्यवान्तरसङ्गतिः । तथाहि - शिष्टाकोपे स्मृत्यधिकरणविषयव्याप्त्यनन्तरं वाक्यशेषविरोधे बाधः तद्व्यतिरेकादबाधः एव विरोधनये स्थिते तद्व्याप्तये नयान्तरमिदम् ।
?R पूर्वपक्षस्तु वेदवाक्यान्येव नानाशाखाप्रकरणानि अनारभ्यवादविप्रकीर्णानि कल्पसूत्रकारैरनुक्रमेण संहत्यपठितानि इति वेदवाक्यत्वात् अनपेक्षिता । पुरुषाधीनरचनतया पौरुषेयता । स्वरविध्यर्थवादहीनं पठितं वेदवाक्यमेवेति प्रत्यभिज्ञा । वर्णादिविकारेऽपि शाखान्तरपाठे यथा स एवायं वेद इति, यथा च महावाक्ये वेदस्यैकदेशमभ्यस्यन् ’ ?Rवेदमधीते ’ ?Rइत्युच्यते, यथा वा आर्षपदबाधात् पदान्तरोहे स एवायं मन्त्र इति । वेदोऽप्याह - आचार्यवचः प्रमाणमिति । अनपेक्षता वेदत्वादेवोक्ता । धीद्वयबलादिह पौरुषेयता अनपेक्षता च। माशकादिसमाख्याप्रवचनादपि तत्कर्तृत्वस्मृतेः तत्कृतिता दुर्वारा । यतः सूत्राणां वेदता एवं साध्यते अतः सिद्धवेदोक्ततिथिनियमविधिः पूर्वं, पश्चात्तु सूत्रोक्ततिथ्यनियम इति।
अतुल्यविरोधादन्योन्यव्याघाते प्राप्ते सूत्राणामवेदत्वात् विरोधाधिकरणीय एव राद्धान्तः । यद्यपि वेदैकदेशप्रत्यभिज्ञा तथापि पुरुषैः वेदादवगतोऽर्थः स्ववचनेनोक्तः । इयमेव हि वाक्यस्य कृतिः यो यथाप्रयुक्तवाक्याननुगत्या स्वेच्छया पदवाक्यप्रयुक्तिः । वर्णपदानुपूर्व्योस्तु वेदेऽपि पुरुषोच्चारणाधीनत्वाविशेषात् । अभ्यासार्थं वेदैकदेशपाठे बाधोहविषये च न पुरुषेच्छाधीनो वेदस्यान्यथाप्रयोग इति न तत्कृतिरिति । सूत्राणि तु निरन्तरं शीघ्रं च स्मारकाणि प्रयोगग्रथनपराणि स्वेच्छया कृतानीति वेदवाक्येभ्यः प्रमितिपरेभ्यः अन्यान्यार्थान्येव कृतानीति न वेदभूतानि । न च वेदोऽपि सिद्धरूपं वेदत्वं वक्तुमर्हतीति कार्यानुगुणतया यथार्हमुन्नेयः । वेदो वा आचार्यः, सत्यं वा प्रमाणं यत्सत्यं तदेवोक्तम् आदेयं वा
?Rप्रमाणं उपनेत्राचार्यादेर्वचः;?R गुरोर्वचनमौषधमितिवत् । मशकाद्याचार्यवचोविषयत्वे चानित्यसंयोगापत्तिः । अत एव हि कल्पसूत्रं - कल्पना हि रचना मणेरिव हारतया प्रयोगार्था रचनेति प्रयोगशास्त्रम् । अध्ययनधर्मादरस्तु वेदमिश्रिततया । प्रयोजनोक्तैव गुरुणा सङ्गतिः स्फोरिता ।
?R?0 ॥ 8॥ अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात्॥ 25॥
?R अत्र सूत्रभाष्योक्तचिन्ता विषयशुद्ध्यर्था । अर्थप्रकरणादिगम्या मूलचिन्ता
?R आचारादपि । शिष्यव्युत्पत्त्यर्थेयं विधा । यच्छाखागृह्यस्मृत्याचारादिगतं किञ्चित् होलाकादि अभिमानमात्रात् केषाञ्चिदित्येवं कैश्चिदेवानुष्ठीयते तत्तेषामेव उतान्येषामपीति विषयशुद्ध्यर्था चिन्ता । आचारादपि महाजनादृतात् विरोधहेतुदर्शनहीनात् स्मृत्यधिकरणनयात् वेदानुमा । गृह्यतोऽपि तन्नयादेव वेदानुमा । शाखा तु वेद एव । कल्पसूत्राणामपि स्मृतितुल्यतास्थापनानन्तरं एतत्सर्वगतचिन्तेयं अवान्तरसङ्गता । मूलचिन्ता तु साक्षात्सङ्गतेति वक्ष्यते ।
?R
?R विषयशुद्धिचिन्तापूर्वपक्षस्तु यत्प्राच्यैरेव क्रियते तत्तेषामेव प्राच्याख्यालिङ्गितत्वान्मूलस्य । शाखागतेऽश्रुतेऽपि कर्मणि प्राच्यैरिदं कर्तव्यमित्यनुमा। गृह्यादौ कर्मेदं प्राच्यैः क्रियतामित्यनुमा ।
?R राद्धान्तस्तु न यद्यैः क्रियते तत्तेषामेव । न हि तदाख्या कारणम्, आख्या हि ’ ?Rतत्र जातः ‘?R ‘?Rतत्र वसति’ ‘?Rतत आगतः’?R इत्येवम् । एतत्त्रियहानेपि प्राच्यसुतः पित्र्यमेवाचारमनुवर्तते, न तु यत्र जातः स्थितः आगतो वा तदाचारम् । न च यथापुंसंस्थानादि आचार इति सर्वेषां तत्कर्मेति स्थिते मूलचिन्ता -
?R पूर्वपक्षः - प्राच्याभिमानालिङ्गिताचारमूलवेदानुमानमयुक्तं,
?Rअवधृतभ्रममूलप्राच्यत्वांशे वेदमूलकल्पनानुपपत्तेः होलाकादिमात्रे च मूलतया कल्प्यमानस्यायथार्थत्वात् । यथाकार्यं हि वैदिकं मानं कारणतया कल्प्यम् । इह तु भ्रममूलप्राच्यत्वांशवतः कार्यस्य कल्पितप्राच्यत्वांशे न मानं, अतो न यद्रूपकार्यपरं मानं उपस्थितं तद्रूपे न मानतामर्हतीति अप्रमाणमनुमितचोदना । तत्तुल्यतया च सर्वासामप्रामाण्यमित्येवं सङ्गतिरपि । न त्वेवं सङ्गतिपूर्वपक्षौ - प्राच्यादिपदवत्येव चोदना यथाभिमानतातु अर्थानुमेया । अतः अनवस्थितार्थ प्राच्यादिपदवती चोदना न प्रमाणमिति । एवं हि केवलहोलाकादिबोधिका चोदना न प्रमाणमिति। एवं हि केवलहोलाकादिबोधिका चोदना न प्रमाणम् अयथार्थतयेति ग्रन्थो हेयः । न च भ्रममूलांशो वेदमूलतामर्हतीति पूर्वोक्तैव विधा ।
?R राद्धान्तस्तु यद्यपि प्राच्याद्यभिमानालिङ्गितं कार्यं, कारणं तु वैदिकं मानं यावत्यंशे योग्यता तावत्येव । यथा दृष्टार्थेषु नियमांशे वेदमूलतेति नानुमेयो वेदो यत्परस्तत्राप्रमाणम् । ननु अनवस्थितार्थप्राच्याभिमानपदवद्वेदानुमा माभूत् अवस्थितार्थप्राच्याभिमानपदवद्वेदानुमास्तु । नेदं शङ्कार्हम् । न हि प्राच्यताभिमानवद्भिः कार्यमित्येवमपि यथावस्थितकार्यानुगुणता । न हि येऽनुतिष्ठन्ति ते भ्रमवत्तां स्वीयां मन्यन्ते । अतो नानुष्ठात्रनुगुणता । न च प्राच्यताधीमद्भिः कार्यमित्येवमनुगुणता, सत्यधीर्हि निरस्ता । भ्रमधीस्तु नानुगुणेत्युक्तम् । न त्वेवं प्राच्याभिमानवद्भिरित्येवमननुमा, प्राच्यत्वानवस्थया अनवस्थितेरिति । न हि यावदनुष्ठात्रनुगता अभिमानितानवस्थितिरिति शक्यं वक्तुम् ।
?R विवरणे तु अनुमेयवेदमूलेष्वाचारेषु विशेषचिन्ता । प्रसङ्गत् सङ्गतिः। पूर्वपक्षस्तु यत्र पुंसि कार्यं तत्र कारणानुमा;?R यथा यत्र धूमस्तत्राग्न्यनुमा । अन्यथा सर्वे होलाकादिविषयापूर्वज्ञानवन्तः केषाञ्चिद्धोलाकाचारवत्त्वादित्येवं साधने लिङ्गलिङ्गिनोरेकैकदेशता न स्यात् ।
?R राद्धान्तस्तु होलाकादेरेव कार्यता लिङ्गं वैदिकमानकारणवत्ता गम्या । होलाकादेरेव गम्येत्येकैकदेशता । धूमस्यापि यदि कार्यता लिङ्गं तदा अग्निकारणता गम्या । धूमवत्त्वे तु लिङ्गे अग्निमत्त्वं गम्यम् । नन्विह कर्म एकदेशि न कर्तेति कुतः ??R। उच्यते । यावतोंशस्य दृष्टमूलतार्हता न तावतो मूलं वेदः कल्प्यः । इह यन्नाचरन्ति केचित् न तत् वेदमूलकं दृष्टम् । दुःखं कर्मेत्यकरणं दृष्टमूलम् । साक्षाच्छ्रुतेऽपि सर्वेषां कर्मणि दुःखत्वात् बहूनामकरणम्। अतो होलाकादिकार्यं मानकारणकमित्येवं अनुमा । शिखाकर्म तु किञ्चित् कस्यचिद्वेदमूलमेव । न हि तत्र कस्यचिदकरणं यत् तद्दुःखमूलम् । अतो नियमोऽसौ वैदिक एवेत्युक्तम्। तदनुरूपं च लिङ्गलिङ्गित्वं, गोत्रचिन्हे प्राप्ते तदाश्रितो नियमो विभागत एव । नेह होलाकादिप्राच्योदीच्यचिन्हे प्राप्ते नियमार्ह अतस्सर्वेषाम् ।
?R
?R यत्तु स्मृत्यादिनिबद्धवर्णाश्रमादिविभागेन न तत्र अकरणं दुःखमूलमिति विभागेनैव वेदानुमा । अत्र व्यवस्थिताचारमात्रविषयोऽयं विवरणीयो व्युत्पादः । अनुष्ठातृमात्रगतं न क्वचिदेकमस्तीत्यभ्युच्चयः । यथैकं नास्ति तथोक्तं शुक्लो होतेति शुक्लवेषता कार्यविषयतयैव व्यवस्थिता । अथ माभूदेकं किञ्चित् अनेकपदवद्वेदानुमास्तु । तन्न । प्राच्याख्यः तत्सुतश्चेत्येवमपि नानुष्ठातृसङ्ग्रहः। तत्सुतोऽपि देशान्तरीयतानुरागात् तदनभिमानी सन् तन्नानुतिष्ठति । न चाभिमानाद्व्यवस्याति पूर्वमेवोक्तम् ।
?R
?R ?R?0 ॥ 9॥ प्रयोगोत्पत्त्यशास्त्रत्वात् शब्देषु न व्यवस्था स्यात् ॥24॥
?R धर्मस्मृत्यादिमुखमप्रामाण्यमन्तरङ्गं निरस्य पदपदार्थस्मृतिनिर्मूलतोत्थं वार्यत इति सङ्गतिद्वयम् । निर्मूलत्वे हि वैदिकाश्वादिपदात् न हयाद्यध्यवसायः अश्वशब्दस्य
?Rहये निस्स्वे च प्रयोगात् । उपपदप्रकरणाद्यसम्भवेऽश्वशब्दार्थसन्देहः स्यात् । ननु स्मृतिसङ्गृहीतानेकार्थानां प्रकरणाद्यध्यवसायकरं इहैव तदभाव इति स्वहस्तरचितम् । मैवम् । निर्मलत्वे हि स्मृतेः प्रकरणादिगतोऽपि शब्दोऽनध्यवसितार्थ एव । प्रयोगमात्रस्य क्वचित् कदाचित् कस्यचित् सम्भवात् । समूलस्मृतिनिबन्धनानेकार्थता तु कतिपयपदवर्तिंनीति प्रकरणादिसम्भवः । न तु सदपि प्रकरणादि अपभ्रंशशङ्कापनयनाशक्तत्वात् न हयाद्यध्यवसायकरमिति । यतः अपभ्रंशशङ्कापि प्रकरणादिना हयादेः वेदार्थत्वेऽनादिप्रयोगनिवेशादपैति वाक्यशेषसादृश्याद्यभावे च शास्त्रस्थन्याय इति न निःस्वे गवि च गौणता ।
?R पूर्वपक्षस्तु - शाब्दस्मृतिपरम्परेयं अनादिप्रयोगपरम्परानिरबन्धनरूपा। अनादिवेदगतपदपदार्थनियमार्था । वृद्धव्यवहारपरम्परा च असति च सङ्केतादिदर्शने प्रयोगानादितागमिकेत्युक्तं सम्बन्धपरिहारे । अतो हये निस्स्वे च तुल्या अनादितेति न हय एवानादितास्मृतिनियमाप्रयोगमूलः ।
?R किञ्च स्मृतिरेव न नियतार्था, स्मृतिर्हि धातोः परे प्रत्यया भवन्तीति भूवादयो धातव इति च ग्रन्थे भ्वादित्वात् गडेः गण्डतीति साधुत्वं स्यात् । घटं भूयत इति दुस्तरं च स्यात् । भवतीति भूरिति क्विपि कृते क्विबन्ता धातुत्वं न जहतीति " ?Rधात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते " ?Rइति भावे लकारे आत्मनेपदे यकि कृते भूयत इति घटस्य धात्वर्थीभूतभवितृविशेषणत्वात् । क्रियाविशेषणानां कर्मत्वं नपुंसकत्वं चेति । एवं घटमिति च भूवादित्वात् सत्तादीनां तृतीयाध्यायोक्तप्रत्ययः स्यात् । अनार्षः सत्तादीनां गणपाठः स्यात् इत्यत्रापि न मानम् । अस्तु वा अनार्षत्वं सत्तादेः गण्डति घटं भूयत इति दुस्तरम् । अथ क्रियावचनो धातुरिति गण्डिः वदनैकदेशवाची न धातुः, भवतीति भूरिति च कर्तृवाची न क्रियावाची, सत्तादि च न क्रियेति तर्हि भवति तिष्ठतीत्यसाधुः स्यात् । गडेश्च गणे पाठो व्यर्थः
?R। अक्रियार्थत्वात् । अक्रियापि क्रियावत् स्वीकार्येति नास्ति स्मृतिः, प्रयोगतश्चेत् स एव शरणम् । भ्रान्त्या क्रियावगतिरपि निरस्ता विपरीतख्यात्यभावात् । अथ पाठक्रियावचनाम्यां धातुतेति गण्डेर्व्युदासे भवत्यादेरपि स्यात् । एकैकं धातुताहेतुः यदि ततो भवत्यादेरपि धातुता । यदि न तदा गडेरपि स्यात् इति स्थूलमुपेक्ष्यैव पचत्यादेः पाठानर्थक्यमुक्तम् क्रियावाचित्वादेव धातुतासिद्धेः । अथ पठितस्यैव क्रियावाचितेति पचत्यादेः पाठानर्थक्यमुक्तम् क्रियावाचित्वादेव धातुतासिद्धेः । अथ पठितस्यैव क्रियावाचितेति पचत्यादेः पाठः तेन आणवयत्यादेरधातुतेति तर्हि मिलितादेव धातुतेति स एव भवत्यादिषु प्रसङ्गः इति प्रयोगत एव नियमो वाच्यः। ततश्चेत्सर्वः साधुः । तथाकारकनियमासिद्धिः - प्रथमं ’ ?Rध्रुवमपायेऽपादानं इत्यपादानकारकं स्मृतम्। ध्रुवं च निष्क्रियं इत्यकारकम् । निष्क्रियस्य च कारकत्वेऽतिप्रसङ्गः । न हि श्थत् पतित इत्यत्र रथस्य पातक्रियायोगः यत्र ध्रुवता । गतियोगे तु क्रतृता ।
?Rकर्मणा यमभिप्रैति तत्कारकं सम्प्रदानं स्मृतम् यः कश्चित् कर्ता स्वक्रियया स्वसम्बन्धी क्रियते स न कारकम् । कर्तृक्रियाननुनिष्पादात् । यमिति निर्देशात् स्वर्गवत् फलं तत् न कारकम् । कर्मणेति च सिद्धावगतेः । अथ कर्मणा कारकेणेति व्याख्यायते तर्हि सुतरामकारकता क्रियायोगाभावात्। क्रिययेति पक्षे हि क्रियायोगो विपरीतोऽप्यस्ति । अनन्तरपक्षे तु कारकयोगः स्यात् न क्रियायोगः। परम्परयापि यदि क्रियायोगः तर्हि सर्वस्य स इति किञ्चित्कारकं किञ्चिन्नेति विभागो न स्यात् क्रियायोगसामान्येनाभिमते सर्वत्र षष्ठी स्यात् । स्वर्गोऽपि यजतिकारकं स्यात् । प्रयाजादेश्च दर्शपूर्णमासे कारकता स्यात् । प्रयोगाश्रयणं तु निरस्तम् ।
?R
?R साधकतमं करणमिति करणं स्मृतम् । यदि यद्व्यापारानन्तरं क्रियासिद्धिः तत् तमपा उक्तं प्राप्तं तर्हि तण्डुलैरोदनमिति । यदि व्यापारप्राचुर्यं तमबर्थः कस्य न
?Rस्यादिदमाफलसिद्धेः ।
?R
?R आधारोऽधिकरणं इत्यधिकरणं स्मृतम् यदि यत्र क्रियते क्रियेति तर्हि तत्र कारकमात्रमधिकरणं स्यात्, क्रियासमवायात्, अथ कर्म यत्र आधीयते तर्हि समे पचतीति न स्यात् पाक्यस्य न समे स्थितिः किन्त्वप्सु इति अप्सु पचतीति स्यात् । कटे स्थितो भुङ्क्ते इति न स्यात्। भोक्तुर्हि तदधिकरणम् । यदि सर्वकारकस्थितिर्यत्र तर्हि स्थाल्यां पचतीति न स्यात्, तस्यां सर्वास्थितेः । अधिकरणं चाकारकं स्यात्। स्वस्मिन् स्वस्यास्थितेः । निष्क्रियस्य च कालादेरधिकरणता न स्यात् ।
?R
?R कर्तुरीप्सिततमं कर्मेति यदि क्रियासिद्ध्यर्थमीप्सिततमं (त्वं)
तर्हि सर्वस्य स्यात् । अथावाप्त्यर्था क्रियेति न तर्हि कारकं क्रियाफलत्वात् ।
?R तथा युक्तं चानीप्सितं इति चायुक्तम् । तथा युक्तं तमबर्थयुक्तमित्येवमीप्सिततममेवोक्तं तदनीप्सितमित्यनन्वयः । अकथितं कारकं कर्मेत्युक्ते किं तदकथितमिति न ज्ञायते ।
?R स्वतन्त्रः कर्तेति यदि स्वातन्त्र्यमिच्छातः प्रवृत्तिः तर्हि जायते म्रियते कूलं पतति इति कर्तृता न स्यात् । इच्छाया अभावात् । इच्छाकर्तृता च पिपतिषतीति सुदूरम् । अथ यदधीनः कारकान्तरव्यापारः स्वतन्त्रः इति तर्हि
अन्योन्याधीनव्यापारं कारकचक्रं सर्वमेव कर्तृ स्यात् । अथ यस्य धातुनोच्यते व्यापारः स कर्ता इति तथापि सर्व एव तथेति । अत एव काष्ठानि पचन्तीति प्रयोगः । अथ विवक्षया कर्तृता विवक्षानियमे हेत्वभावात् न कर्तृत्वव्यवस्थितिः।
?Rतथा प्रयोज्यास्थितेः तत्प्रयोजकास्थितिः । तथा अर्थोपपदक्रियोपाधयस्तु मिथः कारकनियामकाः । तथा अर्थोऽर्थान्तरसहितो नियामकः स्मृतः । अन्तर्धौ येनादर्शनमिच्छतीति व्यवधानार्थसहितोऽर्थः अदर्शनप्रितियोग्यपादानमित्युपाध्यायादन्तर्धत्ते, तथा उपपदसहितोऽर्थः नियामकः । क्रुधद्रुहोरुपसृष्टयोः कर्मेति यं प्रति कोप इति अनुवृत्तोऽर्थ उपसृष्टोपपदसहितः कर्मत्वहेतुः देवदत्तमभिक्रुध्यतीति क्रियासहितोऽर्थो नियामकः।
?R भीत्रार्थानां भयहेतुरिति । भीत्रार्थक्रियासहितो यो भयहेतुः अर्थोऽपादानता हेतुरिति वृश्चिकेभ्यो बिभेतीति । उपवदमर्थसहितमित्यस्यापि क्रुधद्रुहोरुपसृष्टयोरित्येतदेवोदाहरणं, क्रियासहितमित्यस्यापि । इदमेव क्रुधद्रुहक्रियासहितोपसर्गसहितोपपदमत्रास्ति । उपाधिरर्थनिसन्निहितेत्यत्र आख्यातोपयोगे इत्युदाहरणम् । नियमपूर्वकविद्याग्रहणोपाधिराख्यात्रर्थसहित आख्यातुरपादानताहेतुः उपाध्यायादधीत इति । प्रीयमाणोपाधिरपि रुच्यर्थक्रियासहितः सम्प्रदानताहेतुः । उपाधिरुपपदसहितः उपपदमुपपदसहितमिति नोदाहृतः विस्तरभयात् । उदाहृतमध्येऽव्यक्तदोषं प्रत्युच्यते । यदि रुच्यर्थोच्चारणं तर्हि देवदत्ताय मोदकाः दीयन्तामिति न स्यात् । रुचिर्हि प्रीतिः । तद्धेतुत्वात् रुच्यर्था मोदकाः तदुच्चारणे तद्योग एवेयं चतुर्थीति दीयन्तामित्यनन्वयः स्यात्। दानानपेक्षचतुर्थ्यन्तस्य दानान्वयायोग्यत्वात् । अथ रुचोर्धातोरर्थो रुच्यर्थः तर्हि सोऽपि रुचिविषयुमोदकाभिधानात् धीस्थ इति तद्योग एवेयं चतुर्थीति पूर्वपदानन्वय एव नोक्तदोषः । अथ रुच्यर्थधातूच्चारणात् तद्योगे चतुर्थींति नोक्तदोषप्रसंगः तर्हि देवदत्ताय मोदकाः किं रोचन्ते इति प्रश्नोत्तरानुपपत्तिः । देवदत्ताय मोदका इत्युक्ते किमिति प्रश्नः रोचन्ते इति चोत्तरं न स्यात् । देवदत्तायेति चतुर्थ्यन्तः रुचिधात्वनुच्चारणे हेत्वन्तरे चासति अपभ्रंशः। ततश्चार्थं धीरभिप्रायवशात् । स च
?Rनोन्नीत इति प्रश्नाल्लक्ष्यत इत्यर्थधीरेव नास्तीति विशेषापेक्षया प्रश्नः । असति प्रश्ने तु कुत उत्तरम् । अथ उत्तरगतरुच्यर्थधातूच्चारणापेक्षया चतुर्थी तर्हि ज्ञात उत्तरे न प्रश्नोत्तरे अथ चतुर्थ्यसाधुत्वादेव प्रश्नः उत्तरं च साधुत्वार्थं तर्हि नार्थपरः प्रश्नः । न चोत्तरमर्थपरमिति रोचन्ते इति शब्दपरं इति नोत्तरं न तदन्वयीप्रश्नः इति प्रश्नोत्तरानुपपत्तिः ।
?R भयहेतुरपादानमुक्तं, सर्वकारकाधीना च भीतिरिति कर्त्रादिकमप्यपादानं स्यात् उपपदादियोगे कारकत्वाभावात् कारकाधिकारे तत्संज्ञा न स्यात् । एवं कर्मादेरनवस्थानात् तद्विषया विभक्त्यादयोऽनवस्थिताः । एवं वाक्यार्थधीपूर्विका साधुत्वधीः न वाक्यार्थबोधोपायः। वेदवाक्यार्थबोधोपायतया च वेदाङ्गतेष्टा स्मृतेः । सा चानुपायत्वे न स्यात् । विभक्तिव्यत्ययस्मृतिश्च वाक्यार्थे स्मृतिविनाऽन्वबुद्धेर्नान्यथेहि न स्मृतेः वाक्यार्थधीः स्यात् ।
?R एवं कृता कर्त्रादिषु स्मृतानां अनिरूपितार्थता । तिङां च कालादिरुपाधिः नार्थः । न चान्यतः कालादिधीरिति वर्तमानेऽर्थे वर्तमानाद्धातोः लडिति दुर्निरूपम् । भूते भविष्यति च यत् स्मृतं तदपि दुर्निरूपम् । महाभाष्ये पातञ्जल एवोक्तम् - नहि तिङोच्यन्ते कालादय इति। न धातुतः कालभेदधीः धात्वर्थस्य कालत्रयेऽपि तुल्यत्वात् । लिङादयोऽपि विध्यर्थादिषु दुर्निरूपाः । उपपदवशाच्च विधिप्रैषादिविभागो न लिङादेः । अतो लिङाद्यर्थता तेषां न स्यात् ।
?R तद्धितसमासौ च समर्थवचनाद्दुर्निरूपौ । समर्थानां प्रथमाद्वा - इति तद्धितः । समर्थः पदविधिः - इति समासः । एकार्थान्वयिता च सामर्थ्यम्। तल्लक्षयितुं च तद्धितसमासभेदस्मृतिः । सामर्य्येन च तौ लक्ष्येते। सति सामर्थ्ये
?Rतयोः प्रयोगः । तयोश्च प्रयोगे सति सामर्थ्यं इत्यन्योन्याश्रयः। असमर्थसमाससमर्थतद्धितानुत्पत्त्योः लक्षणाऽसिद्धयोः प्रयोगवशादुपगमे स्मृतेरनियामकतैव । असमर्थसमासः अश्राद्धभोजीति भुजिना नञोऽन्वयः श्राद्धेन च समासः । दधिघट इति दध्नापूर्णो घट इत्यन्वयः । अत्र दध्नः पूर्णेन घटेन च समासः । गोरथ इति गोभिर्युक्तो रथ इत्यन्वयः । अत्र गोः युक्तेन रथेन च समासः । समर्थात्तद्धितानुत्पत्तिः अङ्गुल्या खनतीति ‘?R तेन दीव्यति खनति ’ ?Rइति ठकोऽनुत्पत्तिः वृक्षमूलादागत इति तत आगत इति प्राग्दीव्यतीयाणः अनुत्पत्तिः।
?R
?R अर्थवदधातुरप्रत्ययः प्रातिपदिकमिति यदि कार्यमर्थवत्त्वं तर्हि सिद्धे शब्दार्थसम्बन्धे लोकतोऽर्थप्रयुक्ते, शब्दशास्त्रेण धर्मिनियम इति वार्तिकहानम् । अथ औत्पत्तिकमर्थवत्त्वमुपायः साधुताप्यौत्पत्तिकार्थतैवेति उपेयमेवोपायः स्यात् । उपायादुपेयं उपेयादुपायमित्यन्योन्याश्रयः स्यात् । प्रातिपदिकानिर्णये च तन्निबन्धनस्वरकार्यप्रत्ययादिः न स्यात् ।
?R अधातुरप्रत्यय इति च अवयवातिरेकः । अर्थवच्छब्दरूपं धातुप्रत्ययव्यतिरिक्तं प्रातिपदिकसंज्ञमिति सूत्रार्थः । अत्र चान्ताश्रुतेः न प्रत्ययान्तव्युदासः । न च विशेषणेनाप्रत्ययेनविधिः । यतः येन विधिः तदन्तस्येत्यन्ततालाभः । नहि अर्थवद्विशेषणं पुंलिङ्गात् स्वपरत्वसम्भवे अन्यपरत्वानुपपत्तेः । अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्तीति सुप्तिङन्तं पदमिति ज्ञापितम् । संज्ञाविधिरेवाप्रत्यय इति न संज्ञाप्रतिषेधः। एकवाक्यतया पर्युदासोऽयं विधिशेषः । वृत्तिकारोऽप्याह - पूर्वसूत्रे अप्रत्यय इति पर्युदासात् कृदन्तस्य तद्धितान्तस्य चानेन संज्ञाविधिरिति कृत्तद्धितसूत्रे वदन् ।
?R ननु प्रत्ययान्तपर्युदासे प्रत्ययान्तनिवृत्तेः कृदन्ततद्धितान्तयोः संज्ञाविधिप्रतिप्रसवो भवेत् । इमामेवाशङ्कामपनेतुमुक्तं यदि कृत्तद्धितसूत्रे संज्ञाविधि तदा पूर्वसूत्रे अप्रत्यय इति व्यर्थः । प्रत्ययविशेषनियमेन प्रत्ययान्तरनिवृत्तेः। कृतं चाप्रत्यय इति। तेन जानीमः कृदन्ततद्धितान्तयोः संज्ञाविधिरिति। ये च प्रत्ययान्तस्य निषेधमाहुः तन्मते प्रत्ययमात्रस्य च संज्ञा दुर्निवारा । एवं स्थिते सूत्रार्थे अधातुरप्रत्यय इति व्यर्थम्। यदि प्रातिपदिकार्थवत्त्वेन संज्ञानिवृत्त्यर्थं, तर्हि वाक्यस्य स्यात्। समासग्रहणान्निवृत्तिरिति चेत् अर्थवत्त्वेनैव समासस्यापि संज्ञाप्राप्तौ नियमो वाक्यनिवृत्त्यर्थः। तर्हि धातुप्रत्यययोरपि निवृत्तिरस्तु। अथ एकार्थस्य वाक्यस्यैव निवृत्तिः समानजातीयस्य, न धातुप्रत्यययोः, तर्हि वाक्यस्यापि समासादन्यार्थस्य न निवृत्तिः।
?R विभाषासूत्रं विकल्पार्थं न कार्यम् । समासविधौ ततोऽन्यार्थतया वाक्यानिवृत्तेः व्यर्थमिति कात्यायनोक्तेः । अथ कात्यायनानादरात् अर्थवत्समुदायतया सजातीयवाक्यनिवृत्तौ विभाषेत्यनेन विकल्पः तर्हि प्रातिस्विकार्थभेदेऽपि अर्थवत्तया सजातीयधातुप्रत्ययनिवृत्तिः यथा अर्थवत्समुदायमात्रतया सजातीयकृदन्ततद्धितान्तनिवृत्तिः माभूदिति कृत्तद्धितग्रहणं कृदन्ततद्धितान्तपरम् । एवं च समासग्रहणात् वाक्यस्येव धातुप्रत्यययोरपि निवृत्तेः अधातुरप्रत्यय इति अवयवातिरेकः दुरुक्तानुक्तोद्भेदश्च व्याख्यातॄणाम्। स्मृतेः न नियमो युक्तः । स्मृतितः साधुत्वे दुरुक्तानुक्तता कुतो ज्ञेया । न च मात्रावर्णाधिक्यमिष्टार्थवाचि । ततः इष्टार्थाग्रहणान्न स्मृतितो नियमः । छन्दसि विशेषाभिधानं अप्रसिद्धे वेदार्थे व्यर्थम् । न्यायतः प्रसिद्धौ सुतराम् । स्मर्तॄणां च अन्योन्यविरुद्धार्थनिबन्धनात् न स्मृतेर्नियमः ।
?R यत्तु लक्षणसङ्गतमप्यप्रयोगान्न साध्विति तत् अतिव्यापकं लक्षणादज्ञात्वा
?Rमूलप्रयोगे स्मर्तॄणाम् । आकृतिगणोक्तिश्च प्रयोगधीपूर्विकैव । बहुलग्रहणाच्च स्वेच्छाप्रचारः प्रयोगाधीन एवा । एवं च स्मृतेरनादिप्रयोगनियमोपगमात् उपगतमज्ञत्वं स्वीयं मीमांसकैः । एवं च सन्मार्गानुसारिलोको मोहितः । अथ वा लोको वा श्रद्धया स्वयं मूर्खः । यश्चायं पाणिनीयस्मृतेः दोषः सोऽन्यस्यापिशलादिस्मृतेरपि, धातुसंज्ञाद्युपायतुल्यत्वात् । एवं स्वतोऽशक्ता स्मृतिः अमूला च । स्मर्तृभिः प्रयोगतौल्यात् कुतः साध्वसाधुविवेकोऽवगतः ? ?Rस्मृत्यन्तरपरम्परात इति चेन्न, अन्धपरम्परापत्तेः । मूलमानशून्यत्वाद्विभागस्य मूलिन एवानियतार्थत्वे निर्विषया मूलचिन्तापि इत्यास्तां तावत् मूलचिन्तेत्युक्तम् । तावच्छब्दान्मूलचिन्तापि मता तथाप्यमूलतैव।
?R राद्धान्तस्तु - आस्तां तावत् स्मृतेरनियतार्थत्वं सुपरिहरम् । अमूलत्वं तु दुस्समाधेयम् । असमाहिते तस्मिन् निष्फलमनियतार्थंत्वं समाहितमपीत्यमूलत्वं पूर्वं निरस्यते । आदिमतापि व्यवहारः सिद्ध्यतीति ।
?R सत्यं, गाव्यादौ परम्परानादिरित्युक्तम् । या च स्वव्यवहारार्था संज्ञा परिभाषा वा तत्रादिमत्ता स्मृतेः । यथा आदैचोर्वृद्धिसंज्ञा। या संज्ञिन उपाध्यन्तरापेक्षा संज्ञा सा परिभाषा । यथा कर्मधारयशब्दवाच्यत्वे तत्पुरुषस्य समानाधिकरणता उपाधिः । अथ आधिमत्ताऽस्मृतावपि विष्णूच्चारणेच्छोरशक्तस्य विण्णूच्चारणावत् सामान्यतो दृष्ट्या गाव्यादि अशक्तिजमिति । तन्न। स्मर्यमाणप्रभवं हि व्यवहाराङ्गं अशक्तिजत्वेन व्याप्तं दृष्टं न तथा गाव्यादीति न तेनेदं तुल्यम् । उपगतानादित्वगवादिना अनेकान्तं च । तत्राप्यशक्तिजत्वापत्तौ इष्टविघातलक्षणविरुद्धता च ।
?R अथ स्मृतेरसम्भावितमूलतानिरासायाशक्तिजत्वदर्शनमुक्तम्, अन्यायो
?Rह्यनेकशब्दानामेकस्मिन्नर्थे सम्भाव्यमानशक्तिजत्वानां सदृशानामनादित्वम्। अशक्तिप्रकर्षाच्च असदृशोऽपि अशक्तिजोऽद्यत्वे । यथा देवदत्तोच्चारणादिप्रयत्नेनाभिनुन्नमिति । क्वचिद्विभक्तेरनन्यत्वमशक्तिजम्। अश्मकेभ्य आगत इति वाच्ये अश्मके निर्गत इति । अतः कथञ्चिदभिप्रायावगतेरर्थधीर्वृद्धस्य । तां दृष्टा व्युत्पित्सोः उच्चरितादर्थधीरिति भ्रमः। तत्प्रभवोऽपभ्रंशव्यवहार इति नामूला स्मृतिः । नियतार्था च अव्यापकत्वातिव्यापकत्वे सूत्रस्मृतेः वृत्तिवार्तिकभाष्यैः कथञ्चित् समर्थिते । तेन सर्वाभियुक्तस्मृत्यनुसारात् शक्यं नियतार्थत्वं विस्तरभयान्नोक्तमिति ।
?R तन्न । न हि स्मृतिः अशक्तिजं गाव्यादीत्याह । अथ गवाद्यनादितास्मृतेः तदितरदर्थादशक्तिजं गाव्यादि इति । औत्पत्तिकं गवादेः सास्नादिमदर्थबोधकत्वं स्मृतं तदनिदंप्रथममित्यनादि । एवं गाव्यादिकमपि वृद्धव्यवहारादनाद्यस्तु । अथ व्यर्था स्मृतिः माभूदिति स्मृतिनिबद्धेतरत् गाव्यादि[?Rआदिमत्]?Rतन्न । यद्यादिमतः आदिमत्तामाह स्मृतिः तदाऽसौ नैवानादिपरम्परानुवृत्ता । आदिमद्विषयत्वात् आदिमद्दर्शनमूला वाच्या यतः । किञ्च गौणलाक्षणिकयोः वाच्यपूर्वकत्वयोगादादिमत्ता स्यात्। तदर्थता च वैदिकपदस्य न स्यात् । अथ वाच्यपूर्वकमपि अनादि तर्हि मन्त्रगतोरूकमित्यत्र कमित्यस्यावाच्यकासशब्दोपस्थापनपूर्वककासार्थपरः आदिमान् वेदः स्यात्। गाव्यादेरपि गोबुद्धिर्मूलशब्दानुसारत इत्येवं कमितुल्यता गाव्यादेः स्यात् । किञ्च शाब्दैरनिबद्धेऽपि भाषन्तरे च स्मृत्यन्तरान्नियतार्थः परम्परानुवृत्तं आदिमदिति न युक्तम् । एवं च स्मृतिसहायप्रत्यक्षगम्यं साधुत्वमिति परमतं हेयम्, उक्तरीत्या स्मृतेरसहायत्वात् ।
?R अत्रेदं तत्त्वम् - साधुत्वमनादित्वं अपुंप्रभवत्वमिति यावत् । पुंप्रभवता हि पुरुषाभिप्रायभ्रमाशक्तिप्रमादैः । सङ्केतिते अभिप्रायप्रभवता, स्मृत्यर्थाविवेके
?Rभ्रमप्रभवता, उच्चारणवैगुण्ये चाशक्तिप्रमादप्रभवता । चतुष्कमिदं मुख्ये गौणे लाक्षणिके मन्त्रगते च कमित्यादौ नास्ति । भाषान्तरे तु सङ्केतसंवादार्थं स्मृत्यपेक्षा। अपभ्रंशादिरूपेणैव स्मृतेः पुंप्रभवत्वमेव । एवं विसंवादोऽपि देशादिभेदात्। हस्तसङ्केतादितुल्यता च । गवाद्यतिरिक्तमशक्तिजमित्यपि। एवं हि स्मृत्यर्थेऽङ्गीक्रियमाणे न गाव्यादिविशेषस्यादिमत्ता नियामिका येनादिमती स्मृतिः। न च गौणाद्यर्थधीः मुख्यार्थधीपूर्विका, किन्तु गौणत्वधीः मुख्यत्वधीपूर्विकैव । यदि तु कमित्यस्मात् काशार्थधीपूर्विकैव काशशब्दोपस्थापनद्वारकत्वधीः तर्हि गावीत्यस्मात् उपस्थापितगवार्थधीपूर्विकैव गोद्वारकत्वधीरस्तु । गाव्यादीत्यनेनैव व्यवहारबाहुल्यमस्तु स्मृतिनिबद्धात् बहिरिदं पुंशक्तिप्रभवं नानादिवेदे बोधकम् । एवं च प्रयोगानादितास्मृतिपरम्परा दृढा प्रयोगानादितां स्वविषयामुपस्थापयन्ती स्वकारणमनुमैकगम्यं प्रयोगानादित्वमनुमापयति । अथवा व्यवहारानादितयैव प्रयोगानादितासिद्धौ सदृशानेकशब्दानामशक्तिजताशङ्का स्मृतेरेकस्यापनीतेति स्मृतेरनादिता । दृढस्मृतिसंवाद्योऽयं प्रयोग इत्येवं शङ्कापगमः। प्रवाहानादिस्मृतिसंवादो हि नाशक्तिजस्य इतीयं दिक् ।
?R ऋषभवृषभादीनां सदृशानामपि सर्वेषां स्मृतिसंवादान्न कस्यचित् अशक्तिजतेति अनेकशब्द एवैकार्थः । वाचकापभ्रंशविभागार्था स्मृतिरिति शाब्दोक्तेः अपभ्रंशादन्यद्वाचकमभिमतम् अवाचकसमासाद्यनुशासनात् । यदि तु वाचकतापुरस्काराल्लक्षणादि इति तर्हि न कमिति वाचकतापुरस्कारात् कासार्थः। अथ कमित्युपस्थापितस्य वाचकता तर्हि गावीत्युपस्थापितस्य गोरपि वाचकता तुल्या । अव्यापकत्वातिव्यापकत्वे च एकस्याः स्मृतेः स्मृत्यन्तरद्रढिम्नैवेति स्मृत्यन्तरान्नियमसिद्धिरस्तु ।
?R विवरणे तु सङ्गतेर्विधान्तरम् । पदार्थसन्देहे शाब्दस्मृतितः वेदे निर्णयो वेदविदाम् । स्मृतितः अनेकार्थत्वे प्रकरणादिवशात् । अतः स्मृतेरमूलत्वादनध्यवसाय एव ।
?R ?R?0॥ 10॥ प्रयोगचोदनाभावादर्थैकत्वमविभागात् ॥ 30 ॥
?R आकृत्यधिकरणीयं सन्देहमुपक्रम्य मध्ये किं लौकिका एव वेदे शब्दाः अर्थाश्च उतान्य एवेति चिन्ता व्यक्त्यर्थत्वमुखमप्रामाण्यमपनेतुं आकृत्यधिकरणमारब्धम् । अन्यथा वेदेऽन्यत्वात् अव्युत्पत्तेर्नार्थधीः। न तु लोके व्यक्त्यर्थतया वेदे नार्थधीरिति । यतः एवमप्रयोजना आकृतिचिन्ता न त्वशक्योपक्रमेत्यतः उपक्रम्योपोद्घाततया मध्यस्थः । साक्षात्सङ्गतेरध्यायस्थः। तदुक्तं " ?Rव्यक्त्यर्थत्वे लोके वेदे अर्थासंस्पर्शितैवे " ?Rति ।
?R
?R पूर्वपक्षस्तु शाब्दैरन्यतोक्तेः " ?Rलौकिकानां वैदिकानां चे “?R ति। रूपान्यत्वाच्च देवासः त्मना अग्णिः इति वर्णागमलोपविकारैः । अर्थान्यतापि " ?Rउत्ताना वै देवगवा वहन्ति " ?Rइति " ?Rहिरण्यवर्णो वनस्पतिः” ?Rइति " ?R " ?Rघृतं मधु " ?Rइति । ननु तत्रापिशब्दार्थयोः तत्तापि प्रायेण। मैवम्। तत्ता अन्यता वेति न लोकव्युत्पत्तिः नियता । छेदनादिव्युत्पत्तिर्नियता। छेदनादिव्युत्पत्तिनियमपूर्विकैव यूपादावपि वेदे व्युत्पत्तिः नान्यथा। ननु वर्णागमादावपि यूपप्रत्यभिज्ञानादर्थतत्ता । तन्न । लोके न तथा साधुतेति नौत्पत्तिकी पदपदार्थधीर्वेदे ।
?R
?R राद्धान्तस्तु - वर्णतोऽन्यत्वेपि अर्थधीहेतुवर्णसङ्घातप्रत्यभिज्ञानमेव । वर्णतो विकारेऽपि तरुच्छेदनादौ वनतत्तेव वर्णगणतत्तयैव हि तदर्थधीः । न तु सजातीयशक्तिप्रत्यभिज्ञया पदतत्ता, पर्यायेऽपि तत्तापत्तेः । न च शक्तिव्यक्तितत्ता,
?Rवर्णगततयैव हि सा । न च लोके तथा न साधुतेति वेदेऽपि नेति वक्तुं शक्यम् तथा वेदेऽनादिप्रयोगात् । अत एवावस्थान्यत्वात् लौकिकवैदिकप्रभेदः शब्दानां सापेक्षत्वानपेक्षत्वावस्थावात् अल्पवर्णतत्वे उरूकमित्यत्र कवर्णेन काशशब्दलक्षणयाऽर्थधीः।
?R एवमपि लोकव्युत्पत्तितोऽग्न्यादौ व्युत्पत्तेः वेदेऽपि पदपदार्थधीसिद्धेर्नानध्यवसायः । न चोत्तानवहनादि मानसिद्धं येन तदर्थता। अर्थान्यत्वे च वहनाद्यर्थाज्ञानमेवेति न ततोऽन्यत्वधीः उत्तानवहनादि स्तुत्यन्वितम् । कृतणत्वोऽग्निरिति वदता प्रत्यभिज्ञोक्ता। साधुशब्दे स्थितेऽपि लोके अन्यतया वेदे शङ्कोत्थानात् उत्तरतश्चिन्ता तुल्यरूपार्थे वक्ष्यमाणेऽपीत्यन्तराचिन्तेयं कृता ।
?R ?R?0॥ 11॥ प्रयोगचोदनाभावादर्थैकत्वमविभागात् ॥ 30 ॥
?R किमाकृतिद्वारकं कार्यपरत्वं गवादिशब्दानां उत व्यक्तिद्वारकमिति सन्देहोऽयं तुल्यः । तथैवाकृतिव्यक्त्याः शाब्दधीविषयता तुल्या । व्यक्तितः आकृतेः कार्यान्वयः आकृतितो व्यक्तेः धीविषयतेति तुल्यतैव यदि व्यक्त्त्युपादानेनावच्छेदात् आकृतेप्यन्वयः तर्हि प्रत्ययमात्रमाकृतावुक्तं अनन्वयं वक्तुं;?R अनन्वितस्य पदार्थत्वोपगमे तत्पदवान् वेदो न प्रमाणं स्यादिति च ग्रन्थो हेयः । मैवम् आपाततस्तुल्यतया सन्देहः सूक्ष्मेक्षणादाकृतेः अनन्वय एव । न हि कारकावच्छेदात् क्रियान्वयः । आकृत्यर्थवाद्यपि उपदेशे व्यक्त्यर्थतामिच्छति । ननु न व्यक्तिधीः व्यक्तेः प्रातिस्विकरूपाभानात् । तन्न । आकृतिर्हि सामान्यं सम्बन्धिस्वभावं तत्सम्बन्धित्वेनाभातं अभातमेव स्यात् । विशेषतश्चात्र रूपरूपितया सम्बन्धिता। न च रूपिशून्या रूपबुद्धिः, यदि स्यात् रूपतैव न स्यात्।
?R अत्रेदं तत्त्वम् । व्यक्तिपरतन्त्रस्वभावैवाकृतिः प्रत्यक्षसिद्धा । न
?Rव्यक्त्यन्तरवत् स्वतन्त्रा । परतन्त्रा च परान्तर्भावघटितमूर्तिरिति शब्दादप्याकृतिदीप्तिरेव । आकृत्यादिशब्दास्तु तत्स्वभावासहितामाहुः न तत्स्वभावामेवेति न गवादिशब्दतुल्याः । रूपतया चेयं परतन्त्रा रूप्यपि तन्निरूपिततया धीस्थां तां परतन्त्रयति । न च गवादिशब्देभ्यः प्रातिस्विकधर्मनिरूपितरूपिधीः प्रत्यक्षवत् प्रातिस्विकरूपाभानात्। न चैवं अभानमेव, अविशदतया रूप्यध्यवसानात् । जात्यादिकल्पनाया अपि मेयतास्थापनात्। धीभेदे च इत्थं वेद्यत्वमशक्यमिति एकधीस्थासिद्धिः तदुक्तं " ?Rअहोबतानुभवेऽपि नावमर्श “?R इति । व्यक्त्यर्थत्वे च कार्यान्वयबलात् स्थिते सम्बन्धग्रहणार्थं नयनिरस्तसमयकृतत्वहानात् वृद्धव्यवहारतो व्युत्पत्त्यर्थमाकृत्युपलक्षणाश्रयणम् । अतः शाब्दैकदेशी व्याडिः व्यक्त्यर्थतां मेने। एवं च व्यक्तिमङ्गमवच्छिद्य सङ्ख्यादेरङ्गता । अन्योक्तिश्च वेदे व्युत्पत्त्यपेक्षया युक्ता। न चायमेकदेशिपक्षो युक्तः। कार्यान्वयानैकान्त्यात् । श्येनचितमित्यत्र व्यक्त्यनन्वयात् कर्मतेह श्येनस्य । कर्मण्यग्न्याख्यायामिति स्मृतेः । न चेष्टकाचयनान्मुख्यस्य कर्मतेति सदृशान्वये जातिसदृशता शक्येति प्रतीत्यन्वयोऽत्र जातेः । ननु उपलक्षणतया आकृतिः सर्वत्र प्रतीत्यन्वयिन्यस्तु नोपलक्षणम् कार्यधीकालेऽन्वयिनी । किन्तु सम्बन्धग्रहणकाले तेन क्वचिदन्वय उक्तः । एवं च क्वचिज्जातिः क्वचिद्व्यक्तिरन्वयिनित्यनवधृतपदार्थयुक्तपदवद्वेदवाक्यमप्रमाणमिति
सङ्गतिपूर्वपक्षौ ।
?R राद्धान्तस्तु सर्वो हि धर्मो केनचिद्धर्मेण प्रतीयते प्रातिस्विकेन वा सामान्येन वा। गवादिशब्दान्न प्रातिस्विकधर्मेण धीः । न हि प्रत्यक्षादिवत् अन्योन्यविलक्षणव्यक्तिधीः शब्दात् किन्तु आकृतिधर्मकतया। न चोपलक्षणपक्षे तेन धर्मेण धर्मिता । पृथग्भूते हि धर्मिणि उपलक्षणम् । ननु कार्यान्वयो व्यक्तिमात्रस्येति
?Rतदेव शब्दार्थः सिंहवदाकृतिः पञ्जरवत् शब्दार्थगम्या । तन्न। आकृतिधर्मिकैव व्यक्तिरन्वयिनी इत्याकृतावेवान्वयिधीः । यद्याकृतिः
पञ्जरवदिष्यते तदा प्रातिस्विक एव व्यक्त्यन्वयो वाच्यः तदा सर्वव्यक्त्यन्वये अनध्यवसायी शब्दः स्यात् । सर्वव्यक्त्यन्वयस्याशक्यानुष्ठानत्वात्। एकव्यक्तेरन्वयेऽपि कस्या इत्यनध्यवसायिता । अथास्त्विति चेत् न तर्हि आकृतेरन्वयः अध्यवसायकरमन्वीयते यतः यथा अक्ताश्शर्करा इत्यनध्यवसिते घृतान्वयः । अथ शब्दस्वभावात् गोत्वसम्बन्धितया व्यक्तिधीः अन्वयोऽपि तत्सम्बन्धाया एव व्यक्तेः इत्यध्यवसायः तर्हि गोत्वाकारेण व्यक्तिधीरित्यङ्गीकृतम् । एवं च गोत्वमेव वाच्यम् । अथ कार्यपर्यवसाय्यन्वयो न धीपर्यवसायी कार्यं च व्यक्तौ यथा दण्डिनोऽन्वये दण्डो धीपर्यवसाय्येव । तन्न। यत्र दण्ड उपलक्षणं तत्र दण्डो धीपर्यवसायी। यत्रु तु दण्डितयैव विशिष्टधीः तत्र दण्डान्वयोऽस्त्येव । अखण्डशब्दे तु गवादौ गोत्वान्वय परता । सखण्डे दण्डान्वयो दण्डभागात् इति भेदः ।
?R कथं तर्हि व्रीहीन् प्रोक्षतीति व्यक्तिपर्यंवसायितया अर्धवैसशम् । एवम्। अपूर्वीय एव असाधारणे भाविकार्यवत्युपात्ते प्रोक्षणान्वय इति योग्यव्यक्तिलक्षणा न तु व्यक्तेः शब्दार्थत्वात् । नन्वाकृतिः निर्व्यापारा । न क्रियासाधनतयाऽन्वयिनीति न शब्दार्थः । क्रियासाधनावच्छेदोऽपि न तया निर्व्यापारया । तन्न। न हि व्यापारकारितैव क्रियासाधनता। किन्तु सति तस्मिन् भावः असति चाभावः। बुद्ध्या हि व्यक्त्या क्रिया साध्यत इति धीद्वारा अस्तु साधनता। शब्दादाकृतिरूपेणैव व्यक्तिधीरुक्ताः । उपादेयव्यक्त्यपेक्षया सङ्ख्यान्वयः अन्यत्वव्यपदेशश्च । एवं क्रियागुणयोरपि शब्दार्थता नागृहीतविशेषणान्यायेन सिद्धा । आकृतिस्तु उदारहणमात्रम् । सामारुणादिशब्देभ्यः तद्रूपतयैव धर्मिबुद्धेः। भाष्यव्याख्या टीकायां स्फुटा ।
?R कथं पुनराकृतिव्यक्त्योरेकधीवेद्यत्वेऽपि आकृतेरेव शब्दार्थता न व्यक्तेरिति। न हि वेद्ये शक्तिः किन्तु वित्तिजनके वित्तिविषयतया शब्दार्थता आकृतिव्यक्त्योस्तुल्या । उक्तोत्तरमिदम् । उक्तं हि आकृतिधर्मेण धर्मिणि शब्दजाधीः । आकृतेर्हि प्रतिस्विकरूपं धर्मत्वं स्फुरत् धर्म्यालीढमेव स्फुरति नान्यथा । तदत्र अनन्यलभ्याकृत्यंशस्फूर्तौ शब्दशक्तिकल्पने धर्म्यंशस्फूर्तेरन्तर्भावो नान्तरीयक एव । अस्ति च एकधीवेद्यांशविशेषेऽपि हेतुशक्तिव्यवस्था प्रत्यभिज्ञायाम् । अत एव गुरु नये संविज्जन्मन्येव हेतुशक्तिः, न तत्स्वप्रकाशत्वे प्रातिस्विकतत्स्वभावान्तर्भावादेव तत्सिद्धेः ।
?R न चेयं समाधिविधा। आकृतिवाचिपदानन्तरं स्मृतिस्थैवाकृतिः सहचरितां व्यक्तिं स्वविशिष्टामप्यनुस्मारयति। तदेवमुद्बुद्धसंस्कारसचिवात् शब्दात् आकृतिविशिष्टमेकधीस्थम् । निष्कर्षादाकृतेर्व्यक्तिधीरित्युक्तम् । न व्यक्तौ शब्दवृत्तिः अतत्परत्वाच्छब्दस्येति । यतो व्यवस्थिते जातिवाचित्वे विधेयं तदेव तु कुतः । यदि तु संस्कारसचिवाच्छब्दात् स्वार्थविशिष्टधीः तर्हि जात्युपाधिशब्देभ्योऽपि स्यात् । न तु गोऽरुणादिशब्देभ्य एव विशिष्टधीरित्यभ्युपगमः स्यात् ।
?R न च बहुसम्मतापि समाधिविधा - यच्छब्दात् बुद्धात् यद्बुद्धं शब्दप्रयोगे च निमित्तं तस्य शब्दार्थता । यद्यपि विशिष्टस्य शब्दाप्रयोगे अन्वयव्यतिरेकानुविधानं तथापि विशेषणे निमित्तत्वकल्पनेनैव विशिष्टप्रयोगसिद्धेः न विशिष्टे शक्तिकल्पना । अथ विशेषणे निमित्ते तत्रैव धीः स्यात् न व्यक्तावपि। तन्न । नहि भवितारमजानतो भावधीरस्तीति सूक्तं विशिष्टमभिधानगोचरो विशेषणमभिधेयम् । अतः शब्दव्यापारावैषम्यात् न मुख्यताहानिरिति ।
?R तन्न । कथं शब्दव्यापारविषयत्वेपि अनभिधेया व्यक्तिः। अतत्परत्वादिति चेत् । नहि शक्तिः तात्पर्यात् । गौणादावप्यापत्तेः । तात्पर्यं च कार्यासन्नतया व्यक्तावेव युक्तम् । अतात्पर्ये च मुख्यवृत्तिता कथं ? ?Rस्वाभिमते तु प्रकारे शब्दस्पर्शाभावात् व्यक्तेः न तस्यां वृत्तिः । आसन्नतया तद्द्वारता जातेः ।
?Rविवरणे तु सङ्गतेर्विधान्तरं - व्यक्त्यर्थत्वे प्रतिव्यक्ति सम्बन्धग्रहणाशक्तेः नौत्पत्तिकता सम्बन्धस्येति वेदाप्रामाण्यम् । न चाकृत्युपलक्षणात् सम्बन्धग्रहः उपलक्षणविलक्षणत्वादाकृतेः विशेषणत्वे तु आकृतेः शब्दार्थतापत्तेः व्यक्तिरशब्दार्थः स्यादिति । व्यक्त्यर्थत्वपक्षे नौत्पत्तिकता । अत एव आकृतिग्रन्थशेषता चास्याश्चिन्तायाः तत्रैव चोक्ता आकृत्यधिकरणे निपुणतरं वक्ष्याम इति वदता । इह तु व्यक्तेः क्रियान्वयमुखेन आकृत्यर्थत्वाक्षेपो विनियोगत एवेति विनियोगोत्थाप्रमाण्यसमाधानार्थायां त्रिपाद्यां इयं चिन्ता नाद्यपादे युक्ता । शेषं सुगमम् ।
?0 ?Rइति श्रीभवनाथमिश्रविरचिते नयविवेके
?0 ?Rप्रथमाध्यायस्य तृतीयः पादः।
?R?0 _______
?Rनयविवेके प्रथमाध्यायस्य
?R?0चतुर्थः पादः
?R ॥ 1॥ उक्तं समाम्नायैदमर्थ्यं तस्मात् सर्वं तदर्थं स्यात् ॥ 1॥
?Rतस्य निमित्तपरीष्टिरिति प्रामाण्यमध्यायार्थ इति प्रतिज्ञातम् । तदर्थं बाह्यहेतूत्थमप्रामाण्यं स्थूलतमं आद्यपादे निरस्य द्वितीये स्थूलतरं अर्थवादमन्त्रोत्थं निरस्तम् । तृतीये स्थूलं स्मृत्युत्थं निरस्तम् ।
?Rअधुना विधिप्रभेदोत्थं सूक्ष्मं निरस्यत इति पादार्थभेदः अनुक्रमश्च। कर्मगुणश्रुतौ गुणविधिरेव गुणपरत्वाद्वाक्यस्य रक्तः पटो भवतीति हि गुणसंबन्धार्थं वाक्यं दृष्टम् । अयं भावः - उभयपरत्वे तात्पर्यगौरवात् वाक्यस्य एकमात्रपरत्वम्। तत्र कर्ममात्रपरत्वे गुणश्रुतिर्व्यर्था । गुणपरत्वे तु आश्रयसमर्पकतया कर्मश्रुतिरप्यर्थवतीति गुणविधिरेव । सर्वत्रैवं कर्माविधेः लौकिककर्माश्रयो गुणविधिरेव । अतो मानान्तरतः कर्मकर्तव्यतयैव गुणकर्तव्यतेति वेदो मानान्तरापेक्षः कर्तव्यतायामित्यप्रमाणम् ।
?Rन च लोकतः प्रवृत्ते भोजने प्राङ्मुखतादिनियमवदनपेक्षता । प्राङ्मुखता हि भोजने प्रवृत्तस्य पुरुषार्थतया नियम्यते, न कर्माङ्गतया उद्भिदादेस्तु कर्माङ्गतया विधिः ।
?Rअयं भावः - प्रसिद्धेऽन्यतः प्रवृत्ते कर्मण्याश्रिते विधिः पुरुषार्थ एव । यत्र तु यागादावन्यतः प्रवृत्तिरसिद्धा तदाश्रितो गुणः तत्रैव विधेयः । नहि अदृष्टफले यागादौ लोकतः प्रवृत्तिः सिद्धा । एवं कर्मणि गुणविधौ स्थिते वेदे कर्माविधेः पारिशेष्यात् लौकिकं कर्म मृग्यम् । लोकेऽपि चेन्नास्ति वरं दृष्टार्थस्त्यागादिरेव यजेतेत्यनेनोक्तः प्राप्तार्थे यथाप्राप्ति तात्पर्यम् ।
?Rन चैवं सापेक्षतेति व्यावृत्यन्याय्यो यागविध्यङ्गीकारः, लौकिके मातृगणयागे गुणविधिरिति च मन्दम् । नानुमेयवेदमूलो मातृगणयागः, श्रुतवेदे कर्मविध्ययोग्ये न योग्यानुमा । अवेदमूलकश्चेत् भ्रममूलो न यागः स्यात्। वेदस्पृष्टदेवतान्वयी हि यागः, न च देवतागुणविधेरेव लौकिके देवतालाभः, गुणविधेरेवाभावात् । तदाहि वेदोक्तापि देवता न वेदमेयेति न देवता स्यादिति त्यागमात्र एव गुणविधिः । किञ्चोपपदार्थोऽपि कामी विधातुमशक्यः तत्परत्वे विधिशून्यता । कामिपदं न कर्तृपरं
?Rकिन्तु फलिपरं, न च फलं विधेयम् ।
?R
?Rननु गुणवत्कर्मविधौ कामी चान्वयी गुणोऽपि सन्निहितकर्माश्रयः । भावार्थस्य च विधिविषयता भावार्थनयसिद्धा । गुणस्य च विधिस्पर्श इति सर्वं सुस्थम् । यथा दण्डिशब्दात् दण्डवति धीः तथैव गुणवत्कर्म धीस्थं विधेयमिति न विरुद्धत्रिकद्वयं बाधकम् । न चानेकविधिः ।
?Rमैवम्। मत्वर्थीयनिर्देशाद्धि तद्वति धीः । नेह तथा । अथ कारकतया निर्देशेऽपि तद्युक्तक्रियाधीः । सत्यम् । पदद्वयान्वयात्तु सा, नैकपदार्थतया । न च स्वकरणयोगितया करणीभूता क्रिया धीस्था । साध्या हि तथा सोमेन यजेतेतिवत्। मत्वर्थादेव हि एकपदार्थतया, एकार्थे धीस्थे विधिः । न चात्र मतुब्लोपः । गुणवचनेषु तल्लोपानुशासनात् । न चात्र मत्वर्थलक्षणया उद्भिद्वत्तेति वाच्यम्। मुख्यार्थस्यान्वये हेत्वभावे लक्षणाश्रयणं मानान्तरापेक्षत्वादेव नान्यथा। मत्वर्थलक्षणायां हि सावयवोऽप्येक एव पदार्थ इति न विध्यावृत्तिः समासार्थविधाविव । मत्वर्थे चाख्यातार्थनिवेशादाख्यातार्थविधिरदोषः इति। नामार्थत्वे तु कार्यपरता न स्यात् । यच्च भाष्ये मन्त्रार्थवादत्वासम्भवात् गुणविधित्वमुक्तं, तदिह गुणविधिरेवावशिष्यत इत्यभिमतम् ।
?Rननु च कर्मनामतया याज्ञिकप्रसिद्धिः । तन्न । निर्मूलत्वात्प्रसिद्धेः। लोकव्यवहारे हि खनित्रादौ प्रसिद्धिः । एतन्नयमूलता तु साध्या। खनित्रादिस्तु यथार्हं करणमस्तु । भाष्ये तु प्रकृतौ ज्योतिष्टोमे गुणविधिरिति, गुणविधिः प्रकृतौ तु लौकिके ज्योतिष्टोमे तदीयसोमविधौ यदङ्गीकारार्हं लौकिकं कर्म तत्रेति यावत्। न च परमतेऽपि ऋजु भाष्यम् । भट्टोङ्गीकारार्हं लौकिकं कर्म गुणविधिरलुपदे निरस्तः ।
?Rव्यवहितो ह्युद्भिदादेः ज्योतिष्टोमः सहस्रदक्षिणेन यजेतेत्यनेन। अनस्सहस्रदक्षिणे गौणे ज्योतिष्टोमे गुणविधिरनुपदोक्तः । न च विध्यन्तरार्थं प्रकृत्यपेक्षणाद्वरं गुणार्थमपेक्षेति प्रकृतौ विविर्युक्त इति वाच्यम्। गुणविधिपक्षेहि प्रकृतिरपि तथेति नापेक्षणीया। ज्योतिस्संज्ञकस्तोत्रविध्यर्था हि प्रकृतिः सन्निध्यर्थञ्च स्तोत्राम्नानमिति न तत्प्रख्यनयात् गुणविधिहानम् । सोमेन यजेतेत्यपि सम्प्रति गुणविधिः । विशिष्टविधिपक्षेपि गुणावरोधे दुस्तरे नोद्भिदादिगुणविधिसहता। कामिपदञ्च लौकिकसाध्योपलक्षणमस्तु ।
?R
?Rराद्धान्तस्तु - नैतत् । स्वतस्साध्यभावार्थश्रुतौ तद्विधिरेवेत्युक्तम्। गुणविधावपि गुणविभक्तरूपे भावार्थ एव विधिरिति चौक्तम्। आघाराग्निहोत्रनये फलतो गुणविधिव्यवहारः। अत्रापि तथास्त्विति चेन्न, अविभक्तरूपे विहिते धीस्थे तत्र तथा । इह तु विपरीतम् । गतस्तर्हि रक्तपटनयः । न, विधिमहिम्ना क्वचिदपोद्यते । अगुणोऽपि नामतया भावार्थविशेषणम् । नामापि विशेषणं डित्थोऽयं विप्र इतिवत् । नामता च भावार्थे विधेये, गुणे च विध्यनुवादानर्हे, अभ्यर्हिते, चैकार्थतयाऽन्वये, मत्वर्थे चाकल्प्ये, क्लृप्ते च प्रवृत्तिनिमित्ते विभक्तेश्चाविरोधे प्रसिद्धार्थसमभिव्याहारात् ।
?Rतृतीयाबलादेव तृतीयार्थैकार्थतया नामतेति परमतं हेयम् । एकविभक्तितो हि मिथोऽनन्वयः । अन्वये हि अरुणयैकहायन्येति गौरश्व इति च स्यात् । विधेयं सिद्धावस्थं वदत् नाम अप्रवृत्तिविशेषकरमपि धीविशेषकम्, विधिस्पृष्टार्थञ्च। वाक्यान्तरे प्रवृत्तिविशेषकरञ्च गुणफलोपबन्धात् । अतो लौकिकात् गुणविधिप्रकृतितयाऽऽरोपितात् कर्मान्तरम् । भाष्ये तु लौकिके गुणविधिप्रकृतितया गौणो ज्योतिष्टोमशब्दः । सोमेन यजेतेति तु विशिष्टविधिः उत्पत्तावकरणं यजिरिति
?Rन विरुद्धत्रिकता । करणावस्थे हि यजौ न स्वकरणान्वयः उत्पत्तौ च साध्यावस्थे करणविशिष्टे विधिः मत्वर्थानपेक्षः। समिदादेस्तु प्राप्तत्वान्नामता । राजा राजसूयेनेत्यत्र करणावस्थेऽपि यागे राजा कर्तृसङ्ख्यावाच्याख्यातान्तर्भावात् भावार्थविधिनिविष्टः कर्तृसङ्ख्येव । अथवा ससङ्ख्यकर्तृविशिष्टविषयेऽधिकारात् तदुपसंहारशक्त एक एव राजाऽधिकारीति राजा तदधीनां कर्तृतां भजत इत्यविधेयत्वेऽप्यन्वयसिद्धिः । एतस्यैव रेवतीष्वित्यत्र कृत्वेति समानकर्तृतया क्रियाद्वयस्यैकप्रयोगावस्थया एकीभूतस्य विधेः न विरुद्धत्रिकद्वयम् । न च मत्वर्थलक्षणेति दिङ्मात्रम् ।
?Rननु च नामापि किञ्चिल्लक्षणया दर्शादीति न मत्वर्थलक्षणा हेया । तन्न, अस्येयं संज्ञेति स्थिते शक्त्यन्तरकल्पनापरिहाराय लक्षणादिः । नतु यावल्लक्षणागम्यार्थं संज्ञात्वम् । अतो धीतः श्रुतितुल्यतानिमित्ततो लक्षणेति मत्वर्थलक्षणातोऽन्तरङ्गस्य न दर्शाङ्गतेत्युक्तम् ।
?0 ?R॥2॥ यस्मिन् गुणोपदेशः प्रधानतोऽभिसम्बन्धः॥3॥
?Rनामापि गुणफलोपबन्धेनार्थवदित्युक्तम् । तत् क्वचिदाक्षिप्य समर्थ्यते। तेनाध्यायसङ्गतिः । अथं भावः - पूर्वोक्ताभ्युच्चययुक्तिसमर्थनरूपत्वात् पूर्वचिन्ताशेषो न पृथक्सङ्गतिमपेक्षते नयान्तरमपि, विषयशुद्धिनयवत्। न च श्रीकरोक्ता प्रसङ्गसङ्गतिः । न चेयं विधा नाम्नोऽर्थवत्ता मूलयुक्तिः तदाक्षेपात् पूर्वोक्तगुणविधिविधया प्रामाण्यहानिरिति ।
?R यतः न सर्वत्रार्थवत्ताक्षेपोऽयं न चार्थवत्ता मूलयुक्तः । पूर्वपक्षस्तु पञ्चदशान्याज्यानि भवन्तीत्यत्र नाज्यनाम्नि स्तोत्रभेदे पञ्चदशतागुणोपबन्धः। इह
?Rसामानाधिकरण्यान्नामत्वासिद्धेः । यत्र तु तत् तत्रास्तु नामत्वम् आज्यैः स्तुवत इति । चित्रयेत्यत्र न फलोपबन्धार्थता । दधिमधुवाक्योत्पन्नस्य प्रकृतस्य यागस्य यजेतेत्यनेन प्रकृतवाचिता फलोपबन्धात् । अस्तु व्यर्थं नाम तावत् । न च नामापि अप्रवृत्तिविशेषकरमपि विशेषरूपेण ज्ञातुं नामाकाङ्क्षान्वयि । ज्ञाते च दधिमधुवाक्यान्नाकाङ्क्षेति नान्वयी तर्हि अप्रकृते अस्त्वन्वयि, न, अप्रकृतं हि कर्म फलं प्रति विधेयम् । तत्र नामापि परशब्दतया धर्मविध्यर्थं क्वचित् । प्रकृते त्वत्र नामता दूरे । अतः चित्रयेति गुणविधिः, योग्यतया प्रकृतिपशौ। वाक्याद्विच्छेदश्च । न हि हविरन्तरे प्राण्यतिरिक्ते चित्रता शक्या, अवयवगतैः शुक्लत्वादिभिरवयविनि चित्रता आज्यौषधसान्नाय्यादीनां नेत्युक्तम् ।
?R
?R अयं भावः - न दधिमधुघृताद्यवयवेषु व्यवस्थितं शुक्लत्वादिकं उत्पत्तौ पुरोडाशाद्यपि संयवनादिजन्यं न व्यवस्थितशुक्लत्वादिजन्यम् । पटादिकं तु तथाभूतमपि न हविः । अतः प्राणिहविरेव योग्यं चित्रान्वये । अतः प्राणिहविष्के प्रकृतावग्नीषोमीये पशुयागे चित्रताविधिः ।
?R
?R यद्यप्यनुपात्तद्रव्ये चित्रद्रव्यपरता तथापि लाघवात्तु चित्रताविधिः तथापि पशुव्यक्तेः स्त्रीत्वात् स्त्रीलिङ्गता, परोक्तं तु चित्रत्वस्त्रीत्वाभ्यां प्राण्यन्वयित्वम्। तदुक्तम् -
?R?0 चित्रत्वस्त्रीत्वयोगो हि प्राणिजातौ स्वभावतः ।
?R?0 तेनैते प्राणियागाङ्गप्रकृतिं दैक्षमाश्रिते ॥ इति ।
?R तन्न । स्त्रीत्वनिर्देशो ह्यसत्यपि स्त्रीत्वे तुल्यः । तटः तटीति यथा । अत एव स्त्रीत्वानुरोधान्न विकृतिस्त्रीपशुके निवेशः । पञ्चदशसंख्याविशिष्टाज्यविधिः स्तोत्रे पञ्चदशानीति । स्तोमावृत्तौ ड इति स्तोत्र एव विशिष्टगुणविधिरर्थात्। यथासम्भवं
?Rचाज्यस्य द्वारमस्तु। सङ्ख्या स्वभावादेव सङ्ख्येयविशेषणं विभक्तिरप्यनुगुणेति विशिष्टत्वमसमासेऽपि ।
?R राद्धान्तस्तु - यत्र द्वितीयो गुणश्चित्रत्वे स्त्रीत्वमाज्ये च सङ्ख्या तत्र वरं नामता, नाम्ना हि साध्यावस्थे लक्षिते एकगुणविधिस्सुकरः । अस्ति चाज्यैस्तुवत इत्यत्राज्यनामत्वम् । न च संख्येह सङ्ख्येयविशेषणं डान्ततया स्तोमान्वयात्। चित्रयेत्यत्रापि यदि न नाम स्यात् प्रकृतस्य फलार्थता न स्यात्, ?R ?R किं गुणार्थमुत फलार्थमित्यनध्यवसायात् । तेन नामतयैव फलार्थता। वाक्यभेदस्वीकारस्सत्यां गतावयुक्तः ।
?R
?R पूर्वपक्षभाष्यं - " ?Rन चामी यौगिकाः । अस्यार्थः- यौगिको हि व्यक्तिवाचीति प्रकृतयागनाम स्यात् । चित्राशब्दस्तु जातितुल्यगुणवाचीति न प्रकृतनाम। न चायौगिको व्यक्त्यभिधायीति व्याख्यातम् ।
?R अयं भावः - चित्रयेति यदि योगात् स्यात् तदा बलात् व्यक्त्यर्थः पङ्गजपदवत्। अन्यथा गुणार्थः । अयन्त्वयौगिकोऽपि यजिर्व्यक्त्यर्थः एव । अपरं भाष्यम् - गुणफलकल्पनायां यजेरविवक्षेति । तस्यार्थः । अन्यतः प्रवृत्तं यागमाश्रित्य गुणफलपरतायां यजेरत्र वाक्ये न विवक्षा । न चान्यतो यजौ प्रवृत्तिरिति व्यावृत्यफले यजिविधिर्वाच्यः । तदा एकवाक्यतानुरोधान्नामतैव स्यात् । सा माभूदिति पूर्वपक्ष्येव गुणफलाधिकारं निराचष्टे ।
?R राद्धान्तभाष्यं " ?Rपुंपशो प्राप्ते स्त्रीपशुः पशवः फलं चित्रो गुण इति न शक्या एकेने “?R ति । तस्यार्थः - चित्रत्वं स्त्रीत्वञ्च विधेयम् । अतो भिन्नमपि वाक्यं
?Rपुनर्भेद्यं, अथ सारस्वत्यां स्त्रीत्वलाभाच्चित्रत्वमात्रविधिः तथाप्येको वाक्यभेदः अग्नीषोमीयगतलौहित्यबाधश्च । वरं प्राकृताग्नीषोमीये विधिः वाक्यभेदस्यावश्यकत्वात् । तत्र चित्रत्वस्त्रीत्वयोर्विधिरस्तु ।
?R नन्वेवमुपदिष्टपुंस्त्ववर्णयोः बाधः तद्भयात् सारस्वत्यामतिदिष्टवर्णमात्रबाधादेकगुणविधिर्युक्तः । मैवम् । गुणविधिर्हि आश्रयाकाङ्क्षः प्रकृतिगामी लब्धाश्रयः प्रातिपदिकार्थं विधातुं, न तु तद्गुणभूतस्त्रीत्वप्राप्त्यनुरोधात् उत्कर्षार्हः, पाशवत् । अतो न्यायागतोपदिष्टपुंस्त्वबाधः । पक्षे बाध्यम् । सारस्वत्यान्तु वर्णबाधोऽभ्युच्चयमात्रम् साप्तदश्यन्तु न गुणानुरोधात् विकृतिगामि, न चाश्रयाकाङ्क्षम् । अनुवचनाश्रयस्यैव श्रुतेः आश्रयतः निराकाङ्क्षमेव इति सुस्थम् । अत्र चिन्त्यते - किमुपदिष्टबाधात् प्रकृतिगामि किमतिदिष्टबाधात् विकृतिगामीति । पुनराम्नानोपसंहृतं विकृतिविशेषेष्विति दिङ्मात्रम् ।
?R अत्र भाष्यम् - “?R अथ कस्मात्, पुनः सङ्ख्याविशिष्टान्याज्यानिस्तोत्रे न विधीयन्त” ?Rइति तदधिकाशङ्कार्थम्। अग्नये पावकायेतिवद्विशिष्टविधौ न विध्यावृत्तिः । तत्रोत्तरम् - प्राग्विधानात् अग्नेः पावकता सिद्धा न ह्याज्यानां सङ्ख्याभेदो विधिं विनेति भेदः । अथाग्निप्रजापत्योरिवैककारकतया एकार्थविधिः । तन्न । इह मिथोऽन्वयानुग्रहायोद्देश्यविधेयतयान्वयः । तत्र तु नैवमन्वयार्हतेति भेदः ।
?R?0 चित्राख्यायाः प्रवृत्तिस्तु नानावर्णहविर्गुणात् ।
?R?0 आज्यनामाऽऽजियानात् वाक्यशेषविशेषतः ॥
?R ?R?0 ॥ 3॥ तत्प्रख्यं चान्यशास्त्रम् ॥ 4 ।?R?0।
?R अत्रापि उद्भिदधिकरणशेषतया न पृथक् सङ्गतिः । तत्र हि सामानाधिकरण्येन गुणाविधौ मत्वर्थलक्षणापत्तेर्नामतोक्ता । इह तत् क्वचिदाक्षिप्य समर्थ्यते । अग्निहोत्रपदं हि होमे प्रवृत्तं तदुपसर्जनाग्निगुणविधिरस्त्वित्याक्षेपः । यदि हि पृथक् चिन्तेयमभिमता स्यात् तदा प्रसङ्गात् सङ्गतिरुच्येत । साक्षाद्वा तत्प्रख्याग्निहोत्रवाक्ययोर्मध्ये केन गुणविधिरिति अनध्यवसायात् अव्यवस्थयैव पूर्वपक्षस्थितिरित्युच्येत । न च तथा ग्रन्थः । किन्तु उक्तनामाक्षेपपरतयैव। उत्पत्तिस्थमधिकारस्थं न वाग्निहोत्रपदं गुणपरमिति न चिन्तितम् । वस्तुतस्तु अधिकारस्थं न गुणार्थमन्यपरत्वाद्वाक्यस्य । उत्पत्तिस्थमेव गुणपरमित्यनास्थया भाष्ये अधिकारवाक्यमुदाहृतम्, उत्पत्तौ चाकरणं क्रियेति द्वितीयान्तं समानाधिकरणम् । बहुव्रीहिणा होमे प्रवृत्तिरुक्ता । होमकरणे होत्रपदप्रवृत्तेः । होमसामानाधिकरण्यस्य बलवतो बहुव्रीह्यधीनत्वात् व्यधिकरणोऽपि जघन्योऽपि बहुव्रीहिरेव । स च न सप्तमीगर्भः अग्नौ होमस्य प्राप्तेः अतोऽपेक्षितदेवतार्थं चतुर्थीगर्भ एवेत्युपसर्जनदेवताविधिः हिरण्यस्रज ऋत्विज इतिवत् । न च विशिष्टविधिः गौरवादित्याश्रयासन्निधेः धर्माकाङ्क्षव्यवहितदर्वीहोमेषु विधिः । दध्यादिविधिरपि तत्रेव । यदि तेषु गुणान्तरश्रुतिः अगत्या विकल्पोऽस्तु । न च फलवाक्यादपि(दर्वी) होमविधिः उत्पत्तिस्थाग्निहोत्रपदप्रत्यभिज्ञया " ?Rफलञ्चाकर्मसन्निधावि " ?Rत्यस्य हानादितीयं दिक् । आघार्ये द्रव्ये गुणकर्माघारणविधिः । इह सामानाधिकरण्यमनुपयोगि मत्वर्थलक्षणां विना गुणविधिरित्येकाधिकरणता, आघारणं हि स्वभावात् कर्मकारकनिष्ठमित्याकाङ्क्षायोग्यताभ्यां द्वितीयान्तमीप्सितपरम् । अकर्तरि चेति ईप्सित एव घञन्तम् । आघारार्हे प्रकृते प्रधानोपांशुयाजाज्ये अप्राप्ताघारसंस्कारविधिः ।
?R यद्यप्याघारणं दीर्घधारयाक्षारणं तत् सान्नाय्येऽपि तथापि न तत्परमाघारपदम्
?R। नासोमयाजीत्यनित्यत्वात्तस्य । अपितु आज्यपरं आज्यस्य नित्यत्वात् प्रयोगव्यवस्थया च तदित्याज्यविषयमेव । अथ प्रयोगे विमतिः । न। चतुर्गृहीतादिसमभिव्याहारात् । आज्यविषय एव हि चतुर्गृहीतविधिः । " ?Rइन्द्र ऊर्ध्व " ?Rइति च मन्त्रविधिराघारसंयोगादाघार्यद्रव्ये, तद्द्वारा चोपांशुयाज एव मान्त्रवर्णिको देवतेति दिक् । प्रस्तरस्तु न हविः पूर्वमिति न मान्त्रिक्या देवतया पूर्वयागनिवेशीति हरतिर्यजतिः । सूक्तवाकान्वयादिति भेदः ।
?R भाष्येऽपि आघार्यद्रव्यविधिरेवोपांशुयाज उक्तः । तत्र यद्यप्याघारयतीति नोपांशुयाजोद्देशः अन्योन्याश्रयत्वात् आघार्यद्रव्यविधौ हि तद्योगात् आघारयतीति तदुद्देशः । तदुद्देशेन च तद्विधिरिति तथापि ‘?R चतुर्गृहीतं वा एतदभूत् ’ ?Rइत्ययं विधिः चतुर्गृहीतेनाज्येन कर्म कुर्यादिति । स च द्रव्यशून्ये उपांशुयाजे। तदेवमाज्यवत्त्वात्प्राप्तमाघारयतीत्यनूद्यते । एतच्च द्रव्यविधिपक्षेऽपि तत्प्रख्यान्नामैवेति वक्तुम् ।
?R राद्धान्तस्तु यो गुणो विधेयः सोऽन्यतो लब्धः। अग्निर्हि यदग्नये च प्रजापतये चेत्यनेन लब्धः । विपरीतं न कुतः, (प्रजापतेश्च विधानादेव) एवम्, अगत्या ह्युपसर्जनपरो विधिः यदग्नये च प्रजापतये चेति विधौ स न युक्तः। नन्वयमेकवाक्येऽनेकगुणविधिः । तन्न। अग्निप्रजापत्योराश्रययोरत्रानेकता कर्मान्वयिनस्तु देवतारूपाकारकस्यात्रैकतयैव विधिः । न च प्रत्येकं चतुर्थीतः प्रत्येकं देवतात्वं, चतुर्थीतो हि तत्कल्प्यम् । एकवाक्ये हि गुणपरे अनेकाश्रितमेकमेव कल्प्यं विधेयम् । चतुर्थी चशब्दश्च आश्रयमात्रसमुच्चयेऽपि हि साधुः । प्रत्यभिज्ञालाघवाभ्यां न होमान्तरविधिः
?R?0 यत्परोक्तम् - अनेकपदसम्बन्धं यद्येकमपि कारकम् ।
?R?0 तथापि तदनावृत्तैः प्रत्ययैर्न विधीयते ॥ इति ।
?R तन्निरस्तम् । न ह्यनेकाश्रयत्वं विधेयम् । आक्षेप्यन्तु तत्। नन्वेकपदार्थतैव युगपदधिकरणवचनतयैवेति । न । द्वन्द्वेऽप्यगत्या सा। तस्मिन्नेव वाक्ये सायमिति श्रुतिरगत्या हविरुभयतेवाविवक्षिता । अपेक्षासंभवे चोद्देश्यकोटिः, सायं समभिव्याहारतो वा विशेषावगतेः नित्यानुवादः। आघारणमपि सन्ततादिवाक्यैर्लब्धम् ।
?R अथ सन्ततादिविध्यर्थानि तानि तथापि व्यर्थता, विशिष्टविधिस्तेष्वस्तु। विशिष्टविधौ वाऽऽघारणभेद इत्यपि न, गुणकर्मणामपि सुतरां कार्याभेदेऽभेदात् सोमक्रयणवत् । अतोऽर्थवत्ताकाङ्क्षायां मन्त्रवर्णादेर्यागविधिः । तस्मिन्नाघार्यद्रव्यके प्राप्ताघाराश्रितसन्ततादिविधिः । स च व्यर्थः। चतुर्गृहीतं वेति प्राप्तेः । विपरीतं न कुतः ? ?R न, आघारे भावकर्मसन्देहात् । चतुर्गृहीतं हि स्फुटं द्रव्यम् ।
?R ननु दर्वीहोमोपांशुयाजयोः गुणविधिः शङ्कितः । तत्प्रख्यन्त्विहैवेति न प्राप्तिः । मैवम् । गुणविधिपक्षे तत्र प्राप्तिः । निवृत्ते त्वत्रेति । न च चक्रकादिदोषादनध्यवसायः, गुणविधिनिरसनात् । न च पूर्वोत्तरपक्षानध्यवसायात् संगतिः, ग्रन्थास्वरसात् । नाममात्रमग्निहोत्रम् आघारश्च । याग एव विधेयः ।
?R ?R?0॥4॥ तद्व्यपदेशञ्च॥5॥
?R अत्राप्युद्भिदधिकरणोक्तमाक्षिप्य समर्थ्यत इति तच्छेषतया न पृथक् सङ्गतिः । न तु प्रसङ्गोऽनध्यवसायो वाऽनुसन्धेयः। ग्रन्थास्वरसात्। तत्र हि द्रव्ये कर्मणि च योगात् प्रवृत्तेः नामतोक्ता । इह तु रुढिशब्देषु चिन्ता। रुढ्यनुगत्या वरं मत्वर्थलक्षणा प्रोद्गातृणामितिवत् । धान्यमसीतिवच्च। न तु कथञ्चिद्योगादाज्यादेर्नामता । न च श्येनादेः वतिलोपान्नामता, अग्निर्माणवक इतिवत्
?R। लोपाश्रयणे हि वरं प्रवृत्तिकरतया मुख्यान्वयानुसाराच्च मतुब्लोपाश्रयणेन विशिष्टविधिः । लुप्तवतिका हि गौणीनां वृत्तिः । एवं मत्त्वर्थलक्षणादोषाक्षेपादुद्भिदधिकरणशेषता । आज्यादावपि चिन्तेयम्। राद्धान्तेऽपि रूढतानपायात् अनुदाहरणशङ्का माभूदिति श्येनाद्युदाहृतम्। लुप्तवतिका हि गौणी वृत्तिरिति । तस्यार्थः- सवतिकस्थाने गौणीवृत्तिरिति अर्थात् लुप्तवतिकता ।
?R राद्धान्तस्तु - इह अवयवार्थे सापेक्षो योग एव युक्तः । वाक्यकार्यं हि भावार्थैकविधिपरत्वम् तत्पूर्वकमिह पदार्थत्वम् । अतः कर्मनामतापेक्षायां वाक्यशेषादाजिगमनयोगधिया कर्मनामनिश्चये रूढिरेव हेया। एवं श्यनादेर्नामतापेक्षायां वाक्यशेषानुसारात् गौणतया सामानाधिकरण्ये सति वत्यर्थाविधेः नामता । इह साधितेन रूढानां नामत्वेन चित्राधिकरणे विशेषचिन्ता ।
?R?0 ॥ 5 ॥ नामधेये गुणश्रुतेः स्याद्विधानमिति चेत् ॥ 6 ॥
?R इह यावदुक्तं नामाक्षिप्य समर्थ्यते तेन व्यक्तमुद्भिदधिकरणशेषतया सङ्गतत्वम् । प्रामाण्येनैव पूर्वपक्षोपसंहारान्न साक्षात् तत् । वाजपेये तु लिङ्गदर्शनं द्योतकमस्तीति तदुदाहृतम् । विधान्तरेण मत्वर्थलक्षणाहानादाक्षेपोऽयं पूर्वानन्तरम् । पूर्वपक्षस्तु तन्त्रेण यजिः फलगुणौ प्रति स्वार्थंमप्रयतु । आख्यातात् साध्यावस्थे धीः एकफलावच्छेदादेवेति साध्यसाधनावस्थोऽर्पितः । साधनतया फलान्वयी साध्यतया गुणान्वयीति व्यधिकरणतयाऽन्वयात् न मत्वर्थापेक्षा। न च विरुद्धत्रिकद्वयं ज्ञाताज्ञातगुणागुणोपादेयानुपादेयरूपम् । न च पदावृत्तिविध्यावृत्ती । तन्त्रत्वेन नापि मानान्तरादाश्रयापेक्षा । अर्थप्रदर्शन एव वाक्यभेदभ्रम इति प्रवृत्तिपरे वाक्ये पदमप्रवृत्त्यर्थं नामतया न युक्तमिति यथार्हं सर्वत्र गुणविधिः । वाजपेये च पेयान्नविधौ विशेषार्थः सुराग्रहविधिरस्तु । अग्निहोत्रे च निरपेक्षाग्निविधिरस्तु ।
?R अथ वा प्राप्तानुवादेऽपि गुणविधौ न दोषान्तरमितीह निरस्यते ।
?R राद्धान्तस्तु - नोभयावस्थेन गुणः फलं च संबन्धुं क्षमम्। एकैकान्वयार्थमेकैकावस्थकर्मपरत्वे तु ज्ञेये आवृत्त्या वाक्यभेदो दुर्वारः । एकवाक्यतानुगुण्यात् पुर्वाधिकरणचतुष्कोक्तयुक्तिभिः नामता साक्षादप्रदप्रवृत्त्यर्थत्वेऽपि इति न वाक्यकार्यताहानिः । वैरूप्ये च न तन्त्रम् । लोके त्वभिप्रायादित्युक्तम् ।
?R?0 ॥ 6 ॥ तद्गुणास्तु विधीयेरन्नविभागाद्विधानार्थे
?R?0 न चेदन्येन शिष्टाः ॥ 9 ॥
?R भावार्थसामानाधिकरण्यान्नामतोक्ता । न तु भवत्यर्थसामानाधिकरण्यात्। भावार्थाश्रितो गुणविधिः न तु भवत्यर्थाश्रित इति विधान्तराभावात् प्रसक्तमप्रामाण्यमिति पुर्वः पक्षः सङ्गतिद्वयं च। पुंवाक्यं हीदृशं दृष्टमिति पौरुषेयत्वापातात् कृत्स्नवेदाप्रमाण्यम् । न चाग्नेय इति द्रव्यदेवतासम्बन्धश्रुत्याऽऽक्षिप्तो यज्यर्थो भावः तत्र नाम वा गुणविधिर्वाऽस्त्विति वाच्यम् । यत आग्नेयाष्टाकपालयोः श्रुतिः । तदुभयविध्यशक्तेरेकस्योद्देश्यत्वे नाग्नेयः उद्देश्यः अप्राप्तेः । न चाष्टाकपालः प्राप्तोऽस्ति अष्टसु संस्कृतो दृष्टार्थ इत्यबोधकं वाक्यम् । भाष्ये तु नामतया पूर्वपक्षवचनव्यक्तिः प्रसिद्धार्थपरा गौणी प्रसिध्यपेक्षया सापेक्षतामेव वक्तुम् । अष्टाकपालद्रव्यस्य सन्निहितमन्त्रान्वयादग्न्यन्वये कर्मविधेः प्राप्तार्थमाग्नेयपदं नामेति तु परमतं हेयम्। वाचनिके हि मन्त्रान्वये बलात् कर्मपरता, आघारादिनयात् । न तु सन्निधिमात्रात्।
?R राद्धान्तस्तु पदद्वयार्थो द्रव्यदेवतासम्बन्धोऽभिधानतः प्रसिद्धो यज्यर्थवत्कार्यत्वेनाप्रसिद्धः । एवं विशिष्टो विधेयः । प्राप्ते ह्यन्यतरसम्बन्धिन्युद्दिश्य विधिः। इह तु न तथेति विधेयार्थः आग्नेयादिरिति न नामता ।
?R विवरणे तु यदि नामतः प्रामाण्यं इह तर्हि न तत् । प्राप्तार्थं हि नाम। आश्रयाप्राप्तेः अनेकगुणश्रुतेश्च न गुणविधिः । अत एव भाष्यकारेण न गुणविधिरित्युपसंहृतम् । नतु नामतेति सङ्गतिद्वयम् पूर्वपक्षश्च ।
?R राद्धान्तस्तु - यत्र पृथक् गुणश्रुतिः तत्राश्रयापेक्षा रक्तपटवत् । इह तु गुणानुरूपकर्मविधिना आक्षेपतो गुणकार्यता । कृत्तद्धितसमासेषूपसर्जनानां पाचकौपगवराजपुरुषादावन्यनिष्ठमेवाभिधानमित्यन्यविधावुपादानशेषा गुणाः पश्वेकत्ववत् । अन्यशिष्टे हि गुणे अग्निहोत्रपदवन्नामत्वमाश्रितम् । अशिष्टे तु पृथक् श्रुतेऽपि पौर्णमास्यादिगुणे विशिष्टविधिविधा ।
?R ?R?0॥ 7॥ बर्हिराज्ययोरसंस्कारे शब्दलाभादतच्छब्दः ॥ 10॥
?R विध्यधीनोऽपि पदाभिधेयोऽष्टाकपालः तद्वत् बर्हिरादिरप्यस्तु लवनेन बर्हिः कुर्यात् यथा छेदनेन यूपम् । न च बर्हिरर्थोद्देशेन संस्कारविधिः, संस्कारादेव बर्हिरर्थ इत्यन्योन्याश्रयः । यतो दर्भान् लुनाति बर्हिः कर्तुं इत्यन्वयः। यथा खादिरादि च्छिनत्ति यूपीकर्तुमित्यन्वयः । एतच्च संस्कृते सार्वभौमप्रयोगादित्युक्तम्। एकदेशे जातौ संस्कारार्हतया गौणः प्रयोगः सर्वसिद्धस्तु न गौणः । न हि जातौ प्रयोगादर्शौ गौणं प्रयोगमर्हति। राजशब्दे तु शाब्दस्मृतिबलात् दृष्टमुख्यप्रयोग एव मुख्याभिमानात् गौणे व्युत्पन्न इति कल्प्यते । नेह तथा शाब्दस्मृतिः । अतः संस्कृते मुख्या बर्हिरादयो भान्ति । तथाऽन्योन्याश्रयदोषात् संस्कृतार्थत्वे जात्यर्था एकदेशप्रयोगात् भान्ति । यूपे तु नैकदेशेऽपि वृक्षजातौ प्रयोग इत्यगत्या खादिरादि च्छिनत्ति यूपीकर्तुमित्यन्वयः । इत्येवं मुख्यगौणानध्यवसायात् बर्हिराज्यपुरोडाशादिपदवान् वेदो न प्रमाणमिति सङ्गतिद्वयं पूर्वपक्षश्च ।
?R न च परोक्तान्योन्याश्रयसमाधिः । दर्भैस्तृणीतेति मन्त्रात् दर्भेषु स्तरणप्राप्तेः न बर्हिः पदवाच्ये स्तरणविधिरिति । यतो वचनविनियोज्यमन्त्रात् मन्त्रार्थप्राप्तिः लिङ्गविनियोज्ये त्वस्मिन् अन्यतोऽप्राप्तेः लिङ्गविनियोगासिद्धेः बर्हिःपदवाच्ये स्तरणादन्योन्यश्रयः ।
?R राद्धान्तस्तु - जात्यर्थताध्यवसायात् यूपे ह्यगत्या कथञ्चिदन्योन्याश्रयं निरस्य संस्कृतार्थतोक्ता। इह तु एकदेशभवात् जातौ प्रयोगादस्ति गतिः । अप्रतीतमुख्यस्य गौण एवादौ व्युत्पत्तेः । मुख्याभिमानात्तु गौणवृत्तौ मुख्यभ्रमः गाव्यादिरिव अशक्तिजत्वाज्ञानादनादिः । अथ विपरीतं न कुतः जातावेव गौणत्वाज्ञानादस्तु। मैवम् । अगत्या संस्कृतार्थतेत्युक्तम् ।
?R ननु अज्ञातमुख्यार्थस्य गौण एवादौ व्युत्पत्तिरित्यगत्या, राजशब्दे तु शाब्दस्मृतेस्तथा । तर्हि वाक्यशेषादज्ञातमुख्यस्य गौण एव व्युत्पत्तिरिह साध्यते। आज्यादि यवादि चोदाहरणमुभयत्रापि । अयं भावः - यववराहाधिकरणे वाक्यशेषस्थो मुख्य इत्युक्तेऽपि अज्ञातमुख्यस्य म्लेच्छादेः न गौणेन व्यवहारसिद्धिरिति शङ्केह वार्यते । तेनापुनरुक्तिः । अस्ति चात्र आज्यादि विधाय घृतादिशब्दैः स्तुतिः । तद्बलादेव शङ्का इहापि निवर्त्या। अर्थभेदाच्चानुष्ठानभेदकथनं भाष्ये अनध्यवसायशङ्कैव चिन्ताप्रयोजिकेति वक्तुम् ।
?R विवरणे तु बर्हिरादिपदैः न सार्वभौमो लोकव्यवहार इति न व्यवहारप्रसिद्धार्थता । न च संस्कारविधिवाक्ये व्यवहाराद्वेदत एव प्रसिद्धार्थता। उद्भिदादेरिव सामानाधिकरण्याभावात् । न च यूपादेरिवाश्रयान्तरपूर्वकता वेदे खदिरादिवदिहाश्रयाश्रुतेः । लोके च एकदेशे जातौ व्यवहारो लवनार्हतया गौणोऽपि
?Rसंभवीति अन्यत्र तदर्हत्वेऽपि न प्रयुज्यतां नाम न तदर्हताऽपैति। संस्कारार्थत्वे च अन्योन्याश्रयतेति बर्हिरादिपदवतो वेदस्याप्रामाण्यम्। भाष्ये तु संस्कारार्थता अनध्यवसायपर्यवसितैव ।
?R राद्धान्तस्तु संस्कारार्थत्वमनिश्चितं नैकदेशव्यवहारं गौणीकर्तुमर्हतीति जात्यर्थताध्यवसाय एव । भाष्ये तु संस्कृतैः स्तरितव्यं, न तु तदनध्यवसायाद्युक्तमिति शेषः । एवमस्मन्मते न वाक्यशेषान्निर्णयः ।
?R ?R?0 ॥ 9 ॥ प्रोक्षणीष्वर्थसंयोगात् ॥ 11 ॥
?R संस्कृते प्रोक्षणीशब्दः सार्वभौमः, जातावैकदेशिकः । स च मुख्य इत्युक्तम् । इह शाब्दस्मृतिरपि सेककरणयोगात् मुख्यतामाह । सा चादृतेत्यपवादिका प्रयोगमूलेति चापवाद्येत्यनध्यवसायात् सङ्गतिद्वयम् । पूर्वपक्षश्च।
?R राद्धान्तस्तु - संस्कृतजातिप्रयोगद्वयविषयेऽपि योगाहानाद्यथास्मृति मुख्यार्थता । अन्यथा शक्त्यन्तरकल्पनापत्तेः । यथा एकस्मिन्ननेकशब्दप्रयोगेऽपि एकःशब्दोऽनादिः स्मृतेः साधुः, एवमनेकस्मिन् एकशब्दः तथा अनुगतार्थस्मृतेः ।
?R विवरणे तु प्रसङ्गादिदमित्यवान्तरसंगतिरुक्ता । यद्येकदेशप्रयोगात् संस्कारविधिसिद्धिः योगेऽपि तर्हि तथैवास्तु । रूढेर्योगापहृतिस्तक्षादौ दृष्टा वर्धकिजातौ । अवयवार्थापेक्षो हि योगो न रूढिः । अक्लृप्ता च रूढिः क्लृप्तो योग इत्यनध्यवसायोऽत्रापि मते ।
?R राद्धान्तस्तु - क्लृप्तत्वादिह योग एवादेयः क्लृप्ता हि रूढिरनपेक्षा यागहारिणी तक्षादेरन्यत्र योगेऽपि अप्रयोगाद्रूढिता । योगाद्धि जात्यन्तरेऽपि प्रयोगो दुर्वारः।
?Rप्रोक्षणीशब्दस्त्वन्यत्रापि प्रयोगाद्यातीति यौगिक एव ।
?R ?R?0 ॥ 10 ॥ तथा निर्मन्थ्ये ॥ 12 ॥
?R निर्मन्थ्यशब्दे अधिकाशङ्का । योगतन्त्रत्वे चिरनिर्मथितेऽपि प्रयोगः स्यादिति अवयवार्थस्मृतितोऽपि न निर्णयः स्यादिति सङ्गतिद्वयं पूर्वपक्षश्च ।
?R राद्धान्तस्तु - शाब्दस्मृतिसिद्धे प्रयोगे तत्साधुता नियन्त्री। संक्षेपार्थं सामान्यतः स्मृतिरपि सिद्धप्रयोगविषयतयैव विशेषार्थे उपसंहारार्हा। न तु स्मृतितोऽप्यधिकप्रयोगापत्तिरिति अत्रापि तथेत्युक्तम्।
?R विवरणे तु राद्धान्ते मथनयोगागतैव अचिरता प्रयोगेऽपीति न योगहानात् समुदायशक्तिकल्पना अन्यत्राप्रयोगेऽपीति हि तत्र न रूढिः । यत्र योगानपेक्षयापि जात्यपेक्षः संप्रयोगः संभवी तत्र योगतन्त्रत्वानुपपत्तेः रूढिकल्पना पङ्कजादावस्मिन्मते । निबन्धने तु योगजात्योर्भावेऽपि क्लृप्ताद्योगादेव शक्तौ न शक्तिकल्पना जातितः, स्मृतेः सिद्धसर्वप्रयोगविषयायाः विशेषोपसंहृतेः नान्यत्र प्रयोगापत्तिः । एवं चावयवयोः प्रत्येकमविशेषतः शक्तिः । सह प्रयोगे क्वचित् कयोश्चित् कुत्रचिद्विशेषविषये प्रतिबद्धा यद्यादिभिरिव विध्यभिधानशक्तिः। प्रतिबन्धस्तु संक्षेपस्मृत्या न शाब्दः स्मृतः । सिद्धप्रयोगविषयतया तु अर्थी कृतः। शक्तिकल्पनातो हि प्रतिबन्धकल्पना लघ्वीति रहस्यम् । अहीनशब्दे तु क्लृप्तायामप्यहः शब्दशक्तौ यागसङ्घातयोः प्रकृतिप्रत्यययोरिहैव शक्तिः कल्प्या तद्वरं समुदायशक्तिरकैव कल्प्यताम् । न च सर्वत्रोपसंहृत एवावयवशक्तिः सत्रेष्वदर्शनात् प्रयोगस्येत्युक्तम् । अतः पङ्गजादौ संबन्धग्रहो जात्युपाधेरिति तु अशक्तिवचोव्यक्तिः अप्रयोगादेवाप्रयोग इति ।
?R विवरणे तु वरं रूढिः नतु परोक्ता योगरूढिरित्यर्थः । परोक्तो भङ्गः - युक्तं
?Rहि नावनीतश्रुतावचिरनिर्दग्धत्वं, एवं हि घृतविशेषकता । निर्मन्थ्यश्रुतिस्तु वैद्युताग्निनिवृत्त्यैवार्थवत्तया नाचिरार्था । तदुक्तं -
?R ?R?0 वैद्युताश्माभिघातोत्थसूर्यकान्तादिजन्मनाम् ।
?R?0 निवृत्त्या चरितार्थत्वात् निर्मन्थ्योऽभिनवः कथम् ॥ इति ।
?R स्वराद्धान्तस्तु पाकार्थप्राप्तेऽग्नौ मथनविध्यर्था निर्मन्थ्यश्रुतिरिति प्रयोगे मथनादचिरार्थता न शब्दार्थतयेति । तन्न । यदि चैवं याज्ञिकानामचिरार्थतास्मृतिर्नेया तदा हि यस्य यावत्प्रयोगान्तरुत्पत्तिः तच्छब्दानामचिरार्थतास्मृतिरिति स्यात् । अतः स्मृतिद्रढिम्नैवाचिरार्थता स्थपिता। प्राप्तेऽप्यग्नौ निर्मन्थ्यरूपविशेषविधिरयं न तु मथनविधिः खलेवालीवत् ।
?R?0 ॥ 10॥ वैश्वदेवे विकल्प इति चेत् ॥ 13 ॥
?R यदि शाब्दस्मृतित एव वाक्यार्थनिर्णयः तर्हि ततोऽर्थनिश्चयेऽपि गुणविधिनामत्वानिश्चयः वैश्वदेवेन यजेतेत्यत्रेति नामपञ्चकाद्विच्छेदः सङ्गतिद्वयं पूर्वपक्षश्च । साऽस्य देवतेति पाणिनिस्मृतेः वैश्वदेवशब्दो देवतायुक्तयागसमानाधिकरण एव । सूक्तहविषोरिति स्मृतेः हविरर्थत्वं असद्वादित्वाद्धेयम् । एवं [?Rहेया] ?Rमत्वर्थलक्षणेति प्रवृत्तिविशेषकरतया प्रकृतेषु गुणविधिभानम् । तेषामुत्पत्तौ अग्न्याद्यवरुद्धत्वात् गुणान्तरसंबन्धानुपपत्तेः तेषु वैश्वदेव्यामिक्षाऽस्तीति दण्डिवल्लक्षणया प्रवृत्तेर्नामताभानम् । इयं गतिरस्तीति नाप्रकृतविशिष्टविधिना कर्मभेदः।
?R तत्किमभिधानमुखेन गुणोपरोधं पिधाय प्रवृत्तिविशेषकरो गुणविधिरस्तु, किं वा व्यर्थां जघन्यलक्षणामाश्रित्य विषमशिष्टविकल्पहानाय नामताऽस्तु - इत्यनध्यवसायः ।
?R राद्धान्तैकदेशी गुणविधेरध्यवसायमाह वैश्वदेवाभिधेयतां यागस्य न गुणावरोधो हन्तीति तदभिधेयमुखं गुणविधिमपि न विहन्ति फलचमसवत् । तत्र तु व्यवस्था । इह विकल्पो नयायातः ।
?R परमराद्धान्ती त्वाह - अभिधानं नामतयापि शक्यत इति न विकल्पः श्रुत्योत्पत्तिशिष्टानां अन्यथासिद्धं एकवाक्यशिष्टं कृत्वा युक्तः । फलचमसे तु नान्यथासिद्धिः । तुल्ये च प्रकृतत्वे आमिक्षायागं हित्वा विधिरयुक्तः । तत्र प्राप्तेरशक्यः । विधेयाविधेयता च सकृन्न युक्ता । वरमनभिधेयाभिधानं प्राप्तत्वात् दण्डिवल्लक्षणयेति यावत्प्रकृतानां नामताध्यवसायः ।
?R ननु वैश्वदेवनाम्नो मुख्यार्थतानुरोधात् यजिरामिक्षायागमात्रे वर्तताम् । तन्न। वैश्वदेवनाम यागमात्रे प्रवर्त्यं यजिपरतन्त्रसामानाधिकरण्यात् । सूक्तहविषोरिति स्मृतेर्हविर्वाचि । न च पाणिन्यविरोधेऽपि असद्वादिता । हविः परत्वे च व्यधिकरणता, आमिक्षालिङ्गापत्तिश्चेति हविर्योगात् यागे प्रवर्त्यं यजिपरतन्त्रम्। यजिश्च स्वतः सर्वप्रकृतवृत्तिः अतो दण्डिवद्वैश्वदेवपदम् । पौर्णमासीं यजत इति तु कालपदानुरोधात् प्रकृतपरो यजिः कालयुक्तपर एवेति न दण्डिवत् कालपदम्। वैश्वदेवयजिस्तु देवतापदानुरोधात् अतद्दैवत्यप्रकृतपरो गुणविध्यर्थः। गुणविधिस्त्वभिधानोपपत्तये बहुदोषोऽपि शङ्कितः । सोऽन्यथोपपत्त्या तद्दैवत्यप्रकृतप्रवेशाद्वारितः, न तद्दैवत्यमात्रपरत्वादिति न पूर्वप्रतीतातद्दैवत्यहानिरिति भेदः ।
?R किञ्च कालानुवादप्रयोजनं समुदायद्वयसिद्ध्या दर्शपूर्णमासाभ्यामित्यत्रोपयोगः तत्र नेह तथेति भेदः । त्रिंशदाहुतिदर्शनं च नित्यवत् गुणविधिपक्षेऽपि न स्यात्
?Rसंप्रतिपन्नविश्वेदेवदेवताकतया प्रधानाहुतितन्त्रत्वात् । तथाहि - अष्टौ प्रधानाहुतयः, नवप्रयाजाः नवानूयाजाः आघारावाज्यभागौ इति त्रिंशत्ता ।
?R?0 ॥ 11॥ पूर्ववन्तोऽविधानार्थास्तत्सामर्थ्यं समाम्नाये ॥ 17 ॥
?R अत्रापि द्वादशसङ्ख्यावरोधादष्टत्वादिगुणविध्यसंभवः । न च गत्यन्तरमत्रेत्यन्वयप्रतिभामात्रमिति सङ्गतिद्वयम् । पूर्वपक्षस्तु न नामतयाऽस्ति गतिः, अभावार्थसामानाधिकरण्यात् । न च मन्त्रविधा विहितास्मारकत्वात्। न चार्थवादता, द्वादशसंख्यावच्छेदे ह्यष्टाद्यवच्छेदनिवृत्तिः, न तत्स्तुतिरिति न काचिद्गतिः ।
?R राद्धान्तैकदेशी गुणविधेरन्वयमाह । एकेनैव वाक्येन सर्वसंख्यायुक्तकर्मविधेर्नावरोधदोषः। वैश्वानरं द्वादशकपालमित्युपक्रमो देवतान्वयार्थः, न संख्यान्तरहानार्थः इति संख्याविकल्पो वा कर्मावृत्तिर्वा । नानासंख्यकपालसिद्धपुरोडाशसंघो हविरिति तु नोक्तम्, अनास्थया प्रत्येकं देवतान्वयान्न संघो हविरित्येवं वा ।
?R विवरणे तु प्रत्यष्टाकपालादिद्रव्यं तन्त्रेण देवतान्वयात् कर्मोत्पत्तिभेद एवोक्तः । न गुणविधिः गुणान्तरावरोधादेव ।
?R राद्धान्तस्तु एकस्मिन्नपि वाक्ये वैश्वानरं द्वादशकपालं निर्वपेदिति शीघ्रं द्वादशसंख्यान्वितकर्मोत्पत्तिधीः । अष्टाकपालादेस्तु प्रथमान्तस्य पुनाति इति स्तुत्या वैश्वानरान्वयः कल्प्य इत्युपरोधात् स्तुत्यैवान्वयः । द्वादशावच्छिन्नादौ अवयुत्याष्टाद्यवच्छेदोऽपि द्वादशावच्छेद्यवर्गे बहुस्तुतिः । कथञ्चित् संबन्धिद्वारापि
?Rस्तुतिः आपश्शान्ता इतिवत् । गुणफलविध्यर्थमष्टत्वादीत्येकवाक्यत्वादेव निरस्तम् । एकवाक्यत्वं चोपक्रमोपसंहारयोरैक्यादुक्तम् ।
?R ?R?0 ॥ 12 ॥ तत्सिद्धिः॥ 23 ॥
?R अवयुत्यापि संबन्धिस्तुतिः संबन्धित्वानवयोजनात् । इह तु संबन्धितापि न भाति । अशक्यश्च गुणविधिरित्यन्वयप्रतिभैवेति सङ्गतिद्वयं पूर्वपक्षश्च। गौणमुख्याधिकरणोक्तगौण्यन्वयाक्षेपेण चेयं चिन्ता । यदि हि मुख्यगुणात् परत्र प्रवृत्तिः अग्निशब्दात् पिङ्गलताधीरेव न स्यात् गुणान्तरधीरपि भवेत् । विवक्षया नियतधीरिति चेत् । विवक्षानुवर्ती तर्हि शब्दः न स्वार्थसंबन्धानुसारी इत्यसमर्थेऽपि विवक्षावशात् अध्यारोपिततद्भावो गौणः स्यात्। एवं चाग्निं समारोप्य माणवकेऽग्निशब्दो न माणवकार्थः । अधिगतमेवारोप्यते नानधिगतं वस्तु गृह्यते। सोऽयमित्यारोपः, न तु तत्सदृश इति । आरोपविषय एव च गौणशब्दविषयः आरोपरूपकल्पनानिर्मितमेवैवंविधशब्दो वक्तीति खपुष्पादिप्रयोगसिद्धिः । तुल्यनयात् लक्षणायामप्यारोपादेव नियतसंबन्धधीः । अतः शाब्दान्वयाभावात् न यजमानशब्दः प्रस्तरैककपालयोः स्तुत्याऽन्वितार्थः । गुणविधिरपि कार्यलक्षणया नान्यथेति न मानार्हः, अशाब्दान्वयादेव । न च शक्यं यजमानकार्यं ताभ्यां तयोर्वा यजमानेनेत्युक्तं भाष्ये । न चाग्रहसमाधेयोऽयमारोपो भवेत्, भेदग्रहण एव शब्दप्रयोगात् गौणानाम् । अर्थप्रकरणाद्यभावेऽपि विवक्षया नियतगुणधीरारोपादेव ।
?R राद्धान्तस्तु अग्निपदप्रयोगनियमो हि आरोपे व्यर्थः । अथाग्न्यर्थारोपं वक्तुमग्निपदं तर्हि अग्न्यर्थारोप एव व्यर्थः । अग्निगुणबोधनार्थमिति चेत् । सिद्धं तर्हि शाब्दमेव गौणत्वम् । नियतगुणधीस्तु अर्थप्रकरणाद्यनुगृहीताच्छब्दादेव । अर्थप्रकरणाद्यभावेऽपि नियतगुणधीरित्यपि न, लोके विवक्षितार्थपरतैवार्थादिगम्या ।
?Rवेदे विवक्षाशून्ये अर्थादिगम्यं तात्पर्यं शब्दस्यैवेति शाब्दता गौणस्य । मुख्येऽपि पाचकादौ देवदत्तादिनियतधीः इत्थमेव ।
?R खपुष्पादिप्रयोगेऽपीयं विधा - ख-पुष्पशब्दयोरनन्वितार्थयोः सहोच्चारणसामान्यादन्वयस्मृत्याऽनन्वयाग्रहात् अन्वयाभिमानमपनेतुं दृढमेव केनचिदभिप्रायेण प्रयोगः । यथा खपुष्पव्यवहारः मानान्तरादसंबन्धाग्रहादवगम्यते गुरुनये एवं शाब्दतास्थितिरिह नयान्तरात्। गौणमुख्याधिकरणेऽपि नयान्तरात् विवेकः शाब्दत्वेऽपीति चिन्त्यम् ।
?R विवरणे तु सङ्ख्यान्तरान्वयविरोधनिरासि यदधिकरणषट्कमन्वयविरोधनिरासार्थम् । अतः अधिकरणषट्कस्य सङ्गतिद्वयम्। सिद्धोऽपि गौणोऽन्वयः इह गुणादर्शनादयुक्तः । न च कार्यतो गौणता ये यजमाना इतिवद्वाच्या। विधितो हि तत्र तथा । इह कार्ये विधिरशक्य इति हृदि स्थितमेव । एवं साक्षात्सङ्गतिः । अथ कथञ्चित् कार्ये विर्गौणोऽन्वयः तर्हि प्रसङ्गात् संगतिः । कृतश्च पूर्वः पक्षः ।
?R राद्धान्तस्तु - नोपरिसादने सर्वहुते वा यजमानविधिश्शक्यः । न चाचेतनाभ्यां याजमानं शक्यम् । अतो न कार्ये विधिः । विध्यन्तरशेषत्वाच्च न विधिः, स्तुत्या यज्ञसाधनत्वसामान्यादन्वयः विधौ न तथेति अशक्यता भाष्ये। गौणवृत्याक्षेपात् पूर्वपक्षभ्रमो गुरुणा निरस्तः । इह तु गौणताक्षेपः गौरश्व इतिवत् न तु गौर्वाहीक इत्यत्रापि, यदि हि गुणसमुदायवाचितयाऽध्यारोपाद्वा गौणतानुज्ञानं तदैव परं सर्वगौणताक्षेपः स्यात् । न चानुज्ञानम् ।
?R ?R?0॥ 13॥ जातिसारूप्यप्रशंसाभूमलिङ्गसमवायात् ॥ 23॥
?R अधिकरणपञ्चकं अल्पभेदमेकदैव निबद्धम् । त्रयं गुणाप्रतीतेर्नान्वयधीरित्येतन्निरसनार्थं, विधाभेदात् भिन्नम्। द्वयं लक्षणया नान्वय इत्येतन्निरसनं विधाभेदात् कर्तुम् । नाग्नेये इयताविधेरन्वयः विध्यन्तरशेषत्वात्, गुणाप्रतीतेश्च न गौण इति शङ्का। अग्निब्राह्मणयोरेकस्थानप्रभवतया श्रुतेः संबन्धप्रतीतिः । ततश्च आग्नेयो ब्रह्मण इति संबन्धार्थतद्धितान्तसमानाधिकरणतया अत्र स्तुत्याऽन्वयः । अत्र प्रतिपदोक्ताद्देवतातद्धितात् जघन्येयं विधा गौणीवेति गौणोक्तिः ।
?R अथ वा आग्नेयोऽग्निसम्बन्धः अयमप्येकस्थानप्रभवतया अग्नसंबन्ध इति गौणान्वयः ।
?R
?R सारूप्यात् । यूपे यजमानादित्ययोः गुणबोधात् विध्यन्तरशेषतया कार्याशक्तेश्च न विधिरित्यनन्वयः । मन्दगुणात् ऊर्ध्वतातेजस्विताम्यां अन्वयः।
?R प्रशंसा । पशुष्वेव या अपशूक्तिः सा विहितस्यापि पश्वन्तरकार्ये विध्यर्था। विध्यन्तरशेषभावाच्च न विधिरित्यनन्वयः । स्तुत्याऽन्वयः । उपकाराधिक्यात् प्रशंसा ।
?R भूमा । सृष्टिमन्त्रा बहव आम्नाताः । अल्पशोऽन्ये । लिङ्गादिष्टकोपधाने विनियोगेऽपि सृष्टीरुपदधातीति श्रुतेः सृष्टिपदवन्मन्त्रोपधेयेष्टका सृष्टिरिति साधुत्वे चिन्ता - अर्थवत्त्वाय विधिः सृष्टिलिङ्गमन्त्रोपधेयेष्टकानां तासां प्राप्तेर्वा अन्यलिङ्गमन्त्रकाः सृष्टलिङ्गमन्त्रकाः कृत्वोपधेयाः । वचोभङ्ग्या सृष्टिलिङ्गकं कार्यमिति विधिः। तदा चान्यलिङ्गक ’ ?Rएकयाऽस्तुवत ‘?R इत्यादि मन्त्राम्नानं व्यर्थम्। अतो दुर्घटो विधितयाऽन्वयः ।
?R
?R राद्धान्तस्तु वरं सृष्टिबाहुल्यादुपधेयतामात्रेण लक्षणया सृष्ट्यसृष्ट्यनुवादः सृष्टिरिति हि सृष्टिमन्त्रवत्य इष्टकाः उक्ताः । तद्वानासामुपधानो मन्त्र इति इष्टकासु लुक् च मतोः इति मतुब्लुक् । लुकि च वयस्या इतिवत् न यक् छान्दसत्वात्। न च प्राग्विधेः सृष्टिमन्त्रका इष्टका ज्ञाताः । मन्त्रलिङ्गात् ज्ञानेऽपि न विधिरिति न तत्सिद्धिः । न च मन्त्रविधिः मन्त्रान्तरानर्थक्यादित्युक्तम् । अतोऽनुवादः सृष्टीरिति सर्जनरूपेण स्तुत्यर्थः ।
?R ?R?0 लिङ्गसमवायात्
?R प्राणभृन्मन्त्रवतीनां उपधानविधिरर्थवत्वाय पूर्ववद्दुर्घट इत्यनुवादोऽत्रापि । योगान्तरं त्वनुवादोऽपि दुर्घट इति शङ्कापनोदाय, सकृदुच्चरितसृष्टिप्राणभृत्पदयोः लक्ष्यलक्षकपरत्वं वृत्तिद्वयाधीनमयुक्तमिति शङ्का । प्राणभृल्लिङ्गका चैका तत्पदनिर्देश्यता बाह्ये न युक्ता इत्यभ्युच्चयः । तन्न । उपधानयोगितया लक्ष्यत्वे स्वार्थोऽप्यन्तर्भूत इति न वृत्तिद्वयं उपधानयोगिता सर्वव्यापिनीति बहुष्वप्येकपदलक्ष्यतेति । दण्डिनो गच्छन्तीति लोकेऽपि सिद्धम् ।
?R ?R?0 ॥ 14॥ सन्दिग्धेषु वाक्यशेषात् ॥ 29 ॥
?R अञ्जनद्रव्यसंयुक्तमुक्तमित्येवं पदार्थे निश्चितेऽपि वाक्ये अक्ता इति प्रयोगः कतमाञ्जनद्रव्यसंयुक्तपरः इत्युपादानाय विशेषापेक्षायां विशेषप्रतीतौ तद्विषयत्वं, अप्रतीतौ सामान्यस्थ एवान्तर्भूतानियतविशेषोपादानपर्यन्तम् । तत्र विध्युद्देशोपक्रमानुरोधात् सामान्यस्थः । घृतमिति च पदं स्नेहद्रव्यलक्षणया घृताघृतपरं प्राणभृन्नयात् । अथवा अर्थवादोपसंहारयोः अननुरोध्यत्वेऽपि अपेक्षितविशेषपरः घृतश्रुत्यनुग्रहश्चेत्यनध्यवसाय इति यववराहनयापुनरुक्तिः। सङ्गतिद्वयम् पूर्वपक्षश्च । पुनरुक्तिप्रत्युक्तिविभवोऽयं, तत्र विपर्ययनिराक्रियोक्ता
?Rनिबन्धने । विवरणे तु वाक्यान्तरस्वार्थवादात् निराक्रियोक्ता । यतः वेदो वेति नयादपि नोपक्रमश्रुत्यनुरोधादध्यवसायः । तत्र हि उपक्रम एव विशेषधीः । न चोपसंहारे तद्विशेषलाभः । न चोपक्रमश्रुत्यहानमिति न तत्तुल्यता। राद्धान्तस्तु विध्युद्देशोपक्रमयोरनुरोध एवायं यद्विशेषनिराकाङ्क्षीकरणम्। एकवाक्ये विशेषश्रुतौ तद्विशेषनिष्ठ एव सामान्यशब्दो व्युत्पन्नः सार्थवादवदेव धीश्शाब्दीत्युक्तम् । घृतपदञ्च नातिपरोक्षार्थं युक्तम् । अतो घृतेनाक्ता इत्यध्यवसायः।
?R ?R?0 ॥ 15॥ अर्थाद्वा कल्पनैकदेशत्वात् ॥ 30 ॥
?R यदि वाक्यशेषाद्विशेषपरता तदभावात् सर्वस्य सर्वावदानं शास्त्रात् । न च तथानुष्ठानशक्तिरिति किं यथाशक्त्यनुष्ठानं, उत यथाशास्त्रमिति अनध्यवसायात् अनुष्ठानसन्देहात् अनुष्ठानाक्षेपपर्यन्ते शास्त्रार्थे सन्देहः, नतु यथाशक्त्यनुष्ठानं विपर्यस्तं ततश्चेत्थमेव सन्दिग्धं अस्ति नास्तीति । अथवा सर्वं सर्वेणावदेयं अनुग्राहकद्रव्यान्तर्भावात् शक्तितो वा केनचित् किञ्चिदिति सन्देह इति सङ्गतिद्वयम् । पूर्वपक्षश्च ।
?R राद्धान्तस्तु स्वरूपमात्रश्रुतेर्नानुग्राहककल्पना योग्यान्वयव्युत्पत्तेः शक्तितो व्यवस्थितोऽन्वयः शास्त्रार्थः । अतो विधिचिन्तया प्रथमपादे, अर्थवादमन्त्रस्मृतिनामधेयानामनुष्ठानतः पादत्रयेऽपि स्थापितं प्रामाण्यं तस्य निमित्तपरीष्टिरिति यत्प्रतिज्ञातम् ।
?R?0 इति श्री महामहोपाध्यायभवनाथमिश्रविरचिते नयविवेके
?R?0 प्रथमाध्यायस्य चतुर्थः पादः ।
?R?0 इति प्रथमोध्यायः समाप्तः ।?R?0
?R ?0 ______?R
?R?0
?R ?R?0 नयविवेके प्रथमाध्यायस्य
?R ?R?0 तृतीयः पादः
?R?0 ॥ 1 ॥ धर्मस्य शब्दमूलत्वादशब्दमनुमानं स्यात् ॥ 1 ॥
?R ‘?Rयां जना’ ?Rइत्यादिमन्त्राः मानान्तरापेक्षस्य मन्वादिस्मृताष्टकाकार्यस्य रात्रिप्रकाशनद्वारा तत्कार्यार्थाः । एवमपौरुषेयमपि चेन्मन्त्रवाक्यं मानान्तरापेक्षार्थं तदा स्वाभाविकमेव शब्दस्य सापेक्षार्थबोधकत्वमिति सर्व एव वेदः सापेक्षार्थ इति निर्विषया प्रतिज्ञेति पादान्तरं अनन्तरं च ।
?R
?R ननु अपुंवाक्यस्य मन्त्रस्य मानान्तरगम्यकार्यार्थता न युक्ता । न । अगत्या युक्तेत्युक्तं पञ्चिकायाम् । मन्त्रोऽयं रात्रिं प्रकाशयन् प्रकाश्यरात्रिमत्कार्यार्थतार्हः । अनिदंप्रथममष्टकाकार्यं रात्रिदेवताकमाह । इदंप्रथमकार्यं तु रात्रिमदपि नानिदंप्रथममन्त्रार्थतार्हमिति न तदाह । न च वैदिकस्यैव लाभे अन्यदनिदंप्रथमकार्यं न मन्त्रार्थतार्हमिति वाच्यम् । वैदिको हि रात्रिः कालतया क्वचित् । न च कालः प्रयोगावस्थकार्यप्रकाशकमन्त्रप्रकाश्यः । कथञ्चिदनुष्ठेयोऽपि प्रयोगात्प्राक् स्मार्यते । अत एव कालाभीज्यापक्षे पार्वणहोमयोरसंस्कारतोक्ता नवमे । न चासति सामान्यसम्बन्धे लिङ्गान्न विनियोग इति वाच्यम् । कार्याभिधायिता मन्त्रस्य साधिता न लिङ्गविनियोगः । अतस्तत्कार्यान्वयात् तद्विनियोगोऽस्तु वा मा वा । नात्रास्था। अतोऽष्टकालिङ्गमन्त्रा इति भाष्यस्थसमाख्यया सामान्यसम्बन्धानपेक्षं लिङ्गं विनियोजकमिति च व्यर्थम् । कालरात्रिके वैदिके देवतारूपरात्रिप्रकाशकोऽयं मन्त्रः नेति न पञ्चिकोक्तम्। न च युक्तम्। चतुर्थ्यन्तताद्यभावे न देवतात्वधीः । न च प्रतिनन्दनं देवताया एव न च धेनुता (न च) पत्नीत्वं, सानो अस्तु सुमङ्गलीरिति स्तुतयोऽपि देवताया एव, कालरूपाया अपि रात्रेरङ्गत्वात् सा च स्तुत्यर्हैव देवतेव । यापीयं मानान्तरापेक्षार्थतामन्त्रस्य सा अष्टकादिस्मृतेरर्वेदमूलत्वे तु
?Rमूलभूतानपेक्षवेदापेक्षो न मानान्तरापेक्षः ।
?R ?R?0 पूर्वपक्षः
?R पूर्वपक्षस्तु भाष्यकारादिभिरष्टकादिमूलवेदेषु योग्यानुपलम्भात् स्मर्तॄणामपि योग्यानुपलम्भोऽवधृतः । तेन महाजनादृतमपि मन्वादिवाक्यं न वेदमूलकम् । न च आप्तमन्वादिवाक्यं वेदार्थविषयं वेदजप्रमाकार्यं स्वकारणीभूतप्रमां पक्षधर्मताबलात् वेदजामेवानुमापयति [?Rइति] ?Rमूलभूतवेदानुमानसिद्धिरिति वाच्यम् । यद्युत्सन्नोऽसौ अनुमेयो वेदः, न तदुत्सादे हेतुः । यथाहि अनन्तचरणाधारत्वात् अहरहरभ्यासे च कृते संस्कारपाटवादिनाऽतिशयादन्यवेदधारणं तथाऽस्यापि स्यात् । अयमपि केषाञ्चिच्छाखिनां शाखान्तर्गत एव । स्वशाखाधारणे चानन्ता मेधाशालिनोऽभियुक्ता दृश्यन्ते । अतस्त्यागानवकाशः । अवकाशे च सर्ववेदव्यवहाराणां हानम् । सर्वाङ्गधीना हि विधिसिद्धिः त्यक्तवेदोक्ताङ्गप्रहाणाशङ्कया नानुष्ठानं स्यात् । त्यक्ते च स्मृतेः सङ्ग्रहाशक्तिः। त्यक्ष्यमाणो च मानाभावः । पदवर्णत्यागशङ्कया च वाक्यार्थावगमो न स्यात्। यदप्यापस्तम्वेनोक्तम्(आ.ध. 1-12-10) अत ब्राह्मणोक्ता विधयः तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्ते इति । तदुक्तानुमाने मूलेऽसति अनादृत्यमेव । विप्रकीर्णवेदानुमा न शङ्किता तुच्छत्वात् ।
?R ?R?0 भट्टमतनिरासः
?R यत्परोक्तं - शाखानां विप्रकीर्णत्वात् पुरुषाणां प्रमादतः ।
?R नानाप्रकरणस्थत्वात् स्मृतेर्मूलं न लक्ष्यते (तं. वा. 1-3-2) इति । यदि स्मर्तृभिरपि न लक्ष्यते कथं तन्मूलत्वं स्मृतेः । लक्ष्यते चेत् अथ यत्र न वैदिकं शब्दमुपलभामहे अथ च स्मरन्ति’?R इति भाष्यं हेयम् । अयोग्यैरनुपलब्धे पूर्वपक्षस्तुच्छः स्यात् । यत्नलक्षितमूलोद्भूत एव राद्धान्तः स्यात् । न नयव्युत्पत्तिः
?Rस्यात् । प्रयोगविधिमूलता मन्त्रार्थवादमूलतापि विप्रकीर्णवादमूलतेव हेया । न च मूलान्तरं विनापि पुंवाक्यपरम्परात एव स्मृत्यर्थधीः शब्दार्थसम्बन्धवदिति वाच्यम् । युक्तं हि स्वदृष्टोऽर्थः सम्बन्धमूलं पुंवाक्ये त्वर्थानिश्चय एव ।
?R
?R ननु कार्यधीः स्मृतिबाक्यकरणिका स्वकारणकारणतया सम्बन्धिना वेदवाक्येन व्याप्ता वेदमनुमापयतु । एवं तर्हि वेदकारणत एव स्मृतिवाक्यं कार्यमित्येवं कारणतः कार्यं विज्ञेयम् । तच्च न । अन्यकारणिकापि स्मृतिः चैत्यवन्दनादिका दृष्टा । कथं पटः तन्तुसंयोगकारणकः कारणकारणकुविन्द व्यापारमनुमापयति । तन्न । तन्तुसंयोगव्यवहितव्यापारस्यापि कुविन्दस्य निमित्तकारण ताऽन्वयव्यतिरेकगम्या अस्त्येव न तथा कार्यधीकारणं वेदः ।
?R
?R ननु आप्तवाक्यात् स्मृतिमनुमाय स्मृतितोऽपि कार्यधीरस्तु सा स्मृतिकारणिकाऽस्तु । स्मृतेस्त्वलौकिकार्थायाः कारणं वेदोऽनुमीयताम् । चैत्यवन्दनादेस्तु वेदमूलतानुपगमात् न वेदानुमानम् । तन्न । मितिसाधनस्य वेदस्य योग्यानुपलम्भात् निरासे कृते मितिनिरासान्न मित्यनुमितिपूर्विका स्मृतितः कार्यधीरिति न तद्बलात् वेदानुमा । न चानुमानैकगम्ये वेदे योग्यानुपलम्भासिद्धेः अस्तु श्रोत्रग्राह्यवर्णात्मकतया शब्दत्वं अपौरुषेयग्रन्थात्मकतया च वेदत्वम्। किन्तु अनिरूपितनियतरूपपदजातात् नार्थधीः । लिपितस्तु नियतपदानुमितेरर्थधीर्युक्तैव ।
?R
?R अथ यथा लिपितो वर्णपदधीः तथैव तदर्थशक्तानि पदानि इत्यनुमितौ नियतपदाबोधेऽपि तुल्यार्थपदद्वयानिश्चयेऽपि नियतार्थधीदर्शनात् इहाप्यस्तु । वर्णक्रमोऽपि बुद्धिस्थतया पदताहेतुः, अनुच्चारणेऽपि लिप्यनुमितपदवदस्तु। परमतेऽपि लिङ्गादेव श्रुतिः कल्पिता विशेषतोऽनवधारितापि विनियोजिकैवोक्ता;?R
?Rतद्वदिहाप्यस्तु । न च स्मर्तृणामपि मूलाश्रवणात् जात्यन्धपरम्परामूलमानशून्यस्मृतिवत् अनुमेयस्मृतिमूलतेति वाच्यम् । उक्तं हि - स्मृतिलिङ्गात् वेदानुमितिसिद्धेः अबाधात् रूपस्वरूपे तु चक्षुरेकग्राह्ये जात्यन्धस्य मानं असम्भवान्निरस्तम् । न जात्यन्धस्मृतेरनुमानार्हम् । अथ चक्षुष्मद्वाक्यानुमितजात्यन्धस्मृतं रुपं न तर्हि जात्यन्धपरम्परामात्रात् स्मृतिः । इह तु श्रोत्रग्राह्योऽपि शब्दः कादिवर्णमयः श्रुतिवाक्यसजातीयतया अर्थधीशक्तः अनुमानार्ह इति अन्धपरम्परावैषम्यम्। नत्वेवं चक्षुर्ग्राह्यतोपाधिकरुपतास्मृतेः जात्यन्धानर्हतेति । न ह्यौपाधिकं रुपत्वम् । अनिदंप्रथमा अन्धपरम्परा नेत्यनुमानाऽपेक्षेति नातुल्यता, कृत्वाचिन्तया तुल्यतापादनात् ।
?R
?R एवं स्थितेऽपि मन्वादिस्मृतेर्न वेदजा मितिः शक्याऽनुमातुं, वाक्याद्धि मितिमनुमाय मितितोऽर्थं च मितिसाधनवेदानुमा वाच्या । न च तथा नसिद्धिः । न चेदं वाच्यं स्मृतेः मूलासम्भवनिरासाय पूर्वं वेदमनुमाय ततो वेदात् प्रमितिमुत्पाद्य पश्चात् स्मृतितोऽर्थधीः । अतः प्रमाणभूतवेदानुमानसिद्धिरिति। उक्तं हि - अयथार्थत्वशङ्कापगमाय आप्तवाक्यात् मितिमनुमाय मितितोऽर्थं च अयथार्थत्वशङ्कामपास्य पुंवाक्यादर्थधीः । मितिसाधनवेदादर्शनात् बाध्यगानायां मित्यनुमायां नित्यानुमेयं वेदंपक्षधर्म बलात् (वेदम) मित्यनुमितौ निवेश्यानुमित्यन्तरतो वा बाधनिराकरणात् दृढीकृते मित्यनुमाने तदर्थे च पुंवाक्यादेवार्थधीपर्यवसाने जाते अनुमितवेदाद्धीरनुवाद एव । न हि पुंवाक्येन श्रोता वक्तृमितिं ससाधनामनुमाय स्वयमनुमितात् योग्येन्द्रियादेः स्वप्रमामुत्पाद्य पुंवाक्यादर्थं वेत्तीति व्युत्पत्तिः ।
?R एतेन इदं निरस्तम् - मूलवेदासम्भवहेतोः वक्तृज्ञानानुमाने प्रागेव बेदानुमानं वेदादर्थज्ञानं चेत्यतो नानुवाद इति । अस्तु वेदानुमा अग्रे। श्रोतुस्तु ततो नार्थधीः
?Rवक्तृधीहेतोरिन्द्रियादेः अर्थमित्यदर्शनात् ।
?R राद्धान्तस्तु-स्मृतितो वेदवेद्यतार्हकार्य(ता) धीः पुंवाक्यान्तरमर्यादया ननु स्मृत्यर्थानुष्ठानदर्शनात् अनुष्ठानगतकार्यधीः प़ञ्चिकाविरोधात् । ननु अनुष्ठानमादाय चिन्तेयम् । सा जातापि तादृग्धीशक्तस्मरणानुगुणाकारणभूतमितिसाधनवेदादर्शनात् बाध्यमाना दृढतरस्मरणेनैव स्वकारणकोटिनिविष्टवेदानुमानात् स्थापिता। परोऽपि-
?R ?R?0 " ?Rभ्रान्तेरनुभवाद्वापि पुंवाक्याद्विप्रलम्भनात् ।
?R?0 दृष्टानुगुण्यसामर्थ्यात् चोदनैव लघीयसी ॥ इति ।
?Rपरेण तु नित्यानुमेयना बहुदोषत्वान्नेष्टा । ते दोषाः प्रत्युक्ताः । यदुक्तमनुमेयवेदादनुवादो न प्रमितिरिति । तदपि न । सापेक्षानुवादे हि न प्रमितिः न दैवादनुवादेऽपि, धारावाहिकवत्। न हि वेदः पुंवाक्यवदयथार्थत्वशङ्कापगमाय मानान्तरप्रवृत्त्यपेक्षः । किन्तु पुंवाक्यात् स्मृतिरुपात् तदर्थावगमे अन्यतो वेदान्न बुभुत्सतीति न वेदादर्थमितिः । यो यदाऽनुमेयवेदस्य प्रमितिशक्तिपरीक्षार्थं वेदादपि बुभुत्सति स तदावेदादप्यवैति इति गुरुरहस्यम् । नित्यानुमेये सति च " ?Rप्रत्यक्षविधानाद्गार्हस्थ्यस्यै इति गौतमोक्तिरप्यञ्जसा । न तदध्ययनविधिः अतस्तदनाम्नानम् । अतोऽनभिव्यक्तेर्न प्रत्यक्षता। न ह्यनभिव्यक्तं प्रत्यक्षं;?R यदि स्यात् शब्दविस्मरणं न स्यात् । प्रत्यक्षानुवृत्तेः स्मरणानुवृत्तिः न भवेत् । वेदमूलता च स्मृतेः स्मर्तृभिरेवोक्ता " ?Rयः कश्चित् कस्यचिद्धर्मः " ?Rइति । श्रुतिरपि " ?Rयद्वैकिञ्चमनुरवदत्तद्भेषजम् " ?Rइत्यादिका । बुद्धस्मृतौ तु विपरीतम् । अष्टकादिलिङ्गा मन्त्रा इति च मान्त्रवर्णिकी रात्रिः स्मृत्योक्तेति दर्शनादन्यदपि वेदोक्तमेव स्मृतिष्वितिधीः । पूर्वं मन्त्रस्य सापेक्षार्थत्वं स्मृत्यैकवाक्यत्वेनौक्तम् । इदानिं स्मृतेः तदेकवाक्यतया वेदमूलतोक्ता । गुर्वनुगमनादिस्मृतेः यद् दृष्टमूलत्वमुक्तं न तत् तदङ्गकाध्ययनविधेः मानान्तरापेक्षत्वावहम् । अङ्गता हि न दृष्टमूला किन्तु वेदमूलैव
?Rसा । दृष्टद्वारतामात्रमवघातादिवद्विधेः अनुमतमिति दृष्टमूलता । हेतुदर्शनादवेदमूलतां तु वक्ष्यति।
?R
?R विवरणे त्वधिकम्-प्रयोगविधेः स्मार्ताचमनादिविशिष्टत्वात् विशेषणांशे मानान्तरापेषता । न चानिदंप्रथमस्मृत्युपस्थापितविशेषणहानमनपेक्षत्वार्थम् । न हि प्रयोजनानुरोधात् मानान्तरावगताङ्गहानम् । न त्वाचमनं वेदोक्तम् तदितिकर्तव्यता स्मार्तापेक्षया विशेषणं हेयमिति समाधिः दीपशिखाविरोधात् । यदाह - ‘?Rन चाचमनं कार्यमिति साक्षाद्वेदोऽस्ति ‘?R इति । यां जनामन्त्रोऽपि स्मार्तरात्र्यपेक्षः । रात्रिदेवताप्रकाशको मन्त्र इति यदुक्तं तत् कालस्य रात्रिमन्त्रप्रकाशनानर्हत्वात् पारिशेष्यात् देवतात्मकरात्रिवाचित्वात् । ‘?R धन्वन्निव प्रपा असि ‘?Rइत्यनुवादोऽपि स्मार्तप्रपापेक्षः । तदेवं त्रिविधं स्मार्तमुखं [?Rअ] ?Rप्रमाणयं न वेदभागोत्थमिति भाष्यं " ?Rएवं तावत् कृत्स्नस्य वेदस्ये “?Rति?Rव्याख्यातम् । न तु भाष्ये स्मृतिमात्राक्षेपः यदाह- “?R अथ यत्र न वैदिकं शब्दमुपलभन्ते अथ च स्मरन्ति एवमयं पदार्थोऽनुष्ठेय " ?Rइति। एवं वैदिकाकाङ्क्षोक्ता । सा च स्मृतिषु वैदिकस्यैवेति तदलाभे चापरिपूर्णं वैदिकं वाक्यमिति न प्रमाणमिति तात्पर्यम् । राद्धान्ते नाधिकम् । तत्तु नानुभवनं इति भाष्यम्। अनुभवनं वेदादतिरिक्तं मानान्तरं तद्वेदार्थकार्यधीशक्तस्मरणाननुगुणत्वाद्धेयम् । ननु अन्वयव्यतिरेकगम्यमष्टकादिकर्म पुष्टिफलकमिति जन्मान्तरानुभवार्हम् ।
जातिस्मरता च लोकानुभवात् सिद्धेति अनुगुणमनुभवनमपीति । अत्र भाष्यम् - ‘?R जन्मान्तरानुभूतं च न स्मर्यते ’ ?Rइति । जन्मान्तरानुभवो हि साध्यसाधनत्वेन तन्न स्मर्यते, स्मृत्या नोच्यते; ?Rकिन्तु अपुर्वं स्मृत्यर्थः । तन्नेहामुत्र वाऽनुभवार्हम् । वेदार्थता च स्मृतेः स्मर्तृभिरेवोपेता । कर्तृसामान्यमेकाधिकारिता, कर्त्रेकता हि एकप्रयोगत्वे । तच्चैकाधिकारित्वे । अतस्तदेव कर्तृसामान्यादिलक्षितं एकाधिकारत्वम् । तच्च स्मार्ताचमनादेः
?Rअङ्गत्वेनाष्टकाकर्मणो मन्त्राङ्गित्वेन । अतः स्मार्तेऽप्यपूर्वपर्यन्ततया वेदानुमानसिद्धिरिति । अष्टकायां प्रयोगविध्यनुमा आचमने उत्पत्तिविध्यनुमा आचमनक्रियाविध्यनुमेत्यर्थः । कर्तृसंस्कारो हि न विध्यन्तरम् । मन्त्रस्य प्रयोगविध्यपेक्षायां अष्टकैक्ये स्थिते शेषभूतमन्त्रात् शेषिभूतविध्यनुमेति लिङ्गदर्शनसिद्धिः । गुर्वनुगमनादौ गुरुप्रीत्यर्थस्यावघातादिवत् प्राप्तेर्नोत्पत्तिविधानम् नियममात्रार्थं विधानमस्तु । प्रपादौ च परोपकारः कर्तव्य इति विधिप्राप्तेः नियममात्रे विध्यनुमा ।
?R?0 ॥ 2 ॥ विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम् ॥ 3 ॥
?R यदि स्मृतेर्वेदानुमा तर्हिप्रत्यक्षश्रुतिविरुद्धाया अपीति अनुमेयप्रत्यक्षश्रुत्योः परस्परव्याघातादप्रामाण्यं इति सङ्गतिद्वयं पूर्वपक्षबीजं च । ननु तुल्यत्वे विकल्पः, अतुल्यत्बे तु अनुमेयबाधो न त्वनयोन्यव्याघातः । तन्न, अन्योन्याश्रयापातात् । तुल्यं हि विरुद्धद्वयं युगपदुपस्थितमिति विकल्पार्हम् यथा षोडशिग्रहणाग्रहणादि । न च ग्रहणप्रसक्तिपूर्वकं अग्रहणमिति अयुगपद्भाविता वाच्या । द्वयोर्हि प्रत्यक्षश्रुत्योरेकदैवोपस्थितेः तथैव स्वरूपद्वयं क्रत्वर्थमन्योन्यविरुद्धत्वात् विकल्प्यानुष्ठेयम् । न तु विधिनिषेधरूपशब्दद्वयं क्रत्वर्थं, अङ्गविधिरनुवाद एव । यतः प्रयोगवचनादेव विधिनिषेधतेति न ग्रहणप्रसक्त्यपेक्षमग्रहणम् । विरोधस्तु एकपात्र विषयद्वयायोगादिति दिक् ।
?R यत्र तु क्रमोपस्थितद्वयं विरुद्धं तत्र चरमबाधे स्तिते व्याघातो दुर्वारः। पूर्वमनुपसञ्जातविरोधि न विकल्पार्हम् । अपरमपि अवश्यंभाविपूर्वाबाधादशक्यम् । पूर्वमपि परबाधकं तुल्यशक्ति । न च पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत् " ?Rइत्यस्यायं विषयः येन प्रत्यक्षतः श्रुतेर्बाध एव स्यात् । तत्र हि एकैकशोऽपि नैमित्तिकद्वयं सावकाशमिति क्वचित्पूर्वबाधेपि न सर्वथा बाधः । न त्वेवं, व्याघातः विधौ,
?Rअन्योन्यव्याघातः प्रत्यक्षश्रुतयोरपि। स तु विकल्पादपास्यः । इह स्थायिसिद्धान्तेन बाधादिनेति । एवं तर्हि व्याधातो राद्धान्तात् प्रागदृढ एव विकल्पापास्यत्वात् । न चैवं व्याघातविधा - वेदानुमानसिद्धान्तात् तद्विरोधिश्रुतवेदप्रामाण्यशङ्कारूपो व्याघातः । अनपेक्षतया कृत्स्नश्रुतवेदप्रामाण्यादनुमानव्याघातशङ्केति सिद्धान्तद्वयदर्शनादन्योन्यव्याघात इति। यतः सिद्धान्तद्वयसिद्धश्रुतानुमेयवेदद्वयप्रामाण्याद्विकल्पापत्तिः । नापि सिद्धान्तद्वयादन्योन्यव्याघातः ।
?R ?R?0 पूर्वपक्षः
?R पूर्वपक्षस्तु आप्तस्मर्तृवाक्यात् श्रुत्यविरोधे यदि वेदानुमा तर्हि विरोधेऽपि। न च प्रत्यक्षश्रुतिविरोधे नानुमेति वाच्यम् । यद्विधं हि विरुद्धद्वयं न दृष्टं यथा उष्णस्वभावं न शीतं न तत्रानुमितिः। श्रुत्योस्त्वन्योन्यविरुद्धार्थत्वं दृष्टम् । तदुक्तम् भङ्गवादिना -
?R ?R?0 परस्परविरुद्धत्वं श्रुतीनां न भवेद्यदि ।
?R?0 स्मृतेः श्रुतिविरुद्धायाः ततोमूलान्तरं भवेत् ॥
?R अथानाप्तत्वात् विरुद्धार्थे स्मर्तॄणां नानुमा तर्हि अष्टकादिविषयेऽपि नानुमा । तदुक्तं तेनैव -
?R?0 कदाचिच्छ्रुतिमूलत्वं उक्त्वा भ्रान्त्यादिमूलता ।
?R?0 स्मृतिभिः प्रतिपन्ना चेत् कस्तामिन्द्रोऽपि वारयेत “?R॥ इति ।
?R राद्धान्तस्तु-साक्षाच्छ्रुतवेदविरोधे नानुमानम् सिद्धेन हि साध्यं उत्पत्तिप्रतिबन्धाद्बाध्यते वह्नाविव शैत्यानुमा । यत्तु विरुद्धश्रुतिद्वयं दृष्टमिति तद्धि तुल्यवद्दृष्टं अगत्या विकल्प्य व्यवस्थाप्यम् । अतुल्ये त्वस्मिन् जघन्यबाध एवेति वेदमूलत्वभ्रमात् स्मृत्यनुवृत्तिः । अविरुद्धेन विरुद्धापि मन्वादिस्मृतित्वसामान्यात्
?Rवेदमूलेति भ्रमबीजम् । यदि विरुद्धा न तथा तत्सामान्यादविरुद्धापि न तथा स्यादिति च भ्रमबीजम् । इष्यते हि पूर्वपक्षनयमूला स्मृतिः । अधीत्य स्नायात् ’ ?Rइति । स्मर्त्रापि स्वयं न्यायाभासमूलत्वं पिण्डपितृयज्ञस्य दर्शाङ्गतास्मृतेरुक्तम्। अङ्गं वा समभिव्याहारादित्युक्तेः । विरुद्धाविरुद्धयोरतुल्यत्वान्न तुल्यमूलतेति परोक्तं निरस्तम् । अविरोधे स्मृतिर्मूलं न मूलान्तरसम्भवः। विरोधेत्वन्यमूलत्वं इति स्यादर्धवैशसम् ॥ इति अधिकरणारम्भङ्गमाहुः ।
?R
?R ?R?0 विरोधसमर्थनम्
?R ननु विरोध एवेह नास्ति। कथमन्योन्यव्याघातात् पूर्वपक्षः । कथं वा अनुमानवाधाद्राद्धान्तः । न हि कार्यार्थशास्त्रयोर्विरोधः। सिद्धस्य हि वस्तुनः एकस्वभावस्य तदतत्स्वभावतया धीद्वये विरोधः । कार्यं त्वेकतया न वेद्यं कार्यानुरूपानुबन्धभेदात् भिन्नमेव । अनपेक्षैकद्वारतया सहानुष्ठानविरोधमात्रं;?R न च स्वरूपविरोधः अन्यदनुष्ठानं अन्यच्च स्वरूपं यतः । ज्ञातस्वरूपस्य हि अनुष्ठानं अर्थिभिः क्रियते सकृदसकृद्वा । अत एव कर्मभेदेऽपि क्वचित्तन्त्रमनुष्ठानम् ऐन्द्रदधिपयसोरिव । कर्माभेदेप्यावृत्त्या अनुष्ठानं सोमयाग इव । अनुष्ठानविरोधश्च विकल्पापास्यः प्रसङ्गात् कार्यसिद्धेः । अतो विकल्प एवेह न व्याघातबादौ अतो न यथाभाष्यमधिकरणं किन्तु वेदविरुद्धबौद्धादिस्मृतिविषयं सूत्रम् । तन्न, अनुष्ठानमेव हि कार्यमुच्यते नापरं कार्यम् । अयं भावः - कृतियोग्यतावस्था हि कार्यता नापराऽतदवस्था । सैव कृतिरनुष्ठानम् । अतोऽनुष्ठानविरोधः कार्यविरोध एव । न त्वयं भावः अनुष्ठानं कृतिः सैवेच्छादिव्यापारात् कार्या तद्द्वारा कर्मापि कार्यमिति ऋज्वेवानुष्ठानं कार्यशब्दार्थो न कृतिरिति पूर्वोक्त एव भावः। दधिपयसोर्यत्कर्मभेदेऽपि तन्त्रमनुष्ठानं तत् कार्यावस्थायामपि तथात्वात्, तत्रापि त्याज्यभेदात् त्यागभेद एव श्रुतः एकदेवतोद्देशोपाध्यैक्यात् यागानुष्ठाने तन्त्रव्यवहारः
?R। एवमावृत्तिरपि कार्यावस्थायामपि तथात्वात् । तथा बहुभिरप्येकस्य चाधिकारावृत्त्या आवृत्तिरपि । न चैवमनुष्ठानविरोधे कार्यविरोधे व्याघातः । प्रत्यक्षश्रुतिद्वयेप्येकाधिकारशास्त्रेणैकीकृत्य कार्यद्वयस्य पाक्षिकतापादनात् । न चेह स्पर्शनवत् सर्ववेष्टनमेकीभूतं तद्विरोधे वेष्टनस्यानादेयत्वादितीह न विकल्पः । उपेत्यापि विरोधं श्रुतानुमेयश्रुत्योः तुल्यबलत्वात् विकल्पो नानुमेयबाधः इत्येवं भङ्गः ।
?R
?R यथाहि पाठाच्छ्रुत्यभिव्यक्तिः तथा श्रुतेरनुमानं स्मृतेरित्यपि न भेदः । पाठेऽपि हि श्रुतितोऽनुमेयैव । तदाहुः -
?R ?R?0 वेदो हीदृश एवायं पुरुषैर्यः प्रकाश्यते ।
?R?0 स पठद्भिः प्रकाश्येत स्मरद्भिर्वेति तुल्यता ॥
?R एवं तुल्यत्वे विकल्पः । तदाहुः -
?R ?R?0 परस्परविरुद्धत्वं श्रुतीनां न भवेद्यदि ।
?R?0 स्मृतेः श्रुतिविरुद्धायाः ततो मूलान्तरं भवेत् ॥
?R श्रुतिमूलत्वे च विकल्प एवोक्तः । तुल्यत्वे चैकत्र भ्रममूलत्वे अन्यत्रापि तथा स्यात् । तदाहुः -
?R ?R?0 कदाचिच्छ्रुतिमूलत्वं मुक्त्वा भ्रान्त्यादिमूलता ।
?R?0 स्मृतिभिः प्रतिपन्ना चेत् कस्तामिन्द्रोऽपि वारयेत् ॥
?Rस्मृत्योरपि तौल्यान्न नानामूलतेत्याहुः -
?R ?R?0 अविरोधे श्रुतिर्मूलं न मूलान्तरसम्भवः ।
?R?0 विरोधे त्वन्यमूलत्वं इति स्यादर्धवैशसम् ॥ इति ।
?R अत्रानन्तरोक्तं वार्तिकत्रयं पूर्वपक्षे प्रक्षिप्य प्रतिक्षिप्तमेव । ततः प्रागुक्तं पूर्वपक्षाक्षमम् । पाठाद्धि श्रुतिस्मृत्योरभिव्यक्तिस्तुल्या। श्रुतिता स्मृतिता च
?Rवृद्धव्यवहारगम्या तुल्या स्मृतेस्तु श्रुत्यनुमेयतेत्यतुल्यता व्यक्ता । यत् काठकादिशाखागतश्रुतिमूलकस्मृतिमध्ये पठितमपि अपश्रुतिस्मृतिवाक्यं किञ्चिदित्यवाच्यम् । तदाहुः -
?R?0 कठमैत्रायणीयादिपठितश्रुतिमूलिकाः ।
?R?0 दृश्यन्ते स्मृतयस्सर्वाः यथोपनयनादिषु ॥
?R?0 " ?Rतदातन्मध्यपात्येकं किञ्चिद्वाक्यमपश्रुतिः ।
?R?0 मूलान्तरोद्भवं वक्तुं जिह्वा नो न प्रवर्तते ॥ इति ।?R?0
?R तदपि पूर्वपक्षाक्षमम् । मध्यस्थत्वेऽपि विरोधात् भ्रममूलता वाच्यैव । यद्बाधिता न्यायविदा भूत्वा स्मृतिः शाखान्तरमूलिका तदैव यदि दृश्येत तदा ते मुखच्छायाहानिः । तदाहुः -
?R?0 बाधिता च स्मृतिर्भूत्वा काचिन्न्यायविदा यदा ।
?R?0 श्रूयते न चिरादेव शाखान्तरगता श्रुतिः ॥
?R?0 तदा का ते मुखच्छाया स्यान्नैयायिकमानिनः ।
?R?0 बाधाबाधानवस्थानं ध्रुवमेवं प्रसज्यते ॥ इति ।
?R तदपि न पूर्वपक्षार्हम् योग्यानुपलम्भे हि बाधः । तदसिद्धावबाधेऽपि न नयहानिः ।
?R यत्कथञ्चित् समुच्चयमाश्रित्य बाधहानं सर्वशब्दो हि द्वित्राङ्गुलभागेतरकृत्स्नौदुम्बर्यामस्तु द्वित्राङ्गुलभागे स्पर्शोऽस्त्विति । तदाहुः -
?R ?R?0 यदि द्वित्राङ्गुलं मध्ये विमुच्येतरभागतः ।
?R?0 वेष्टितौदुम्बरी तत्र किन्नाम न कृतं भवेत् ॥ इति ?R?0।
?R तन्न । तस्य सर्वशब्दस्य कृत्स्नार्थत्वात् द्वयङ्गुलमात्रेऽप्यवेष्टिते तदर्थहानात् स्मृत्यर्थहानमेव । यदन्तरितस्पर्शात् बाधहानं अन्तरितस्पर्शश्चात्र अन्यथापि, कुशैः वेष्टनस्मृतेः अलोभमूलत्वात् अबाध्यत्वात् । यद्यपि तन्न सर्ववेष्टनं तथापि प्रमादात्
?Rसर्ववेष्टने वेष्टितदेशे वा प्रमादात् स्पर्शे अन्तरितस्पर्शः । तदाहुः
?R ?R?0 प्राक च लोभादिह स्पर्शः कुशैरेवान्तरीयते ।
?R?0 वेष्टितैषा कुशैः पूर्वं वाससापरिवेष्ट्यते ॥ इति ।
?R तन्न । अन्तरितस्पर्शो न स्पर्शः । किन्तु उपस्पर्श एव, लोके प्रयोगात् । अतः श्रुत्यर्थहानमेव । प्रमादादिति च वदन् नायं शास्त्रार्थः इति स्वयमाह । यत्सर्ववेष्टनमनुदाहरणमाहुः शाट्यायनशाखास्थश्रुतिमूलत्वात् तामुभयतो वाससा परिवेष्टयन्तीति श्रुतेरिति । तदुभयतो वेष्टनसर्ववेष्टनयोः भेदात् हेयम् । यदपरमनुदाहरणमाहुः क्रीतराजको भोज्यान्न इति क्रीतराजकान्नभोजनं पुरुषार्थं " ?Rअग्नीषोमीये संस्थिते यजमानस्य गृहे अशितव्यं " ?Rअग्नीषोमीयसंस्थाऽपूर्वार्थत्वेनाविरुद्धमिति । तन्न । अर्थात्तुल्यार्थतां प्राप्यापि विरुद्धमेव ।
?R
?R यदपि अष्टाचत्वारिंशद्वर्षं ब्रह्मचर्यं कृष्णकेशाधानविरुद्धमुक्तं शक्ताशक्तविभागव्यवस्थितत्वादिति । तद्व्यवस्थापि विरोधहानापेक्षैवेति हेयम् । यन्महाजनपरिग्रहलक्षणमुक्तबाधे तल्लक्षणमपि बाधितं स्यादिति तत् विरोधलक्षणयुक्तबाधाद्धेयम् । यच्च प्रतिबन्दिग्रहात् भङ्गभङ्गप्रतिविहितं साक्षाच्छ्रुत्या विनियोगे लिङ्गान्न श्रुत्यन्तरानुसेति युक्तम् । तत्र मन्त्रप्रकरणिनोः आकाङ्क्षानिवृत्तेरजिज्ञासितेऽननुमानान् । स्मृतेस्तु- कारणाजिज्ञासा न निवृत्तेति प्रतिबन्दितेति तच्छ्रुतिविरोधे भ्रान्त्यादिकारण्यनिश्चयात् कारणजिज्ञासानिवृत्तेः नानुमेति प्रतिविहितम् ।
?R यद्यज्ञशालास्थूणोदुम्बर्याः कर्णे मूले च स्पर्शावकाशादविरोध इति तत् सर्वशब्दात्मूलाग्रवेष्टनाद्धेयम् । यत् वेदानधीत्येति विकल्पस्मृतेः कृष्णकेशाधानादविरोध इति तत् कृष्णकेशश्रुतेः मेधादियोगातिशयात् कृष्णकेशोऽपि
?Rवेदानधीयाधत्ते इति सम्भवात् हेयम् । यत्तु स्पर्शनपूर्वके सर्ववेष्टने न विरोध इति । तत् पूर्वस्य शालानिर्माणस्याङ्गं सर्ववेष्टनम् । परस्य पृष्ठस्तोत्रस्याङ्गं स्पर्शनं न तयोर्मिथः क्रमः विरोधहानायापीति हेयम् । एवं तावत् उपेत्यापिविरोधमुक्तम् तदुदाहरण्यदूषणं तन्निरासादरानर्हमिति गुरुणाऽवधीरितम् । अविरोधात् । भङ्गस्तु विरोधोक्तेः प्रत्युक्तः । प्रमाणायां स्मृतौ इति भाष्ये प्रमाणपदमेवम् । यदाहुः-
?R?0 प्रमाणमयते याति मूलभूतां श्रुतिं यतः ।
?R?0 क्लीबान्तादयतेस्तस्मात् प्रमाणा स्मृतिरिष्यते ॥ इति ।
?R ?R?0 ॥ अधिकरणान्तरं वा ॥
?R युक्त्यन्तरपेक्षिणी युक्तिः पूर्वत्रौपपादिता । अत्र पुनः निरपेक्षतयोच्यमानाऽधिकरणान्तरमित्यपुनरुक्तिः। सङ्गतिद्वयं च । हेतुदर्शनं च श्रुतिविरोधयुक्तेः वेदानुमानबाधदाढ्र्यार्थं पूर्वमुक्तम् । यद्यपि विरोधमात्रादेव बाधधीः सुधियां;?R मन्दधियां चाभ्युच्चयापेक्षेति सर्वगामितया सर्वबाधधीदाढ्र्यार्थमुक्तम् । इह हेतुदर्शनमात्रात्
बाधव्युत्पत्तेः पूर्वोक्तयुक्तिशक्तिनिष्कर्षात् पूर्वचिन्ताशेषतया न पृथक् सङ्गतिद्वयम् । न त्वेवं सङ्गतिः - यदि हेतुदर्शनमात्रात् वेदानुमानबाधः तर्हि सर्वस्मिन् कथञ्चित् हेतुसम्भवात् सर्वत्र स्मृत्यधिकरणपूर्वपक्षापत्तेः प्रामाणयाक्षेप इति । न च सर्वत्र हेतुदर्शनसम्भावनयाऽत्र पूर्वः पक्षः । किं तर्हि ? ?Rहेतुदर्शनमात्रं न बाधहेतुरिति। दृष्टमपि मूलं लोभादि न स्मृत्यनुगुणमिति तद्धानादनुगुणवेदानुमेति स्मृत्यधिकरणराद्धान्तनयात् पूर्वः पक्षः ।
?R
?R राद्धन्तस्तु दृष्टे मूले लोभे नादृष्टानुमा । सति हि कल्पनेऽनुगुणकल्पना न क्लृप्तहाने । दृश्यन्ते हि ऋत्विजां लोभानुगुणाचारानुगुणोपदेशाः। तदादरोऽवैगुण्यशङ्कया तदादराच्च स्मृतिः अमीमांसितत्वात्। सान्दृष्टिकी
?Rयाज्ञिकानामिवामीमांसातो " ?Rमृगोऽसी " ?Rत्यूहः। भ्रान्तिमूलता च स्मृतेः स्ववचनात्। क्वचिदङ्गं वा समभिव्याहारादित्याभासोक्तेः। न चैवमष्टकादिस्मृतिः। न हि अष्टकोपदेशे विशेषलाभो ऋत्विजाम्। न च स्मर्तृभ्रमो निर्बीजः। स्मर्तॄणां धर्मैकभावनान्नाशयदोषो बीजम्। न च स्मृतिविषये प्रमादाशक्ती बीजम्। कल्प्यं चेद्वरं अनुगुणो वेदः कल्प्यः। एतेन परापादितं निरस्तम् -
?R?0 रागद्वेषमदोन्मादप्रमादालस्यलुब्धताः ।
?R?0 क्वा नोत्प्रेक्षितुं शक्याः स्मृत्यप्रामाण्यहेतवः॥ (तं.वा.1-3-2)
?R उक्तदोषचतुष्कमेव वार्तिककृता प्रपञ्चितम् । उत्प्रेक्षितुं आरोपयितुं शक्या इति वदतैव निरस्तप्रायम्। न भङ्गतया निराकरणार्हम्। यदपिक्रत्वर्थाक्षिप्तानुरूपदक्षिणाश्रिततया प्रकारभेदनियमस्मरणं अनृत्विजे च दानस्मरणं तत् न ऋत्विग्लोभविषयमिति कल्प्यवेदमूलमेव। प्रत्यक्षवेदविहितपरोपकाराक्षिणाप्तदानाश्रयं सुवर्णशृङ्गिकाद्यनेकनियमस्मरणं न लोभमूलमिति कल्प्यवेदमूलमेव । नन्वत्र ऋत्विगप्यादेयवाक् स्वार्थदापनात् स्मर्तुर्भ्रान्तिकरः। तन्न। एवंभूतपुंसन्निधिः कल्प्यः । ऋत्विक् तु तत्र क्रतौ कलृप्त एवेति ऋत्विग्दानं दक्षिणाधिकं हेतुदर्शनमूलं युक्तम् ।
?R ?R?0 ॥ 4 ॥ शिष्टाकोपेऽविरुद्धमिति चेत् ॥ 6 ॥
?R स्मृतिमुखमप्रामाण्यमविरोधे विरोधे च प्रतिविहितम् । इहाविरोधादहानं स्मृतेरित्येवं स्मृत्यधिकरणनयस्य विषयव्याप्तये नयान्तरमुच्यते । अतः शास्त्रेऽध्याये गतानन्तरं च सङ्गतिः । नयान्तरव्युत्पत्तेः शास्त्रे स्मृत्यधिकरणविषयताव्युत्पत्तिः तच्चिन्तानिवेशात् तत्सङ्गतिरेवास्य अध्याये। विरोधे हानं पूर्वोक्तमिह शङ्कितमिति तदुत्तरता । तदभ्युच्चयहेतुदर्शनशक्तिनिष्कर्षोक्तिविश्रान्तये विरोधहाननये चिन्तेयमनन्तरं युक्ता ।
?R
?R पूर्वपक्षस्तु - मन्दधियां श्रुतवेदार्थक्रमकालविरुद्धक्षुताद्याचमनदक्षिणाचारादिस्मृतिराभाति । क्षुतादिनिमित्तेपि अन्तरा आचमने वेदं कृत्वा वेदिं करोतीति श्रौतोऽयं क्रमो बाध्येत। विततेरन्यत्वापत्तेः । तथा श्रुतवेदार्थप्रधानता अङ्गनां दक्षिणैककरेणानुष्ठाने प्राप्ते स्मार्ते विलम्बापत्तेर्बाध्येत । ननु गृहीतकृत्स्नश्रौतस्मार्तानुष्ठेयानुगुणक्रमकालग्रहविषयेयं चिन्तेति न क्रमकालयोः स्मार्तग्रहविपरीतता । तन्न । श्रौतानुष्ठेयमात्रानुगुणः श्रुत्यादिगम्यः क्रम इति पञ्चमे स्थितम् । प्रत्यक्षचोदनालक्षणानुज्ञानात् क्रमस्य स्मार्तानामनुमेयचोदनार्थतया जघन्यत्वात् न तद्गुणता क्रमस्येति फलतः पञ्चमे स्थितम्। अतश्च क्रमाविरोधी स्मार्तनिवेशः । एवं प्रत्यक्षचोदनालक्षणं अङ्गानां मुख्यकालत्वं विरोधिस्मार्तनिवेशनिरोधकं दक्षिणैककराचारे यज्ञोपवीते चलति च प्रयोगविलम्बापत्तेः मुख्यकालताहानिः ।
?R राद्धन्तस्तु - विलम्बिनोऽपि स्मार्तस्य कार्यत्वत् कार्ये च शब्देन तात्पर्यतः प्रमिते पश्चात् तदनुष्ठानानुगुणतया क्रमोऽपि शाब्द इति स्मार्तमपि कार्यं विलम्बितं प्रतीक्ष्य प्रत्यक्षशाब्दान्तर्गतक्रमग्रह इति स्मार्तनिवेशानुरोधी क्रमः इति । पञ्चमे तु यच्छ्रौतमात्रागुणत्वं फलत उक्तं तदेतन्नयाननुसन्धानादुक्तमिव फलतो भाति। कालोऽपि प्रचयः कार्याणां, ततः स्मार्तकार्यनिवेशात् पश्चात् तदनुरोधी ।
?R अत्र भाष्यम् - ‘?R अपि च प्राप्तानां पदार्थानामुत्तरकालं क्रम आपतति ‘?R इति पूर्वोक्तैव युक्तिः अन्तरा ’ ?Rअपि चे’?R ति कृत्वोक्तेति शङ्कामपनेतुं व्याख्यातम् । क्रमकालयोरपि कार्यत्वान्न कार्यगुणतया राद्धान्तसिद्धिरित्यपि च न
?Rविप्रतिपत्तव्यमित्यर्थः । अतो न पुनरुक्तिः । पौर्णमासीकालोऽपि विहितत्वात् कार्यरूप एव । नतु विधेयक्रियाप्रचितिः कालः तस्य द्वितीयादिष्वपि तुल्यत्वात् न पौर्णमासीत्वम् । न चैतदतिरिक्तोऽत्रान्वयी कालः विधेयप्रचयात्मा लौकिकः । तथा क्रमोऽपि क्त्वाश्रुतिविहितोऽध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयतीति (न) कार्य एव न कार्यगुणः । अत्रोत्तरं - अपि च प्राप्तानां पदार्थानामुत्तरकालः क्रमः प्रवर्तत इति भाष्यमेवमाह ।
?R
?R प्राप्तायां दीक्षायां कर्तृनियमार्थं वाक्यं, न क्रमनियमार्थम् क्रमादरः कथञ्चित् क्त्वाश्रुतिबोधितः कार्यानुष्ठानानुगुणतया पश्चादापतित इति स्वावसरे पञ्चमे वक्ष्यामः। कालोऽपि प्रचयो विधेयक्रियाणां तदुत्तरकालमापततीति न साक्षाद्विधेयः। पौर्णमास्यपि प्रचितिकाल एव । न हि काल एको विभुर्नित्यः, पौर्णमासीद्वितीयादिष्वपि नित्यस्याविशेषात् । किन्तु ग्रहक्रियान्तरप्रचितिरेव। संयोगजा प्रतिपदादिः पौर्णमास्यन्ता । विभागजा प्रतिपदादिरेवामावास्यान्तेति नित्यकालोपहित प्रचितिभेदे प्रतिपदादिप्रयोगात् प्रचितिवाचिता। प्रगीतमन्त्रे सामशब्दप्रयोगात् गीतिवाचित्ववत् । एवं विधेयप्रचितिरपि कालः। तस्यां प्रधानप्रचितौ सत्यामङ्गानीति प्रधानकालता । एवं कालोपाधेः प्रचितौ कालशब्दः । एवं च कार्या पौर्णमासी दक्षिणाचारेप्यविरुद्धा । प्रधानकालता तु न कार्या । कार्यानुगुण एव तु भवति । सर्वस्यास्य स्मार्तस्य कर्तृसंस्कारकस्य प्रयोगाङ्गतया प्रतिप्रयोज्यमङ्गतेति न स्वाङ्गस्य व्यवधायकत्वमिति न क्रमकालविरोधिता । स्वाङ्गवत एव क्रमादरादिति अधिकरणाधिकं सौहार्दमात्रम् । एवं च तार्तीयक्रमे साक्षाद्विहितकालविरोधे च स्मृत्यधिकरणविषयव्याप्तिरनेन न कृतेति व्यक्तम् ।
?R?0 ॥ 5॥ तेष्वदर्शनाद्विरोधस्य समाविप्रतिपत्तिः स्यात् ॥ 7 ॥
?R यत्र न श्रुतिः न च स्मृतिः किन्तु विरोधात् पदार्थानध्यवसानं तत्र तर्ह्यप्रामाण्यं वेदस्यायातीति शङ्गतिद्वयं पूर्वपक्षबीजं च । यथा केषांचित् व्यवहारतो दीर्घशूको यवशब्दार्थोऽवसीयते । केषांचित् प्रियङ्गुः। एकस्य शब्दार्थत्वेऽन्यस्य च गौणत्वसम्भवान्नानेकार्थता । न च विशेषावधारणे हेतुरप्यस्तीत्यभिधानस्यानध्यवसायादप्रामाण्यं वेदस्येति । ननु विशेषानवगमाद्वरमुभयार्थता नत्वनवगतिर्युक्ता । मैवम् । सदृशयोरन्यतरत्र गौणता न्याय्येति नोभयत्र शक्तिर्युक्तेति अनवगतिरेव न्याय्या । ननु वाक्यशेषाद्विशेषाध्यवसानं युक्तम् । मैवम् । न वाक्यशेषः शक्तिं कल्पयति गौणतयापि वाक्यशेषोपपत्तेः । अतो नाध्यवसायः।
?R ननु वाक्यशेषान्वयानुगुणार्थपरता शब्दस्य गौणपक्षेऽपीति पदशक्त्यनवधारणेऽपि पदतात्पर्यावधारणात् वाक्यार्थधीर्युक्ता । मैवम् । शक्त्यनवधारणे हि गौणमुख्ययोरुद्भूतत्वात् कतरार्थपरता । विध्युद्देशपरतन्त्रार्थवाक्यशेषानुगुण्येनावधार्यतामित्यनध्यवसायः । न च वेदविरोधात् सर्ववेष्टनस्मृतिवत् प्रियङ्गुव्यवहारबाधादध्यवसायः। चरोः प्रियङ्गुभिरपि सम्भवात्।
?R ननु चोपानहौ वायसचर्मणा न प्रसरतः न तर्हि सूकरचर्मणापि । यदि कथञ्चित् सम्भावना सा वायसचर्मणापीति न वेदविरोध इति पूर्वः पक्षः ।
?R राद्धान्तस्तु - वाक्यशेषरूपवेदविरोधो वायसादिरूपविषयव्यवहारा दर्थावगमस्य। वाक्यशेषाद्धि गोसदृशता व्यवहारस्य । न च वायसे गोसदृशताधीः। सूकरे तु बहुतरावयवसामान्ययोगात् सदृशताधीः, गवयवत् सुसदृशताभावेऽपि। अतो वाक्यशेषात् सूकरव्यवहारो बलीयान् वायसव्यवहारात् । अतः सूकरवचनताध्यवसायः। तथावाक्यशेषात् दीर्घशूकावगमो वार्तिककृता प्रपञ्चितः ।
?Rतदुक्तम्।
?R?0 फाल्गुने ह्योषधीनां तु जायते पत्रशातनम् ।
?R?0 मोदमानास्तु तिष्ठन्ति यवाः कणिशशालिनः ॥
?R?0 यदा वर्षासु मोदन्ते सम्यग्जाताः प्रियङ्गवः ।
?R?0 तदानान्योषधिग्लानिः सर्वासामेव मोदनात् ॥
?R?0 प्रियङ्गवश्शरत्पक्वाः तावद्गच्छन्ति संक्षयम् ॥ इति ।
?R ननु वाक्यशेषान्न शक्तिकल्पनेत्युक्तम् । तन्न । वाक्यशेषानुगुणस्तावदर्थः शब्देन बोध्यः । स च तदा यदि तत्तुल्यवदपरपदार्थोत्थानं मुख्यगौणानध्यवसायद्वारेण बोध्यान्तरमेव न विहन्ति इत्यर्थवादानुगुणमेव बोध्यं तुल्यवद्व्यवहारः बोध्यान्तरं वारयतीति वाक्यशेषानुगुणव्यवहारविषय एव बोध्यत इति तत्रैव शक्तिः । व्यवहारान्तरं तु अतुल्यतया गौणमेव युक्तम् ।
?R यत्तूच्यते यद्वाच्यं शब्दस्य तत्रानादिता । सा अनादिता च वैदिकप्रयोगस्यावधृतेति वाक्यशेषाद्वाच्यावधारणम् । तन्न । वैदिकस्यानादित्वनिश्चयेऽपि गौणस्याप्यनादेर्वेदे । दर्शनात् न वाक्यशेषाद्वाच्यनिर्णयः । अनादिता च वृद्धव्यवहारपरम्परया वायसादावप्यवधृता । गौणता हि तत्रेष्यते न त्वादिमत्ता गाव्यादिवत् । अत्र परोक्तभङ्गोपन्यासो गुरोः । प्रथमं तावत् (ननु) सन्दिग्धे वाक्यशेषादित्युद्धृतमिदमप्रामाण्यं इति । चरमं तु तदेवेदमापतितं वाक्यशेषाद्वाच्यनिर्णय इति । तेनात्रायं विचारो न युक्त एवेत्युक्तम् ।
?R नन्वस्मिन् सति स व्यर्थः स्यात् । तन्न । तत्र हि सूत्रं व्यक्तमस्य न्यायस्येति तत्कर्तव्यमित्येतस्यैव व्यर्थंता । अथवा तद्वा इदं वा व्यर्थमिति भङ्गार्थः । ननु प्रयोगेदंपरत्वसन्देहे तत्र निर्णयः । स च वाक्यशेषैकवाक्यतया युक्त एव। अभिधाने त्वयं सन्देहः । तन्निर्णयस्तु वाक्यशेषानन्वितेऽपि प्रयोगे वाच्य इति न
?Rवाक्यशेषस्य निर्णयहेतुता सिद्धा । मैवम् । अभिधानस्वभावात् सर्वविषयता, वाक्यशेषस्य तु अभिधेयनिर्णायकतैव । सा च सिद्धैवेति व्यर्थतैव । ननु विपर्ययोऽत्र निराक्रियत इत्युक्तम् । मैवम् । अभिधानसन्देहोऽयमिति पूर्वोक्तेन विरोधात् । न च व्यवहारद्वयदर्शनाद्विपर्ययः किन्तु सन्देह एव। तन्निरसनं तु वाक्यशेषाद्वक्ष्यत एव । तदाह भङ्गवादी -
?R?0 सन्दिग्धेषु तु सर्वेषु वाक्यशेषेण निर्णयम् ।
?R?0 वक्ष्यत्येव न तेनात्र पृथक्कार्या विचारणा ॥
?R अत्र समाधिः । अभिधानसन्देहे विपर्ययोऽत्र निराक्रियत इति । इदमत्राभिप्रेतम् । न वाक्यशेषः साक्षात् सूकरविषय इति न तत एव सूकरनिर्णयः । किन्तु गोसदृशतामाह । सा च गवयादेरपीति न सूकरनिर्णयः। किन्तु सूकरे योऽयं वराहव्यवहारः तदनुगुणो वाक्यशेष इति ततः सूकरव्यवहारबलवत्ता । तया तु तद्विपर्ययव्यवहारो बाध्यते । तद्द्वारेण च सन्देहापगम इति सूक्तमभिधानसन्देहे विपर्ययोऽत्र निराक्रियते वाक्यशेषादिति । न चानेन प्रकारेण वाक्यशेषान्निर्णयो वक्ष्यत इत्यर्थवानेवायं विचार इति । एवं च विपर्ययव्यवहारनिराकरणद्वारा सन्देहापाकरणात् सन्देहे विपर्ययनिराकरणमुक्तम् । न हि वाक्यशेषात् साक्षाच्छक्तिकल्पनेत्युक्तम् । किन्तु तुल्यवद्व्यवहारात् अर्थान्तरवाचकतारूपविपर्ययनिवृत्तिद्वारेणेति दर्शयितुमिदमुक्तम् ।
?R यत्त्वपरं भङ्गे निमित्तमुक्तं व्यवहारविप्रतिपत्त्युदाहरणत्वं यववराहवेतसानां नास्तीति तत्र चिन्तेयं न युक्ता किन्तु पील्वादौ युक्ता चिन्तेति। तदुक्तम् -
?R ?R?0नैवोच्यन्ते क्वचिद्देशे यवश्रुत्या प्रियङ्गवः ।
?R?0 जम्बूं न वेतसं प्राहुर्वराहं नैव वायसम् ॥
?R?0 अध्यारोप्य विचारेण किं मुधा खिद्यते मनः ।
?R?0 तस्मात्पील्वादिशब्दानां वृक्षहस्त्यादिबोधने ॥
?R?0 समाविप्रतिपत्तिः स्यात् आर्यम्लेच्छप्रयोगतः ॥ इति ।
?R तदिदं निराकरणानर्हमिति गुरुणाऽवधीरितम् । न्यायनिष्ठत्वाद्विचारस्याध्यारोप्य विचारो न दोष इति तत्र तत्रोक्तम् । सर्वथा निर्विषयता तु पील्वाद्युपन्यासात् स्वयमेव परिहृता । किञ्च योग्यानुपलम्भस्य सर्वत्रदुष्करत्वात् नैवोच्यत इति दुर्वचं वचः । विवरणे तु उदाहरणदोषपरिहारार्थमेव सामान्येनोक्तं यत्र निमित्तविप्रतिपत्तिरित्यादिना ।
?R ननूभयाभिधानं युक्तं पील्वादिवत् पील्वादौ हि असदृशतया न गौणमुख्यता । किन्तु उभयाभिधायकमेव। तथाऽत्रापि भवत्विति । मैवम् । तथापि यत्र वेदे प्रकरणवाक्यशेषाद्यभावः तत्र विशेषानवगतेरनध्यवसाय एव ।
?R राद्धान्तस्तु कथञ्चित् सदृशतया गौणमुख्यतानुसन्धानेन अन्यगतवाक्यशेषादपि मुख्यनिर्णये जाते मुख्यस्यैव वाक्यान्तरेऽप्यवगतिर्युक्तेति प्रकारान्तरात् चिन्तान्तरं युक्तमिति । चरावेवायं वाक्यशेषो न करम्भपात्र इति तु न्यायनिष्ठतया न दूषणम् । एवं च न यूपादिवत् वेदादेव शब्दार्थावधारणं किन्तु वेदोपबृंहितादार्यव्यवहारात् ।
?R
?R ।?R?0। 6॥ चोदितं तु प्रतीयेताविरोधात् प्रमाणेन ॥ 10॥
?R यद्यनार्यव्यवहारो गौणस्तर्हि तन्मात्रप्रसिद्धपिकाद्यर्थानध्यवसायात् तद्वती चोदना न प्रमाणमिति सङ्गतिद्वयं पूर्वपक्षबीजं च । न च निगमनिरुक्तव्याकरणबलादर्थोहनं जर्फर्यादिवद्युक्तम् । आदेयप्रयोगेदंपरत्वे हि विनियोगादिवशात् स्थिते मन्त्रार्थवादानां तद्गतपदभेदस्य वृद्धप्रयोगप्रसिद्धार्थस्य
?Rप्रकृतिप्रत्ययविभागोहनादर्थधीरित्युपयोगो निगमादेः । विध्युद्देशे तु पदार्थधीत एव प्रयोगेदंपरतेति न निगमादिना ऊहः ।
?R भाष्ये तु धातुतोऽर्थः कल्पयितव्यः स च न शक्यः काल्पनिक एवेति शेषः । ननु वेदविरुद्धानार्यव्यवहारो नादेयः । पिकादिविषयस्तु न तथा । अथ सामान्यतोदृष्टं पिकादावनार्यव्यवहारो नार्थनिश्चायकः अनार्यव्यवहारत्वात् यवादिविषयवदिति। तन्न। विशेषविरोधात् । पिकादिव्यवहारादर्थधीदर्शनात्। अनार्यव्यवहारादपि राजार्थानुज्ञानादनैकान्त्याच्च । मैवम् । राज्ञः कर्म भावो वा राज्यमित्येवमर्थपरपाणिनिस्मृतिमूलतयाऽनुज्ञानात् । अर्थधीश्च यवादावपीत्य नैकान्त्यात् ।
?R राद्धान्तस्तु यवादावर्थधीरिव बाधाभावात्। अतस्सामान्यतोदृष्टबाधादनार्यव्यवहारादेव पिकाद्यर्थाध्यवसायात् पिकमालभेतेत्यादि प्रमाणम् । अतोऽनार्यव्यवहारमूलैव पिकः कोकिल इत्याद्यभिधानकोशस्मृतिः ।
?R विवरणे तु अनार्याणां अवेदव्यवहारितया शब्दार्थानादरात् अपभ्रंशादपि व्यवहारोपपत्तेः निगमादिवशात् प्रसिद्धार्थप्रकृतिप्रत्ययवर्णबाहुल्यात् पिकाद्यर्थधीरिति पूर्वः पक्षः । प्रसङ्गात् सङ्गतिः । राद्धान्तस्तु निगमादिस्मृतिरपि प्रयोगमूलतया दृष्टमनार्यप्रयोगमप्यनुवर्तते । यत्रार्यैः अनार्यैर्वा न सर्वैः क्वचित् केनचित् कदाचिददृष्टः तत्र निगमादिस्मृतेरर्थवत्ता । न तु स्पष्टदृष्टेऽपि पिकादौ। अवेदार्थव्यवहारित्वात् शब्दार्थानादरेपि व्यवहारान्तरान्मुख्यान्तरादर्शने अपभ्रंशमूलादर्शने च शब्दार्थव्यवहारिता अस्मिन् विषये सिद्धा ।
?R ?R?0 ॥ 7॥ प्रयोगशास्त्रमिति चेत् ॥ 17॥
?R विरोधाकरणविषयव्याप्तिरिहेति न पृथक् सङ्गतिः । विरोधनयस्य सप्रतिपक्षस्य विरामानन्तरं तन्नयव्याप्तिरित्यवान्तरसङ्गतिः । तथाहि - शिष्टाकोपे स्मृत्यधिकरणविषयव्याप्त्यनन्तरं वाक्यशेषविरोधे बाधः तद्व्यतिरेकादबाधः एव विरोधनये स्थिते तद्व्याप्तये नयान्तरमिदम् ।
?R पूर्वपक्षस्तु वेदवाक्यान्येव नानाशाखाप्रकरणानि अनारभ्यवादविप्रकीर्णानि कल्पसूत्रकारैरनुक्रमेण संहत्यपठितानि इति वेदवाक्यत्वात् अनपेक्षिता । पुरुषाधीनरचनतया पौरुषेयता । स्वरविध्यर्थवादहीनं पठितं वेदवाक्यमेवेति प्रत्यभिज्ञा । वर्णादिविकारेऽपि शाखान्तरपाठे यथा स एवायं वेद इति, यथा च महावाक्ये वेदस्यैकदेशमभ्यस्यन् ’ ?Rवेदमधीते ’ ?Rइत्युच्यते, यथा वा आर्षपदबाधात् पदान्तरोहे स एवायं मन्त्र इति । वेदोऽप्याह - आचार्यवचः प्रमाणमिति । अनपेक्षता वेदत्वादेवोक्ता । धीद्वयबलादिह पौरुषेयता अनपेक्षता च। माशकादिसमाख्याप्रवचनादपि तत्कर्तृत्वस्मृतेः तत्कृतिता दुर्वारा । यतः सूत्राणां वेदता एवं साध्यते अतः सिद्धवेदोक्ततिथिनियमविधिः पूर्वं, पश्चात्तु सूत्रोक्ततिथ्यनियम इति।
अतुल्यविरोधादन्योन्यव्याघाते प्राप्ते सूत्राणामवेदत्वात् विरोधाधिकरणीय एव राद्धान्तः । यद्यपि वेदैकदेशप्रत्यभिज्ञा तथापि पुरुषैः वेदादवगतोऽर्थः स्ववचनेनोक्तः । इयमेव हि वाक्यस्य कृतिः यो यथाप्रयुक्तवाक्याननुगत्या स्वेच्छया पदवाक्यप्रयुक्तिः । वर्णपदानुपूर्व्योस्तु वेदेऽपि पुरुषोच्चारणाधीनत्वाविशेषात् । अभ्यासार्थं वेदैकदेशपाठे बाधोहविषये च न पुरुषेच्छाधीनो वेदस्यान्यथाप्रयोग इति न तत्कृतिरिति । सूत्राणि तु निरन्तरं शीघ्रं च स्मारकाणि प्रयोगग्रथनपराणि स्वेच्छया कृतानीति वेदवाक्येभ्यः प्रमितिपरेभ्यः अन्यान्यार्थान्येव कृतानीति न वेदभूतानि । न च वेदोऽपि सिद्धरूपं वेदत्वं वक्तुमर्हतीति कार्यानुगुणतया यथार्हमुन्नेयः । वेदो वा आचार्यः, सत्यं वा प्रमाणं यत्सत्यं तदेवोक्तम् आदेयं वा
?Rप्रमाणं उपनेत्राचार्यादेर्वचः;?R गुरोर्वचनमौषधमितिवत् । मशकाद्याचार्यवचोविषयत्वे चानित्यसंयोगापत्तिः । अत एव हि कल्पसूत्रं - कल्पना हि रचना मणेरिव हारतया प्रयोगार्था रचनेति प्रयोगशास्त्रम् । अध्ययनधर्मादरस्तु वेदमिश्रिततया । प्रयोजनोक्तैव गुरुणा सङ्गतिः स्फोरिता ।
?R?0 ॥ 8॥ अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात्॥ 25॥
?R अत्र सूत्रभाष्योक्तचिन्ता विषयशुद्ध्यर्था । अर्थप्रकरणादिगम्या मूलचिन्ता
?R आचारादपि । शिष्यव्युत्पत्त्यर्थेयं विधा । यच्छाखागृह्यस्मृत्याचारादिगतं किञ्चित् होलाकादि अभिमानमात्रात् केषाञ्चिदित्येवं कैश्चिदेवानुष्ठीयते तत्तेषामेव उतान्येषामपीति विषयशुद्ध्यर्था चिन्ता । आचारादपि महाजनादृतात् विरोधहेतुदर्शनहीनात् स्मृत्यधिकरणनयात् वेदानुमा । गृह्यतोऽपि तन्नयादेव वेदानुमा । शाखा तु वेद एव । कल्पसूत्राणामपि स्मृतितुल्यतास्थापनानन्तरं एतत्सर्वगतचिन्तेयं अवान्तरसङ्गता । मूलचिन्ता तु साक्षात्सङ्गतेति वक्ष्यते ।
?R
?R विषयशुद्धिचिन्तापूर्वपक्षस्तु यत्प्राच्यैरेव क्रियते तत्तेषामेव प्राच्याख्यालिङ्गितत्वान्मूलस्य । शाखागतेऽश्रुतेऽपि कर्मणि प्राच्यैरिदं कर्तव्यमित्यनुमा। गृह्यादौ कर्मेदं प्राच्यैः क्रियतामित्यनुमा ।
?R राद्धान्तस्तु न यद्यैः क्रियते तत्तेषामेव । न हि तदाख्या कारणम्, आख्या हि ’ ?Rतत्र जातः ‘?R ‘?Rतत्र वसति’ ‘?Rतत आगतः’?R इत्येवम् । एतत्त्रियहानेपि प्राच्यसुतः पित्र्यमेवाचारमनुवर्तते, न तु यत्र जातः स्थितः आगतो वा तदाचारम् । न च यथापुंसंस्थानादि आचार इति सर्वेषां तत्कर्मेति स्थिते मूलचिन्ता -
?R पूर्वपक्षः - प्राच्याभिमानालिङ्गिताचारमूलवेदानुमानमयुक्तं,
?Rअवधृतभ्रममूलप्राच्यत्वांशे वेदमूलकल्पनानुपपत्तेः होलाकादिमात्रे च मूलतया कल्प्यमानस्यायथार्थत्वात् । यथाकार्यं हि वैदिकं मानं कारणतया कल्प्यम् । इह तु भ्रममूलप्राच्यत्वांशवतः कार्यस्य कल्पितप्राच्यत्वांशे न मानं, अतो न यद्रूपकार्यपरं मानं उपस्थितं तद्रूपे न मानतामर्हतीति अप्रमाणमनुमितचोदना । तत्तुल्यतया च सर्वासामप्रामाण्यमित्येवं सङ्गतिरपि । न त्वेवं सङ्गतिपूर्वपक्षौ - प्राच्यादिपदवत्येव चोदना यथाभिमानतातु अर्थानुमेया । अतः अनवस्थितार्थ प्राच्यादिपदवती चोदना न प्रमाणमिति । एवं हि केवलहोलाकादिबोधिका चोदना न प्रमाणमिति। एवं हि केवलहोलाकादिबोधिका चोदना न प्रमाणम् अयथार्थतयेति ग्रन्थो हेयः । न च भ्रममूलांशो वेदमूलतामर्हतीति पूर्वोक्तैव विधा ।
?R राद्धान्तस्तु यद्यपि प्राच्याद्यभिमानालिङ्गितं कार्यं, कारणं तु वैदिकं मानं यावत्यंशे योग्यता तावत्येव । यथा दृष्टार्थेषु नियमांशे वेदमूलतेति नानुमेयो वेदो यत्परस्तत्राप्रमाणम् । ननु अनवस्थितार्थप्राच्याभिमानपदवद्वेदानुमा माभूत् अवस्थितार्थप्राच्याभिमानपदवद्वेदानुमास्तु । नेदं शङ्कार्हम् । न हि प्राच्यताभिमानवद्भिः कार्यमित्येवमपि यथावस्थितकार्यानुगुणता । न हि येऽनुतिष्ठन्ति ते भ्रमवत्तां स्वीयां मन्यन्ते । अतो नानुष्ठात्रनुगुणता । न च प्राच्यताधीमद्भिः कार्यमित्येवमनुगुणता, सत्यधीर्हि निरस्ता । भ्रमधीस्तु नानुगुणेत्युक्तम् । न त्वेवं प्राच्याभिमानवद्भिरित्येवमननुमा, प्राच्यत्वानवस्थया अनवस्थितेरिति । न हि यावदनुष्ठात्रनुगता अभिमानितानवस्थितिरिति शक्यं वक्तुम् ।
?R विवरणे तु अनुमेयवेदमूलेष्वाचारेषु विशेषचिन्ता । प्रसङ्गत् सङ्गतिः। पूर्वपक्षस्तु यत्र पुंसि कार्यं तत्र कारणानुमा;?R यथा यत्र धूमस्तत्राग्न्यनुमा । अन्यथा सर्वे होलाकादिविषयापूर्वज्ञानवन्तः केषाञ्चिद्धोलाकाचारवत्त्वादित्येवं साधने लिङ्गलिङ्गिनोरेकैकदेशता न स्यात् ।
?R राद्धान्तस्तु होलाकादेरेव कार्यता लिङ्गं वैदिकमानकारणवत्ता गम्या । होलाकादेरेव गम्येत्येकैकदेशता । धूमस्यापि यदि कार्यता लिङ्गं तदा अग्निकारणता गम्या । धूमवत्त्वे तु लिङ्गे अग्निमत्त्वं गम्यम् । नन्विह कर्म एकदेशि न कर्तेति कुतः ??R। उच्यते । यावतोंशस्य दृष्टमूलतार्हता न तावतो मूलं वेदः कल्प्यः । इह यन्नाचरन्ति केचित् न तत् वेदमूलकं दृष्टम् । दुःखं कर्मेत्यकरणं दृष्टमूलम् । साक्षाच्छ्रुतेऽपि सर्वेषां कर्मणि दुःखत्वात् बहूनामकरणम्। अतो होलाकादिकार्यं मानकारणकमित्येवं अनुमा । शिखाकर्म तु किञ्चित् कस्यचिद्वेदमूलमेव । न हि तत्र कस्यचिदकरणं यत् तद्दुःखमूलम् । अतो नियमोऽसौ वैदिक एवेत्युक्तम्। तदनुरूपं च लिङ्गलिङ्गित्वं, गोत्रचिन्हे प्राप्ते तदाश्रितो नियमो विभागत एव । नेह होलाकादिप्राच्योदीच्यचिन्हे प्राप्ते नियमार्ह अतस्सर्वेषाम् ।
?R
?R यत्तु स्मृत्यादिनिबद्धवर्णाश्रमादिविभागेन न तत्र अकरणं दुःखमूलमिति विभागेनैव वेदानुमा । अत्र व्यवस्थिताचारमात्रविषयोऽयं विवरणीयो व्युत्पादः । अनुष्ठातृमात्रगतं न क्वचिदेकमस्तीत्यभ्युच्चयः । यथैकं नास्ति तथोक्तं शुक्लो होतेति शुक्लवेषता कार्यविषयतयैव व्यवस्थिता । अथ माभूदेकं किञ्चित् अनेकपदवद्वेदानुमास्तु । तन्न । प्राच्याख्यः तत्सुतश्चेत्येवमपि नानुष्ठातृसङ्ग्रहः। तत्सुतोऽपि देशान्तरीयतानुरागात् तदनभिमानी सन् तन्नानुतिष्ठति । न चाभिमानाद्व्यवस्याति पूर्वमेवोक्तम् ।
?R
?R ?R?0 ॥ 9॥ प्रयोगोत्पत्त्यशास्त्रत्वात् शब्देषु न व्यवस्था स्यात् ॥24॥
?R धर्मस्मृत्यादिमुखमप्रामाण्यमन्तरङ्गं निरस्य पदपदार्थस्मृतिनिर्मूलतोत्थं वार्यत इति सङ्गतिद्वयम् । निर्मूलत्वे हि वैदिकाश्वादिपदात् न हयाद्यध्यवसायः अश्वशब्दस्य
?Rहये निस्स्वे च प्रयोगात् । उपपदप्रकरणाद्यसम्भवेऽश्वशब्दार्थसन्देहः स्यात् । ननु स्मृतिसङ्गृहीतानेकार्थानां प्रकरणाद्यध्यवसायकरं इहैव तदभाव इति स्वहस्तरचितम् । मैवम् । निर्मलत्वे हि स्मृतेः प्रकरणादिगतोऽपि शब्दोऽनध्यवसितार्थ एव । प्रयोगमात्रस्य क्वचित् कदाचित् कस्यचित् सम्भवात् । समूलस्मृतिनिबन्धनानेकार्थता तु कतिपयपदवर्तिंनीति प्रकरणादिसम्भवः । न तु सदपि प्रकरणादि अपभ्रंशशङ्कापनयनाशक्तत्वात् न हयाद्यध्यवसायकरमिति । यतः अपभ्रंशशङ्कापि प्रकरणादिना हयादेः वेदार्थत्वेऽनादिप्रयोगनिवेशादपैति वाक्यशेषसादृश्याद्यभावे च शास्त्रस्थन्याय इति न निःस्वे गवि च गौणता ।
?R पूर्वपक्षस्तु - शाब्दस्मृतिपरम्परेयं अनादिप्रयोगपरम्परानिरबन्धनरूपा। अनादिवेदगतपदपदार्थनियमार्था । वृद्धव्यवहारपरम्परा च असति च सङ्केतादिदर्शने प्रयोगानादितागमिकेत्युक्तं सम्बन्धपरिहारे । अतो हये निस्स्वे च तुल्या अनादितेति न हय एवानादितास्मृतिनियमाप्रयोगमूलः ।
?R किञ्च स्मृतिरेव न नियतार्था, स्मृतिर्हि धातोः परे प्रत्यया भवन्तीति भूवादयो धातव इति च ग्रन्थे भ्वादित्वात् गडेः गण्डतीति साधुत्वं स्यात् । घटं भूयत इति दुस्तरं च स्यात् । भवतीति भूरिति क्विपि कृते क्विबन्ता धातुत्वं न जहतीति " ?Rधात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते " ?Rइति भावे लकारे आत्मनेपदे यकि कृते भूयत इति घटस्य धात्वर्थीभूतभवितृविशेषणत्वात् । क्रियाविशेषणानां कर्मत्वं नपुंसकत्वं चेति । एवं घटमिति च भूवादित्वात् सत्तादीनां तृतीयाध्यायोक्तप्रत्ययः स्यात् । अनार्षः सत्तादीनां गणपाठः स्यात् इत्यत्रापि न मानम् । अस्तु वा अनार्षत्वं सत्तादेः गण्डति घटं भूयत इति दुस्तरम् । अथ क्रियावचनो धातुरिति गण्डिः वदनैकदेशवाची न धातुः, भवतीति भूरिति च कर्तृवाची न क्रियावाची, सत्तादि च न क्रियेति तर्हि भवति तिष्ठतीत्यसाधुः स्यात् । गडेश्च गणे पाठो व्यर्थः
?R। अक्रियार्थत्वात् । अक्रियापि क्रियावत् स्वीकार्येति नास्ति स्मृतिः, प्रयोगतश्चेत् स एव शरणम् । भ्रान्त्या क्रियावगतिरपि निरस्ता विपरीतख्यात्यभावात् । अथ पाठक्रियावचनाम्यां धातुतेति गण्डेर्व्युदासे भवत्यादेरपि स्यात् । एकैकं धातुताहेतुः यदि ततो भवत्यादेरपि धातुता । यदि न तदा गडेरपि स्यात् इति स्थूलमुपेक्ष्यैव पचत्यादेः पाठानर्थक्यमुक्तम् क्रियावाचित्वादेव धातुतासिद्धेः । अथ पठितस्यैव क्रियावाचितेति पचत्यादेः पाठानर्थक्यमुक्तम् क्रियावाचित्वादेव धातुतासिद्धेः । अथ पठितस्यैव क्रियावाचितेति पचत्यादेः पाठः तेन आणवयत्यादेरधातुतेति तर्हि मिलितादेव धातुतेति स एव भवत्यादिषु प्रसङ्गः इति प्रयोगत एव नियमो वाच्यः। ततश्चेत्सर्वः साधुः । तथाकारकनियमासिद्धिः - प्रथमं ’ ?Rध्रुवमपायेऽपादानं इत्यपादानकारकं स्मृतम्। ध्रुवं च निष्क्रियं इत्यकारकम् । निष्क्रियस्य च कारकत्वेऽतिप्रसङ्गः । न हि श्थत् पतित इत्यत्र रथस्य पातक्रियायोगः यत्र ध्रुवता । गतियोगे तु क्रतृता ।
?Rकर्मणा यमभिप्रैति तत्कारकं सम्प्रदानं स्मृतम् यः कश्चित् कर्ता स्वक्रियया स्वसम्बन्धी क्रियते स न कारकम् । कर्तृक्रियाननुनिष्पादात् । यमिति निर्देशात् स्वर्गवत् फलं तत् न कारकम् । कर्मणेति च सिद्धावगतेः । अथ कर्मणा कारकेणेति व्याख्यायते तर्हि सुतरामकारकता क्रियायोगाभावात्। क्रिययेति पक्षे हि क्रियायोगो विपरीतोऽप्यस्ति । अनन्तरपक्षे तु कारकयोगः स्यात् न क्रियायोगः। परम्परयापि यदि क्रियायोगः तर्हि सर्वस्य स इति किञ्चित्कारकं किञ्चिन्नेति विभागो न स्यात् क्रियायोगसामान्येनाभिमते सर्वत्र षष्ठी स्यात् । स्वर्गोऽपि यजतिकारकं स्यात् । प्रयाजादेश्च दर्शपूर्णमासे कारकता स्यात् । प्रयोगाश्रयणं तु निरस्तम् ।
?R
?R साधकतमं करणमिति करणं स्मृतम् । यदि यद्व्यापारानन्तरं क्रियासिद्धिः तत् तमपा उक्तं प्राप्तं तर्हि तण्डुलैरोदनमिति । यदि व्यापारप्राचुर्यं तमबर्थः कस्य न
?Rस्यादिदमाफलसिद्धेः ।
?R
?R आधारोऽधिकरणं इत्यधिकरणं स्मृतम् यदि यत्र क्रियते क्रियेति तर्हि तत्र कारकमात्रमधिकरणं स्यात्, क्रियासमवायात्, अथ कर्म यत्र आधीयते तर्हि समे पचतीति न स्यात् पाक्यस्य न समे स्थितिः किन्त्वप्सु इति अप्सु पचतीति स्यात् । कटे स्थितो भुङ्क्ते इति न स्यात्। भोक्तुर्हि तदधिकरणम् । यदि सर्वकारकस्थितिर्यत्र तर्हि स्थाल्यां पचतीति न स्यात्, तस्यां सर्वास्थितेः । अधिकरणं चाकारकं स्यात्। स्वस्मिन् स्वस्यास्थितेः । निष्क्रियस्य च कालादेरधिकरणता न स्यात् ।
?R
?R कर्तुरीप्सिततमं कर्मेति यदि क्रियासिद्ध्यर्थमीप्सिततमं (त्वं)
तर्हि सर्वस्य स्यात् । अथावाप्त्यर्था क्रियेति न तर्हि कारकं क्रियाफलत्वात् ।
?R तथा युक्तं चानीप्सितं इति चायुक्तम् । तथा युक्तं तमबर्थयुक्तमित्येवमीप्सिततममेवोक्तं तदनीप्सितमित्यनन्वयः । अकथितं कारकं कर्मेत्युक्ते किं तदकथितमिति न ज्ञायते ।
?R स्वतन्त्रः कर्तेति यदि स्वातन्त्र्यमिच्छातः प्रवृत्तिः तर्हि जायते म्रियते कूलं पतति इति कर्तृता न स्यात् । इच्छाया अभावात् । इच्छाकर्तृता च पिपतिषतीति सुदूरम् । अथ यदधीनः कारकान्तरव्यापारः स्वतन्त्रः इति तर्हि
अन्योन्याधीनव्यापारं कारकचक्रं सर्वमेव कर्तृ स्यात् । अथ यस्य धातुनोच्यते व्यापारः स कर्ता इति तथापि सर्व एव तथेति । अत एव काष्ठानि पचन्तीति प्रयोगः । अथ विवक्षया कर्तृता विवक्षानियमे हेत्वभावात् न कर्तृत्वव्यवस्थितिः।
?Rतथा प्रयोज्यास्थितेः तत्प्रयोजकास्थितिः । तथा अर्थोपपदक्रियोपाधयस्तु मिथः कारकनियामकाः । तथा अर्थोऽर्थान्तरसहितो नियामकः स्मृतः । अन्तर्धौ येनादर्शनमिच्छतीति व्यवधानार्थसहितोऽर्थः अदर्शनप्रितियोग्यपादानमित्युपाध्यायादन्तर्धत्ते, तथा उपपदसहितोऽर्थः नियामकः । क्रुधद्रुहोरुपसृष्टयोः कर्मेति यं प्रति कोप इति अनुवृत्तोऽर्थ उपसृष्टोपपदसहितः कर्मत्वहेतुः देवदत्तमभिक्रुध्यतीति क्रियासहितोऽर्थो नियामकः।
?R भीत्रार्थानां भयहेतुरिति । भीत्रार्थक्रियासहितो यो भयहेतुः अर्थोऽपादानता हेतुरिति वृश्चिकेभ्यो बिभेतीति । उपवदमर्थसहितमित्यस्यापि क्रुधद्रुहोरुपसृष्टयोरित्येतदेवोदाहरणं, क्रियासहितमित्यस्यापि । इदमेव क्रुधद्रुहक्रियासहितोपसर्गसहितोपपदमत्रास्ति । उपाधिरर्थनिसन्निहितेत्यत्र आख्यातोपयोगे इत्युदाहरणम् । नियमपूर्वकविद्याग्रहणोपाधिराख्यात्रर्थसहित आख्यातुरपादानताहेतुः उपाध्यायादधीत इति । प्रीयमाणोपाधिरपि रुच्यर्थक्रियासहितः सम्प्रदानताहेतुः । उपाधिरुपपदसहितः उपपदमुपपदसहितमिति नोदाहृतः विस्तरभयात् । उदाहृतमध्येऽव्यक्तदोषं प्रत्युच्यते । यदि रुच्यर्थोच्चारणं तर्हि देवदत्ताय मोदकाः दीयन्तामिति न स्यात् । रुचिर्हि प्रीतिः । तद्धेतुत्वात् रुच्यर्था मोदकाः तदुच्चारणे तद्योग एवेयं चतुर्थीति दीयन्तामित्यनन्वयः स्यात्। दानानपेक्षचतुर्थ्यन्तस्य दानान्वयायोग्यत्वात् । अथ रुचोर्धातोरर्थो रुच्यर्थः तर्हि सोऽपि रुचिविषयुमोदकाभिधानात् धीस्थ इति तद्योग एवेयं चतुर्थीति पूर्वपदानन्वय एव नोक्तदोषः । अथ रुच्यर्थधातूच्चारणात् तद्योगे चतुर्थींति नोक्तदोषप्रसंगः तर्हि देवदत्ताय मोदकाः किं रोचन्ते इति प्रश्नोत्तरानुपपत्तिः । देवदत्ताय मोदका इत्युक्ते किमिति प्रश्नः रोचन्ते इति चोत्तरं न स्यात् । देवदत्तायेति चतुर्थ्यन्तः रुचिधात्वनुच्चारणे हेत्वन्तरे चासति अपभ्रंशः। ततश्चार्थं धीरभिप्रायवशात् । स च
?Rनोन्नीत इति प्रश्नाल्लक्ष्यत इत्यर्थधीरेव नास्तीति विशेषापेक्षया प्रश्नः । असति प्रश्ने तु कुत उत्तरम् । अथ उत्तरगतरुच्यर्थधातूच्चारणापेक्षया चतुर्थी तर्हि ज्ञात उत्तरे न प्रश्नोत्तरे अथ चतुर्थ्यसाधुत्वादेव प्रश्नः उत्तरं च साधुत्वार्थं तर्हि नार्थपरः प्रश्नः । न चोत्तरमर्थपरमिति रोचन्ते इति शब्दपरं इति नोत्तरं न तदन्वयीप्रश्नः इति प्रश्नोत्तरानुपपत्तिः ।
?R भयहेतुरपादानमुक्तं, सर्वकारकाधीना च भीतिरिति कर्त्रादिकमप्यपादानं स्यात् उपपदादियोगे कारकत्वाभावात् कारकाधिकारे तत्संज्ञा न स्यात् । एवं कर्मादेरनवस्थानात् तद्विषया विभक्त्यादयोऽनवस्थिताः । एवं वाक्यार्थधीपूर्विका साधुत्वधीः न वाक्यार्थबोधोपायः। वेदवाक्यार्थबोधोपायतया च वेदाङ्गतेष्टा स्मृतेः । सा चानुपायत्वे न स्यात् । विभक्तिव्यत्ययस्मृतिश्च वाक्यार्थे स्मृतिविनाऽन्वबुद्धेर्नान्यथेहि न स्मृतेः वाक्यार्थधीः स्यात् ।
?R एवं कृता कर्त्रादिषु स्मृतानां अनिरूपितार्थता । तिङां च कालादिरुपाधिः नार्थः । न चान्यतः कालादिधीरिति वर्तमानेऽर्थे वर्तमानाद्धातोः लडिति दुर्निरूपम् । भूते भविष्यति च यत् स्मृतं तदपि दुर्निरूपम् । महाभाष्ये पातञ्जल एवोक्तम् - नहि तिङोच्यन्ते कालादय इति। न धातुतः कालभेदधीः धात्वर्थस्य कालत्रयेऽपि तुल्यत्वात् । लिङादयोऽपि विध्यर्थादिषु दुर्निरूपाः । उपपदवशाच्च विधिप्रैषादिविभागो न लिङादेः । अतो लिङाद्यर्थता तेषां न स्यात् ।
?R तद्धितसमासौ च समर्थवचनाद्दुर्निरूपौ । समर्थानां प्रथमाद्वा - इति तद्धितः । समर्थः पदविधिः - इति समासः । एकार्थान्वयिता च सामर्थ्यम्। तल्लक्षयितुं च तद्धितसमासभेदस्मृतिः । सामर्य्येन च तौ लक्ष्येते। सति सामर्थ्ये
?Rतयोः प्रयोगः । तयोश्च प्रयोगे सति सामर्थ्यं इत्यन्योन्याश्रयः। असमर्थसमाससमर्थतद्धितानुत्पत्त्योः लक्षणाऽसिद्धयोः प्रयोगवशादुपगमे स्मृतेरनियामकतैव । असमर्थसमासः अश्राद्धभोजीति भुजिना नञोऽन्वयः श्राद्धेन च समासः । दधिघट इति दध्नापूर्णो घट इत्यन्वयः । अत्र दध्नः पूर्णेन घटेन च समासः । गोरथ इति गोभिर्युक्तो रथ इत्यन्वयः । अत्र गोः युक्तेन रथेन च समासः । समर्थात्तद्धितानुत्पत्तिः अङ्गुल्या खनतीति ‘?R तेन दीव्यति खनति ’ ?Rइति ठकोऽनुत्पत्तिः वृक्षमूलादागत इति तत आगत इति प्राग्दीव्यतीयाणः अनुत्पत्तिः।
?R
?R अर्थवदधातुरप्रत्ययः प्रातिपदिकमिति यदि कार्यमर्थवत्त्वं तर्हि सिद्धे शब्दार्थसम्बन्धे लोकतोऽर्थप्रयुक्ते, शब्दशास्त्रेण धर्मिनियम इति वार्तिकहानम् । अथ औत्पत्तिकमर्थवत्त्वमुपायः साधुताप्यौत्पत्तिकार्थतैवेति उपेयमेवोपायः स्यात् । उपायादुपेयं उपेयादुपायमित्यन्योन्याश्रयः स्यात् । प्रातिपदिकानिर्णये च तन्निबन्धनस्वरकार्यप्रत्ययादिः न स्यात् ।
?R अधातुरप्रत्यय इति च अवयवातिरेकः । अर्थवच्छब्दरूपं धातुप्रत्ययव्यतिरिक्तं प्रातिपदिकसंज्ञमिति सूत्रार्थः । अत्र चान्ताश्रुतेः न प्रत्ययान्तव्युदासः । न च विशेषणेनाप्रत्ययेनविधिः । यतः येन विधिः तदन्तस्येत्यन्ततालाभः । नहि अर्थवद्विशेषणं पुंलिङ्गात् स्वपरत्वसम्भवे अन्यपरत्वानुपपत्तेः । अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्तीति सुप्तिङन्तं पदमिति ज्ञापितम् । संज्ञाविधिरेवाप्रत्यय इति न संज्ञाप्रतिषेधः। एकवाक्यतया पर्युदासोऽयं विधिशेषः । वृत्तिकारोऽप्याह - पूर्वसूत्रे अप्रत्यय इति पर्युदासात् कृदन्तस्य तद्धितान्तस्य चानेन संज्ञाविधिरिति कृत्तद्धितसूत्रे वदन् ।
?R ननु प्रत्ययान्तपर्युदासे प्रत्ययान्तनिवृत्तेः कृदन्ततद्धितान्तयोः संज्ञाविधिप्रतिप्रसवो भवेत् । इमामेवाशङ्कामपनेतुमुक्तं यदि कृत्तद्धितसूत्रे संज्ञाविधि तदा पूर्वसूत्रे अप्रत्यय इति व्यर्थः । प्रत्ययविशेषनियमेन प्रत्ययान्तरनिवृत्तेः। कृतं चाप्रत्यय इति। तेन जानीमः कृदन्ततद्धितान्तयोः संज्ञाविधिरिति। ये च प्रत्ययान्तस्य निषेधमाहुः तन्मते प्रत्ययमात्रस्य च संज्ञा दुर्निवारा । एवं स्थिते सूत्रार्थे अधातुरप्रत्यय इति व्यर्थम्। यदि प्रातिपदिकार्थवत्त्वेन संज्ञानिवृत्त्यर्थं, तर्हि वाक्यस्य स्यात्। समासग्रहणान्निवृत्तिरिति चेत् अर्थवत्त्वेनैव समासस्यापि संज्ञाप्राप्तौ नियमो वाक्यनिवृत्त्यर्थः। तर्हि धातुप्रत्यययोरपि निवृत्तिरस्तु। अथ एकार्थस्य वाक्यस्यैव निवृत्तिः समानजातीयस्य, न धातुप्रत्यययोः, तर्हि वाक्यस्यापि समासादन्यार्थस्य न निवृत्तिः।
?R विभाषासूत्रं विकल्पार्थं न कार्यम् । समासविधौ ततोऽन्यार्थतया वाक्यानिवृत्तेः व्यर्थमिति कात्यायनोक्तेः । अथ कात्यायनानादरात् अर्थवत्समुदायतया सजातीयवाक्यनिवृत्तौ विभाषेत्यनेन विकल्पः तर्हि प्रातिस्विकार्थभेदेऽपि अर्थवत्तया सजातीयधातुप्रत्ययनिवृत्तिः यथा अर्थवत्समुदायमात्रतया सजातीयकृदन्ततद्धितान्तनिवृत्तिः माभूदिति कृत्तद्धितग्रहणं कृदन्ततद्धितान्तपरम् । एवं च समासग्रहणात् वाक्यस्येव धातुप्रत्यययोरपि निवृत्तेः अधातुरप्रत्यय इति अवयवातिरेकः दुरुक्तानुक्तोद्भेदश्च व्याख्यातॄणाम्। स्मृतेः न नियमो युक्तः । स्मृतितः साधुत्वे दुरुक्तानुक्तता कुतो ज्ञेया । न च मात्रावर्णाधिक्यमिष्टार्थवाचि । ततः इष्टार्थाग्रहणान्न स्मृतितो नियमः । छन्दसि विशेषाभिधानं अप्रसिद्धे वेदार्थे व्यर्थम् । न्यायतः प्रसिद्धौ सुतराम् । स्मर्तॄणां च अन्योन्यविरुद्धार्थनिबन्धनात् न स्मृतेर्नियमः ।
?R यत्तु लक्षणसङ्गतमप्यप्रयोगान्न साध्विति तत् अतिव्यापकं लक्षणादज्ञात्वा
?Rमूलप्रयोगे स्मर्तॄणाम् । आकृतिगणोक्तिश्च प्रयोगधीपूर्विकैव । बहुलग्रहणाच्च स्वेच्छाप्रचारः प्रयोगाधीन एवा । एवं च स्मृतेरनादिप्रयोगनियमोपगमात् उपगतमज्ञत्वं स्वीयं मीमांसकैः । एवं च सन्मार्गानुसारिलोको मोहितः । अथ वा लोको वा श्रद्धया स्वयं मूर्खः । यश्चायं पाणिनीयस्मृतेः दोषः सोऽन्यस्यापिशलादिस्मृतेरपि, धातुसंज्ञाद्युपायतुल्यत्वात् । एवं स्वतोऽशक्ता स्मृतिः अमूला च । स्मर्तृभिः प्रयोगतौल्यात् कुतः साध्वसाधुविवेकोऽवगतः ? ?Rस्मृत्यन्तरपरम्परात इति चेन्न, अन्धपरम्परापत्तेः । मूलमानशून्यत्वाद्विभागस्य मूलिन एवानियतार्थत्वे निर्विषया मूलचिन्तापि इत्यास्तां तावत् मूलचिन्तेत्युक्तम् । तावच्छब्दान्मूलचिन्तापि मता तथाप्यमूलतैव।
?R राद्धान्तस्तु - आस्तां तावत् स्मृतेरनियतार्थत्वं सुपरिहरम् । अमूलत्वं तु दुस्समाधेयम् । असमाहिते तस्मिन् निष्फलमनियतार्थंत्वं समाहितमपीत्यमूलत्वं पूर्वं निरस्यते । आदिमतापि व्यवहारः सिद्ध्यतीति ।
?R सत्यं, गाव्यादौ परम्परानादिरित्युक्तम् । या च स्वव्यवहारार्था संज्ञा परिभाषा वा तत्रादिमत्ता स्मृतेः । यथा आदैचोर्वृद्धिसंज्ञा। या संज्ञिन उपाध्यन्तरापेक्षा संज्ञा सा परिभाषा । यथा कर्मधारयशब्दवाच्यत्वे तत्पुरुषस्य समानाधिकरणता उपाधिः । अथ आधिमत्ताऽस्मृतावपि विष्णूच्चारणेच्छोरशक्तस्य विण्णूच्चारणावत् सामान्यतो दृष्ट्या गाव्यादि अशक्तिजमिति । तन्न। स्मर्यमाणप्रभवं हि व्यवहाराङ्गं अशक्तिजत्वेन व्याप्तं दृष्टं न तथा गाव्यादीति न तेनेदं तुल्यम् । उपगतानादित्वगवादिना अनेकान्तं च । तत्राप्यशक्तिजत्वापत्तौ इष्टविघातलक्षणविरुद्धता च ।
?R अथ स्मृतेरसम्भावितमूलतानिरासायाशक्तिजत्वदर्शनमुक्तम्, अन्यायो
?Rह्यनेकशब्दानामेकस्मिन्नर्थे सम्भाव्यमानशक्तिजत्वानां सदृशानामनादित्वम्। अशक्तिप्रकर्षाच्च असदृशोऽपि अशक्तिजोऽद्यत्वे । यथा देवदत्तोच्चारणादिप्रयत्नेनाभिनुन्नमिति । क्वचिद्विभक्तेरनन्यत्वमशक्तिजम्। अश्मकेभ्य आगत इति वाच्ये अश्मके निर्गत इति । अतः कथञ्चिदभिप्रायावगतेरर्थधीर्वृद्धस्य । तां दृष्टा व्युत्पित्सोः उच्चरितादर्थधीरिति भ्रमः। तत्प्रभवोऽपभ्रंशव्यवहार इति नामूला स्मृतिः । नियतार्था च अव्यापकत्वातिव्यापकत्वे सूत्रस्मृतेः वृत्तिवार्तिकभाष्यैः कथञ्चित् समर्थिते । तेन सर्वाभियुक्तस्मृत्यनुसारात् शक्यं नियतार्थत्वं विस्तरभयान्नोक्तमिति ।
?R तन्न । न हि स्मृतिः अशक्तिजं गाव्यादीत्याह । अथ गवाद्यनादितास्मृतेः तदितरदर्थादशक्तिजं गाव्यादि इति । औत्पत्तिकं गवादेः सास्नादिमदर्थबोधकत्वं स्मृतं तदनिदंप्रथममित्यनादि । एवं गाव्यादिकमपि वृद्धव्यवहारादनाद्यस्तु । अथ व्यर्था स्मृतिः माभूदिति स्मृतिनिबद्धेतरत् गाव्यादि[?Rआदिमत्]?Rतन्न । यद्यादिमतः आदिमत्तामाह स्मृतिः तदाऽसौ नैवानादिपरम्परानुवृत्ता । आदिमद्विषयत्वात् आदिमद्दर्शनमूला वाच्या यतः । किञ्च गौणलाक्षणिकयोः वाच्यपूर्वकत्वयोगादादिमत्ता स्यात्। तदर्थता च वैदिकपदस्य न स्यात् । अथ वाच्यपूर्वकमपि अनादि तर्हि मन्त्रगतोरूकमित्यत्र कमित्यस्यावाच्यकासशब्दोपस्थापनपूर्वककासार्थपरः आदिमान् वेदः स्यात्। गाव्यादेरपि गोबुद्धिर्मूलशब्दानुसारत इत्येवं कमितुल्यता गाव्यादेः स्यात् । किञ्च शाब्दैरनिबद्धेऽपि भाषन्तरे च स्मृत्यन्तरान्नियतार्थः परम्परानुवृत्तं आदिमदिति न युक्तम् । एवं च स्मृतिसहायप्रत्यक्षगम्यं साधुत्वमिति परमतं हेयम्, उक्तरीत्या स्मृतेरसहायत्वात् ।
?R अत्रेदं तत्त्वम् - साधुत्वमनादित्वं अपुंप्रभवत्वमिति यावत् । पुंप्रभवता हि पुरुषाभिप्रायभ्रमाशक्तिप्रमादैः । सङ्केतिते अभिप्रायप्रभवता, स्मृत्यर्थाविवेके
?Rभ्रमप्रभवता, उच्चारणवैगुण्ये चाशक्तिप्रमादप्रभवता । चतुष्कमिदं मुख्ये गौणे लाक्षणिके मन्त्रगते च कमित्यादौ नास्ति । भाषान्तरे तु सङ्केतसंवादार्थं स्मृत्यपेक्षा। अपभ्रंशादिरूपेणैव स्मृतेः पुंप्रभवत्वमेव । एवं विसंवादोऽपि देशादिभेदात्। हस्तसङ्केतादितुल्यता च । गवाद्यतिरिक्तमशक्तिजमित्यपि। एवं हि स्मृत्यर्थेऽङ्गीक्रियमाणे न गाव्यादिविशेषस्यादिमत्ता नियामिका येनादिमती स्मृतिः। न च गौणाद्यर्थधीः मुख्यार्थधीपूर्विका, किन्तु गौणत्वधीः मुख्यत्वधीपूर्विकैव । यदि तु कमित्यस्मात् काशार्थधीपूर्विकैव काशशब्दोपस्थापनद्वारकत्वधीः तर्हि गावीत्यस्मात् उपस्थापितगवार्थधीपूर्विकैव गोद्वारकत्वधीरस्तु । गाव्यादीत्यनेनैव व्यवहारबाहुल्यमस्तु स्मृतिनिबद्धात् बहिरिदं पुंशक्तिप्रभवं नानादिवेदे बोधकम् । एवं च प्रयोगानादितास्मृतिपरम्परा दृढा प्रयोगानादितां स्वविषयामुपस्थापयन्ती स्वकारणमनुमैकगम्यं प्रयोगानादित्वमनुमापयति । अथवा व्यवहारानादितयैव प्रयोगानादितासिद्धौ सदृशानेकशब्दानामशक्तिजताशङ्का स्मृतेरेकस्यापनीतेति स्मृतेरनादिता । दृढस्मृतिसंवाद्योऽयं प्रयोग इत्येवं शङ्कापगमः। प्रवाहानादिस्मृतिसंवादो हि नाशक्तिजस्य इतीयं दिक् ।
?R ऋषभवृषभादीनां सदृशानामपि सर्वेषां स्मृतिसंवादान्न कस्यचित् अशक्तिजतेति अनेकशब्द एवैकार्थः । वाचकापभ्रंशविभागार्था स्मृतिरिति शाब्दोक्तेः अपभ्रंशादन्यद्वाचकमभिमतम् अवाचकसमासाद्यनुशासनात् । यदि तु वाचकतापुरस्काराल्लक्षणादि इति तर्हि न कमिति वाचकतापुरस्कारात् कासार्थः। अथ कमित्युपस्थापितस्य वाचकता तर्हि गावीत्युपस्थापितस्य गोरपि वाचकता तुल्या । अव्यापकत्वातिव्यापकत्वे च एकस्याः स्मृतेः स्मृत्यन्तरद्रढिम्नैवेति स्मृत्यन्तरान्नियमसिद्धिरस्तु ।
?R विवरणे तु सङ्गतेर्विधान्तरम् । पदार्थसन्देहे शाब्दस्मृतितः वेदे निर्णयो वेदविदाम् । स्मृतितः अनेकार्थत्वे प्रकरणादिवशात् । अतः स्मृतेरमूलत्वादनध्यवसाय एव ।
?R ?R?0॥ 10॥ प्रयोगचोदनाभावादर्थैकत्वमविभागात् ॥ 30 ॥
?R आकृत्यधिकरणीयं सन्देहमुपक्रम्य मध्ये किं लौकिका एव वेदे शब्दाः अर्थाश्च उतान्य एवेति चिन्ता व्यक्त्यर्थत्वमुखमप्रामाण्यमपनेतुं आकृत्यधिकरणमारब्धम् । अन्यथा वेदेऽन्यत्वात् अव्युत्पत्तेर्नार्थधीः। न तु लोके व्यक्त्यर्थतया वेदे नार्थधीरिति । यतः एवमप्रयोजना आकृतिचिन्ता न त्वशक्योपक्रमेत्यतः उपक्रम्योपोद्घाततया मध्यस्थः । साक्षात्सङ्गतेरध्यायस्थः। तदुक्तं " ?Rव्यक्त्यर्थत्वे लोके वेदे अर्थासंस्पर्शितैवे " ?Rति ।
?R
?R पूर्वपक्षस्तु शाब्दैरन्यतोक्तेः " ?Rलौकिकानां वैदिकानां चे “?R ति। रूपान्यत्वाच्च देवासः त्मना अग्णिः इति वर्णागमलोपविकारैः । अर्थान्यतापि " ?Rउत्ताना वै देवगवा वहन्ति " ?Rइति " ?Rहिरण्यवर्णो वनस्पतिः” ?Rइति " ?R " ?Rघृतं मधु " ?Rइति । ननु तत्रापिशब्दार्थयोः तत्तापि प्रायेण। मैवम्। तत्ता अन्यता वेति न लोकव्युत्पत्तिः नियता । छेदनादिव्युत्पत्तिर्नियता। छेदनादिव्युत्पत्तिनियमपूर्विकैव यूपादावपि वेदे व्युत्पत्तिः नान्यथा। ननु वर्णागमादावपि यूपप्रत्यभिज्ञानादर्थतत्ता । तन्न । लोके न तथा साधुतेति नौत्पत्तिकी पदपदार्थधीर्वेदे ।
?R
?R राद्धान्तस्तु - वर्णतोऽन्यत्वेपि अर्थधीहेतुवर्णसङ्घातप्रत्यभिज्ञानमेव । वर्णतो विकारेऽपि तरुच्छेदनादौ वनतत्तेव वर्णगणतत्तयैव हि तदर्थधीः । न तु सजातीयशक्तिप्रत्यभिज्ञया पदतत्ता, पर्यायेऽपि तत्तापत्तेः । न च शक्तिव्यक्तितत्ता,
?Rवर्णगततयैव हि सा । न च लोके तथा न साधुतेति वेदेऽपि नेति वक्तुं शक्यम् तथा वेदेऽनादिप्रयोगात् । अत एवावस्थान्यत्वात् लौकिकवैदिकप्रभेदः शब्दानां सापेक्षत्वानपेक्षत्वावस्थावात् अल्पवर्णतत्वे उरूकमित्यत्र कवर्णेन काशशब्दलक्षणयाऽर्थधीः।
?R एवमपि लोकव्युत्पत्तितोऽग्न्यादौ व्युत्पत्तेः वेदेऽपि पदपदार्थधीसिद्धेर्नानध्यवसायः । न चोत्तानवहनादि मानसिद्धं येन तदर्थता। अर्थान्यत्वे च वहनाद्यर्थाज्ञानमेवेति न ततोऽन्यत्वधीः उत्तानवहनादि स्तुत्यन्वितम् । कृतणत्वोऽग्निरिति वदता प्रत्यभिज्ञोक्ता। साधुशब्दे स्थितेऽपि लोके अन्यतया वेदे शङ्कोत्थानात् उत्तरतश्चिन्ता तुल्यरूपार्थे वक्ष्यमाणेऽपीत्यन्तराचिन्तेयं कृता ।
?R ?R?0॥ 11॥ प्रयोगचोदनाभावादर्थैकत्वमविभागात् ॥ 30 ॥
?R किमाकृतिद्वारकं कार्यपरत्वं गवादिशब्दानां उत व्यक्तिद्वारकमिति सन्देहोऽयं तुल्यः । तथैवाकृतिव्यक्त्याः शाब्दधीविषयता तुल्या । व्यक्तितः आकृतेः कार्यान्वयः आकृतितो व्यक्तेः धीविषयतेति तुल्यतैव यदि व्यक्त्त्युपादानेनावच्छेदात् आकृतेप्यन्वयः तर्हि प्रत्ययमात्रमाकृतावुक्तं अनन्वयं वक्तुं;?R अनन्वितस्य पदार्थत्वोपगमे तत्पदवान् वेदो न प्रमाणं स्यादिति च ग्रन्थो हेयः । मैवम् आपाततस्तुल्यतया सन्देहः सूक्ष्मेक्षणादाकृतेः अनन्वय एव । न हि कारकावच्छेदात् क्रियान्वयः । आकृत्यर्थवाद्यपि उपदेशे व्यक्त्यर्थतामिच्छति । ननु न व्यक्तिधीः व्यक्तेः प्रातिस्विकरूपाभानात् । तन्न । आकृतिर्हि सामान्यं सम्बन्धिस्वभावं तत्सम्बन्धित्वेनाभातं अभातमेव स्यात् । विशेषतश्चात्र रूपरूपितया सम्बन्धिता। न च रूपिशून्या रूपबुद्धिः, यदि स्यात् रूपतैव न स्यात्।
?R अत्रेदं तत्त्वम् । व्यक्तिपरतन्त्रस्वभावैवाकृतिः प्रत्यक्षसिद्धा । न
?Rव्यक्त्यन्तरवत् स्वतन्त्रा । परतन्त्रा च परान्तर्भावघटितमूर्तिरिति शब्दादप्याकृतिदीप्तिरेव । आकृत्यादिशब्दास्तु तत्स्वभावासहितामाहुः न तत्स्वभावामेवेति न गवादिशब्दतुल्याः । रूपतया चेयं परतन्त्रा रूप्यपि तन्निरूपिततया धीस्थां तां परतन्त्रयति । न च गवादिशब्देभ्यः प्रातिस्विकधर्मनिरूपितरूपिधीः प्रत्यक्षवत् प्रातिस्विकरूपाभानात्। न चैवं अभानमेव, अविशदतया रूप्यध्यवसानात् । जात्यादिकल्पनाया अपि मेयतास्थापनात्। धीभेदे च इत्थं वेद्यत्वमशक्यमिति एकधीस्थासिद्धिः तदुक्तं " ?Rअहोबतानुभवेऽपि नावमर्श “?R इति । व्यक्त्यर्थत्वे च कार्यान्वयबलात् स्थिते सम्बन्धग्रहणार्थं नयनिरस्तसमयकृतत्वहानात् वृद्धव्यवहारतो व्युत्पत्त्यर्थमाकृत्युपलक्षणाश्रयणम् । अतः शाब्दैकदेशी व्याडिः व्यक्त्यर्थतां मेने। एवं च व्यक्तिमङ्गमवच्छिद्य सङ्ख्यादेरङ्गता । अन्योक्तिश्च वेदे व्युत्पत्त्यपेक्षया युक्ता। न चायमेकदेशिपक्षो युक्तः। कार्यान्वयानैकान्त्यात् । श्येनचितमित्यत्र व्यक्त्यनन्वयात् कर्मतेह श्येनस्य । कर्मण्यग्न्याख्यायामिति स्मृतेः । न चेष्टकाचयनान्मुख्यस्य कर्मतेति सदृशान्वये जातिसदृशता शक्येति प्रतीत्यन्वयोऽत्र जातेः । ननु उपलक्षणतया आकृतिः सर्वत्र प्रतीत्यन्वयिन्यस्तु नोपलक्षणम् कार्यधीकालेऽन्वयिनी । किन्तु सम्बन्धग्रहणकाले तेन क्वचिदन्वय उक्तः । एवं च क्वचिज्जातिः क्वचिद्व्यक्तिरन्वयिनित्यनवधृतपदार्थयुक्तपदवद्वेदवाक्यमप्रमाणमिति
सङ्गतिपूर्वपक्षौ ।
?R राद्धान्तस्तु सर्वो हि धर्मो केनचिद्धर्मेण प्रतीयते प्रातिस्विकेन वा सामान्येन वा। गवादिशब्दान्न प्रातिस्विकधर्मेण धीः । न हि प्रत्यक्षादिवत् अन्योन्यविलक्षणव्यक्तिधीः शब्दात् किन्तु आकृतिधर्मकतया। न चोपलक्षणपक्षे तेन धर्मेण धर्मिता । पृथग्भूते हि धर्मिणि उपलक्षणम् । ननु कार्यान्वयो व्यक्तिमात्रस्येति
?Rतदेव शब्दार्थः सिंहवदाकृतिः पञ्जरवत् शब्दार्थगम्या । तन्न। आकृतिधर्मिकैव व्यक्तिरन्वयिनी इत्याकृतावेवान्वयिधीः । यद्याकृतिः
पञ्जरवदिष्यते तदा प्रातिस्विक एव व्यक्त्यन्वयो वाच्यः तदा सर्वव्यक्त्यन्वये अनध्यवसायी शब्दः स्यात् । सर्वव्यक्त्यन्वयस्याशक्यानुष्ठानत्वात्। एकव्यक्तेरन्वयेऽपि कस्या इत्यनध्यवसायिता । अथास्त्विति चेत् न तर्हि आकृतेरन्वयः अध्यवसायकरमन्वीयते यतः यथा अक्ताश्शर्करा इत्यनध्यवसिते घृतान्वयः । अथ शब्दस्वभावात् गोत्वसम्बन्धितया व्यक्तिधीः अन्वयोऽपि तत्सम्बन्धाया एव व्यक्तेः इत्यध्यवसायः तर्हि गोत्वाकारेण व्यक्तिधीरित्यङ्गीकृतम् । एवं च गोत्वमेव वाच्यम् । अथ कार्यपर्यवसाय्यन्वयो न धीपर्यवसायी कार्यं च व्यक्तौ यथा दण्डिनोऽन्वये दण्डो धीपर्यवसाय्येव । तन्न। यत्र दण्ड उपलक्षणं तत्र दण्डो धीपर्यवसायी। यत्रु तु दण्डितयैव विशिष्टधीः तत्र दण्डान्वयोऽस्त्येव । अखण्डशब्दे तु गवादौ गोत्वान्वय परता । सखण्डे दण्डान्वयो दण्डभागात् इति भेदः ।
?R कथं तर्हि व्रीहीन् प्रोक्षतीति व्यक्तिपर्यंवसायितया अर्धवैसशम् । एवम्। अपूर्वीय एव असाधारणे भाविकार्यवत्युपात्ते प्रोक्षणान्वय इति योग्यव्यक्तिलक्षणा न तु व्यक्तेः शब्दार्थत्वात् । नन्वाकृतिः निर्व्यापारा । न क्रियासाधनतयाऽन्वयिनीति न शब्दार्थः । क्रियासाधनावच्छेदोऽपि न तया निर्व्यापारया । तन्न। न हि व्यापारकारितैव क्रियासाधनता। किन्तु सति तस्मिन् भावः असति चाभावः। बुद्ध्या हि व्यक्त्या क्रिया साध्यत इति धीद्वारा अस्तु साधनता। शब्दादाकृतिरूपेणैव व्यक्तिधीरुक्ताः । उपादेयव्यक्त्यपेक्षया सङ्ख्यान्वयः अन्यत्वव्यपदेशश्च । एवं क्रियागुणयोरपि शब्दार्थता नागृहीतविशेषणान्यायेन सिद्धा । आकृतिस्तु उदारहणमात्रम् । सामारुणादिशब्देभ्यः तद्रूपतयैव धर्मिबुद्धेः। भाष्यव्याख्या टीकायां स्फुटा ।
?R कथं पुनराकृतिव्यक्त्योरेकधीवेद्यत्वेऽपि आकृतेरेव शब्दार्थता न व्यक्तेरिति। न हि वेद्ये शक्तिः किन्तु वित्तिजनके वित्तिविषयतया शब्दार्थता आकृतिव्यक्त्योस्तुल्या । उक्तोत्तरमिदम् । उक्तं हि आकृतिधर्मेण धर्मिणि शब्दजाधीः । आकृतेर्हि प्रतिस्विकरूपं धर्मत्वं स्फुरत् धर्म्यालीढमेव स्फुरति नान्यथा । तदत्र अनन्यलभ्याकृत्यंशस्फूर्तौ शब्दशक्तिकल्पने धर्म्यंशस्फूर्तेरन्तर्भावो नान्तरीयक एव । अस्ति च एकधीवेद्यांशविशेषेऽपि हेतुशक्तिव्यवस्था प्रत्यभिज्ञायाम् । अत एव गुरु नये संविज्जन्मन्येव हेतुशक्तिः, न तत्स्वप्रकाशत्वे प्रातिस्विकतत्स्वभावान्तर्भावादेव तत्सिद्धेः ।
?R न चेयं समाधिविधा। आकृतिवाचिपदानन्तरं स्मृतिस्थैवाकृतिः सहचरितां व्यक्तिं स्वविशिष्टामप्यनुस्मारयति। तदेवमुद्बुद्धसंस्कारसचिवात् शब्दात् आकृतिविशिष्टमेकधीस्थम् । निष्कर्षादाकृतेर्व्यक्तिधीरित्युक्तम् । न व्यक्तौ शब्दवृत्तिः अतत्परत्वाच्छब्दस्येति । यतो व्यवस्थिते जातिवाचित्वे विधेयं तदेव तु कुतः । यदि तु संस्कारसचिवाच्छब्दात् स्वार्थविशिष्टधीः तर्हि जात्युपाधिशब्देभ्योऽपि स्यात् । न तु गोऽरुणादिशब्देभ्य एव विशिष्टधीरित्यभ्युपगमः स्यात् ।
?R न च बहुसम्मतापि समाधिविधा - यच्छब्दात् बुद्धात् यद्बुद्धं शब्दप्रयोगे च निमित्तं तस्य शब्दार्थता । यद्यपि विशिष्टस्य शब्दाप्रयोगे अन्वयव्यतिरेकानुविधानं तथापि विशेषणे निमित्तत्वकल्पनेनैव विशिष्टप्रयोगसिद्धेः न विशिष्टे शक्तिकल्पना । अथ विशेषणे निमित्ते तत्रैव धीः स्यात् न व्यक्तावपि। तन्न । नहि भवितारमजानतो भावधीरस्तीति सूक्तं विशिष्टमभिधानगोचरो विशेषणमभिधेयम् । अतः शब्दव्यापारावैषम्यात् न मुख्यताहानिरिति ।
?R तन्न । कथं शब्दव्यापारविषयत्वेपि अनभिधेया व्यक्तिः। अतत्परत्वादिति चेत् । नहि शक्तिः तात्पर्यात् । गौणादावप्यापत्तेः । तात्पर्यं च कार्यासन्नतया व्यक्तावेव युक्तम् । अतात्पर्ये च मुख्यवृत्तिता कथं ? ?Rस्वाभिमते तु प्रकारे शब्दस्पर्शाभावात् व्यक्तेः न तस्यां वृत्तिः । आसन्नतया तद्द्वारता जातेः ।
?Rविवरणे तु सङ्गतेर्विधान्तरं - व्यक्त्यर्थत्वे प्रतिव्यक्ति सम्बन्धग्रहणाशक्तेः नौत्पत्तिकता सम्बन्धस्येति वेदाप्रामाण्यम् । न चाकृत्युपलक्षणात् सम्बन्धग्रहः उपलक्षणविलक्षणत्वादाकृतेः विशेषणत्वे तु आकृतेः शब्दार्थतापत्तेः व्यक्तिरशब्दार्थः स्यादिति । व्यक्त्यर्थत्वपक्षे नौत्पत्तिकता । अत एव आकृतिग्रन्थशेषता चास्याश्चिन्तायाः तत्रैव चोक्ता आकृत्यधिकरणे निपुणतरं वक्ष्याम इति वदता । इह तु व्यक्तेः क्रियान्वयमुखेन आकृत्यर्थत्वाक्षेपो विनियोगत एवेति विनियोगोत्थाप्रमाण्यसमाधानार्थायां त्रिपाद्यां इयं चिन्ता नाद्यपादे युक्ता । शेषं सुगमम् ।
?0 ?Rइति श्रीभवनाथमिश्रविरचिते नयविवेके
?0 ?Rप्रथमाध्यायस्य तृतीयः पादः।
?R?0 _______
?Rनयविवेके प्रथमाध्यायस्य
?R?0चतुर्थः पादः
?R ॥ 1॥ उक्तं समाम्नायैदमर्थ्यं तस्मात् सर्वं तदर्थं स्यात् ॥ 1॥
?Rतस्य निमित्तपरीष्टिरिति प्रामाण्यमध्यायार्थ इति प्रतिज्ञातम् । तदर्थं बाह्यहेतूत्थमप्रामाण्यं स्थूलतमं आद्यपादे निरस्य द्वितीये स्थूलतरं अर्थवादमन्त्रोत्थं निरस्तम् । तृतीये स्थूलं स्मृत्युत्थं निरस्तम् ।
?Rअधुना विधिप्रभेदोत्थं सूक्ष्मं निरस्यत इति पादार्थभेदः अनुक्रमश्च। कर्मगुणश्रुतौ गुणविधिरेव गुणपरत्वाद्वाक्यस्य रक्तः पटो भवतीति हि गुणसंबन्धार्थं वाक्यं दृष्टम् । अयं भावः - उभयपरत्वे तात्पर्यगौरवात् वाक्यस्य एकमात्रपरत्वम्। तत्र कर्ममात्रपरत्वे गुणश्रुतिर्व्यर्था । गुणपरत्वे तु आश्रयसमर्पकतया कर्मश्रुतिरप्यर्थवतीति गुणविधिरेव । सर्वत्रैवं कर्माविधेः लौकिककर्माश्रयो गुणविधिरेव । अतो मानान्तरतः कर्मकर्तव्यतयैव गुणकर्तव्यतेति वेदो मानान्तरापेक्षः कर्तव्यतायामित्यप्रमाणम् ।
?Rन च लोकतः प्रवृत्ते भोजने प्राङ्मुखतादिनियमवदनपेक्षता । प्राङ्मुखता हि भोजने प्रवृत्तस्य पुरुषार्थतया नियम्यते, न कर्माङ्गतया उद्भिदादेस्तु कर्माङ्गतया विधिः ।
?Rअयं भावः - प्रसिद्धेऽन्यतः प्रवृत्ते कर्मण्याश्रिते विधिः पुरुषार्थ एव । यत्र तु यागादावन्यतः प्रवृत्तिरसिद्धा तदाश्रितो गुणः तत्रैव विधेयः । नहि अदृष्टफले यागादौ लोकतः प्रवृत्तिः सिद्धा । एवं कर्मणि गुणविधौ स्थिते वेदे कर्माविधेः पारिशेष्यात् लौकिकं कर्म मृग्यम् । लोकेऽपि चेन्नास्ति वरं दृष्टार्थस्त्यागादिरेव यजेतेत्यनेनोक्तः प्राप्तार्थे यथाप्राप्ति तात्पर्यम् ।
?Rन चैवं सापेक्षतेति व्यावृत्यन्याय्यो यागविध्यङ्गीकारः, लौकिके मातृगणयागे गुणविधिरिति च मन्दम् । नानुमेयवेदमूलो मातृगणयागः, श्रुतवेदे कर्मविध्ययोग्ये न योग्यानुमा । अवेदमूलकश्चेत् भ्रममूलो न यागः स्यात्। वेदस्पृष्टदेवतान्वयी हि यागः, न च देवतागुणविधेरेव लौकिके देवतालाभः, गुणविधेरेवाभावात् । तदाहि वेदोक्तापि देवता न वेदमेयेति न देवता स्यादिति त्यागमात्र एव गुणविधिः । किञ्चोपपदार्थोऽपि कामी विधातुमशक्यः तत्परत्वे विधिशून्यता । कामिपदं न कर्तृपरं
?Rकिन्तु फलिपरं, न च फलं विधेयम् ।
?R
?Rननु गुणवत्कर्मविधौ कामी चान्वयी गुणोऽपि सन्निहितकर्माश्रयः । भावार्थस्य च विधिविषयता भावार्थनयसिद्धा । गुणस्य च विधिस्पर्श इति सर्वं सुस्थम् । यथा दण्डिशब्दात् दण्डवति धीः तथैव गुणवत्कर्म धीस्थं विधेयमिति न विरुद्धत्रिकद्वयं बाधकम् । न चानेकविधिः ।
?Rमैवम्। मत्वर्थीयनिर्देशाद्धि तद्वति धीः । नेह तथा । अथ कारकतया निर्देशेऽपि तद्युक्तक्रियाधीः । सत्यम् । पदद्वयान्वयात्तु सा, नैकपदार्थतया । न च स्वकरणयोगितया करणीभूता क्रिया धीस्था । साध्या हि तथा सोमेन यजेतेतिवत्। मत्वर्थादेव हि एकपदार्थतया, एकार्थे धीस्थे विधिः । न चात्र मतुब्लोपः । गुणवचनेषु तल्लोपानुशासनात् । न चात्र मत्वर्थलक्षणया उद्भिद्वत्तेति वाच्यम्। मुख्यार्थस्यान्वये हेत्वभावे लक्षणाश्रयणं मानान्तरापेक्षत्वादेव नान्यथा। मत्वर्थलक्षणायां हि सावयवोऽप्येक एव पदार्थ इति न विध्यावृत्तिः समासार्थविधाविव । मत्वर्थे चाख्यातार्थनिवेशादाख्यातार्थविधिरदोषः इति। नामार्थत्वे तु कार्यपरता न स्यात् । यच्च भाष्ये मन्त्रार्थवादत्वासम्भवात् गुणविधित्वमुक्तं, तदिह गुणविधिरेवावशिष्यत इत्यभिमतम् ।
?Rननु च कर्मनामतया याज्ञिकप्रसिद्धिः । तन्न । निर्मूलत्वात्प्रसिद्धेः। लोकव्यवहारे हि खनित्रादौ प्रसिद्धिः । एतन्नयमूलता तु साध्या। खनित्रादिस्तु यथार्हं करणमस्तु । भाष्ये तु प्रकृतौ ज्योतिष्टोमे गुणविधिरिति, गुणविधिः प्रकृतौ तु लौकिके ज्योतिष्टोमे तदीयसोमविधौ यदङ्गीकारार्हं लौकिकं कर्म तत्रेति यावत्। न च परमतेऽपि ऋजु भाष्यम् । भट्टोङ्गीकारार्हं लौकिकं कर्म गुणविधिरलुपदे निरस्तः ।
?Rव्यवहितो ह्युद्भिदादेः ज्योतिष्टोमः सहस्रदक्षिणेन यजेतेत्यनेन। अनस्सहस्रदक्षिणे गौणे ज्योतिष्टोमे गुणविधिरनुपदोक्तः । न च विध्यन्तरार्थं प्रकृत्यपेक्षणाद्वरं गुणार्थमपेक्षेति प्रकृतौ विविर्युक्त इति वाच्यम्। गुणविधिपक्षेहि प्रकृतिरपि तथेति नापेक्षणीया। ज्योतिस्संज्ञकस्तोत्रविध्यर्था हि प्रकृतिः सन्निध्यर्थञ्च स्तोत्राम्नानमिति न तत्प्रख्यनयात् गुणविधिहानम् । सोमेन यजेतेत्यपि सम्प्रति गुणविधिः । विशिष्टविधिपक्षेपि गुणावरोधे दुस्तरे नोद्भिदादिगुणविधिसहता। कामिपदञ्च लौकिकसाध्योपलक्षणमस्तु ।
?R
?Rराद्धान्तस्तु - नैतत् । स्वतस्साध्यभावार्थश्रुतौ तद्विधिरेवेत्युक्तम्। गुणविधावपि गुणविभक्तरूपे भावार्थ एव विधिरिति चौक्तम्। आघाराग्निहोत्रनये फलतो गुणविधिव्यवहारः। अत्रापि तथास्त्विति चेन्न, अविभक्तरूपे विहिते धीस्थे तत्र तथा । इह तु विपरीतम् । गतस्तर्हि रक्तपटनयः । न, विधिमहिम्ना क्वचिदपोद्यते । अगुणोऽपि नामतया भावार्थविशेषणम् । नामापि विशेषणं डित्थोऽयं विप्र इतिवत् । नामता च भावार्थे विधेये, गुणे च विध्यनुवादानर्हे, अभ्यर्हिते, चैकार्थतयाऽन्वये, मत्वर्थे चाकल्प्ये, क्लृप्ते च प्रवृत्तिनिमित्ते विभक्तेश्चाविरोधे प्रसिद्धार्थसमभिव्याहारात् ।
?Rतृतीयाबलादेव तृतीयार्थैकार्थतया नामतेति परमतं हेयम् । एकविभक्तितो हि मिथोऽनन्वयः । अन्वये हि अरुणयैकहायन्येति गौरश्व इति च स्यात् । विधेयं सिद्धावस्थं वदत् नाम अप्रवृत्तिविशेषकरमपि धीविशेषकम्, विधिस्पृष्टार्थञ्च। वाक्यान्तरे प्रवृत्तिविशेषकरञ्च गुणफलोपबन्धात् । अतो लौकिकात् गुणविधिप्रकृतितयाऽऽरोपितात् कर्मान्तरम् । भाष्ये तु लौकिके गुणविधिप्रकृतितया गौणो ज्योतिष्टोमशब्दः । सोमेन यजेतेति तु विशिष्टविधिः उत्पत्तावकरणं यजिरिति
?Rन विरुद्धत्रिकता । करणावस्थे हि यजौ न स्वकरणान्वयः उत्पत्तौ च साध्यावस्थे करणविशिष्टे विधिः मत्वर्थानपेक्षः। समिदादेस्तु प्राप्तत्वान्नामता । राजा राजसूयेनेत्यत्र करणावस्थेऽपि यागे राजा कर्तृसङ्ख्यावाच्याख्यातान्तर्भावात् भावार्थविधिनिविष्टः कर्तृसङ्ख्येव । अथवा ससङ्ख्यकर्तृविशिष्टविषयेऽधिकारात् तदुपसंहारशक्त एक एव राजाऽधिकारीति राजा तदधीनां कर्तृतां भजत इत्यविधेयत्वेऽप्यन्वयसिद्धिः । एतस्यैव रेवतीष्वित्यत्र कृत्वेति समानकर्तृतया क्रियाद्वयस्यैकप्रयोगावस्थया एकीभूतस्य विधेः न विरुद्धत्रिकद्वयम् । न च मत्वर्थलक्षणेति दिङ्मात्रम् ।
?Rननु च नामापि किञ्चिल्लक्षणया दर्शादीति न मत्वर्थलक्षणा हेया । तन्न, अस्येयं संज्ञेति स्थिते शक्त्यन्तरकल्पनापरिहाराय लक्षणादिः । नतु यावल्लक्षणागम्यार्थं संज्ञात्वम् । अतो धीतः श्रुतितुल्यतानिमित्ततो लक्षणेति मत्वर्थलक्षणातोऽन्तरङ्गस्य न दर्शाङ्गतेत्युक्तम् ।
?0 ?R॥2॥ यस्मिन् गुणोपदेशः प्रधानतोऽभिसम्बन्धः॥3॥
?Rनामापि गुणफलोपबन्धेनार्थवदित्युक्तम् । तत् क्वचिदाक्षिप्य समर्थ्यते। तेनाध्यायसङ्गतिः । अथं भावः - पूर्वोक्ताभ्युच्चययुक्तिसमर्थनरूपत्वात् पूर्वचिन्ताशेषो न पृथक्सङ्गतिमपेक्षते नयान्तरमपि, विषयशुद्धिनयवत्। न च श्रीकरोक्ता प्रसङ्गसङ्गतिः । न चेयं विधा नाम्नोऽर्थवत्ता मूलयुक्तिः तदाक्षेपात् पूर्वोक्तगुणविधिविधया प्रामाण्यहानिरिति ।
?R यतः न सर्वत्रार्थवत्ताक्षेपोऽयं न चार्थवत्ता मूलयुक्तः । पूर्वपक्षस्तु पञ्चदशान्याज्यानि भवन्तीत्यत्र नाज्यनाम्नि स्तोत्रभेदे पञ्चदशतागुणोपबन्धः। इह
?Rसामानाधिकरण्यान्नामत्वासिद्धेः । यत्र तु तत् तत्रास्तु नामत्वम् आज्यैः स्तुवत इति । चित्रयेत्यत्र न फलोपबन्धार्थता । दधिमधुवाक्योत्पन्नस्य प्रकृतस्य यागस्य यजेतेत्यनेन प्रकृतवाचिता फलोपबन्धात् । अस्तु व्यर्थं नाम तावत् । न च नामापि अप्रवृत्तिविशेषकरमपि विशेषरूपेण ज्ञातुं नामाकाङ्क्षान्वयि । ज्ञाते च दधिमधुवाक्यान्नाकाङ्क्षेति नान्वयी तर्हि अप्रकृते अस्त्वन्वयि, न, अप्रकृतं हि कर्म फलं प्रति विधेयम् । तत्र नामापि परशब्दतया धर्मविध्यर्थं क्वचित् । प्रकृते त्वत्र नामता दूरे । अतः चित्रयेति गुणविधिः, योग्यतया प्रकृतिपशौ। वाक्याद्विच्छेदश्च । न हि हविरन्तरे प्राण्यतिरिक्ते चित्रता शक्या, अवयवगतैः शुक्लत्वादिभिरवयविनि चित्रता आज्यौषधसान्नाय्यादीनां नेत्युक्तम् ।
?R
?R अयं भावः - न दधिमधुघृताद्यवयवेषु व्यवस्थितं शुक्लत्वादिकं उत्पत्तौ पुरोडाशाद्यपि संयवनादिजन्यं न व्यवस्थितशुक्लत्वादिजन्यम् । पटादिकं तु तथाभूतमपि न हविः । अतः प्राणिहविरेव योग्यं चित्रान्वये । अतः प्राणिहविष्के प्रकृतावग्नीषोमीये पशुयागे चित्रताविधिः ।
?R
?R यद्यप्यनुपात्तद्रव्ये चित्रद्रव्यपरता तथापि लाघवात्तु चित्रताविधिः तथापि पशुव्यक्तेः स्त्रीत्वात् स्त्रीलिङ्गता, परोक्तं तु चित्रत्वस्त्रीत्वाभ्यां प्राण्यन्वयित्वम्। तदुक्तम् -
?R?0 चित्रत्वस्त्रीत्वयोगो हि प्राणिजातौ स्वभावतः ।
?R?0 तेनैते प्राणियागाङ्गप्रकृतिं दैक्षमाश्रिते ॥ इति ।
?R तन्न । स्त्रीत्वनिर्देशो ह्यसत्यपि स्त्रीत्वे तुल्यः । तटः तटीति यथा । अत एव स्त्रीत्वानुरोधान्न विकृतिस्त्रीपशुके निवेशः । पञ्चदशसंख्याविशिष्टाज्यविधिः स्तोत्रे पञ्चदशानीति । स्तोमावृत्तौ ड इति स्तोत्र एव विशिष्टगुणविधिरर्थात्। यथासम्भवं
?Rचाज्यस्य द्वारमस्तु। सङ्ख्या स्वभावादेव सङ्ख्येयविशेषणं विभक्तिरप्यनुगुणेति विशिष्टत्वमसमासेऽपि ।
?R राद्धान्तस्तु - यत्र द्वितीयो गुणश्चित्रत्वे स्त्रीत्वमाज्ये च सङ्ख्या तत्र वरं नामता, नाम्ना हि साध्यावस्थे लक्षिते एकगुणविधिस्सुकरः । अस्ति चाज्यैस्तुवत इत्यत्राज्यनामत्वम् । न च संख्येह सङ्ख्येयविशेषणं डान्ततया स्तोमान्वयात्। चित्रयेत्यत्रापि यदि न नाम स्यात् प्रकृतस्य फलार्थता न स्यात्, ?R ?R किं गुणार्थमुत फलार्थमित्यनध्यवसायात् । तेन नामतयैव फलार्थता। वाक्यभेदस्वीकारस्सत्यां गतावयुक्तः ।
?R
?R पूर्वपक्षभाष्यं - " ?Rन चामी यौगिकाः । अस्यार्थः- यौगिको हि व्यक्तिवाचीति प्रकृतयागनाम स्यात् । चित्राशब्दस्तु जातितुल्यगुणवाचीति न प्रकृतनाम। न चायौगिको व्यक्त्यभिधायीति व्याख्यातम् ।
?R अयं भावः - चित्रयेति यदि योगात् स्यात् तदा बलात् व्यक्त्यर्थः पङ्गजपदवत्। अन्यथा गुणार्थः । अयन्त्वयौगिकोऽपि यजिर्व्यक्त्यर्थः एव । अपरं भाष्यम् - गुणफलकल्पनायां यजेरविवक्षेति । तस्यार्थः । अन्यतः प्रवृत्तं यागमाश्रित्य गुणफलपरतायां यजेरत्र वाक्ये न विवक्षा । न चान्यतो यजौ प्रवृत्तिरिति व्यावृत्यफले यजिविधिर्वाच्यः । तदा एकवाक्यतानुरोधान्नामतैव स्यात् । सा माभूदिति पूर्वपक्ष्येव गुणफलाधिकारं निराचष्टे ।
?R राद्धान्तभाष्यं " ?Rपुंपशो प्राप्ते स्त्रीपशुः पशवः फलं चित्रो गुण इति न शक्या एकेने “?R ति । तस्यार्थः - चित्रत्वं स्त्रीत्वञ्च विधेयम् । अतो भिन्नमपि वाक्यं
?Rपुनर्भेद्यं, अथ सारस्वत्यां स्त्रीत्वलाभाच्चित्रत्वमात्रविधिः तथाप्येको वाक्यभेदः अग्नीषोमीयगतलौहित्यबाधश्च । वरं प्राकृताग्नीषोमीये विधिः वाक्यभेदस्यावश्यकत्वात् । तत्र चित्रत्वस्त्रीत्वयोर्विधिरस्तु ।
?R नन्वेवमुपदिष्टपुंस्त्ववर्णयोः बाधः तद्भयात् सारस्वत्यामतिदिष्टवर्णमात्रबाधादेकगुणविधिर्युक्तः । मैवम् । गुणविधिर्हि आश्रयाकाङ्क्षः प्रकृतिगामी लब्धाश्रयः प्रातिपदिकार्थं विधातुं, न तु तद्गुणभूतस्त्रीत्वप्राप्त्यनुरोधात् उत्कर्षार्हः, पाशवत् । अतो न्यायागतोपदिष्टपुंस्त्वबाधः । पक्षे बाध्यम् । सारस्वत्यान्तु वर्णबाधोऽभ्युच्चयमात्रम् साप्तदश्यन्तु न गुणानुरोधात् विकृतिगामि, न चाश्रयाकाङ्क्षम् । अनुवचनाश्रयस्यैव श्रुतेः आश्रयतः निराकाङ्क्षमेव इति सुस्थम् । अत्र चिन्त्यते - किमुपदिष्टबाधात् प्रकृतिगामि किमतिदिष्टबाधात् विकृतिगामीति । पुनराम्नानोपसंहृतं विकृतिविशेषेष्विति दिङ्मात्रम् ।
?R अत्र भाष्यम् - “?R अथ कस्मात्, पुनः सङ्ख्याविशिष्टान्याज्यानिस्तोत्रे न विधीयन्त” ?Rइति तदधिकाशङ्कार्थम्। अग्नये पावकायेतिवद्विशिष्टविधौ न विध्यावृत्तिः । तत्रोत्तरम् - प्राग्विधानात् अग्नेः पावकता सिद्धा न ह्याज्यानां सङ्ख्याभेदो विधिं विनेति भेदः । अथाग्निप्रजापत्योरिवैककारकतया एकार्थविधिः । तन्न । इह मिथोऽन्वयानुग्रहायोद्देश्यविधेयतयान्वयः । तत्र तु नैवमन्वयार्हतेति भेदः ।
?R?0 चित्राख्यायाः प्रवृत्तिस्तु नानावर्णहविर्गुणात् ।
?R?0 आज्यनामाऽऽजियानात् वाक्यशेषविशेषतः ॥
?R ?R?0 ॥ 3॥ तत्प्रख्यं चान्यशास्त्रम् ॥ 4 ।?R?0।
?R अत्रापि उद्भिदधिकरणशेषतया न पृथक् सङ्गतिः । तत्र हि सामानाधिकरण्येन गुणाविधौ मत्वर्थलक्षणापत्तेर्नामतोक्ता । इह तत् क्वचिदाक्षिप्य समर्थ्यते । अग्निहोत्रपदं हि होमे प्रवृत्तं तदुपसर्जनाग्निगुणविधिरस्त्वित्याक्षेपः । यदि हि पृथक् चिन्तेयमभिमता स्यात् तदा प्रसङ्गात् सङ्गतिरुच्येत । साक्षाद्वा तत्प्रख्याग्निहोत्रवाक्ययोर्मध्ये केन गुणविधिरिति अनध्यवसायात् अव्यवस्थयैव पूर्वपक्षस्थितिरित्युच्येत । न च तथा ग्रन्थः । किन्तु उक्तनामाक्षेपपरतयैव। उत्पत्तिस्थमधिकारस्थं न वाग्निहोत्रपदं गुणपरमिति न चिन्तितम् । वस्तुतस्तु अधिकारस्थं न गुणार्थमन्यपरत्वाद्वाक्यस्य । उत्पत्तिस्थमेव गुणपरमित्यनास्थया भाष्ये अधिकारवाक्यमुदाहृतम्, उत्पत्तौ चाकरणं क्रियेति द्वितीयान्तं समानाधिकरणम् । बहुव्रीहिणा होमे प्रवृत्तिरुक्ता । होमकरणे होत्रपदप्रवृत्तेः । होमसामानाधिकरण्यस्य बलवतो बहुव्रीह्यधीनत्वात् व्यधिकरणोऽपि जघन्योऽपि बहुव्रीहिरेव । स च न सप्तमीगर्भः अग्नौ होमस्य प्राप्तेः अतोऽपेक्षितदेवतार्थं चतुर्थीगर्भ एवेत्युपसर्जनदेवताविधिः हिरण्यस्रज ऋत्विज इतिवत् । न च विशिष्टविधिः गौरवादित्याश्रयासन्निधेः धर्माकाङ्क्षव्यवहितदर्वीहोमेषु विधिः । दध्यादिविधिरपि तत्रेव । यदि तेषु गुणान्तरश्रुतिः अगत्या विकल्पोऽस्तु । न च फलवाक्यादपि(दर्वी) होमविधिः उत्पत्तिस्थाग्निहोत्रपदप्रत्यभिज्ञया " ?Rफलञ्चाकर्मसन्निधावि " ?Rत्यस्य हानादितीयं दिक् । आघार्ये द्रव्ये गुणकर्माघारणविधिः । इह सामानाधिकरण्यमनुपयोगि मत्वर्थलक्षणां विना गुणविधिरित्येकाधिकरणता, आघारणं हि स्वभावात् कर्मकारकनिष्ठमित्याकाङ्क्षायोग्यताभ्यां द्वितीयान्तमीप्सितपरम् । अकर्तरि चेति ईप्सित एव घञन्तम् । आघारार्हे प्रकृते प्रधानोपांशुयाजाज्ये अप्राप्ताघारसंस्कारविधिः ।
?R यद्यप्याघारणं दीर्घधारयाक्षारणं तत् सान्नाय्येऽपि तथापि न तत्परमाघारपदम्
?R। नासोमयाजीत्यनित्यत्वात्तस्य । अपितु आज्यपरं आज्यस्य नित्यत्वात् प्रयोगव्यवस्थया च तदित्याज्यविषयमेव । अथ प्रयोगे विमतिः । न। चतुर्गृहीतादिसमभिव्याहारात् । आज्यविषय एव हि चतुर्गृहीतविधिः । " ?Rइन्द्र ऊर्ध्व " ?Rइति च मन्त्रविधिराघारसंयोगादाघार्यद्रव्ये, तद्द्वारा चोपांशुयाज एव मान्त्रवर्णिको देवतेति दिक् । प्रस्तरस्तु न हविः पूर्वमिति न मान्त्रिक्या देवतया पूर्वयागनिवेशीति हरतिर्यजतिः । सूक्तवाकान्वयादिति भेदः ।
?R भाष्येऽपि आघार्यद्रव्यविधिरेवोपांशुयाज उक्तः । तत्र यद्यप्याघारयतीति नोपांशुयाजोद्देशः अन्योन्याश्रयत्वात् आघार्यद्रव्यविधौ हि तद्योगात् आघारयतीति तदुद्देशः । तदुद्देशेन च तद्विधिरिति तथापि ‘?R चतुर्गृहीतं वा एतदभूत् ’ ?Rइत्ययं विधिः चतुर्गृहीतेनाज्येन कर्म कुर्यादिति । स च द्रव्यशून्ये उपांशुयाजे। तदेवमाज्यवत्त्वात्प्राप्तमाघारयतीत्यनूद्यते । एतच्च द्रव्यविधिपक्षेऽपि तत्प्रख्यान्नामैवेति वक्तुम् ।
?R राद्धान्तस्तु यो गुणो विधेयः सोऽन्यतो लब्धः। अग्निर्हि यदग्नये च प्रजापतये चेत्यनेन लब्धः । विपरीतं न कुतः, (प्रजापतेश्च विधानादेव) एवम्, अगत्या ह्युपसर्जनपरो विधिः यदग्नये च प्रजापतये चेति विधौ स न युक्तः। नन्वयमेकवाक्येऽनेकगुणविधिः । तन्न। अग्निप्रजापत्योराश्रययोरत्रानेकता कर्मान्वयिनस्तु देवतारूपाकारकस्यात्रैकतयैव विधिः । न च प्रत्येकं चतुर्थीतः प्रत्येकं देवतात्वं, चतुर्थीतो हि तत्कल्प्यम् । एकवाक्ये हि गुणपरे अनेकाश्रितमेकमेव कल्प्यं विधेयम् । चतुर्थी चशब्दश्च आश्रयमात्रसमुच्चयेऽपि हि साधुः । प्रत्यभिज्ञालाघवाभ्यां न होमान्तरविधिः
?R?0 यत्परोक्तम् - अनेकपदसम्बन्धं यद्येकमपि कारकम् ।
?R?0 तथापि तदनावृत्तैः प्रत्ययैर्न विधीयते ॥ इति ।
?R तन्निरस्तम् । न ह्यनेकाश्रयत्वं विधेयम् । आक्षेप्यन्तु तत्। नन्वेकपदार्थतैव युगपदधिकरणवचनतयैवेति । न । द्वन्द्वेऽप्यगत्या सा। तस्मिन्नेव वाक्ये सायमिति श्रुतिरगत्या हविरुभयतेवाविवक्षिता । अपेक्षासंभवे चोद्देश्यकोटिः, सायं समभिव्याहारतो वा विशेषावगतेः नित्यानुवादः। आघारणमपि सन्ततादिवाक्यैर्लब्धम् ।
?R अथ सन्ततादिविध्यर्थानि तानि तथापि व्यर्थता, विशिष्टविधिस्तेष्वस्तु। विशिष्टविधौ वाऽऽघारणभेद इत्यपि न, गुणकर्मणामपि सुतरां कार्याभेदेऽभेदात् सोमक्रयणवत् । अतोऽर्थवत्ताकाङ्क्षायां मन्त्रवर्णादेर्यागविधिः । तस्मिन्नाघार्यद्रव्यके प्राप्ताघाराश्रितसन्ततादिविधिः । स च व्यर्थः। चतुर्गृहीतं वेति प्राप्तेः । विपरीतं न कुतः ? ?R न, आघारे भावकर्मसन्देहात् । चतुर्गृहीतं हि स्फुटं द्रव्यम् ।
?R ननु दर्वीहोमोपांशुयाजयोः गुणविधिः शङ्कितः । तत्प्रख्यन्त्विहैवेति न प्राप्तिः । मैवम् । गुणविधिपक्षे तत्र प्राप्तिः । निवृत्ते त्वत्रेति । न च चक्रकादिदोषादनध्यवसायः, गुणविधिनिरसनात् । न च पूर्वोत्तरपक्षानध्यवसायात् संगतिः, ग्रन्थास्वरसात् । नाममात्रमग्निहोत्रम् आघारश्च । याग एव विधेयः ।
?R ?R?0॥4॥ तद्व्यपदेशञ्च॥5॥
?R अत्राप्युद्भिदधिकरणोक्तमाक्षिप्य समर्थ्यत इति तच्छेषतया न पृथक् सङ्गतिः । न तु प्रसङ्गोऽनध्यवसायो वाऽनुसन्धेयः। ग्रन्थास्वरसात्। तत्र हि द्रव्ये कर्मणि च योगात् प्रवृत्तेः नामतोक्ता । इह तु रुढिशब्देषु चिन्ता। रुढ्यनुगत्या वरं मत्वर्थलक्षणा प्रोद्गातृणामितिवत् । धान्यमसीतिवच्च। न तु कथञ्चिद्योगादाज्यादेर्नामता । न च श्येनादेः वतिलोपान्नामता, अग्निर्माणवक इतिवत्
?R। लोपाश्रयणे हि वरं प्रवृत्तिकरतया मुख्यान्वयानुसाराच्च मतुब्लोपाश्रयणेन विशिष्टविधिः । लुप्तवतिका हि गौणीनां वृत्तिः । एवं मत्त्वर्थलक्षणादोषाक्षेपादुद्भिदधिकरणशेषता । आज्यादावपि चिन्तेयम्। राद्धान्तेऽपि रूढतानपायात् अनुदाहरणशङ्का माभूदिति श्येनाद्युदाहृतम्। लुप्तवतिका हि गौणी वृत्तिरिति । तस्यार्थः- सवतिकस्थाने गौणीवृत्तिरिति अर्थात् लुप्तवतिकता ।
?R राद्धान्तस्तु - इह अवयवार्थे सापेक्षो योग एव युक्तः । वाक्यकार्यं हि भावार्थैकविधिपरत्वम् तत्पूर्वकमिह पदार्थत्वम् । अतः कर्मनामतापेक्षायां वाक्यशेषादाजिगमनयोगधिया कर्मनामनिश्चये रूढिरेव हेया। एवं श्यनादेर्नामतापेक्षायां वाक्यशेषानुसारात् गौणतया सामानाधिकरण्ये सति वत्यर्थाविधेः नामता । इह साधितेन रूढानां नामत्वेन चित्राधिकरणे विशेषचिन्ता ।
?R?0 ॥ 5 ॥ नामधेये गुणश्रुतेः स्याद्विधानमिति चेत् ॥ 6 ॥
?R इह यावदुक्तं नामाक्षिप्य समर्थ्यते तेन व्यक्तमुद्भिदधिकरणशेषतया सङ्गतत्वम् । प्रामाण्येनैव पूर्वपक्षोपसंहारान्न साक्षात् तत् । वाजपेये तु लिङ्गदर्शनं द्योतकमस्तीति तदुदाहृतम् । विधान्तरेण मत्वर्थलक्षणाहानादाक्षेपोऽयं पूर्वानन्तरम् । पूर्वपक्षस्तु तन्त्रेण यजिः फलगुणौ प्रति स्वार्थंमप्रयतु । आख्यातात् साध्यावस्थे धीः एकफलावच्छेदादेवेति साध्यसाधनावस्थोऽर्पितः । साधनतया फलान्वयी साध्यतया गुणान्वयीति व्यधिकरणतयाऽन्वयात् न मत्वर्थापेक्षा। न च विरुद्धत्रिकद्वयं ज्ञाताज्ञातगुणागुणोपादेयानुपादेयरूपम् । न च पदावृत्तिविध्यावृत्ती । तन्त्रत्वेन नापि मानान्तरादाश्रयापेक्षा । अर्थप्रदर्शन एव वाक्यभेदभ्रम इति प्रवृत्तिपरे वाक्ये पदमप्रवृत्त्यर्थं नामतया न युक्तमिति यथार्हं सर्वत्र गुणविधिः । वाजपेये च पेयान्नविधौ विशेषार्थः सुराग्रहविधिरस्तु । अग्निहोत्रे च निरपेक्षाग्निविधिरस्तु ।
?R अथ वा प्राप्तानुवादेऽपि गुणविधौ न दोषान्तरमितीह निरस्यते ।
?R राद्धान्तस्तु - नोभयावस्थेन गुणः फलं च संबन्धुं क्षमम्। एकैकान्वयार्थमेकैकावस्थकर्मपरत्वे तु ज्ञेये आवृत्त्या वाक्यभेदो दुर्वारः । एकवाक्यतानुगुण्यात् पुर्वाधिकरणचतुष्कोक्तयुक्तिभिः नामता साक्षादप्रदप्रवृत्त्यर्थत्वेऽपि इति न वाक्यकार्यताहानिः । वैरूप्ये च न तन्त्रम् । लोके त्वभिप्रायादित्युक्तम् ।
?R?0 ॥ 6 ॥ तद्गुणास्तु विधीयेरन्नविभागाद्विधानार्थे
?R?0 न चेदन्येन शिष्टाः ॥ 9 ॥
?R भावार्थसामानाधिकरण्यान्नामतोक्ता । न तु भवत्यर्थसामानाधिकरण्यात्। भावार्थाश्रितो गुणविधिः न तु भवत्यर्थाश्रित इति विधान्तराभावात् प्रसक्तमप्रामाण्यमिति पुर्वः पक्षः सङ्गतिद्वयं च। पुंवाक्यं हीदृशं दृष्टमिति पौरुषेयत्वापातात् कृत्स्नवेदाप्रमाण्यम् । न चाग्नेय इति द्रव्यदेवतासम्बन्धश्रुत्याऽऽक्षिप्तो यज्यर्थो भावः तत्र नाम वा गुणविधिर्वाऽस्त्विति वाच्यम् । यत आग्नेयाष्टाकपालयोः श्रुतिः । तदुभयविध्यशक्तेरेकस्योद्देश्यत्वे नाग्नेयः उद्देश्यः अप्राप्तेः । न चाष्टाकपालः प्राप्तोऽस्ति अष्टसु संस्कृतो दृष्टार्थ इत्यबोधकं वाक्यम् । भाष्ये तु नामतया पूर्वपक्षवचनव्यक्तिः प्रसिद्धार्थपरा गौणी प्रसिध्यपेक्षया सापेक्षतामेव वक्तुम् । अष्टाकपालद्रव्यस्य सन्निहितमन्त्रान्वयादग्न्यन्वये कर्मविधेः प्राप्तार्थमाग्नेयपदं नामेति तु परमतं हेयम्। वाचनिके हि मन्त्रान्वये बलात् कर्मपरता, आघारादिनयात् । न तु सन्निधिमात्रात्।
?R राद्धान्तस्तु पदद्वयार्थो द्रव्यदेवतासम्बन्धोऽभिधानतः प्रसिद्धो यज्यर्थवत्कार्यत्वेनाप्रसिद्धः । एवं विशिष्टो विधेयः । प्राप्ते ह्यन्यतरसम्बन्धिन्युद्दिश्य विधिः। इह तु न तथेति विधेयार्थः आग्नेयादिरिति न नामता ।
?R विवरणे तु यदि नामतः प्रामाण्यं इह तर्हि न तत् । प्राप्तार्थं हि नाम। आश्रयाप्राप्तेः अनेकगुणश्रुतेश्च न गुणविधिः । अत एव भाष्यकारेण न गुणविधिरित्युपसंहृतम् । नतु नामतेति सङ्गतिद्वयम् पूर्वपक्षश्च ।
?R राद्धान्तस्तु - यत्र पृथक् गुणश्रुतिः तत्राश्रयापेक्षा रक्तपटवत् । इह तु गुणानुरूपकर्मविधिना आक्षेपतो गुणकार्यता । कृत्तद्धितसमासेषूपसर्जनानां पाचकौपगवराजपुरुषादावन्यनिष्ठमेवाभिधानमित्यन्यविधावुपादानशेषा गुणाः पश्वेकत्ववत् । अन्यशिष्टे हि गुणे अग्निहोत्रपदवन्नामत्वमाश्रितम् । अशिष्टे तु पृथक् श्रुतेऽपि पौर्णमास्यादिगुणे विशिष्टविधिविधा ।
?R ?R?0॥ 7॥ बर्हिराज्ययोरसंस्कारे शब्दलाभादतच्छब्दः ॥ 10॥
?R विध्यधीनोऽपि पदाभिधेयोऽष्टाकपालः तद्वत् बर्हिरादिरप्यस्तु लवनेन बर्हिः कुर्यात् यथा छेदनेन यूपम् । न च बर्हिरर्थोद्देशेन संस्कारविधिः, संस्कारादेव बर्हिरर्थ इत्यन्योन्याश्रयः । यतो दर्भान् लुनाति बर्हिः कर्तुं इत्यन्वयः। यथा खादिरादि च्छिनत्ति यूपीकर्तुमित्यन्वयः । एतच्च संस्कृते सार्वभौमप्रयोगादित्युक्तम्। एकदेशे जातौ संस्कारार्हतया गौणः प्रयोगः सर्वसिद्धस्तु न गौणः । न हि जातौ प्रयोगादर्शौ गौणं प्रयोगमर्हति। राजशब्दे तु शाब्दस्मृतिबलात् दृष्टमुख्यप्रयोग एव मुख्याभिमानात् गौणे व्युत्पन्न इति कल्प्यते । नेह तथा शाब्दस्मृतिः । अतः संस्कृते मुख्या बर्हिरादयो भान्ति । तथाऽन्योन्याश्रयदोषात् संस्कृतार्थत्वे जात्यर्था एकदेशप्रयोगात् भान्ति । यूपे तु नैकदेशेऽपि वृक्षजातौ प्रयोग इत्यगत्या खादिरादि च्छिनत्ति यूपीकर्तुमित्यन्वयः । इत्येवं मुख्यगौणानध्यवसायात् बर्हिराज्यपुरोडाशादिपदवान् वेदो न प्रमाणमिति सङ्गतिद्वयं पूर्वपक्षश्च ।
?R न च परोक्तान्योन्याश्रयसमाधिः । दर्भैस्तृणीतेति मन्त्रात् दर्भेषु स्तरणप्राप्तेः न बर्हिः पदवाच्ये स्तरणविधिरिति । यतो वचनविनियोज्यमन्त्रात् मन्त्रार्थप्राप्तिः लिङ्गविनियोज्ये त्वस्मिन् अन्यतोऽप्राप्तेः लिङ्गविनियोगासिद्धेः बर्हिःपदवाच्ये स्तरणादन्योन्यश्रयः ।
?R राद्धान्तस्तु - जात्यर्थताध्यवसायात् यूपे ह्यगत्या कथञ्चिदन्योन्याश्रयं निरस्य संस्कृतार्थतोक्ता। इह तु एकदेशभवात् जातौ प्रयोगादस्ति गतिः । अप्रतीतमुख्यस्य गौण एवादौ व्युत्पत्तेः । मुख्याभिमानात्तु गौणवृत्तौ मुख्यभ्रमः गाव्यादिरिव अशक्तिजत्वाज्ञानादनादिः । अथ विपरीतं न कुतः जातावेव गौणत्वाज्ञानादस्तु। मैवम् । अगत्या संस्कृतार्थतेत्युक्तम् ।
?R ननु अज्ञातमुख्यार्थस्य गौण एवादौ व्युत्पत्तिरित्यगत्या, राजशब्दे तु शाब्दस्मृतेस्तथा । तर्हि वाक्यशेषादज्ञातमुख्यस्य गौण एव व्युत्पत्तिरिह साध्यते। आज्यादि यवादि चोदाहरणमुभयत्रापि । अयं भावः - यववराहाधिकरणे वाक्यशेषस्थो मुख्य इत्युक्तेऽपि अज्ञातमुख्यस्य म्लेच्छादेः न गौणेन व्यवहारसिद्धिरिति शङ्केह वार्यते । तेनापुनरुक्तिः । अस्ति चात्र आज्यादि विधाय घृतादिशब्दैः स्तुतिः । तद्बलादेव शङ्का इहापि निवर्त्या। अर्थभेदाच्चानुष्ठानभेदकथनं भाष्ये अनध्यवसायशङ्कैव चिन्ताप्रयोजिकेति वक्तुम् ।
?R विवरणे तु बर्हिरादिपदैः न सार्वभौमो लोकव्यवहार इति न व्यवहारप्रसिद्धार्थता । न च संस्कारविधिवाक्ये व्यवहाराद्वेदत एव प्रसिद्धार्थता। उद्भिदादेरिव सामानाधिकरण्याभावात् । न च यूपादेरिवाश्रयान्तरपूर्वकता वेदे खदिरादिवदिहाश्रयाश्रुतेः । लोके च एकदेशे जातौ व्यवहारो लवनार्हतया गौणोऽपि
?Rसंभवीति अन्यत्र तदर्हत्वेऽपि न प्रयुज्यतां नाम न तदर्हताऽपैति। संस्कारार्थत्वे च अन्योन्याश्रयतेति बर्हिरादिपदवतो वेदस्याप्रामाण्यम्। भाष्ये तु संस्कारार्थता अनध्यवसायपर्यवसितैव ।
?R राद्धान्तस्तु संस्कारार्थत्वमनिश्चितं नैकदेशव्यवहारं गौणीकर्तुमर्हतीति जात्यर्थताध्यवसाय एव । भाष्ये तु संस्कृतैः स्तरितव्यं, न तु तदनध्यवसायाद्युक्तमिति शेषः । एवमस्मन्मते न वाक्यशेषान्निर्णयः ।
?R ?R?0 ॥ 9 ॥ प्रोक्षणीष्वर्थसंयोगात् ॥ 11 ॥
?R संस्कृते प्रोक्षणीशब्दः सार्वभौमः, जातावैकदेशिकः । स च मुख्य इत्युक्तम् । इह शाब्दस्मृतिरपि सेककरणयोगात् मुख्यतामाह । सा चादृतेत्यपवादिका प्रयोगमूलेति चापवाद्येत्यनध्यवसायात् सङ्गतिद्वयम् । पूर्वपक्षश्च।
?R राद्धान्तस्तु - संस्कृतजातिप्रयोगद्वयविषयेऽपि योगाहानाद्यथास्मृति मुख्यार्थता । अन्यथा शक्त्यन्तरकल्पनापत्तेः । यथा एकस्मिन्ननेकशब्दप्रयोगेऽपि एकःशब्दोऽनादिः स्मृतेः साधुः, एवमनेकस्मिन् एकशब्दः तथा अनुगतार्थस्मृतेः ।
?R विवरणे तु प्रसङ्गादिदमित्यवान्तरसंगतिरुक्ता । यद्येकदेशप्रयोगात् संस्कारविधिसिद्धिः योगेऽपि तर्हि तथैवास्तु । रूढेर्योगापहृतिस्तक्षादौ दृष्टा वर्धकिजातौ । अवयवार्थापेक्षो हि योगो न रूढिः । अक्लृप्ता च रूढिः क्लृप्तो योग इत्यनध्यवसायोऽत्रापि मते ।
?R राद्धान्तस्तु - क्लृप्तत्वादिह योग एवादेयः क्लृप्ता हि रूढिरनपेक्षा यागहारिणी तक्षादेरन्यत्र योगेऽपि अप्रयोगाद्रूढिता । योगाद्धि जात्यन्तरेऽपि प्रयोगो दुर्वारः।
?Rप्रोक्षणीशब्दस्त्वन्यत्रापि प्रयोगाद्यातीति यौगिक एव ।
?R ?R?0 ॥ 10 ॥ तथा निर्मन्थ्ये ॥ 12 ॥
?R निर्मन्थ्यशब्दे अधिकाशङ्का । योगतन्त्रत्वे चिरनिर्मथितेऽपि प्रयोगः स्यादिति अवयवार्थस्मृतितोऽपि न निर्णयः स्यादिति सङ्गतिद्वयं पूर्वपक्षश्च ।
?R राद्धान्तस्तु - शाब्दस्मृतिसिद्धे प्रयोगे तत्साधुता नियन्त्री। संक्षेपार्थं सामान्यतः स्मृतिरपि सिद्धप्रयोगविषयतयैव विशेषार्थे उपसंहारार्हा। न तु स्मृतितोऽप्यधिकप्रयोगापत्तिरिति अत्रापि तथेत्युक्तम्।
?R विवरणे तु राद्धान्ते मथनयोगागतैव अचिरता प्रयोगेऽपीति न योगहानात् समुदायशक्तिकल्पना अन्यत्राप्रयोगेऽपीति हि तत्र न रूढिः । यत्र योगानपेक्षयापि जात्यपेक्षः संप्रयोगः संभवी तत्र योगतन्त्रत्वानुपपत्तेः रूढिकल्पना पङ्कजादावस्मिन्मते । निबन्धने तु योगजात्योर्भावेऽपि क्लृप्ताद्योगादेव शक्तौ न शक्तिकल्पना जातितः, स्मृतेः सिद्धसर्वप्रयोगविषयायाः विशेषोपसंहृतेः नान्यत्र प्रयोगापत्तिः । एवं चावयवयोः प्रत्येकमविशेषतः शक्तिः । सह प्रयोगे क्वचित् कयोश्चित् कुत्रचिद्विशेषविषये प्रतिबद्धा यद्यादिभिरिव विध्यभिधानशक्तिः। प्रतिबन्धस्तु संक्षेपस्मृत्या न शाब्दः स्मृतः । सिद्धप्रयोगविषयतया तु अर्थी कृतः। शक्तिकल्पनातो हि प्रतिबन्धकल्पना लघ्वीति रहस्यम् । अहीनशब्दे तु क्लृप्तायामप्यहः शब्दशक्तौ यागसङ्घातयोः प्रकृतिप्रत्यययोरिहैव शक्तिः कल्प्या तद्वरं समुदायशक्तिरकैव कल्प्यताम् । न च सर्वत्रोपसंहृत एवावयवशक्तिः सत्रेष्वदर्शनात् प्रयोगस्येत्युक्तम् । अतः पङ्गजादौ संबन्धग्रहो जात्युपाधेरिति तु अशक्तिवचोव्यक्तिः अप्रयोगादेवाप्रयोग इति ।
?R विवरणे तु वरं रूढिः नतु परोक्ता योगरूढिरित्यर्थः । परोक्तो भङ्गः - युक्तं
?Rहि नावनीतश्रुतावचिरनिर्दग्धत्वं, एवं हि घृतविशेषकता । निर्मन्थ्यश्रुतिस्तु वैद्युताग्निनिवृत्त्यैवार्थवत्तया नाचिरार्था । तदुक्तं -
?R ?R?0 वैद्युताश्माभिघातोत्थसूर्यकान्तादिजन्मनाम् ।
?R?0 निवृत्त्या चरितार्थत्वात् निर्मन्थ्योऽभिनवः कथम् ॥ इति ।
?R स्वराद्धान्तस्तु पाकार्थप्राप्तेऽग्नौ मथनविध्यर्था निर्मन्थ्यश्रुतिरिति प्रयोगे मथनादचिरार्थता न शब्दार्थतयेति । तन्न । यदि चैवं याज्ञिकानामचिरार्थतास्मृतिर्नेया तदा हि यस्य यावत्प्रयोगान्तरुत्पत्तिः तच्छब्दानामचिरार्थतास्मृतिरिति स्यात् । अतः स्मृतिद्रढिम्नैवाचिरार्थता स्थपिता। प्राप्तेऽप्यग्नौ निर्मन्थ्यरूपविशेषविधिरयं न तु मथनविधिः खलेवालीवत् ।
?R?0 ॥ 10॥ वैश्वदेवे विकल्प इति चेत् ॥ 13 ॥
?R यदि शाब्दस्मृतित एव वाक्यार्थनिर्णयः तर्हि ततोऽर्थनिश्चयेऽपि गुणविधिनामत्वानिश्चयः वैश्वदेवेन यजेतेत्यत्रेति नामपञ्चकाद्विच्छेदः सङ्गतिद्वयं पूर्वपक्षश्च । साऽस्य देवतेति पाणिनिस्मृतेः वैश्वदेवशब्दो देवतायुक्तयागसमानाधिकरण एव । सूक्तहविषोरिति स्मृतेः हविरर्थत्वं असद्वादित्वाद्धेयम् । एवं [?Rहेया] ?Rमत्वर्थलक्षणेति प्रवृत्तिविशेषकरतया प्रकृतेषु गुणविधिभानम् । तेषामुत्पत्तौ अग्न्याद्यवरुद्धत्वात् गुणान्तरसंबन्धानुपपत्तेः तेषु वैश्वदेव्यामिक्षाऽस्तीति दण्डिवल्लक्षणया प्रवृत्तेर्नामताभानम् । इयं गतिरस्तीति नाप्रकृतविशिष्टविधिना कर्मभेदः।
?R तत्किमभिधानमुखेन गुणोपरोधं पिधाय प्रवृत्तिविशेषकरो गुणविधिरस्तु, किं वा व्यर्थां जघन्यलक्षणामाश्रित्य विषमशिष्टविकल्पहानाय नामताऽस्तु - इत्यनध्यवसायः ।
?R राद्धान्तैकदेशी गुणविधेरध्यवसायमाह वैश्वदेवाभिधेयतां यागस्य न गुणावरोधो हन्तीति तदभिधेयमुखं गुणविधिमपि न विहन्ति फलचमसवत् । तत्र तु व्यवस्था । इह विकल्पो नयायातः ।
?R परमराद्धान्ती त्वाह - अभिधानं नामतयापि शक्यत इति न विकल्पः श्रुत्योत्पत्तिशिष्टानां अन्यथासिद्धं एकवाक्यशिष्टं कृत्वा युक्तः । फलचमसे तु नान्यथासिद्धिः । तुल्ये च प्रकृतत्वे आमिक्षायागं हित्वा विधिरयुक्तः । तत्र प्राप्तेरशक्यः । विधेयाविधेयता च सकृन्न युक्ता । वरमनभिधेयाभिधानं प्राप्तत्वात् दण्डिवल्लक्षणयेति यावत्प्रकृतानां नामताध्यवसायः ।
?R ननु वैश्वदेवनाम्नो मुख्यार्थतानुरोधात् यजिरामिक्षायागमात्रे वर्तताम् । तन्न। वैश्वदेवनाम यागमात्रे प्रवर्त्यं यजिपरतन्त्रसामानाधिकरण्यात् । सूक्तहविषोरिति स्मृतेर्हविर्वाचि । न च पाणिन्यविरोधेऽपि असद्वादिता । हविः परत्वे च व्यधिकरणता, आमिक्षालिङ्गापत्तिश्चेति हविर्योगात् यागे प्रवर्त्यं यजिपरतन्त्रम्। यजिश्च स्वतः सर्वप्रकृतवृत्तिः अतो दण्डिवद्वैश्वदेवपदम् । पौर्णमासीं यजत इति तु कालपदानुरोधात् प्रकृतपरो यजिः कालयुक्तपर एवेति न दण्डिवत् कालपदम्। वैश्वदेवयजिस्तु देवतापदानुरोधात् अतद्दैवत्यप्रकृतपरो गुणविध्यर्थः। गुणविधिस्त्वभिधानोपपत्तये बहुदोषोऽपि शङ्कितः । सोऽन्यथोपपत्त्या तद्दैवत्यप्रकृतप्रवेशाद्वारितः, न तद्दैवत्यमात्रपरत्वादिति न पूर्वप्रतीतातद्दैवत्यहानिरिति भेदः ।
?R किञ्च कालानुवादप्रयोजनं समुदायद्वयसिद्ध्या दर्शपूर्णमासाभ्यामित्यत्रोपयोगः तत्र नेह तथेति भेदः । त्रिंशदाहुतिदर्शनं च नित्यवत् गुणविधिपक्षेऽपि न स्यात्
?Rसंप्रतिपन्नविश्वेदेवदेवताकतया प्रधानाहुतितन्त्रत्वात् । तथाहि - अष्टौ प्रधानाहुतयः, नवप्रयाजाः नवानूयाजाः आघारावाज्यभागौ इति त्रिंशत्ता ।
?R?0 ॥ 11॥ पूर्ववन्तोऽविधानार्थास्तत्सामर्थ्यं समाम्नाये ॥ 17 ॥
?R अत्रापि द्वादशसङ्ख्यावरोधादष्टत्वादिगुणविध्यसंभवः । न च गत्यन्तरमत्रेत्यन्वयप्रतिभामात्रमिति सङ्गतिद्वयम् । पूर्वपक्षस्तु न नामतयाऽस्ति गतिः, अभावार्थसामानाधिकरण्यात् । न च मन्त्रविधा विहितास्मारकत्वात्। न चार्थवादता, द्वादशसंख्यावच्छेदे ह्यष्टाद्यवच्छेदनिवृत्तिः, न तत्स्तुतिरिति न काचिद्गतिः ।
?R राद्धान्तैकदेशी गुणविधेरन्वयमाह । एकेनैव वाक्येन सर्वसंख्यायुक्तकर्मविधेर्नावरोधदोषः। वैश्वानरं द्वादशकपालमित्युपक्रमो देवतान्वयार्थः, न संख्यान्तरहानार्थः इति संख्याविकल्पो वा कर्मावृत्तिर्वा । नानासंख्यकपालसिद्धपुरोडाशसंघो हविरिति तु नोक्तम्, अनास्थया प्रत्येकं देवतान्वयान्न संघो हविरित्येवं वा ।
?R विवरणे तु प्रत्यष्टाकपालादिद्रव्यं तन्त्रेण देवतान्वयात् कर्मोत्पत्तिभेद एवोक्तः । न गुणविधिः गुणान्तरावरोधादेव ।
?R राद्धान्तस्तु एकस्मिन्नपि वाक्ये वैश्वानरं द्वादशकपालं निर्वपेदिति शीघ्रं द्वादशसंख्यान्वितकर्मोत्पत्तिधीः । अष्टाकपालादेस्तु प्रथमान्तस्य पुनाति इति स्तुत्या वैश्वानरान्वयः कल्प्य इत्युपरोधात् स्तुत्यैवान्वयः । द्वादशावच्छिन्नादौ अवयुत्याष्टाद्यवच्छेदोऽपि द्वादशावच्छेद्यवर्गे बहुस्तुतिः । कथञ्चित् संबन्धिद्वारापि
?Rस्तुतिः आपश्शान्ता इतिवत् । गुणफलविध्यर्थमष्टत्वादीत्येकवाक्यत्वादेव निरस्तम् । एकवाक्यत्वं चोपक्रमोपसंहारयोरैक्यादुक्तम् ।
?R ?R?0 ॥ 12 ॥ तत्सिद्धिः॥ 23 ॥
?R अवयुत्यापि संबन्धिस्तुतिः संबन्धित्वानवयोजनात् । इह तु संबन्धितापि न भाति । अशक्यश्च गुणविधिरित्यन्वयप्रतिभैवेति सङ्गतिद्वयं पूर्वपक्षश्च। गौणमुख्याधिकरणोक्तगौण्यन्वयाक्षेपेण चेयं चिन्ता । यदि हि मुख्यगुणात् परत्र प्रवृत्तिः अग्निशब्दात् पिङ्गलताधीरेव न स्यात् गुणान्तरधीरपि भवेत् । विवक्षया नियतधीरिति चेत् । विवक्षानुवर्ती तर्हि शब्दः न स्वार्थसंबन्धानुसारी इत्यसमर्थेऽपि विवक्षावशात् अध्यारोपिततद्भावो गौणः स्यात्। एवं चाग्निं समारोप्य माणवकेऽग्निशब्दो न माणवकार्थः । अधिगतमेवारोप्यते नानधिगतं वस्तु गृह्यते। सोऽयमित्यारोपः, न तु तत्सदृश इति । आरोपविषय एव च गौणशब्दविषयः आरोपरूपकल्पनानिर्मितमेवैवंविधशब्दो वक्तीति खपुष्पादिप्रयोगसिद्धिः । तुल्यनयात् लक्षणायामप्यारोपादेव नियतसंबन्धधीः । अतः शाब्दान्वयाभावात् न यजमानशब्दः प्रस्तरैककपालयोः स्तुत्याऽन्वितार्थः । गुणविधिरपि कार्यलक्षणया नान्यथेति न मानार्हः, अशाब्दान्वयादेव । न च शक्यं यजमानकार्यं ताभ्यां तयोर्वा यजमानेनेत्युक्तं भाष्ये । न चाग्रहसमाधेयोऽयमारोपो भवेत्, भेदग्रहण एव शब्दप्रयोगात् गौणानाम् । अर्थप्रकरणाद्यभावेऽपि विवक्षया नियतगुणधीरारोपादेव ।
?R राद्धान्तस्तु अग्निपदप्रयोगनियमो हि आरोपे व्यर्थः । अथाग्न्यर्थारोपं वक्तुमग्निपदं तर्हि अग्न्यर्थारोप एव व्यर्थः । अग्निगुणबोधनार्थमिति चेत् । सिद्धं तर्हि शाब्दमेव गौणत्वम् । नियतगुणधीस्तु अर्थप्रकरणाद्यनुगृहीताच्छब्दादेव । अर्थप्रकरणाद्यभावेऽपि नियतगुणधीरित्यपि न, लोके विवक्षितार्थपरतैवार्थादिगम्या ।
?Rवेदे विवक्षाशून्ये अर्थादिगम्यं तात्पर्यं शब्दस्यैवेति शाब्दता गौणस्य । मुख्येऽपि पाचकादौ देवदत्तादिनियतधीः इत्थमेव ।
?R खपुष्पादिप्रयोगेऽपीयं विधा - ख-पुष्पशब्दयोरनन्वितार्थयोः सहोच्चारणसामान्यादन्वयस्मृत्याऽनन्वयाग्रहात् अन्वयाभिमानमपनेतुं दृढमेव केनचिदभिप्रायेण प्रयोगः । यथा खपुष्पव्यवहारः मानान्तरादसंबन्धाग्रहादवगम्यते गुरुनये एवं शाब्दतास्थितिरिह नयान्तरात्। गौणमुख्याधिकरणेऽपि नयान्तरात् विवेकः शाब्दत्वेऽपीति चिन्त्यम् ।
?R विवरणे तु सङ्ख्यान्तरान्वयविरोधनिरासि यदधिकरणषट्कमन्वयविरोधनिरासार्थम् । अतः अधिकरणषट्कस्य सङ्गतिद्वयम्। सिद्धोऽपि गौणोऽन्वयः इह गुणादर्शनादयुक्तः । न च कार्यतो गौणता ये यजमाना इतिवद्वाच्या। विधितो हि तत्र तथा । इह कार्ये विधिरशक्य इति हृदि स्थितमेव । एवं साक्षात्सङ्गतिः । अथ कथञ्चित् कार्ये विर्गौणोऽन्वयः तर्हि प्रसङ्गात् संगतिः । कृतश्च पूर्वः पक्षः ।
?R राद्धान्तस्तु - नोपरिसादने सर्वहुते वा यजमानविधिश्शक्यः । न चाचेतनाभ्यां याजमानं शक्यम् । अतो न कार्ये विधिः । विध्यन्तरशेषत्वाच्च न विधिः, स्तुत्या यज्ञसाधनत्वसामान्यादन्वयः विधौ न तथेति अशक्यता भाष्ये। गौणवृत्याक्षेपात् पूर्वपक्षभ्रमो गुरुणा निरस्तः । इह तु गौणताक्षेपः गौरश्व इतिवत् न तु गौर्वाहीक इत्यत्रापि, यदि हि गुणसमुदायवाचितयाऽध्यारोपाद्वा गौणतानुज्ञानं तदैव परं सर्वगौणताक्षेपः स्यात् । न चानुज्ञानम् ।
?R ?R?0॥ 13॥ जातिसारूप्यप्रशंसाभूमलिङ्गसमवायात् ॥ 23॥
?R अधिकरणपञ्चकं अल्पभेदमेकदैव निबद्धम् । त्रयं गुणाप्रतीतेर्नान्वयधीरित्येतन्निरसनार्थं, विधाभेदात् भिन्नम्। द्वयं लक्षणया नान्वय इत्येतन्निरसनं विधाभेदात् कर्तुम् । नाग्नेये इयताविधेरन्वयः विध्यन्तरशेषत्वात्, गुणाप्रतीतेश्च न गौण इति शङ्का। अग्निब्राह्मणयोरेकस्थानप्रभवतया श्रुतेः संबन्धप्रतीतिः । ततश्च आग्नेयो ब्रह्मण इति संबन्धार्थतद्धितान्तसमानाधिकरणतया अत्र स्तुत्याऽन्वयः । अत्र प्रतिपदोक्ताद्देवतातद्धितात् जघन्येयं विधा गौणीवेति गौणोक्तिः ।
?R अथ वा आग्नेयोऽग्निसम्बन्धः अयमप्येकस्थानप्रभवतया अग्नसंबन्ध इति गौणान्वयः ।
?R
?R सारूप्यात् । यूपे यजमानादित्ययोः गुणबोधात् विध्यन्तरशेषतया कार्याशक्तेश्च न विधिरित्यनन्वयः । मन्दगुणात् ऊर्ध्वतातेजस्विताम्यां अन्वयः।
?R प्रशंसा । पशुष्वेव या अपशूक्तिः सा विहितस्यापि पश्वन्तरकार्ये विध्यर्था। विध्यन्तरशेषभावाच्च न विधिरित्यनन्वयः । स्तुत्याऽन्वयः । उपकाराधिक्यात् प्रशंसा ।
?R भूमा । सृष्टिमन्त्रा बहव आम्नाताः । अल्पशोऽन्ये । लिङ्गादिष्टकोपधाने विनियोगेऽपि सृष्टीरुपदधातीति श्रुतेः सृष्टिपदवन्मन्त्रोपधेयेष्टका सृष्टिरिति साधुत्वे चिन्ता - अर्थवत्त्वाय विधिः सृष्टिलिङ्गमन्त्रोपधेयेष्टकानां तासां प्राप्तेर्वा अन्यलिङ्गमन्त्रकाः सृष्टलिङ्गमन्त्रकाः कृत्वोपधेयाः । वचोभङ्ग्या सृष्टिलिङ्गकं कार्यमिति विधिः। तदा चान्यलिङ्गक ’ ?Rएकयाऽस्तुवत ‘?R इत्यादि मन्त्राम्नानं व्यर्थम्। अतो दुर्घटो विधितयाऽन्वयः ।
?R
?R राद्धान्तस्तु वरं सृष्टिबाहुल्यादुपधेयतामात्रेण लक्षणया सृष्ट्यसृष्ट्यनुवादः सृष्टिरिति हि सृष्टिमन्त्रवत्य इष्टकाः उक्ताः । तद्वानासामुपधानो मन्त्र इति इष्टकासु लुक् च मतोः इति मतुब्लुक् । लुकि च वयस्या इतिवत् न यक् छान्दसत्वात्। न च प्राग्विधेः सृष्टिमन्त्रका इष्टका ज्ञाताः । मन्त्रलिङ्गात् ज्ञानेऽपि न विधिरिति न तत्सिद्धिः । न च मन्त्रविधिः मन्त्रान्तरानर्थक्यादित्युक्तम् । अतोऽनुवादः सृष्टीरिति सर्जनरूपेण स्तुत्यर्थः ।
?R ?R?0 लिङ्गसमवायात्
?R प्राणभृन्मन्त्रवतीनां उपधानविधिरर्थवत्वाय पूर्ववद्दुर्घट इत्यनुवादोऽत्रापि । योगान्तरं त्वनुवादोऽपि दुर्घट इति शङ्कापनोदाय, सकृदुच्चरितसृष्टिप्राणभृत्पदयोः लक्ष्यलक्षकपरत्वं वृत्तिद्वयाधीनमयुक्तमिति शङ्का । प्राणभृल्लिङ्गका चैका तत्पदनिर्देश्यता बाह्ये न युक्ता इत्यभ्युच्चयः । तन्न । उपधानयोगितया लक्ष्यत्वे स्वार्थोऽप्यन्तर्भूत इति न वृत्तिद्वयं उपधानयोगिता सर्वव्यापिनीति बहुष्वप्येकपदलक्ष्यतेति । दण्डिनो गच्छन्तीति लोकेऽपि सिद्धम् ।
?R ?R?0 ॥ 14॥ सन्दिग्धेषु वाक्यशेषात् ॥ 29 ॥
?R अञ्जनद्रव्यसंयुक्तमुक्तमित्येवं पदार्थे निश्चितेऽपि वाक्ये अक्ता इति प्रयोगः कतमाञ्जनद्रव्यसंयुक्तपरः इत्युपादानाय विशेषापेक्षायां विशेषप्रतीतौ तद्विषयत्वं, अप्रतीतौ सामान्यस्थ एवान्तर्भूतानियतविशेषोपादानपर्यन्तम् । तत्र विध्युद्देशोपक्रमानुरोधात् सामान्यस्थः । घृतमिति च पदं स्नेहद्रव्यलक्षणया घृताघृतपरं प्राणभृन्नयात् । अथवा अर्थवादोपसंहारयोः अननुरोध्यत्वेऽपि अपेक्षितविशेषपरः घृतश्रुत्यनुग्रहश्चेत्यनध्यवसाय इति यववराहनयापुनरुक्तिः। सङ्गतिद्वयम् पूर्वपक्षश्च । पुनरुक्तिप्रत्युक्तिविभवोऽयं, तत्र विपर्ययनिराक्रियोक्ता
?Rनिबन्धने । विवरणे तु वाक्यान्तरस्वार्थवादात् निराक्रियोक्ता । यतः वेदो वेति नयादपि नोपक्रमश्रुत्यनुरोधादध्यवसायः । तत्र हि उपक्रम एव विशेषधीः । न चोपसंहारे तद्विशेषलाभः । न चोपक्रमश्रुत्यहानमिति न तत्तुल्यता। राद्धान्तस्तु विध्युद्देशोपक्रमयोरनुरोध एवायं यद्विशेषनिराकाङ्क्षीकरणम्। एकवाक्ये विशेषश्रुतौ तद्विशेषनिष्ठ एव सामान्यशब्दो व्युत्पन्नः सार्थवादवदेव धीश्शाब्दीत्युक्तम् । घृतपदञ्च नातिपरोक्षार्थं युक्तम् । अतो घृतेनाक्ता इत्यध्यवसायः।
?R ?R?0 ॥ 15॥ अर्थाद्वा कल्पनैकदेशत्वात् ॥ 30 ॥
?R यदि वाक्यशेषाद्विशेषपरता तदभावात् सर्वस्य सर्वावदानं शास्त्रात् । न च तथानुष्ठानशक्तिरिति किं यथाशक्त्यनुष्ठानं, उत यथाशास्त्रमिति अनध्यवसायात् अनुष्ठानसन्देहात् अनुष्ठानाक्षेपपर्यन्ते शास्त्रार्थे सन्देहः, नतु यथाशक्त्यनुष्ठानं विपर्यस्तं ततश्चेत्थमेव सन्दिग्धं अस्ति नास्तीति । अथवा सर्वं सर्वेणावदेयं अनुग्राहकद्रव्यान्तर्भावात् शक्तितो वा केनचित् किञ्चिदिति सन्देह इति सङ्गतिद्वयम् । पूर्वपक्षश्च ।
?R राद्धान्तस्तु स्वरूपमात्रश्रुतेर्नानुग्राहककल्पना योग्यान्वयव्युत्पत्तेः शक्तितो व्यवस्थितोऽन्वयः शास्त्रार्थः । अतो विधिचिन्तया प्रथमपादे, अर्थवादमन्त्रस्मृतिनामधेयानामनुष्ठानतः पादत्रयेऽपि स्थापितं प्रामाण्यं तस्य निमित्तपरीष्टिरिति यत्प्रतिज्ञातम् ।
?R?0 इति श्री महामहोपाध्यायभवनाथमिश्रविरचिते नयविवेके
?R?0 प्रथमाध्यायस्य चतुर्थः पादः ।
?R?0 इति प्रथमोध्यायः समाप्तः ।?R?0
?R ?0 ______?R
?R?0
?R ?R?0 ?R प्रथमः पादः
?R?0 । 1। भावार्थाः कर्मशब्दास्तेभ्यः क्रियाप्रतीयेतैष ह्यर्थो विधीयते । 1 ।
?R ?R?0 द्वितीयेन द्वितीयेन निबन्धेन निबध्यते ।
?R?0 यत्तदेव भवेनाद्य निरवद्यं निगद्यते ॥
?R प्रथमेऽध्याये प्रमाणलक्षणं वृत्तमिति भाष्यम् । तदेव निबन्धने व्याख्यातं ?Rयथा प्रमाणं शब्दस्तथोक्तमित्यर्थः “?R इति । तद्विवृतं ऋजुविमलायां " ?Rयेन प्रकारेणानपेक्षत्वाख्येन शब्दः प्रमाणमिति लक्ष्यते तदनपेक्षत्वं प्रमाणलक्षणं वृत्तं " ?Rइति । तदयुक्तम् - अनपेक्षत्वमेव तर्हि कीर्तितं नाध्यायार्थभूतं प्रामाण्यम् । अथानपेक्षत्वमेव शास्त्रभेदं प्रति हेतुः तदाह - अतोऽनपेक्षत्वसव्यपेक्षं भेदाभेदकथनमिति, एवं तर्हि समानहेतुकत्वमध्यायार्थयोः न हेतुहेतुमद्भावः। मैवम् । अनपेक्षत्वप्रकारकमेव प्रामाण्यं शास्त्रभेदे हेतुः नाविसंवादादिप्रकारकं प्रामाण्यमिति । यस्माच्छब्दैकसमधिगम्यसाध्यानुबन्धभेदनिबन्धनोऽत्र शास्त्रभेदः । तच्च शब्दैकसमधिगम्यत्वमनपेक्षत्वप्रकारकप्रामाण्यनिबन्धनम् । अतः प्रकारापन्नप्रामाण्यस्य हेतुत्वात् प्रकारभूतानपेक्षत्वकीर्तनमुखेन सप्रकारोऽध्यायार्थ एव हेतुत्वेन कीर्तितः । तदागमन्यायेनानपेक्षत्वसव्यपेक्षं भेदाभेदकथनमित्याह । अतोऽध्यायार्थस्यैव कीर्तनं हेतुत्वञ्च युक्तम् । दार्ढ्यार्थं वा वाक्यार्थभूतं प्रामाण्यम् । सहेतुकोऽध्यायार्थः स्मारितः ।
?R नन्वनुबन्धभेदद्वारेण शास्त्रार्थीभूतनियोगभेदप्रतिपादनक्षमत्वलक्षणः शास्त्रार्थभेदो युक्त एव । साध्यभेदात्तु न शास्त्रार्थीभूतनियोगभेदप्रतिपादनक्षमतेति न तन्निमित्तकः शास्त्रभेदो युक्तः । मैवम् । अधिकारनियोग एव हि परमशास्त्रार्थीभूतः तथापि यथोत्पत्तिनियोगशास्त्रमवान्तरशास्त्रतया भिद्यते तथा साध्यशास्त्रमपीति
?Rतदप्यध्याये व्युत्पाद्यम् । व्युत्पादितं चोत्पत्त्यादिसाध्यभेदेन शास्त्रस्य भिन्नत्वमाघराग्निहोत्राधिकरणे । करणेतिकर्तव्यतासाध्यशास्त्रभिन्नत्वं तु पौर्णमास्यधिकरणे । अधिकारशास्त्रसाध्यशास्त्रभिन्नत्वं तु यावज्जीवमित्यत्र । यथा हि उत्पत्त्यपूर्वमपूर्वत्वेऽपि अधिकारापूर्वानुगुणतया भिद्यमानं स्वशास्त्रं भिनत्ति न स्वातन्त्र्येण, एवं साध्यमपि परमापूर्वानुगुणतया भिद्यमानं सर्वं शास्त्रं भिनत्तीति युक्तम् ।
?R
?R नन्ववहन्त्यादिषु शास्त्रार्थीभूतावघातादिभेदादेव तच्छास्त्रभेदो युक्तः। मैवम् । स्वतः कार्यपरत्वं हि शब्दानां स्वार्थप्रतिपादनं व्युत्पन्नं;?R न चावघातादि स्वतः कार्यम् । अतोऽवहन्तीत्यादि स्वतः कार्यानुगुणद्वारकार्यमादाय कार्यपरम् । अतो द्वाररूपावान्तरकार्यं शास्त्रार्थमवहन्तीत्यादि अवान्तरशास्त्रं युक्तम् । यच्च शास्त्रं यच्छास्त्रानपेक्षं स्वसाध्यप्रतिपादकं तत्ततो भिन्नं अनपेक्षत्वेन शास्त्रत्वनियमात् नियमादृष्टांशभेदाच्च दधिपयसोस्साध्यभेदो दध्ना जुहोतीत्यादौ करणेतिकर्तव्यतासाध्यभेदविषयेऽप्यनपेक्षता दर्शिता पौर्णमास्यधिकरणे । अधिकाररूपसाध्यस्य च स्वतो यत्कार्यं तदनुगुणैव साध्यता अधिकारपर्यवसायित्वात् सर्वविधीनामित्येषा दिक् ।
?R एवंविधशङ्कापनयापेक्षं साध्यशास्त्रभिन्नत्वमिति परोक्तमचिन्तितसिद्धत्वं हेयम् । किमिति पुनश्शास्त्रभेदोऽध्यायार्थोऽभिमतः । यद्यपि यागादिकर्मभेदस्य प्रसिद्धत्वात्प्रसाध्यत्वमप्युक्तमित्युक्तम् । यद्यपि धात्वर्थसम्बन्धप्रयत्नरूपभावनाभेदोऽपि यागादिभेदवत् सुप्रसिद्धत्वान्न प्रसाधनमर्हति । तथापि शास्त्रभेदहेतुभूतसाध्यानुबन्धभेदो वा शास्त्रार्थभेदो वा किमित्यध्यायार्थो नानुज्ञातः । उच्यते । साध्यानुबन्धभेदौ तावत् भेदादेव नैकाध्यायार्थतया संभाव्येते
?R। शास्त्रार्थभेदस्त्वेकत्वेपि फलभूत एव युक्तो नाध्यायार्थः शास्त्रभेद एव त्वध्यायार्थो युक्तः । तथाहि - भिन्नशास्त्रार्थसमर्पकता हि शास्त्रस्य भिन्नता सा च न लोकतोऽवगता । तत्र शब्दस्य शास्त्रभावानध्यवसाने कथं तद्धर्मो भेदोऽध्यवसीयतां, अतः स व्युत्पादनमर्हतीत्यध्यायार्थः शास्त्रभेदो युक्तः । व्युत्पन्नशास्त्रशक्तेस्तु शास्त्रार्थावगतिः प्रसाधननिरपेक्षेति फलभूतैव युक्ता । यद्येवं मतान्तरेऽपि फलापूर्वभावनाभेदप्रतिपादकता शब्दस्य न लोकतो व्युत्पन्नेत्यध्यायेऽस्मिन् व्युत्पाद्यतां, फलभूता तु फलापूर्वभावनाभेदप्रतिपत्तिरास्तामिति चेत् । आस्तां मतान्तरे तथापि न दोषः । अत एव यागरूपकर्मभेदो नाध्यायप्रसाध्य इत्युक्तम् । अस्मन्मते तु यद्युक्तं तदेवोक्तम् - शास्त्रभेदोऽध्यायार्थ इति ।
?R अत्र चाद्याधिकरणमुपोद्घातेनेत्युक्तम् । तदयुक्तम् । सर्वेषां विषयत्वरूपे पूर्वपक्षे अनुबन्धभेदात् प्रतिपदं शास्त्रभेदः । राद्धान्ते तु एकोऽनुबन्धः इत्येकशास्त्रता । अतस्साक्षादेवास्य सङ्गतिरवभाति । उच्यते । सत्यमनुबन्धभेदात् शास्त्रभेदः, स तु नैतदधिकरणाधीनः । किन्तु एवंजातीयकैरधिकरणैः विषयत्वायाधिष्ठानविशेषे निरूपिते शब्दान्तराधिकरणादिभिः विषयभावभेदनिरूपणात् शास्त्रभेदसिद्धिः । एवं च शब्दान्तराधिकरणादय एव साक्षात् सङ्गच्छन्ते। आद्यप्रभृतीनि तु शास्त्रभेदचिन्तौपयिकतया उपोद्घातेनेति ।
?R केचित्पुनरेवमुन्नयन्ति । गुणप्रधानभूतपदार्थप्रतिपादकपदकदम्बात्मकस्य शास्त्रस्य भेदोऽध्यायार्थः । आद्ये तु तुल्यरूपपदार्थजातप्रतिपादकशास्त्रभेदः प्रतीयत इति (न) साक्षात्सङ्गतिरिति । तन्न । अनुबन्धभेदाधीनस्याऽविशेषतोऽनुज्ञानात् । न च भेदापवादोऽत्रेति वाच्यम् । अपवादस्याप्यन्यत्र भेदव्यवस्थापनार्थत्वात् ।
?R लघ्व्यामेवमुपोद्घातताप्रतिपादनम् - प्रतिपदं विषयभावे हि शास्त्रभेद एवैको
?Rनाभेदकोटिरिति न भेदाभेदचिन्तावकाशः ।
?R इहाधिकरणशरीरमृजुविमलायां नियोगार्थत्वात् सर्वपदार्थानां साक्षात्सम्बन्धसम्भवे च परम्पराश्रयणानुपपत्तेः सर्वेषां नियोगविषयत्वमिति पूर्वः
?Rपक्षः।
?R राद्धान्तस्तु - सर्वेषां नियोगविषयत्वे परस्परसंबन्धधीविरोधात् प्रतिपदं विषयत्वे भिन्ननियोगानुप्रवेशिनां सम्बन्धानुपपत्तेः यथा विनियोगं विषयभावो न्याय्य इत्यन्यतरानुगृहीतस्यान्यतरस्य विधिविषयत्वमिति ।
?R अत्र पूर्वपक्षनिर्वाहार्थमरुणैकहायनीन्यायोपन्यासेन द्रव्यगुणयोरिव क्रियाकारकयोरपि सम्बन्धो दर्शितः। तदयुक्तम् । तत्र हि एक क्रियान्वयात् द्रव्यगुणयोः परस्परान्वयो युक्त इति । इह तु क्रियाकारकयोर्नानानियोगान्वयान्न परस्परान्वयो युक्तः ।
?R अत्रोच्यते । अन्यान्वयपरयोरपि तदन्वयानुगुणोऽन्योन्यान्वयो दृष्ट इत्येतावता दृष्टान्तः । न तर्हि परस्परान्वयावगमविरोधो राद्धान्तयुक्तिः । उच्यते । नानाकार्यान्वितयोर्हि क्रियाकारकयोः नानाकार्यानुमत्यनुगुणमेव परम्परान्वयित्वं वाच्यं तच्च कार्ययोर्मिलितयोः स्वपदार्थवृत्तिपरस्परान्वयपर्यन्तगमनानुमतौ सिद्ध्यति मिलितयोः स्वपदार्थयोगक्षेमकारित्वात् ।
?R किञ्च एकावरोधकयोर्द्रव्यगुणयोरर्थान्मिथोऽन्वयः । इहातथात्वान्नान्वय इति । अतः क्रियाकारकयोरन्वयानुपपत्ते राद्धान्तितं यथाविनियोगं विषयभावो न्याय्य इति ।
?R
?R विवरणे तु गोदोहनं निदर्शितम् यद्यपि गोदोहनं केवलमेव नियोगविषयः तथापि यथा नियोगान्तरीयप्रणयनान्वयोऽपि तस्य भवति, एवमत्रापि भिन्ननियोगान्वयिनोरपि क्रियाकारकयोरन्वयो न विरुध्यत इति पूर्वः पक्षः । अवगतनियोगान्वयस्य हि प्रणयनस्य पुनर्गोदोहनाश्रयत्वेनोपादानात् अन्योन्यान्वयित्वमुक्तम् । इह तु नियोगान्वयार्थं समसमयोपात्तयोः न परस्परान्वयित्वं संभवतीति राद्धान्तः । स च क्रियाविषयत्वनिर्धारणान्तः वस्तुसामर्थ्यतः क्रियाश्रयत्वात् कृतेः । कृतिद्वारकं हि नियोगविषयत्वं क्रियाया
?Rएव युक्तमिति प्रपञ्चितं दीपशिखायाम् । मतद्वयेऽपि पूर्वपक्षे नानानियोगपरत्वेऽपि न वाक्यभेदः लिङादेस्तन्त्राभिधानात् । वैरूप्याभावाच्च प्राजापत्यानित्यत्र विवरणपूर्वपक्षवदित्यनुसन्धेयम् । शेषं पञ्चिकयोः सुगमम् ।
?R?0 भावार्थाः कर्मशब्दास्तेभ्यः क्रियाप्रतीयेतैष ह्यर्थो विधीयते ॥
?R अत्र नैमित्तिकावस्थायां द्रव्यगुणभावार्थानां सर्वेषामेव साध्यत्वात् साध्यार्थविषयत्वाच्च नियोगस्य अविशेषेण विधिविषयसमर्पकत्वमिति पूर्वः पक्षः ।
?R राद्धान्तस्तु द्रव्यगुणयोर्विधिविषयत्वपक्षे क्रियायाश्च तादर्थ्ये यथाप्रतीयमानक्रियाकारकभावावगमविरोध इति भावार्थविषयो नियोगो न द्रव्यगुणविषयः इति ऋजुविमलायामधिकरणार्थसंक्षेपः । अयं भावः - अस्तु नानाकर्मत्वेपि क्रियाकारकावस्थानुवृत्तिः । अन्वयस्तु तदवस्थया न स्यात् स्वतः साध्यलाभे च क्रियायोगात् साध्यविषयता तु युक्ता । अत्र च द्रव्यगुणशब्दयोः नामधेयावस्थायामपि भावार्थत्वेनानभिधायकत्वात् भावार्थविषयो नियोग इत्यत एव तन्निराकरणान्तमभिहितम् । तन्निराकरणपर्यन्तञ्च
?Rद्रव्यगुणविषयत्वनिराकरणसिद्धान्तावस्थापनमिति एकाधिकरणत्वम् । प्रपञ्चितं चैतद्ग्रन्थकारेण । यदा चाविशेषेण विषयसमर्पकत्वं तदाऽनध्यवसायेन नाप्रामाण्यमनुष्ठानस्याध्यवसितरूपत्वादित्युक्तम् । तत्र च प्रतिनिधानाप्रतिनिधानाभ्यां विशेषं चोदयन्ति द्रव्यगुणापचारे । तत्र केचित् समादधति । अधिकारचोदना इहोदाहरणं, नित्याधिकारचोदनासु हि प्रतिनिधिः । तत्र कालदेवताग्निमन्त्रक्रियाणामप्रतिनिधाने तदतिरिक्तस्य नित्याधिकारचोदनासु प्रतिनिधेयस्याभावात् । राद्धान्तेऽपि प्रतिनिधेरभावः पूर्वपक्षेऽपीति नानुष्ठाने विशेष इति । तत्रेदं चिन्तनीयम् ।
?R भाष्ये तावत् प्रयोजनमुक्तमपूर्वाधिकरणे यदि द्रव्यगुणशब्दा अपूर्वमुपदिशन्ति तदा द्रव्यगुणापचारे न प्रतिनिधिरुपादातव्यः यदा पूर्वः पक्षः, यदा तर्हि राद्धान्तः द्रव्यं गुणं वा प्रतिनिधाय प्रयोगोनुष्ठातव्य इति । अतश्च प्रतिनिध्यनुष्ठाने विशेषोऽभ्युपगत आचार्येणेति वृथाऽयमुद्ग्रन्थः श्रमः । किञ्च नित्येऽपि वसन्ते वसन्ते ज्योतिषेत्यादौ ज्योतिरादिद्रव्यादेः न प्रतिनिध्यापत्तिः । किं बहुना । अतोऽन्यथा समाधीयते । अविशेषपक्षे हि कदाचित् द्रव्यगुणविध्यवगमः, कदाचित् भावार्थविषयविध्यवगम इत्युभयोः विषयत्वसंभवान्न प्रतिनिधानमप्रतिनिधानं वा व्यवस्थापयितुं शक्यमित्यप्रतिनिधानमेवेति न प्रतिनिध्यनुष्ठाने विशेषः । भाष्ये तु अवधारितैकपक्षत्वमादाय अप्रतिनिधौ विशेषो दर्शितः इत्यविरोधः ।
?R राद्धन्ते भावार्थत्वं हेतुरुक्तः । द्रव्यादेर्हि क्रियाविशिष्टदशायां साध्यतामादाय विधिविषयता वाच्येत्यसाध्या क्रिया न भावार्थः स्यात् । द्रव्यादेश्च जन्यतया कर्मावस्थयाऽन्वयः स्यात् । जनकरूपकारकावस्थायां सत्यामपि । न त्वतीतैव तदा कारकतेति परमतं युक्तम् । कारकं हि क्रियाहेतुः । तद्धेतुता च तत उत्पत्तौ
?Rनियमतः पूर्वक्षणस्थितिमात्रात् न तु व्यापारवत्तया । व्यापारोत्पत्तौ व्यापारान्तरानभ्युपगमादनवस्थापातात् । स चायं हेतुहेतुमत्त्वसंबन्धः संबन्धिद्वयस्थित्यवधिकः अतः क्रियया स्थितिकाले फलं जनयन्त्या कारकावस्थास्थितमेव कर्मनिर्मितं ग्रामादि । यत्तून्नीतं ग्रामगतप्रयोजनं क्रियोत्पत्तिहेतुः, अतो ग्रामस्य कारकतेति ;?R तन्न, अनीप्सितस्याकर्मकारकत्वापत्तेः । परोपाधेरेव कारकव्यापारव्यतिरेकिणां द्रव्यगुणानामपि भविष्यदादिकालयोग इत्युक्तम् ।
?R अत्राभिप्रायं केचिद्वर्णयति- घटादिभवनं देवदत्तादिप्रयत्नात्, प्रयत्नश्च कारकव्यापारविषय इति कारकव्यापारद्वारेणैव घटादेः कालयोग इति । तदयुक्तम् । एतस्मात्तावद्ग्रन्थात् कारकव्यापारादुत्पत्तिः द्रव्यगुणादेः प्रतीयते । उत्पन्नस्य तु साक्षात्कालयोगे को विरोध इति न विद्मः । अतोऽन्यथा समाधीयते ।
?R
?R तथाहि - रक्तः पटो भूत इति विद्यमानस्यैव रक्तत्वस्य गुणस्य पटद्रव्यस्य चातीतार्थक्तप्रत्ययप्रयोगः । तत्रातीतयोरुत्पत्तौ कारकव्यापाररूपायामेव तात्विकं तदुपधानादेव द्रव्यादेरतीतता । एवमनागतता वर्तमानता च तत एवेत्यनुसन्धेयम् । तथाभूतिक्रियान्तर्भावादेवानागतादिव्यवहारो लोके द्रव्यादीनाम् घटो भविष्यति भवत्यभूदितीयं दिक् । यदि कर्मशब्दा इत्येवोच्येत तदा इदमेवाधिकरणं स्थितिं न लभते चक्रकदोषप्रसङ्गादित्युक्तम् ।
?R
?R अत्र चोदयन्ति प्रथमं कर्मशब्दतया यजेतेत्यनेन विधिविषये समर्पिते ततः उद्भिदादिपदानां नामत्वेऽपि न विधिविषयसमर्पकता सम्भवति । अर्थस्य हि विषयता । स चार्थो विषयतयाऽऽख्यातादेवावगत इति न पुनर्नाम्नापि बोधनीयः
?R यदप्युच्यते नामार्पिते विषये यागे तृतीयार्थाभावान्न नामतेति;?R तदयुक्तम् । उद्भिदोऽपि यागनामत्वे तदवस्थे च यागे तृतीयार्थसंभावनेति ;?R तत्रैके समादधति, आख्यातार्पितमपि विषयं नाम सिद्धावस्थयाऽर्पयिष्यति साक्षात्कार्यान्वयलोभेन । तथा नामतोऽपि विषयभावानुसन्धानान्न कारणताधिगतिः इति न यागे तृतीयार्थतेति;?R तन्न, यत्र ह्यवस्थाभेदतो विषयत्वे गुणविधिफलमनुष्ठानं दध्यादौ तत्र तथा । इह तु अर्पितार्पणमात्रं नाम्नोऽनर्थकमेव । अतोऽन्यथा समाधीयते । नात्र न्यायतश्चक्रकापत्तिरुद्भाव्यते किन्तु कर्मशब्दमात्रसूत्रणनिबन्धना चक्रकापत्तिरापद्यते । सूत्रकारोपालम्भोऽयं अत्यर्थं स माभूदिति भावार्थपदं प्रक्षिप्तम् ।
?R
?R विवरणे तु पूर्वाधिकरणराद्धान्ते कर्मविषयत्वे सिद्धे किं नामधेयेन विषयतया कर्मार्प्यते उताख्यातपदेनेति संशयात्मक एव पूर्वपक्ष इत्युक्तम् ।
?R नन्वप्रामाण्येन पूर्वः पक्षः प्रमाणलक्षणे युक्तः । न युक्तः । शास्त्रभेदोपोद्घातेनेयं चिन्ता । सा च साक्षात् सङ्गतेर्बलीयसीति बादरिसप्तमाद्यादावुक्तम् ।
?R ननु प्रथममाख्याताद्विषयभूते कर्मण्यधिगते कस्यापरस्य विषयतां नामाधिगमयिष्यति । उच्यते । प्रथममाख्यातादधिगतिमेव न मन्यते, किन्तूपपदस्य कर्मार्थताव्युत्पत्तिप्रकारोऽयम् । एवं व्युत्पन्नस्तु किन्नामतः किमाख्याताद्विषयं प्रत्येमीति सन्दिग्धे । सन्देहादननुष्ठानं निर्णये त्वनुष्ठानमिति विचारप्रयोजनम् । अत एव व्युत्पत्तिदशायां क्रियाकारकान्वयाभिधानाभ्युच्चयेन पूर्वाधिकरणे राद्धान्तितम् । अत्र चाख्यातात् साध्यावस्थाधिगतेः तदवस्थस्य कृत्यन्वयमुखेन विषयभावयोग्यत्वादाख्यातमेव विषयमर्पयतीति राद्धान्तः । व्युत्पत्त्युपाधितया
?Rचेदमधिगतं यदाख्यातमिष्टफलसाधनकर्मक्षणनिचये प्रयुज्यत इति । इष्टफलसाधनावच्छेदश्च सजातीयक्षणनिचयस्य विजातीयक्षणनिचयस्य च । तत्र सजातीये तन्त्रेण धातुर्वर्तते । विजातीये तु स्वार्थातिरिक्ते आक्षेपात् । इष्टसाधनतया च साध्यत्वमाक्षेपादेव, तेनोच्यते साध्यतया प्रतीयत इति । अदृष्टफले त्वियतः फलसाधनत्वमिति न्यायतोऽवधारणसम्भवादनुष्ठानमिति प्रपञ्चितं दीपशिखायाम् । शेषं प्रस्तुतं भाष्यव्याख्यानोपक्षीणञ्च ।
?R?0 ॥ 2॥ चोदना पुनरारम्भः ॥ 6 ॥
?R अपूर्वाक्षेपसमाधानरूपमिदमधिकरणम् । तेनापूर्वं ( सिद्धं कृत्वा इत्थं प्रतिपादितस्य क्रियार्थशब्दनियोगबोधकत्वं ) कृत्वेत्यस्य समाधानार्थं सत् पूर्वाधिकरणशेषभूतमिति न पृथगारब्धव्यमिति न पृथक् सङ्गतिमपेक्षते । अतः पूर्वमधिकरणं सशेषमुपोद्घातेन । अत्र पूर्वोत्तरपक्षसंक्षेपः - लोकव्युत्पत्त्यनुसारेण क्रियैव कार्यतया लिङादिभ्योऽवगम्यते, कामिनो नियोज्यस्य काम्यसिद्धये क्रियाया एव स्थायिता कल्प्यताम् । न च तत्र प्रमाणान्तरविरोधः । फलविनाश्यत्वात् क्रियाणाम् । लोके तु क्रियानन्तरं फलोत्पत्त्यवगमात् उत्तरकालविनाशित्वं युक्तम् । वेदे तु कालान्तरभाविनि फले साधनत्वावगमात् तत्फलविनाश्यत्वात्
स्थायित्वसिद्धिः न चाश्रयास्थिरत्वा दस्थायित्वम् । यागादेः स्थिररूपात्माश्रयत्वात् । परिस्पन्दस्यापि शब्दावगतकालान्तरभाविफलस्य
?Rपरमाण्वाश्रयत्वकल्पनादित्यनुसन्धेयमिति पूर्वः पक्षः ।
?R यद्यपि फलविनाश्यं कर्म कारकावस्थाश्रितफलविनाश्यन्तु तदवगतं लोके । अतस्तद्विपरीतफलकालावस्थयिता प्रमाणान्तरविरुद्धैव । तथा आश्रयविनाशाच्च अस्थायित्वं कर्मणः शास्त्रार्थीभूतस्यानेकपरिस्पन्दावच्छिन्नस्य यागादेरप्यस्थिराश्रयत्वात् । कार्यद्रव्यञ्च देशान्तरं प्रापयतः स्पन्दस्य तदाश्रयत्वमेव
?Rस्थितम् । अतस्तद्विपरीतपरमाण्वाश्रयत्वकल्पनमप्ययुक्तम् । तथा कर्मशक्तेरन्याश्रयत्वकल्पनेन तत्स्थायित्वकल्पनापि प्रमाणान्तरविरुद्धैव । सापि तुल्यन्यायतयाऽत्राधिकरणे निवारिता । अनवगतस्वरूपे त्वपूर्वे न प्रमाणान्तरविरोध इति स्थायिकार्यं लिङाद्यर्थोऽवधार्यते । तदङ्गीकारमात्रेण सुकरे विरोधप्रतीकारे लोकावगतप्रीतिस्वभावविपरीतस्वर्गाख्ये प्रीतिपरिग्रहवच्छब्दबलेनात्रापि स्थायित्वादि न युक्तं वक्तुमिति राद्धान्तः । यदा च स्थायिकार्यं लिङाद्यर्थः तदा कार्यसामान्यमात्रवचनतया क्रियाकार्ये लिङादिप्रयोगो मुख्य इति नाशङ्कनीयम् । सामान्यवचनत्वे हि स्थायिरूपकार्यविशेषोऽनन्यप्रमाणको न प्रतीयेत । अतस्सविशेषस्थायीत्येवंरूपतयाऽभिधेयः । अतोऽस्थायिरूपे कार्ये शक्त्यन्तरापेक्षमभिधानं स्यात् । अतस्तल्लाक्षणिकं क्रियाकार्यं युक्तम् । न युक्ता च सामान्यमात्राभिधायकता व्यक्तिवाचिनो लिङादेः ।
?R यत्तु केचित् समादधति क्रियाकार्ये कार्यतारूपधर्ममात्रे लिङादिः । अपूर्वे तु धर्मिभूतापूर्ववचनता । अतो धर्ममात्रे लक्षणा युक्तेति । तदयुक्तम् । प्रकृत्यभिहितापि क्रिया प्रत्ययेन कार्ये धर्मिणि क्लृप्तसामर्थ्ये न कुर्यादितिवत् पुनरभिधीयताम् । तथा सत्यनुवादता न लक्षणासिद्धिः । अत्र वृत्तिग्रन्थेऽभिहितम् - ननु क्रियैव कार्यतयोच्यताम् । फलसाधनता च तस्या एव श्राव्यताम् । तदुपपत्त्यर्थञ्चापूर्व परिकल्प्यतां माभूदपूर्वस्य लिङादिवाच्यतेति । उच्यते । तद्धि तदुपपत्त्यर्थं कल्प्यते यद्यस्योपपादकम् । न चापूर्वेण फलजनकेन कल्पितेन क्रियायाः फलसाधनतोपपादिता भवति । न हि साधनसाधनं तस्य साधनं भवति।
?R अत्र चोदितम् - तत्किमाग्नेयादयष्षडपि न साधनमधिकारापूर्वस्येति-इदमात्राभिसंहितम् - अधिकारापूर्वस्य
?Rअवान्तरापूर्वव्यवहितत्वात् साधनसाधनतापत्तेः आग्नेयादीनामधिकारापूर्वं प्रति न साधनतेति प्रतिबन्दी दूषणम् । अत्रेदमेतावद्वक्तव्यम् । उक्तं हि क्रिया क्षणिकतया कालान्तरभाविनि फले साक्षात्साधनभावायोग्या न कार्यतया शब्देनावबोधयितुं शक्या । अथापूर्वव्यवहितसाधनभावेन योग्या । मैवम् । अपूर्वकल्पनातः पूर्वमपूर्वव्यवहितसाधनभावेनापि न योग्यतां यातीति नान्विताभिधायितेति किमुपपादनायापूर्व कल्प्यताम् । आग्नेयादयस्तु परमापूर्वसाधनत्वयोग्याः अपूर्वस्य कर्मानन्तरभावसम्भवात् । अतोऽपूर्वसाधनतया शक्यते शब्देन बोधयितुम् । उदीच्याङ्गजन्योपकारोपयोगसिद्ध्यर्थन्त्ववान्तरापूर्वपरिग्रहेऽन्यतो जाते तदनुरोधादन्यव्यवधानावगतेः व्यवहितं साधनत्वमास्थीयते । अतः पूर्वं योग्यतावगमादन्वयः कारणान्तरतो व्यवहितसाधनत्वमिति सिद्धं वैषम्यं आग्नेयादिभिरीति न प्रतिबन्दिदूषणम् ।
?R यदा चापूर्वं लिङाद्यर्थः तदा चापूर्वव्यवधानावगमपूर्वंकमेव यागादेऽपि फलसाधनत्वयोग्यतया फलं प्रति कारणीभूतस्यैव विषयतान्वयः । अपूर्वं च प्रत्यपि विषयत्वपूर्वकमेवापूर्वं प्रति करणत्वं युक्तम् । अतो व्यवधायकापूर्वाधीनत्वात् फलकारणतायाः उपादानतस्तदवगतिरुक्ता । फलकारणताया एवापूर्वकारणत्वपर्यन्तत्वादपूर्वं प्रति कारणताप्युपादानत एव । शंय्यौ त्विह व्युत्पन्नेऽपूर्वव्यवहितसाधनताप्रकारे क्षणिकस्याप्यपगोरणस्य कालान्तर भाविशतयातनासाधनत्वयोग्यतासम्भवे साधनत्वेनान्वये सति तदुपपत्तये सति तदुपपत्तये अपूर्वकल्पना युक्ता ।
?R ननु लोके सस्यादौ कृष्यादेः साधनसाधनस्यापि साधनत्वव्यवहाराल्लौकिकत्वाच्च साधनभावस्य फले व्यवहितापि क्रिया
?Rसाधनभावयोग्येत्यन्विताभिधायिता । तदुपपत्तये चापूर्वं परिकल्प्यताम् इत्याग्नेयादिसाम्यमेवेति नापूर्वं लिङाद्यर्थः । मैवम् । स्वर्गकामितारूपेणाव्यवहितमेवापूर्व स्वर्गोपायं नियोज्यः कार्यतयाऽवैति । यो हि यदिच्छतीति न्यायात्, अन्येनाप्युक्तम् " ?Rपुरुषार्थो यदा येन “?R इत्यादिना (वि. विवेक 25 ) अतो न स्वर्गकामो व्यवहितसाधनं यागादिकार्यतयाऽवबोद्धुमलम् । अतो यद्यपि स्वर्गकामः परमापूर्वं कार्यतयाऽवैति न त्ववान्तरापूर्वं परमापूर्वकामस्तु अव्यवहितोपायमाग्नेयाद्यपूर्वमेव कार्यतयाऽवैति । आग्नेयाद्यवान्तरापूर्वकामस्तु आग्नेयादिकं कार्यतयाऽवैति इति क्रमायातं फलं प्रत्याग्नेयादीनां परमापूर्वं च प्रति व्यवहितमेव साधनत्वम् । अतो यद्यपि फलं परमापूर्वं च प्रति व्यवहितमेव साधनत्वं तथाप्याग्नेयादीनामेव फलशिरस्के परमापूर्वे करणत्वं तेषामेव कर्तृव्यापारगोचरत्वात् । कर्तृव्यापारगोचरस्य साध्यव्यवहितस्यापि करणत्वात् । अतः स्वर्गे व्यवहितत्वात् न यागं नियोज्यः कार्यतयाऽवैति । करणता तु व्यवहितस्यापि यागादेः युक्तेति दूरत एव प्रतिबन्दिसंभावना ।
?R ननु साधकतमं करणम् अव्यवधानञ्च तमबर्थः, तत्कथं व्यवहितस्यापि यागादेः करणत्वम् । मैवम् । ततोऽपि व्यवहितापेक्षया विवक्षातो यागस्य करणत्वसिद्धेः । ननु आनन्तर्ये साध्यसाधनभावो दृष्टः । यच्च कृषेः सस्यसाधनत्वं तत्रापि कृषिशब्देन फलपर्यन्त एव व्यापारनिचयो विवक्षितः । तस्य चानन्तर्यात् साधनता युक्तैव । मैवम् । इहाप्याग्नेयादीनां सावान्तरापूर्वाणामेव करणत्वं विवक्षितं यत एव सावान्तरापूर्वस्य करणत्वम् ।
?Rअत एव यागांशे विनष्टेऽप्यवान्तरापूर्वांशे उपकारः कृतः - करणोपकार इष्यते । यथा च यागस्य सावान्तरापूर्वस्य परमापूर्वानन्तर्यं तथाऽवान्तरापूर्वपरमापूर्वद्वययुक्तस्य फलानन्तर्यमपि युक्तमिति फलशिरस्कापूर्वे
?Rकरणत्वमपि युक्तमिति । केवलस्य त्वाग्नेयादेः साधनसाधनत्वम् । अतोऽपूर्वद्वयावगतेः प्राक् स्वर्गं प्रति साधनसाधनमाग्नेयादिक्रिया न तस्य साधनमित्युक्तम् । अतो न तां कार्यतया स्वर्गकामोऽवबुध्यत इति सिद्धम् ।
?R केचित् प्रतिबन्दिसमाधानमेवमाहुः - यथा शंयाववगतसाधनभावोपपत्तयेऽपूर्वकल्पना युज्यते । विद्यमानापगोरणजन्यतदपूर्वमवान्तरव्यापारः सम्भवति, तथा आग्नेयादिक्रियाभिरपि विद्यमानैरेव स्वावान्तरापूर्वाणि जनितानि अवान्तरव्यापारभूतानीति युक्तं तद्द्वारेण परमापूर्वसाधनत्वं नतु परमापूर्वमवान्तरव्यापारः विनष्टेष्वाग्नेयादिषु तदुत्पत्तेरिति प्रतिबन्दिवैषम्यम् । तदयुक्तम् । विद्यमानेन जनितेप्यवान्तरव्यापारे यदवान्तरव्यापारजनितं परमापूर्वं न तदवान्तरव्यापार इति कथं तद्द्वारेणाग्नेयादीनां फलं प्रतिकरणतेति मतम् ।
?R अथ विद्यमानजनितजन्यमप्यवान्तरव्यापारभूतमपि साधनभावं निर्वाहयतीत्युच्यते तर्ह्यवान्तरापूर्वाणामङ्गप्रधानसाहित्यार्थं स्वीकृतानामप्यवान्तरतामङ्गीकृत्य तज्जनितपरमापूर्वस्य किमिति कर्मणः साधनतानिर्वाहाय तत्कल्पना नेष्यते । अथनेदं परमतमिति चेत् न, पार्श्वश्थशङ्कापि निराकरणीयेत्ययुक्तमुक्तम् । न चैवं प्रतिबन्दीसमाधानं युक्तं- अर्थापत्या हि तत्कल्प्यते । यदुपपादकत्वेनावगतम् । न चापूर्वव्यवधानतः साधनत्वमवगतम् । शब्देन त्वसन्निकृष्टार्थेन व्यवधानेनाप्याग्नेयादीनां करणत्वं बोध्यते व्रीहिभिर्यजेतेतिवत् इति । यतो व्यवहितं साधनमेव न भवतीति लोकतोऽवधारिते कथं शब्दोऽप्ययोग्यस्य करणत्वं वदेत् । न च व्यवधानादेव
?Rसमाधानं, श्रुतेर्हि षट्कविषये नियोगे नियोज्यान्वये च
?Rश्रुतषट्कस्यापादितकरणत्वस्य संभूयसाधनतानिर्वाहायार्थापत्तिराग्नेयाद्यपूर्वाण्यभिधेयानि कल्पयतुं क्रियाकार्ये त्वयोग्ये न नियोज्यान्वयः । अतोऽन्वयाश्रुतेः न श्रुतार्थापत्या अपूर्वकल्पनं युक्तमिति भेदः । तन्न । यदि व्यवहितमपि साधनमनुज्ञातं तर्हि क्रिया नायोग्या व्यवधानविधया । अत एवायोग्यतार्थं विधान्तरमाह न साधनसाधनं साधनतामर्हतीति । इहाग्नेयादिष्वपि नार्थापत्त्याशङ्का । न चैवं प्रतिबन्दीसमाधानं - आग्नेयाद्यवान्तरापूर्वयुक्तं अवान्तरव्यापारः अनपेक्षार्थान्तरव्यापारजनितत्वात् । परमापूर्वं तु इतिकर्तव्यतापेक्षया जनितत्वात् नावान्तरव्यापारतामर्हति । तथा करणान्तरापेक्षत्वात् परमापूर्वोत्पत्तेः नावान्तरव्यापारता युक्तेति । यतः प्रसिद्धकरणस्यापि परश्वादेरितिकर्तव्यतापेक्षाऽवान्तरव्यापारजनकता दृष्टा अनेककारणजन्यता चावान्तरव्यापारस्य दृष्टा खड्गपाणिभिः सञ्चरते राजेति । रक्षणं हि तत्र बहूनामवान्तरव्यापार इति नाग्नेयादि वैषम्यम् ।
?R
?R ननु स्वाभिमते समाधानेऽपि साधनसाधनं न साधनं भवतीति न समर्थितम् । यदि नावान्तरापूर्वस्याग्नेयादेरनन्तरिततया साधनत्वमिति न तर्हि साधनसाधनं किमपि स्यात् चिरातीतस्याप्युक्तरीत्या साधनत्वापत्तेः । मैवम् । अत्रेदं दर्शनरहस्यम् । साधनं हि कारणं हेतुरिति यावत् । तच्चानन्तरमव्यवहितमेव । यदनन्तरमेव यन्निष्पद्यते तत्तस्य साधनमिति लोकप्रसिद्धम् । अतो न परमापूर्वे कल्पिते क्रियाया अन्तरितायाः साधनतानिर्वाहः । साधनं च कार्यतया स्वर्गकामः कामित्वरूपेण बोद्धुमलम् अतो यदेवानन्तरिततया सम्भावितमपूर्वं तदेव कार्यं लिङादिभिर्वचनीयम् । अन्यार्थप्रवृत्तकृतिव्याप्यतया करणत्वमेवाग्नेयादीनां युक्तम् । तच्च साध्यभूतफलापूर्वभावनायामेव यदेतत्फलापूर्वयोः करणत्वमिति व्यपदिश्यते । वस्तुतस्तु भावनारूपक्रियायामेव करणकारकान्वयो युक्तः न व्यापारभूतापूर्वफले
?Rप्रति । भावनानन्तरतया च यागस्य तस्यां करणत्वं युक्तम् ।
?R नन्वनन्तरत्वेपि विपरीतमिदम् प्रयत्नरूपभावनात एव यागनिष्पत्तेः न यागस्य तत्र करणता युक्ता;?R मैवम्, यद्यपि प्रयत्नस्वरूपनिष्पत्तौ न यागस्य करणता तथापि फलापूर्वभावनारूपता यागाधीनेति यागस्य भावनायां करणतेति यथा प्रसिद्धकरणस्य परशोरुद्यमननिपातनस्वरूपव्याप्यतयाऽनीप्सितकर्मता । द्विधाभवनफलोद्देशप्रवृत्तयोस्तूद्यमननिपातनयोः फलावच्छेदलब्धद्वैधीकरणव्यपदेशयोः छिदिधातुवाच्ययोः परशुः करणं द्वैधीकरणरूपतायाः परश्वधीनत्वात् । एवं चाग्नेयादीनां फलशिरस्कापूर्वभावनायां करणत्वं उदीच्याङ्गजन्योपकारसहकारिणः कारणत्वावगतेः तदुपकारसमये च यागस्यानवस्थाने सहत्वासम्भवात् । तदधीनभावनात्वासम्भवेऽपि यागजन्यावान्तरापूर्वस्वीकारे साधनसाधनतानुप्रवेशेऽपि न भावनातो व्यवहितमाग्नेयादीनां करणत्वम् ।
?R नन्वेवं स्वर्गकामान्वयोऽपि करणीभूतस्य यागस्यैव कार्यतया भवतु । तथा चापूर्वप्रवेशेऽपि साक्षात्फलभावनाकरणत्वात् यागस्यान्वयो न विरुद्धः;?R मैवम् । न हि कार्यं कृतिसाध्यं कृतिप्रधानभूतभावनाकरणतया काम्यन्वययोग्यं फलभावनाकरणत्वे तस्य गुणत्वापत्तेः कार्यत्वव्याघातात् । एवं तर्हि फलसाधनताऽपि कथं कार्यस्य;?R ? ?Rमैवम्, न हि साधनतया गुणभावः, प्रधानस्यापि स्वामिनः संविधानद्वारेण गर्भदासोपकारे साधनभावसंभवात् । अवगते तु काम्यन्विते कार्ये करणापेक्षायां यागस्य करणतयाऽन्वयो युक्तः ।
?R
?R कथं तर्हि व्रीहीणां यागक्रियायां करणता, व्रीह्यनन्तरं यागानिष्पत्तेः;?R मैवम्, यागार्थप्रवृत्तकृतिव्याप्यतया व्रीहिव्यक्तेः यागभावनात्वस्य च तत्कृतेर्व्रीह्यधीनत्वाच्च
?Rयागभावनाकरणत्वमेव यागं प्रति व्यपदिश्यते । यागस्य हि फलापूर्वभावनाकरणस्य प्रयत्नस्वरूपनिर्वर्त्यतया यागकारकव्रीहिनिर्वृत्तिद्वारेण
?Rयागनिर्वृत्तेः यागभावनायां यागनिर्वृत्यर्थं प्रवृत्तायां युक्तं व्रीहिव्यापित्वम् । व्रीहिव्यापित्वाच्च यागभावनात्वमिति यागभावनायां व्रीहीणां करणतासिद्धौ व्रीहिपर्यन्तता च यागप्रयत्नस्य पुरोडाशपिष्टचूर्णतण्डुलान्तर्भावादिति यागसाधनसाधनता व्रीहीणाम् । यागभावनाकरणता तु साक्षादेव । एवं च जातिवचनत्वाच्च व्रीहिजात्यवच्छिन्नव्यक्तेः यागकृतिव्याप्यत्वात् व्रीहिजातेरपि कथंचित् कृतिव्याप्यता, यागभावनाकरणत्वञ्च । जातिवाचित्वात् व्रीहिशब्दस्य व्रीहिभिर्यजेतेतिवत् जातेरेव करणत्वं शब्दार्थः । जातिवच्च गुणस्यापि गुण्यवच्छेदेन कथंचित् कृतिव्याप्यतया करणत्वम् । तच्च गुणवचनेनारुणयेत्युपदिष्टमिति यथासम्भवं सर्वत्रोहनीयं मुख्यमेव करणत्वमिति । अत एव सस्यार्थप्रवृत्तकृषिव्याप्यत्वात् कृषेः सस्यभावनायां करणत्वं युक्तम् ।
?R
?R यद्यपि सस्यनिष्पत्तिसाधनता तत्साधनान्तर्भावात् कृषेर्व्यवहिता तथापि कृषिरेव कृतिव्याप्यतया साक्षादेव मुख्यं करणमिति । शंय्यौ तु शतयातनानिमित्तत्वश्रुतेरेवापगोरणस्य कृतिव्याप्यतया शतयातनाफलभावनायां करणत्वम् । एवं दुरितापूर्वानुप्रवेशान्तरितत्वेऽपि साक्षादेवापगोरणस्य करणत्वमिति दुरितापूर्वकल्पना न विरुद्धा । तदनुगुणस्तु निषेधनियोगो वाक्यार्थः स्वीक्रियते । यस्तु निषेधातिक्रमेणापगोरणे प्रवर्तते तस्य यातनासिद्धेरुपपन्नं यातनाभावनायामप्यपगोरणस्य करणत्वमित्येषा दिक् । अतः सूक्तं न साधनसाधनं तस्य न साधनमिति । आग्नेयादिवैषम्यञ्च करणत्वेनोक्तरीत्या सिद्धम् । एवञ्च क्रियाया भावनाया वा वाक्यार्थत्वपक्षे स्वर्गादिसाधनतारूपेण लोकानवगतेन तत्प्रतिपादकतया यच्छब्दस्य प्रामाण्यमभिहितं, तदपहस्तितम् । तयोर्वाक्यार्थत्वे
?Rस्वर्गादिसाधनत्वं प्रति प्रमाणान्तरविरोधस्य दुष्परिहरत्वात् । अपूर्ववाक्यार्थत्वपक्षे तु यथा तदधीनं तयोः फलानुकूलत्वं तथोक्तमेव ।
?R
?R विवरणे तु अधिकरणमित्थम् - अपूर्वं न निष्पद्यते । यतः फलं प्रति
?Rकरणीभूतस्य यागस्यापूर्वविषयत्वपूर्वकमपूर्वं प्रत्यपि करणत्वं, तेन चेत्कारणेनापूर्वं निष्पादनीयं तस्यैव क्षणिकस्य कारणत्वानुपपत्तेः, करणं च विना तदनिष्पत्तेः नापूर्वसिद्धिरिति पूर्वः पक्षः । अपूर्वेणैव लिङर्थेन स्वद्वारकं करणत्वं क्षणिकस्यापादयता स्वसिद्धिरापादितेति राद्धान्तः ।
?R?0 ?R ॥ 3 ॥ तानि द्वैधं गुणप्रधानभूतानि ॥ 6 ॥
?R एतदप्यधिकरणं भावार्थस्य विषयताधिष्ठानत्वे निरूपिते तद्विशेषविवेकार्थं न तु गोदोहनादेराप्त्यादिसाध्यकर्मत्वनिर्णयार्थं तस्या प्रक्रान्तत्वात् । आनुषङ्गिकं तदित्युपोद्घातसङ्गतमेव । अत एवावगतमेतत् भावशब्दाः प्रधानकर्मणो वाचकाः इत्यत्र भाष्ये प्रधानशब्दो
विषयताभिप्रायेण व्याख्यातः । तस्यैव भावार्थाधिकरणेऽधिगतत्वात् । तदभिप्रायेण च व्यवस्थोपपत्तेर्द्रव्याद्यपेक्षया प्रधानताव्याख्याने दृषदुपलापेक्षया पेषणादेरपि प्रधानतापातादव्यवस्था । अधिकरणशरीरन्तु सर्वेषामेव भावार्थानामपूर्वविषयता युक्ता, साक्षात्सम्बन्धलाभात् । न च शब्दावगतक्रियाकारकान्वयविरोधः द्वितीयामतन्त्रीकृत्य विचारात्, न तु द्वितीयान्तमतन्त्रीकृत्य, तस्य पूर्वपक्षाविरोधात् । प्रयोजनानुगुण्याच्च । पूर्वपक्षे प्रैय्यङ्गवे चरौ व्रीह्युपादानस्य द्वितीयान्तान्वयाधीनत्वात् ।
?R न च वाच्यं द्वितीयातन्त्रत्वेप्यनीप्सितार्थतया पूर्वपक्षोऽस्त्विति । क्रियाजन्यफलभाग्यर्थत्वे द्रागीप्सिते धीः असम्भवे त्वनीप्सिते, व्यक्तिवाचीव
?Rसन्निहितालाभात् असन्निहितवर्तीत्यनीप्सितेऽपि इह श्रुतिहानमेव । अत एवोत्तराधिकरणेऽपि नानीप्सितार्थतया पूर्वपक्षः, किन्तु करणेऽपि दर्शनादिति लोकावगतचिकीर्षितार्थलोभेन परम्पराश्रयणमन्याय्यं शाब्दव्यवहारे प्रमाणान्तरानवतारादिति पूर्वः पक्षः ।
?R लोके तावदुत्पत्यादिसमर्थस्वभावता पेषणादीनामवगता । तथा च सति
?Rदृष्टस्वभावालोचनेन नियोगान्वये सति नादृष्टाश्रयणं साक्षात्सम्बन्धलोभेन युक्तम् । भावार्थोऽपि स्वभावानुसारि दृष्टं स्वकार्यमाकाङ्क्षति । नियोगोऽपि पदार्थजन्यं दृष्टमुपकारमाकाङ्क्षतीति राद्धान्तः ।
?R विवरणे त्ववगतमेतत् भावार्थाः शब्दाः प्रधानकर्मणो वाचका इति प्रकारान्तरेण व्याख्यातम् । अधिकारविषययोग्यता प्रधानता । सा च नियोगविषयतयैवेति वचनभङ्गीविशेषेणापूर्वविषयतयैव प्रधानताऽभिमता अनधिकारविषयाणामपि समिदादीनां तद्योग्यतास्तीति प्रधानतासिद्धिः । नीचैस्सदोमानादीनान्त्वधिकारश्रवणेऽपि नाधिकारविषयत्वयोग्यता प्रकृताधिकारविषयस्य यागादेरेव नीचैस्त्वादियुक्तस्यैवाधिकारविषयताभ्युपगमात् तदुक्तम् - " ?Rएक एव नियोगः फलभूयस्त्वं तु विशेष " ?Rइति ॥
?R नन्वेकस्यापि यागादेः अधिकाररूपसाध्यभेदोन्नेयानुबन्धभेदो युक्तः । दर्शपूर्णमासयोरिव काम्यनित्याधिकारभेदादनुबन्धभेदः । अतः कथमेको नियोगः । उच्यते । प्रकृताधिकारविषयस्य नीचैस्त्वादियुक्तस्य विषयत्वात् तदनुबन्धताप्रत्यभिज्ञानान्ननियोगभेदः । दर्शपूर्णमासयोस्तु
परस्परनिरपेक्षाधिकारविषयत्वात् न प्रत्यभिज्ञेति विशेषः । एतच्च
?Rवस्तुसामर्थ्यवादितया ‘?R क्रिया विषयो हि स ‘?R इत्यनुसारेणो’?Rक्तम् शब्दबलवादे तु नीचैस्त्वादेरेव विषयत्वमित्यनुसन्धेयम् ।
?R
?R?0 ॥ 4 ॥ धर्ममात्रे तु कर्मस्यादनिर्वृत्तेः प्रयाजवत् ॥ 9 ॥
?R सङ्गतिरस्य पूर्ववत्, पूर्ववद्दृष्टरूपचिकीर्षितार्थाभावात्, द्वितीयाश्रुतेश्च चिकीर्षितार्थत्वव्यभिचारित्वात् । करणेपि दर्शनाल्लोके " ?Rबल्वजान् शिखण्डकान् कुर्वि “?R ति, वेदेऽपि ’ ?Rसक्तून् जुहोती’?R ति न श्रुतेः चिकीर्षितार्थत्वनिश्चयः । अतः प्रयाजादिवत् नियोगविषयतैव पर्यग्निकरणादेरिति पूर्वः पक्षः ।
?R
?R कर्मणि द्वितीयेति तावत् स्मरणं । न च लोके व्यभिचारः बल्वजा एव
?Rतदाकारवन्तो विवक्षिताः विवक्षावगमे च स्मरणमेव शरणम् । सक्तून् जुहोतीति सक्तूनां पूर्वमपूर्वार्थत्वानवगमात् न चिकीर्षितार्थत्वम् ।
?R न चास्मिन्नेव वाक्ये नियोगैक्येन नियोगान्वयः अभावार्थत्वान्नियोगैक्यानवगमात् । अतः प्रयाजादिवद्धोम एवेतिकर्तव्यता तद्द्वारेणैव सक्तूनां नियोगार्थतेति न होमेन तच्चिकीर्षा शक्यावगमा । अत एव तृतीया च होश्छन्दसीति करणे द्वितीयार्थं सूत्रान्तरम् । तच्च यावद्दर्शनमेव द्वितीयामाह । अतो नान्यत्र द्वितीयाश्रवणे द्वितीयार्थत्वानिश्चयः ।
?R अतः श्रुतद्वारकार्यापरित्यागेनैव सम्मार्गादेर्नियोगार्थत्वश्रुतिबलेनैव अदृष्टद्वारकार्यं सिध्यतीति
सिद्धान्तः ।
?R ननु गां ददातीतिवत् किमित्यनीप्सितकर्मता सक्तूनां नेष्यते;?R उच्यते । जुहोतिजन्यफलभागित्वाभावात् । भस्मता तावत् प्रक्षेपमात्रात् प्रहीणत्वञ्चत्यागमात्रात्
?R। द्रव्यदेवतासम्बन्धोऽपि देवतोद्देशेन द्रव्यत्यागमात्रादिति न जुहोतिफलं सक्तुषु जुहोत्यर्थावयवरूपकर्मक्षणजन्यफलैरेव क्रियाक्षणानां विनाशादवयविरूपहोमविनाशसिद्धिः । ददातिस्तु परस्वत्वापादनात्मकत्यागमात्रवचनः तस्य च परस्वत्वोत्पत्तिरेव फलम् । अतो देयस्य तत्फलभागितयाऽनीप्सितकर्मता सम्भवति । प्रयोजनं स्रुगुदाहरणे अनुपपन्नमिति भग्नं वार्तिककृता । यतः पक्षद्वयेऽपि शमीमय्य एव सम्मार्जनीयाः । तथाहि- वरुणप्रघासेषु शमीविधानं न प्रधानार्थमेव युक्तं, स्रुङ्मात्रानुवादेन वाक्येन शमीविधेरङ्गप्रधानस्रुग्गोचरतैव युक्ता । न च प्रकरणात् प्रधानमात्रार्थता, यथा बर्हिर्हविरासादनमात्रानुवादेन वाक्येन विहितमङ्गप्रधानार्थम् । न तु प्रकरणात् प्रधानमात्रार्थम् । अतो नानावृक्षीयस्रुगुपादानं न पूर्वपक्षेऽपीति न प्रयोजनसिद्धिः । तदाहुः -
?R ?R?0 स्रुङ्मात्रानुवादेन शमीमय्यादिचोदितम् ।
?R?0 ज्ञायतेऽङ्गप्रधानार्थं पूर्वसिद्धान्तपक्षयोः ॥ इति ।
?R मैवम् । प्रकृतौ यो विधिः स पदार्थे, नतु कार्ये हविरासादनञ्च पदार्थः, स चोद्देशेन सन्निहितरूपोऽवगम्यते अङ्गगतः प्रधानगतश्च तदुभयावगमानुरोधात् विनियोगसन्निधिबलादुभयनियोगान्वयात् उभयसाधनीभूतहविरासादनपदार्थ एव बर्हिर्विधिर्युक्तः । एवं जुह्वा जुहोतीति सन्निहिताङ्गप्रधानहोमानां जुहोतिपदार्थत्वात् तदनुरोधेनोभयनियोगसाधनीभूते जुहोतौ जुहूविधिर्युक्तः । इत्थमेव चानारभ्याधीतपर्णताविधिरपि प्रकृतौ भवन् तद्गताङ्गप्रधाननियोगसाधनजुह्वादिपदार्थगोचरः ।
?R
?R अथवा अधिकारनियोगगृहीतं बर्हिः अङ्गप्रधानार्थपदार्थे श्रुतमपि अधिकारनियोगोपकारकाङ्गप्रधानगतपदार्थेन संबद्धमपि अधिकारनियोगार्थमेव,
?Rनाङ्गार्थं प्रधानोपकारकत्वरूपेणाङ्गप्रधानपदार्थार्थत्वात् इत्युभयथापि पदार्थविधेरङ्गप्रधानार्थत्वात् बर्हिर्विधिरङ्गप्रधानार्थो युक्तः । विकृतौ तु कार्ये क्लृप्ते करणोपकारे तदनुगुणे च क्लृप्ते पदार्थावान्तरकार्ये पदार्थविधिः, कार्यार्थत्वात् पदार्थविधेः । क्लृप्तकार्यसंभवे कल्पनानुपपत्तेः । प्रकृतौ तु पदार्थविध्युत्तरकालं कार्यकल्पनेति पदार्थे विधिर्युक्तः । प्रतिपदार्थविधानं च कार्यकल्पना कार्यपर्यन्तत्वात् पदार्थविधेरिति दर्शनरहस्यम् ।
?R एवं स्थिते विकृतौ शमीविधिः स्रुक्शब्दोपस्थापिते कार्ये भवन् जुह्वा जुहोतीति उपदेशकल्पिताङ्गप्रधानहोमनिर्वृत्तिरूपे कार्ये भवति, न तु स्रुचस्सम्मार्ष्टीत्युपदेशान्तरकल्पिते कार्यान्तरेऽपि । शमीविधिर्हि प्राकृतपर्णतादि बाधमानो निविशते, उपदेशार्थसम्पत्तये च बाधोऽभ्युपगम्यते । उपदेशश्चायं कार्यविषयः । स चैकस्मिन्नेव कार्ये भवितुमर्हति । न च स्रुक्च्छब्दस्यैककार्योपस्थापने स्रुगर्थताहानं,
स्रुगुपस्थापितकार्यपरिग्रहणात् । न
?Rचोपदेशार्थसङ्कोचपरिहारार्थं बाधो न्याय्यः, षड्भिर्दीक्षयतीति प्राकृतवैकृतमन्त्राणां समुच्चयाभावप्रसङ्गात् ।
?R नन्वेवं यदि विकृतावपि पदार्थे विधिर्भवेत्, तथाप्यङ्गप्रधानान्यतरसाधनीभूते पदार्थे विधानात् उपदेशार्थसिद्धेरन्यतरत्र विधिर्युक्त एव । किमर्थं विकृतौ कार्ये विधिरिति कीर्तितम् ? ?Rमैवम्, नान्यतरत्र विधानसंभवार्थमुक्तम् विकृतौ कार्ये विधिरिति, किन्तु परमार्थतस्तावत् कार्ये विधिः, स च यथैकोपदेशोपकल्पिते कार्येऽङ्गप्रधानहविरासादननिर्वृत्तिरूपे वैकृतश्शरविधिः, तथाऽत्रापि भवत्विति शङ्कानिराकरणार्थमित्युक्तम् । युक्तम् शरविधौ एकत्वात् तत्र कार्यस्य कार्यावयवे च विकृतौ विधानासंभवात् । इह तु प्रकृतावुपदेशभेदात् कार्यभेदेऽन्यतरकार्ये विधिर्भवितुमर्हति इति । न चायमन्यतरकार्येविधिः प्रधानसम्बन्धिनि कार्ये युक्तः,
?Rप्रधानस्य प्रकरणात् ।
?R ननु च बाधभयेन चेदेककार्ये विधिस्तद्वरमङ्गकार्ये भवतु । प्रधानधर्मबाधादङ्गधर्मबाधो न्याय्यो यतः । मैवम् । बाध एव कुतः ? ?Rउपदेशबलादिति चेत्तर्हि प्रधान एव प्रकरणवशात् । तत्र ह्युपदेशो मुख्यः । तत्रासम्भवादङ्गमात्रे जघन्योऽन्याय्यो यतः । तदेवं प्रकृतौ प्रधाने य उपदेशः तस्याङ्गप्रधानार्थहोमाभिनिर्वृत्तिरेव कार्यम्, तत्र चेच्छमीविधिः प्रयाजादिजुहोतावपि न वारयितुं शक्यः । एतेनैतन्निरस्तम् ।
?R ?R?0 यदि प्रधानमात्रेण शमीमय्यादिसङ्गतिः ।
?R?0 प्राकृत्यस्ते प्रसज्यन्ते प्रयाजादेः स्रुचस्ततः ॥ इति ।
?R पूर्वपक्षे तु सम्मार्गार्थेन प्रकृतावुपदेशान्तरेण कार्यान्यत्वात् न तत्र शमीविधिरिति सूक्तं पूर्वपक्षे नानावृक्षीयाः स्रुचः उत्पाद्यास्सम्मार्गार्थत्वेन इति ।
?R नन्वेवमपि पर्णताकार्ये स्रुक्छब्दोपस्थापिते शमीविधिः एकेन चाङ्गप्रधानार्थेन पर्णतोपदेशेनाङ्गप्रधानस्रुङ्निवृत्तिरूपमेकमेव कार्यं क्लृप्तम् । तत्र शमीविधौ
?Rसम्मार्गेऽपि शम्येवेति न प्रयोजनसिद्धिः । मैवम् । यत एव सम्मार्गेऽपि । नानावृक्षीयबाधः पर्णतादिकार्ये लक्ष्यमाणे अत एव बहुविषयबाधपरिहाराय स्रुक्कार्ये लक्षणा युक्ता । किञ्च स्रुक्छब्देन हि पर्णतां स्रुगर्थसम्बन्धिनीमुपस्थाप्य पर्णतासंबन्धिकार्यं लक्षणीयम् । तथासति सम्बन्धसम्बन्धिनोर्व्यवहितस्य लक्षणा स्यात् । अतोऽव्यवहितस्रुगर्थसम्बन्धिनि कार्ये लक्षणैव युक्ता ।
?R ननु स्रुक्कार्ये विधेः स्रुगर्थबाधः स्यात् । तन्न । शमीमय्य इति मयटः श्रुतेः शमीविकारं स्रुक्कार्यं कुर्यादित्यर्थः । पर्णतादितुल्या शमीसाक्षाद्विकारं श्रुतं दृष्टं कार्यं
?Rक्लृप्तञ्च स्रुग्रूपं द्वारीकृत्य विकरोतीति न स्रुग्बाधः । शरविकारता तु न बर्हिर्द्वारिकेति न तद्बाधः तत्वार्थः ।
?R केचित्तु स्रुक्कार्यस्य भावार्थत्वात्तद्विषयत्वाच्च विधेः तल्लक्षणैव युक्तेति वदन्ति । तन्न । पर्णताकार्यपरे हि स्रुक्शब्दे परम्पराश्रितभावार्थोऽपि गुणे विधिरदोषः । यत्तु पर्णतादिकार्ये विधिमुपेत्यैव समाधानं - उपदेशैक्येऽपि पर्णताकार्यमनेकम् ।अनारभ्याधीता हि पर्णता, केनापि प्रकरणिना न गृहीता । जुहूद्वारा तु जुहूमदपूर्वार्था । जुहूस्तु प्रकरणाधीता प्रकरण्युपकारकाङ्गप्रधानहोमद्वारा प्रकरण्यर्था । संमार्गस्रुचां तु स्रुग्वाक्यबलात् संमार्गापूर्वार्थता । एवं जुहूकार्यं द्विधा सिद्धम् । तत्प्रकरणे च शमीविधिः । प्रकरणिनः कार्ये होमद्वयकारकजुहूरूपे, न तु सम्मार्ग साधनरूपे । बर्हिः कार्यं तु न द्विधा, प्रकरणमात्रगृहीतत्वाद्बर्हिषः ।
?R
?R तन्न । पञ्चिकोक्तियुक्तिविरोधात् । एकविधिकल्प्यमेकं कार्यमिति यदुक्तं तदनारभ्यविधावपि इति । युक्तिश्च कार्यनानात्वपुरस्कारेण विधेरावृत्तिः स्यादिति । नानारूपतिरोधानादेकीकृतं विधेः कार्यं, अन्यथा शरविधिकल्पबाधनार्थं अङ्गप्रधानसाधनभेदमाश्रित्य प्रधानासादन एव स्यात् ।
?R किञ्च प्रधानमात्रार्थं बर्हिः, उपकारकासादनद्वयद्वारकमित्यस्मिन् प्रकारे च
?Rप्रधानासादने शरविधिर्न स्यात् प्रधानार्थतद्वारभूताङ्गासादन एव स्यात् । एवं हि प्रधानमात्रार्थोऽपि विधिः । न च तत्रातीव बाध इति लाभः । ननु स्रुक्कार्ये प्रधानसंबन्धिनि शमीविधिरित्यपि स्थापिते प्रधान एव जुह्वा जुहोति स्रुवेणावद्यति इति उपदेशभेदे कार्यभेदात् कस्मिन् कार्ये शमीविधिरिति वाच्यम् । उच्यते । यदि विधिशेषो न गृह्यते तदा प्रधानवर्तिनि सर्वस्मिन्नेव कार्ये । अथ विनिगमनायां
?Rहेतुरस्ति तदैकस्मिन्नेव प्रधानकार्ये न त्वङ्गकार्ये इति तावन्निर्विवादम् ।
?R ननु यथा सौमिकी महावेदिरुपात्ता उपादानप्रसङ्गादैष्टिकवेदिकार्यकरी तथा प्रधानार्थोपात्तशम्यादिस्रुग्भिरेव उपादानप्रसङ्गात् सम्मार्गः करिष्यते इति न सम्मार्गं प्रति प्रकृतिवृक्षादरः इति न प्रयोजनसिद्धिः । मैवम् । प्रयोगवचनाक्षिप्ते प्रयोगे यदन्तः पतितं तत् तत्प्रयुक्तिमुपजीवतीति प्रसङ्गसिद्धिः । उपादानमपि यद्विधिप्रयोगविधिकारितं तदुपजीवितया उपादानप्रसंगो वेद्यादौ । इह तु स्रुचां प्रयोगात् बर्हिरुपादानं पुरुषेण क्रतुसिद्धये क्रियत इति न प्रयोगवचनाधीनमुपादानम् यथा द्रव्यार्जनं क्रतवे क्रियमाणमपि पुरुणेण न क्रतुप्रयुक्तम् । अतो नायं प्रसङ्गस्य विषयः ।
?R केचित्तु वेदिप्रसङ्गवैषम्यमेवमाहुः हविरासादनं हि वेदिकार्यं, आसादनं च संस्कारकर्म । न च तत्प्रयुक्तस्तद्धर्मः । किन्त्वपूर्वप्रयुक्तः । तेन तद्धर्माभावेऽपि वेदिसाध्यमासादनं परिमाणान्यत्वेऽपि महावेद्यामुपपद्यत इति वेदिप्रसङ्गो युक्त इति । इह तु सम्मार्गोऽपूर्वविषयः तदपूर्वप्रयुक्तः तद्धर्म इति स्रुक्प्रकृतिभूतपर्णतादिनानावृक्षाभावे तदपूर्वसाधनीभूतसम्मार्गाभावेन नापूर्वसिद्धिरिति न शमीस्रुचां सम्मार्गप्रसङ्ग इति । तच्चिन्त्यम् । परिहारान्तरं वर्णयन्ति - सत्यपि प्रसङ्गे सायंप्रातरग्निहोत्रार्थं नैमित्तिकनानाकर्मार्थं च नानावृक्षीया अपि स्रुच उपात्ता एवेति न सम्मार्गार्थेन अपरमुपादानं तत्प्रसङ्गादेव सम्मार्गस्रुग्लाभादिति । अस्मिंश्च परिहारे भाष्यमसमञ्जसम् । नानावृक्षीया एवोत्पाद्या इति । नानावृक्षीया एवोपादेया इति हि तदा वक्तुमुचितम् तथा अग्निहोत्राद्यर्थं स्रुगपचारेऽपि शमीमय्य एव प्राप्नुवन्ति न नानावृक्षीया इति ।
?R तथा प्रसङ्गमङ्गीकृत्यैव केनचित् प्रकल्पितम् - प्रधानोत्तरकालं हि
?Rसम्मार्गानुष्ठानं तत्र कृते प्रधाने दैवात् स्रुगपचारे सम्मार्गार्थं स्रुगुपादाने नानावृक्षीयोपादानात् प्रयोजनसिद्धिरिति । तदयुक्तम् - भाष्ये अपचारे सतीत्यध्याहारापत्तेः । सम्मार्गानुष्ठानञ्च प्रधानोत्तरकालमित्यत्रापि न मानम् ।
?R ननु प्रकरणात् प्रधानस्य शमीविधिरित्यत्र निदर्शनं कृतं, यथा सहस्र दक्षिणादयः प्रधानदक्षिणाया इति । तदयुक्तम् । सहस्रदक्षिणा अहीनानामिति वाक्येनैव प्रधानभूताहीनान्वयात् । उच्यते । दक्षिणायाः प्रयोगाङ्गत्वादहीनसंयोगेन श्रवणेऽपि सामर्थ्यात् साङ्गप्रधानाहीनाङ्गं प्राप्नोति न प्रधानमात्राङ्गम् ।
?R कथं तर्हि प्रकरणादपि प्रयोगाङ्गस्य प्रधानमात्राङ्गता, उच्यते । कार्ये विधिर्हि प्रधानकार्ये क्लृप्तेऽङ्गकार्ये वाऽन्यतरत्र भवत् प्रकरणात् प्रधानकार्य एव भवतीति अस्मादेव न्यायानुसन्धानात् सहस्रं प्रधानस्य ।
?R तथाहि प्रकृतौ सोमे दीक्षणीयाद्यङ्गे एवैष्टिकी दक्षिणप्राप्ता । दक्षिणा च भिन्ना कर्तृभेदद्वारेणाङ्गप्रयोगं प्रधानप्रयोगात् भिनत्ति । सोमस्य दक्षिणेति तु वाक्यात् सोमान्वयावगतेः प्रधानमात्रप्रयोग एव भवतीति न सोममहाप्रयोगे पतति । प्रकरणाविरोधेऽपि सोमशब्दानुरोधात् । तेन सोमेऽप्यवान्तरप्रयोगभेदात् दक्षिणाकार्यद्वयं क्लृप्तम् तद्विकृतावप्यहीने क्लृप्तबहुबाधभयात् महाप्रयोगकार्यहानात् अवान्तरे सहस्रमेकस्मिन् कार्येऽवतरत् प्रकरणात् प्रधानकार्ये सहस्रे प्रकृत्यधीतेऽनारभ्याधीते वा अहीनमात्रेऽन्वयार्था अहीनानामिति श्रुतिः न प्रधानान्वयार्थापीत्यनुसन्धेयम् ।
?R ननु यदि प्रकरणादेव प्रधानान्वयः कथं तर्हि यज्ञाथर्वणकाम्येष्टावुपांशुत्वं
?Rवाक्यबलेन प्रधानार्थमुक्तम् । उच्यते । उपांशु प्रचरन् कर्ता सुखमनुतिष्ठतीति कर्तृद्वारकमुपांशुत्वं प्रयोगाङ्गं सत् अङ्गप्रधानार्थं प्राप्नेति । न ह्यत्र प्रधानप्रयोगाद्भिन्नोऽङ्गप्रयोगः दक्षिणादिभेदाभावात् । अतः काम्येष्टिसंयोगेनोपांशुत्वोपदेशात् उपदिष्टप्रधानमात्रार्थ एवोपांशुत्वमिष्यते । आतिदेशिकस्याङ्गजातस्य विलम्बेन प्रतीतेः प्रधानप्रयोगावच्छेदेनोपांशुत्वमन्वेति । तेनोच्यते वाक्यात् प्रधानमात्रान्वितमुपांशुत्वमिति । एतच्च यज्ञाथर्वणाधिकरणे निरूपितम् । ऋत्विक्कार्ये यजमानविधौ यत् सत्रप्रयोगात् ऋत्विङ्निवृत्तिः तत्रापि सर्वप्रयोगाङ्गतैवर्त्विजां हेतुः । किञ्च ऋत्विक्कर्तृतया स्वामिकर्तृतानिर्वृत्तिः सामान्यतः कार्यम् । आध्वर्यवाद्युपदेशकार्यं अङ्गप्रधानाश्रयस्वामिकर्तृतानिर्वृत्तिः । अतः ऋत्विक्कार्ये यजमानविधेः सर्वथा ऋत्विङ्निवृत्तिः । अतः स्रुगाद्युदाहरणे प्रयोजनं सिद्धम् । अग्न्युदाहरणे त्वपूर्वत्वादवमृथस्याग्निप्राप्तिरेव नास्तीति नाग्न्युपादानं सम्मार्गार्थम् । परिध्युदाहरणेऽपि बाणवद्विधानेप्यस्य अपरिधित्वात् पलाशगुणलोपेन वा बाणवत् सम्मार्जनमेवेति न प्रयोजनसिद्धिरुदाहरणद्वयेऽपि नोदाहरणमादरणीयमेवेति समाधानम् । पुरोडाशोदाहरणेत्वौषधप्रकृतिकपिष्टव्यक्त्यभिव्यङ्ग्यत्वात् पुरोडाशाकृतेः पर्यग्निकरणार्थं तद्व्यक्त्युपादानमिति प्रयोजनमुपपन्नमेव ।
?R
?R?0 । 5 । स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वात् । 13 ।
?R एतदप्यधिकरणं विषयत्वाधिष्ठाननिरूपणादुपोद्घातेन सङ्गतं वदन्नेवञ्जातीयकं सर्वमेवोपोद्घातेन सङ्गतं न त्वाद्यमात्रमिति पञ्चिकाकारो दर्शयति - अत्र पूर्वपक्षः स्तौतिशंसती प्रगीताप्रगीतमन्त्रसाध्यगुण्यवच्छिन्नगुणाभिधाने । अतो गुण एवाभिधेयतात्पर्यं गुणिगतं तु गुणाभिधानमिति गुणिनोऽपि प्रतीतिः । गुणिनस्तु कार्यान्तरसाधनत्वात् तत्प्रकाशनं प्रयोजनम् । अतः चिकीर्षितार्थत्वं स्तौतिशंसत्योः
?R ननु हविर्भागितारूपेण स्मृते प्रयोजनम् । इह तु गुणभागित्वेन गुणिप्रतीतिरिति कथं तत्प्रत्यभिज्ञानम् । मैवम् । गुणिस्वरूपेणावगते तदवस्था हविर्भागितापि प्रतीयत एवेति -
?R राद्धान्तस्तु गुणभागित्वं हविर्भाक्त्वविपरीतं मन्त्रादवसीयत इति न स्वभावतो वा श्रुतितो वा चिकीर्षितार्थता ।
?R ननु पशुपुरोडाशमन्त्रोऽपि पुरोडाशहविर्भागितयाऽग्नीषोमौ अवगमयतीति न पशुहविर्भागितावगतिरिति कथं प्रत्यभिज्ञा । मैवम् । उद्देश्यतया स्मृता देवतोद्देश्यतयाऽनुष्ठेयेति देवतांशे प्रत्यभिज्ञा । हविर्विशेषस्मरणन्तु हविरनुष्ठानोपयोगीति यावदर्थो मन्त्रस्तावतस्तत्र प्रत्यभिज्ञा । इह तूद्देश्यतयैव मन्त्रान्नप्रत्यभिज्ञायत इति राद्धान्तः ।
?R केचित्तु राजामात्यादिस्तुतेः स्तुत्यार्थत्वदर्शनात् पूर्वपक्षयन्ति । तदयुक्तम् राजादिप्रीत्यर्थत्वात्तत्र स्तुत्यार्थत्वं भवेत् । इह तु देवताप्रीत्यर्थत्वासम्भवात् न स्तुत्यार्थतेति । अत्र चिकीर्षितार्थत्वेन ऐन्द्रीस्तुतिः माहेन्द्रग्रहयजेः क्रमे महेन्द्रप्रकाशनासमर्थेत्यर्धवैशसहानाय रतुत्यार्थत्वेन स्तुतेरेकरूपत्वोपगमे स्थिते उत्कृष्येतेति प्रधानतैव स्तुतेर्युक्तेति राद्धान्तैकदेशी । पूर्वपक्षैकदेशी तु इन्द्रमहेन्द्रयोरेकत्वादनुत्कर्षमाह, समानाधिकरणसमासबलाद्धि महत्पदमपीन्द्रार्थमात्रे प्रयुक्तं न महत्त्वयुक्तपरमिति इन्द्रमात्रं देवता । एवमुत्तरपदार्थप्रधानतासिद्धिः इन्द्रप्रधानार्थमात्रान्वयात् । राद्धान्तैकदेशी तु न सर्वथा एकार्थतां समानाधिकरणतामाह । किन्त्वेकार्थगतार्थताम् । प्रधानतापि न तन्मात्रान्वयिता । किन्त्वन्यस्य तद्द्वाराऽन्वयिता । सा च यथासंभवं समानाधिकरणविषये
?Rकार्यान्वयिता । अन्यत्र राजपुरुषादौ प्रतीत्यन्वयितेति विशिष्टैव देवता नेन्द्रमात्रम् । एतच्च परिहारविभवादुक्तम् । इन्द्रमात्रपक्षेऽपीन्द्रमहेन्द्रपदार्थतयैव देवतात्वमित्यशक्यमेव देवतैक्यम् ।
?R किञ्च सावयवत्वे मानाभावादखण्ड एव महेन्द्र इति दूरतो देवतैक्यं;?R
?Rनीलोत्पलादिसमनोक्तिस्तु सखण्डतामुपेत्य गुरोः । तत्र यद्यपि सावयवत्वान्महत्त्वगुणयुक्त इन्द्रो महेन्द्रः तथापि देवतात्वं येनैव निर्देशेन तच्छब्दपर्यवसितं तदिति नेन्द्रस्तुतिर्महेन्द्रस्य ।
?R वस्तुतस्तु निरवयव एव महेन्द्रो देवता सावयवत्वे प्रमाणाभावात् सुतरां स्तुत्यार्थस्य यजिदेवतायाश्च भेदः ।
?R परमपूर्वपक्षी तु लिङ्गादुत्कर्षे संस्कारार्थत्वेऽप्यविरोध इत्याह । अत्र तन्त्रवार्तिके -
?R?0 अथ वाऽर्थैकदेशोऽयं समासार्थप्रकाशनम् ।
?R?0 करिष्यत्यविरोधाय मनोतास्थाग्निशब्दवत् ॥
?R इत्येकदेशेनेन्द्रशब्देन महेन्द्रप्रकाशनात् नोत्कर्षः स्तुतेरित्युक्तम् । तदयुक्तम् । गुण्यभिधानपरो हि मनोतामन्त्रः । अतस्तात्पर्यबलादेकदेशद्वारेणाग्नीषोमाभिधानपरः । इह तु गुणाभिधानपरस्य सतो गुणिप्रत्यभिज्ञया संस्कारकता । नान्यथा ।
?R किञ्च तत्राग्निसहचरितः सोमोऽग्निप्रतीत्या प्रतीयत इति युक्तम् । इह तु नेन्द्रस्य निरवयवमहेन्द्रसहचरिततेति न तदुपस्थापनम् ।
?R विवरणे तु स्तुतेः प्रधानत्वेऽपि आश्रयिनयात् देवतासंस्कारार्थतेति विफला चिन्तेत्याशङ्क्य स्तुतावभिधा गुणपरा । गुणिपरत्वे स्तुतित्वहानिः । आश्रयिषु तु गुणिपरो मन्त्र इति निरस्तम् । गुणकर्मत्वे अभिधा गुणपरा । गुणिधीः प्रयोजनमिति न स्तुतित्वहानिः । यदि प्रत्ययार्थान्वितो महत्वान्वयीन्द्रः तदा महैन्द्र इति स्यात् । न च गुणकर्मपक्षे
भेदनिर्देशो युक्त?Rः;?R न हि तत्र कार्यैक्ये शास्त्रभेदो वाक्यभेदमात्रान्न शास्त्रभेद इति न सम्यक् भेदः । इतरत् टीकयोः सुगमम् ।
?R
?R ?R?0 ॥ 6 ॥ विधिमन्त्रयोरैकार्थ्यमैकशब्द्यात् ॥ 30 ॥
?R विनियुक्ते मन्त्रे अप्रतिबद्धविधेयार्थो भावशब्दो लिङादियुक्तः किं विधायको
?Rनेति चिन्ता । तत्र ब्राह्मणविधेयाभिधायकत्वेन विनियोगात् मन्त्रस्य;?R विधायकत्वेन च तदर्थतावगतेर्विधायकता । न च विधाने विधेयार्थत्वात् ब्राह्मणार्थस्मारकत्वाभावेन विनियोगविरोधः । तत्समानार्थतानिमित्तत्वाद्विधेर्न स्वनिमित्तभूततदर्थत्वबाधकता युक्ता ।
?R ननु तदर्थत्वं विधानञ्चेति कथम् ? ?Rमैवम् । अप्राप्ते स्वरसाद्विधानं युक्तम् । तदभिधायकत्वेन विनियोगबलात्प्राप्तेऽपि युक्तम् । यथा धारावाहिकं प्रमाणज्ञानम् । न च प्राप्तेऽनर्थको विधिः प्राप्तस्यैव प्रयोगे प्रकाशनार्थत्वादिति पूर्वः पक्षः ।
?R प्राप्तेविधिरशक्य इति विधिसामर्थ्यादप्राप्तगोचरता । तदा च तदर्थतया विनियोगनिरोधः स्यात् । विनियोगतश्चेत्तदर्थता विहिताभिधायकतयैव सा । धारावाहिकं तु सिद्धविषयं प्राप्तेऽपि युक्तम् । न चानधिगतार्थगन्तृ प्रमाणम् । इह तु विनियोगबलात् विधिप्रतिबन्धो यद्यादिभिरिवेति सिद्धान्तः ।
?R केचित्तु पूर्वपक्षयन्ति - विधानबलादन्यार्थत्वेऽपि व्यक्त्यन्यत्वं
?Rब्राह्मणविहितेन सजातीयतया च तत्स्मारकत्वमिति । तच्चिन्तनीयम् । कथं विहितेन सजातीये विहितविपरीते विहितार्थता मन्त्रस्य सेत्स्यतीति । शेषं सुगमम् ।
?R ?R?0 ॥ 7॥ तच्चोदकेषु मन्त्राख्या ॥ 32 ॥
?R मन्त्रलक्षणमयुक्तमनुपयुक्तं च । अनुपयुक्तं तावत् अनुष्ठेयार्थस्मारकेषु वाक्येषु भावशब्दोऽभिधायक इति निरूपिते मन्त्रलक्षणापरिज्ञानेऽपि न क्षतिः । अयुक्तता चास्याव्यापितया तच्चोदकतायाः । अतः स्मारकवाक्ये वाच्ये मन्त्रशब्दः सूत्रे कथं प्रयुक्त इत्याशङ्कायां तच्चोदकेषु मन्त्रशब्दप्रयोगदर्शनात् अभियुक्तानां प्रयुक्त इत्युक्तम् । यद्यप्यतच्चोदकेष्वपि वसन्ताय कपिञ्जलानालभेतेत्यादिषु मन्त्रशब्दोऽस्ति तथापि तच्चोदकेषु तावन्मन्त्रशब्दोऽव्यापीत्यविरोधः । संप्रति सुहृद्भावेन प्रश्नः यद्येतन्न मन्त्रलक्षणं कथं तर्हि मन्त्रशब्दार्थव्युत्पत्तिः । उच्यते । संहितादिग्रन्थान्तर्भावाद्युपाधित इत्यनुसन्धेयम् ।
?R ?R?0 ॥ 8 ॥ शेषे ब्राह्मणशब्दः ॥ 33 ॥
?R अत्राप्यनुपयुक्तं अयुक्तञ्च लक्षणकरणं पूर्ववदिति । सूत्रे तु विधिशब्दो ब्राह्मणपर्यायः प्रयुक्तः, अतच्चोदकेषु कथमिति जिज्ञासायां अभियुक्तप्रयोगादित्युक्तम् । सम्बन्धग्रहस्तु ग्रन्थविशेषान्तर्भावात् पूर्ववदित्यनुसन्धेयम् ।
?R ?R?0॥ 9 ॥ अनाम्नातेष्वमन्त्रत्वमाम्नातेषु हि विभागः ॥ 34 ॥
?R ऊहपदं यजमाननामपदं, प्रवरपदञ्च यत् प्रक्षिप्यते तत् पदं किं मन्त्रात्मकं नेति चिन्ता । मन्त्रेण यत् कार्यं कर्तव्यं तत्कर्तुं ते प्रक्षिप्यन्ते अभियुक्तैः । अतो मन्त्रत्वमभिमतमभियुक्तानां, ननु मन्त्र एव स्वकार्यं कुर्वन्नूहादिभिरनुगृह्यते । न चानुग्राहकत्वेनाङ्गीकारे मन्त्रता अङ्गीकृता भवति । अमन्त्रस्यापि वायुताल्वादेस्तदनुग्राहकत्वात् । मैवम् । विपरीतमत्र । ऊहादिर्हि
?Rसाक्षान्मन्त्रकार्यपरः, अवशिष्टपदजातमनुग्राहकमुपलभ्यत इत्यूहादेर्मन्त्रतैवेति पूर्वः पक्षः । अभियुक्तास्तावन्न साक्षादूहादौ मन्त्रशब्दं प्रयुञ्जते । किन्तु मन्त्रकार्यकरत्वादनुमतिरुन्नीयते । कार्यन्तु मन्त्रेणैव कर्तव्यमिति शास्त्रादवगतं तत्सिध्यर्थं प्रक्षिप्यमाणस्य साक्षात्कार्ये व्याप्रियमाणस्याप्यनुग्राहकत्वमेव स्वामिसंस्काराणामिवेत्यमन्त्रत्वमेवेति राद्धान्तः । शेषं सुगमम् ।
?R
?R?0 ॥ 10 ॥ तेषामृग्यत्रार्थवशेन पादव्यवस्था ॥ 35 ॥
?R मन्त्रो ब्राह्मणञ्च वेदशब्दस्यार्थ इत्युक्ते तत्प्रसङ्गाच्छङ्का निराक्रियते । वेदशब्देन ऋगादयो व्यपदिश्यन्ते मन्त्रशब्देन च अहे बुध्निय मन्त्रं मे गोपायेति । तत्र वेदप्रभेदो मन्त्रपर्याय एव ऋगादिः न तु तद्विशेषः । व्यवस्थानिमित्तानुपलब्धेरिति शङ्कायामुच्यते - मन्त्रविशेष एव ऋगादिः । तत्र ऋक्तावद्यत्र पादव्यवस्था सा मन्त्रविशेष एव । एतच्चाभियुक्तप्रयोगकथनमेव न
?Rलक्षणकरणम् । अत एव सूत्रेऽर्थग्रहणं प्रदर्शनार्थम् । वृत्तवशेनापि पादव्यवस्थोपपत्तेः ।
?R ?R?0 ॥ 11 ॥ गीतिषु समाख्या ॥ 36 ॥
?R प्रगीते मन्त्रे सामशब्दोऽभियुक्तानाम् । अन्वयव्यतिरेकाभ्याञ्च गीतिमात्रवचनता । न च गीतिक्रिया मन्त्रः । अतः कथं मन्त्रप्रभेदः सामगीतिश्चेति शङ्का निराक्रियते । सत्यं गीतिमात्रवचनः सामशब्दो, गीतियुक्ते मन्त्रे लक्षणया प्रयुज्यते अभियुक्तैश्चन्दनादिष्विव स्वर्गशब्दः । अतः शब्दप्रयोगविषयत्रैविध्यात् त्रिविधो मन्त्रः । अन्वयव्यतिरेकाभ्यां च गीतिरेव सामेति । शेषं सुगमम् ।
?R ?R?0 ॥ 12 ॥ शेषे यजुश्शब्दः ॥ 37 ॥
?R यजुश्शब्दः कुत्राभियुक्तैः प्रयुज्यत इत्याकाङ्क्षायां अभिधीयते - अपादबन्धे
?Rअप्रगीते च मन्त्रे यजुश्शब्दोऽभियुक्तानाम् । अतः सिद्धं मन्त्रत्रैविध्यम् अभियुक्तप्रयोगप्रतिपत्तिभ्यामिति ।
?R ?R?0॥ 13 ॥ निगदो वा चतुर्थः स्याद्धर्मविशेषात् ॥ 37 ॥
?R अपादबन्धत्वाप्रगीतत्वेऽपि यजुर्भ्योऽन्ये निगदा अध्येतॄणां निगदा वर्तन्ते न यजूंषीत्यन्यत्वव्यपदेशात् । ननु वेदे त्रैविध्यव्यपदेशान्निगदानां न व्यपदेशभेदोऽस्ति । मैवम् । प्रश्लिष्टपठितपरो गौणो यजूंषीति व्यपदेशः निगदविषयोऽपि युक्तः यजुरन्यत्वेनाध्येतॄणां व्यपदेशात् । ननु परसंप्रबोधनसामर्थ्यनिबन्धनोच्चैष्ट्वधर्मविशेषाधीनप्रकर्षनिमित्तको भेदव्यपदेशः;?R मैवम्, उपांशु यजुषेत्युपांशुत्वधर्म विनियोगानुसारेण केवलनिगदमन्त्रसामर्थ्याधीनपरसंबोधनकार्यहानान्न प्रकर्षात् भेदव्यपदेशसिद्धिः । ननु चोच्चैर्निगदेनेति विशेषवचनात्, सामान्यविहितोपांशुत्वबाधात् उच्चैष्ट्वं युक्तम् । मैवम् - सामर्थ्यत उच्चैस्त्वे प्रसक्ते “?R उपांशु यजुषे " ?R त्युपांशुत्वप्रसक्तौ तदपेक्षत्वादुच्चैस्त्वविधेः उपांशुत्वोच्चैष्ट्वयोः विकल्पः स्यात् । यदा त्वन्ये
?Rनिगदास्तदा नोपांशुत्वं परसंबोधनकार्यविरोधि, तदो”?Rच्चैर्निग?Rदेने” ?Rत्यनुवादादुच्चैष्ट्वप्रकर्षात् भेदव्यपदेशसिद्धिः विकल्पविरहश्च ।
?R ननु यजुष्ट्वेऽपि निगदस्योपांशुत्वं विधिवैषम्यभयान्निगदेतरयजुर्विषयं युक्तम् । निगदेषु हि परसम्बोधनकार्यप्राप्तोच्चैस्त्वबाधसापेक्षत्वात् यजुरन्तरे निरपेक्षत्वादिति न विकल्पः, मैवम्, उपांशुत्वविनियोगात्पूर्वमप्राप्तेश्चोच्चैस्त्वस्य न बाधसापेक्षतेति युक्तो विकल्पः। न च विकल्पेऽपि पक्षप्राप्तमुच्चैस्त्वं प्रकर्ष इति भेदव्यपदेशसिद्धिः, पाक्षिकप्रकर्षात् नित्यभेदव्यपदेशासमर्थनात् । अतो भेदव्यपदेशात्परसम्बोधनकार्यविरोधित्वात्, विकल्पप्रसङ्गाच्च, यजुर्भ्योऽन्ये निगदा
?Rइति पूर्वः पक्षः । यजूंष्येव निगदाः । वेदे तावत् त्रिधा व्यपदेशासामञ्जस्यात् अध्येतॄणामन्यत्वव्यपदेशश्च सामर्थ्यत उच्चैष्ट्वप्रकर्षात् " ?Rउपांशु यजुषे " ?Rति हि यजुश्शब्दः सामान्यशब्दः । स चो " ?Rच्चैर्निगदेने " ?R ति विशेषपदसन्निधानात् तदितरविशेषान्तरपर इति लोकव्युत्पत्तेर्युक्तम् । यथा गामानय बलीवर्दञ्चेति गोशब्दो बलीवर्देतरविशेषपरः । अतो निगदेतरयजुष्वेवोपांशुत्वं सामर्थ्यप्राप्तञ्चोच्चैस्त्वं निगदानां उच्चैर्निगदेनेत्यनूद्यते । अतो न परसंबोधनकार्यबाधः, नापि विकल्पः । व्यपदेशान्यत्वसिद्धिश्च । अतो यजूंष्येव निगदा इति राद्धान्तः ।
?R ननु गोबलीवर्दन्यायोऽत्र न सम्भवति । यत्र हि सामान्येन विशेषेण च संबद्धः एकपदार्थो विधेयः तत्र स न्यायः । इह तु सामान्येनान्यद्विधेयं अन्यच्च विशेषेण;?R मैवम्, तद्वा विधेयं अन्यद्वा, नेदं तन्त्रं, किन्तु सामान्यविषयवाक्यसन्निधौ विशेषविषयवाक्यान्तरे सति तदितरविशेषविषयं सामान्यपदमिति व्युत्पत्तिः । तथाहि शब्दद्वयोच्चारणादर्थभेदावगतिः, अन्यायश्चानेकशब्दत्वमिति न्यायात् । अतः सामान्यशब्दोऽन्यविशेषपरः विशेषशब्दस्य चैवमन्यार्थतेत्यनुसन्धेयम् ।
?R केचित्तु गोबलीवर्दन्यायमेवं वदन्ति । विशेषसम्बन्धिविधेयान्तराभावे
?Rतत्सन्निधौ सामान्यशब्दः तदितरविशेषे वर्तत इति । इह चोच्चैर्निगदेनेत्यविधिः सामर्थ्यतस्तत्प्राप्तेरित्यतस्साम्यं;?R तच्चिन्तनीयम्, कथं विधेयान्तरादर्शनं प्रयोजकरूपमिति । अथ यत्र विधेयान्तरमस्ति तत्र सामान्यविशेषन्याय एव स्यादिति । नैतत् । असन्निहितवाक्यद्वये पदाहवनीयादौ स न्यायः;?R सन्निहिते तु गौर्बलीवर्दन्यायः इति भेदः सुगमः । उच्चैर्निगदेनेत्येतत् सन्निहितम् । वेदोपक्रमवाक्याद्वाक्यान्तरमेतदिति वेदोवेत्यधिकरणाविरोधः । सुगममन्यत् ।
?R
?R?0। 14 । अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यात् । 4?R6 ।?R ?R?0
?R छान्दोवशेन ऋक्परिमाणं छान्दसोपदेशेन च सामपरिमाणं सुज्ञानम् । एवं तदुपायद्वयाभावात् यजुः परिमाणं दुर्ज्ञानम् । ननु ब्राह्मणवदेकप्रयोजनानि पदानि, अन्विताभिधायीनीत्येकं यजुरिति सुगमम्; ?Rमैवम्, विनियोगतः प्रयोजनं यजुषो न स्वातन्त्र्येण, विनियोगतश्च यदेवानुष्ठेयप्रकाशकं पदं तस्यैव प्रयोजनं ज्ञातं तदतिरिक्तपदानां तु कियतां तत्प्रयोजनमिति दुरवगमम् । यत्रापि वचनादिषेत्वेति विनियोगात् प्रयोजनज्ञानं तत्रापि न, वाक्यस्य पदस्य वा विनियोगात् प्राक् अर्थानवगमात् । अर्थावच्छेदाधीना हि पदवाक्यत्वावगतिः । इतिशब्दाच्च सन्निहितवर्णमात्रस्यैव विनियोगः, वर्णस्य च कियदनुगृहीतस्य प्रकाशकत्वमिति अज्ञानात् । अतो न यजुः परिमाणनिश्चय इति पूर्वः पक्षः । यत्र विनियोगस्तत्प्रकाशने यावतामन्वयसामर्थ्यं, विभज्यमानत्वे चानुष्ठेयान्तराप्रकाशनादवगतनियोगार्थत्वनिर्वाहाय साकाङ्क्षत्वं तावदेकप्रयोजनमेकं वाक्यं एकं यजुरिति सिद्धान्तः । विभज्यमानसाकाङ्क्षाणाञ्च गुणपदानां परस्परानन्वितार्थत्वेऽपि प्रयोजनपदार्थान्वितार्थतया वाक्यैक्यम् । तस्य सकलगुणपदार्थैस्तन्त्रेणान्वयान्न पदावृत्तिदोषः । शेषं सुगमम् ।
?R ?R?0 ॥ 15 ॥ समेषु वाक्यभेदः स्यात् ॥ 47 ॥
?R यत्र यजुष्षु अनुष्ठेयप्रकाशकपदं न श्रूयते न तत्र विनियोगतः
?Rपरिमाणज्ञानं, किन्तु यजुष्षु प्रश्लिष्टपाठात् समभिव्याहारादेकवाक्यत्वप्रतीतिरनुग्राह्येतीषेत्वेत्यस्य ऊर्जेत्वेत्येतत्सहितस्य छेदने विनियोगो युक्तः । छेदनप्रकाशकञ्च पदं मिलितयोः कल्प्यम् । तथाऽनुमार्जनप्रकाशकं च मिलितयोः । अतो मिलितं यजुः । यदा च च्छेदने प्रयुज्यते, तदा कल्पितमनुमार्जनपदं छेदनप्रयोगे छेदनगुणपरम् ।
?Rतथाऽनुमार्जनप्रयोगे छेदनपदमनुमार्जनगुणपरम् । एतच्च यजुरेकत्वानुसारेण विनियोगबलेन स्वीकृतम् । तथा इषेत्वेति प्रतीकेन मिलितलक्षणापि स्वीकृता ऋचामिव नानार्थत्वम् ।
?R ननु ‘?R त्वे ‘?R ति शाखावचनं शाखाच्छेदनानुमार्जनयोः प्रधानं;?R प्रधानपदाभ्यासे च मन्त्रभेदः, विभागमन्त्रवत् ;?R मैवम्, न मन्त्राभिधेया शाखा, तत्र मन्त्राविनियोगात् । अतः छेदनविशेषणं शाखेति कथं मन्त्रभेदः । तथा क्लृप्त्युदाहरणे प्रश्लिष्टपठितैकयजुष्ट्वानुरोधात् क्लृप्तिषु मिलितास्वेकमदृष्टं कल्प्यम् । ननु क्लृप्तीर्वाचयतीति बहुत्वविनियोगो न स्यात्;?R मैवं, एकवाक्यत्वेऽपि कल्पतामित्यभ्यासापेक्षं बहुत्वं अविवक्षितं वा । अतः प्रश्लिष्टपाठवशेन यजुः परिमाणमिति पूर्वः पक्षः ।
?R इषेत्वेत्येतावन्मात्रस्य श्रुत्या विनियोगावगमादेकप्रयोजनम् । अन्यथा प्रतीके लक्षणा स्यात् । न गुणप्रधानकल्पनया च विनियोगः छेदनानुमार्जनयोः स्यात् । प्रश्लिष्टपाठमात्रन्तु विनियोगात् स्वीकृतं न प्रयोजनाय प्रभवतीति । यथाविनियोगं भेदेनैवेषेत्वेत्येतद्युक्तम् । तथा क्लृप्तिबहुत्वविनियोगात् पृथक्त्वं नाभ्यासतः । अतोऽत्रापि प्रतिक्लृप्ति यजुर्वेदो विनियोगत इति राद्धान्तः ।
?R?0 ॥ 16 ॥ अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात् ॥ 48 ॥
?R विनियोगावगतप्रयोजनान्वयसामर्थ्यतः पूर्वतरत्र यजुः परिमाणं निरूपितम् । पूर्वत्र तु केवलं विनियोगतः, संप्रति विनियुक्तस्यैव यजुषः साकाङ्क्षस्य
?Rकिमध्याहारतः पूरणमनुषङ्गतो वेति चिन्ता पूर्ववत् सङ्गता । आकाङ्क्षासन्निधियोग्यतानां लोके अन्वयकारणत्वं दृष्टम् । इह तु वाक्यशेषं प्रति
?Rसर्वेषामाकाङ्क्षा योग्यता चास्ति । सन्निधिस्तु अनन्तरस्यैव शेषिण इति न तन्त्रता तनूर्वर्षिष्ठेति वाक्यशेषस्येति लोकावगताध्याहारेण पूरणं युक्तम् ।
?R ननु लोके अनुषङ्गोऽपि दृश्यते - यथा नरमानय खरं तुरङ्गमं इति । वेदेऽपि वसन्ताय कपिञ्जलानालभेतेत्यादौ । मैवम् । अध्याहारोऽसौ । आकाङ्क्षापूरणायाध्याहारे कर्तव्ये अवगतपदस्वरूपमेव लाघवात् कल्प्यत इत्यनुषङ्गभ्रमः । इह तु तनूर्वर्षिष्ठेत्यादि गुरुतरं कल्प्यम् ।
?R केचित्तु समादधति - तत्र क्रियाकारकयोः परस्पराकाङ्क्षत्वादेकस्य सन्निधिरवैशेषिको हेतुरित्यनुषङ्गो युक्तः । तच्चिन्त्यम् । साकाङ्क्षाच्चेत् सन्निधेरविशिष्टता इहापि स्यात् । उभयाकाङ्क्षा च वैधर्म्यमात्रम् । अतो यथोक्त एवानुषङ्गभ्रम इति पूर्वः पक्षः ।
?R सत्यं सन्निधौ सत्यन्वयः बुद्धिसन्निधिस्तु सन्निधिः । स च सजातीयव्यवधाने न स्यात् । न च शेषिणः शेषपदं सजातीयम् । एतच्च लोकेऽवगतम् । एकस्य क्रियापदस्यानेककारकव्यवहिस्य सर्वकारकपदार्थान्वयदर्शनादित्यनुषङ्ग एव नानुषङ्गभ्रमः एवमिहापीति राद्धान्तः ।
?R
?R पुनरनुषङ्गचिन्ता - निराकाङ्क्षेषु शेषिष्वेकस्य शेषस्य साकाङ्क्षस्य एकेनैव शेषिणान्वयो युक्तः, विशेषग्रहश्चानन्तर्यात् ।
?R ननु पुनात्वर्थान्वयो वाच्यः अच्छिद्रेण पवित्रेणेत्येवमादेः । एकश्चासौ पुनात्विति पदाभ्यासेऽपि । तदन्वये च सर्वान्वयः स्यात् । मैवम् ।
?Rचित्पत्यादिपदार्थान्वयोऽपि तर्हि सर्वस्य स्यात् । अभ्यासविशेषोपहितेन पुनात्वित्यनेन चित्पत्यादेरन्वयात् न सर्वान्वय इति चेत्, वाक्यशेषेऽपि तुल्यमिति पूर्वः पक्षः ।
?R विनियोगतो हि नियोगीयपदार्थान्विताभिधानाद्यजुषः पुनात्वर्थस्य नियोगीयस्यैक्यात् तदन्वये सर्वान्वयो युक्तः ।
?R यत्तु चित्पत्यादेरपि तथा प्रसङ्ग इत्युक्तम् । तत्र ब्रूमः, पुनात्विति विभज्यमाननिराकाङ्क्षतया प्रत्यभ्यासं भिन्नानि वाक्यानि भेदेनैव प्रयोज्यानि । क्रियापदतया च प्रत्येकं कारकमाकाङ्क्षन्ति । तत्र पुनात्वित्यतः पूर्वं प्रत्येकं कर्तृकर्मरूपकारकपदद्वयं श्रुतं तत्तदन्वयेन निराकाङ्क्षं वृत्तम् - यत्तु चरमं श्रुतं अच्छिद्रेण पवित्रेणेति करणकारकपदं तत्पुनात्वित्यर्थमेकमनुष्ठेयभेदरूपमाकाङ्क्षति । नाभ्यासभेदभिन्नरूपं अतः पुनात्वर्थमात्रान्वयिकरणसमर्पकं वाक्यशेषरूपं सर्वत्रेत्यनुसन्धेयम् । शेषं सुगमम् ।
?R ?R?0 ॥ 17 ॥ व्यवायान्नानुषज्येत ॥ 49 ॥
?R केन तर्हि व्यवधाने नानुषङ्गः इति जिज्ञासिते प्रत्युदाहरणमात्रम् । यत्रासंबन्धिव्यवधानं तत्र शेषशेषिणोः बुद्धिविच्छेदेन व्यवधानं तत्र चाध्याहार एव सजातीयस्य पदस्य, कल्पनालाघवात् ।
?R अत्र च पादे उपोद्घातचिन्ताप्रसङ्गात् मन्त्रभेदे निरूपिते साक्षात्सङ्गतः शास्त्रभेदोऽनन्तरं निरूप्यत इति सर्वं सुस्थम् ।
?R ?R?0 इति श्रीभवनाथमिश्रविरचिते नयविवेके
?R?0 द्वितीयाध्यायस्य प्रथमः पादः ।
?R?0 ______
?R नयविवेके द्वितीयाध्यायस्य
?R ?R?0 द्वितीयः पादः
?R?0 शब्दान्तराधिकरणम्
?R?0 ॥ 1 ॥ शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् ॥ 1 ॥
?R अत्रेयं दर्शनस्थितिः - लिङादिस्तावत् कृतिसाध्यत्वरूपेणापूर्वे प्रयुक्तो नापूर्वभेदप्रतिपत्तौ शक्तः । कृतिस्तु भव्यार्थं यागादिकं साक्षात्साधयति नान्यदित्यभव्यमपूर्वं भव्यव्यवहितं कृतिसाध्यतया बोधार्हं नान्यथा । तदेवं भव्यार्थान्तर्भावावगमाधीनं कृतिसाध्यत्वमिति लिङादिः कृतितत्साध्ययोर्मध्ये भव्यविशेषप्रतीत्यन्तर्भावात् स्वार्थमुपनेतुं समर्थ इति अन्तर्भूतो यागादिविशेषः कार्यतारूपं भिन्दन् कार्यत्वरूपोपस्थाप्यमपूर्वमपि भेत्तुं योग्यमिति ज्ञानपूर्वानुबन्धभेदज्ञानं तत्प्रतिपत्त्यनन्तरं शब्दस्य तत्समर्पणक्षमत्वज्ञानं यत् तदेव शास्त्रभेदज्ञानमिति गीयते । एवं गृहीतसङ्गतेर्भिन्नाच्छास्त्रात् तदर्थभूतापूर्वभेदज्ञानं फलम् । एवं च अनुबन्धभेदशास्त्रभेदयोः नेतरेतराश्रयता । न चानुबध्यमानभेदानुबन्धभेदयोः नापि शास्त्रभेदशास्त्रार्थभेदयोरिति सिद्धम् ।
?R पूर्वपक्षस्तु पृथक्त्वेनापूर्वान्वयेऽपि यागादेर्नानुबन्धत्वे भेदोऽवभाति । एकार्थत्वं ह्येकस्य लिङः स्वरसतो युक्तम् । अपूर्वेपि व्युत्पत्तावेकार्थता युक्ता । तदनुसारेण यागादेरपि एकान्वयितैव युक्ता ।
?R
?R यद्यपि यागकृतेरन्या दानकृतिः तथाप्यनेककृतिसाध्यमेकं दृष्टमित्येकस्मिन्नेवापूर्वे नानाकृतिद्वारेणानेकयागाद्यन्वयो न विरुद्धः ।
?R ननु यागादेर्विषयतयाऽन्वयः । विषयश्चापूर्वं लिङादिसहितो बोधयतीति बोधकावयवस्य लिङादेरेकत्वेपि बोधककोटिनिविष्टयागाद्यवयवभेदात् बोधकभेदे बोध्यभूतापूर्वभेदो युक्तः । मैवम् । कृतितत्साध्यमध्यस्थौ यागादिः कृतिसाध्यं प्रति साधनतां गच्छन् स्वद्वारेण कृतेः स्वसाध्यं संसर्गं घटयतीति अपूर्वसाधनतयैव यागादेरन्वय इति न करणत्वातिरेकिविषयत्वम् । अनेककरणान्वयिता चैकस्य युक्तेति एकमपूर्वमनेकयागाद्यन्वितं तदाह गुरुः - दृष्टं ह्यनेकानुबन्धमेकं शास्त्रं, यथा दर्शपूर्णमासाद्यधिकारशास्त्रम् । एतच्चानुबन्धत्वं अविविच्यैव प्रतिबन्दीबलेनोक्तम् । न च तत्र एकवाक्यार्पितत्वं विशेषः । नानावाक्यार्पितानेककरणकोऽपि एक एव क्रयो दृष्टः । अनुबन्धत्वविवेकेनापि युक्त्यन्तरमाह - यद्वा प्रत्ययावगम्यत्वादित्यादिना । विविच्यमानं ह्यनुबन्धत्वमुक्तरीत्या करणत्वमेव स्यादिति भावः । अत एव व्यवधानेन कृतिसाध्येऽपि स्वर्गादिफले यागादेः करणतयाऽन्वयो न विषयतया । यथा च विषयद्वारेण नापूर्वभेदः, तथाऽधिकारलक्षणसाध्यभेदाद्योऽपूर्वभेदः सोऽप्युन्नीयमानानुबन्धभेदाधीनतया न सिध्यतीति सर्वफलानुबन्धमेकमपूर्वं, तच्च योगसिद्धिन्यायेन क्रमेण फलोत्पादकम् ।
?R ये तु जातेष्टिन्यायेन मिलितं स्वर्गादि काम्यमिति मन्यन्ते, तन्मते भेदेन कामनाश्रुतिरालोचनीया । एवञ्च समुच्चयेन सकलकरणेति कर्तव्यतोपसंहारासामर्थ्याद्यथासामर्थ्यं विकल्पो युक्तः षोडशिग्रहणाग्रहणवत् ।
?R यदप्यनुष्ठानाशक्तेरप्रामाण्यं कैश्चिदुक्तम् अत एव तदयुक्तम् । यच्चोक्तं भागतो विद्योपदेशोऽयमिति, तदयुक्तम् । यदि हि सर्वं सर्वस्य चोदितं तदा स स्यात् । इह तु कतिपयस्वर्गकामादिविशेषसम्बन्धेन चोदनेयमित्यनुसन्धेयमिति पूर्वः पक्षः ।
?R सत्यम्, कृतिसाध्यं प्रति साधनतां गच्छन् यागादिः स्वद्वारेण कृतेः
?Rस्वसाध्यसंसर्गं घटयति, तथापि कृतितत्साध्यसंसर्गघटनानुगुणं साधनत्वं कार्यशरीरप्रतीतिप्रविष्टम् । कार्यरूपे च सङ्घटिताकारे करणान्वयावसर इति विषयत्वान्वयः करणत्वान्वयातिरेकी सिद्धः ।
?R एवञ्च कार्यबोधकावयवस्य लिङादेरेकत्वेप्यवयवान्तरभूतयागादिभेदे बोधकसमुदायभेदात् तदर्थभूतापूर्वभेदसिद्धिरिति अनुबन्धभेदाच्छास्त्रभेदसिद्धिः । यत्र तु यागादेस्तन्त्राभिधानं मिलितस्यैव तत्र तत्रानुबन्धत्वम् । युक्तञ्च तत्रैकशास्त्रत्वम् । व्यवहितकृतिसाध्ये फले प्रमाणान्तरतोऽपि तथैव कृतिसाध्यत्वावगतेः न काप्यनुपपत्तिः । शब्दावगम्ये तु साध्ये यदि
?Rव्यवधायकान्तर्भांवः शब्दान्नावगतः स्यात् तदा प्रमाणान्तराप्रचारात् साध्यत्वावगतिरेव न स्यादित्यनुसन्धेयमिति राद्धान्तः।
?R?0 कृतितत्साध्यमध्यस्थो यागादिर्विषयो मतः ।
?R?0 कार्ये सङ्घटिताकारे करणत्वेन साम्मतः ॥
?R?0 ॥ 2 ॥ एकस्यैवं पुनः श्रुतिरविशेषादनर्थकं स्यात् ॥ 2 ॥
?R पञ्चधा पठितेऽपि यजतीत्यत्र प्रकृतिभागाद्याग इत्येव प्रतीयते न भेदः । पञ्चमलकाराच्चापूर्वमित्येवं प्रतीयते, न भेद इत्येकमपूर्वमेकोनुबन्धश्चेति युक्तम् । ननु समिदाद्यर्थान्वयभेदात् तद्भेदो युक्तः;?R नैतत्, न तावत् गुणतो भेदः, गुणविशिष्टयागविधौ मत्वर्थलक्षणा स्यात् । न च गुणमात्रविधिः, द्रव्यं वा गुणो देवता वा, तच्चोभयमपि यागकर्म । अतो द्वितीयान्तो न गुणविधिः । किञ्न गुणविधिरपि अविशेषात् सर्वत्रैवयुक्त इति कस्मिन् यागे गुणविधिः । आग्नेयादावपि गुणान्तरावरोधात् न गुणविधिः । किन्तु लिङाद्यभिधेयकृत्यनीप्सितकर्मत्वाद्यागस्य द्वितीयान्तस्य च यागसामानाधिकरण्यात् नामता युक्ता । न च यजिसहितं
?Rतत्परतन्त्रं नाम यागभेदकं यजिवियुक्तं हि श्रुतं ज्योतिरादिकं यागभेदकं अतो न गुणतो न नामतो यागभेद इत्येकोऽनुबन्धः । स च समिद्वाक्येन विधीयते प्राथम्यात् । तत्प्राप्तमन्यत्रानूद्यते विधानविकल्पो वा क्रयवाक्यवदिति पूर्वः पक्षः ।
?R सत्यमेवं किन्तु लिङाद्यर्थो विधिः कार्यत्वेनावगम्यते विधिश्च स्वभावतो विधेयं भिनत्तीति प्रतिविधि यागभेदः । इदमत्राभिप्रेतं कार्यत्वाकारेण लिङादिः स्वार्थ बोधयति, कार्यावगतेश्च कार्ये प्रवृत्तिः । सैव चापूर्वे कार्ये प्रवृत्तिः या तत्कार्यानुप्रविष्टे प्रवृत्तिः न तु साक्षात् । प्रवृत्तिश्च, यदप्राप्तं तत्र भवतीति । तदेवं अनन्यप्राप्तमेव विधेयमिति प्रतीतेः विधेयं विध्यन्तरविषयाद्यागादन्यदेवावगम्यते ।
?R ननु प्राप्तयागान्वितोऽपि विधिः पोर्णमासीं यजत इत्यत्र दृष्टम् । मैवम् । तत्र विषयान्तरानिर्वाहात्पूर्वविषयमपूर्वकार्यमेवानुवदति कार्यावस्थामतिक्रान्तामनुवदतीति नतु तदवस्थामुपस्थापयतीत्यनुसन्धेयम् । इह तु लिङादेः प्रत्युच्चारणं विधिरूपार्थभेदात् विधेयभेदोऽप्यवगम्यते । स च निर्वहतीति अनुबन्धभेदाच्छास्त्रभेद इति सिद्धान्तः । एवञ्चाभिधानान्तरे विशेषादपि भेदः । अभ्यासे त्वविशेषादिति न्यायद्वयम् ।
?R अत्रेदमनुसन्धेयम् - शब्दान्तराधिकरणे अनुबन्धभेदव्युत्पादनमुखेन शास्त्रभेदः । व्युत्पन्ने च तस्मिन् भावार्थभेद प्रसाधनमुखेन त्वभ्यासादिषु शास्त्रभेदः कथ्यत इति ।
?R?0 ॥ 3 ॥ प्रकरणन्तु पौर्णमास्यां रूपावचनात् ॥ 3 ॥
?R पौर्णमासीं यजते” “?Rअमावास्यां यजत”?R इत्यभ्यासात् कर्मचोदना युक्ता ।
?R ननु कथमत्रोपपदान्वयः न तावत् नामता, ‘?R पौर्णमास्यां पौर्णमास्ये’?R ति
?Rवाक्येन कालविधिमादाय प्रवृत्तिनिमित्तलाभान्नामता;?R इतरेतराश्रयप्रसङ्गात् कालविधेरेवासंभवात् । न चोपपदार्थविशिष्टयागविधिः । पौर्णमासी हि कालत्वेन वा देवतात्वेन वा विधेया । न चोभयत्रापि द्वितीयान्वयः । काले हि सप्तमी स्यात् देवतायां चतुर्थीति । मैवम् । अभ्यासात्कर्मविधौ स्थिते कालविशिष्टविधाने च द्वितीया, कालाध्वनोरिति सूत्रेण मासमग्निहोत्रमितिवद्युक्ता ।
?R केचित् तु पौर्णमासीं ज्ञात्वेत्यध्याहारं व्यत्ययं वा कर्मत्वत्यागेनैकत्वपरं वा वदन्ति । तत्त्वतिप्रौढवादेन । ननु रूपान्तररहिततया कर्मान्तरविधेरनिर्वाहः । मैवम् । ध्रौवाज्यमस्त्येव द्रव्यं वार्त्रघ्नीमन्त्रविधेः तन्मन्त्रवर्णतो देवतालाभात् रूपवत्ता । ननु पौर्णमासीनामत्वे सति ‘?R पौर्णमास्यामनूच्येते ‘?R इति मन्त्रविधिः । अन्यथा क्रमादाज्यभागयोरेव स्यात् । मैवम् । अपेक्षितविधेः पौर्णमास्यामित्यनेन लक्षणया पौर्णमासीकालयुक्तं कर्मोपस्थाप्य मन्त्रविधिरदोषः । आज्यभागयोस्तु ‘?R यस्यै कस्यैचित्’?R इति पुराकल्पसरूपेण वाक्येन अपेक्षया अग्नीषोमयोः प्राप्ते रूपवत्ता । अथवा अव्यक्तत्वेन सौमिकधर्मप्राप्ते रूपवत्ता ।
?R यद्यपि अधिकारविधेरितरकरणार्थमाकाङ्क्षा नास्ति तथाप्येतद्यागस्य रूपलाभार्थं युक्ता । एतच्च प्रौढिवादमात्रमिति मूलचिन्तामात्रमिति -
?R पूर्वः पक्षः - राद्धान्तस्तु कालसम्बन्धा हीयं चोदनेति कालयुक्तानामाग्नेयादीनां पुनःश्रुतिरिति विशेषावगमात् तेषामेवानुवादः ।
?R ननु कालविशिष्टयागविधिरुक्तः । न युक्तो द्वितीयासंयोगे कालविधिः । ननु कालाध्वनोरिति सूत्रेण कालेऽपि द्वितीयेत्युक्तम् । अयुक्तमिदं उपपदविभक्तिर्हि सा । सा च परिहृता भवति अनुवादत्व इत्ययमेव विशेषोऽनुवादत्वे हेतुः । एवञ्च
?Rकथञ्चिद्वार्त्रग्नीमन्त्रविधिमाश्रित्य रूपवत्ता न कल्पिता भविष्यति । न चाग्नेयादिवाक्यानि देवताविधिपराणि वाक्यभेदप्रसङ्गादिति प्रपञ्चितं भाष्ये । एवञ्च सत्यनुवादत्वे आग्नेयादिषु प्रवृत्तिनिमित्तसम्भवात् नामता ।
?R नन्वनुवादेऽपि प्रकृतानां रूपवतां सर्वयागानामेवानुवादो युक्तः;?R मैवम्, न हि रूपवत्त्वार्थोऽनुवादः किन्तु उपपदार्थभूतकालान्वयोपपत्तये । अतः कालयुक्तानामेवाग्नेयादीनामनुवादः ।
?R
?R ननु पौर्णमास्यां पौर्णमास्येति कालयोगः यस्य तस्यानुवादो भवतु । मैवम् । अनुवादे हि सति पौर्णमासीनामप्रवृत्तौ आग्नेयादिषु साङ्गेषु कालविधिरिति न तत्कालयोगापेक्षोऽनुवाद इति । आग्नेयादेः पौर्णमासीयुक्तस्य पौर्णमासीवाक्यमनुवादः । अमावास्यायुक्तस्याग्नेयादेः
अमावास्यावाक्यमनुवाद इति युक्तम् । प्रयोजनं तु अनुवादद्वये समुदायद्वयापत्तेः दर्शपूर्णमासाभ्यामिति प्रवृत्तं नामद्वयं सद्द्विवचनान्तं यद्वदति तदनुरोधेन यजेरपि तत्रैव तन्त्रद्वयकल्पनया प्रवृत्तिरिति न राजसूयवत् प्रकृतसर्वयागपरत्वम् । साक्षात् सर्वस्य कार्यान्वयादनानुगुण्यमपि उपपदार्थविनियोगानुरोधात् नियोगस्यापेक्षितमिति अधिकारचोदनानुप्रवेशात् आग्नेयादीनां प्रधानता, तद्बहिर्भावादाघारादीन्यङ्गानि
?Rइति । एतच्च फलवदफलन्यायापेक्षमप्येतत्सिद्धान्तायत्तमित्यस्यैव प्रयोजनम् । अङ्गत्वे च विकृतिषु प्रवृत्तिरित्यनुष्ठानपर्यन्तं प्रयोजनम् । ननु कर्मान्तरविधानेपि दर्शपूर्णमासोपपदस्य विहितकर्मद्वयनामत्वात् द्विवचनोपपत्तेश्च तत्रैव यजेः प्रवृत्तिरित्याघारादीन्यङ्गान्येव । मैवम् । कर्मान्तरत्वेपि प्रवृत्तिनिमित्तरहितं तदुपपदं न नामतयाऽन्वितं किन्तु गुणत्वेनेत्युक्तम् ।
?R ननु तथापि कालयोगावच्छेदेनाष्टानामेवाधिकारवाक्येऽनुप्रवेशोऽस्तु;?R मैवम् ।
?Rअप्रवृत्तनामतया हि तदा यजिपरतन्त्रता । तथा च वैश्वदेववत् सर्वयजिनामता । दर्शशब्दस्य पूर्णमासशब्दस्य च दण्डिन्यायेनातत्कालयोगिनामपि लक्ष्यमाणत्वत् । तथा च समुदायद्वयाभावात् द्विवचनानुपपत्तिः ।
?R
?R न च लक्षणाद्वयात् लक्ष्यभूतसमुदायद्वयं युक्तम् । लक्ष्यगतञ्चेदं द्विवचनमिति द्विवचनं विधिपक्षे न युक्तम् । अतो विधिपक्षे अधिकारवाक्ये यजेः यावत्प्रकृतयजिपरत्वमिति द्विवचनमनुपपन्नम् । एवं द्विवचनप्रतिरूपकं बहुवचनं च बलादापद्यते । एवमुक्तरीत्या प्रसाध्यं प्रयोजनमिति तत्पुरस्सरमधिकरणं कृतम् । एतच्च करणेतिकर्तव्यतासाध्यभेदेन शास्त्रभेदान्तररूपमिति साक्षात्सङ्गतमध्यायेन ।
?R नन्वितिकर्तव्यतासाध्यं करणोपकाररूपं करणसाध्यापेक्षं कुतश्शास्त्रं भिनत्ति । मैवम् । आरादुपकारकाणां हि व्यतिरिक्त एव करणोपकारस्साध्यः नासौ करणावान्तरकार्यानुप्रविष्टः । सन्निपातिनामेव तत्प्रविष्टत्वात् न तत्साध्यभेदात् शास्त्रभेदः इति । कथं तर्हि सम्भूयोपकारजनकत्वमुक्तम् ? ?Rउक्तमुपकार्यविशेषायत्तत्वात् उपकारसिद्धेरित्यनुसन्धेयम् । मूलचिन्ता प्रयोजनचिन्तापर्यन्तेति तत्प्रसाधनमपि तत्प्रविष्टमिति नाधिकरणभेदः ॥
?R केचित्तु निष्प्रयोजनतया दूषितेऽनुवादे सम्यक् सिद्धान्तेन प्रयोजनसद्भावेन समाधातुं प्रयोजनान्तोऽनुवादो वाच्य इति एकाधिकरणत्वं वदन्ति । तदयुक्तं ।
?Rनिष्प्रयोजनोऽप्यनुवाद इत्यव्यापितया न सम्यक् समाधानमुचितमिति । शेषं सुगमम् ॥
?R?0 ॥ 4 ॥ पौर्णमासीवदुपांशुयाजः स्यात् ॥ 6 ॥
?Rअत्र पञ्चिकायामुपांशुयाजाद्यधिकरणत्रयस्यापवादकतया सङ्गतिः उक्ता । तत्र केचित्
?Rपौर्णमास्यपवादकतोक्तेत्याहुः । तदयुक्तम् । पौर्णमास्यपवादकत्वे हि पेटिकासङ्गतिमात्रं नाध्याये इति । अतोऽयमत्रार्थः । शास्त्रभेदापवादकतया लक्षणसङ्गतिः । पौर्णमास्यपवादकत्वात् पेटिकासङ्गतिः इति उभयविवक्षया अपवादकतामात्रमुक्तमित्यनुसन्धेयम् । अत्र ‘?R विष्णुरुपांशु यष्टव्य’?R इत्यादौ विध्यर्थकृत्यप्रत्ययश्रुतेः विष्ण्वादिरूपावगतेश्च यागविधिः उपांशुयाजमन्तरा यजतीति तु रूपविरहात् वर्तमानापदेशाच्च न द्राग्विधिरित्यनुवादः ।
?R
?R ननु कृत्याद्विष्ण्वादिनिष्ठतावगतेः न यजेर्विधिविषयत्वम् । मैवम् । कार्यान्तराननुप्रवेशाद्विष्ण्वादेर्न तन्निष्ठता यजेः ।
?R
?R ननु जामितादोषोपक्रमं तन्निबर्हणान्तमेकं वाक्यं प्रतीयते, तद्बाध्येत, विष्ण्वादियुक्तयागविधौ । मैवम्;?R स्पष्टे विधिभेदे उपक्रमोपसंहारपदान्येकवाक्यतापन्नानि साधारणानीत्युक्तं तनूर्वर्षिष्ठेतिवत् ।
?R नन्वन्तरा यजतीत्यन्तरालकालो रूपम्, मैवम्, न यागस्य तद्रूपम् प्रयोगस्य हि तत् । ननु उपांशुयाजपदान्तर्गतमुपांशुत्वं रूपं; ?Rमैवम्, ?Rउपांशुयजनमुपांशुयाज इत्यवयवार्थस्वीकारेण ह्युपांशुत्वविधेस्तद्रूपं, तदा कुत्वं स्यात् । न चेह कृत्वापवादस्मरणम् यथा प्रयाजानूयाजयोः । अतोऽखण्डमेवेदमुपांशुयाजपदं यजिनाम । ननु प्रवृत्तिनिमित्तशून्यं नाम;?R मैवम्, कुत्वाभावेऽप्युपांशुयाज इत्युच्चरिते उपांशुत्वगुणको याग इति बुद्धिरेकवर्णविकारेऽप्यस्ति । अनन्यगतिकतया नामत्वे स्थिते अशब्दार्थत्वेऽपि बुद्धिस्थतामात्रेण नामत्वं युक्तमाज्यादिवत् । एवञ्चोपांशुयाजद्वयवृद्धौ चतुर्दशपौर्णमास्यामाहुतय इति पूर्वोक्ताक्षेपादवान्तरसङ्गतिः, इत्युक्तरीत्या च कृतः पूर्वः पक्षः ।
?R राद्धान्तस्तु विष्णुर्यष्टव्य इत्यादावापाततोऽन्यनिष्ठत्वशङ्का, तन्निराकरणसापेक्षं विधिविषयत्वम् । अन्तरा यजतीति तु तन्निरपेक्षम् ।
अप्राप्ते यागे पञ्चमलकारः सिद्ध एवेत्यत्रैव विधिः । एवं एकवाक्यताप्रतीतिरनुगृहीता । वाक्यशेषतन्त्रता च न कल्पिता भवति ।
?R इदमत्राभिप्रेतम् - पुरोडाशनिरन्तरत्वे यद्दोषकीर्तनं तत्समाधानार्थं तावदेकार्थं पदजातम् । तत्समाधानञ्चान्तरालगुणयुक्तयागविध्यधीनं न तु विष्ण्वादिगुणकयागमात्रविध्यधीनम् । अतोऽन्तरायजतीति गृहीत्वोपक्रमोपसंहारावेकवाक्यतां गतौ । न च तद्बाधो युक्तः विनियोगानुसारित्वाद्विधेरिति दर्शनरहस्यम् ।
?R नन्वन्तरा यजतीत्याज्यप्राप्तावपि देवताविरहान्न निर्वाहः । न च विष्ण्वादीनां प्राप्तिः येनार्थवादावलम्बनम् । मैवम्, शाखान्तरे प्राप्ता विष्ण्वादय इत्येके । अथ शाखान्तरे न प्राप्तिः, तथापि सिद्धे यागविधौ देवतापेक्षायां अर्थवादबलेन विष्ण्वादिप्राप्तिः ।
?R
?R नन्वस्मिन्नेव वाक्ये विष्ण्वादयः श्रूयन्ते अतो नोपांशुत्वधर्मद्वारेण विष्णुप्रजापत्योः प्राप्तिर्युक्ता - न चाग्नीषोमयोः वाक्यशेषान्तरतः प्राप्तिः - मैवम् - अन्यतः अप्राप्तौ विष्ण्वादियुक्तयागविधिरापततीति तन्निवृत्तये अन्यतः प्राप्तिरुक्ता ।
?R नन्वेवं देवतासमर्पणपरशब्दाभावात् न शब्दैकगम्यदेवताप्राप्तिः । मैवम् । उक्तं पञ्चिकायां " ?Rयागे चोदिते देवतायां चाश्रूयमाणायां तत्साध्यत्वाद्यागस्य तस्याश्चालौकिकत्वात् तद्विशेषापेक्षायां वाक्यशेषबलेनोपस्थितदेवतान्वितं यजिरेव
?Rस्वार्थं वदती " ?Rति ।
?R इदमत्राभिप्रेतम् - देवतारूपकारकव्यापारे हि यजेर्वृत्तिरिति सम्बन्धिशब्दोऽयम् । स च सम्बन्ध्यन्तरान्तर्भावात् स्वार्थे पर्यवस्यतीत्यन्यपरादप्यवगतां सम्बन्ध्यन्तररूपां देवतामादाय स्वार्थं वक्तीति यजिश्रुत्यर्थत्वान्नौपादानिकत्वमिति पदिन्यायेन व्याख्यातमित्यनुसन्धेयम् । अत एव यजिश्रुतितः सर्वेषां देवतात्वमिति मन्त्रवर्णाद्विष्ण्ववगतिर्जघन्या । स्ववाक्यशेषलब्धोपांशुद्वारकविष्णुप्रजापत्योः कालविधायकवाक्यशेषावगताग्नीषोमयोश्च तुल्यकालं बुद्धिस्थतेति यजिश्रुत्यनुप्रवेशस्तुल्य एव ।
?R ननु मन्त्रवर्णबुद्धिस्थविष्णुना यजिश्रुतेः पर्यवसानं युक्तम्;?R मैवम् विनियोगपूर्विका हि मन्त्रवर्णपदार्थबुद्धिस्थता । तन्निरपेक्षता तु वाक्यशेषपदार्थबुद्धिस्थतेति वाक्यशेषबुद्धिस्थेन यजिश्रुतिपर्यवसानं युक्तम् । विष्णुप्रजापत्योस्तूपांशुत्वधर्मकत्वे प्रमाणं भाष्यकृद्वाक्यसाक्षिकमेव । अग्र्यप्रायलिङ्गञ्चेत्थं - यष्टव्य इति तव्यात् गुणकर्मधीः कार्यान्तरानुपयोगाकलनया तु प्रधानकर्मतेति शीघ्रावगताग्नेयादिप्रधानकर्मणामेवाधिकारवाक्येऽनुप्रवेशो नान्यस्येति । शेषं सुगमम् ॥
?R ?R?0 ॥ 5 ॥ आघाराग्निहोत्रमरूपत्वात् ॥ 13 ॥
?R पूर्वत्र पौर्णमास्यां यजन्निति कालाख्यगुणविधानादग्र्यप्रायदर्शनमुक्तं;?R तदयुक्तम्, गुणविधेरेवासम्भवात् इत्युत्थानादेवावान्तरसङ्गतिः । पूर्वपक्षस्तु स्वभावतः साध्यस्यैव कृत्याश्रयतया भावार्थस्यैव विधिविषयतोक्ता । न तु व्यापारयोगितया साध्यस्य द्रव्यादेः । अतो न गुणविधिः ।
?R ननु विहिते स्वतस्साध्ये व्यापारोपाधिना साध्यस्य विधानं युक्तम्;?R मैवम्, उपाधितस्साध्यत्वमुपाधिगतमेव तत्वत इति व्यापारस्यैव विधेयत्वमापततीति ।
?R
?R ननु द्रव्यादेरेव धर्मः कारकत्वं नाम साध्यम्; ?Rमैवम्, यदि क्रियाजननशक्तियोगः कारकत्वं न तर्हि साध्यता तस्य । अथ क्रियायोगः तर्हि क्रियैव साध्या । ननु कथं तर्हि निबन्धनमते द्रव्यदेवतासम्बन्धो विधिविषय इति।
?Rउच्यते । यागसाध्यत्वात्तस्य यागसाध्यतयैव तस्य साध्यता व्यवहितापि शब्दबलेन स्वीकृता । द्रव्यादेस्तु यागसाधनस्य व्यवधानेनापि न साध्यतेति न गुणविधिः । किन्तु गुणान्वितं यत्कर्म तत्स्वरूपविधिः । तच्च स्वरूपं यदि केवलमुपादीयते तदा तत्प्रत्यभिज्ञानं न स्यादिति गुणोऽप्युपादानशेष इति नानर्थकं गुणश्रवणम् । अतो दध्ना जुहोतीति गुणवत्कर्मविधिरुच्यते अग्निहोत्रं जुहोतीति निर्गुणा तस्य पुनः श्रुतिः ।
?R ननु यद्यप्यग्निहोत्रं जुहोतीति द्वितीयान्तं नाम युक्तं; ?Rअग्नये होत्रमित्येवं हविर्मात्रपरत्वे तृतीयान्तं स्यात् तथापि नामान्तर्गतगुणश्रुतेः तुल्यश्रुतिता । मैवम्- अग्निहोत्रपदमेव हि गुणवत्कर्मवचनं तस्य जुहोतीत्यन्वये गुणपरत्वेन गुणवद्धोमयुक्तो होम इति स्यात् ।
?R न चात्मनैव आत्मनोऽन्वय इति अस्मिन्नेव विषये शाब्दैरुक्तं न मतुबन्तान्मतुबिति । अतो नात्र गुणवत्कर्मविधिः । अतो वैश्वदेववत् प्रकृतहोमानुवादः ।
?R ननु यदग्नये चेत्यपि वाक्याद्घोमान्तरविधिरिति दधिहोमस्य देवताभावान्न निर्वाहः । मैवम् । अनिर्वाहेऽपि गौणो होमः सगुणश्रुतेः । निर्गुणा पुनः श्रुतिरनुवाद एवेति न निर्वाहचिन्ता ग्रन्थे कृता । निर्वाहोऽपि च शक्यः । यद्यप्यग्नये स्वाहेति
?Rमन्त्रस्य लिङ्गात् अग्निप्रजापतिदेवताकहोम एवाङ्गत्वधीः । तथाप्यपेक्षितविधेः दध्यादिहोमेष्वङ्गताऽस्तु, मान्त्रवर्णिकदेवताभिधानलिङ्गात् देवतास्तु ।
?R यत्तून्नीतं दण्डिन्यायादेतत्पूर्वपक्षावस्थायाञ्चेदग्निहोत्रपदं नाम न तर्हि नैय्यमिके मुख्यं, कौण्डपायिनामयनीय एव कथञ्चिन्मुख्यत्वान्न तद्धर्मातिदेशः शक्यत इति गावामयनिकधर्मकता । तद्धर्माकाङ्क्षायां च स्वरसामवत् तुल्यनामत्वचोदनालिङ्गात् तद्धर्मप्राप्तौ देवतालाभ इति । तन्न, अग्न्यन्वयाद्दण्डिवत् प्रवृत्तमस्यैव नाम, तत्राग्न्यन्वयासिद्धेः गौणमेव | यदि च तत्राप्यग्निरस्ति तर्हि राद्धान्तेऽपि गौणता न स्यात् यदि च तत्राप्यग्निरस्ति इह तर्हि सर्वत्रैवाग्न्यन्वयात् न दण्डिवन्नामतेति समुदायानुवादसिद्धिः | समुदायानुवादे चाग्निहोत्रमिति होमेष्ववगतेषु तत्समुदायप्रतिपत्तिरिति होमसाध्यस्समुदाय इति होमापेक्षयैव द्वितीया | अन्यथा एकहोमविधौ एकहोमवचनत्वे प्रयत्नापेक्षतया होमस्य साध्यत्वेन कथञ्चित् द्वितीया स्यात् | अतोऽप्यनुवादोऽयम् | न त्वनेन विहिते गुणविधिरिति स्थितम् |
?R राद्धान्तस्तु कारकव्यापारविशेषे एव हि धातवो वर्तन्ते अविभागतः, कारकविशेषश्रवणे तु तद्विभक्तेन रूपेणावगम्यते । तच्च तादृशं कर्मरूपं कारकसम्बन्धित्वेनैव अवगन्तुं शक्यं नान्यथेति विभागश्रवणे विभक्तरूपमेव विधेयम् । धात्वर्थमात्रस्य विहितत्वात् । अतो गुणस्यापि विधिसंस्पर्शेऽपि ऐदमर्थ्यलक्षणः गुणानुरागाधीनत्वाद्विभक्तरूपस्य । अत एव कर्मणि किञ्चित्करत्वात् कर्मैदमर्थ्यं गुणस्य । अत्र चैक एव विधिः विभक्ताऽविभक्तरूपद्वयानुबद्धस्य भावार्थस्य एकस्यैव विधिविषयत्वात् । एवञ्च गुणवाक्ये विस्तीर्णावस्थितभावार्थे शास्त्रस्य विधेश्च व्यापारात् द्वयंशव्यापारो विधिः वाक्यद्वये विभक्ताविभक्तांशस्य द्व्यशत्वं गुणानुरक्तकर्मरूपपरत्वात् । अतस्तथाभूतकर्मविधौ तु गुणोऽपि
?Rकर्मविभक्तो विधीयते नतु हीयते विधिसंस्पर्शनात् गुणांशोऽपि विनियोज्य इति दर्शनरहस्यम् । गुणस्येव तद्गुणादिशृङ्खलाविधिसिद्धिः । शेषं सुगमम् ।
?R
?R?0॥ 6 ॥ द्रव्यसंयोगाच्चोदना पशुसोमयोः प्रकरणे ह्यनर्थको
?R?0 द्रव्यसंयोगो नहि तस्य गुणार्थेन ॥ 17 ॥
?R यदि सोमेन यजेतेति यागविधिरिष्यते तदैन्द्रवायवादिवाक्यैः तत्र देवताविधिर्भवेत् ततश्च देवता विकल्पः स्यात् । ततश्च क्रमदर्शनं समुच्चयदर्शनं च नोपपद्यते । तस्मादैन्द्रवायवादिवाक्यैः यागविधिः सोमेन यजेतेत्यनुवादः ।
?R
?R नन्वत्रैव साक्षाद्यजतिश्रुतेर्यागविधिर्युक्तः । तत्र तु गृह्णीयादिति श्रुतेस्तद्विधिर्युक्तः । तच्च यागार्थद्रव्यसंस्काररूपं ग्रहणमिति यद्यङ्गीक्रियते तदा ग्रहणस्य यत्स्वभावाद्ग्राह्यद्वारकत्वमुपनयनस्येवोपनेयद्वारकत्वम् यच्च ग्राह्यस्य यागार्थत्वं इन्द्रवाय्वोश्चोद्देश्यत्वं त्रयमिदं इन्द्रवाय्वोर्देवतात्वे सति घटते । इत्थञ्च देवताभावे न विकल्पः स्यात् । मैवम् । न हि इन्द्रवाय्वोरुद्देश्यत्वं श्रुतं किन्तु तद्धितादिन्द्रवाय्वोर्देवतात्वम् । अतः कथं त्रयानुरोधात् देवतात्वं वाक्यान्तरविहिते यागे चोद्यते ।
?R किञ्च यथा देवताविधिपक्षे विकल्पस्तथा तत्कल्पनापक्षेऽपि युक्त इत्यैन्द्रवायवमित्यादिभिः यागविधिः । गृह्णातिस्त्वर्थप्राप्तानुवादः । अतो यागभेदात् क्रमसमुच्चयसिद्धिः । प्रकृतेषु च यागेषु सोमेन यजेतेत्यनुवादो युक्तः ।
?R नन्वैन्द्रवायवश्रुतिः प्रकरणबलेन सोमरसे प्रवृत्तेति लक्ष्यते । सोमेन यजेतेति तु लतावचनः । तां नानुवदितुमर्हतीति नानुवादः । मैवम् । अनुवादपरत्वे अवधारिते लक्षणया रसानुवादः ।
?R नन्वनुवादो लक्षणा चेति द्वयमयुक्तमिति वरं क्रमसमुच्चययोरन्यथा वर्णनं दशैतानीति हि दशश्रुतिः समुच्चयाधीनेति समुच्चयश्रुतिरित्युच्यते । तृतीयं जुह्वतीति तृतीयं सन्तं दशमे स्थाने जुह्वतीति तृतीयतानुवादः दशमो मृह्यत इति दशमानुवादः क्रमाधीन इति क्रमश्रुतिरुच्यते । एते च श्रुतिपाठादपि सम्भवतः । किञ्च देवताविधावर्थप्राप्तस्य ग्रहणस्यानुवादेन कथंचिद्वर्णनं न युक्तम्; ?Rमैवम्, दशमो गृह्यत इति पाठतः तृतीयस्य दशमताविधिरपि यः स न पाठापेक्षयाऽन्वितः । दशमताविधानादेव ग्रहणस्य दशमस्थाने होमः । स विकल्पे न स्यादित्यनुवादो लक्षणा चेति । यद्वा पाठान्तरे बहिः पवमानोत्तरकालभावित्वादाश्विनस्य दशमता या प्राप्ता सा विकल्पेन स्यादिति अनुवादो लक्षणा चेति सोमोदाहरणे कृतः पूर्वपक्षः । पशावपि हृदयादिवाक्यैर्यागविधिः अग्नीषोमीयवाक्येन समुदायानुवादः ।
?R ननु हृदयादेर्देवतान्वयाश्रुतेः न यागविधिर्युक्तः । अत्रैकदेशी अवदानश्रुतेस्तस्य च यागसाधनसंस्कारकता दृष्टेति यागकल्पनां मन्यते । तदयुक्तम् । इहावदाने विहिते नावदानकार्यमतिदिश्यते इति न यागविधिः । फलचमसपूतीकयोस्तु सन्निहितभक्षणाद्यन्वयात् युक्तो यागान्वयः । इहत्ववदानकार्यस्य कार्यान्तररहितहृदयाद्यन्वितस्य भावर्थत्वेन विधिविषयता हृदयादि च तत्साधनमिति युक्तम् ।
?R परमपूर्वपक्षे तु क्रमसमुच्चयश्रुतिबलादेवात्र हृदयादिद्रव्यका यागा इति स्थिते तदुपपत्तये पशुशब्दो हृदयादीन्लक्षणयोद्दिशति । अग्नीषोमीयपदन्तु प्रत्येकमग्नीषोमीयतां विधत्त इत्यनुसन्धत्ते । तथाहि - एकादशावदानश्रुतिः समुच्चयाधीनेति समुच्चयश्रुतिरुच्यते । अग्रे, अथ, श्रुतिस्तु क्रमश्रुतिरेव । तदुभयमपि यागभेदे प्रतियागमवदानभेदे च तत्समुच्चये च घटते । यदा
?Rचाग्नीषोमीयवाक्ये यागविधिः तदैकस्मिन् यागे हृदयादिवाक्यैः हृदयाद्यवदानविधावपि अवदेयेनैकेन पशुयागसिद्धेः हृदयाद्यवदानविकल्पः स्यात् ।
?R ननु स्ववाक्ये द्रव्यदेवतयोर्योगात् तद्युक्तयागविधौ सति तद्विहायान्यत्र देवताविधिपरता हृदयादिलक्षणया पशुशब्दं व्यवस्थाप्याग्नीषोमीयवाक्यस्य न युक्ता । वरं पाठतः एवैकादशता अग्र इत्यग्रदेशता युक्ता । मैवम्;?R अथशब्दस्तावत् क्रमपरः तत्समभिव्याहाराच्चाग्रशब्दोऽपि । किञ्चाग्रादिति प्रदेशपरत्वे स्यात् । अतः क्रम एव श्रुतः । समुच्चयोऽपि न पाठतः कथंचिन्नेय इति विभक्तेनाग्नीषोमीयपदेन हृदयादीन्यग्नीषोमीयाणीत्येव देवताविधिः । पशुमालभेतेति चालम्भसमुदायानुवादः।
?R यद्वा पशुशब्देन हृदयादि लक्षयित्वाऽग्नीषोमीयविधिः तस्मिन्नेव च वाक्ये आलभेतेति च आलम्भसमुदायानुवाद इत्युभयथापि देवताविधिर्लक्षणा चेति उदाहरणद्वयेऽपि क्रमसमुच्चयतः पूर्वपक्षकरणादैकाधिकरण्यं सिद्धम् ।
?R राद्धान्तस्तु क्रमसमुच्चयोपपत्तये हि लक्षणा वाक्यभेदः अनुवादश्चाङ्गीक्रियते।
?R तदयुक्तम् । सोमेन यजेतेति विधावपि यदा ऐन्द्रवायवादिभिरपि यागविधिः तदा क्रमसमुच्चयोपपत्तिरस्त्येव । तथा पशुमालभेतेति पशुसाधनकालम्भविधावपि हृदयादिष्वग्नीषोमीयानुप्रवेशात् यागभेदे क्रमसमुच्चयोपपत्तिः । किन्तु यदा सोमेन यजेतेति विधिः तदैन्द्रवायवादिवाक्येषु न यागविधिः, न च देवताविधिः, किन्तु ग्रहणविधिः । तथा यदा पशुमालभेतेति विधिः तदाऽग्नीषोमीयपदमस्मिन्नेव देवताविधायकमित्यत्रैव यागविधिः । हृदयादिवाक्यैश्चावदानविधिः अवदानक्रमसमुच्चयौ च हृदयादिसमुच्चयात् । तत्समुच्चयश्च दशमे वक्ष्यते, “?R हविर्भेदात् कर्मणोऽभ्यास " ?Rइत्यत्र । तच्चाधिकरणं तत्सिध्यर्थमेव । तथाहि - पशोस्साधनत्वं तदवच्छिन्नहविर्भूताङ्गद्वारकं;?R तच्च हविर्भूताङ्गसाकल्ये पशोः साधनत्वं
?Rसिध्यति । यदि तु पशोरेव हविष्ट्वं स्यात्तदा तदवच्छिन्नमांसराशेरवदाय सकृद्यागनिवृत्तौ पशोर्हविष्ट्वसिद्धिरिति तत्रैव प्रपञ्चितम्।
?R नन्वेवं पशूदाहरणमिहानर्थकम् । मैवम् । प्रतिहृदयादि यागभेदे समुच्चयः । एकयागत्वे तूक्तरीत्या विकल्पः स्यादिति पशुरप्युदाहृतः । सिद्धान्ते तु लक्षणावाक्यभेदपरिहाराय वरं समुच्चयकल्पनेत्यनुसन्धेयम् । सोमोदाहरणे तु क्रमसमुच्चयोपपादनमत्रैव । तथाहि - सोमेनेति लतायाः साधनत्बमभिषवादिसंस्कारात् रसद्वारेण, न साक्षात् । यागार्थस्य च रसस्य ग्रहणं संस्काररूपं श्रुत्या विधीयते । ग्रहणञ्चेदं कुतश्चिदुपादानरूपं पुंसां आत्मार्थं वा क्रियते परोद्देशेन वा क्रियते । ग्रहणस्य चेन्द्रवायुदेवताकत्वं श्रूयते । ननु ग्रहणविधौ देवताविधानमर्हति । तत्रैष विमर्शो जायते । यदीन्द्रवायूद्देशेन ग्रहणमिदं तदा दृष्टार्थत्वादुद्देशस्य तदुद्देशेन ग्राह्यं त्याज्यम् । तच्च ग्राह्यं यागार्थत्वात् देवतोद्देशेन त्याज्यम् । यच्च देवतोद्देशेन त्याज्यं तदेवेन्द्रवायूद्देशेन त्याज्यमिति तदोपपद्यते यदीन्द्रवायू देवते इति, एवञ्च देवतातद्धितोपपत्तिः । तदेवं ग्राह्यग्रहणयोः कार्यविमर्शाद्देवतात्वे विकल्पो न युक्तः ।
?R इदमभिसंहितम् - लताहि स्वप्रभवं सकलमेव रसं साधनीकरोतीति ग्रहणाख्यसंस्कारोऽपि सकलस्य युक्तः शक्यते चाल्पपात्राणामपि ग्रहणानां युगपदाम्नानात् अवयवशस्तदुद्देशेन ग्रहणैस्सर्वसंस्कार इति ग्रहणानि तावत् समुच्चेतव्यानि । तथा च तत्तद्ग्रहणवर्तिनः तत्तदुद्देशस्य दृष्टार्थत्वाद्यदुद्देशेन गृहीतं तदुद्देशेनैव त्याज्यमिति देवतालाभः अर्थाद्यागावृत्तिश्च सिद्धा ।
?R ननु द्वारकार्यतो देवतात्वं कार्यषट्के स्यात्;?R मैवम्, कार्यतोऽपि
?Rदेवतीयोपदेशार्थव्यवस्थापनादिह सङ्गतम् । स्थिते त्वौपदेशिके यदपरमपि कार्यतः कल्प्यते तत्तत्रैवेत्यनुसन्धेयम् । अथ ऐन्द्रवायवादिष्वित्यादिभाष्येण हविष्ट्वेन लताविधानमाशङ्कितमिति लक्ष्यते श्रुतिवाक्योपन्यासेन परिहारात् । न च तदाशङ्कितुं युक्तम्;?R प्रसिद्धपरिहारत्वात् ;?R न हि श्रुतिसमर्पिते हविषि रसे वाक्येन लताया हविष्ट्वेन विधानं सम्भवति । यच्च सम्भवति रसप्रकृतितया लताविधानं तन्नाशङ्कितम् । एतच्च दुष्परिहरम्;?R तथाहि - यथा श्रुतिसम्बन्धे पुरोडाशे वाक्येन प्रकृतिभूतव्रीह्यादिविधानं तथा श्रौतेऽपि रसे वाक्याल्लताविधानं युक्तमिति भाष्यभङ्गः । मैवम् । नात्र व्रीहिमुद्रा सम्भवति तत्र ह्याग्नेयोऽष्टाकपाल इत्यस्मिन् वाक्ये अष्टाकपालद्रव्यमनिरूपितप्रकृतिद्रव्यकं प्रतीयत इति युक्तं प्रकृतिद्रव्यविधानम्; ?Rइह तु ऐन्द्रवायवादिश्रुत्यानिरूपितप्रकृतिकं द्रव्यमर्पितमिति न प्रकृतिद्रव्यविधानं संभवतीति नाशङ्कितम् । हविष्ट्वेन तु विधानं संभवतीत्याशङ्कितम् । ऐन्द्रवायवमिति हि हविर्द्रव्यविशेषाश्रुतेर्वाक्यमेव लतां हविर्द्रव्यविशेषभूतां विदधाति । नतु जघन्यं प्रकरणं द्रव्यविशेषणार्थमपेक्षणीयमिति शङ्का । सा चैवं निराकृता - वाक्यं हि यागोद्देशेन लतां विधत्ते । द्रव्यदेवतासम्बन्धबलेन चैन्द्रवायवश्रुतौ यागकल्पना । द्रव्यविशेषे चावगते श्रुतिपर्यवसानं युक्तम् । ततो यागकल्पना द्रव्यविशेषलाभश्च तदा प्रकरणात् । अतः प्रकरणस्थितिकृतश्रुतितो रसे अवगते वाक्याल्लताविधानं न युक्तम् ।
?R ननु च रसमात्रे प्रकरणवशाच्छ्रुतिः न निरूपितप्रकृतिके । अतः प्रकृतित्वेन लताविधानं युक्तमेव । तथाहि- " ?Rअण्व्या धारया गृह्णाती “?Rति ग्रहणेषु धारागुणविधिपरे वाक्ये धारार्हं द्रवद्रव्यं ग्राह्यम् । योग्यतया ग्रहणेष्ववगतमिति लताविधिर्युक्तः । अथ " ?Rअव्याधारया गृह्णाती?Rत्यनेकगुणश्रुतेर्ग्रहणान्तरविधिः तथाप्येकग्रहणे दृष्टं ग्रहणान्तरेषु बुद्धिस्थं द्रवद्रव्यमेव युक्तम् । अनन्तरपठितञ्च
?Rधारावाक्यमिति ततोऽपि तद्गतमेव द्रव्यं द्रव्यग्रहणेष्वपि युक्तम् । अभिक्रमणमिवानन्तरभूतप्रयाजजुहोतौ । न च धारार्हं द्रव्यं धान्यादि शङ्कनीयम् निरुपपदं हि धारापदं द्रवद्रव्यविषयमेव युक्तम् । न चोदकमपि द्रवद्रव्यं सम्भवतीति कथं लताविधिरिति वाच्यम् । यतो लताविधानादेव रसान्तरस्येव उदकस्यापि निवृत्तिः ।
?R किञ्च यथा यत्र तावद्योग्यतया लब्धे हविषि ‘?R त्रेधा तण्डुलानि’?Rति तण्डुलश्रुतिरविवक्षिता । यथा च योग्यतया लब्धे नवमे भागे त्र्यनीकायामहः श्रुतिरविवक्षिता । तत्र का कथा एवं योग्यतया लब्धे रसे प्रकरणतः सोमरसस्याविवक्षा । अतः प्रकृतित्वेन लता विधीयताम् ; ?Rमैवम्, धारावाक्ये हि यावद्घारायोग्यं गृह्णीयादिति कल्पयितुमिष्यते तावत् प्रकृतस्सोमरस एवास्तीति स एव स्वीक्रियते ! ?Rअतस्तदालोचनयापि सोमरसावगतेः न लताविधिः ।
?R
?R न च धाराशब्दो द्रवद्रव्यवृत्तिः द्रवद्रव्यबिन्दुसन्ततेरविच्छन्नप्रवाहे धाराशब्दः प्रवाहमाहेति द्रवद्रव्यधीर्न शब्दात् किन्त्वाक्षेपादिति कल्पनोक्तिः । देवतातस्तु विभागविधौ हविष्ट्वेनैव देवतान्वयात् विभागोऽपि तेनैव रूपेणेति न तण्डुलत्वरूपं योग्यं विभागे । अथ तण्डुलाधिष्ठानं तद्धविरिति विशेष्यते तदा वाक्यभेदः स्यादिति श्रुतस्याप्यविवक्षा । तथा त्रिः परिवृत्ता त्र्यनीकापि नवतां गता नवभिरेव भागैर्भागत्वेनान्वययोग्यानाहस्तया । भागत्वेनान्वयेऽपि यद्यहरधिष्ठानतया भागो विशेष्यते तदा वाक्यभेदः स्यात् । अतोऽहरविवक्षा युक्ता । इह तु क्लृप्तप्रकृतिकसोमरसेनापि धाराविधेरन्वय इति कल्पनावकाश इति धारावाक्यालोचनयापि सोमरस एवेति न लताविधिसम्भवः ।
?R
?R ननु सोमरसलाभेऽपि जाघनीवत् क्रीतमपि हविः स्यादिति लताविधिर्युक्तः;?R तद्विधौ हि लतामुत्पाद्याभिषवादि कृत्वा हविरुत्पादनं सम्भवति । मैवम् । सोमरसे हविषि तत्प्रकृतिद्रव्यविधावपि तत्प्रकृतिकरसक्रयेऽपि शास्त्रार्थसिद्धेर्न लतोपादानार्थो विधिः । किन्तु लताक्रयादिविधानादेव न क्रीतरसो हविरिति सिद्धम् ।
?R नन्वेवं पुरोडाशेऽपि व्रीहिविधिरनर्थकः स्यात् ; ?Rतन्न, न तत्र व्रीह्युपादानार्थः स विधि;?R किन्तु व्रीहिप्रकृतिकपुरोडाशहविष्कयागोपादानार्थः व्रीहिनिर्वापावघातादिविधानादेव व्रीह्युपादाननियमः ।
?R ननु द्रव्यविधेर्यदि न द्रव्योपादानं संभवति संस्कारविधेरपि तन्न स्यात् तन्न । द्रव्यं हि कारकतयाऽनुष्ठीयते, क्रिया तु स्वरूपतः । यत्रापि द्रव्यस्वरूपविधिः , तत्रापि द्रव्योत्पत्त्यादिक्रियाविधिः । न च लतादेरुत्पत्तिविधिः । अतः क्रयादिविधेरेव तदुपादानसिद्धिः ।
?R नन्वविहिता लता क्रयादिसंस्कार्यैव न युक्ता;?R तन्न, एवं तर्हि तण्डुलादेरपि पेषणादिसंस्कार्यता न स्यात् । अथ विहितपुरोडाशाद्युपयोगिनः संस्कारः, एवं तर्हि विहितसोमरसोपयोगिनी लतापि संस्कार्या युक्ता विहितैव वा लता । तद्धितश्रुत्या लताप्रभवरसार्थतयैकयत्नतो विधानात् । अतो विहिता लता ।
?R केचित्तु यवैर्यजेतेति श्रुतेः संस्कारतोऽवगतव्रीहिबाधो माभूदिति व्रीहिविधानमर्थवदित्याहुः;?R तन्न, यत्र तर्हि प्रकृतिद्रव्यान्तराविधिः तत्र प्रकृतिद्रव्यविधिर्न स्यात् । पक्षे च यवविधानेन व्रीहिविधेर्बाधोऽयं स्यात् न प्रसङ्गः
?R।
?R ननु व्रीहिविधिर्व्यर्थ एव । अवघातार्थोपात्तव्रीहिभिः प्रसङ्गाद्व्रीहिप्रकृतिकपुरोडाशहविस्सिद्धेः । तन्न । उपात्तापचारेऽपि व्रीह्युपादाननियमार्थो विधिः । न चापचारे तदनुपादानमेव;?R शास्त्रप्रसङ्गे हि तथा स्यात् । स च न श्रुत्यपर्यवसाने युक्तः । न च पुरोडाशश्रुतेर्वीहिभिर्विना अपर्यवसानम् । पुरोडाशाकृतेरसम्बन्धिरूपत्वात् । पदस्य तु सम्बन्धिरूपत्वात् अन्यार्थोपात्तपदिपर्यवसानार्थं शास्त्रप्रसङ्गो युक्तः ।
?R ननु प्रकरणेऽपि सोमरसवाचकशब्दाभावात् तत्रापि कल्पनेति कथं क्लृप्तिरित्युच्यते । मैवम् । क्रयादिवाक्येषु हि सोमनिर्देशे लता श्रौती । उत्पवनादिवाक्येषु च रसीभूतसोमनिर्देशो लाक्षणिक इति सोमरसे शाब्दीधीः प्रकरणानुसन्धानाद्विश्रान्तेति । तदेवं रसस्य प्रकरणे शाब्दत्वात् न कल्पनेति सूक्तम् इह सोमरस एवावगम्यत इति । न चेदं वाच्यं, संस्कारचोदनात्वे सति सोमरसप्राप्तिः सोमरसे हविषि संस्कारचोदनात्वमिति; ?Rयस्मादनिरूपितसंस्कारत्वेऽपि पदार्थान्वयावगममात्रादेव सोमरसप्रतीतिः । अथवा संस्कारपूर्वकावगमिष्यमाणकार्यान्तरप्रवेशादपि संस्कारदर्शनादाहवनीयादिषु न सङ्कटं किञ्चित् । वाक्यशेष एव तु पुरोडाशं कूर्मं भूतं सर्पन्तमित्यप्रकृतिकावगम इति भेदः ।
?R " ?Rनन्वग्नयेऽघ्रियस्वे " ?Rत्याग्नेये अस्तु पुरोडाशप्राप्तिः, अग्नीषोमीये ऐन्द्राग्ने च न स्यात्, मैवम्, अग्नीषोमीये तावदुपांशुयाजविधौ अन्वञ्चौ पुरोडाशाविति सिद्धवदनुवादात् साक्षात्पुरोडाशधीः । ऐन्द्रामग्ने तु " ?Rपुरोडाशाभ्यामेवासोगयाजिनं याजयेत् यावेतावाग्नेयश्चैन्द्रग्नश्चे”?Rति श्रुतेः पुरोडाशधीः न प्रकरणापेक्षा । अथवा यद्यपि सङ्ख्यायुक्तकपालसंस्कृतमात्रेऽनुशासनं, तथापि तत्प्रयोगनियमात्
?Rपुरोडाशविषयमेवानुशासनम् ।
?Rननु प्रकरणे पशुपुरोडाशादिद्रव्यं वातादिकञ्च कथं सोमरस एव धीः;?R मैवम्, पशुपुरोडाशादि तावत् द्रव्यं कर्मान्तरहविष्ट्वादिहायोग्यम् । वातादेश्च हविष्ट्वानर्हत्वम् । अतः सोमरस एवावगम्यत इत्युक्तम् ।
?R
?Rये त्वाहुः “?R तं द्रोणकलशाद्गृह्णाती”?Rति श्रुतेः द्रोणकलशे च सोमरसस्यैवावस्थानात् सोमरस एवावगम्यत इति । तन्न । तत्रापि न शाब्दी सोमरसप्रतीतिः । द्रोणकलशावस्थितत्वात् कल्प्येत्य”?Rण्व्या धारये”?Rत्यनेन तुल्यमेवेत्यलमतिप्रसङ्गेन ।
?R?0 ॥ 7 ॥ पृथक्त्वनिवेशात्सङ्ख्यया कर्मभेदः स्यात् ॥ 2?R1 ॥
?R प्राजापत्यानिति बहुवचनादेकशेषकल्पना । सा च प्रधानभूतप्रत्ययार्थमात्रे एव युक्तेति प्रजापतिर्देवतैषामित्यन्वयः । अतः प्रजापत्यन्विततयैक्यादेक एव द्रव्यदेवतासम्बन्ध इत्येको यागः । एवञ्चानेकयागकल्पना परिहृता भवति ।
?Rननु तद्धितान्तबहुवचनेन सोपसर्जनस्यैव बहुत्वं युक्तम् । मैवम् ।
?Rपश्वन्वयितयाऽस्त्येव प्रजापतेरपि बहुत्वम् । स्वतस्तु नेष्यते कल्पनागौरवात् । तच्च बहुत्वं सप्तदशत्वावस्थितमिति सप्तदशपशुक एको याग इति पूर्वः पक्षः ।
?Rअत्रैकदेशिसिद्धान्तः - नैकस्मिन्यागे सर्वपशूनां साधनत्वं घटते हविषो हि पशोरेकादशावदानद्वारेण साधनत्वं प्रकृताववगतम् । एकयागपक्षे च पशुगणः एकं हविरिति सकृदेव चोदकप्रवृत्तेरेकहविषि चावृत्तेरनुपपत्तेरेकस्यैव पशोरेकादशावदानद्वारेण साधनत्वं स्यात् । ततश्च पश्वन्तराणां प्राजापत्यत्वं न
?Rस्यात् । यागभेदे तु प्रतियागं चोदकप्रवृत्तेः प्रतिपश्ववदानगणप्राप्तिः । अतश्चोदकानुरोधात् सोपसर्जनस्य प्रत्ययार्थस्य बहुत्वमिति निर्णयः । तदुक्तम् -
?0 ?Rएकयागत्वपक्षे स्यादेक एवात्र चोदकः ।
?0 ?Rततश्चैकगणप्राप्त्या न सर्वपशुसङ्ग्रहः ॥ इति । ( तन्त्रवा )
?Rतदयुक्तम्, निरूपिते ह्युपदेशतः करणे तदुपकाराकाङ्क्षायां चोदकः न तु
?Rतत एव निर्णयः ।
?Rननूपदेशतो निर्णयासम्भवे चोदकपरामर्शादपि निर्णयो युक्तः;?R मैवम्, उपदेशतो ह्युक्तरीत्या यागैकत्वनिर्णयस्सिद्ध एवेति । यदि चोदकप्राप्तावदानगुणो नावृत्त्या संभवति, बाध्यतां कृष्णलचराविवावघातः ।
?R परमसिद्धान्ती त्वाह - प्रकृतिप्रत्ययसमुदायात् विभक्त्युत्पत्तेः समुदायार्थमेव सोपसर्जनं प्रधानं देवतायुक्तद्रव्यं विभक्तिर्भिनत्ति । ननु कल्पनालाघवात् स्वतो भेदो नेष्यत इत्युक्तम् । उच्यते । सोपसर्जनस्य प्रधानस्य विभक्तिश्रुतितः स्वतो भेदावगतेः तद्बलादुपसर्जनस्याप्येकशेषकल्पना नानायागकल्पना च युक्ता । एवं च चोदकाबाध इत्याभ्युच्चयः । एवं च नेमं सङ्ख्या कर्मणि विधीयते । येन कर्मसाधनतां द्रव्यावच्छेदद्वारेण गच्छन्ती द्रव्यगता स्यात् । किन्तु कर्मगतैषा । अत एव न विधीयते । ननु यथा कर्म द्रव्यादियुक्तं विधीयते यथा वा द्रव्यादिकं संख्यायुक्तं तथा कर्मापि सङ्ख्यायुक्तं विधीयताम् । मैवम् । यदि सङ्ख्यायुक्तमिति । सङ्ख्यासाधनकमित्यर्थः सङ्ख्यासाधनत्वे च सङ्ख्या साधनान्तरावच्छेदात् साधनगता स्यात् न कर्मगतेत्युक्तम् ।
?R अथ आश्रितसङ्ख्यान्वितं सङ्ख्यायुक्तमभिप्रेतं तदा पूर्वमाश्रयप्राप्तिर्वाच्या । प्राप्तं ह्याश्रयतया प्राप्तेऽन्वेति प्रणयनमिव गोदोहने । यदाश्रित्य हि
?Rयत्सिद्धमनूद्यान्यद्विधीयते तत्तदाश्रय इत्यर्थात् कर्माग्रतो विधेयम् । तच्च सङ्ख्यासमभिव्याहारात् सङ्ख्यान्वययोग्यं विधेयम् । तद्विधौ च सङ्ख्या प्राप्तेति न विधेया । द्रव्यादियुक्तन्तु कर्म द्रव्यादिसाधनकं विधीयत इत्यविरोधः । तथा द्रव्यादिसङ्ख्या च द्रव्यादिद्वारेण कर्मसाधनतयैव विधीयत इति तत्राप्यविरोध इत्यनुसन्धेयम् ।
?R अत्र च निबन्धनमते सम्बन्धस्यैव शब्दबलेन विधिविषयत्वं यागद्वारेण च प्रयत्नगोचरत्वं जघन्यमपि । विवरणमते तु वस्तुस्वभावेन यागस्य प्रयत्नसाध्यतया तस्यैव विधिविषयत्वं शाब्दसम्बन्धाक्षिप्तस्य । करणत्वन्तु मतद्वयेऽपि यागस्यैव अन्यार्थप्रवृत्तकृतिगोचरत्वात् । सम्बन्धस्यैव तु विधिविषयत्वे तस्य तन्त्राभिधानात् सकृदेवान्वयात् एकानुबन्धता एकशास्त्रता च । आक्षिप्तयागस्य तु विषयत्वे आक्षेपस्य वस्त्वनुसाराद्भेदेन प्रवृत्तेः भेदेनानुबन्धतेति शास्त्रभेदः । भेदाभेदयोश्चानुष्ठानेऽनतिभेदात् नैकं मतं निर्णीतम् । सम्बन्धविषयपक्षेऽपि आक्षिप्तयागान्तर्भावादेव विधिविषयतेति सौर्यादावपि करणीभूतस्यैव विषयतेति मतस्थितिः । शेषं सुगमम् ।
?R?0 ॥ 8 ॥ संज्ञा चोत्पत्तिसंयोगात् ॥ 22 ॥
?R अथैषज्ज्योतिरित्यादि - स्वतन्त्रसंज्ञान्तरश्रवणेत्येतेन यजेतेति सामानाधिकरण्याद्यजिनामत्वेऽधिगते यजेश्च प्रकृतविषयत्वावगतेः प्रकृतपुनः श्रुतितेति नामापि तत्रैव प्रवृत्तम् ।
?R नन्वनेकशब्दत्वस्यान्याय्यत्वात् संज्ञान्यत्वे अर्थान्यता युक्ता । मैवम् । सहस्रदक्षिणादियुक्तस्वरूपेण संज्ञान्तरप्रवृत्तेः, प्रकृतपरत्वेऽप्यर्थभेदः
?Rसाकंप्रस्थायीयवत् आत्यन्तिकार्थभेदस्तु यजिपरतन्त्रत्वादेव न युक्त इति पूर्व पक्षः ।
?R शब्दान्तरोच्चारणे तावदर्थान्तरावगतेः तदनुरोधाद्यजिनामत्वेऽपि यज्यन्तरनामत्वं युक्तम् । प्रथमं स्वातन्त्र्यादन्यत्र प्रवृत्तानां परतन्त्रतैव यजेर्युक्ता निर्वहति च यागान्तरं सहस्रदक्षिणादिविशेषान्तरश्रुतेः । अतः कर्मान्तरत्वादनुबन्धभेदात् शास्त्रभेदः । शेषं सुगमम् ।
?R?0 ॥ 9 ॥ गुणश्चापूर्वसंयोगे वाक्ययोः समत्वात् ॥ 23 ॥
?R वाजिभ्य इत्यनेन सन्निहितामिक्षाख्यवाजयोगिनो विश्वेदेवा उच्यन्त इति तदन्वय एव वाजिनस्येत्येकदेवतान्वयादामिक्षावाजिनोभयहविष्कमेककर्म ।
?R ननु रूढिबलीयस्त्वात् द्वयावगतिर्युक्ता । मैवम् । बहुवचनान्तात् द्राग् अतिनिरूढबहुत्वसन्निहितविश्वेदेवप्रतीतेः योगस्यैवेह बलवत्ता । किंच रूढितया हयाद्यन्वये, किं भक्ष्यत्वेनान्वयः, उत हविष्ट्वेनेति संशयेन चतुर्थीतो निर्णयः स्यादिति यौगिकत्वं युक्तम् ।
?R ननु वाजिशब्दार्थत्वेन देवतात्वान्नैकदेवतान्वयः । मैवम् । वाजयोगिता हि विश्वदेवशब्दार्थतयेति तच्छब्दाभिधेयतयैव प्रतीतिर्यौगिकादित्येकदेवतात्वम् ।
?R नन्वेकदेवतात्वेऽप्यैन्द्रदधिपयोन्यायेन निरपेक्षतयान्वयात् नैककर्मता मैवम् । तत्र हि तुल्यतयेन्द्रान्वयात् भेदः । इह त्वामिक्षान्वयोल्लेखात् प्रत्यभिज्ञा युक्ता ।
?R ननु वैश्वदेवीति श्रुत्या आमिक्षान्वयः अतिसन्निधेः स्त्रीत्वयोगाच्च;?R वाजिनन्तु वाक्यात् चतुर्थीतश्च वाजयोगापेक्षमतिविलम्बितमिति विलम्बितान्वयान्नामिक्षावरुद्धे
?Rकर्मणि गुणान्तरं युक्तम् । मैवम्, यौगिकस्य तदेकविषयत्वात् अनन्यगतितया तत्रैव निवेश इति पूर्वः पक्षः -
?R राद्धान्तस्तु न तावदन्योपसर्जनभूता विश्वेदेवा अन्यत्राऽन्वीयन्ते अथ वाक्यान्तरेण वाजिभ्य इति निर्देशात् अनुपसर्जनता, तत्रापि विलम्बहेतवो वर्णिताः । अथानन्यगतितया तन्निवेशि?Rत्वं;?R तदयुक्तम्, यौगिकत्वेनैव वाजिनान्वय उच्यतां, किं विश्वेदेवपदाभिधेयपरत्वाश्रयणेनेति, विश्वदेववद्वाजिनोऽपि युक्ताः । न च योगहानिरिति गुणान्तरात् सजातीयाद्विलम्बितार्पितात् कर्मभेदात् शास्त्रभेदः । शेषं सुगमम् ।
?R?0 ॥ 10 ॥ अधिकरणान्तरं वा ॥ 24 ॥
?R अगुणकर्मसन्निधौ गुणवच्छ्रुतिर्गुणार्थेत्युक्तेऽपि गुणवच्छ्रुतिभेदे तत्तद्गुणकर्मभेदो युक्तः सजातीयगुणान्तरावरुद्धे गुणान्तराननुप्रवेशात् । तथा निर्गुणस्य सगुणा न पुनः श्रुतिर्युक्तेति पूर्वः पक्षः । तुल्यप्रमाणार्पितनानागुणता निर्गुणावगतस्य नावरोधनिरुद्धा । निर्गुणस्य च सगुणश्रुतावपि स्वरूपतः प्रत्यभिज्ञा युक्ता । गुणांशतस्त्वप्रत्यभिज्ञातस्तत्र विधेय इति राद्धान्तः । तदुक्तम् -
?R?0 अन्योन्यानवरुद्धे तु गुणो यत्र विधीयते ।
?R?0 तस्मिन्गुणविधिश्शक्य इति कर्म न भिद्यते ॥
?R?0॥ 11 ॥ फलश्रुतेस्तु कर्म स्यात् फलस्य कर्मसंयोगात् ॥ 25 ॥
?R होमादेव फलं न गुणात् । फलं प्रति करणीभूतो हि फलपर्यन्ताधिकारापूर्वविषय इति ततः फलम् । विषयता च कर्मण एव युक्ता । यत्रापि गुणविधिः तत्रापि गुणविभक्तस्य कर्मण एव विधिविषयतोक्तेति विधीयमानं प्रकृताद्धोमात् होमान्तरम् । तच्च दधिविशिष्टं विधीयते ।
?R ननु विशिष्टविधौ गौरवम् मत्वर्थलक्षणा, प्रत्यभिज्ञा बाधश्च स्यात् । तद्वरं प्रकृतमेव कर्म गुणविभक्तरूपं फलं विधीयताम् । मैवम् । गुणविभक्तता अप्राप्ता फलसंबन्धोऽपीति वाक्यभेदः स्यात् । स माभूदिति गौरवादिः स्वीकृतः । ननु लोकसिद्धक्रियाकारकादिरूपेण दध्यन्वितो होमः फले विधीयताम् । मैवम् । दधि न विहितमिति फलार्थी नियमेन न दध्युपादद्यादिति दधिश्रुतिरनर्थिका स्यात् । न च क्रत्वर्थदधिविधिमादाय फलान्वयमात्रार्थता वाच्या । फलार्थत्वे हि दधिविधेः क्रत्वर्थताबाधः स्यात् ।
?R किञ्च गुणफलविधौ प्रकृतक्रतुप्रयुक्त्त्युपजीविता । तत्प्रयुक्तिश्च क्रत्वर्थगुणगतेति कथं फलार्था गुणप्रयुक्तिः । अतो गुणात् प्रकरणान्तराद्वा कर्मभेदात् सहकर्मप्रयुक्त्त्या स्फुटः शास्त्रभेदश्चेति सङ्गतिः पूर्वपक्षश्च कृतः । न च मत्वर्थलक्षणापत्तिपरिहारार्थं दध्नेति श्रुतेर्नामधेयत्वं युक्तम् । प्रवृत्तिनिमित्ताभावात् । न च लोकतः पक्षप्राप्तदध्यन्वयात् नामता । विशेषतो हि तत्र दधिप्राप्तौ तन्नामता स्यादिति न नामता । गुणफलसंबन्धपक्षेऽपि न नामता । प्रवृत्तिनिमित्तसंभवेऽपि मत्वर्थलक्षणाया अप्रसक्तेः अनेकनामतानुपपत्तेश्च प्रकृतकर्मणो न नाम । अत्र भाष्ये होम एव फलवान् कर्मत्वात् कृषिवदिति सामान्यतो दृष्टमुक्तम् तत्पूर्वपक्षाभास इति दर्शयितुम् । यद्धि फलं प्रति करणीभूतस्य नियोगविषयताधीनं फलवत्त्वं न तदनुमानस्य विषयः किन्तु अभिधानविनियोगसामग्रीकमेव ।
?R
नन्वभिधानविनियोगयोर्लोकव्युत्पत्त्यायत्तत्वात्प्रमाणान्तरविषयताऽस्त्येव । मैवम् । लोकव्युत्पत्त्यपेक्षत्वेऽपि तयोर्वेदवाक्यतो नियोगार्थत्वावगमात् नियोगाधीनत्वाच्च फलवत्त्वावगतेः नानुमानविषयतेति दर्शयितुं सामान्यतो दृष्टानुमानमुक्तम् । शब्दबलेन तु पूर्वपक्षिमतम् । अतोऽस्यानुमानस्य सम्यक् दूषणे
?Rसत्यप्यनास्थया विकल्पसमाद्या जातयोऽप्युक्ताः । ताश्च प्रपञ्चिता ऋजुविमलायाम् ।
?R तथा सादृश्यस्यागमकत्वादेव दूषणे स्थिते प्रौढवादतया नास्तिताप्युक्ता । तथा व्रीहिफलतापत्तिं अदृढामादाय गुणकर्मतया विध्यविषयतया न फलं स्यादिति विरुद्धतोक्ता अनास्थयैव । सप्रतिसाधनता अनैकान्तिकता च सुव्यक्ता नोक्तेत्यनुसन्धेयम् ।
?R राद्धान्तस्तु विधिगौरवमत्वर्थलक्षणाप्रत्यभिज्ञाहानिदोषाभ्युपगमोऽनन्यगतिकतया स्यात् । इह चास्ति गतिः । लोकसिद्धरूपेण दधिविभक्तो होमः फलवद्विधिविषयो युक्तः । ननूक्तं न चेद्दधिपरत्वं न नियमेन दध्युपादानमिति;?R मैवम्, दधिविभक्तरूपस्यैव फलविधिविषयत्वात् तद्रूपसिद्धये दध्युपादाननियमसिद्धिः ।
?R ननु क्रतुप्रयुक्तगुणबाधो दोषोऽस्मिन् पक्षे । मैवम् । अस्मिन् विधौ हि क्रतुप्रयुक्तिः कर्मण्येवापेक्षिता । गुणफलविधेरेव हि स्वगुणप्रयुक्तिर्युक्ता क्रतुगुणबाधोऽप्यर्थाद्युक्त एव ।
?R
?R ननु गुणफलाधिकारनियोगे करणस्येतिकर्तव्यता उपदेशतो नित्यानित्यसंयोगविरोधान्नास्ति । अतिदेशोऽपि प्रकृताधिकारनियोगप्रयोगप्रयुक्तेतिकर्तव्यताया न सम्भवति । मैवम् । अन्यप्रयुक्तेत्यन्यार्थताऽभिमता । अन्यार्थतापि च कार्यतः प्राप्यत एव । प्रसङ्गाच्चोपकारसिद्धिरिति प्रपञ्चितं निबन्धने ।
?R विवरणे तु एक एव नियोगः फलभूयस्त्वन्तु विशेष इति
?Rनियोगाभेदान्नेतिकर्तव्यतापेक्षा, क्रियाविषयो हि नियोगविधिरिति इति वस्तुबलवादी । होमांशस्यैव गुणरूषितत्वेऽपि हंसक्षीरोदकन्यायेन विषयत्वेन प्रत्यभिज्ञानात् एको नियोग इत्याह ।
?R शब्दबलवादी तु गुणविभक्ताकारतया क्रिया विषयत्वेन प्रतीयत इति पूर्वाकारादाकारान्तरेण विषयत्वान्न प्रत्यभिज्ञेत्यनुसन्धत्ते । शेषं सुगमम् ।
?R ?R?0 ॥ 12 ॥ समेषु कर्मयुक्तं स्यात् ॥ 27 ॥
?R रेवत्याधारवारवन्तीयसामसाधनकाग्निष्टोमस्तोत्रानुबन्धात् प्रकृतयागाश्रितात् फलं युक्तं;?R नो चेत् प्रकृतप्रतीतिहानं स्यात् । विशेषणश्रृङ्खलाविधाने चातिगौरवं स्यात् । एतस्यैवेति च नाञ्जस्यं स्यात् । ननु प्रकृतं वायव्याधारवारवन्तीयसामसाधनकस्तोत्रानुबन्धं तत्रापूर्वा रेवत्यः फलार्थतया यागानुबन्धतया वाच्याः । न च तास्साक्षात् यागानुबन्धभूताः किन्तु यागाङ्गस्तोत्रार्थसामसंस्कार्यतया सामानुबन्धभूताः स्तोत्रानुबन्धभूता वेति कथं यागानुबन्धात् फलम् ?
?Rअथ परम्परया यागानुबन्धता सा तर्हि न लोकतः प्राप्ता यागस्तोत्रान्वयस्य विधानाधीनत्वात् । तद्द्वारकत्वाच्च यागे रेवतीवारवन्तीयान्वयप्राप्तेः । अङ्गभूतस्तोत्रद्वारकश्च रेवतीवारवन्तीयान्वयोऽपि विधानादेवेति वाक्यभेदः स्यादिति । मैवम् । प्रकृते अग्निष्टोमस्तोत्रस्याङ्गता प्राप्तैव । तत्र वारवन्तीयं प्राप्तमेव । रेवत्याधारता परं वारवन्तीयस्य न प्राप्ता । तत्र लौकिकेन रूपेण स्तोत्रे साध्ये रेवत्याधारतां प्राप्तामादाय पूर्वप्राप्तपरम्परया यागानुबन्धतां गृहीत्वा गुणफलविधिः । रेवत्याधारताविधौ रेवत्याक्षेपः । रेवत्य एव वा वारवन्तीयादिपरम्परया यागानुबन्धभूता इति रेवतीगुणानुबन्धभेदादेव फलम् । यथा
?Rविध्यधीनापूर्वसाधनीभूतेऽपि होमे लौकिकेन रूपेण दध्यनुबन्धात् फलमिति कृतः पूर्वपक्षः ।
?R स्यादेवं लौकिकेन रूपेण रेवतीवारवन्तीयस्तोत्रान्वयः । स्तोत्रस्य तु यागान्वयो न लोकतः । किन्तु विधानादेव । विधानं च क्रत्वर्थम् । अतो न रेवत्यनुबन्धता तदाधारवारवन्तीयानुबन्धता वा यागस्य सिध्यतीति कर्मान्तरविधिरेव युक्तः । यागान्तरे च विशेषणपरम्पराधीनमभिधानविनियोगपर्यवसानमिति सर्वमेकवाक्येन विधीयते । तदा चैतस्येति तद्धर्माकाङ्क्षायां एतद्धर्मकस्येति लक्षणया वर्ण्यते । अव्यक्तत्वेन सौमिकधर्मप्राप्तौ तु विधीयमाने कर्मणि मुख्यार्थमेवेति राद्धान्त इति ।
?R ननु सवनद्वये स्तोत्रात् पूर्वं यागः । तृतीयसवने तु स्तोत्रात्परत इति यागमध्यस्थत्वात् स्तोत्रस्य कथं तस्य क्त्वा पूर्वकालतामाह कर्मविधौ । गुणफलविधौ त्वनुवादः स च परभूतयागापेक्षयापि युक्त एव । मैवम्, न क्त्वा पूर्वकालतामाह किन्तु समानकर्तृकताम् । तथा हि - समान कर्तृकयोः पूर्वकाल इति स्मरणम् । तस्यार्थः समानकर्तृकयोः पूर्वकाले न तु पूर्वकालतामात्रे ततः क्त्वा भवतीति । सा चैककर्तृकता न लोके धात्वर्थद्वयस्य स्वरूपतः । धात्वर्थभेदे कर्तृभेदापत्तेः । अत एव एकफलावच्छिन्नयोः एकप्रवृत्त्याऽनुपरत्याऽनुष्ठाने तमुपाधिमाश्रित्यैककर्तृकता द्वयोः तत्रैकं पूर्वकालमित्यर्थगतं न पूर्वकालत्वम् विच्छेदापत्तेर्नैककर्तृकतेति पूर्वकाले प्रतीयमाने धात्वर्थे वर्तमानाद्धातोः क्त्वाप्रत्ययो भवतीति सूत्रार्थः । एवं समानकर्तृकत्वमर्थगतं क्त्वातः प्रतीयते । पूर्वप्रतीयमानता तु पूर्वप्रयोगादेव प्रायेणावगम्यते । यत्र कुतश्चित्कारणात् परतः प्रयोगः तत्र क्त्वान्तार्थं पूर्वं प्रतीत्य प्रयुक्तप्रत्ययेन धात्वन्तरार्थान्वयं प्रत्येति । क्त्वान्तार्थो हि
?Rधात्वर्थान्तरसम्बन्धिरूपः सम्बन्ध्यन्तरान्तर्भावपर्यवसायी भवति । अतोऽग्रतो धात्वर्थान्तरं प्रतीत्यापि क्त्वान्तादर्थप्रतीतिसमये पुनर्धात्वर्थान्तरं प्रत्येतव्यं इत्यनुसन्धायोक्तं पूर्वं प्रतीयते इति ।
?R अत एव विवरणे पूर्वकाले प्रयोगे प्रयोगार्हे पूर्वं प्रतीयमान इत्येवाभिप्रेतम् । एवं च पूर्वप्रतीतेर्युक्तिसिद्धत्वात् विस्पष्टार्थं पूर्वकाल इति सूत्रितम् । एवञ्च समानकर्तृकता क्त्वार्थो यत्र नास्ति तत्राज्ञातानुष्ठानस्य यथाप्रतीत्यनुष्ठानं युक्तमित्यनुष्ठानगतापि परम्परया पूर्वकालता क्त्वातः स्वीक्रियत इति क्त्वार्थताभ्रान्तिः । किञ्च समानकर्तृकत्वपूर्वकालत्वयोः विरोधे समानकर्तृकताप्रतीतिगता प्रयोगगता वा न शक्येत्यर्थगतैव ग्राह्येति युक्तम् ।
?R केचित्तु धातुसम्बन्धाधिकारे विहितः प्रत्ययः तदनुगुणार्थो युक्तः तदनुगुणञ्च समानकर्तृकत्वम् । तत्र हि धात्वर्थसम्बन्धः न पूर्वकालतायामिति तेन समानकर्तृकतावाचकतां वदन्ति । तच्चिन्त्यम् । प्रस्तुते कर्मविधावपि अनुष्ठानक्रमस्यान्यतोऽवगतेः न क्त्वातस्तदादर इति समानकर्तृकत्वमात्रे एव युक्तमग्निष्टोमसामकृत्वा यजेतेति वचनम् । स्फुटास्फुटशास्त्रभेदचिन्तेयमिति सङ्गतिर्निबन्धने । विवरणे तु किं साध्यमात्रभेदात् उतानुबन्धभेदादिति चिन्तेयमिति सङ्गति ।
?R?0 ॥ 13 ॥ सौभरे पुरुषश्रुतेर्निधने कामसंयोगः ॥ 28 ॥
?R हीषादेः निधनाश्रितस्य वृष्टिकामाद्यन्वयमात्रात् गुणफलसम्बन्धेन विधिः । ननु सौभरस्य स्तुत्याश्रितस्य वृष्ट्यादिफलसंबन्धोऽवगत एव । अतः तद्वृष्टिकामादिसंबन्धसौभरगतनानाशाखावगतानियतानेकहीषादिरूपनिधनव्यवस्थार्थं वचनं युक्तम् । मैवम् । वृष्टिकामाय सौभरमिति विशिष्टानुवादे वाक्यभेदः स्यात् ।
?Rअतो वृष्टिकामाय निधनाश्रितहीषादिविधिर्युक्त इति पूर्वः पक्षः । मैवम् । प्रकृतवृष्टिकामादिप्रत्यभिज्ञानात् तन्निधनहीषादिप्रतीतेः तद्वयवस्थार्थं वचनम् । न च विशिष्टानुवादः वृष्टिकाममात्रोद्देशेन हीषादिव्यवस्थाविधेः । वृष्टिकामस्तु प्रकृतसौभरनिधनानियतहीषाद्यन्वित एवेति तथाभूतलाभ इति राद्धान्तः ।
?R गुणफलपरत्वे च साध्यभेदाच्छास्त्रभेदः;?R सिद्धान्ते तु तदपवादात्संगति ।
?R कैश्चित् क्रत्वर्थसौभरनिधने हीषादिश्रुतेः वृष्टिकामान्तरान्वयात् गुणफलसंबन्ध इति पूर्वपक्षयित्वा कामार्थसौभरे प्रयुक्तितारतम्यात् तत्प्रयुक्तसौभरगतहीषादिश्रुतितो व्यवस्थेति राद्धान्तितम् । तच्चिन्त्यम् ।
?R
?R?0 इति नयविवेके द्वितीयाध्यायस्य द्वितीयः पादः ।
?R __________?R ?R
?R
?R ?R ?R?0श्री नयविवेके द्वितीयाध्यायस्य
?R?0 तृतीयः पादः
?R ?R?0॥ 1 ॥ गुणस्तु क्रतुसंयोगात् कर्मान्तरं प्रयोजयेत् ॥ 1 ॥
?R रथन्तरमेवास्य सामेत्येवं सामान्तरनिवृत्त्या विशेषणत्वं स्वरसत इति सामर्थ्यादयमेव समासार्थ इति प्रकृतस्य क्रतोः नायं वाचकः तस्यानेकसामसंयोगात् । अतस्तदेकसामकयागान्तरविधिः, सोमशब्दात् सोमवतो यागस्य लक्षणया प्रतीतेः तद्विधिः । सोमशब्दार्थस्य द्रव्यमात्रस्य विध्यनुपपत्तेर्भावार्थस्य च यागरूपस्य सोमान्वयावगतेः ग्रहाग्रतायाश्च याग एवान्वयात् लक्षणा युक्ता ।
?R ननु यद्यन्वयात् प्रसिद्धार्थतावगतेः कथं कर्मान्तरविधिः;?R मैवम्, रथन्तरसामेति प्रकृतेऽनन्वयात् । यदिशब्दस्य च निपातत्वेन पदान्तरार्थपरतन्त्रत्वाद्रथन्तरसामपदसामर्थ्यानुरोधात् अर्थशून्यतापि युक्ता । अथ नार्थशून्यता तदा त्रयः प्रकारास्सन्ति स्वर्गफलरुच्यर्थाध्याहारः यदि रोचते स्वर्गो मे स्यादिति तदा रथन्तरसामानं क्रतुं कुर्यादित्येकः प्रकारः । तत्र चैन्द्रवायवाग्रानिति वाक्यभेदः । अपरोऽपि-यद्यैन्द्रवायवाग्रान्ग्रहीतुमिच्छेत् तदा रथन्तरसामानं क्रतुं कुर्यादिति । अत्र च व्यवहितान्वयः । तदा च न यदियोगे लिङ्;?R साहि धात्वर्थयोगे । अत्र तु यदियोगः ऐन्द्रवायवाग्रताया इति कामप्रवेदन एवैका लिङ् । अपरा तु विधत्ते । अपरोऽपि प्रकारः - यदि रथन्तरसामहेतुकत्वेनैन्द्रवायवाग्राणां ग्रहणं तदाऽसौ कर्तव्य इत्येका हेतुहेतुमतोर्लिङ् अपरा तु विधत्त इति कर्मान्तरविधिरेव । तदुक्तम् -
?R ?R?0यदिशब्दपरित्यागो रुच्यध्याहारकल्पनम् ।
?R?0 व्यवधानेन संबन्धो हेतुहेतुमतोश्च लिङ् ॥ इति ।
?R ननु विरोधिसामान्तरनिवृत्त्यापि रथन्तरविशेषणं युक्तं;?R मैवम्, पृष्ठे हि
?R प्रयोगावस्थायां विरोधात् बृहतो निवृत्तिर्युक्ता । रथन्तरसामेति तु क्रतौ प्रयुक्तः, न पृष्ठे । क्रतौ तु सर्वसामनिवृत्त्यैव विशेषणता युक्तेति पूर्वः पक्षः ।
?R प्रकृतक्रतुप्रत्यभिज्ञानात् यदिपदार्थान्वयार्थं तत्परित्यागकल्पनादेश्च गत्यन्तरे सत्ययुक्तत्वात् प्रकृत एव पृष्ठप्रयोगगतविरोधिवृहन्निवृत्या विशेषणत्वोपपत्तेः रथन्तरमेव पृष्ठप्रयोगवतः क्रतोः साम यस्येत्यन्वयः ।
?R ननु पृष्ठप्रयोगापेक्षं विशेषणमसमर्थम्; ?Rमैवम्, एवंभूतैव हि प्रकृतक्रतौ अन्यनिवृत्तिरवगतेति गमकत्वात् सामर्थ्यमिति राद्धान्तः । शास्त्रभेदापवादात् सङ्गतिः ।
?R?0 ॥ 2 ॥ अवेष्टौ यज्ञसंयोगात् क्रतुप्रधानमुच्यते ॥ 3 ॥
?R आन्ध्राणां क्षत्रिये राजशब्दः, पालनादिकर्तर्यार्याणाम् । आर्यप्रयोगश्च विरोधे बलवानिति यववराहादिषु दर्शितम् । अतो ब्राह्मणवैश्ययोरपि राजसूयावेष्टेः सम्भवाद्यदि ब्राह्मणो यजेतेत्यादि निमित्तार्थम् ।
?R नन्वार्यवरपाणिनिना राज्ञः कर्म राज्यमित्यर्थे राजाऽसे इति विशेषस्मृतेः पूर्वसिद्धो राजेत्यान्ध्रप्रसिद्धिनिबन्धनेति क्षत्रिय एव राजा । स्मृतितो ह्यर्थविशेषेऽपि शब्दस्य साधुतानियमोऽस्वगोण्यादौ दर्शितः;?R मैवम् । आर्यानार्यविप्रतिपत्तौ आर्यप्रयोगो बलवान् वाक्यशेषादिति निर्णीतम् । अतः स्मृतिरप्यार्यप्रयोगमूलैव युक्तेति साधुत्वमात्रार्था स्मृतिः । पालनादिकर्तैव तु राजार्थः । पालयितर्यप्यान्ध्राणां प्रयोगात् सार्वभौमत्वादपि बलवत्त्वम् ।
?R न चार्याणां क्षत्रियेऽपि प्रयोगो लोकसिद्धः किन्त्वेतदधिकरणसिद्ध एव ।
?Rएवञ्च क्षत्रियस्य विहितं पालनादीति तदर्हत्वाद्विशेषेण प्रयोगोपपत्तिः । ननु राजापत्ये राजन्यशब्दः स्मृतः । स च क्षत्रियार्पकः ;?R पालके च राजनि पालकभूतब्राह्मणापत्येपि राजन्यशब्दः स्यात् । मैवम्- राजापत्यमित्यत्र राजशब्दो नाञ्जस एव गौण एव आर्यप्रयोगबलवत्त्वात् ।
?R विवरणेत्वधिकमुक्तम् - राज्यं सत्क्षत्रियस्य धर्मः स्मृतिविहितमिति पूर्वं राज्यशब्दः पालनादौ प्रसिद्धो वाच्यः । तदा च राज्यकर्तृतोपाधिक एव राजशब्दोऽवयवार्थाभावेऽपि इष्यते । अतः क्षत्रियमात्रे राजशब्दो राज्यार्हत्वादेवेति " ?Rयदि ब्राह्मणो यजेते " ?Rत्यादि निमित्तार्थमेवेति पूर्वः पक्षः । वाक्यशेषबलाद्धि आर्यप्रयोगस्य बलवत्त्वमुक्तम् । तदत्र विपरीतं राज्ञः कर्म राज्यमिति स्मृतिनिबन्धनबलात् अनार्यप्रयोगस्यैव बलवत्त्वम् । समूला च स्मृतिर्न कथंचिद्व्याख्यानमर्हतीति बाधिते आर्यप्रयोगे अप्रतिपक्षोऽनार्यप्रयोगः पिकादिष्विव ग्राह्यः ।
?R यच्च राज्यं सत् क्षत्रियस्य विहितमिति पूर्वसिद्धं राज्यमित्युक्तम् तदयुक्तम् । शाब्दस्मृतिवशेन हि शब्दार्थविषये धर्मस्मृतिवर्णनं युक्तमिति राज्यशब्दः परिपालनादावपि इति गृहीत्वा निमित्तमनालोच्य धर्मस्मृतिषु व्यवहार उपपन्नः । असार्वभौमोऽपि हि स्मृतिबलात् बलवान् प्रोक्षणीवत् । अतः क्षत्रियस्यैव राजसूयावेष्टावधिकारात् ब्राह्मणादेर्यागविधायकानि वचनानीति राद्धान्तः ।
?R नन्वन्नाद्यकामाधिकारबलादवेष्टेः ब्राह्मणादिसम्भवान्निमित्तार्थता युक्ता । मैवम् । अधिकारान्तरमवेष्टेर्नास्तीति कृत्वा चिन्तेयम् ।
?R ननु राजशब्दार्थनिरूपणं राजसूयेऽपि शक्यते तत्कथमवेष्टौ कृत्वा चिन्ता;?R
?Rमैवम्, नहि राजसूये राजशब्दार्थविशेषनिबन्धनः शास्त्रभेदः । राजसूयावेष्टौ यदि ब्राह्मणो यजेतेत्येवमादौ क्षत्रिये राजनि ब्राह्मणादेर्यागान्तरविधेःशास्त्रभेदः । अतो लक्षणसङ्गतिः । पूर्वाधिकरणपूर्वपक्षनयेन चेह सिद्धान्ते यदिशब्दसमर्थनादवान्तरसङ्गतिरवेष्टावेवेति सूक्ता कृत्वाचिन्ता ।
?R नन्वन्तर्गतावेष्टियागद्वये दक्षिणाद्वयात् प्रयोगभेद उक्तः एकादशे प्रयोगैक्ये च मध्यस्थता । सा कथम् ? ?Rएवं, यागद्वयमध्यतयापि मध्ये निधायेति समाधेयम् । परमते तु बहिरवेष्टावप्येषा चिन्ता । राजकर्तृता च बहिरन्तश्चावेष्टेः अनेकाधिकारावेष्टिप्रयोगे राजविधेः अस्ति । तत्तन्मतज्ञेनैव कृत्वा चिन्तोपगमाद्भग्नम् । नहि राजसूयावेष्ट्यधिकारवाक्ये राजश्रुतिरधिकारान्तरेऽपि क्षमेति कारकद्वयान्वयस्य च क्रियापेक्षत्वात् समभिव्याहृतातिनिपुणंमन्यसमर्थनमयुक्तमिति दिक् । शेषं सुगमम् ।
?R ?R?0 ॥ 3 ॥ आधानेऽसर्वशेषत्वात् ॥ 4 ॥
?R गुणश्रुतौ हि तद्विधिपरत्वं युक्तम् । तन्मात्रविधौ च लाघवम् । अतो वसन्तादिवाक्यैः वसन्तादिब्राह्मणाधिकारद्वयान्वयस्यैकस्यैव विधिर्युक्तः । कारकद्वयान्वयस्य च क्रियापेक्षत्वात् समभिव्याहृताधानगतत्वाधिगतिरित्याधाने वसन्तादिब्राह्मणाद्युभयनियमः । नियमस्य चाधाने तत्प्राप्त्यपेक्षत्वात् संभारविधिवाक्यात् भिन्नं अग्निमाधत्त इति आधानविधानम् ।
?R अथ वा काम्यश्रुतीनामलौकिकाहवनीयापेक्षायां वसन्तादिवाक्ये चाधानस्याग्निकर्मकस्य चाभिधानादाहवनीयादीनां च वाक्यशेषे अग्निविशेषरूपताधिगतेः आधानोपायसाध्यतामग्नीनां कामश्रुतय आक्षिपन्तीति
?Rवसन्तादिवाक्यानि नियमार्थान्येवेति पूर्वः पक्षः ।
?R
?R वसन्तादिवाक्येषु हि श्रुतेराधानविधिर्युक्तः । न तावत् आक्षेपात्तत्प्राप्तिः, अश्रुते हि आक्षेपः न श्रुतिमनादृत्य । न च संभारविधिवाक्यात् भेदमाश्रित्य आधत्त इति वर्तमाननिर्देशादपि आधानविधिर्युक्तः । किञ्च आक्षेपे आत्मनेपदाविवक्षायां क्रयादिप्रसङ्गात् आधानश्रुतिरनित्यास्यादिति ब्राह्मणादिवसन्तादिविशिष्टाधानविधिरेव युक्त इति राद्धान्तः ।
?R
?R तत्तद्ब्राह्मणादिकारकानुबद्धं चाधानं भिन्नमेव ।
?R ननु गुणक्रियाकर्मैकत्वप्रत्यभिज्ञानादभिन्नेति क्रये दर्शितम् । मैवं, युक्तं हि अजादिगुणभेदेऽपि कर्मभूतसोमस्याभेदात् । इह तु तत्तत्कर्तृकाधाने तत्तदाहवनीयाद्युत्पत्तेः प्रतिकारकं कर्मभेदात् न कर्मतः प्रत्यभिज्ञानमित्याधानभेदः । क्रियाभेदमात्रञ्च प्रसङ्गात् सङ्गतम् ।
?R ननु ब्राह्मणाद्याहवनीयादिभेदे साध्यभेदादस्त्येव शास्त्रभेदः । मैवम् । पूर्वपक्षप्रकारभेदे ‘?R अग्निमाधत्ते ’ ?Rइति विधावात्मनेपदादस्त्येव शास्त्रभेदः आधानभेदस्तु नास्तीति राद्धान्त एव तद्भेदः ।
?R नन्वाधानवाक्यगतलिङा न नियोगानुवादः, सन्निहितनियोगाभावात् अतो विध्यनुबन्धभेदात् शास्त्रभेद एव । मैवम् । अग्नीनां भाव्युपयोगाकलनादीप्सितता युक्ता, न च क्रियाफलस्य नियोगानुगुण्यात् साध्यतेति न नियोगान्तरम् । अतः प्रयोजकत्वेनापि सन्निहितकामश्रुतिनियोगानुवादो युक्तः ।
?R नन्वपशूद्राधिकरणेऽप्येवं पूर्वोत्तरपक्षाविति पुनरुक्तिः;?R मैवम्, तत्र हि
?Rप्रापकत्वेऽपि वसन्तादिवाक्यानां अधिकारश्रुत्या शूद्रस्यापि गृहीतत्वादाधानप्रयुक्तिपूर्वकत्वाच्चाहवनीयादिविनियोगस्य प्रयुक्तेश्चाधिकारपूर्वकत्वादवगतशूद्राधिकारानुसारेणाधानप्रयुक्तिविरहादनग्नेः शूद्रस्यापि प्रयोग इति पूर्वः पक्षः ।
?R ननु तत्र पूर्वपक्षे निमित्तार्थतैवोक्ता;?R मैवम्- शूद्राधिकारेऽनग्नेः प्रयोगे पाक्षिकमङ्गत्वमग्नेः स्यादिति यो मन्यते तं प्रत्युक्तम् परं निमित्तार्थानि वसन्तादिवाक्यानीति । निश्चिते च निमित्तार्थत्वे वरं वाक्यभेदादाक्षेपाद्वाऽऽधानप्राप्तिर्युक्तेति । न पुनर्निमित्तार्थतया तत्र पूर्वः पक्षः । स्वतस्तावद्वाक्यभेदाक्षेपयोः अन्याय्यत्वात् शूद्राधिकारबलात्तु तदापत्तिर्वाच्या । स्वतस्तु प्रापकत्वं, तत्र च नित्यविहिताहवनीयाद्यङ्गविरोधादधिकारश्रुत्यैव शूद्रपरिग्रहो न युक्तः । यद्यप्यधिकारवतः प्रयुक्तिज्ञानपूर्वकमाहवनीयाद्यङ्गज्ञानं तथाप्यधिकारवत्तामात्रात् प्रयुक्तिज्ञानं;?R तेन तत्पुरस्सरमधिकारव्यवस्थापनं अपशूद्रकं युक्तमिति तत्र राद्धान्तितमित्यपुनरुक्तिः ।
?R आधानभेदाभेदस्य च प्रयोजनमुक्तम् । वसन्तादिवाक्यानां प्रापकत्वे तत्प्राप्ताधान एव कृत्तिकादिगुणविधिः स्यात् । गुणविधिश्चायमाधानप्राप्तावेकगुणश्रुतेः । एवञ्च वसन्तादिगतकृत्तिकादिषु ब्राह्मणादीनामाधानम् । निमित्तार्थत्वे त्वाधानमात्रे प्राप्ते कृत्तिकादिगुणविधेः वसन्तादिवाक्यनिरपेक्षत्वादवसन्तादावप्याधानं ब्राह्मणादीनां स्यात् । तथा चोभयनियमः वसन्ताद्येव नियतं ब्राह्मणादेः । कृत्तिकादिमात्रेप्याधानं कृत्तिकादिविधेः वसन्तादिविधिनिरपेक्षत्वात् । यद्युभयनियममाश्रित्य शूद्रस्य कृत्तिकाधानं प्रयोजनमुच्यते तदाऽपशूद्राधिकरणसापेक्षं प्रयोजनमुक्तं न स्वतन्त्रमिति पूर्ववदनुसन्धेयम् ।
?R?0 ॥ 4 ॥ अयनेषु चोदनान्तरं संज्ञोपबन्धात् ॥ 5 ॥
?R साकं प्रस्थायीयादिसंज्ञातः कर्मभेदो युक्तः । ननु यजियुक्तैव संज्ञा श्रुता न भेत्त्त्रीत्युक्तं अभ्यासाधिकरणे, केवला च श्रुता पश्चाच्च यजियुक्ता सती भेत्त्त्रीत्युक्तं संज्ञाधिकरणे । तत्कथमेता यजियुक्ता एव श्रुता भेत्र्यः । मैवम् । एतदधिकरणसिद्ध एवायं विवेकः । संज्ञा हि भिन्नाभिन्नं संज्ञिनमुपस्थापयति । अन्यायश्चानेकशब्दत्वमिति न्यायात् । तच्च भिन्नत्वं निर्वहति गुणान्तरश्रुतेरिति संज्ञाधिकरणे सिद्धम् । इहापि संज्ञातोऽन्यत्वं निर्वहति चाव्यक्तत्वेन सौमिकविध्यन्तप्राप्तेः । एवञ्च संज्ञान्तरं स्ववाक्य एवार्थवत् । इतरथा गुणफलोपबन्धपरत्वे वाक्यान्तरे अर्थवत्ता । अधिकारान्वये च कर्म विधेयं, विध्यभ्यासे च विधानं तच्चैवमाञ्जसं भवति । यत्र यत्र संज्ञान्तरापादितकर्मान्तरनिर्वाहः तत्सर्वमाक्षिप्तमिति पूर्वः पक्षः ।
?R सत्यमन्याय्योऽनेकशब्दत्वमिति किन्तु यजिग्रस्ता संज्ञा तत्परतन्त्रवृत्तिः । यजेश्च गुणान्तररहितश्रुतेः व्यक्तिवचनतया प्रकृतरूपवत्परतेति तदनुसारात् संज्ञापि तत्रैव युक्ता । सिद्धे च कर्मान्तरपरत्वे सौमिकधर्मकल्पनया निर्वाहः । नतु कल्पनैव क्लृप्तप्रकृतपरतामपहन्ति । यत्र तु संज्ञाधीनेऽन्यत्वे पश्चाद्यजियोगस्तत्र प्रवृत्तसंज्ञानुरोधात् यजेरेवार्थान्तरे प्रवृत्तिः । अर्थान्तरत्वं गुणान्तरश्रुतेः क्लृप्तमेवेति भेत्त्त्री ज्योतिरादिका संज्ञा । नतु समिदादिषु तथेति न तत्र संज्ञातो भेद इति विवेकः । कृतश्च राद्धान्तः । प्रकृतस्य च सहप्रस्थानादिगुणयोगात् प्रवृत्तिनिमित्तसम्भवात् नामतैव युक्ता । तस्मिन्नेव नाम्नोऽर्थवत्ता संज्ञायोगोपस्थितस्य प्रकृतस्याधिकारान्वयात् । संज्ञातश्च सहप्रस्थानान्वयितयोपस्थितं कर्म फलान्वितमिति फलतो गुणफलसम्बन्धोक्तिः ।
?R ननु सहप्रस्थानादि क्रत्वर्थं कथं फलार्थम्; ?Rमैवम्, वाक्यान्तरविहितं सहप्रस्थानादि प्रवृत्तिनिमित्ततोऽवगतं तदवस्थस्य फलान्वये फलार्थमेव उत्पत्तेः कामसंयोगादिति न्यायात् ।
?R नन्वेतस्यैव रेवतीष्वित्यत्रापि स्तोत्रान्वयः फलार्थो भवतु । तथा च गुणफलान्वयो भवतु - मैवम्, वायव्यानुबन्धत्वस्तोत्रानुबन्धान्वयो यागस्यैव रेवत्यनुबन्धस्य फलार्थता वाच्या । न च सा वाक्यान्तरादस्तीति न गुणफलान्वयः । यत्र तु लौकिकेन रूपेण प्राप्तिर्न तत्र वाक्यान्तरप्राप्तस्य फलार्थतेत्यनुसन्धेयम् ।
?R?0 ॥ 5 ॥ संस्कारश्चाप्रकरणे कर्मशब्दत्वात् ॥ 12 ॥
?R निर्वापालम्भयोस्तु सगुणश्रुतेः गुणविधिपरतया संस्कारस्वभावतया च दूरस्थसंस्काररूपनिर्वापालम्भयोः श्वेतचरुगुणविधिर्युक्तः । विधेय- गुणान्वयायोग्यतया न लौकिके विधिः । कर्मासन्निधेश्च गुणफलविध्यभावात् न कामिपदमन्वयि । न च देवतापदम् । अतो वाक्यं भित्वा वायव्यं कुर्यात् भूतिकाम इति सिद्धं विध्यन्तरम् । अथवा कामिपदस्याप्यन्वयार्थमालम्भविधिः आलम्भस्य कार्यान्तरानुपयोगात् अगुणकर्मतयाऽधिकारविषयस्यकामिपदान्वयः।
अतोऽसम्भवदन्वयस्य देवतापदस्य वाक्यभेदेन वायव्यं कुर्यादिति पूर्वः पक्षः । एकवाक्यताबलेन कथंचित् साध्यस्य सम्बन्धस्य तदाक्षिप्तयागस्य वा विधिर्युक्तः अर्थप्राप्तालभतिनिर्वपत्यनुवादो युक्तः । न चार्थप्राप्तस्य विध्यसंस्पर्शादनन्वयिता, विध्याक्षिप्ततयापि विधिसंस्पर्शात् इति राद्धान्तः । वाक्यभेदे चात्र शास्त्रभेद इति तदपवादकतया च सङ्गतिः ।
?R?0 ॥ 6 ॥ विशये प्रायदर्शनात् ॥ 16 ॥
?R विषयः संशयस्वरूपं मूलहेतुरित्यनेन सूत्रेणेदं न सूत्रितम् । यतः श्रुतसिध्यर्थं अश्रुतोपलब्धौ च यत्नवता भवितव्यम् । एवं ह्यवहितः सूक्ष्मन्यायतत्वमवैतीति । वृत्तिकारेण चावहितेन तदुन्नीतम् । आलभतिः प्राणिसंयुक्तो यजिमदभिधानो दृष्ट इति अनुमानादत्र यागावगतेः । तस्य च विधिविषयता शब्दावगम्यैवेति अनुमितस्य चाव्यक्तस्य सोमधर्मदेवताप्राप्तेः निर्वाह इति पूर्वः पक्षः । प्राणियुक्तमालभतित्वमप्रयोजकं देवतान्वयो हि प्रयोजको यागविधाने न चात्र देवताश्रुतिरिति आलम्भविधिरिति राद्धान्तः ।
?R ?R?0॥ 7 ॥ संयुक्तस्त्वर्थशब्देन तदर्थश्रुतिसंयोगात् ॥ 18 ॥
?R अर्थवादपदं हि परोक्षार्थं माभूदिति बृहस्पतिदेवताकचरुविधेर्यागप्रतीतेः यागविधिर्युक्त इति पूर्वः पक्षः । नार्थवादानां देवतासमर्पकता स्तुत्यर्थत्वात् । किन्तु कल्पनाप्रवृत्तौ अर्थवादप्रतीतं कल्प्यते, नाप्रतीतं, अर्थवादानतिपरोक्षार्थता त्वभ्युच्चयः । न चेहकल्पना युक्ता उपधानप्रयोजनश्रुतेः । न चोपधानं कार्यान्तरार्थं वस्तुनस्समीपस्थापनं, किन्तु समीपस्थापनमात्रम् । न चोपधेयमीप्सितं युक्तम् । येनेप्सितस्य कार्यान्तरापेक्षा स्यात् । अतो द्वितीयाप्यत्रोपधानान्वयात् ।
?R ननु नैवार इति देवतातद्धितोऽयम् । मैवम् । चर्वन्वयात् चरोश्चनित्यं विकारत्वात् विकारतद्धित एवायम् । तद्धितार्थसन्देहे चार्थवादतो नीवारस्यान्नत्वकीर्तनान्न देवतात्वमिति न यागविधिरिति सिद्धान्तः ।
?R ?R?0 ॥ 8 ॥ पात्नीवते तु पूर्ववत्त्वादवच्छेदः ॥ 19 ॥
?R केवलपत्नीवद्देवताश्रुतेः त्वष्टुः पत्नीवतो भेदावगतेरनुषङ्गाच्च पशुप्रतीतेर्यागान्तरविधिर्युक्तः । इह यागे चोत्सर्गप्राप्तेश्चोदकतश्च पर्यग्निकरणप्राप्तेः
?Rपात्नीवतमात्रविधिः ।
?R ननु पर्यग्निकृतपदस्य यौगिकत्वात् प्रकृतपात्नीवतपरत्वं युक्तम् । श्रुत्या चोत्सर्गविधिर्युक्तः;?R मैवम्, पात्नीवतपदादप्रकृतप्रतीतेः तद्विषयं पर्यग्निकृतपदं सन्निहितपरम् । उत्सर्गस्तु प्रकृतेऽपि प्राप्तत्वान्न विधेय इति पूर्वः पक्षः । पर्यग्निकृतपदं हि स्वतः पूर्वसिद्धे प्रकृते वर्तते । प्रकृतञ्च पात्नीवतमेव । व्यस्ताच्च तद्धितश्रुतेः तत्प्रतीतेस्त्वाष्ट्रप्रतीतिरपि सिद्धा । समासाद्धि तद्धिते श्रुते अप्रत्यभिज्ञा ऐन्द्राग्न आग्नेयवदिति, प्रकृतपर्यग्निकृतप्रतीतेः पात्नीवतत्वप्राप्तेः विशिष्टानुवादोऽपि नास्ति । पर्यग्निकृतावस्थस्य चोत्सर्गविधेस्तदन्ताङ्गरीत्युपदेशोऽयम् पर्यग्निकृतानारण्यानुत्सृजन्तीतिवत् श्रुत्या विधिरिति राद्धान्तः ।
?R ?R?0 ॥ 9 ॥ अद्रव्यत्वात्तु केवले कर्मशेषः स्यात् ॥ 20 ॥
?R ग्रहणं संस्काररूपं कार्यान्तरापेक्षम् । अतः स्ववाक्यश्रुतयागविधावपेक्षितविधेर्ग्रहणयुक्तयागविधिरदाभ्यं गृहीत्वेति । अंशुं गृह्णातीत्यंशावपि कार्यान्तरापेक्षायां प्रकृते च यागावगतेः तत्साहचर्याद्यागविधिः ।
?R
?R ननु यदुपबन्धाद्वर्तमाननिर्देशाच्च सोमाय यजत इत्यनुवाद एव । मैवम् । विधिपरत्वकल्पना निरपेक्षतया युक्ता । नन्वप्रकृतोऽपि सोमयुक्ततया सोमयागः प्रतीत एवेति तत्रैव ग्रहणविधिर्युक्तः; ?Rमैवम्, सोमायेति चतुर्थ्यन्तत्वान्न सोमयागप्रत्यभिज्ञेति यागविधिरेव । यागविधौ च ग्रहणस्य सोमद्रव्यार्थत्वात् सोमायेत्यन्वयः । अदाभ्यस्य च ग्राह्यस्याप्रसिद्धेर्गुणकर्मणश्च द्वितीयान्तनामासंभवात् अदाभ्यपदं विधेययागनाम । अव्यक्तत्वेन च सौमिकधर्मलाभाद्यागनिर्वाहः । गृह्णातिस्तु ग्रहणानुवादः ससोमशब्दः । ग्रहणान्तरविधेर्वा प्रकृतितो विधिभेदः । प्रवृत्तिनिमित्तञ्च कथञ्चिदनुसरणीयम् । एतच्च ग्रहणनामत्वेऽप्यविशिष्टम् ।
?Rअंशावप्येतत्तुल्यमिति पूर्वः पक्षः ।
?R ज्योतिष्टोमेऽपि सोमद्रव्यार्थत्वाद्ग्रहणस्य सोमायेति निर्देशान्वयात् अनुवादे च प्राप्त्यनुसारात्तस्यैव प्रतीतेः, उपदेशतस्तस्य सोमान्वयात् । अतोऽनुवादे न विधिकल्पनेति ज्योतिष्टोम एव अदाभ्याख्यग्रहणविधिः । अंशावप्येवम् गुणकर्मणोऽपि द्वितीयान्तं नाम युक्तम् । प्रयत्नकर्मत्वादिति राद्धान्तः ।
?R?0 ॥ 10 ॥ अग्निस्तु लिङ्गदर्शनात्क्रतुशब्दः प्रतीयेत ॥ 21 ॥
?R रूढोऽपि ज्वलने अग्निशब्दो द्वितीयान्तोऽपि यज्यन्वितो यजिनामेति स्थिते स्तोत्रविशिष्टयागविधौ मत्वर्थलक्षणागौरवञ्च माभूदिति अग्निं चिनुत इत्यत्राग्निनाम्ना साध्यत्वलक्षणया यागविधिः चिनुत इति ग्रहसंङ्घातानुवादः अथातोऽग्निमिति वाक्येनाग्नियागे स्तोत्रविधिः । नन्वग्निं यो यजतीत्यग्निं चयनेन संस्कृत्येत्यध्याहारे ज्वलनस्यैव यागान्वयः । मैवम् । अनेकाध्याहाराद्वरं यजिनामत्वमिति पूर्वः पक्षः ।
?R ज्वलने रूढस्याग्नेः कर्मश्रुत्या चयनविधिरेव युक्तः । तत्पूर्वकमथातोऽग्निं चित्वेत्यध्याहाराङ्गीकारात् स्तोत्रान्वितयागविधिर्युक्तः । प्रसिद्धार्थहानमप्रसिद्धार्थकल्पनञ्च पूर्ववाक्यावगतार्थहानञ्च, नाम्ना लक्षणयापि यागविधानं चिनुत इति कथञ्चिदनुवाद इति सर्वमन्याय्यम् । वरमध्याहारो गौरवं मत्वर्थलक्षणा चेति राद्धान्तः । ज्योतिष्टोमविकाराणाञ्च तत्पूर्वकत्वादन्वर्थप्राप्तिः इत्युक्तम् । अग्नेः स्तोत्रमग्नेः शस्त्रमिति लक्षणयाऽन्वयः ।
?R?0 ॥ 11 ॥ प्रकरणान्तरे प्रयोजनान्यत्वम् ॥ 24 ॥
?R नन्वप्रकृते होमे जुहोतीति श्रुतेः होमविधिर्युक्तः । न च मासगुणश्रुतेः तन्मात्रविधिः युक्तः, कर्मणोऽप्यप्राप्तत्बात् । अनेकगुणश्रुतेश्च गुणवद्विधिर्युक्तः । अत्र समाधिः । नियतहोमे प्रसिद्धनाम्नाऽग्निहोत्रपदेनाप्रकृतहोमावगतेः तत्र गुणविधिर्युक्तः ।
?R
?R नन्वनेकगुणविधेर्वाक्यभेदः - मैवम् । इदमेवात्र चिन्त्यते- किमग्निहोत्र श्रुतिबलेन वाक्यभेदोऽङ्गीक्रियतां उतैकवाक्यताबलेन लक्षणेति । अत्र श्रुतसिध्यर्थमश्रुतवाक्यद्वयकल्पना युक्ता, पदार्थान्वयानुसारित्वात् वाक्यार्थस्य । लोके तु वक्त्रभिप्रायात् गङ्गायां घोष इत्यादौ लक्षणेति पूर्व पक्षः ।
?R समुच्चरितपदानामेकार्थताव्युत्पत्तेः तात्पर्याधीनञ्च पदार्थत्वमिति लक्षणैव युक्ता । लोकेऽपि व्युत्पत्तित एव लक्षणेति । गुणद्वययुक्तहोमान्तरविधिरिति राद्धान्तः ।
?R नन्वेवं गुणादेव भेदो न प्रकरणान्तरात् । मैवम्- अप्रकृतत्वं हि प्रकरणान्तरत्वं तदस्त्येव ।तत्तु नाम्नाऽऽक्षिप्तं नामापि गुणद्वयश्रुतेः निरस्तम् । अतः प्रकरणान्तरमेव भेदकं मूलभूतम् ।
?R ननु गुणद्वयादपि शक्यं कर्मविधानम् । किं प्रकरणान्तरेण । मैवम् । न ह्यनधिगतार्थगन्तृ प्रमाणम् । किन्त्वनपेक्षम् । अस्ति च गुणद्वयश्रुत्यभावेऽपि फलश्रुतावप्रकृतत्वात् कर्मभेददर्शनम् । अतः प्रकरणान्तरसिद्धिः ।
?R ननु मासं दर्शपूर्णमासाभ्यामित्यत्र गुणद्वयाश्रुतेः न सिद्धान्तः । मैवम् । मासमुपसद्भिश्चरित्वेत्यन्वयात् मासविशिष्टोपसद्विशिष्टहोमविधिः शीघ्रविहितप्रातराद्यवरोधात् मासस्य न होमान्वयः । अत उपसदन्वयो युक्तः । एवं यागेऽपि पौर्णमास्यादेः शीघ्रविहितत्वान्न मासविधिरित्यनुषङ्गात् उपसदान्वयात् । तत्रापि गुणद्वयादेव सिद्धान्तः । मासमिति चात्यन्तसंयोगे द्वितीया । अतः पौर्णमास्यादिविरोधिता । अत्र च मासविधेः भावार्थविध्येकशास्त्रतोक्ता नियमादृष्टानुविद्धभावार्थो हि साध्यो मासादेः । भावार्थश्च
?Rस्वनियोगसाध्यताधीनसाध्यभाव इति भावार्थसाध्यान्न भिन्नं मासादि साध्यमिति न साध्यभेदतो भावार्थशास्त्रात् भेदः । तुल्यकार्यगुणान्तरशास्त्रात्तु भेदः । इह चाधिकरणे भावार्थशास्त्रभेदप्रसाधनात् सङ्गतिः ।
?R?0 ॥ 12 ॥ फलं चाकर्मसन्निधौ ॥ 25 ॥
?R नैकस्य वाक्यस्य कर्मस्वरूपपरता अधिकारान्वयपरता च गत्यन्तरसम्भवे युक्तेत्यधिकारपरत्वम् । तत्परत्वे चोत्पत्यपेक्षत्वं युक्तम् । द्रव्यदेवताद्वारेणाप्रकृताऽप्युत्पत्तिः प्रत्यभिज्ञातेत्यधिकारान्वयमात्रपरं युक्तम् वाक्यम् । युक्तञ्चाधिकारान्तरान्वितस्यापि अधिकारान्तरान्वयित्वं " ?Rएकस्य तु उभयार्थत्वे संयोगपृथक्त्व " ?Rमिति न्यायादिति पूर्वपक्षः ।
?R अप्रकृततया नियोगाप्रत्यभिज्ञानात् विधेयं कर्मेति स्थिते द्रव्यदेवतयोश्च समश्रुतित्वात् समकाल एवान्वयः । कर्मस्वरूपन्तु न विधेयमित्यभिहितमात्रमधिकारार्थं विधीयत इति नोभयपरतेत्यप्रकृतत्वादेवानुबन्धभेदात् शास्त्रभेदः ।
?R न च फलं नाम प्रमाणान्तरं अनुग्राहकं तदिति राद्धान्तः । प्रयोजनम् पूर्वपक्षे प्रकृताधिकारान्वितस्याग्नेयादे रुक्कामाधिकारान्वयात् तत्प्रयुक्तस्याग्नेयादेरेव स्वीकारः । सिद्धान्ते तु स्वतन्त्रस्येत्यनुसन्धेयम् ।
?R?0 ॥ 13 ॥ सन्निधौ त्वविभागात् फलार्थेन पुनः श्रुतिः ॥ 26 ॥
?R कर्मोत्पत्तिसन्निधावपि अधिकारविधिविषयत्वेन कर्म चेद्विधेयं कर्मान्तरमेव युक्तम् । विधित्सित एव सन्निहित एतच्छब्दो, न त्ववेष्टिधर्मलक्षणापरः तदा
?Rह्यवगतभेदो न स्यात् । अतोऽव्यक्तसौमिकधर्मलाभात् भेदसिद्धिरिति पूर्वपक्षः । पूर्वप्रत्युदाहरणमिदम् । सन्निधौ तूत्पत्तिप्रत्यभिज्ञानात् उत्पत्यन्तराक्षेपो न युक्तः । अधिकारविषयत्वेनैव विधेरप्राप्तप्रापकतोपपत्तेः नोत्पत्यन्यतयैवेति राद्धान्तः । पूर्वपक्षे च सोमधर्मत्वादन्यद्धविरिति प्रयोजनसिद्धिः ।
?R?0 ॥ 14 ॥ आग्नेयस्तूक्तहेतुत्वादभ्यासेन प्रतीयेते ॥ 28 ॥
?R पुनः श्रुतेरविशेषात् आग्नेयान्तरविधिः । ननु कालद्वययुक्तवाक्येन विहितमेककालयुक्तेनानूद्यत इति विशेषादनुवादोयुक्तः । मैवम् - सत्यमनुवादोऽपि शक्यते विधानमपि शक्यते रूपवत्त्वेनोत्पत्तिविधिस्वरसत्वात् सर्ववाक्यानां विधिरेव युक्त इति पूर्वः पक्षः । अविशेषस्तावन्नास्तीत्युक्तं कालद्वययुक्ते विधेरसन्देहात् प्रतीताव्यवहितप्रत्यभिज्ञानाच्च न विध्यन्तरहानम् । अतः प्रयोजनरहितोऽप्यनुवादः प्रतीतिबलात् । अथ वैन्द्राग्नविधिः प्रयोजनमस्य तत्स्तुत्यर्थत्वसम्भवादिति राद्धान्तः ।
?R ?R?0 इति श्रीमहोपाध्यायभवनाथमिश्रकृतौ
?R?0 नयविवेके द्वितीयस्याध्यायस्य?R?0
?R ?R?0 तृतीयः पादः ।
?R?0 श्री नयविवेके द्वितीयाध्यायस्य
?R ?R?0 चतुर्थः पादः ।
?R?0 ॥ 1 ॥ यावज्जीविकोऽभ्यासः कर्मधर्मः प्रकरणात् ॥ 1 ॥
?R जीवनतत्कालयोः प्राप्तत्वान्न विधिः यावदुपबन्धतया जीवनविधिरिति चेत्;?R न, तदा हि जीवनं होमव्याप्तम् । न जीवनविधौ होमेन व्याप्तिः । किन्तु जीवने
?Rहोमविधौ; ?Rस च न युक्त इति यावदुपबन्धसिद्धस्य जीवनलक्षितकालविधिः, न च यावदुपबद्धकालविधिः येन कालस्यापि व्याप्यतया विधिर्न स्यात् । तावता च कालेन होमाभ्यासस्यैवान्वय इत्यभ्यासलक्षणापि । लक्षणाद्वये सत्यपि लिङो मुख्यार्थत्वादन्विताभिधानसिद्धिः ।
?R ननु जीवनस्य निमित्तत्वे जीवनं होमव्याप्तमेव । निमित्तत्वं चाधिकारिविशेषणस्यैव । अतोऽधिकारान्तरं युक्तम्- मैवम् । कामाधिकारविषयतया साक्षाच्छ्रुतेर्व्याप्यतया कल्पितनिमित्ताधिकारावगमस्य विलम्बितत्वात् प्रयुक्तिकल्पनापेक्षया च विलम्बात् न कामनियोगपरतयाऽवगतस्य होमादेर्नियोगान्तरपरता युक्ता । तुल्यरूपाधिकारद्वये हि न विरोध इति जीवनाधिकारासम्भवान्न लक्षणाद्वयं युक्तमिति पूर्वः पक्षः ।
?R श्रुतितस्तावज्जीवनस्य होमव्याप्यताऽधिगता तया निमित्तता । सा चाधिकारान्तरपर्यन्ता । तद्धाने श्रुतहानादतो नियोगान्तरविषयतापि मुखान्तरेण भवन्ती कामिनियोगमात्रपरतया न बाध्यते ।
?R विवरणे तु विषयाभेदात् नियोगाभेद इति लक्षणाद्वयेन पूर्वपक्षं कृत्वा यथा कृतिभेदद्वारेणानुबन्धभेदो नियोगं भिनत्ति तथा नियोज्योऽपि स्वकृतिद्वारेण स्वकृत्यवच्छिन्नस्य भावार्थस्य नियोज्यान्तरकृत्यवच्छिन्नादवान्तरभेदमापाद्य शास्त्रार्थीभूतनियोगभेदमापादयत्येव । अतो नियोज्यस्य न साक्षादनुबन्धता । शास्त्रार्थीभूतनियोगभेदापादकता शास्त्रभेदापादकता च सिद्धा अधिकारलक्षणसाध्यभेदायत्तत्वान्नियोगभेदस्याधिकारलक्षणसाध्यभेदात् शास्त्रभेदव्यवहार इत्यनुसन्धेयम् । लिङ्गानि सुगमानि ।
?R?0 ॥ 2 ॥ नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्राय-
?R?0 श्चित्तान्यार्थदर्शनाच्छाखान्तरे कर्म भेदः स्यात्
?R नानाशाखस्वधीतस्याग्निहोत्रादेरभ्यासात् भेदो युक्तः । नामगुणादिभेदास्तु कर्मभेदाभ्युच्चयभूताः ।
?R ननु यो यच्छाखाध्यायी तं प्रति तच्छाखावाक्येनैकस्यापि कर्मणः प्रमितिजननात् सर्ववाक्यानामप्रमितप्रमापरत्वान्नाभ्यासाद्भेदः - मैवम् कृतस्वशाखाध्ययनस्य परशाखाध्ययनमप्यस्त्येव । स चाध्येता स्वशाखातः प्रमितं परशाखातः प्रत्येति । एवं अध्येत्रन्तरमपीति सर्वशाखावाक्यान्यनुवादकान्येवेति अभ्यासनयात् पूर्वः पक्षः । स्वशाखाध्ययनस्यावश्यकत्वात् तन्मात्राध्यायिनः प्रमितिरेव तं प्रति तावत्प्रमापकत्वम् । अभ्यासे तु न कञ्चित् प्रति प्रमापकत्वम् । न च शाखैकदेशाध्ययनमुपदिष्टम् । यस्तु स्वेच्छयैकदेशाध्यायी तं प्रति प्रमापकता न शास्त्रार्थ इति नाभ्यासनयाद्भेदः । अभेदस्तु विषयनियोगप्रत्यभिज्ञानादेवेति राद्धान्तः । अभ्युच्चयास्तु भाष्य एव प्रत्युक्ताः । दीक्षितादीक्षितदर्शनन्तु द्वादशाहस्य ज्योतिष्टोमपूर्वकत्वेऽप्युपपन्नम् । यैरेकदा द्वादशाहः कृतः, ते कर्मण्यारम्भपूर्वकत्वात् इति आरम्भभाव्यत्वनयेन पुनर्द्वादशाहे प्रवृत्ताः ते च प्रथमद्वादशाहप्रयोगापेक्षया दीक्षिताः । ये तु प्रथममेव न ते दीक्षिता द्वादशाह इत्युभयदर्शनम् । सारस्वते तु पुरोडाशसान्नाय दर्शनं द्वादशाहविकृतितया सारस्वतसत्रस्य । द्वादशाहे चेष्टिपूर्वकत्वमपि । सोमधर्मश्चोदकप्राप्तेरुपदिष्टं ज्योतिष्टोमपूर्वकत्वमपि । उभयं तत् सत्रे चोदकतः प्राप्तम् । तत्रेष्टिपूर्वकत्वपक्षे पुरोडाशदर्शनम् । सोमपूर्वकत्वे सान्नाय्यदर्शनञ्च युक्तमिति ।
?R ?R?0 इत्युपाध्यायभवनाथमिश्रकृतौ नयविवेके
?R?0 द्वितीयाध्यायस्य चतुर्थः पादः ।
?R?0
?R?0 अध्यायश्च समाप्तः ।
?R?0 शुभं भूयात् ।
?R?0 _______?R ?R?0
?R?0॥ श्री ॥
?R?0मीमांसानयविवेकः
?Rमहामहोपाद्याय -
?Rश्रीभावनाथमिश्रप्रणीतः
*
?R?0तृतीयाध्यायस्य प्रथमः पादः
?R?0 पञ्चिकाद्वयतत्त्वार्थसंमोहविनिवृत्तये ।
?R?0 उद्ग्राहिणी भवेनैषा वक्ष्यते शेषलक्षणे ॥
?R?0अथातः शेषलक्षणम् ॥ 1 ॥
?R अत्रभाष्यम् - नानाकर्मलक्षणं वृत्तमिति । शास्त्रभेदलक्षणं वृत्तमित्यर्थः । क्रियाकारकाद्यन्वितानुबन्धभूतकर्मभेदकथनमुखेन हि शास्त्रेभेदे एवोक्तः क्रियाकारकाद्यन्वितांशेन साध्यभेदाधीनः अनुबन्धभूतकर्मांशेन अनुबन्धभेदाधीनः । एवं द्विविधशास्त्रभेदहेतुकथनमुखेन फलभूतशास्त्रभेदबोधोत्पादनं धूमकथनमुखेनेवाग्निबोधोत्पादनमिति । न च लक्षणावृत्त्या शास्त्रभेद उक्तः । हेतुयुक्तस्वरूपस्यैव शेषत्वहेतुत्वात् तन्मुखेन कीर्तनं युक्तमिति स्फोरयिष्यति ।
?R ननु शास्त्रभेदः न शेषेत्वे हेतुः द्रव्यगुणसंस्कारणां स्वशेष्यनपेक्षसाध्यभेदाभाव एव हि शेषता प्रकरणविनियोज्यानामस्तु नाम स्वशेषिभ्योऽनुबन्धभेदः स तु न द्वैतीयः, अचिन्तितसिद्धत्वात् । मैवं, परमापूर्वानुबन्धशास्त्रं हि मूलभूतम् तद्गतमवान्तर साध्यानुबन्धशास्त्रं, भेदलक्षणे च परमावांतर शास्त्रेयतया भेद उक्ते स्वपरमशास्त्रान्तर्गते निरूढकार्ये शेषिण्यनिरूढकार्यस्य शेषता न परमशास्त्रान्तर्गततयेतियुक्ता शास्त्रभेदहेतुकता । अन्तर्गतश्रुत्याद्यधीन क्रियाकारकाद्यन्वयापेक्षया च तद्धेतुकता । श्रुत्यादेर्हि
?Rद्वैतीयविनियोगप्रमाणताद्वारिकैव शेषत्वहेतुता, तदुक्तं - “?Rविनियोगतः कर्भभेद उक्त” ?Rइति । व्याख्यातं च क्रियाकारकादिविनियोगानुरक्तानुबंध भूतकर्मभेदतः शास्त्रभेदे सत्यपि सिद्ध्यत्येनशेषशेषितेति । अयमर्थः - शास्त्रभेदे शास्त्रार्थयोः शेषशेषितेत्येवं न सिध्यति । उक्तनीत्या तु शास्त्रभेदे सत्यपि सिध्यतीति ।
?R ननु शेषलक्षण एव क्रियाकारकान्वयोऽस्तु ;?R मैवं शेषतयान्वयपदे अन्वयान्तरनिवेशो न युक्तः अन्वयान्तररहिते भेदलक्षण एव युक्तः । ननु क्रियाकारकाद्यन्वयासंयुक्तं प्रकरणविनियोज्यं न द्वैतीयापेक्षम् तन्न उपकार्योपकारकान्वयोऽपि द्वैतीय एव अनपेक्षसाध्यभेदात्करणेतिकर्तव्यता शास्त्रभेदस्यापि तत्रोक्तेः ।
?R श्रीकरस्तु - प्राकरणिक शेषत्वमात्रेद्वैतीयस्यापूर्वबोधकशास्त्र भेदस्यापेक्षेति हेतुतामाह - तन्न, प्राकरणिकशेषता संभूयोपकुर्वतामित्येवमपूर्वबोधकता, नन्वपूर्वबोधकता द्वितीयसिद्धेति एकदेशापेक्षयापिहेतुता न समर्थिता ।
?R यदपरं स एवाह लिङ्गविनियोज्यमन्त्रे न शास्त्रभेदापेक्षा, मन्त्रस्याशास्त्रार्थत्वादिति । तन्न, विनियोज्यस्य हि शास्त्रार्थतावाच्या, साचोक्तनीत्या द्रव्यादीनामिव मन्त्रस्याप्यस्तीति ।
?R विवरणे तु नानपेक्षसाध्यभेदाच्छास्त्रभेदोऽनुज्ञातः । किंतु प्रातिस्विकसाध्यभेदमात्रात् । अतस्तन्मतेऽवघातव्रीहिविषये शास्त्रभेदेसत्येव शेषशेषितेति । तदुक्तं स्थिते शास्त्र भेदे भिन्नानां शास्त्रार्थानां शेषशेषितेति ।
?R तदेवं निबन्धने स्वपरमशास्त्रान्तर्भूतनिरूढकार्यरूपशेष्यपेक्षा भिन्नशास्त्रता हेतु (कसाध्य) श्रुत्याद्यपेक्षा च । विवरणेतुभिन्नशास्त्रार्थ भेदापेक्षेति तत्वार्थः । निबन्धने तु शास्त्रान्तरविहितंशेषीति यदुक्तं तच्छेषिणः शेषानपेक्षसाध्यभेदात् । शेषसाध्यं तु शेषि साध्यापेक्षमेव । अत एवोक्तं “?Rनियमेन तदपेक्ष्यते” “?Rन तेन नियम” ?Rइति । ये त्वेतमेव प्रकारमाश्रित्य हेतुतामाहुः । तैर्भिन्नयोः शास्त्रार्थयोः
?Rशेषशेषिता न समर्थिता । येतु शेषशास्त्रमप्यनपेक्ष्यैव व्रीहिसाध्यं यवसाध्यमात्रापेक्षमस्त्वित्याहुः । तैरपि न सर्वस्यापि शेषशास्त्रस्यानपेक्षत्वं समर्थितम् । शेषस्यापि यच्छास्त्रार्थत्वमुक्तं न तत्साध्यशास्त्रार्थत्वं, किंत्वन्विताभिधायिवाक्यार्थरूपशास्त्रार्थत्वम् । अत एव वाक्यार्थव्यवहारः ।
?R अधिकरणमेवं न तावत्क्रियाकारकादिव्यतिरिक्तं शेषशेषितयाऽन्विताभिधानं व्युत्पन्नम् । न च कार्यतयाऽयमन्वयः, तदन्वितस्यापि नियोज्यादेरशेषत्वात् । अतः शेषलक्षणमनारभ्यमिति पूर्वपक्षः ।
?R राद्धान्तस्तु, गुणप्रधानभावेन हि सर्वत्र शब्दान्वयः गुणत्वमेवचात्यन्तिकं शेषत्वम् । कार्यं च प्रधानमिति तत्प्रतियोगिनो गुणत्वेनैवान्वयः नान्यथा । नियोज्यविषयादेरपि प्रतीत्यनुबन्धस्य प्रतीतिदशायां गुणतैव । यस्य तु सिद्ध्यनुबंधता प्रधानाङ्गदिः, तस्योपादेयतयैव गुणता । सा चेह शेषता व्युत्पाद्यते । ननु क्रियाकारकान्वयेऽपि गुणता नान्यथान्वयः शाब्दः । मैवं, कारकावच्छिन्नक्रियाप्रतीत्यवस्थायामस्त्येवावच्छेदकानां गुणता, सिद्ध्यपेक्षया तु यथा कार्यं कार्यत एव गुणता, सा च शेषतेह चिन्त्यते । तदर्थं लक्षणमारभ्यम् । नन्वेवं कार्यत एव शेषत्वे किमुक्तं कार्यत एव शेषत्वमुत्पद्यते, श्रुत्यादि सचिवेन तु ज्ञायत इति तत्त्वार्थ इति ।
?R अयं भावः - शेषत्वं नाम न पदार्थभेदः, किंत्वन्वय समये पदार्थानामवस्थाभेदः । स च कार्यानुरागाधीन इति कार्यतस्तदुत्पत्तिरुक्ताः । श्रुत्यादियोजितं कार्यं प्रतियोगीति श्रुतियादि सचिवेन तद्व्युत्पत्तेरिति तत्सचिवेन तु ज्ञायत इत्युक्तम् । कार्यं च निरूढं सच्छेषत्वोपपादकं, निरूढिश्च वाक्यान्तरात्स्वरसादिति शास्त्रान्तरविहितं शेषीत्युक्तम् । अगत्या शेषवाक्यस्थोऽपि शेषी निरूढि प्रतिसन्धानाद्युक्त इत्यरुणादेः क्रयशेषतोक्ता अगत्या च भाविग्राहकान्वयद्वारानिरूढिप्रतिसन्धानादेवाधानादीनामग्न्यङ्गता । अतएव
?Rग्राहकव्युत्पत्तिः शेषत्वे शेषित्वे वा अनुपयोगिनीत्युक्तम् । शेषिणिग्राहकप्रतिसंधानपूर्वकत्वाद्ग्राहकपूर्वकता परमार्थतो नेष्यत इत्युक्तं । शेषविधिपरत्वात्सर्ववाक्यानां तद्विषयतयैव शेषिणोऽन्तर्भावात्तात्पर्यतः शेषस्यैव चोदनार्थता तच्चिन्ता चात्र शास्त्र इति शेषलक्षणप्रतिज्ञा, तद्व्युत्पत्त्यर्था चापेक्षा ।
?R कः पुनश्शेषः उपयुक्तेतरोवा, परार्थोवा अवयवो वा - तत्रोत्तरम् -
?R?0शेषः परार्थत्वादिति ॥ 2 ॥
?R कार्यरूपपरान्वयादिति वाच्ये फलेनोक्तम् । यस्य हि कार्यरूपपरान्वयः सपरार्थ एव हेतुयोग्यतया परार्थरूपः शेष इति स्वरूपेप्युत्तरता केन हेतुना शेष इत्यस्य श्रौतमेवोत्तरं पररूपकार्यान्वयादिति । एतेनपरोक्तंनिरस्तम् । न शेषोऽन्यः परार्थत्वान्न च हेत्वन्तरेण सः, अन्योन्यनियमेनैव पक्षहेत्वोः परिग्रह इति साध्यहेत्वोरभेदापत्तेः ।
?R ननु तानि द्वैधमित्यत्रापि शेषोक्तिरित्यविशेषेण प्रतिज्ञा न युक्ता । मैवं नियोगविषयता तत्रापनीता, शेषता तु सर्वेषामत्रैवोच्यते श्रृत्यादिगम्या ।
?R ननु यत्र पुरुषस्य प्रेरणा नियुक्तिः, स नियोगस्य विषयः । अस्ति तु गुणकर्मस्वपि प्रेरणेति कथमविषयता । मैवं यद्यप्यधिकारविध्यधीना लिङ्गाद्यनुवाद्या गुणभूतेषु प्रेरणा पुंसोऽस्ति । तथापि न नियोगसिद्धिरेव कार्यं गुणभूतस्येति न विषयता ।
?R अयं भावः - अधिकारविधिर्हि कृतिसाध्यः । स चैवं यदि तत्साधनं व्याप्य कृतेः प्रवृत्तिः । कृतिप्रवृत्त्यापादनमेव प्रेरणेति साधने गुणकर्मणि कृतिव्याप्यतापादनात् कृतिसाध्ये नियोगविशेष्यताभ्रमः, स निरस्यते । यद्यपि कृतिगोचरता भवति, तथापि तत् कृत्यवच्छिन्नतया । स तु नियोगावगम इति न विषयता । यस्य तु नियोगसिद्धिरेव कार्यं तदवच्छेदकं न कार्यान्तरनिष्ठम् ।
?Rसाध्यद्वयपरत्वे वाक्यभेदापत्तेः । नियोज्यविशेषणतयापि न साध्यान्तरनिवेशः क्रियाफलस्यातथात्वात् । अत उक्तमनभिज्ञो भवान्विषयनियोज्यानामिति । एवं चाधिकारविध्यधीना साधनभूतगुणकर्मसु प्रेरणाऽस्तीति सूक्तम् । कृतिसाध्यतयैव विधेः प्रेरणा । कृतिसाध्यतया च लिङ्गाद्यर्थतेति लिङ्गाद्यनुवाद्यतापि सूक्ता ।
?R विवरणेतु - अथ तत्र किंवृत्तमित्यादिनेदं चोदितं आप्त्यादिदर्शनादाप्त्यादेस्तत्र गुणतोक्ता । आप्त्यादिरूपैव शेषता नापरा परार्थत्वरूपा इति शंकितं निरस्तं च । अपूर्वाविषयार्थमाप्त्यादि तत्रोक्तं - गुणतारूपपरार्थतया इहत्यया तत्र व्यवहारः ।
?R तन्मते वस्तुबलादधिकरणमेवं शेषत्ववस्त्वेव दुर्निरूपं, अतस्तल्लक्षणमनारभ्यम् । तथाहि - गर्भदासादिदर्शनाल्लौकिकं शेषत्वमभिमतमत्यन्तगुणत्वरूपम् । कार्ये चात्यंतगुणाता । तदुपकारजननपरता, नचोपकारजननमात्रात् तत्परता स्वामिनोऽपि गर्भदासोपकारे तत्परत्वापत्तेः ।
?R राद्धान्तस्तु - उत्पत्त्युपादानव्यापाराः परोपकारपरा एव फलभृत्यव्रीहीणामवगम्यन्ते लोके । गर्भदासवृषादेरवगतिबलेनैव वस्तूपगमः । न चातिप्रसङ्गः, आत्मपरतयैव स्वामिना गर्भदासोपकाराचरणात् । गर्भदासस्य तु स्वाम्युद्देशेनैव व्यापारात् । एतत्परे नानुमन्यन्ते । गर्भदासोऽपि स्वार्थोद्देशेनैव स्वामिन उपकरोति, प्रेक्षावत्वादिति वदन्तः । तन्न । स्वामिहितमेवासाविच्छतीति स्वेष्टोद्देशेन स्वामिन एवोपकारकरणात् प्रेक्षावत्त्वसिद्धेः । यस्तु स्वार्थोद्देशेन स्वामिहितमाचरति, सोऽपि स्वाम्यर्थ एव वस्तुतः तदर्थवासनाविरहग्त् तदुद्देशेन प्रवृत्तिरूपं फलं तस्मिन्न जातम् । नच तदुद्देशेन प्रवृत्तिरूपमेव शेषत्वम् , किंत्वत्यन्तगुणात्वं तच्च तत्फलाभावेऽपि नापैति ।
?R ननु फलाभावे कुतस्तत्सिद्धिः । उक्तं च कार्यतः । ननु स्वामी न कार्यः सत्यं न स्वरूपतः । उपकार्यतया तु कार्य एव ननूपकार्योऽपि स्वामी न निरूढः,
?Rमैवं निरूढताहि पुरुषार्थतया । उपकारभागिता च स्वामिभूतपुरुषार्थत्वेन । नन्वेवं दासगतोऽप्युपकारो दासभूतपुरुषार्थः स्यात् । मैवं अर्जनाद्धि दासो निरुद्धस्वपुरुषार्थवृत्तिः स्वाम्युपकारपरो जातः । लोकसिद्धप्रकारं चैवंरूपं, अर्जनमूल्यार्पणादिना स्वामी स्वोपकारपरतां परस्यापादयति । इदमेव परस्य रूपं दासत्वम् एवं च प्रेक्षावत्त्वात् स्वतन्त्रप्रवृत्तेर्दासत्वाङ्गीकारः ।
?R अतः परं त्वचेतनसमतैवात्मनः स्वसन्ततेश्चांगीकृतः । ननु यो नोपकारको दासः तस्योपकार्योऽपि न स्वामी, तन्न, उपकारार्हतैव शेषता, सा उपकाराभावेऽपिनापैति । मनागुपकारिता च सर्वत्रास्त्येव तत्परिकरत्वेन गम्यमानतया उपकारकत्वात् । नन्वपकार्येऽपि धूमादेर्मशकादौ शेषता दृष्टा तन्न, पुरुषार्तता हि धूमादेर्निवर्त्यरूपकार्ये मशकादौ द्वारभूते भवति न मशकस्वरूपस्योपकार्यतयेति स्वरूपे अपकारकस्यापि निवर्त्यरूपोपकार्ये धूमादेः शेषता । यथा व्रीहित्वापकारिणोऽप्यवघातस्य नियोगीयरूपोपकारितया शेषता ।
?R एवंच तदुद्देशेन प्रवृत्ततया फलेन ग्रन्थे शेषतोक्ता तद्धिताचरणं दासदौ स्वतः परप्रेरणयावा, वृषादौ परप्रेरणयैव । अवघातादावपि तथैव । नन्वाभिधानिकमपि शेषत्वं, तादर्थ्ये चतुर्थी स्मृतेः, तन्न, कार्यतस्तत्सिद्धौ चतुर्थानुवादः शेषादिपदान्यप्येवम् । एवं किंचिद्विवेकादेव मीमांसाप्रचारसिद्धेः नातीव विवेकः कृतः इदमेवैकं शेषलक्षणम् लक्षणान्तराणितु शेषगतधर्मविशेषपराणि । एतेन परोक्तं निरस्तम् ।
?R द्विलक्षण्याः परं शिष्टं यावत्किच न लक्षणं ।
?R तत्सर्वं वक्तुमारब्धमथातश्शेषलक्षणम् ॥
?R प्रयोजकाः प्रयोक्तारः शेषाणामेव शेषिणः ।
?R क्रमोऽपि शेष एवैक प्रयोग वचनाश्रयः ॥
?R अधिकारोऽपि यज्ञेषु कर्तुश्शेषस्य चिन्त्यते ।
?R भाव्यानां भावकः कर्ता द्रव्यं को नामकर्मणाम् ॥
?R सप्तमेनातिदेशेन धर्माः सन्तीति साधिते ।
?R ततोऽष्टमे नये यस्य यतश्चेति निरूपणा ॥
?R नवमेऽर्थप्रधानत्वात्तदधीनानन्यरूपता ।
?R इयत्ता दशमे शेषबाधाभ्युच्चयचिन्तया ॥
?R प्रयोग परिमाणं च तत्तन्त्रावाप लक्षणम् ।
?R एतदेवप्रसङ्गेन परार्थाङ्गोपजीवनात् ॥
?R अन्यार्थानुष्ठितैरङ्गैरुपकारेऽल्पकल्पनम् ।
?R प्रसङ्गे तदभावे तु स्याद्भूयिष्ठप्रकल्पनेति ॥
?R नैवं शेषस्वरूपलक्षणता नवानां समर्थिता तद्वरं यदथवेत्युक्तं तदेवास्तु ।
?R अथवाऽस्त्विदमेवैकं तृतीयं शेष लक्षणम् ।
?R तदेव सूत्रितं यस्मादथातः शेषलक्षणम् ॥
?R अन्यानि पृथगारम्भैर्लक्षणानि करिष्यति ।
?R इदं सपरिवाराणां शेषणामेव लक्षणमिति ॥
?R शेषं टीकयोः सुगमम् ।
?R?0॥ 3 ॥ द्रव्यगुण संस्कारेषु बादरिः ॥ 3 ॥
?R स्वाभिमतं शेषत्वं सपरिकरं प्रतिज्ञाय परस्याज्ञानं वक्तुं शेषत्वस्य विषयं प्रति बादरेवधारणमुपन्यस्य निरस्यति । तन्निरसनं च यागादेरपि नैयोगिकं शेषत्वं प्रसाध्य भवति । यद्यपि नैयोगिकतया चातुर्थता, अवधारणनिराकरणहेतुतया तु न चातुर्थता येन च रूपेणेयं चिन्ता तदनुरूपा सङ्गतिरिहैव । नैयोगिकशेषत्वव्युत्पत्तिपरा हि सती चतुर्थे भवेत् । न चेयं तथा । अतः साक्षाद्युक्तं न प्रसज्यत इत्यस्यायमविषयः । यथेयं चिन्ता न तथा
?Rक्वचित्साक्षात्संगता यतः ।
?R अथवा विषयनियतात्रप्रतिज्ञा न कृतेत्याक्षेपसमाधानरूपमिदं अधिकरणमप्याद्यपरिसमाप्तिरूपत्वान्न पृथक्संगत्यपेक्षम् ।
?R ननु नैयोगिकरूपेण साक्षात्संगत्या कृतापि स्मारिता बादरेरज्ञानं ज्ञापयत्येव वृथा स्वस्थानातिक्रमः । मैवं । बादरिनिरासप्रयोजन गौरवाकर्षात्स्वस्थानातिक्रमो युक्तः । न केवलं शेषत्वविषये बादरेरज्ञता, अवधारयतः । किंतु वाक्यार्थाज्ञतापि, न हि कामिनो नियोगे ममेदं कार्यमिति धीर्यागस्यापि काम्यसाधनतामापादयतीत्यबुध्या क्रियां वाक्यार्थं मत्वा क्रियायाः द्रव्यादिरेव शेष इत्याह ततो भ्रमपरं परानिरसनप्रयोजनगौरवाकर्षादिहाभ्यर्हितेति । प्रयोजनतः प्रसङ्ग एव बलवान् । यदीयोपोद्धातात्सप्तमाद्यमुत्तरषट्के तदपि हि संबन्धकथनगौरवाकर्षात् स्वस्थाने कृतम् । स्तुत शास्त्रादि चिन्ताननां तु स्वप्रयोजनमात्रपर्यवसितानां युक्ता स्वस्थानता । चिन्तान्तरसिद्धिप्रयोजनगौरवानाकर्षादित्यवधेयम् ।
?R बादरिचिन्ता साक्षात्संगतेत्ययुक्तम् नैयोगिकस्य प्रतिज्ञानन्तर्भावात् । श्रुत्यादितो यागादिशेषत्वस्याननुज्ञानात् केवलोपादानगम्यं यागादिशेषत्वमित्येवं क्रत्वर्थ पुरुषार्थविवेकात् । अत एव चतुर्थेऽतिक्रान्तस्तृतीयविषय इति भाष्यव्याख्यानावसरे पञ्चिकायामुक्तं - बादर्यधिकरणं चतुर्थसंगतमपि बादरेरवधारणं निराकर्तुं तृतीये कृतमिति ।
?R उपोद्धाताद्वा बादरिचिन्ता अवधारण निरसनाद्धि प्रतिज्ञात प्रकरणप्रमाणशेषत्वसंभव इति प्रकृतसिद्ध्यर्थता प्रतिज्ञातोत्तरताच । यद्विना तु प्रतिज्ञाप्यशक्या तच्चिन्ता पूर्वमेव यथासप्तमाद्यादिका । कार्यतः शेषत्वप्रतिज्ञातु (न) बादरिमतनिर्वाहेप्या (ना) क्षिप्तैवेति न तत्समाधिरुपोद्धाते मूलयुक्तिः ।
?R श्रीकरेण तु व्युत्पाद्यादर्शनासंगतिभिया च चतुस्सूत्रीयं
?Rषष्ठाद्यलिप्सासूत्रव्युत्पन्ननयस्मरणार्था । द्रव्यादिष्वेव शेषत्वंवादर्युक्तमयुक्तं वस्कुमित्युक्तम् तन्न, इह हि स्वर्गयागयोः साध्यसाधनभावो व्युत्पाद्यः । षष्ठाद्ये तु नियोज्यत्वेनाप्यन्वयोऽस्तीति व्युत्पाद्यम् । लिप्सासूत्रं तु लक्षणपरं सत्तदनुणकेवलनियोगाधीनैदमर्थ्यभाक्त्वं यागादेराहेति न चतुस्सूत्री मन्दप्रयोजना युक्ता ।
?R विवरणे तु यदुक्तं असति यागसाध्यत्वे स्वर्गस्य कामिनोऽधिकारो न ?Rसिध्यतीति षष्ठाद्य एवोक्तमिति । तदिह व्युत्पाद्यमेवाधिकारार्थं तत्रोक्तमित्यविरोधः ।
?R अत्र पूर्वपक्षी बादरिः लोकव्युत्पत्त्या क्रिया कार्या । न च कार्यमन्यार्थमिति न यागः कस्यचिच्छेषः तन्निर्वर्तकता च द्रव्यगुणसंस्काराणामेवेति त एव कार्यरूपयागान्वयाच्छेषाः । ननु कमियोगादीप्सितः स्वर्गः । अतः समभिव्याहृतेन यागेनेप्सितः । तच्चैवं युक्तं यदि कमिपदं नियोज्यार्पकम् । कामित्वरूपेण हि स्वेप्सितसाधनमेव बोधार्हं कार्यम् । अतः कमि पदयोगावगतेप्सितत्वनिर्वाहानुगुणकार्य बोध्दृभूतनियोज्यत्वविधयाप्यन्वयोऽस्तीत्युक्तं षष्ठाद्ये । देहान्तरभोग्ये चेप्सिते अव्यवहितसाधनता देहान्तरकालान्तर स्थायिकार्यस्येति क्रियातिरिक्तेऽव्युत्पत्तिरुक्ता । तदन्तर्भावादेव च यागस्येप्सितसाधनत्वं कार्यत्वं चेति न क्रियाकार्यत्वानुसारात् द्रव्यादिष्वेव ।
?R मैवं यदि कमियोगाद्यागेनेप्सितताधीनं नियोज्यपरत्वं न तर्हि तत्परत्वं, यागस्यस्वर्गसाधनत्वासंभवात् । समभिव्याहृतयागसाधनतया कमियुक्तस्य साध्यता तद्दार्ढ्यान्निनोज्यपरता । तदसंभवे क्रियान्वयः कर्तृ तयेति न नियोज्यपरत्वम् । नाप्यपूर्वं वाक्यार्थः । यागस्य स्वर्गसाधनत्वासंभवे चेयं युक्तिः क्रियायाः कारकावस्थासमवायिफलजनकत्वनियमात् स्वर्गादेरकाकावस्थाश्रितत्वात् । प्रीतिरूपतयाऽऽत्माश्रितत्वेऽपि न कारकदशाश्रितता न च पूर्वं कारकता पश्चात्फलभागितेत्येव कारकावस्थाश्रितता वाच्या । यतः क्रयायोगि कारकमुच्यते ।
?Rस्वफलजन्मकाले क्रियाऽस्तीति तद्योगिनी कारकावस्थापि सती । उत्पन्नेन हि फलेनैकार्थ समवायिना क्रिया विरोत्स्यत इत्याद्ये फलक्षणे क्रिया च कारकं च फलं चेति कारकावस्थायामेव क्रियाफलोत्पत्तिरिति न स्वर्गस्य क्रियाफलत्वसंमवः ।
?R ननु कारकं निमित्तं हेतुरिति शाब्दाः । न तु क्रियायोगीति । मैवं निमित्तनैमित्तिक भाव एव क्रियायोगोऽभिमतः । अयं च योगः क्रियाद्यक्षणात् पूर्वं नियतस्थितेः क्रियान्त्यक्षणानुवृत्त्या च भवति । बूर्वक्षणस्थितिगर्भो हि परक्षणवर्तिनोरेवंविधो योगः अन्यतरयोगिविरहेतु योगापगमः । भूतपूर्वयोगात्तु पाचकादिव्यपदेशानुवृत्तिः । अतः क्रियास्थितिक्षण एव कारकावस्थेत्यन्यतरभाव्येव क्रियाफलं नान्यत् । शक्तिमति च क्रियायोगार्हतया कारकव्यवहारः । अत एव निमित्तत्वाविशेषात् असमवायिनिमित्तकारणयोरपि कारकतेति । कर्मकरणाधिकरणसंप्रदानापादानानां धात्वनुपात्तव्यापारणामपि कारकता । [?Rइतरथा] ?Rधातूपात्तव्यापारः कर्तैव क्रियासमवायीकारकं [?Rस्यात्] ?R। विक्षया तु कारकावान्तरव्यापारे धातोर्वृत्तेः तेषामपि क्रियासमवायात् कर्तृता । अपादानस्यावान्तर व्यापाराभावेपि कर्तृव्यापारनिमित्ततयैव कर्तृविवक्षा । यथा परिस्पन्दे कर्तृता आत्मनः परस्थेऽपि । यथावा आत्मस्थेऽपि ज्ञाने शरीरस्य । ?Rयदि क्रियातः पूर्वक्षणस्थित्या कारकता न तर्हि निर्वर्त्यकर्मणः कारकता ओदनादेः ।
?R मैवम् । तन्निर्वर्त्यपाकं प्रति विकार्यकर्मता हि पूर्वस्थिततया तण्डुलानाम् । त एव भाव्यवस्थावाचिना ओदनशब्देन निर्दिश्य द्वितीयया उक्ताः । न तर्हि निर्वर्त्यं चतुर्थं कर्म । मैवम् । यस्य क्रियाफलवतः पूर्वबुद्धिव्यपदेशाभ्यामन्यता तन्निर्वर्त्यं पूर्वापरावस्थानुगतवस्त्वपेक्षया कारकत्वकर्मत्वयोरेकाश्रयता । नौदनशब्देऽर्थानुगतिः । न चानुगतवाची शब्दोव्यवहाराङ्गतया रूढ इति भाव्यवस्थावाचिना भूतावस्थावाचिना वा निर्देशो युक्त इिति सिद्धं कारकावस्थाश्रितं (आ) क्रियाफलमिति । आत्मनेपदमपि यत्क्रियाफलं तस्य कर्तृगामितायां प्रयुज्यते, न स्वर्गस्य
?Rयागक्रियासाध्यतायाँ प्रमाणम् । यदि स्वर्गो द्वितीयया निर्दिश्येत, तथापि न क्रियाफलं शक्येत कर्तृगतमपि विवक्षया कर्म शक्यं, क्रियाफलं तु न विवक्षाधीनम् । न चाकारकावस्थायाँ जातं वेदात् क्रियाफलं गम्यते मानान्तरविरोधे वेदस्याप्रामाण्यात् । आहवनीयशब्दार्थतया मानान्तरानवगतेऽपि द्रव्यतया प्राक्सतः कारकत्वं वेदगम्यं न मानान्तरहतम् ।
?R भाष्यमपि यागे कृते स्वयमेव फलं भवतीत्यभ्युपेत्याह । यागस्य तत्फलमशक्यमिति तात्पर्यम् न तु स्वयं भवतीत्यत्र । ननु द्वितीययाऽपि स्वर्गः क्वचिद्भाष्ये निर्दिष्टः स्वर्गकामपद संबन्धात्स्वर्गं भावयेदिति । मैवं गौणो द्वितीया प्रयोगः यागस्य स्वर्गनिमित्तता कथनार्थ इति जैमिनिसिद्धेनैव क्रिया (आश्रया) - फलत्वेन बादरिर्यागस्य स्वर्गसाधनतामसतीं मत्वा नापूर्वार्थत्वं न फलार्थत्वं न पुरुषार्थत्वं यागस्य मेने । फलार्थत्वस्यैवापूर्वार्थत्व पुरुषार्थत्वे फलं अतो न राद्धान्ते पृथक् सूत्रते । फलस्य त्वधिकारिपुरुषार्थत्वं, फलतया अधिकारिपुरुषतयाकर्मार्थत्वं, न द्रव्यतयेति द्वयमपि यागफलार्थत्वफलं पृथक्सूत्रितम् । अन्याश्रितमपि शेषत्वद्वयं यागाश्रितद्वयमिव फलमिति स्पष्टार्थम् । इदं बादरिमतम् । विभक्तितो द्रव्यादिशेषत्वम् उपकारदर्शनाद्वेति तु तदेकदेशिमतम् । विनापि विभक्तिं कृत्तद्धितसमासैर्द्रव्यादिशेषत्वोपगमात् ।
?R अथ कारकावगमात् द्रव्यादेश्शेषता । तन्न । उपपदविभक्तितोऽपि शेषतादर्शनात् । उपकारोऽपि शेषत्वाभिमताश्रितो दृश्यते । प्रयोजनवत्युपकाराद्व्यवस्थेतिचेत् । तर्हि कार्यत एवात्रापि मते शेषतेति पूर्वोक्त एव पूर्वः पक्षः ।
?R राद्धान्तस्तु - यदि यागस्यास्वर्गसाधनत्वसमुत्थं बादरिमतम् , तर्ह्यक्रियाफले स्वर्गे यागः साधनमस्तु, क्रियाफलमपूर्वमन्तर्भाव्य, यथा ओदनमन्तर्भाव्य पाकं नोपकारस्य ग्रासं साधयति । ननु परमापूर्वमपि न क्रियानन्तरम् ,
?Rउत्पत्यपूर्वैरन्तरितत्वात् । मैवं, उत्पत्यपूर्वोत्तरमि बाह्यणतर्पणादि यागान्तर्गतमेव प्रतिबाद्यजुह्वादिसत्वे त्वन्त्येष्टिरपि द्रव्यसंस्कारत्वान्मूलयागान्तर्गतेति न परमापूर्वमन्तरितम् । अत उक्तमपूर्वसिद्धिः कुतः - क्रियात इति, ब्रूम इति । तदपूर्वं स्थायिन्यात्मनीति स्वीकृतेऽपि नात्मनो यागसंस्कार्यत्वं, मानाभावात् ।
?R नन्वेवमपूर्वद्वारा क्रिया साधनसाधनं स्वर्गस्य स्यात् , सत्यम् । अत एव साधनं कामितया कार्यमध्यवस्यन्नपूर्वमवैति, अतोऽपूर्वमेव वाक्यार्थः । नन्वेवं साधनसाधनत्वं न कामिकार्यत्वानुगुणं, मैवं, कामिकार्यैव क्रिया साधनभूतकार्यान्तर्भावं विना साधनसाधनतां स्वीयामनासादयती न स्यादिति कामिकार्यत्वानुगुणता । करणतातु कर्तृव्यापारगोचरस्य यागस्यैव फलापूर्वप्रतीत्यपूर्वाधीनमेव करणत्वं, तत एवापूर्वे फले पुरुषे च यागस्य शेषता कामिकार्यान्वयमूलत्वात् पदद्वयमात्रनिमित्तमित्युक्तम् षष्ठाद्ये ।
?R अत एवात्राधिकारापेक्षिणी श्रुतिरित्युक्तम् । नियोज्यत्वेनान्वयं श्रुतिर्बोधयन्ती नैयोगिके मूलमित्यर्थः । एवं चापूर्वभावनैव स्वर्गभावनापर्यन्तेति, स्वर्गो यागफलं, न तु क्रियाफलविधया । एवमपूर्वफलैकलोकीभावेनस्वर्गस्य कामि कर्तृगामितां प्रमितां नियोगादात्मनेपदं द्योतयति, इति लिङ्गंतत् । यत्फलं प्रमितंतत्कर्तृगामीत्यात्मनेपदं न प्रापकम् । न च काम्यसाधनतानियोगान्न कामिगामितापीति वाच्यम् [?Rयतः] ?Rयथाकाम्यता तथाऽऽक्षेपः । प्रीतिर्हिस्वगततैव काम्या कमिश्रुतिमात्रादिति स्वगतैवाक्षिप्यत इति फलमधिकार्यर्थं फलितयैव यजमानादेः कर्तृतेति सिद्धं सूत्रत्रयम् । अर्थात्प्राकरणिकमपि शेषत्वं (सेत्स्यतीति) ।
?R वृत्तिकृता बादरिमतव्याख्या दुष्टेति वक्तुं तद्व्याख्यैवोक्ता भाष्ये । सहि द्रव्यादिषु स्वशेषान्तरानपेक्षशेषत्वं, यागादेस्तु स्वशेषान्तरापेक्षमिति विवेको बादरेरिति व्याचष्टे, तन्न । स्वशेषान्तरानपेक्षशेषत्वं उभयत्र स्वसामग्री तूभयत्रापेक्षितेति विभागाभिप्रायं बादरिमतं मन्दम् । अतोवृत्तिकारस्याज्ञानमेव मन्दताचेयं स्फुटेति
?Rनोद्घाटिता भाष्ये । विवरणोक्तं यथानिबन्धनं नेयम् ।
?R?0॥ तेषामर्थेन सम्बन्धः ॥ 7 ॥
?R?0 ?R?0परस्य बादरेरज्ञत्वप्रसाधनमुखेन प्रतिज्ञासम्यक्त्वमुक्त्वा । श्रुत्यादि सचिवकार्यगम्यशेषविशेषा वाच्या इति ज्येष्ठश्रुतिशेषत्वमवान्तरसङ्गतमिति तदुच्यते । ऋजु विमलायां पूर्वपक्षसंक्षेपः । तुषकणविमुक्तेरधिकारनिरपेक्षाया अपि साध्यत्वसंभवात् तादर्थ्ये सत्यवघातादीनां अधिकारानुप्रवेशासंभवात् तदनु ?Rप्रवेशसिद्ध्यर्यं ह्मधिकारापेक्षमेव कार्यमिति तादर्थ्ये सति युक्त एवाधिकारानुप्रवेश इति ।
?R अयं भावः - साधिकारकार्यसहितमनधिकारमवघातादि तत्कार्यान्व्यपरं, यद्यदि व्रीहीनिति द्वितीयाश्रुत्या अवघातस्य पदार्थान्वयाधीनतुषविमुक्तिः कार्यं स्यात् तदा व्रीहिस्वरूपगतं तच्छ्रुतमिति नापूर्वसाधनरूपान्वयीति नापूर्वानुगुणमवान्तरकार्यं तत्स्त्यात् । न च लक्षणया साधनपरो व्रीहिशब्द अन्वयानुपपत्तेरभावात् श्रुत हानस्यायुक्तत्वात् । न च ग्राहकान्विततया व्रीहिस्वरूपान्वयानुपपत्तिः । अनीप्सितकर्माश्रयणादवघातगुणतया व्रीहिस्वरूपान्वयोपपत्तेः न चेप्सितत्वं मुख्यं, कर्ममात्रार्थत्वात् । लक्षणायामपि सा जघन्यसापेक्षप्रत्ययस्यैव पाशप्रयाजशेषादौ दृष्टा । अतो नियोगैक्याधीनं प्रकरणविनियोज्यत्वमास्थेयम् । उक्तयुक्तेः । श्रुतिशेषत्वानर्हमसंयुक्तं प्रकरणविनियोज्यमेवेत्याज्यौषधसान्नाय्यद्र व्यकसर्वयागार्थता । वार्तिककृता तु भाष्यार्जवादाज्यादि सर्वद्रव्यार्थतोक्ता । तत्रैवं पूर्वोत्तरपक्षरचना - अविचारितसिद्धे श्रौतेऽवघातादेर्व्रीह्यादिशेषत्वे, हन्तिपिंष्यादिषु अपूर्वार्थत्वे च सिद्धे, साक्षात्फलवदपूर्वार्थत्वलोभात् तन्निष्पादकद्रव्यपरा व्रीहिश्रुतिरित्याज्यौषधसान्नय्येष्वप्यवघातः । तुषविमुक्तिरव्यापिनीत्यदृष्टार्थता । सिद्धान्ते तु अन्तरङ्गलक्षणयाऽवान्तरापूर्वनिष्पादकपरा व्रीहिश्रुतिरिति तदौषध
?Rएवावघातः तद्द्वाराचावान्तरापूर्वार्थता । तदाह -
?R वाक्यभेदतदेकत्वसन्देहान्नात्र संशयः ।
?R परमावान्तरापूर्वप्रयुक्तत्वकृतो ह्यसौ ॥
?R गुरुरिदं न मन्यते । परमापूर्वप्रयुक्तत्वेऽपि करणावान्तरव्यापारभूतोत्पत्त्यपूर्वभेदेनान्यथाकरणत्वादाग्नेयादीनां दृष्टानुगुण्याच्च प्रतिकरणं धर्माणां व्यवस्थोपपत्तेः । न चैवं उत्पत्त्यपूर्वप्रयुक्ततैवान्तरङ्गलक्षणया दीक्षणीयावाङ्निनयमवदिति वाच्यम् । यत एव स्वापूर्वसाधनत्वापन्नदीक्षणीयानिविष्टोधर्मो न परमापूर्वकरणद्वाराऽन्वयीति न परमापूर्वस्येतिकर्तव्यतेति न तदपूर्वप्रयुक्तस्तद्धर्मः । अवघातादेस्तु परमापूर्वकरणान्वयादाग्नेयादेरेव स्वोत्पत्त्यपूर्वद्वारेण परमापूर्वकरणत्वात् युक्तं परमापूर्वेतिकर्तव्यतात्वमिति फलतो न कोऽपि धर्मः आग्नेयाद्यपूर्वप्रयुक्त इति दर्शनरहस्यम् । अतः प्रयाजातितुल्यतयैव पूर्वपक्षरचना । यावच्छ्रुतिशेषत्वाक्षेपश्चायं लक्षणाहेत्वभावस्य व्यापित्वात् । इह सिद्धे श्रुतिशेषत्वे “?Rयैस्तुद्रव्यं चिकार्ष्यत” ?Rइत्यत्र नापूर्वं हन्त्यादिष्वित्युक्तम् ।
?R यदुक्तं ‘?Rज्योतिष्टोमेन यजेत’ ?Rइति शास्त्रेण यावद्यागस्याधिकरसंबन्धो नावगम्यते तावत् विनियोगो न सिद्ध्यतीति सर्वत्र शास्त्रान्तरविहितं शेषीति साधयितुं, तत्कथं ??R निबन्धने हि अनपेक्षसाधनद्वये शास्त्रभेदः । न च द्रव्यायागयोरनपेक्षसाध्यद्वयम् ।
?R मैवम् । शास्त्रभेदान्तर्गतः क्रियाकारकाद्यन्वयो यस्य कार्ये निरूढः तं प्रति शेषित्वम् । अतो निरूढ्यर्थं पूर्वं कार्यनिवेशकशास्त्रं वाच्यम् । एवं निविष्टानिविष्टतोपाधेः शास्त्रान्तरव्यापार इत्यनुसन्धेयम् ।
?R राद्धान्तस्तु द्रव्यं तावदवघातादिषु द्वितीयासंयोगेन साध्यतया प्रतीयते । न च यस्यान्यत् साध्यं तस्यापूर्वविषयता । अन्योन्याननुगुणसाध्यद्वये वाक्यभेदापत्तेः ।
?Rन च नियोज्यविशेषणतया आनुगुण्यम् । अकारकं हि नियोज्यविशेषणम् । तत्रेयं युक्तिः सत्तया न कारकं विशेषणम् ।
?R नियोज्यान्वयाधीनानुष्ठानाद्धि क्रियायोगात् कारकतया सत्ता नान्वयकाले । न च साध्यतया वेशेषणम् । क्रियाकाले हि कारकं, न तन्नियोगसाध्यत्वार्ह, कर्मकारकं तु क्रियाफलतयैव नापूर्वसाध्यमिति नानुगुण्येन द्वितीयोक्ते साध्येपि अवघातादेर्विषयता । विषयत्वसंभवे हि स्ववाक्यस्थनियोगलाभान्नियोगान्वयार्थं नियोगीयावस्थां व्रीहिशब्देन लक्षयित्वा नियोगापेक्षित स्वीयद्रव्यसंस्कारद्वाक्यान्तरस्थनियोगनिवेशो नापेक्ष्यते । असति तु स्ववाक्यलाभे ग्राहकान्वयनिर्वाहाय तदीयद्रव्यसंस्कारद्वारता युक्ता ।
?R एवं च ग्राहकीयावस्थस्य व्रीहिरूपेणान्वयायोग्यता । स्वरूपान्वयेहि स्वतो द्वितीयावगतभीप्सितत्वं भाव्युपयोगिनः संभवदपि हेयम् । ग्राहकान्वयनिर्वाहानुगुणां लब्धद्वारं च हेयम् । अत्यन्तादृष्टमन्यत् कल्प्यम् । अन्यनिष्ठस्य विषयत्वं स्वविरुद्धं कल्प्यमिति न्यायसंपादनाल्लक्षितं योग्यं, न श्रौतं स्वरूपमित्यनुपपत्तिर्लक्षणाबीजमिति सिद्धं ग्राहकानुगुणप्रत्ययात् तु प्रातिपदिकेलक्षणेतीह पाशवैषम्यम् ।
?R विवरणे तु मानान्तरवेद्यतण्डुलादिकार्ये अवघातादिविनियोगे विधिरनर्थक इति व्रीह्यादेरेव अवघातादिषु विनियोगः अवघातादेः प्रयाजादिवद्विनियोगः । एवं च दृष्टकार्येषु पूर्वः पक्षः । पदार्थान्वयमात्राद्व्रीहिशेषतावघातस्येतिपूर्वं राद्धान्तोपक्रमे युक्तिः । राद्धान्तस्तु अपूर्व साधनताऽवघातोत्पादिततण्डुलानामिति विधेरर्थवत्वे दृष्टद्वारतया विनियोगोनियोगापेक्षितः । नियमः प्रयोजनम् विधेश्शेषं मतद्वयेभाष्यव्याख्यादि च सुगमम् ।
?R?0॥ द्रव्यम् चोत्पत्तिसंयोगात् तदर्थमेव चोद्यते ॥ 11 ॥
?R?0 ?R?0अपरं वाचनिकं शेषत्वमुच्यते । पूर्वत्र एकपदश्रुतित एव अस्यकार्यमिदमितिधिः द्वितीया हि क्रिया फलभागित्वमेवाह । इदमस्य कार्यमित्येवं कार्यतश्शेषतोक्तेति द्वितीयान्तादेवेति निष्कर्षः । द्वितीया(त) एव शेषतेति श्रुतिर्द्वितीयात्मिकेति गीयते । तृतीयान्तादिपदेभ्यस्तु नेदमस्य कार्यमितिधीः । न च क्रियादिपदादपि तद्धीरिति पदद्वयश्रुतिरूपाद्वाक्यात् । अत एवारुणाधिकरणे पञ्चिकायामुक्तं “?Rवाक्येन द्रव्याणां विनियोगउक्त” ?Rइति । अत एवेदं पश्चादित्यवान्तरसंगतिः ।
?R पूर्वपक्षस्तु ग्राहकसन्निधिश्रुत स्पयादि द्रव्यं तद्विधि विधेयं द्वाररहितं तदर्थ द्वारापेक्षायां शक्यं दृष्टं द्वारं तदीयं ग्राहकोऽनुमन्यते न तु दृष्टविशेषनियमं, तदननुमतश्च न शास्त्रार्थ इति शक्तित एव व्यवस्था । ननु स्फ्येनोद्धन्तीति वाक्यानुरोधान्नियोगस्य दृष्टविशेष एवानुमतिर्युक्ता ।
?R मेवं स्प्यादेरुद्धननान्वयो वाक्यावगतोऽनुरुद्ध एव । अर्थवत्ताननुरोधस्तु नियोगस्वरसानुरोधाद्युक्त एव । पक्षान्तरेऽपि द्रव्यश्रुतिर्व्यर्थेति तुल्यम् । एवं च साक्षाद्यज्ञेऽपि दृष्टसाधनत्वाद्यज्ञायुधानीत्यनुवादस्वारस्यम् । उत्पत्त्यपेक्षश्च वाक्यद्वाराऽन्वयः । उत्पत्तौ तु निरपेक्ष एव युक्तः ।
?R राद्धान्तस्तु द्रव्यश्रुतिषु द्वारान्वयो नाभिधानिकः । अभिधानलभ्यं च द्वारं नियोगानुमतिलभ्यम् । इह त्वभिधानलभ्यमपेक्षितं चोद्धननादि वाक्यस्थमेवानुमतम् । दृष्टान्तरं चार्थप्राप्तेनापि सेत्स्यति ।
?R द्रव्यश्रुतयस्तूत्पत्यर्थतयोपक्षीणा नाहत्यान्वयपरा इत्युभय्योऽपिश्रुतयोऽर्थवत्य एव । यत्रह्युत्पत्तिर्न पृथक् तत्र द्वारान्वय श्रुतिरेव द्विपरेति । अयमिहातिभारो न स्यादिति लाभः । यज्ञायुधानीत्यनुवाद इति चातुर्थस्प्याधिकरणे वक्ष्यते । तेनापुनरुक्तिः । अनुवादेचास्वारस्यमदोषः । उत्पत्तिद्वारान्वयश्रुतेः सापेक्षतापि
?Rतुल्या । विवरणे तु निरपेक्षतयैव द्रव्यश्रुतितो द्वारान्वयमुक्त्वा उत्पत्तिद्वारान्वयश्रुत्योर्मिथः सापेक्षतया राद्धान्तितम् ।
?R?0अर्थैकत्वे द्रव्यगुणयो रैककर्म्यान्नियमः स्यात् ॥ 12 ॥
?R श्रुत्या संस्कारशेषत्वानन्तरं पदद्वयश्रुतिरूपवाक्येन द्रव्यशेषतोक्ता गुणशेषता च वाक्याद्द्रव्यनिर्वाह्या चेति इदानीमेव चिन्त्यत इत्यवान्तर संगतिः । ननु गुणस्य वाक्याच्छेषता न क्रये । क्रयस्यास्मिन्नेव वाक्ये सोमशेषत्वप्रतीतेर्वाक्यभेदापत्तेः न च गुणस्य वाक्यात्सोमशेषता, करणत्वेन क्रियान्वयात् । मैवं पदनिमित्तको ह्यन्वयो विरुद्धत्रिकद्वयापत्त्या वाक्यभेदहेतुः । शेषत्वं तु कार्यभेदनिमित्तकमेकस्मिन्नपि वाक्येऽनेकं युक्तं पदनिमित्तकरत्वत्रान्वयः एक एव । तदुक्तम् - इह तु क्रय एव एव कर्मकरणावच्छिन्नः प्रतीयत इति । न चैवं सोममिति निमित्तकर्मणोऽवच्छेदकत्वे क्रयगुणता, न प्रणयनं गोदोह गुणः, नापि गोदोहनं तस्य, नहि राजपुरुष इत्यत्र राज्ञो गुणता प्राधान्याहानादेव विशेष्यधीरंजनादिति कार्यतः कार्मार्थतैव क्रयस्य, क्रयार्थताऽरुणादेः । वाजपेयवाक्यं त्वपूर्वपरम् न क्रयवाक्यवत्क्रियारार्यपरं, अतो नापूर्ववाजपेयावच्छिन्नयागपरम् । किंतु स्वाराज्यकामापूर्वावच्छेदको यागः यागावच्छेदकं वाजपेयमिति विरुद्धत्रिकद्वयापत्तिस्तत्रयुक्तेति युक्तं स्थानान्तरोक्तम् । अरुणादीनां हि क्रय एव क्रियकारकभावेनैदमर्थ्येन चान्वय इति ।
?R इहाप्युक्तं प्रयोजनवता सोमेन संबन्धार्थं क्रियाप्राधान्यमरुणैकहायन्यपेक्षं युक्तम् । अतो न प्रत्येकं वाक्यपरिसमाप्तिः । (अने) नहि गुणं प्रति प्रधानं क्रय इति उपदिश्यत इति । अन्यत्रतु यदुक्तमरुणादीनां क्रयसहितानां सोमे विनियोगमिच्छन्तीति तत्परम्परया सोमार्थत्वं टीकयोक्तम् । एवं चैकवाक्य प्रमेये शेषे शेषिणि च नियोगादेव साधनावस्ता शेषिणो लक्षणीया तत्परपदाभावात् ।
?Rसोमेन यजेतेत्यादावपि यागस्य साधनावस्था नियोगादेव नियोगादेव लक्ष्या । नहि ज्योतिष्टोमचोदनयाधिकारान्वये ज्ञातेऽपि यायोत्पत्तिपरता सोमेन यजेतेत्यस्य त्यक्तेति नान्यक्षणापरता । वाक्याधीनांशसाधनादेवमादिशेषत्वपरमिह संगतम् । नियोगीयांशस्तु पश्वेकत्वादिनयसिद्ध एव ॥
?R श्रीकरस्तु श्रुतितः सोमार्थक्रपान्वये तन्मुखेन सोमशेषत्वादारुण्यस्य पदार्थान्तरान्तर्भावाद्वाक्यत इदमिति सङ्गतिमाह । तन्न ;?R ययोक्तप्रकारे सति विस्तरभिया वोषान्तरं नोक्तम् । अत्र पूर्वपक्ष ऋजुविमायामुक्तः - युक्तमाकृतेरमूर्ताया अप्यध्यवसायहेतुतया क्रियां प्रतिसाधनत्वम् । गुणस्य तु न कथंचत्साधनत्वं घटते । ननु द्रव्योपादाने गुणस्योपयोगः न ह्यनवच्छिन्नमुपादातुं शक्यं, न च गुणं विनाऽवच्छेदः । तन्न ;?R यथा गुणाश्रुतौ यत्किंचिद्द्रव्यमुपादाय प्रयोगः तथा गुणश्रुतावपि किं न सिध्यतीति न गुणः साधनमिति । अयं भावः अरुणादिशब्दा गुणवचना नारुणत्वादिजाति वचना इत्याकृतिग्रन्थे सिद्धम् । एकसंविद्वेद्यतया च द्रव्यान्तर्भावः । न हि रूपिशून्या काचिद्रूपधीरित्याकृत्यधिकरणसिद्धम् । यदा च द्रव्यपरोऽरुणादि शब्दः तदा द्रव्यलिङ्गक इति च वृद्धव्यवहारसिद्धम् । जातिशब्दस्तु गवादिः सदा स्वलिंगक एवेति भेदः । अनुपात्तद्रव्यके वाक्ये गुणवद्द्रव्यान्वयः । अनुपात्तद्रव्यकेऽपि जातिपदे जातेरेवान्वयः । जातिमतस्त्वार्थिकीद्वारतेत्यपि भेदो वृद्धव्यवहारसिद्धः । तदिहैकहायनी पदोपात्ते द्रव्ये गुणपरतयैवान्वयः नतु गुणवद्द्रव्यपरतया, व्युत्पत्तिविरहात् । न चामूर्तस्यारुणादेः क्रियासाधनत्वार्हता । मूर्तद्रव्याश्रिता हि क्रिया । तस्या मूर्तमेव कारकम् अमूर्तं तु मूर्तान्तर्भावान्नान्यथा न च यथा जाति शब्दोऽपि जातिपर एव सन्नेकसंविद्वेद्यस्वार्थद्वारतामाश्रित्यामूर्तार्थोऽप्यन्वयार्हः तथा गुणशब्द इति वाच्यम् । उक्तं हि गुणशब्दस्याश्रयद्रव्यद्वारान्तर्भावो द्रव्यपरतयैव व्युत्पन्नः द्रव्यपरत्वादेव द्रव्यलिङ्गानुकारिता । उपात्तद्रव्यके तु न
?Rद्रव्यपरताव्युत्पत्तिः ।
?R अतो न जातिवद्द्रव्यद्वाराध्यवसायादारुण्यस्य क्रियान्वयार्हता न च श्वेतमालभेतेतिवद्द्रव्यपरतया द्रव्यद्वाराध्यवसानादन्वयार्हतेत्याकृत्यधिकरणोक्तं जातेः क्रियान्वयित्वमनाक्षिप्तम् । न चैवं जातेरध्यवसायहेतुत्वं जातितो हि सास्नाद्यवयवयुक्तं नियतं द्रव्यमध्यवसीयते, न गुणतस्तथेति । यतो गुणवद्द्रव्यान्वयेऽपि तर्हि गुण्यन्तर्भावाद् गुणान्वयो न स्यात् । अतस्तद्गुणक द्रव्योपादानाभावाच्छ्रवेतमालभेतेत्यस्यापि गुणस्यान्वयाक्षेपादुदाहरणतास्यात् संख्योदरपि जातिवदवयवविशेषानियामकत्वादुदाहरणता वृद्धाननुमता स्यात् । अभिमतप्रकारे तु सङ्ख्यादेरनुदाहरणता युक्ता । नामोपात्ताहि अन्तर्भावितसङ्ख्येया विभक्त्युपात्ता तु सङ्ख्येपनिष्ठा । एवं मूर्तान्तरेऽपि ज्ञेयम् ।
?R व्युत्पत्तियुक्तिरेवं ग्रन्थस्था - पटस्य शुक्ल इत्यत्रोपात्ते द्रव्ये शुक्लशब्दो गुणपर इति । यत्तूपात्त द्रव्यकेऽपि गुणवद्द्रव्यपरत्वं पटस्य शुक्लो भाग इति तत् भागसामानाधिकरण्यादपोद्यते । यथा नीलमुत्पलमित्यत्रकारकविभक्त्यन्ते । कारकविभक्त्यन्ते हि एतद्राद्धान्तनयसिद्धा द्रव्यपरता । न चेहापि स्त्रीलिङ्गमपवादकं, स्त्रीद्रव्यपरे हि स्त्रीलिङ्गं शुक्लादिषु व्युत्पन्नमिति । यतो न लिङ्गमेवंविधविषयेऽर्थसाधनम् (साधु) अरुणा शाटीति । नही शाटी स्त्री । प्रयोगसाधोस्त्वर्थसाधुत्वे निरूपिते प्रयोगे तदनुसारिता । इह तु गुणपरत्वेनानर्थसाधौ स्थिते स्त्रीलिङ्गं करुणावद्युक्तमिति न स्त्रीलिङ्गापवादः । भागसामानाधिकरण्यं तु अर्थसाधुतयाऽपवादकमितिव्युत्पत्तियुक्तिः ।
?R ननु वाक्यभेदे तर्हि न गुणपरता । उपात्तद्रव्यकवाक्यबहिर्भावात् । मैवम् । उपात्त द्रव्यकवाक्ये हि द्रव्यस्यातिसन्निधिः । स च विमर्शोत्थवाक्यभेदेऽपि नापेत इति न गुणपरत्वे व्युत्पत्तिहानिः । यथा सामान्यशब्दो वाक्यान्तरसन्निहिते विशेषे तदितरविशेषपर इति गोबलोवर्दनयः सामान्यविशेष नयाद्भिन्नो वर्णितः ।
?R ननुगुणपरत्वेऽपि सन्निहितैकहायनीगुणपरतास्तु, माभूद्विप्रकृष्टप्राकरणिकद्रव्यान्वयः । मैवं यदि गुणशब्दोऽन्विताभिधानायैकहायनीमपेक्षते, तदशक्यंतृतीयायोगात् । अथ नियोगार्थतया नियोगीयद्वार द्रव्यापेक्षा तदा प्रकरणिना यावत्प्राकरणिकं द्रव्यं द्वारमुपनेयम् । स्फ्यादिपूर्वपक्षवत् । तदा च द्वारभूतद्रव्यद्वारा करणत्वं तृतीयानुवाद्यम् ।
?R ननु वाक्यभेदपरिहारार्थं कथंचिद्गुणस्यावच्छेदकतया क्रयकरणतास्तु तन्न गुणावच्छेदंविनापि द्रव्योपादानसिद्धेर्नाहत्यसाधनता गुणस्य गुणवद्द्रव्यपरे तु गुणशब्दे गुणविशिष्टस्य द्रव्यस्य साधनतायां विशेषणस्यान्तर्भावः । जातिशब्देन्तर्गत विशेषणपरे सति विशेषणत्वेनान्तर्गतायाः जातेः करणत्वेन तृतीयान्तान्वयान्न वाक्यभेद इति ध्येयम् ।
?R राद्धान्तोऽपि ऋजुविमलायामेवम् क्रयान्वयादारुण्यस्य तत्रैव विनियोगः । क्रय साधनता च द्रव्यविशेषणत्वेन आरुण्यविनियोगेन ह्योवं प्रतीयते यत्रारुण्यं समवेतं तेनैव क्रम इति । न च द्रव्यस्योपादानमारुण्येनाविशिष्टस्य संभवति । नचानुपात्तेन करणेन क्रियासिद्धिरित्यस्ति साधनताऽऽरुण्यस्येति । अयं भावः - गुणस्यापि चेद्द्रव्यद्वारा प्राकरणिक द्रव्यावच्छेदात्करणता, करणतानुवादार्थं क्रियान्वयोऽनुज्ञातः । तद्वरमेकवाक्यतानुरोधात्क्रय एव अतिसन्निहितैकहायनीद्वाराऽऽन्वयोऽस्तु नहि नियोगोऽपि पदान्वयं बाधित्वा यावत्प्राकरणिकान्वयाय प्रभवतीति स्फ्याधिकरण राद्धान्तसिद्धम् । यदुक्तं गुणावच्छेदं विनापि यत्किंचिद्द्रव्योपादानसिद्धिरिति, तन्नयत्किंचिदवच्छेदं विना तावद् द्रव्योपादानमशक्यमित्यनुज्ञाते व्यक्ति विशेषं विना भावो नावच्छेदक सजातीयस्य साधनतां विहन्ति ।
?R अन्यथा व्रीहि व्यक्ति विशेषं विना भावाद्द्रव्यमप्यसाधनं स्यादिति
?Rछत्रच्छाया टीकायां स्फुटम् । एवं द्रव्यादिभ्यो गुणस्य विलक्षणं साधनत्वं, गुणपरत्वे द्रव्यपरत्वे च स्वानुरूपं सिद्धं भिन्न द्वारतया च न द्रव्येण सह विकल्पः समुच्चयेऽपि न वाक्यान्तरस्थद्रव्यद्वारता । अतिसन्निहित स्ववाक्यस्थद्रव्यद्वारा चरितार्थस्य न वाक्यान्तरस्थद्रव्य संकोचतेति द्रव्यगुणयोरैककर्म्यात् एक क्रयान्वयादिति एकधाऽन्वयादिति तात्पर्यार्थः । भाष्यव्याख्या तु गुरोः पंचिकयोरेव सुगमा । विवरणे तु प्रकारान्तरेमावान्तरसङ्गतिः स्फुटदृष्ट कारकभावद्रव्य शेषत्वे साधिते पदनिमित्तान्वयवबलादस्फुटकारकभावयोर्गुणकर्मणोः शेषत्वचिन्तां गुणचिन्तां सापवादां सविशेषां चतुरधिकरण्यां समाप्याभिक्रमणकर्मचिन्ता । संख्यापि गुणविधैवेति ग्रहैकत्वसप्तदशत्वयोश्चतुरधिकरणी निवेशः । अश्रुतद्वारस्य कर्मणः कर्मणि शेषता जघन्येति पश्चाच्चिन्तिता । स्फुटमिदमभिक्रमणाधिकरणे दीपशिखायाम् । इहेयं दीपशिखा “?Rआक्षिप्तद्रव्ये गुणजाती” ?Rइति । तद्गुणशब्दस्य गुणवद्द्रव्यपरतया जाकौ जातिमात्रपरतयेति भेदे सत्येव । शेषं निबन्धनवत् ।
?R?0एकत्वयुक्तमेकस्य श्रुतिसंयोगात् ॥ 7 ॥
?R द्रव्यमुणसंस्काराणां शेषत्वे उक्ते किं विवक्षित सङ्ख्ये शेषिणि शेषता उताविवक्षित सङ्ख्ये इत्येवमुक्तशेषतै विशेषतश्चिन्त्यत इति सङ्गतिद्वयम् । प्रकरणविनियोज्येतराङ्गानां प्रायेण द्रव्यगुणसंस्कारविधौ निवेशात् तत्रैव प्रायेण शेषिमि संख्यान्वयात् तदनन्तरमेवेदृशी चिन्ता । नारादुपकारकशेषचिन्तापेक्षा । पश्वेकत्व नयसिद्ध नियोगाधीनविवक्षाशङ्कानिरासोऽत्रनये प्रसाध्यः न विवक्षेति न चतुर्थसङ्गतिः ।
?R पूर्वपक्षस्तु - यद्यपि स्वकार्यशेषतया निर्ज्ञातोपादाना एव ग्रहादयः शेषिण इत्युपादेयावच्छेदकैकत्वादि सङ्ख्यानपेक्षा, तथापि इह श्रुतमेकत्वादि विवक्षितम् । विवक्षाचाङ्गत्वादिलिङ्गम् । अङ्गता चापेक्षयेत्यपेक्षितमित्याद्रियते ।
?R पञ्चिकानुरोधाद्विवक्षादि क्रमः उक्तः । श्रुतेरेव हि पश्वेकत्वादेरादरः अवच्छेदकापेक्षामात्राद्धि द्वित्वादेरादरोऽपि स्यात् । क्वचित् द्वित्वादेरादरोऽपि श्रुतित एव । उपादेये श्रुतेरादर इति चेत् न, यूपंछिनत्ति, अग्नीनादधीतेत्येकत्वबहुत्वादरात् । तत्राप्यनुपात्ततयाऽवच्छेदापेक्षेतिचेत् न श्रुतितो ह्यत्रोत्थाप्याकांक्षा रक्तपटवत् ज्ञातावच्छेदस्यावच्छेदापेक्षोत्थापनमशक्यमितिचेन्न । स्वकार्यान्वये ज्ञातावच्छेदस्य स्वशेषान्वये शक्यैवापेक्षा । ग्रहादिः संमार्गादिना संस्क्रियतेकार्यान्तरयोग्यः क्रियते । कार्यान्तरयोग्यत्वं च ग्रहनात्रस्य, नसंख्यादेः । अतो न संस्कारार्हमेकत्वादीति नापेक्षोत्थितिरिति चेन्न उपादानशेषसंख्यादियुक्ता ग्रहा एव ऐन्द्रवायवादिवाक्येषु कार्यान्तर योगिन इति नै [?Rसै] ?Rकत्वस्य ग्रहस्य संस्कारार्हतयाऽपेक्षा शक्या । एकैकस्यैव तत्र विनियोगान्न मिनितानां ग्रहाणां कार्यान्तरयोगः ।
?R संस्कारान्वये प्रधानं ग्रहा इति न संख्यादेः संमार्गान्वय इति चेन्न, गुणभूतसंख्याद्यहानेन यथा शेषता तथा शेषितापियुक्ता । संस्कार्योपलक्षणा हि संख्या राजपुरुषमानयेत्यत्र राजपदवत् । अतो न संस्कारार्हतेति चेन्न, उपलक्षणत्वे ह्योकत्व श्रुतिर्व्यर्था । न ह्योकत्वेनोपलक्ष्यो विलक्षणः । एकत्वयोगस्य सर्वग्रहगामित्वात् । राजयोगस्तु न सर्वपुरुषगामीति तत्रार्थवत्ता राजश्रुतेः । अतोऽत्रैकत्वस्य संमार्गान्वयो युक्तः । श्रुतिहाने हि ग्रहश्रुतेरपि हानं स्यात् । विभक्त्या कर्मैकत्वयोप्रातियदिकार्थगतयोः युगपदभिधानान्नैकत्वस्य संमार्गान्वये श्रुतिः । पश्वैकत्वादि तु नियोगेन क्रियान्वितावस्थ इति प्रातिपदिकार्थेऽङ्गीकृतं, इह नु अनुपादेयस्वरूपावस्थातिक्रमो न नियोगात् अतः संमार्गा [?Rर्गे नै] ?Rन्नैकत्वादर इति चेत् ।
?R अस्तु तावद्विभक्त्यभिधेयस्येयंगतिः । नामाभिधेयस्य तु क्रियान्वयिन एवोपात्तोद्देश्यगत संख्यादेरनादरे को हेतुः । उद्देश्ये नामाभिधेयमपि संख्याजात्यादि कार्ययोगिसंस्कार्य द्रव्योपलक्षणार्थं न संस्कार्यं, द्रव्ये कार्यपर्यवसानादितिचेन्न
?Rउपादेयेऽपि द्रव्य एव कार्यपर्यवसानाज्जात्यादेरुपलक्षणतापत्तेर्जात्यदेरङ्गता न स्यात् ।
विधेये जात्यादि नोपलक्षणं द्रव्यस्य, पूर्वं कार्यपर्यवसानाप्रतीतेः । जात्याद्यंशेनैव द्रव्यस्य कार्यान्तर्भावः । उद्देश्ये तु प्रमितकार्ययोगं द्रव्यं जात्याद्युपलक्षणम् । उपात्तमात्रमुद्देश्यम् । विशेषणानि पूर्वप्रमितानि । अप्रमित्सया नाद्रियंते । विभक्त्यभिधेयं तु संख्यादि उपादेयापेक्षोपनेयमिति दूरत एव तदनादर इति चेन्न, एवं तर्हि ‘?Rयूपंछिनत्ति’ ‘?Rअग्गीनादधीते’?Rत्युद्देश्यैकत्वबहुत्वे दूरतोऽनादृते स्याताम् । अनुपात्तोद्देश्य द्वयमिदं अप्रमितंविशेषणापेक्षं विधेयवदितिचेन्न, अप्रमितं यूपादि विधेयमेव नोद्देश्यं स्यात् ।
?Rअलौकिकतयोत्पत्तेःपूर्वमप्रमितं भाव्युपयोगप्रतिसन्धिलब्धकार्यभावं तत्संस्कारविधिपरेवाक्ये उद्देश्यतार्हमितिचेत् । अस्तुतावदनुपात्तम् । उपात्तमपि नोद्देश्यं द्वितीयया कारकविभक्त्या क्रियायां विधानात् । प्रमितविशेषणमपि क्रियान्तरार्थमुपादानेऽवच्छेदापेक्षमेव । अथ कारकस्थ फलभागित्वांशाभिधायितयाकारकविभक्तिः, नतु साक्षात्कारकत्वाभिधानात् । कारकता हि क्रियाहेतुता, क्रियायाः फलान्तत्वात् फलांशप्रतिष्ठितोऽपि ग्रामादिर्गतौ हेतुरेव । अन्यथा फलांतस्वभावक्रियानुपत्तेः । फलयोगिता तूत्पाद्यता प्राप्यता विकार्यता संस्कार्यतात्मिका क्रियाजन्या । एवं चतुर्विधकर्माभिहितं न शाब्दोक्तं त्रिविधम् । न च श्रीकरोक्त विधया चतुर्विंधमुत्पत्याप्तिविकृत्यदर्शनेप्यदृष्टसंस्कारात्संस्कारविधेति । यतो दृष्टमदृष्टं च केवलातिशयतया वाकाराद्विभक्तं संस्कारमाहुः इत्युक्तं तत्रैव । लोकेऽलङ्कारादौ संस्कारधीप्रयोगयोर्दर्शनात् । विलयनमाज्यविकार लोके यन्नोच्यते तत्स्वाभाविक घनत्वानिश्चयात् । गन्धवत्त्वात्पार्थिवत्वेन तन्निश्चयः । न चोत्पत्तौ द्रवत्वाद्द्रवस्वभावमाज्यं, नोत्पत्तौ दर्शनात् तत्स्वभावता, करकायाः उत्पत्तौ कटिनायाः अपि द्रवस्वभावादाप्यत्वावगमात् । न च गन्धसमवायोऽप्यपार्थिवत्वे,
?Rभूम्यामेव गन्ध इत्यनुज्ञानात् । न च संयुक्तसमवायादाज्ये गन्धधीः । नहि द्रव्यान्तरमीदृग्गन्धवत् क्लृप्तम् । जलादौ तु कुसुमादिसौरभावमर्शाद्युक्तः संयुक्तसमवायाद्गन्ध इत्यग्नियोगाद्द्रवता एव । न चानपेक्षितपाकान्तरश्यामनिवृत्त्या पाकजवैधर्म्यान्नाग्निसंयोगजता ;?R रूपरसगन्धपरावृत्ति फलकपाकजो गुणः पाकान्तरेण निवर्तते । न च द्रवता गन्धरसादि परावृत्ति फलकाग्निसंयोगापेक्षेति । अतोऽग्निसंयोगादित्युचितः पदोपन्यासः केनचिद्द्रवत्वविरहे सतीति व्याप्तितः समाधिरुक्तः । न विमतबोधनायायुक्तः । न चात्र पाकजो हि स्पर्श इति पाठावगमात् समाधिः ।
?Rप्रकृतमुच्यते - चतुर्विधकर्मावस्था हि द्वितीया वाच्या । कारकावस्था तु क्रियाफलानां तदवस्थाश्रितानामेवोत्पत्तेरतरर्थलभ्या । स्वर्गादिफलमपूर्वव्यवहितमकारकावस्थास्थं यत्तद्भागिता द्वितीयार्थो माभूदिति कारकाधिकारे कर्मसंज्ञाशब्दानां क्रियाफलभागितामात्रशक्तितया नानेकशक्तिः । कर्मणि द्वितीयेत्येव सिद्धे यदीप्सितानीप्सिताकथितादिभेदतः कर्मसंज्ञासूत्रणं, तदीप्सिते न्यायतः प्रथमं पूर्वधर्मासंभवे त्वन्यदिति भेदार्थं । न्यायश्च क्रिया क्लेशतया प्रयोजनापेक्षिणी । तस्याः स्वजन्यमेव लाघवात्प्रयोजनं, असंभवेऽन्यत् । असंभवस्तु फलयोगिन उपयोगान्तराभावात् । अत एव गां ददातीत्यनीप्सितता गोः । उपयोगान्तराभावात् । उपयोगान्तरेपि दण्डस्य मैत्रावरुणसंप्रदानके वाक्ये प्रधानान्तरेसति वाक्यभेदापत्तेः अनीप्सितेऽपि द्वितीय मुख्येत्यनीप्सितता कारकावस्था न कर्मेति कारकाधिकारात् । ईप्सितादि कर्मेति प्रतिपदोक्तम् ।
?Rअतः कर्माणि द्वितीया न कारकार्था ।
?Rश्रोकरस्तु - कारकावस्थाभिधाने करणादिभ्यो निवर्तयितुं क्रियाफलभागितोपाधिरनुज्ञेयः । तदा गौरवमित्याह - तन्न, क्रियाफलभागितैव तावद्धिशिष्टरूपं गौरवापादकं न कारकतादि विशिष्टरूपं कर्त्रपादान निर्वृत्त्यर्थं
?Rफलभागित्वेऽप्युपाध्यन्तरं ?Rतुल्यं कर्त्रपादानेतरत्वं तेनैवोक्तम् । यद्योका संज्ञेत्यधिकारादुपाध्यनपेक्षा सा तुल्या कारकार्थत्वेऽपि ।
?R एतेनैतन्निरस्तम् यदाहुः प्राधान्यमेव सर्वत्र द्वितीयावदिति स्वतः ।
?R विरोधात्तेन संबन्धिगुणभावस्तु लक्ष्यत इति । एकार्थत्वेन सर्वत्र मुख्यार्थत्वे सति न लक्षणाश्रयणम् । एवं च कार्यान्तरोपयोगिनो ग्रहादेरीप्सितत्वान्न कारकतयोपादानावच्छेदापेक्षेति चेन्न परमार्थिकं कारकतामाश्रित्य विभक्तिश्रुतमेकत्वाद्याश्रीयताम् । यथा नियोज्यपदे विभक्त्युक्ता संख्या, कर्तृत्वावस्थानन्वयिनी कथंचित्प्रातिपदिकार्थगताऽङ्गीकृता । अथ विभक्तेर्न संख्यावचनमेवैकं प्रयोजनमिति कर्मत्वमात्रमत्रार्थ इत्येकत्वश्रुतिरेव नास्ति । प्रथमा तु अकारकविभक्तित्वात्संख्यार्थैवेति नियोज्येश्रुताभिहितकर्त्रवस्थान्वयिनी दृष्टेति चेन्न, युगपत्कर्मसंख्याभिधानव्युत्पत्तेः प्रर्योगसाधुत्वाश्रयणं च सर्वथाऽनन्वयात्पाशानित्यादौ । अथ कर्मान्वयमात्रेऽपि ब्राह्मणं न हन्यादिति द्वितीया दृष्टेति चेन्न, यद्यपि रागप्रवृत्तवधनिषेधे वध्योऽनुपादेय इत्यवच्छेदापेक्षा स्वतो नास्ति तथापि यथाश्रुतं निषेद्धु युक्तमिति एकत्वादरणं युक्तं, सर्वमिदं पूर्वपक्षप्रपञ्चरूपम् ।
?R संक्षेपस्तु पूर्वोतरपक्षयोरुच्यते । अत्रोद्देश्यविशेषणनविवक्षितमिति व्युत्पाद्यते । विधेयप्रमितिपरो हि विधिर्विधेयं स्वसिद्ध्यनुगुणं द्वारं, यदुद्दिश्य विधत्ते तदुद्देश्यमित्युच्यते । तत्प्रमितमेव नान्यत् । यदपि यूपाहवनीयाद्युद्देश्यं तदपि विधेयान्वयादुत्तरभाविप्रमितत्वप्रतिसंधानादेव नान्यथा । उद्देश्यविशेषणं चोद्देश्ये लब्धे यदधिकं उद्देश्यस्वरूपे विभक्त्युक्तं नामोक्तं च विशेषणम् । विधेयान्वितमपि नामोक्तमुद्देश्यधर्मतया तद्विशेषणत्वार्हमित्येवंविशेषमुच्यते । समासान्तर्गतं तूद्देश्यपरमेव । विशेषणस्याविवक्षितत्वं च वाक्यस्यातत्परत्वं वक्तुमनिष्टमपि तथिति गौणो वादः । अतत्परत्वं च विभक्त्युक्तस्यान्विताभिधानबाह्यत्वापादकम् । नामोक्तस्य वाक्यप्रमेयानन्तर्निवेशकरं प्रमितानुवादमान्त्रेणान्विततापादकं ।
?Rएवंविधोद्देश्यविशेषणस्याविवक्षितत्वप्रतिपक्षरूपेणात्रैक एव पूर्वः पक्षः । इयं च विभक्त्युक्तमुदाहृत्य चिन्ता तत्र ह्यविवक्षायामनन्वयः । स च व्युत्पत्त्यपेक्षित इति । एवं च श्रुतित एव विक्षापेक्षोत्थानाच्छ्रुत्यनुगुणतयैव द्वितीयायाः कर्मत्वहानात् कारकवाचित्वनिर्णयाच्छ्रुतिबेनैव प्रमितविशेषणस्यापि संस्कार्यरूपेणापेक्षोत्थापनात् नामोक्तमपि वाक्यप्रमेयान्तर्गतम् सतिसंभवे व्युत्पन्नम् । अतस्तदपि स्वरसात् तथाश्रुतमित्यपेक्षोत्थापनात् युक्तं । श्रुतितः सर्वं परिकल्प्यत इति ।
?R राद्धान्तस्तु स्वरसात्तावत्प्रमितविशेषणे प्रमित्सा नास्ति । उद्देश्यं प्रमितमेव स्वरसात् । यत्तुविधेयान्वयपूर्वकं भाविप्रमितताप्रतिसंधानादुद्देश्यं तत्र प्रमित्सास्त्येव । अत एवोद्देश्यत्वमतन्त्रम् । विधेयस्यापि पूर्वं निरूपितस्यापि कर्तुः सत्रादुदवसाय पृष्ठशमनोयेन यजेरन्नित्यविवक्षितं बहुत्वम् प्रमित्साभावादेव प्रायिकमुद्देश्ये प्रमिततत्वं न विधेये इत्युद्देश्ये तान्त्रिकप्रसिद्धिः । रक्तपटवत्प्रमित्सोत्थापनमशक्यं प्रमितकार्ययोगिरूपादन्यथात्वे संस्कार्यत्वानर्हत्वप्रसङ्गात् । अत एवोद्देशोऽपि जातिवाचिनापि न जातेः तस्या उपादाने अवच्छेदोपयोगित्वात् । तदुपात्तस्यावघातादिसंस्कार्यत्वात् । आद्ये तूपादानरूपे संस्कारे उद्देशोपि जातिपरेणैव संमार्गादिभिः । संस्कार्यमभिप्रेत्योक्तम् । संस्कार्यद्रव्यपरो जातिशब्द इति । रक्तपटस्य तूपादेयकर्तृविशेषणस्यापेक्षोत्थपनं शक्यम् । यदि तु विशेषणतां विहायोद्देश्यान्तरस्वीकारः तदा वाक्यभेदः प्रत्युद्देश्यं वाक्यपरिसमाप्तेः । नामविभक्त्युक्तविशेषणाविवक्षायुक्तिरुक्ता । विभक्त्युक्ते अयं विशेषः - क्रियान्वय एव तस्य दुष्करः विवक्षा नामार्थगततया युगपत्कर्मैकत्वयोरभिधानान्नैकत्वविशिष्टस्य संमार्गान्वयो न ग्रहाविशिष्टस्य संमार्गान्वयः नापि क्रिया विशिष्टस्यैकत्वस्य ग्रहेणान्वयः । नापि संमार्गविशिष्टेन ग्रहेणान्वयः । न च संमार्गमात्रेणान्वयः । न चार्थी कारकतामाश्रित्यान्वयादुपादेयगतता यथाकर्मत्धं आर्थकारकत्वस्य प्रमितत्वात् । नानाविधवचनव्यक्तितो विधेयस्वीकारे च वाक्यभेदो दुस्तर इत्याहुः ।
?R यां यां च वचनव्यक्तिं विधेये रचयिष्यति ।
?R वाक्यभेदेन तां तां तु सिद्धान्ती दूषयिष्यति ॥
?Rइति (तन्त्र वा 3-1-7) । न च विवक्षितेप्येकत्वे प्रतिप्रदानावृत्तिनयात् सर्वग्रह संमार्गानुष्ठानादप्रयोजना चिन्ता यतोऽधिकारविधिसिद्ध्यर्थं अधिकारावृत्तावेवावर्तृते, अन्यथैकत्वबाधात् अविवक्षितमुद्देश्यगतं यद्विशेषणं भाष्यं शिष्यहितं ब्रूतेविवक्षिताविवक्षितम् ।
?R एकत्वस्य श्रुतेरेकग्रहविनिग्रहात् ।
?R संमार्गेणेह संमार्गो ग्राहितो ग्रह संग्रहः ॥
?R?0संस्काराद्वा गुणानामव्यवस्था स्यात् ॥ 16 ॥
?R?0 ?R?0यदि कार्यवदुद्देश्यं तर्हि यागार्थ सोमधारणैककार्यवद् ग्रहचमसोपलक्षणार्था ग्रहश्रुतिरिति चमसेष्वपि संमार्गो युक्त इत्येवमुत्थानादवान्तरसंगतिः । पूर्वपक्षस्तु - यद्यप्यभ्यासापूर्वभेदात्साधनता चमसानामन्यथा तथापि ग्राहकापेक्षितं सोमसेकापनयनरूपं कार्यं सर्वसोमाधारपात्रवर्तीति तदेवसाधनत्वमुपलक्षणीयम् । अवधातादिकार्यं तु वितुषत्वादि नाज्यसान्नाय्ययोर्विध्यपेक्षितम् । स्फ्यादिकार्यमुद्धननाद्यन्वयानुरोधात्संकुचितम् । एवं च विधिपदश्रुतसंमार्गमात्रविधिलिङ्गादेव सोमाधारद्वारलाभः । प्रकरणे मन्त्रोपदेशवत् । राद्धान्तस्तु - श्रुतिमूलं द्वारकार्यमिति ग्रहव्यक्तय एव द्वारम् । ग्राहकोऽपि श्रुतानुरोधादपेक्षितग्राहीति ग्रहश्रुतिः ग्रहयज्यभ्यासापूर्वसाधनं सोमाधारमन्तरङ्ग लक्षयति । व्रीहिश्रृतिस्तु न यवव्यावर्तिका एकावान्तरापूर्वद्वारत्वाद् व्रीहियवयोः । ग्रहश्रुत्यनुरोधेऽपि पदश्रुतिविधिरेव । श्रुत्यभावे तु लिङ्गाद्विनियोगो मन्त्रस्थ युक्तः । विवरणे त्वभ्यासापूर्वश्रुतेः (गृहीतः) संमार्ग इत्युक्तिर्द्वाराभिप्राया न तत्प्रयुक्ततैवाभिप्रेता ॥
?R?0॥ आनर्थक्यात्तदङ्गेषु ॥
?R ?Rविशेषणमविवक्षितं उद्देश्यं विवक्षितमिति स्थिते किं वाजपेये उद्देश्यो यूपो विशेषणं उत विपरीतमिति गतचिन्ताद्वयविशेषचिन्तेयमिति संगतिद्वयम् । पूर्वपक्षस्तु वाजपेयस्येत्युद्दिश्य सप्तदशारत्निताविधइः । यूपे ह्युद्देश्ये वाजपेयस्येत्यनन्वितं स्यात् । षष्ठ्यन्तत्वात् । षष्ठ्याः संबन्धवाचित्वात् । यूपस्य पशुयागार्थतया वाजपेयसंबन्धि संबन्दितेति न षष्ठ्या विशेषणविशेष्यतानुवादः । वाजपेयाश्रितोऽयं न साक्षाद्धर्म इत्याश्रयापेक्षायां यूपशब्दो गौणे वाजपेयार्थोर्ध्वपात्रार्पकः ।
?R एवमुद्देश्यपूरकमुद्देश्यकोटितया पदद्वयं कार्य एवान्वितार्थम् । न च यूप उद्देश्येऽरत्निप्राप्तेः सप्तदशतामात्रविधेः लाघवं वाच्यं ;?R समासान्तर्गतविशेषणविधेरयुक्तत्वात् । अत एव त्र्यङ्गैरित्यत्र न त्रित्वविधिः अपूर्वत्र्यङ्गविधिरेवेत्युक्तम् । प्रधानान्वये च प्रकरणानुग्रहः ।
?R राद्धान्तस्तु - यूपसामानाधिकरण्यात् तावदुद्देश्यताभानं यूपशब्दस्य मुख्यार्थताभानं च । तदेवं घटते यदि यूप एवोद्देश्यः न च तद्विशेषणस्य षष्ट्यन्तस्यानन्वयः । संबन्धिसंबन्धिन्यपिषष्ठीदर्शनात् । चैत्रस्य नप्तेतिवत्, तदुक्तं पञ्चिकायाम् - यद्यपि संबन्धिसंबन्धिना संबन्धो नास्ति, अस्ति तु तत्रापि षष्ठीप्रयोग इति । अयं भावः । संबन्धा हि जन्यजनकभावादयः क्रियागर्भाः । क्रिया हि स्वकर्तुः स्वफलत्वेन स्वोत्पत्यैव संबन्धकारी, नान्येनान्यस्यान्यदा । तदुभयबहिर्भूते व्यवहारार्थः संबन्धव्यपदेशः । उपचारतोऽपि संबन्धनिर्देशे संबन्धवाचिनी षष्ठी युक्तेति चैत्रस्य नप्तेत्यादिसिद्धिः । पुत्र पौत्र एव हि नप्तृशब्दार्थः । स च यदपेक्षया स्यात्तत्संबन्धिनिर्देश एवाभिव्यक्तो भवति । यथा समवायिनः समवायो निर्दिश्यते न तेन तस्यापरः संबन्ध इष्यते, औदासीन्यप्रच्युतिगुणात्संबन्धशब्दः (व्यपदेशः) षष्ठी न तत एव । एवं च सर्वत्र कर्तृफलर्बाहर्भूतमातुलभ्रात्रादौ संबन्धनिर्देशाधीन दृष्टादृष्ट व्यवहारसिद्धिः ।
?R तदेवं वाजपेयसंबन्धिपशुयागसंबन्धियूपस्य वाजपेयासंबन्धेऽपि षष्ठ्यन्तविशेषणान्वयः । एवं चास्य नप्तेतिनिर्देशबलात्संबन्धान्तरोपगमो न युक्तः ।
?R श्रीकरस्तु वाजपेयेन यूपस्योपकार्योपकारकसंबन्दात् षष्ठीत्याह - तन्न, उपकार्योपकारकभावो ह्यङ्गाङ्गिनोरेव । उपकारकोपकारित्वं चाङ्गाङ्गस्येति रहस्यम् । यदुक्तं पदद्वयं कार्यान्वितार्थमिति, तत्प्रकरणाद्वाजपेयानवये योग्यत्वादूर्ध्वपात्रान्वये न नैकमपि कार्यान्वितार्थमित्येव निरस्तम् । अस्मिंस्तु पक्षे यूपशब्दस्तावत्कार्यान्वयीति लाभः ।
?R विवरणेतु - सप्तदशता अरत्न्युद्दशेनैव विधीयते । यूपवाजपेयपदयोरनुवादमात्रता । किंत्वनुवादेपि मुख्यार्थतयाऽनुवादार्थं (सुबोधार्थं) औपदेशिकवाजपेयपदमुख्यार्थानुवादानुरोधाद्यूपपदमूर्ध्वपात्रे गौणं युक्तं, तदाऽरत्न्यर्थोऽपि विधेय इत्ययं न दोषः समासार्थस्यैकस्यैव विधेः । अत एव त्र्यङ्ग विधिरुक्तः । यदि यूपो मुख्यस्तदा वाजपेयस्येति पशुयागलक्षण । मुख्यस्य यूपासंबन्धादिति पूर्वपक्षिते राद्धान्तितं –
?R यूपे मुख्यार्थेऽरत्न्यर्थस्य प्राप्तेः विधिगौरवहानम् । न च समासेनापि विधौ प्राप्ताप्राप्तविवेको नास्ति इति त्र्यङ्गैरित्यत्र न पदद्वयमुख्यार्थात्मकविनियोगानुरोधः । इह तु यूपवाजपेय पदद्वयमुख्यार्थतानुरोधात्समासान्तर्गतावयवपरो विधिर्लाघवार्थो युक्तः । त्र्यङ्गे तु कृत्स्नसमासार्थविधेरेकरूपतया हि समासरूपविनियोगानुग्रहो न्याय्य इति (न हेय) भेदः । संबन्धिसंबन्धिन्यपि षष्ठी मुख्येत्युक्तम् ।
?R
?R?0॥10॥ कर्तृगुणे तु कर्मासमवायाद्वाक्यभेदः स्यात् ॥ 16 ॥
?R वस्त्वन्तरद्वारकं क्रियान्वयिनो गुणस्य शेषत्वमुक्तम् । गुणकोटितया संख्याया अप्युक्तम् । तथाभूतकर्मणः शेषत्वमधुनोच्यते । द्वारस्याश्रुतेरस्य जघन्यताया पश्चात्त्वं, अपुनरुक्तिश्च गुणशेषत्वव्युत्पत्त्या ।
?R पूर्वपक्षस्तु - न कर्म कर्मसाध्यमिति काश्यपमतम् । न च कर्तृद्वारापि साधनता कर्तृपरशब्दाभावात् । न च जुहोतीति कर्तृसंख्यावाचीति तिङ्न्तं कर्तृपरं, विधिपरत्वात् । अत एव नानृतं वदेदित्यकर्तृपरत्वमुक्तं, अतः समभिव्याहृतजुहोत्यनन्वयादभिक्राममिति प्रकरणिना गृहीतमेकं योग्योद्देश्यं कर्तारमुद्दिश्य विधीयते । प्रयोगाङ्गकर्तृनिवेशात्कृत्स्नप्रकरणनिवेशी । जुहोतीति तु भिन्नमभ्यासनयात्कर्मान्तरम् । पौर्णमासीनयाद्वाऽनुवादः ।
?R राद्धान्तस्तु सत्यां गतौ वाक्यभेदो न युक्तः । अत्र च क्रियायाः क्रियान्तरान्वय एवाभिधानिकः । णमुलन्तत्वादभिक्राममित्यस्य । समानकर्तृके हि णमुलनुशासनात् । क्रियान्तरान्तर्भावात्समानकर्तृकतेति समभिव्याहृतजुहोत्यन्वयादभिधानपर्यवसानम् । समानकर्तृकता च धातुसंबन्धाधिकारात्क्रियायां क्रियार्थायां णमुल्विधेः । संभवति च जुहोत्यन्वयोऽवगम्यमानकर्तृद्वारक इति न प्राकरणिककर्त्रन्वयो वाक्यभेदः कृत्वा युक्तः । दृष्टमेव कर्तृद्वारा होमः कार्यम् । होमो हि दूराद्बाहुं प्रसार्य वा क्रियते । अभिक्रमणेन प्रत्यासीदता वेत्युक्तम् भाष्ये । न च णमुला आहत्य कर्त्रन्तर्भावः ;?R अव्यवकृतो भावे भवन्तीति शाब्दाः । अत्र यथोक्ते प्रयोजनभङ्गमाहुः - जुहोतिनिवेशेऽपि न प्रयाजेष्वेव निवेशोक्तिर्युक्ता । ये तु संदंशनयादवान्तरप्रकरणं प्रयाजानामाहुः । तन्मतेऽस्तु प्रयाजेष्वेव निवेशः । यदाहुः -
?R येनाभिक्रमणादूर्ध्वं पुरस्ताच्च गुणोऽपरः ।
?R विधास्यते प्रयाजानां तस्मात्प्रकरणास्तिता ॥
?Rभङ्गोऽयं न गुरुराद्धान्ते । जुहोतिमात्रनिवेशो राद्धान्तो यतः । न च प्रयोजनभङ्गः । अङ्गप्रथानजुहोतिनिवेशोऽस्तु जुह्वा जुहोतीतिवत् । तथाहि - होमेतरकर्तृत्वे नाभिक्रमणमिति प्रयोजनलाभः । पूर्वपक्षे हि कृत्स्नप्रयोगकर्त्रन्वयाद्धोमाहोमेष्वभिक्रमणं प्राप्नोति । उक्ततदोषोऽयं प्रजाजेष्वेव निवेश इति भाष्येणाधिकरणस्य पञ्चाङ्गस्येति
?Rपञ्चिकाकारस्योपेक्षा । अथवा भाष्यमेवस्वभाषाशोधकम् , यदाह प्रयाजवाक्ये श्रूयते अभिक्रामं जुहोत्यभिजित्या इति । प्रयाजवाक्ये ह्योवं श्रुतिः । यद्येकमेव वाक्यमभिक्रामं प्रयाजान् जुहोतीति । यद्येवमाम्नातं सर्वशाखासु नास्तीत्यवधारयितुं शक्यते, तदा कृत्वचिन्ता मध्वशनादिवत् ।
?R अथवा भाष्यमभिजित्या इत्यस्यैव स्तुतिपदस्यानतिपरोक्षार्थतया प्रयाजानूयाजनिवेशं मत्वापि प्रदर्शनार्थं प्रयाजेषु निवेशमाह । अनतिपरोक्षार्थता चैवम् । अभिजयार्थ वर्मधर्मकतया अभिभूत्या इत्येवं प्रयाजानूयाजस्तुतिः । अभिजित्या इत्यभिक्रमणस्तुतिरिति स्तुतिद्वयानुरोधः । अभिजित्याभिभूत्योरेकार्यत्वादिहाभिजित्या इति स्तुत्यन्वयः । अस्मिन्नेव प्रकारे उंबेकादीनामास्था । इयान्भेदः । ते हि प्रयाजनात्रनिवेशं वदन्ति, तदर्थं प्रयाजानां सन्निधिं कल्पयन्ति । वाक्यविहितप्रयाजधर्मद्वयमध्यस्थतामभिक्रमणस्य वा कल्पयन्ति ।
?R तत्कल्पनाद्वयं मानशून्यम् । अतिसन्निहितैकप्रयाज एव निवेशापत्तिश्च । अथ प्रयाजशब्दसंयोगविहितधर्ममध्यस्थता, सापि मानशून्यैव । व्यवहितकर्तृकेषु प्रयाजेषु चापेक्षितविधिरिति विधा भाष्यादुन्नेतुमशक्या ।
?R श्रीकरस्तु स्तुतिबलं (पदं) विहायोद्देशे व्यक्तिपरतया सन्निहितहोमेषु जुहोति इति पदम् पर्णताप्रकृत्यर्थचिन्ताकाले च ‘?Rपञ्चप्रयाजान्यजति’ ?Rइत्यप्याम्नानमित्युक्तं, तत्सन्निधावभिक्रमणविधेः प्रयोजेष्वेवैतदित्याह - प्रातस्सवनिकगर्हसन्निधिश्रुतेरुपि ग्रहं संमार्ष्टीत्यस्मिन् अधिकारापूर्वसाधनग्रहव्यक्तिपरता । नतु प्रातस्सवनिकग्रहपरता, अधिकारापूर्वार्थत्वाद्धर्मस्य । इह तु जुहोतिधर्मोऽवान्तरापूवार्थो न तयेतिसन्निहितव्यक्तावेव । वाक्यत्पशुधर्मोऽपि पशुयागावान्तरापूवार्थः, स्थानरूप सन्निधानादग्नीषोमीयार्थो न प्राकरणिकपशुयागमात्रार्थः । अस्तु तावदेवं ग्रहधर्मवैषम्यम् पञ्चप्रयाजानिति वाक्यमनुपादकम् । न चानुवाद्यमनुवादे सन्निहितमित्यनन्तरं वक्ष्यति । न चोत्पत्तिभेदात्सर्व एव सन्निहिता भवन्ति । एकानन्तर्येऽन्यस्यान्तरितत्वात् । अथ
?Rसमिदादिवाक्यान्युत्पत्यर्थानि नियोगात्वयार्थंप्रयाजवाक्यं उभयश्रुतावपीयमेव व्यवस्थेति ।?R
?R अस्तु तावत्तथाप्युत्पत्तिष्वेव सन्निधिः । न प्रयोजनान्वयपरे । अतः प्रयाजेष्वेवेति बहुवचनं [?Rन] ?Rसमर्थितम् , अतः प्रयाजवाक्यैकवाक्यतैव भाष्योक्ता गतिरित्युपेक्षा पञ्चिकायां युक्ता ।
?R?0संदिग्धे तु व्यवायाद्वाक्यभेदः स्यात् । । 27 ॥
?R ?Rअनिर्दिष्टोऽपि कर्ता अपेक्षापूरक इति चेत् इहाप्युपव्ययत इति कर्त्रपेक्षा सन्निहितकर्त्रा पूर्यतां इत्युत्थानादवान्तर सङ्गतिः । पूर्वपक्षः ऋजुविमलायाम् । उपव्ययत इत्येकमिदं पदमन्विताभिधानाय कर्त्रपेक्षं सन्निहितेन कर्त्रैकवाक्यतां याति । स च कर्ताऽनेन संस्क्रियत इत्यस्य कार्याकांक्षापि पूर्यते । आनन्तर्यमचोदनेत्यत्र तु पदद्वयप्रयोगादन्विताभिधानपरिसमाप्तेराकांक्षापूर्तिः । अभिक्राममित्यत्र पूर्वाधिकरणपूर्वपक्षेऽपि सिद्धवत्प्रतीतमभिक्रमणं न कर्त्रपेक्षम् । किंतु प्रकरणनिवेशाय शेष्यपेक्षं शेषिभूतेन कर्त्राऽन्वितमभिधीयत इति ।
?R अयं भावः - उपव्ययत इति व्येञ् संवरण इत्यस्य धातोः कर्तरि रूपं, तिङ्न्तं च पदं कारकमभिधेयपर्यवसानायापेक्षते । उपव्यानं च वासोविन्यासः । कर्तुरनाकुलताकरस्वभावतया कर्तृधर्म इति कर्तृविशेषकारकापेक्षम् । न च देवलक्ष्ममेव तत्कुरुते इति स्तुतिपदैरपेक्षापूर्तिः । स्तुतिपदेभ्यः कर्तृविशेषाप्रतीतेः । क्रियाकारक पदद्वये तु ‘?Rहस्ताववनेनिक्त’ ?Rइत्यादौ कर्माप्यन्विताभिधानकरं न स्वरसापेक्षितोऽपि कर्त्ता सन्निहितो मृग्यः । अभिक्राममिति सिद्धार्थं (त्व) साध्यभूतग्राहकपदार्थान्वितमभिधेयम् । तदन्वितं च तदर्थं सत्द्वारापेक्षया कर्त्रन्वितमिति भेद इति स्थिते उपव्ययत इत्यस्य सन्निधौ श्रुतं गुणफलसंबन्धार्थ सामिधेन्यनुवचनं स्वकर्तारं सन्निधापयति, तदनुवचनार्थमुपव्यानं वाक्यात् ।
?R राद्धान्तस्तु अनुवादोऽयमनुवचनस्य । न चानुवादेऽनुवाद्यसन्निधिः । ज्ञानान्तरोपस्थापितकालदेशं वस्तु पुनर्वदत्यनुवादः । न स्वयं वस्तु उपस्थापयतीत्यनुवाद्यं स्वदेशवर्त्येव तत्र विधानाद्वस्तूपस्थितेः सन्निधिः । अतोऽसन्निहितमनुवचनं न स्वकर्तारं सन्निधापयतीति प्रकरणसन्निहितकर्त्रन्वयात्कृत्स्नप्राकरणिकेषूपव्यानम् ।
?R विवरणे तु - कर्तव्यानुवचनकथनानुवृत्तिर्गुणलसंबन्धेऽप्यस्तोति (धस्यस्थिति) कर्तव्यतायामनुष्ठानपर्यन्तायां कर्ता सन्निहित इति तन्निवेशः । कथानुवृत्तावप्यनुवादे नानुष्ठेयावस्थासन्निधिः, अनुवाद्यानुवर्तित्वादनुवादस्येति । अस्मिन् प्रकारेऽनुवाद्यानुवर्तिताव्युत्पत्तिस्तुल्या । सप्तमाष्टमानुवाकानुवचनविधिस्तु नवमस्थ निवित्पदैरग्न्यर्थैः व्यवहितः । निविदोऽपि तदसंबद्धानुवचनकथान्तरिताः । एवं च मतद्वयेऽपि सन्निधेर्हेतुत्वमुपेत्यात्रानुवादे सन्निधिर्नास्तीति नयव्युत्पत्तिः । आनन्तर्यमचोदनेत्यत्राधिकार-(विधि) सन्निधिरेव । अभिधानापेक्षयापीति व्युत्पाद्यम् ।
?R अत्र भाष्ये अवान्तरप्रकरणं सामिधेन्यनुवचनस्येति दर्शनान्मीमांसातन्त्रे च विनियोजके प्रकरणशब्दप्रयोगात् वार्तिककृताऽवान्तरप्रकरणं विनियोजकं गृहीत्वाधिकरणं कृतम् । फलवदपूर्वार्थस्याप्यङ्गापूर्वस्य श्रुतिवाक्योक्त धर्मजातकथानुवृत्तौ मध्यगतो धर्मोऽङ्गाकाङ्क्षयैवान्वित इत्यवान्तरप्रकरणं तदनुवचनस्यापीति तदर्तमेवोपव्यानमित्युक्ते सिद्धान्तः व्यवहितन्तु तत्प्रकरणमिति । तदुक्तं
?R कर्थभावो हि भावानां यावदाख्यातमिष्यते ।
?R न तस्य प्रतिबन्धोऽस्ति महाप्रकरणादिभिः ॥ तथापि –
?R विच्छिन्ना सामिधेनीनां निविद्भिः प्रक्रिया यतः
?R न हि काम्यैः पुनः कल्पैः सन्धातुँ सहि शक्यते ॥
?R नेदं गुरोर्मतं तत्प्रकरणमिति । तदुक्तं पञ्चिकायां प्रकरणं हि तन्त्रे ग्राहकत्वं
?Rविनियोजकत्वं प्रयोजकत्वं चाधिकारविधेरेव । तस्यैव पुरुषेणानुष्ठेयतया प्रतीतेः अनुष्ठेयसन्निधाव (न) नुष्ठेयं तदर्थमिति इदं ग्राहकत्वम् । तस्यैवेतिकर्तव्यताकाङ्क्षत्वं विनियोजकत्वं, प्रयोजकत्वं च । प्रकरणं च तस्यैवेति । अयं भावः - परस्यापि मतं श्रुतिवाक्योक्तमध्यस्थाङ्गापूर्वस्याकांक्षा नाधिकारापूर्वस्येवामध्यस्थेऽपि । मध्यस्थेऽङ्गापूर्वसन्निधिरधिकः परमापूर्वस्य न इति चेत् न । तुल्याकाक्षया ह्यन्यतरान्वयः सन्निधेराधिक्यात् । न चानयोस्तुल्याकांक्षा परस्यापि मता । यदि मता अमध्यस्थधर्माणां सन्निव्याकांक्षासाम्ये तदुभयार्थता दुर्वारा । आकांक्षैव ह्यन्वये प्रभवति, सन्निधिस्तु तदनुग्राहकः । आकांक्षयैवासन्निहितं सन्निधाप्यते । सन्निहितमप्यनाकांक्षितमुपेक्ष्यते ।
?R अथ तन्त्रमध्यस्थतया तत्प्रयुक्तिः । अत एव तन्त्रमध्यविधानात्प्रसङ्ग इष्यते इति चेत् न । मध्यपातात् प्रयुक्त्युपजीविता । सा तु समशक्तित्वेन त्वङ्गता, न हि प्रासङ्गिकाङ्गता तन्त्र्यङ्गानाम् । अङ्गापूर्वाणां प्रकरणोपगमेऽपि नानुवचने गुणकर्मणि तदर्थताशङ्का । गुणकर्मणि श्रुतिवाक्याद्युपनेयमधिकारविधेरेवेति नानानयसिद्धम् । अतो यथैव टीकयोर्भाष्यपूर्वापरावमर्शादवान्तरप्रकरणशब्दो निरन्तरतारूपसन्निधिपरो व्याख्यातस्तथाऽऽस्थेयम् । विस्तराद्भिभ्यता अपरे दोषाः नोक्ताः ॥
?R?0॥ 12 ॥ गुणानाम् च परार्थत्वादसंबन्धः समत्वात् स्यात् ॥ 22 ॥
?R उपव्यानस्य कृत्स्नप्रकरणनिवेशो वाक्याविरोधाद्युक्तः । वारणादि तु यज्ञावचरतया वाक्यावगतमाधानप्रकरणे श्रुतमपि तदङ्गयज्ञमात्रे युक्तमित्युत्थानादवान्तरसङ्गतिः । पूर्वपक्षस्तु आधानसाध्याग्निसन्निध्यधीतमपि वारणादिपात्रं यज्ञसाधनतया श्रुतत्वान्न साक्षादाधानद्वाराऽग्न्यर्थम् । यद्याधानाङ्गता परमानेष्टियज्ञस्य तदा आनर्थक्यतदङ्गनयात्परंपरया प्रकरणे निवेशः । आधानाङ्गत्वे चेयं युक्तिः, भाव्युपयोगादग्नीनामाधानसाध्यतानिर्वाहात्प्रयोजनत्वे
?Rस्थितेऽनवगतोपयोगेष्टेः प्रयोजनत्वेनान्वयात् आधानावष्टबेधे चाकरणत्वादङ्गतैव । नन्वग्नेरनधिकारविधिकारविधित्वान्न ग्राहकता मैवं प्रयोजनभूतं हि लोके ग्राहकतया व्युत्पन्नम् । अधिकारविधिरपि निरपेक्षं प्रयोजनमित्येवं स्वसन्निहितस्य सापेक्षप्रयोजनस्य ग्राहकः । इह तु निरपेक्षसन्निधौ सापेक्षमपि प्रमितप्रयोजनमप्रमितप्रयोजनस्य ग्राहकं युक्तम् । नन्वाधानक्रिया फलत्वादग्नीनां क्रियानिर्वर्तकमेवात्राङ्ग युक्तं नारादुपकारकेष्टिः मैवं, सिद्धेऽपि क्रियाफले आहवनीयपदवाच्यत्वसिद्ध्यर्थेष्टिरित्यङ्गमेव सन्निपातिता वा कृतेष्टेराधानमित्युपेयम् । नन्विष्टेरङ्गत्वेऽपि न वाक्यात् पात्रान्वयः । उक्तं हि प्रधानवाची यज्ञशब्द इत्यग्नियोगाधिकरणे । मैवम् । परमप्रधानयागसन्निधौ तत्रैव प्रधाने धीरित्यङ्गयागत्यागः तत्र । इह तु तदसन्निधेरङ्गयाग एव स्वाङ्गापेक्षया प्रधाने धीः । अङ्गेष्टेरप्यतिदेशाद्यागान्तरमङ्गम् । मैवम् । गौरवभयाद्धि प्राप्तार्थनिर्वपत्याद्युपगमादपेक्षोत्थापनात् चोदकतः प्रयाजाद्यङ्गालाभात् यज्ञतेति ।
?R राद्धान्तस्तु इहेस्टेरपि साक्षादग्न्यर्थत्वात् नेष्टौ पात्रम् ।
?R अयं भावः - अग्निसन्धिरिष्टिरग्निसाध्य इत्येवमन्वय धीः । अतिदेशतस्त्वग्नेर्गुणत्वेनान्वय धीः । अत्र गुणत्वे साध्यत्वविरोधिनि बाधितेऽपि साक्षात्वमन्वयाश्रितमवबाधितम् ।
?R साक्षात्त्वं चाधानाव्यवहितत्वं अधिकरणकारकत्वंचाग्नेः साक्षात्साध्यत्वानुगुणमेव । कारकस्य हि साध्यत्वं साक्षादेव कर्मणो दृष्टमित्यत्रापि कारकस्य साध्यत्वं साक्षाद्युक्तम् । ननु साक्षात्वगुणत्वयोः न पृथग्विधिविधेयता, येनैकहानेऽपि विधेयान्तरानुग्रहः मैवं, संभवतो गुणस्य विधेयैकदेशस्याप्यनुग्रहो युक्त एव नत्वतिदेशादाधारताऽऽहवनीयस्य । न चेष्ट्यनुष्ठानकाले सोऽस्ति, इष्टेरपि तदुपायत्वात् । आधानजन्यांशक्तोऽग्नेराधारत्वं संभवेत् । अनुगुणं च साक्षात्साध्यत्वस्येति तदनुग्रहो युक्तः । साक्षादन्वयो हि सर्वस्यापेक्षितः । स
?Rइहोत्पत्तिशिष्टाधानावष्ठम्भाद्वाध्यमानोऽतिदेशलब्धसाक्षात्त्वमुखान्तरादागतो न हेयः । आधारतामाधानजन्यांशक्तोऽग्नेरऽप्यादाय कारकाश्रितफलजनकत्वं क्रियास्वभावदृष्टमनुगुणं साक्षात्साध्यत्वनिर्वाहकमनुज्ञातम् । स्वभावतः प्रधानस्यापि कर्मण उत्पाद्यद्रव्येण साक्षात्संयोगात्पूर्वावस्थायां कारकगतफलजनकत्वं यूपाहुत्यादेर्दृष्टम् । न चोदपदेशमात्रादेवेष्टेः साक्षादग्न्यर्थता आधानावरोधदोषस्त्वदृष्टकार्याणामेककार्यत्वानिरूपणान्निरस्त इति वाच्यम् । यतोऽदृष्टकार्यमपि निरपेक्षतया श्रुतमवरोधकमेव । अत एवाग्नेयादि करणावरुद्धे प्रयाजादि न करणम् अत उपदेशातिदेशाभअयां साक्षादग्न्यर्थतेष्टेः -
?R नन्वग्न्यर्थत्वे सत्यतिदेशः अतिदेशापेक्षं च तदर्थत्वमित्यन्योन्याश्रयः, मैवं, अग्न्यर्थत्वं साक्षादाधानाङ्गत्वद्वारावेत्यनिरूपितेपिरूपितेपि अग्न्यर्थत्वमात्रादतिदेशेन धर्मान्वयः । यथाधिकारवत्तामात्राद्विनियोगः अङ्गविनियोगादेवाधिकरविशेषधीः ।
?R नन्विष्टिविध्यन्तग्रहादाहवनीयलाभेऽपि अहोमेऽस्मिन् होमद्वारकाहवनीय एव बाधितः । न प्रधानातिदेशेऽपि तदवयवः प्रक्षेप आक्षिप्तोऽप्यनङ्गभूतोऽपि गुणत्वबाधादतिदेश एव बाधितः । मैवं क्रियाकारकाद्यन्वयपूर्विका ह्यात्यन्तिकगुणतारूप शेषता । तद्बाधेऽप्यन्वयानुवृत्तिः । ननु गुणत्वे । तर्ह्यप्राप्तबाध एव । न हि गुणत्वमप्यतिदेशात् किंतु स्वरूपमात्रान्वयः, ततोऽपेक्षया गुणत्वमुपकारकत्वं वा कल्प्यम् । तदिहासंभवान्न कल्पितम् , किंतूपदेशावगतमग्निसाध्यत्वमतिदेशावगतस्वरूपस्य साक्षात्त्वेनोपसंहृतम् ।
?R मैवं पदार्थातिदेशः पदार्थानां ह्मङ्गतयैवेति प्रकरणपञ्चिकायां युक्तम् । तादर्त्यप्राप्तेस्तद्बाधात्प्राप्तबाध एव व्युत्पादितः । यदि चापेक्षया गुणत्वं तर्हि कृष्णलचराववघातादेरङ्गत्वं न स्यात् साक्षादग्न्यत्वयो मुखान्तरादित्याधानेन समुच्चयः । इष्टीनां च युगपद्ग्रहणात्समुच्चयः । क्रियाफलमाधनानन्तरमेव ;?R इष्ट्यनन्तरं च आहवनीयशब्दवाच्यतोत्पत्तिस्तु सर्वाधीना । लिङ्तु प्रयोजकापूर्वानुवादिन्यस्तु
?Rअपूर्वद्वारा वा इष्टीनां स्वांशजननमाहवनीयपदार्थसिद्धयेऽस्तु । एवमाधानानङ्गत्वादिष्टेर्न तत्र पात्रमिति गुरोरधिकरणम् । पूर्वेषां भाष्यापातभानादन्यथा पवमानेष्टिष्वप्यपरमाहवनीये जुहोतीत्यस्तीतिपूर्वःपक्षः । न तेन वाक्येनाहवनीयस्येष्ट्युत्पाद्यता सप्तम्या गुणतयाऽन्वयात् । अतोऽनारभ्याधीतस्यातिदेशप्राप्तस्यानुवादोऽयम् । आधानाङ्गता प्रकरणादिष्टेः प्रयोजनापेक्षायाम् ।
?R राद्धान्तस्तु अनुवादोऽयमनर्थकः, तद्वरमिष्टेः प्रयोजनाकांक्षायां विभक्तिव्यत्ययेनाग्निरुत्पाद्योऽस्तु । गुणत्वमाधानसाध्याग्नेराधानाङ्गोष्टावप्यशक्यं यतः ।
?R तन्न । आरभ्याधीतादर्शनात् तत्कल्पनायामपि नेष्ट्युत्पाद्यताऽग्नेः । अतिदेशाधीने हि होमत्वे होमरूपेष्ट्युत्पाद्यता । तदा चाग्निरपि गुणत्वेनावगत इति तदनुवाद एव भातीति न व्यत्ययाश्रयणम् । इष्टेस्तु प्रयोजनापेक्षाऽऽधानाङ्गत्वादेव शान्तेति यथोक्त एवाधिकरणे भाष्यं मूलतयाऽनारभ्याधीतमाह । गुरूक्तमपि वार्तिककृता भग्नं, पूर्वोत्तरपक्षाभावाभिधानेन । आधानाङ्गत्वेऽपीष्टेर्न तत्र पात्रनिवेशात्मकः पूर्वः पक्षः ।
?R नचेष्टेः साक्षादग्न्यन्वयात्मको राद्धान्तः । राद्धान्तार्थं च यदाहवनीयादिवाक्यमुक्तम् । तदपि भ्रान्त्या, तन्न तावदारभ्याधीतं, अदर्शनात् । अनारभ्याधीतं तु प्रत्यक्षहोमरूपास्वेव विकृतिषूपदेशकम् , नेष्टिषु । न चैतदग्नेः साध्यत्वोपदेशकमिति भ्रान्तिरेव भाष्यकृतः ।
?R सर्वमिदं गुरुणा निरासानर्हमित्यवधीरितम् । आधानार्थत्वे हीष्टेरानर्थक्यतदङ्गनयात्पूर्वपक्षस्तावद्युक्तः । ननु तत्र वाक्यादेव वाजपेयान्वयो यूपान्वयश्च सप्तदशतायाः वाजपेयस्य साक्षाद्यूपाभावात्तदङ्गस्य पशोः यूपे निवेशः । इह तु वाक्याद्यज्ञान्वये प्रकरणादाधानान्वयो बाधित एव स कथमङ्गद्वारा स्थापितः, मैवं, वाक्याद्धि यज्ञार्थता सा आधानाङ्गयज्ञान्वयेऽपि नापैति । संकोचमात्रं तु
?Rकांस्यभोजनयादिष्टमेव । अन्यथा हि जघन्यस्य सर्वथा बाधः स्यात् ।
?R नन्वाधानाङ्गान्वयेप्याधानानन्वयात्प्रकरणस्य सर्वथा बाधः । मैवं सन्निध्याम्नानाद्धि यत्तदन्वयभानं, तत्तदीयान्वयेऽपि परम्परयाऽनुगृहीतमेवेति न सर्वथा बाधः । अत एव प्रधानप्रकरणे वाक्यात्पशुधर्मा स्तदङ्गपशावेव निवेशिताः । नव प्रयाजानिति चविकृतौ निवेशितम् । अन्यथा हि प्रकृतौ निरपेक्षावगत प्रयाजेषु संख्याविधिः स्यात् । यत्र त्वङ्गतोऽ[?Rता]?Rपि वाक्यगम्याः न संभवति, तत्र सर्वथा प्रकरणबाधः, द्वादशोपसत्तापूषानुमन्त्रद्वियजमान - प्रतिपदादौ । दीक्षणीयावाङ्नियमस्यापि साक्षात्परमा पूर्वार्थता नेष्टा, परम्परयेष्यत एव । वेदधर्मत्वपक्षे तु यदुच्चैष्टवादि न प्रकरणनिविष्टं, तन्न वाक्यविरोधात् । किंतु वाक्यादधिकारापूर्वान्वयात् । साधनान्वितो हि धर्मः प्रकरणान्वयीत्यत्रैवाध्याये वक्ष्यते । अतः स एवायमानर्थक्यतङ्गनयः ।
?R यत्तु कस्यचित्पूर्वपक्षभङ्गे अनास्यया राद्धान्तभङ्ग एवावस्थानम् । तदप्ययुक्तम् उक्तो हि राद्धान्तः, चोदकसचिवादुपदेशात्साक्षादग्न्यर्थत्वमिष्टीनां नाधानाङ्गतेति सर्वयज्ञार्थ पात्रम् । ननु अतिदेशावगतस्य साध्यत्वे विश्वजिदादिष्वग्निप्रयोजनकता स्यात् तन्न उपदेशावगतसाध्यत्वस्य साक्षात्वमतिदेशादुक्तमिति नातिप्रसङ्गः ।
?R ननु गुणत्वबाधात्साध्यत्वे अग्निहोत्रहवण्यपि निर्वापस्य, अवधातादिः कृष्णलादेः साध्यः स्यात् तन्न । साध्यस्यैव गुणत्वबाधात् साक्षादेव साध्यतेति नेयमतिप्रसक्तिः । नन्वेकैक(त्र) कर्तृनिरपेक्षतयाऽतिदेशप्रवृत्तेस्तयैवसाध्यत्वान्न परस्परमाधानेन च समुच्चयः स्यात् । तन्न । समुच्चितसाध्यत्वमुपदेशावगतं साक्षात्त्वेनातिदेशतः स्थापितमित्यसकृदुक्तम् । अतो नासमुच्चयोऽपि । भाष्ये त्वनारभ्याधीतमेवोक्तं आरभ्याधीतकल्पनापि न राद्धान्तानुगुणेति व्यर्था द्वितीया श्रुत्या हि द्रुतमाधानेनान्वयो जघन्य इष्ट्यन्वयः, सप्तम्या होमतां चानुसंधायाधानावरोधान्न
?Rसाक्षाद्युक्त इति व्यर्थता । प्रसिद्धमपि यदनारभ्याधीतमेवोक्तम् । तत्तन्मूलो ह्यतिदेशः साक्षात्त्वे हेतु ;?R मुखान्तरान्नावरोधदोष इति च वक्तुं, न त्वनारभ्याधोतमुपदेशत एवेष्टिष्विति वक्तुम् । नहि स्वयं प्रत्यक्षहोमरूपविकृतिषु इति वभ्यन् भ्रान्त्योपदेशमिष्टिषु वक्तीति संभवतीत्यलमवधीरितभङ्गनिरासायासेन ।
?R यस्तु जरत्प्राभाकरोक्तः, स्थितेऽपि राद्धान्तनये तत्फलभङ्गो न सर्वयज्ञेषु पात्रं साक्षादग्न्यर्येष्टीनामेव प्रकरणात्पात्रमस्तु न तूत्कर्ष इति सोऽप्ययुक्तः । यथा ह्यतिदेशमुखेनेष्टेः प्रयोजनवत्वं तथा यज्ञान्वयमुखेन पात्रस्यापीति समत्वादनन्वयः ।
?R नन्वेवमाधानतुल्यतापि पात्रस्य स्यात् तन्न । आधानं हि साध्यावस्थाग्न्यन्वितमुत्पन्नं, पात्रं तु सिद्धावस्थयज्ञान्वितम् । अतो न तुल्यता किं च भाष्ये यदाधानप्रकरणे पात्रमुक्तं तेनेदं लक्ष्यते, तथा पात्राम्नानं यथाऽऽधानव्यवहिताः पात्रापेक्षयेष्टय एकस्यां शाखायाम् । अथवैकस्यां शाखायां सह पात्रमाधानं, अन्यस्यां च संष्टीति । अत एवाङ्गतोऽप्यनन्वये आधानप्रयोजन यज्ञे निवेशात्सन्निध्याम्नानमनुगृहीतम् । अत उक्तं भाष्ये आधानस्य प्रयोजनभूतेषु यज्ञेषु निवेश इति । यद्यपि प्रयोजनमग्निव्यवहितमनित्यमङ्गाः तु अव्यवहितं नित्यंच, तथाप्यङ्गानन्वये प्रयोजनतोऽनुग्रहः [?Rयुक्तः] ?R। एवञ्च यद्भङ्गभयात् पूर्वाधिकरणशेषता सूत्रस्य उक्ता । सामिधेन्यङ्गाः निविदो न व्यवधायका इति शङ्कित्वोत्तरं गुणानामसंबन्ध इति सूत्रम् । तदाहुः ।
?R वदन्ति सामिधेनीवन्निविदोऽग्निसमिन्धनम् ।
?R संयुक्तत्वादतस्तासां नाङ्ग प्रकरणेन ताः ॥
?R इति तत् भङ्गहानादेव हतम् ।
?R?0॥ मिथश्चानर्थसंबन्धः ॥ 23 ॥
?R ?Rपूर्वत्रानर्थक्यतदङ्गनयोऽनङ्गत्वात्त्यक्तः । अत्र प्रधान एवार्थवत्त्वान्न स नय
?Rइत्येवं तस्यैव प्रकारान्तरादाक्षेपोत्थानादवान्तरसङ्गतिः । वार्त्राघ्नीवृधन्वती इत्यनुवाक्ये ?Rद्विवचनेन निर्दिष्टे पूर्वसवर्णतायां ईकारान्तता “?Rसुपांसुलुक्पूर्वसवर्ण” ?Rइत्यादिना लुग्वा ।?R
?R पूर्वपक्षस्तु युक्तं यूपपदश्रुतेः संबन्धिसंबन्धिनि विधानं, इह तु प्रधानपदमेव पौर्णमास्यामिति श्रुतं नाज्यभागपदम् । ननु प्रधानानामेकैकशः करणत्वादितिकर्तव्यतान्वऽयोपि तथा पुरोनुवाक्यामन्वाहेति चैकवचनादेकानुवाक्या प्रत्येकं, अतोऽनूच्येते इति द्वित्वानन्वयः । कुतश्चिदुपाधेर्हि द्वित्वं, तदा आज्यभागयोरितरेतरयोगार्थैकशेषोत्पन्नयोः प्रत्येकमेकैकानुवाक्यान्वयेऽपि द्वित्वोत्पत्त्युपहिताज्यभागान्वयोपाधेरनुवाक्याद्वित्वादनूच्येते इत्यनुवादो युक्तः सत्यं, किन्तु वाक्यात्प्रधानान्वयानुरोधाद् द्वित्वविशिष्टमन्त्रविशेषविधिरस्तु । यद्यप्याग्नेयाग्नीषोमीययोः पुरोडाशद्रव्यकत्वोपाधेर्द्वित्वम् । एवमैन्द्रदधिपयसोश्च देवतोपाधेः । तथापि भेदादुत्पत्तेर्नशाब्दत्वम् । तत्र पुंप्रभवेऽपि न नियम इति न द्वित्वानुवादः । तथापि वरं द्वित्वविशिष्टविधिः । एवं वरं वाक्यप्रकरणानुग्रहाय गौरवम् ।
?R ननु वार्त्रध्न्योः एका आग्नेयी, अपरा सौमी । एवं वृधन्वत्योरपि । आग्नेयीचाग्नेये समवेतार्था । सौम्यप्यग्नोषोमीये कथञ्चिदेकदेशद्वारा । वृधन्वती सौमी न दर्शे समवेतार्ता कथञ्चिदपीति । तन्न । अस्त्वयथार्था ऐन्द्रीवद्वचनात् । अनुवाक्यैकता च सामान्यतः । विशेषतोऽनुवाक्याद्वित्वं तद्बाधकमस्तु । न च सप्तदशारत्निताविशिष्ट यूपविध्यवगमात् तत्रापि वाजपेयनिवेशो वाच्यः । तत्र हि यूपस्य पदान्तरोपात्तत्वात् नैकपदार्थतया समासार्थवद्विधिः । इह तु द्वित्वेन प्रत्ययार्थेन विशिष्टस्यैकपदार्थत्वमिति । गौरवमपि नैकपदार्थे गर्हितम् इति त्र्यङ्गैरित्यत्रोक्तम् । राद्धान्तस्तु द्वित्वान्वितविधेययोग्यतयैव आज्यभागान्वयान्न विधेययोग्यत्वार्थं अयथार्थत्वं द्वित्वविधिगौरवं एकत्वबाधश्च युक्तम् । व्यवधानादपि प्रधानान्वयोपपत्तेः
?R। इह तु सप्तम्यन्तादव्यवधानादन्वय इति । यतः विवरणराद्धान्त एवोक्तः कालवाचित्वात् सप्तम्यन्ततास्त्विति । कर्मतोऽपिहि काले मुख्यता ।
अन्येनाप्युक्तम् –
?R तस्मात्कालार्थ एवायं संयोगाङ्गाङ्गिकल्पनात् ।
?R न्याय्यः पूर्वप्रतीतत्वात् कालोहि दुरतिक्रमः ॥
?R एवं समाप्तेऽधिकरणे सुहृद्भावेन चिन्त्यते पौर्णमास्यामिति विशेषणं अविवक्षितं न वेति । तत्राज्यभागविशेषणत्वे उद्देश्यविशेषणत्वादविवक्षया ये इह अनूच्यते, पौर्णमास्यां ते वार्त्रघ्नी इति विधावप्युद्देश्यविशेषणतैव । पौर्णमास्यां वार्त्रघ्नी इत्येवं विधेयविशेषणत्वमनर्हम् । न हि पौर्णमास्या विशेषिते वार्त्रघ्न्यौ स्तः तन्न । यदि पौर्णमास्याधारेण स्वाधेयतयोद्देश्यं न स्यात् वचनमेवेदमनर्थकं पदानर्थक्यं हि नोद्देश्यतापादकम् । यथास्थिते उद्देश्ये यद्यप्रवृत्तिविशेषकरं अस्तु । न पदान्तरार्थवत्वाय पदान्तरस्वरसहानिः समत्वात् वाक्यार्थपरत्वात्तु पदानां स्वरसहानं युक्तम् , अतो विधेय [?Rशेष] ?Rतो लब्धाज्यभागयोराधेयविशेषापेक्षापूरकत्वम् । अत एव द्वयोरित्युद्दिश्य प्रतिपद्बिधेरपेक्षया यजमानविवक्षेति रहस्यम् । न कालसन्निधिमात्रात्तत्कालविशिष्टता । अनूच्येते इत्यस्य आज्यभागक्रमे अनुवाक्याचतुष्कमिदं कथं प्रयोज्यमित्यपेक्षितविधेः कालतो व्यवस्थेति च न युक्तं सन्निधइमात्रात्तथात्वे सर्वत्रैव विशेषणत्वेऽप्युपयोगापत्तिः । अपेक्षा त्वनुष्ठाने सा विकल्पादपैति ॥
?R?0॥ 14 ॥ आनन्तर्यमचोदना ॥ 24 ॥
?R पूर्वं योग्यतयोद्देश्यान्वय उक्तः अत्रापि योग्यतया सन्निहितार्थतास्त्वित्यवान्तरसङ्गतिः । पूर्वपक्षस्तुहस्तावनेजनादिस्वभावतो नरसंस्कारः कार्यान्तरार्थ इति कार्यापेक्षायां योग्यसन्निहितकार्यान्वयः उपाधित्रयलाभात् ।
?Rएवमेकवाक्यताबलादावेदनस्य चाध्वर्यवत्वानुरोधात्संस्कारस्याप्याध्वर्यवत्वं । समाख्यादेयजिमानताबाध एव । अवनेनिक्त इत्यात्मनेपदं यदि कर्त्रभिप्राय इत्येव याजमानत्वमबाध्यं तदा तदनुरोधात्समाख्याधीनमार्त्विज्यं स्तरणस्य बाध्यमिति युक्तिमात्रे आस्था । राद्धान्तस्तु आख्यातयोश्च नैकवाक्यत्वयोग्यता स्वरसतः । संस्कार्यापेक्षया कल्पनाप्ययुक्ता । ग्राहकस्यैव तत्रोन्मुखत्वात् कर्तुश्च स्वतः कृत्स्नप्रयोजाऽन्वयात् ।
?Rअन्यैरप्युक्तं - असिद्दान्वयतात्प्रर्यमानन्तर्यमचोदना ।
?R वाक्यानां च समाप्तत्वान्निर्निमित्तो मिथोऽन्वयः ॥
?Rसामिधेन्यधिकरणव्युत्फाद्यंतु तत्रैवोक्तम् ।
?R (15) शेषस्तु संयुक्तः साधारणः प्रतीयेत
?R मिथस्तेषामसंबन्धात् ॥ 26 ॥
?R यदि ग्राहकानुरोधादुद्देश्यं श्रुतमप्यनुद्देश्यं तर्हि तदनुरोधात्तदीयबहुपरमित्यवान्तरसङ्गतिः । पूर्वपक्षस्तु कार्यवत उद्देश्यत्वान्नातीव विशेषपर्यन्ततेति आग्नेयपदमग्निसंबन्धितामात्रेणोपलक्षणमस्तु । अस्ति च मिलिततया देवतात्वेऽपि तदन्तर्गताग्निसंबन्धमात्रात् तदुद्देशाद् द्विवेदत्येऽपि चतुर्धाकरणम् । संबन्धमात्रेण तद्धितोऽस्ति । अथवा प्रतिपदाक्तदेवतातद्धित एवायं तद्धीरेव तद्धितात् । किंतु तत्संबन्धसामान्यमनपायात् धीस्थमुपलक्षणं विशेषणांशो न विवक्षितः संबन्धितामात्रं प्रत्येकमित्येवं डित्थ कपित्थनिदर्शनं भाष्ये । विधेये तु यथाऽभिधानादेव व्यवस्थेत्येकदेवत्ये विधिः, अत एव मनोतामन्त्रोऽग्निमात्राभधानेऽपि सोमसहिताग्नौ समवेतार्थः ।
?R
?R अन्यैरप्युक्तम् - शक्यतेहि द्विदेवत्यः संलक्षयितुमेकया ।
?R अग्नीषोमहविर्योगो मनोतायामिवाग्निना ॥
?R राद्धान्तस्तु - अग्निर्देवतात्वेनैव कार्ययोगीत्युपलक्षणमपि तदन्वयितयैव । नाप्रसिद्धान्वयादुपलक्षणं प्रसिद्धान्वय संभवे युक्तम् मनोतायां त्वंसभवात् । तथा डित्थादेस्तु प्रत्येकान्वयप्रसिद्धिरेव मस्तकविभागगुणविधिपरे वाक्ये न प्राप्तावदानैन्द्राग्नादि निवृत्तिः, पुरोडाशं चतुर्धा करोतीति यद्यपि वाक्यं, तदुपसंहृतमनेन । अथवाग्नेयवाक्यमात्रान्नयव्युत्पत्तिः । सामान्यतद्धित शङ्कापि विशेषणतयैव कार्ययोगिलाभे प्रत्युक्ता ।
?Rइति महोपाध्याय भवनाथमिश्र
?Rविरचिते मीमांसानयविवेके
?Rतृतीयाध्यायस्य
?Rप्रथमः पादः
?R —–
?R ?R?0
?R?0अथ तृतीयाध्यायस्य द्वितीयः पादः ।
?R?0अर्थाभिदानसंयोगात्
?R?0 ?R?0अर्थाभिदानसंयोगात् पादभेदतः सम्प्रदायादध्याये कार्येऽवान्तरार्थबेदोपाधेः पाद - विभागेपि कार्ये, श्रुतिहेतुतोपहितशेषत्वात् पादं कृत्वा ततो जघन्याल्लिङ्गतः शेषत्वोपाधेः पादान्तरम् । अनन्तरं च तदन्तर्भूता क्वचित् श्रौतशेषत्वस्यापि चिन्ताऽपवादादेः । प्रायेण तु मन्त्राणां लिङ्गतः शेषतेति सैव सामान्यत उपक्रान्ता - किं मुख्य एव लिङ्गतो मन्त्रशेषता, उत गौणेऽपीति । तद्विषयशुद्धि चिन्ता च को मुख्यः को वा गौण इति । तदन्तर्गतैव पूर्वतन्त्र पूर्वः पक्षः ।
?R शक्तित एव पदस्यार्थ इति गौणी पदवृत्तिरेवायुक्ता । वाक्येनापि व्यवहारे पदपदार्थविभागतो व्युत्पत्तेः प्रतिपदं स्वार्थधीत एवान्वितार्थधीरिति स्वार्थे शब्दस्यैव वृत्तिरुपेया गौणे तु न शब्दस्य वृत्तिः शब्दस्वार्थगुणादेवावगतत्वात् गौणस्य अतश्शब्दार्थतामिच्छता । गुणादागततैव हेया । धीरपि हि तुल्यतया । तदुक्तम् - अग्निर्माणवक इत्युक्तेऽपि पिङ्गलता माणवकश्च पदार्थतयैव भातः । एवञ्च परैरुक्तमयुक्तम् ।
?R शब्दार्थस्यैव मुख्यत्वं मुखवत्प्रथमोद्गतेः ।
?R अर्थगम्यस्य गौणत्वं गुणागमनहेतुकम् ॥
?R असिद्धेरेव अथानेकशक्तिता सत्यां गतावयुक्तेत्यग्निशब्दात् स्वार्थधीः स्वार्थस्य एव । स्वगुणेऽपि पिङ्गलत्वे धीः हेतुरित्येवं परंपरया शाब्दता । इत्थमेव लौकिकीधीरिति भाष्येप्युक्तम् । प्रतीत्यैव हि ज्वलनं माणवकमग्निशब्दात् प्रतियन्तीति । तन्न, अग्न्यर्थधीरेव ह्यत्र नास्ति । अनन्वितस्यानभिधेयत्वात् । कथं ततस्तद्गुणे धीः ??R न च लक्षणायामिव वाक्यार्थान्वितधीद्वारा प्रतीत्यन्वयिता अग्न्यर्थस्य । माणवकवर्तितया हि पिङ्गलताधीः । न च तद्वर्तितया अग्न्यर्थगुणता । लक्षणायान्तु स्वार्थवर्तितयैव धीः । अतो न गौणाभिमते
?Rस्वार्थान्विततयाऽनन्वयात् प्रतीत्यन्वयिता । स्वार्थस्यानन्वयिनश्चाशाब्दत्वात् अशाब्दतैव स्यात् । एवञ्च लक्षणानाक्षेपेणेयं चिन्ता । एवञ्च तत्सिद्ध्यधिकरणोक्तेनापुनरुक्तिः । तत्र हि परशब्दः परत्र वर्तते स्वार्थगुणद्वारेत्युक्तम् तदाक्षिप्तं यतः । ननु यद्यग्निशब्दः पिङ्गलतामप्याह किमिति सोपपदस्तत्र, किमित्यल्पप्रयोगः, किमिति मनाक् प्रसिद्धिः । तन्न । प्रयोगोऽनिदंप्रथम इति न तत्रानुयोगः निरुपपदोऽपि स दृश्यते, प्रयोगाल्पत्वादेव मनाक्प्रसिद्धिः । उक्तं हि न शब्दात् धीः स्वार्थत्वादृते युक्तेति ।
?R नन्वेवमग्निशब्दस्यैव तेक्ष्ण्यादिष्वपि प्रयागात् भूसां गुणानां स वाचकः स्यात् । तद्वरं स्वार्थसादृश्याद्वर्तताम् । मैवम् । उक्तं हि ‘?Rअसत्यां गतावनन्तशक्तिततापि न दोषः ।’ ?Rसादृश्यमपि न स्वार्थवर्त्त्यग्निशब्दगम्यम् । किन्तु माणवकवर्तीति न शक्तितो मुक्तिः । इवादि द्योत्यं, तदप्रयोगेऽपि युक्तिसिद्धमित्युक्तम् । अविनाभावमात्रात् सादृश्यधीरस्तु न तत् तदन्वयि । न हि लक्षणायाम्यविनाभावबुद्धिमात्रात् समोपान्वयः । किन्तु वसतीत्यस्यान्वयार्थम् । इह तु अविनाभावावबुद्धं सादृयं विनापि पिङ्गलतार्ताग्निशब्दसमानाधिकरणतया माणवकान्वयसिद्धिः । पिङ्गलतार्थाग्निशब्दत् ज्वलने या धीः सा वह्नावुद्भूतं पिङ्गलत्वं दृष्टमित्येवं स्मृतिः ।
?R राद्धान्तस्तु - अग्निशब्दात्तावज्ज्वलने धीः । अतः तत्सदृशार्थान्तरे धीरित्येवं प्रतीत्यन्वितमुख्यान्तर्भावात् गौणोऽपि पदस्य स्वार्थ इति गतौ सत्यां नानेकशक्तिता युक्ता । तत्सदृश इत्येवं परस्थमपि सादृश्यं तत्प्रतियोगितया तदन्विततयोपस्थापितं लक्षणायामिव । सादृश्यं च यथासंभवं गुणादिनेतोहापि पिङ्गलतया तद्धीः, पिङ्गलतापि ज्वलनवर्तितां विनापि स्वरूपमात्रादुभयान्वितेति स्वार्थसम्बन्धिस्वरूपद्वारा स्वार्थ एव तावानिति शब्दवृत्तिरेव गौणेप्यर्थे । तात्पर्येहि वृत्तिः शब्दस्य । तात्पर्यतश्च पदानां स्वार्थे वर्तमानानां कार्यान्वयिता । तात्पर्ये
?Rह्यसति मुख्योऽपि हेय एवेति ‘?Rविषं’ ?Rभुङ्क्ष्वेत्यादौ दर्शितम् । गुणादागतता चैवं गुणाद्धर्मात् तत्सदृशतया आगतत्वात् । गुणादेवाहत्येत्ययुक्तम् । नाना गुणाद्युपाधि गौरवापत्तेः शब्दाद्धीरप्येवमेव ज्वलनसदृशतया धीर्न माणवकसदृशो ज्वलन इति । न चोद्भूतितः उपमानान्वयाद्धीः मानाभावात् । अतो विपरीतधीरत्र पक्षे न कार्या, अनुमतप्रतिपक्षधीविरोधादेव । अतो ज्वलनसदृशोऽयमितिधीरेव ज्वलनान्तर्भावमाह । तत्सादृश्यविगमे प्रयोगविगमोऽपि तदन्तर्भावमाह गुणान्तरादपि प्रयोगः तदन्तर्भावमाह ।
?R नन्वेवं यत्र गौण एव मुख्याभिमानात् आभिमानिक मुख्यान्तर्भावाद्धीः तत्र विपरीतो गौणमुख्यविभागो भवेत् । मैवम् । इयमेव धीः मौलिकविवेककरी । सा तु यत्र प्रयोगमात्रान्न सिद्धा तत्र शक्तिलाघवाद्वा शाब्दस्मृतितो वा वाक्यशेषादेव वा मुख्यतां बुद्ध्वा तद्धीपूर्विकैवार्थान्तराद्धीः । मूलप्रयोगानवगमात् तथाऽभिमान इति रहस्यम् ।
?R श्रोकराद्युक्तस्त्वत्रैवं गौणमुख्यविभागः शक्तिलाघवाद्भेदे कुतो न विपरीतमित्याशङ्क्योक्तं पिङ्गलमाणवकवाचित्वे अग्निशब्दस्य गुणान्तरान्माणवकसदृशे वृषले ज्वलनासदृशेऽपि अग्निशब्दप्रयोगप्रसंगः स्यात् । माणवकेऽपि तीव्रतादिमति प्रयोगे शक्त्यन्तरं स्यात् । ज्वलनसादृश्यात्तु प्रयोगे प्रतिगुणं न शक्तिरिति लाघवाद्विवेकः । तन्न । लक्षणामनाक्षिप्यायं गौणाक्षेपः समाधिसमतया तदाक्षेपोऽपि स्यात् । तत्रापि सम्बन्धिभेदात् प्रयोगभेदे शक्तिभेदः स्यात् इति । तथा समीपवाचित्वेऽन्यसमीपे गङ्गाशब्दप्रयोगप्रसङ्ग इति लक्षणाविवेकोऽप्ययं स्यात् । यथा तु स्वाभिमते प्रकारे न तथात्वं तथा दर्शितमेव । लक्षणातो गौणस्यैवं भेदः गौणे हि परपदप्रयोगादेव गुणापेते पदतात्पर्यम् । लक्षणायान्तु पदार्थतो लब्धे सम्बन्धिनि पदतात्पर्यत् । अयं भावः - स्वार्थात्तत्सदृशे स्मृतिः सादृश्यस्मृतिश्चास्त्येव सादृश्योपेत सदृशधीस्तु
?Rपदप्रयोगबलादेव । लक्षणायान्तु सम्बन्ध स्मृतिः स्वार्थात् सम्बन्धिस्मृतिरपि । तत्र सम्बन्धि मात्रे पदतात्पर्यं न सम्बन्धोपेततामप्यन्तर्भाव्य इति न पदप्रयोगापेक्षा । तात्पर्यादेव पदप्रयोगधीः । अत एव विलम्बेन पदप्रवृत्तेर्लक्षण गौणात् जवन्या । वृत्तित्रयञ्च सिद्धम् ।
?R यत्तु श्रीकराद्युक्तम् । वाक्यार्थान्वयार्थं लक्षणापदमर्थान्तरपरं गौणं तु स्वयमेव गुणोपेतपरमिति तन्न, नह्यन्वयानुपपत्तिं विना मुख्यहानं, अनुपपत्तिरपि नाना विधा । अतो यदुक्तं लक्षणायां योग्यताबलाल्लब्धेऽन्वये पदस्य तदन्वयानुवादात् वृत्तिरिति तत्प्रत्युक्तम् । योग्यताबलाद्धि पदार्थताज्ञानं नान्वय एव । असति हि पदे योग्यतासन्निधापितमनन्वयीति ध्येयम् । एवं स्थिते पूर्वपक्षः मुख्यामुख्यद्वारशेषतापि लिङ्गान्मन्त्राणाम् । ग्राहकार्थस्य ग्राहकीयं शक्यं द्वारमिति न्यायसिद्धम् । विशेषे तु मानान्तरापेक्षेति यावन्मन्त्रावगम्यमेव द्वारम् । एवं पूषानुमन्त्रणमन्त्रादेः अनुत्कर्षः । राद्धान्तस्तु –
?R मुख्ये पूर्वावगम्ये द्वारे लब्धे ग्राहकमन्त्राम्नानयोश्चरितार्थत्वान्त जघन्येऽपि तात्पर्यम् । यत्र तु जघन्यमेव परं तत्र तत्द्वारं अचरितार्थत्वात्तयोः ।
?R नन्वेवं पूषानुमन्त्रणमन्त्रादेः जघन्यद्वारतास्तु प्रकरणे मुख्यद्वाराभावात् । तन्न । मन्त्रलिङ्गस्वरसान्मुख्यद्वारलाभात् तदनुरोधात् प्रकरणबाधोऽस्तु न दोषः । अनुमन्त्रणमन्त्र इति समाख्यया सामान्यसम्बन्धे लिङ्गन्मुख्यद्वारता । प्रकरणे मुख्यलाभेपि मन्त्रप्रकाश्यतार्थं अमन्त्रके जघन्येऽपि कर्तुं मन्त्र इत्ययुक्तम् । न हि मन्त्रेणैव सर्वं प्रकाश्यमिति मानमस्ति । यद्यपि द्वयोश्चरितार्थत्वात् श्रुतिलिङ्गाधिकरणेऽपि राद्धान्तः तथापि न पुनरुक्तिः । इह मन्त्रलिङ्गस्यैव साम्यशङ्का तत्र श्रुति लिङ्गयोः । अतः प्रकरणान्तरता । भाष्यव्यादि च सुगमम् ।
?R?0वचनात्वयथार्थमैन्द्री स्यात् ॥ (3.2.2)
?R?0 ?R?0स्वतो लिङ्गादेव मन्त्रशेषता वचनात्तु श्रुतितोपीत्युच्यते । अतः सङ्गतिद्वयम् । श्रुत्या यत्र शेषता न तत्र लिङ्गादपीति श्रुतिलिङ्गाधिकरणे । अतो न पुनरुक्तिः ।
?R पूर्वपक्षस्तु - मुख्यासम्भवे जघन्येऽपि लङ्गाच्छेषतेत्युक्तम् । पदत्रापोद्यते यद्यत्राशक्तं तत्तत्र न कारकतया विनियोगार्हम् , अग्निरिव सेके । अतोऽनीप्सितार्थात् द्वितीया । गौणार्थतया तदर्हताप्युक्ता । न हि गुणोऽस्तीत्येवं गौणता । किन्तु गौणार्थपरं पदं इति निश्चयात् । न चेह तथास्ति । वचनं हि मन्त्रेणाभिधानं कार्यमित्येव शक्तं न त्विन्द्रपदं गार्हपत्ये प्रयुक्तमिति !?R अत ऐन्द्रया इन्द्राभिधानं गार्हपत्येनेत्यन्वयः । अनीप्सितत्वे हि क्रियान्वयः कारकतयैवेप्सितत्वदौत्सर्गिकः कारकतान्वयः अपोदितः नानीप्सिततयापि । कारकता च दृष्टेनादृष्टेनवाऽस्तु । अथानीप्सितता नेष्टा तर्ह्युपेत्येत्यध्याहारः ।
?R राद्धान्तस्तु - अनीप्सितेऽपि क्रियाफलभागिकारकमित्यभिधेयतैव । अध्याहारे तूपात्तक्रियापेक्षं न कर्मत्वं, अतो यथोपदेशं कार्यमाप्त्यादिकं युक्तमिति गार्हपत्याभिधानं कार्यं मन्त्रस्येति । अत एवेन्द्रपदस्य गौणत्वनिश्चयः, अन्यथा तदसिद्धेः । इत्थमपि वेदात् पदार्थधीः । इन्दतेर्वा रूपं । तदाऽत्र गौणशब्दो गुणयोगाभिप्रायः । तदाह –
?R स्यादग्ने र्गोणमिन्द्रत्वं यज्ञसम्बन्धकारितम् ।
?R इन्दत्यर्थानुसाराद्वा स्वक्रार्ये सोऽपि हीश्वरः ॥
?R ऐन्द्रीति तद्धितः इन्द्रपतदयोगादपि घटत इति ।
?R विवरणे तु पूर्वः पक्षः - उपतिष्ठत इत्यभिधानप्रयोजनकं समीपावस्थानमाह । मन्त्रकरणेऽर्थे आत्मनेपदस्मृतिः । धातूपात्त व्यापारापेक्षया ऐन्द्रयाः करणतयाऽन्वयः । द्वयमेवं घटते । प्रयोजनांशद्वारापि धात्वर्थं प्रति
?Rकरणत्वात् । साक्षात् धात्वर्थकरणतानुज्ञाने सत्यां गतौ धातोः, प्रायिकोपस्थानार्थताहानात् अभिधानार्थता कल्प्या । अनेकार्थता धातोरिवाख्यातस्यापि । मन्त्रकरणेऽर्थे वर्तमानाद्धातोः इत्यपि शाब्दानां व्याख्यानुज्ञानैव । आख्यातागमे चायमर्थ इत्याख्यातार्थ एव प्रयोजनांशः । सच मन्त्रलिङ्गादेव प्राप्तः इत्यप्राप्तांशगार्हपत्यसमीपस्थान विधिः । तत्समीपस्थानं कर्तृगुणाऽभिक्रमणवदङ्गम् । गार्हपत्य शब्दो देश विशेषलक्षणार्थो विशेषणतया समीपस्य । उपशब्दः समीपार्थः । तदर्थस्यापि कर्मप्रवचनीयसंज्ञामुपसङ्ख्यायाप्यगत्या तद्योगे द्वितीयेयम् । उपस्थानवाचित्वे चाकर्मकत्वान्न कारकविभक्तिरियम् । सर्वमिदं विनियोज्यलिङ्गस्वरसानुरोधाद्वर्णितम् । तथा उपान्मन्त्रकरणे इत्यनेनैवात्मनेपदम् एतदेकविषयत्वात् तस्य अकर्मकाच्वेति विषयान्तरलाभान्न तेनेति तन्नोक्तम् । राद्धान्तस्तु - उपपदविभक्तिरयुक्ता, कारकविभक्तिरुपपदनिरपेक्षैव भाति । उपपूर्वात्तिष्ठतेः मन्त्रकरणेऽर्थे वर्तमानात् इति च शास्त्र स्मृतिः न त्वभिधानप्रयोजनकेऽर्थे इति स्मृतिः । न च समीपार्थोपशब्दस्य कर्मप्रवचनीयसंज्ञोपसंख्यानम् । एतत्सर्वानुरोधात् ऐन्द्रयागार्हपत्यमभिदध्यात् इति वचनार्थः । गौणता वा यौगिकता वा इन्द्रपदस्य । योगोऽप्यत्रैव कल्प्यते इत्यनास्था । रूढ्यनुसारद्वारा गौणं न यौगिकमिति तु न वाच्यम् । इन्द्रेऽपि रूढ्यसिद्धेः । पृष्ठैरुपतिष्ठते इत्यत्र यदभिधानप्रयोजनकसमीपस्थानवचनत्वमुज्ञायैव राद्धान्तितम् । तथापि तत्राविरोधान्नतु तथैव तत्त्वम् ।
?R श्रीकरस्तु - उपस्थानेऽपि कर्मतामादाय गार्हपत्यलक्षितदेशस्य पूर्वपक्षनिर्वाहमाह । उपस्थीयमान देशस्योपस्तातृनरप्राप्यत्वात् । तन्न । शाब्दैरकर्मकताऽनुज्ञानात् । अधिकरणमेव देशः न विवक्षया कर्म शक्यम् । इह च गार्हपत्यमिति श्रुत्या शेषता । मन्त्रस्याभिधानक्रियायां शब्द [?Rशेषत्व]
?Rस्याज्ञाप्यत्वात् व्युत्पत्तित एव तत्सिद्धेः । अभिधेयविशेषे व्युत्पत्त्यनुज्ञानात् वाक्यतात्पर्यात् मन्त्रोऽभिधेयान्तरेपि [?Rन] ?Rवार्यते । अरुणादिकं तु क्रियाविशेषान्वयित्वेनैवाज्ञातं बोध्यत इति तच्छेष एव ।
?R?0तथाहवानमपीति चेत् ।
?R ?Rगुणाद्योगाद्वा हविष्कृच्छब्दोऽवघातेऽस्त्वित्येवं पूर्वपक्षोत्थानादवान्तरसङ्गतिः ।
?R पूर्वपक्षस्तु - वचनादवघातं कुर्वन् आह्वयतीत्येवमन्वयात् अवघातशेषता मन्त्रस्य । पत्न्याह्वाने लिङ्गाच्छेषत्वे तु अवघ्नन्निति धात्वर्थेन कालो लक्षणीयः स्यात् मुख्यार्थानन्वययात् । अथ पत्न्यर्थत्वेऽपि अवघ्नन्नेव मन्त्रं प्रयुङ्क्ते अतो मुख्यार्थतैव । तन्न यद्यवघ्नन् मन्त्रं कुर्यादित्येवमाकारेणान्वयः (स्वयं) तदा बलादवघातार्थता । तस्मिन् हि रूपे तदुपायस्यैवान्वयः । अन्यथा उपलक्षणतैव । लक्षणापीयसस्वरसा । अवघ्नन्निति प्रवृत्तहन्तिकालः प्रत्यासन्नः मानान्तरलब्धस्तु प्रवृत्तिपूर्वकालः कार्यकाले सहायान्वेषणेति प्राप्तिदर्शनात् । स च कालोऽवघ्नन्नित्यनेन विप्रकृष्टः स्वरसाल्लक्ष्यत इति वरमाह्वयतीत्यचेतनेप्यदृष्टार्थम् । एहीति मन्त्रपदप्रयोगप्राप्त्यर्थम् । तदुक्तम् - योहि एहीति ब्रूते स आह्वयतीत्याह्वातृव्यापारस्य तावन्मात्रत्वात् । अचेतनं प्रति दृष्टतत्फलाभावेपि आह्वयतीत्यनुवादः त्रिरिति पक्षप्राप्तानुवादः । शाखान्तरे हविष्कृदेहीति त्रिः [?Rद्विः] ?Rपठितं पक्षे यतः । हविष्कृत्पदं गुणार्थं हन्तौ गुणात् पत्नीपद्यज्ञोपयोगात् योगाद्वा हविः करोतीत्येवम् ।
?R राद्धान्तस्तु नित्यश्रुतं त्रिरिति पक्षेऽन्वितमयुक्तम् । अतः त्रिरिति विधिर्न मन्त्रस्य । तद्वरमवघ्नन्निति लक्षणा अन्वये हि नित्यता लक्षणातो बलीयसीतीदमेवात्र व्युत्पाद्यम् ।
?R अथ लक्षणहेत्वोरित्यनुशासनात् लक्षणार्थतैव शतुः । तन्न । न हि लक्षणावृत्तिस्सूत्राभिमता । किन्त्वभिधेय एव धात्वर्थो यत्र कर्तृनिष्ठः तत्र शतुः
?Rअनुशासनम् । न तु काललक्षकत्वे तत् । भाष्ये पत्न्येव हविष्कृदिति लिङ्गमुक्तम् । वाक्तुल्यत्व स्तुतिः । स्त्री लिङ्गतया तुल्यत्वं पत्न्या एवैकान्तिकम् । अवघातस्तु क्रियात्वेन स्त्रीलिङ्गो नावघातत्वेन । तथा प्रायौगिकं क्रियायां लिङ्ग अर्थत एव पत्न्याम् । नन्वेवं वाक्तुल्यता क्रियाया एव प्रायौगिकत्व सामान्यात् । तन्न, स्तुतिरेवं हि वाचि यत्प्रायौगिकं तत्पत्न्यांतत्वमिति सूत्रम् ।
?R?0। ततोत्थानविसर्जने ।?R?0
?R पूर्वन्यायातिदेशादनन्तरसङ्गतिः । पूर्वपक्षाधिक्यादतिदेशः । युक्तं त्रिरिति विधेरन्यत्सर्वमनुवादान्नीतम् । इह तु विधेयान्तराभावात् काल एव लक्षणया विधेयो वाच्यः । विधौ च न परश्शब्दार्थः । तद्वरमुत्थानविसर्गार्थतयैव मन्त्रयोर्विधिरस्तु । ऐन्द्रीवच्च गुणाद्योगाद्वा उत्थानसर्गार्थता यज्ञोपयोगगुणात् । योगोऽप्यग्निं समिन्धे इत्यग्नीत् इत्यत्थानेऽस्ति व्रतं वर्तनं वागाचरणं वा विसर्ग इति व्यक्तम् ।
?R राद्धान्तस्तु - मन्त्रगतप्रैषानन्वयोऽत्रापि यथा पूर्वत्र पूर्वपक्षे । अतः तथेत्युक्तम् । विधिवाक्ये हि लक्षणामात्रं विनियोज्यवाक्ये सर्वथैव प्रैषार्थानन्वय इति लक्षणया कालविधिरेवायम् । न हि तत्पदोच्चारणमात्रं प्रैषः, किन्तु तत्पदोच्चारणेव परप्रेरणा । नचाचेतने प्रेरणान्वयः । यत्तु पूर्वोक्तं-यो ह्येहीति ब्रूते स आह्वयति दृष्टफलाभावेपीति तदुपेत्यापि त्रिरिति विधिबलादपि
राद्धान्तसिद्धेर्निरस्तम् । इह तु प्रैषानन्वयादेव राद्धान्तो वाच्यः । अगत्या विधावपि लक्षणाऽऽश्रिता । अत्रावघ्नन्नितिवत् उत्तिष्ठन्निति लक्षणा मुख्यार्थानन्वयात् । वाचं विसृजतीत्यत्र व्यक्तैवामुख्यत्वे लक्षणा । ऐन्द्री विधि वाक्ये तु गार्हपत्यपदे देशलक्षणापरेऽपि न विनियोज्यस्यानुरोधः । देशाभिधानेप्यमुत्रयत्वादिन्द्रपदस्य ।
?R?0। सूक्तवाके च कालविधिः परार्थत्वात् ।
?R?0 ?R?0काललक्षणयोत्थानादवान्तरसङ्गतिः ।
?R अत्र पूर्वोत्तरपक्षरचना ऋजुविमलायां - सूक्तवाकस्य हरणे करणत्वानुपपत्तेः हरणेन होमात्मको यागो लक्षणीयः । न चेदं युक्तम् । आख्यातार्थेहि प्रधाने लक्षणापत्तेः । तद्वरं सूक्तवाकेन कालो लक्ष्यतामिति ।
?R अत्र राद्धान्तः - न हरणेन होमो लक्षणीयः किन्तु मन्त्रसम्बन्धविधेरेव होमः कल्प्यः । एवं सर्वपदानि श्रुतार्थानि । होमे चोपाधिभूतप्रक्षेपरूपहरणमर्थप्राप्तम् । एवञ्च मन्त्रे ‘?Rइदं हविः’ ‘?Rअयमाशास्त’ ?Rइत्येतत्समञ्जसस् । विधेयहोमगतहविषः आशीर्वादस्य च सन्निधेः अन्यथा वृत्तकर्मगत निर्देशः । स च वर्तमानतया न स्यादिति । अयं भावः । सूक्तवाकस्य प्रकरणाम्नातस्याभिधान शक्त्यनुरोधिशेषत्वं युक्तम् । वचनादप्यभिधानद्वारा ऐन्द्र्यामिव मन्त्रकार्यं जघन्यमस्तु, न त्वदृष्टम् । अतो विधि वाक्यवर्तिसूक्तवाकपदं काललक्षकम् , न तु विनियोज्याभिधाया एव हानिः, कथमपि हरणबोधनाशक्तेर्हानिरेवोपेया स्यात् । अत्र चेदविनियोज्यः तदा प्रधानदेवताद्यभिधाने लिङ्ग विनियोज्यस्य प्रयोगकालोऽस्तीति तल्लक्षणया शक्या । एवञ्च कृतस्रुग्धारणस्य प्रस्तरस्य हरणमात्रादेव साक्षादपेक्षितप्रतिपत्तिसिद्धि। अन्यथात्वसाक्षात्प्रतिपत्तिरूपहोमविधिः प्रधानपदे लक्षणा च स्यात् । न च हरणमात्रं होमांशः येन सम्बन्धाल्लक्षणा । कालस्यापि साधकतमतां वक्तुं तृतीयानिर्देशः । सप्तम्यर्हस्यापि इत्थंभूत तृतीया वा । राद्धान्ते अयं भावः - अस्ति सप्रकारः येन श्रौतार्थान्येव सर्वाणि च विधिवाक्यपदानि मन्त्रपदानि च भवन्तीति सूक्तवाकप्रहरणयोः क्रियाकारकसम्बन्ध विधिरस्तु । स चैवं - तथा यतेत यथाऽनयोरसंबन्धविधिसिद्धिरिति । सूक्तवाकेन होमात्मके यागे देवताप्रकाशन द्वारा क्रियमाणे संबन्धसिद्धिः । होमात्मके ह्युपाधिभूतः प्रक्षेपोऽप्यन्तर्भूतः । मन्त्रेण स्मृतां देवतामुद्दिश्य होमात्मकः शक्यः कर्तुमित्येवं पारंपर्येण हरणे करणं मन्त्रः । अतो
?Rयथा द्रव्यदेवतासम्बन्धविधौ अर्थाद्यागो लक्ष्यः । तथेहापि मन्त्रहरणसम्बन्धविधौ । एवञ्च हरतिर्यजतिरिति यदुच्यते तत्फलतः, न लक्षणया । होमात्मके यागे हविषोऽपि प्रस्तरस्य प्रतिपाद्यतयेप्सितत्वात् द्वितीयापि । याज्यात्वेन स्तुतिश्चैवं गौणी घटते । यद्यप्ययाज्या निगदा इति निषेधान्न सूक्तवाकेन देवोद्देशः तथापि तत्स्मारिता इज्यायामुद्देश्या इत्येवं देवता बोधनगुणाद्याज्यास्तुतिः । ननु यदि होमात्मकस्यांशान्तरे व्यापारादपि तदुपाध्यंशे हरणेऽपि करणता तर्हि हरणफलभागितया सक्तूनां होमात्मकेऽनीप्सितानां कथं व्यत्ययस्वीकारः तन्न । करणताहि स्वव्यापारापेक्षया परम्परयापि । क्रियाफलता तु क्रियात एव निष्पत्तेर्न परम्परयेति लोकसिद्धम् । अत्र श्रीकरो मन्त्रहरणसंबन्धोपपादकपरमिदं वाक्यं न श्रुतान्वयपरं विषभक्षणवाक्यवदित्याह । तन्न । उपपादकं हि श्रुतान्वयार्थं कल्प्यते न तु कल्प्यार्थं श्रुतं संबन्धविधेरेवहि हरत्यर्थोऽर्थप्राप्तः । यदि च वाक्यमश्रुतपरं वरमेकपदस्य लक्षणेति न राद्धान्तसिद्धिः । फलचमसस्य तु यागान्वयोऽपि वचोभङ्ग्या श्रुतः । तद्विधावेव भक्षान्वयलाभात् न भक्षान्वयपरमिदं वाक्यम् । अत्र न तथा । विवरणराद्धान्ते हरतिर्यजतिलक्षणार्थ एवायं वस्तुबलात् । वस्तुतश्चेद्धोमात्मकयागविधिः हरतीति तत्परमेवास्तु । सूक्तवाकेनेति प्रथमावगत तृतीयास्वरसात् । करणत्वेन काललक्षकत्वे चादृष्टार्थः कालविधिः । प्रधानपदार्थश्च लक्षणायामपि न त्यज्यते । अस्ति च प्रक्षेपसंबन्धो यजेरित्यालोच्य हरतिर्यजतिलक्षणार्थ उक्तः । मन्त्रात् प्रधानदेवतास्मृतिः हरणाच्च प्रस्तरप्रतिपत्तिरनुगुणैव मजिः स्विष्टकृद्वददृष्टार्थिकेति ।
?R?0कृत्स्नोपदेशात्
?R वाक्यात् सूक्तवाकः शेष इत्युक्ते तद्विशेषचिन्तेत्यवान्तरसङ्गतिः । पूर्वपक्षस्तु यावतिग्रन्थे पठ्यमानेऽध्येत्रध्यापकश्रोतृणां सूक्तवाक इत्येकवचनप्रयोगः तावानेकः
?Rएकश्च वाक्याच्छेष इति कृत्स्न एव पौर्णमास्याममावास्याञ्च प्रयोज्यः । यद्यपि प्रश्लिष्टपठितेऽस्मिन्नर्थैकत्वादेकवाक्यतोक्ता । न चात्र प्रधानदेवतावाचिपदानामर्थ एक अभिमतः । अतोऽत्रैकवचनादेकवाक्यविनियोगः यथा आग्नेय्येत्युक्ते पशुनेति च कृत्स्नस्य उभयत्रविनियोगे मुख्ये कृतार्थोऽपि गौणेपि विनियोज्य इति गौणमुख्यनयहानं, तथापि यावतो विनियोगः तावानेकार्थः स च वाक्यतः कृत्स्नस्येत्यचरितार्थे गौणतापि । यथा उतमप्रयाजे नानादेवतावाचिपदानामपि एकार्थता एकयागे विनियोगात् ।
?R राद्धान्तस्तु - सूक्तमनेनोच्यत इति सूक्तवाकः । न च कृत्स्नेन सूक्तमुच्यते । स्वत एव प्रातिस्विकार्थभेदेऽपि एकवचनमेकरूप कारकतापेक्षम् । पदं वाक्यमिति च लोके, वेदेत्वेतदेकवचनम् । यावतो विनियोगादेकार्थत्वं तावति युक्तम् । इह तु वाक्यलिङ्गयोरनुरोधात् यत्प्रधानदेवतावाचिनां यत्रार्थो मुख्यः तावतामेकवाक्यत्वमिति तावत एव विनियोगः ।
?R नन्वेकैकप्रधानदेवतान्वितं पदजातमेकैकं वाक्यं प्रस्तरयागश्च प्रस्तरप्रतिपत्त्यर्थः । एकश्च पौर्णमासीप्रयोगः प्रतिपाद्य इत्येकैकवाक्यप्रयोगो विकल्पेनैव स्यात् । मैवम् । उक्तं हि लिङ्गानुरोधि वाक्यं मन्त्रैकताकरं लिङ्गाच्चेष्टप्रधानदेवतागणनार्थता । पौर्णमासोप्रयोगे च तदीय गणनयाऽनुष्ठानोपयोगः । पातपक्षे प्रायश्चित्तमिति पौर्णमासीगत देवतापदानामेकवाक्यतया एकवचनम् । तेन तावतां प्रस्तरयागे विनियोगः । अमावास्यायामप्येवम् । यथोत्तमप्रयाजे नानादेवतावाचिनामेकवाक्यता । नन्वेवं वाच्यम् । एकैकशोपि विनियोगे प्रतिपत्तियागैक्यादर्थान्मन्त्रसमाजो भवन्नपि न शास्त्रगम्यामेकैकस्य करणतां निरुणद्धि । तधिपयसोरिव तन्त्राहुतावपि न निरपेक्षसाधनताहानिरिति । यतः तन्त्राहुतौ एकेन्द्रोद्देशेऽपि निरपेक्ष एवेन्द्रान्वयः । यागद्वयं तु सहोत्पन्नं । अत्रैक एव प्रस्तरयागः तत्करणं चेत् बहु कथमेकैककरणता ।
?R श्रीकरस्तु - विकल्पमेवानुमेने । सचोक्तगतिसंभवे नोपेयः । भाष्ये तु समुदायद्वये कृत्स्नविनियोगाद्विभज्यान्वय इति राद्धान्ताभास एवोक्तः । यदुक्तञ्च परैः -
?R बिन्दौ च समुदाये च तोयशब्दो यथेष्यते ।
?R संसर्गिद्रव्यरूपत्वात्सूक्तवाकपदं तथा ॥ (तं. वा. 3.2.6)
?R तन्न, उक्तं हि विनियोगाधीनाऽत्रसंसर्गितेति ।
?Rलिङ्गक्रमः
?R अत्रायं विषयः ब्राह्मणग्रन्थे ऐन्द्राग्नं कर्मद्वयं पठित्वा वैश्वानरकर्मद्वयं पठितम् । एवं परापरद्वयं मन्त्रग्रन्थेनारभ्यैन्द्राग्नं ऋग्युगद्वयं पठितम् । (तन्त्र) तत्राद्यर्ग्युगस्य पूर्वा इन्द्राग्नी रोचना दिवं इत्यादिका । अपरा ‘?Rप्रचर्षणिभ्य’ ?Rइत्यादिका । द्वितीयर्ग्युगस्य पूर्वा इन्दाग्नी नवतिं इत्यादिका । अपरा ‘?Rश्नथद्वृत्रं’ ?Rइत्यादिका । ततो वैश्वानरस्य ऋग्युगद्वयं पठितम् । ततोऽपरापराणाम् । तत्र काम्ययाज्यानुवाक्याकाण्डमिति समाख्या । लिङ्गचिन्हं कर्मश्चास्ति । यच्चिन्हं कर्मयुगं पूर्वं कर्मपाठे तच्चिन्हं मन्त्रयुगद्वयं पूर्वं मन्त्रपाठे । तथा च परमपि यच्चिन्हं कर्मयुगं मन्त्रयुगद्वयमपि तच्चिन्हं अपरमपि । सोयं लिङ्गक्रमः । एवं स्थिते यावदैन्द्राग्नलिङ्गात् एन्द्राग्नमन्त्रयुगद्वय विनियोगः न तु तद्विशेषलिङ्गक्रमात् समाख्यानाद्वा । पूर्वाधिकरणेऽपि प्रकरणतः प्रत्येकं कृत्स्नशेषताबाधात् लिङ्गाद्विभागे उक्ते ततो दुर्बलमिदं द्वयं नितरां लिङ्गबाध्यमित्युत्थानादवान्तरसङ्गतिः ।
?R नेयं बलाबलचिन्ता । किन्तु प्रस्तुता लिङ्गविनियोजकता । इह तु सापेक्षस्येति व्युत्पाद्यम् ।
?R पूर्वपक्षस्तु बलाबलसूत्रे श्रुत्यादीनां तुल्यवदनुक्रमात् लिङ्गमपि निरपेक्षमिति भाति । युक्तञ्चेदम् । यदभिधानशक्तो मन्त्रः तन्मुखेन तत्संबन्ध्यपूर्वार्थःसन् तदीयद्वारार्थ इति अनारभ्याधीत पर्णतादेरियमेव विधा ।
?R राद्धान्तस्तु - न हि शक्तिमात्रात् शक्यार्थताधीः । न हि शक्तितस्तात्पर्यधीरिति धीसन्निहितवस्त्वन्तरद्वारा न ग्राहकार्थता । पर्णतादि त्वन्वयपरं योग्यान्वयार्थं ग्राहकार्थं युक्तम् । तदेव जघन्यमपि स्यानं समाख्यां वा अपेक्ष्य लिङ्गं विनियुङ्क्ते । ननु अन्यतरोपन्यासादेव प्रकृतोदाहरणेऽभिमतसिद्धेः किमित्युभयोः क्रमसमाख्ययोरुपन्यासः । इदं ह्यभिमतम् ;?R प्रथमे काम्यैन्द्राग्नेप्रथममन्त्रयुगम् , द्वितीये द्वितीयमिति तत्काम्ययाज्यानुवाक्याकाण्डमिति समाख्ययैव काम्यकर्मान्वये याज्यानुवाक्यात्वे च लिङ्गादैन्द्राग्नान्वये सिद्धम् । यथैककत्र युगद्वयं विकल्पेन, युगद्वयव्यवस्थायामपि अयथाक्रमं स्यादिति चेत् , तन्न । एकैकयुगेनैवैकैकस्य कृतार्थत्वव्यवस्थासंभवे च विकल्पायोगात् । व्यवस्थार्थं नियामकापेक्षायां प्रथमपठितकर्ममन्त्रयोः प्रथमधीस्थयोरन्वयधीः । एवं द्वितीययोरपि । नन्वेवं क्रम एव नामान्तरेण । तन्न, प्राथम्यादनुपजातविरोधत्वादित्यन्यो नयः । परिशेषाच्च द्वितीये द्वितीयमिति क्रमस्तु स्थानसाम्यम् । समानस्थानता साधर्म्याद्धि सन्निधिः इह तु न साधर्म्यात् सन्निधिरिति भिदा ।
?R प्रकारान्तरं तु श्रीकराद्युक्तं - प्रथमपाठात् प्रथमप्रयोगः तदनुरोधात् कपिञ्जलनयवत् विनियोगव्यवस्थेति क्रमाद्भेद इति हेयमेव । अनुष्ठानक्रमाद् विनियोगनियमोऽनागमः । साध्यश्च । न चात्र प्रयोगभेदेन पाठक्रमः । तदेवं समाख्यामात्रादपि तत्सिद्धिरुक्ता । कर्ममात्रादपि तत्सिद्धिः । क्रमेण कर्मविशेषान्वये लिङ्गेन याज्याकार्यान्वयात् । न च सामिधेनीकार्यान्वयः । आग्नेयी हि सामिधेनी नैन्द्राग्नयुगं तथा । सत्यं उदाहरणान्तरार्थमुभयमुक्तम् । अस्मिन्नेव ब्राह्मणग्रन्थे आग्नेयकर्मयुगं पठितं, एकत्राग्नेः पथिकृद्विशेषणम् , अन्यत्र व्रतपतिः तेनोक्तं एकं पाथिकृतीयं अपरं व्रातपतीयमिति । तद्युगक्रमेचाग्नेयमन्त्रयुगद्वयम् । तस्य याज्यात्वेऽपि लिङ्गं सामिधेनीत्वेपि । तत्र यदि लिङ्गक्रमादित्येतावदुच्येत सामिधेनीकार्यमपि तद्युगं कुर्यात् । समाख्यानादित्युक्ते याज्याकार्य एव तद्युगम् ।
?Rसमाख्यामात्राच्चोदाहरणान्तरे निर्वृत्तेः याज्याकार्ये सामिधेनीकार्ये निवेशो न स्यात् । तस्मिन्नेव हि ब्राह्मणग्रन्थे आग्निवारुणीष्टिः । ततः सोमारौद्रीष्टिः । तत्राग्नीवरुणमन्त्रयुगेन पठितेन याज्याकार्यं यथास्थितं सिद्धम् । आग्नीवारुणी क्रम एवाग्निलिङ्गा मनोः ऋचः पठिताः ततः सोमारौद्रमन्त्रयुगपाठः स मोसारौद्रकर्मक्रमः तेनोच्यते । याज्ययाग्निवारुणीक्रम इति । तेन तु सर्वथाऽनागते सोमारौद्रकर्मक्रमे एवं स्थिते क्रमस्य समाख्यातो बलवत्त्वात् मनोऋचां सामिधेनीकार्ये निवेशः । याज्यानूवाक्याकाण्डसमाख्या कथञ्चिन्नेया । सामिधेनीनिवेशे च मनोऋचां तदन्तर्बूतपृथुपाजाद्युचोर्वेदे धाय्या निर्देशो घटते । सामिधेनीत्वे हि तद्विषयधाय्यानुशासनं, नान्यथा ।
?R?0अधिकारे च मन्त्रविधिरतदाख्येषु शिष्टत्वात्
?R?0 ?R?0लिङ्गं सापेक्षं न श्रुतिः श्रुतेरप्राकरणिक्यपि आग्नेयी विनियुज्यतामित्यवान्तरसङ्गतिः । पूर्वपक्षस्तु - आग्नेयी शब्दोऽयं देवतातद्धितादग्नि (सूक्ति) शक्तिमतीमृचमाह । तच्छक्तिचिन्हाभेदात् प्रकृताप्रकृतान्यतमाया विनियोगः । उद्देश्यपदमेव हि प्रकृतापेक्षम् । उपात्तमुद्देश्यं कार्ययोगि (परं) इतरच्छोपात्तकार्ययोगित्वेऽपि सामान्यं अपरिमितं इति नोपादानार्हम् । किन्तु कार्यवद्व्यक्तिलक्षणार्थं तद्वाच्यपि पदम् । विधेयन्त्विदं सपरिमाणं सङ्ख्यादिसहितं शब्दगम्यमेव शब्दश्चाग्नेयीत्वेन वक्तीति तथैव विधिः ।
?R यत्तु सामान्योपाधिप्रवृत्तं सन्निहिते विशेषे तत्रैव वर्तत इति तदिहैव व्युत्पाद्यम् । यद्विधेयेऽपि तथाशब्दप्रवृत्तिः । न चाप्रकृतहानं विनियुक्तविरोधाद्वाच्यम् । धीविरोधोऽयं न वस्तुविरोधः । स च विनियुक्तत्वरूपहानेपि स्वरूपेण प्रकृत विनियोगे नास्त्येव । ननु श्रुतितोऽपि किमग्रतो विनियोजकमस्ति, यतो विनियुक्तरूपाशङ्काऽस्ति । यदाग्नेयीव्यक्तिं पठित्वा कृत्स्नां प्रतीकेन वा वाचनं प्रवृत्तं
?Rतदा आग्नेयीत्वोपाधिसामान्यादवयवार्थापेक्षाच्छ्रौतादग्रत एव तच्चात्रास्तीत्युक्तम् स्तौतिशंसतिविषये वार्तिककृता । न त्वाग्नेयीत्वार्थं लिङ्गतः शेषतापेक्षा श्रुतेरिति समाधिः । ऐन्द्र्यामपि तुल्यत्वात् तच्छब्दस्य तासु वेदव्यवहारसिद्धस्य विनियोगेऽस्मिन्नुपयोगः । न तत्प्रवृत्तिनिमित्तस्यास्मिन्नवसरेऽपेक्षा । परिमिता एव वेदे व्यक्तयः आग्नेयीपदवाच्याः । यत्र ह्यदृष्टेऽपि व्यक्तिविशेषे प्रयोगः योगादिनाऽनुसरणीयः तत्र योगतो व्यक्तिभेदधीः । किञ्च योगपूर्वकेऽप्यर्थबोधे न लिङ्गविनियोगापेक्षा, शक्तियोगमात्रादर्थधीरस्तु । भावि वा लौङ्गिकमस्तु । योगमात्रं निमित्तं न कालभेदोपहितम् । राद्धान्तस्तु - विधेयेऽपि प्रकृतधीः । उक्तं हि सामान्योपाधेर्व्यक्तिपरः प्रकृत व्यक्तिपर एव लोके व्पुत्पन्नः । नीलोत्पलं गामानयेत्यादि । उत्पलपदं गुणयोगार्हत्वार्थं व्यक्तिपरं गोपदं क्रियान्वयार्हत्वार्थं व्यक्तिपरम् । न्यायगर्भ चेदं व्यक्तेः सन्निधिसंभवे तदवरुद्धैव धीः । असंभवेतु व्यवहितधीः । अपौरुषेयं सन्निधानं वैदिके । अतः स्वर्गकामे तदसंभवात् यावद्वयक्ति धीः । अनुपादेयतया च नाशक्यता ।
?R विवरणे तु लब्झसामान्यान्वयस्य विशेषान्वयपरा श्रुतिः तेन लाघवात् प्रकृतस्वीकारः । न चैवं सामान्यान्वयापेक्षा श्रुतिः असत्यपि सामान्यान्वये सा यतः लाघवं च लाभः । शेषं सुगमम् ।
?R?0लिङ्गसमाख्याभ्याम्
?R प्रकृततयैव समाख्ययापि लिङ्गविनियोगोत्थानादवान्तरसङ्गतिः । पूर्वपक्षस्तु - भक्षानुवाकसमाख्या हि कृत्स्नानुवाकस्य । तदपेक्षं लिङ्गं कृत्स्नमेव भक्षे विनियुङ्क्ते । भक्षविशेषणार्थंतया ग्रहणावेक्षणादि पदानामपि मुख्यार्थतैव विशिष्टतया च तत्स्मृतिदार्ढ्यं दृष्टम् । अशेषभूतग्रहणादिपरत्वे च मन्त्रस्याशेषद्वारतया शेषताहानिः । राद्धान्तस्तु लिङ्गस्वरसात्तावत् स्वार्थपरतैव ग्रहणादिपदानाम् । न परविशेषणता ।
?Rअर्थाक्षिप्तमपि ग्रहणादि नियोगीयमनुष्ठानकाले स्मरणीयमिति तत्स्मारकमपि शेष एव । विशिष्टतया स्मृतौ सूक्ष्मं दृष्टम् । स्वार्थस्मृत्यपेक्षया तददृष्टम् । समाख्यापेक्षा चैवम् यत्समाख्याऽवयवार्था भक्षान्वयमुखेन मन्त्रपदयोग्योपदिष्टभक्षवत्क्रत्वपूर्वार्थत्वं ततो लिङ्गाच्छेषता । लिङ्गस्य तु वस्तुतो बलवत्तया समाख्याक्रत्वन्वयपरा भक्षाभक्षेषु दण्डिवल्लक्षणया नेया । लौकिकी हि सा वेदिकानुरोधात् वैदिकीकार्या । आग्नेयीपदं तु प्रकृतपरमेव ।
?R?0गुणाभिधानान्मन्द्रादिरेकमन्त्रःस्यात्तयोरेकार्थसंयोगात् ।
?R पूर्वनयापवादोऽत्रेत्यवान्तरसङ्गतिः । पूर्वपक्षस्तु लिङ्गबलात् तृप्ति प्रकाशनेऽपि मन्त्रस्य शेषताऽर्थप्राप्ता । तृप्त्यर्थत्वे सति न भक्षणविशेषणार्थता ।
?R राद्धान्तस्तु - अर्थप्राप्तेप्यनुष्ठेये स्मृत्यर्हे लिङ्गाच्छेषता । तृप्तिस्तु फलभूता नानुष्ठेया । न च लिङ्गस्वरसमात्रात् अदृष्टार्थतयापि समाख्यास्वरसाधीन भक्षविशेषणतया एकवाक्यता हानार्हा । अदृष्टकल्पनातो हि वरं परविशेषणताकल्पना लघ्वीति समाख्यैवात्र प्रभवति ।
?R?0लिंगविशेषः
?R लिङ्गविशेषनिर्देशात्सर्वेषाञ्चैकमन्त्र्यमिति एतत्सूत्रद्वयेन पूर्वोत्तरपक्षतो मूलचिन्ता । भक्षमन्त्रोऽयं किमैन्द्र सोमशेषभक्षण एव, उत सर्वत्र । दृष्टार्थे हि लिङ्गानुरोधिनी समाख्येति (हि) पूर्वव्यतिरेकतः सिद्दमादाय लिङ्गत एव चिन्तेयमित्यवान्तरसङ्गतिः - यदीन्द्रपीतस्येति तृतीया समासः तदा ऐन्द्रभक्ष एव मन्त्रः ;?R अथ बहुर्बीहिः तदा सर्वत्र । पूर्वपक्षस्तु - उत्तरपदार्थप्रधानता अन्यपदार्थप्रधानतापेक्षया युक्ता तस्यामेकस्य तावत् स्वार्थपरतेति इन्द्रेण पीतस्य शेषं भक्षयामिति मन्त्रार्थः । ऐन्द्राणामेवोपदेशेतो मन्त्रः । समानविधानानि च
?Rसर्वप्रधानान्युपदेशादेव निराकांक्षाणि वस्तुतः । किन्तु ऐन्द्रप्रकृतिकानीति शङ्का षोडशिनि नमनविशेषावगतेः । चोदकावगते हि विपरिणमनीये नमने विशेषविधिः, विशिष्टविधौ गौरवापत्तेः । तथा सोमग्रहणमानमन्त्रः ऐन्द्रः तल्लिङ्गानुरोधात् । ग्रहणमाने तस्यैवेति द्रव्यसंस्कारशूनयतया प्रदानान्तराण्यैन्द्रप्रकृतीनीति शङ्कापि युक्ता । अभ्यासापूर्वभेदात् प्रकृतिविकारभावोपपत्तेः ।
?R नन्वग्निष्टोमसंस्थावर्ति प्रदानेषु विकृतिशङ्का न षोडशिन्यूहदर्शनाद्युक्ता । संस्थान्तराणां स्थापितविकृतितयैव तत्रोहः । मैवम् । संस्थान्तराणां विकृतित्वेऽपि न ग्रहयज्यभ्यासानां प्रकृतिविकृति भावः । षोडशिन्यतिदिष्टैन्द्रग्रहस्थानापातात् नैन्द्राणां तन्मन्त्रोहः । किन्त्वैन्द्र धर्मातिदेशादनैन्द्राणाम् ।
?R श्रीकरस्तु संस्थाधिकरणपूर्वपक्षे स्थित्वा संस्थानां समानविधित्वेनाम्नानदर्शनात् ऐन्द्रस्य प्रकृतितामाह । तन्त्र, पूर्वपक्षावस्थायाः ग्रन्थेनुद्भावनात् । अतः पुर्वोक्त एव प्रकारः ।
?R?0पुनरभ्युन्नीते
?R ?Rतत्रोहभेदचिन्ता पातृदेवतयोपलक्ष्ये शेषे पुनरभ्युन्नीते पूर्वदेवतयोपलक्षणं उत नेति । पूर्वपक्षस्तु सकृद्हुतांश्चमसान् इति प्रैषलिङ्गादैन्द्रं हुत्वा सशेषेष्वेव पात्रेषु मित्रावरुणार्थं गृहीतं, तदर्थमाश्रावितं पात्रस्थमविशेषेणेति । अतः पूर्वदेवताऽपनीतेति न तयोपलक्षणम् ।
?R राद्धान्तस्तु यद्यदर्थं गृहीतं तत्तद्देवतार्थसाश्रवणार्हम् । अतस्तावन्मात्रविषयं तत् , न पूर्वदेवताशेषविषयमित्यनपनीतयोपलक्षणयुक्तमुत्तरदेवताया अपि ।
?R?0पात्नीवते
?R आग्रयणे द्विदैवत्यशेषः तदपादानके पात्नीवतस्य शेषग्रहणे
?Rअनपनीतपूर्वदेवतयोपलक्षणमिति पूर्वपक्षेऽपवादः । आग्रयणस्थरसस्य देवतान्तरार्थत्वं शेषग्रहणाज्जातमित्यपनीता पूर्व देवता । अन्यार्थत्वेऽपि वस्तुधीविरोधयोरभावान्न पूर्वदेवतयोपलक्षणम् ।
?R?0त्वष्टारंतूपलक्षयेत्त्पानात् ।
?R मन्त्रवर्णात् त्वष्टरपि सहत्वेन देवतात्वात् त्वष्ट्रोपलक्षणम् । मन्त्रे सजूर्देवेन त्वष्ट्रा सोमं विवेत्यत्र सजूश्शब्दः सहार्थः । सहत्वेन च निवेशात् पात्नीवततद्धितविरोधः ।
?R राद्धान्तस्तु - चोदनातोऽत्र देवतात्वधीः इति मन्त्रवर्णात् स्तुतिमात्रम् । अतस्त्वष्ट्रा नोपलक्षणम् ।
?R?0शिंशत्त्व परार्थवात्
?R त्रयस्त्रिंशद्देवताह्वातृता अग्नेः मन्त्रवर्णात् । न पातृतेति त्रयस्त्रिंशद्देवतयोपलक्षणं नाग्निनेति पूर्वस्माद्विशेषाशंका । राद्धान्तस्तु आह्वातृ श्रृतिरेवाग्नेरीशितृत्वमाह । न ह्यनीशानो विलम्बयतीति त्वष्टृतुल्यतैव त्रयस्त्रिंशत इति नोपलक्षणं त्रयस्त्रिंशताम् ।
?R?0अनुवषट्कारश्च तद्वत् ।
?R?0 ?R?0अनुवषट्कारदेवता पातृत्वादुपलक्षणार्हेति शङ्का । राद्धान्तस्तु यदुद्दिश्य ग्रहणं तेनैवोपलक्षणं प्रकृतौ नानुवषट्कारदेवता तथेति तया नोपलक्षणम् ।
?R?0छन्दश्च
?R?0 ?R?0नन छन्दसः सोमस्य ‘?Rगायत्रच्छन्दस’ ?Rइत्येवं निर्देशानर्हत्वं देवतावदिति शङ्का निरस्यते । तदेकच्छन्दसः सोमस्य अभावादयोगव्यावृत्त्या रथन्तरसामशब्दवत् गायत्र
?Rछन्दस्य इति निर्देशः । छन्दोयोगस्तु सोमस्य किं प्रकार इत्यनुपयोगान्नोक्तः ।
?R संप्रति मूलचिन्ता राद्धान्तः - इन्द्रेणपीतं अस्मिन् सवन इति सवनसामानाधिकरण्यं तेन सवनगतसर्वशेषोपलक्षणम् । इन्द्रपीतमिति भक्षणीये न समञ्जसम् । पीतमिति दत्तस्य गौणवादः । न च यद्दत्तं तद्भक्ष्यते । न च समुदायैकदेशः भक्षणकाले समुदायाभावात् । अतो जघन्यवृत्तिराश्रिता । कृत्वाचिन्तया यदुक्तं तद्व्यतिरेकतो राद्धान्ते प्रयोजनप्रसिद्धिः । उदाहरणान्तरे राद्धान्त एवायं यत्रतत्र प्रयोजनम् ।
?Rइति नयविवेके तृतीयाध्यायस्य द्वितीयः पादः
?Rनयविवेके तृतीयाध्यायस्य तृतीयः पादः
?R?0श्रुर्जाताधिकारः स्यात् ।
?R?0 ?R?0गत पादद्वये द्वारशेषता श्रुतिलिङ्गाभ्यामुक्ता । इह तु वाक्यात् अधिकारविधावेव शेषताव्युत्पादनादवान्तरोपाधेः पादान्तरता । विधिशेषता च तदङ्गनिवेश निर्वाह्येति जघन्यतया पादद्वयार्थपूर्विका चिन्ता । सन्देहस्तु - किं यदृचामन्त्रेण क्रियते तदुच्चैः । ऋक्प्रायशाखाधीतेन विधायकवाक्यरूपेण वेदेनाधइकारविधिरेव ज्ञेयतया क्रियत इति । अस्मिन् पक्षे वाक्याद्विधिधर्मः, शब्दोच्चारणप्रभेदतया तदङ्गशब्दे निविशते । पूर्वपक्षस्तु - ऋगादिशब्दानां मुख्यवृत्त्या मन्त्रार्थत्वात् मन्त्रधर्मता । वेदोपक्रमता च वाक्यस्याविरुद्धा । ऋगादेरपि वेदत्वात् । वेद्यतेऽनेनेति वेदशब्दः प्रयोगनियमादपौरुषेयग्रन्थविषयः । पङ्कजादिवत् । ऋगादावधिकारविधिवाक्येऽपि मुख्यः । वित्तिकरणता तु विधायकवाक्यस्य अनपेक्षा मन्त्राणां विनियोगापेक्षेति भेदः । ‘?Rवसन्ताय कपिञ्जलान्’ ?Rइति मन्त्रस्या नङ्गत्वान्न तद्धर्मता । विधिधर्मत्वे च तदङ्गशब्दे निवेशे नानाशाखास्थस्य विधेः शब्दरूपाङ्गे धर्मविकल्पः स्यात् ।
?R राद्धान्तस्तु - स्तुतिपदादपि वेदोपक्रमता वाक्यस्यानुरोध्या । प्रथमधीस्थानुपमर्दात् तद्विशेषतया अर्थान्तरान्तर्भावात् तद्वाक्यार्थस्थितिर्युक्ता । न च वेदोपक्रमता मन्त्रस्यापि वेदत्वाद्युक्ता, वेद्यतेऽनेनेत्येवमपि वेदशब्दो निरपेक्षतयाऽधिकारविध्यर्थं वाक्यं प्रथममुपस्तापयति तदनुरोधादृगादिशब्दः ऋगादिप्रायशाखागतविधायकलक्षणापरः । लक्षणैवेह न्याय्या । यतो निरूढा चेयमित्युक्तं ग्रन्थे । एवञ्च साम्नोधर्मविधिः पृथग्युक्तः । अन्यथा ऋच उच्चैष्ट्वात् तदाश्रितत्वाच्च साम्नः उच्चैष्ट्वसिद्धेः पृथक् विधिर्व्यर्थः । न चानृचिगाने प्रजायतेर्हृदये विधेरर्थवत्ता । मन्त्रधर्मत्वे हि ज्योतिष्त्टोमे निवेशः प्रकरणात् । न चात्र प्रजापतेर्हृदयाद्यस्ति । यस्त्वनेकवेदोक्तस्वरविकल्पः स च वचन बलाददोषः । नियमफलता च वेदत्रयानुक्तोदाहरणेऽस्तु न्यायव्युत्पत्तिरियं यतः । वाक्येन च प्रकरणबाधात् सर्वत्राधिकारविध्यर्थता । ननु यथा मन्त्रधर्मत्वे प्रकरणानुग्रहः तथा वेदधर्मत्वेपि युक्तः । तन्न, मन्त्रस्याङ्गत्वात् तद्गतो धर्मः प्रकरणिना गृह्यताम् । वेदधर्मत्वेपि अधिकारविध्युपलक्षिते तदङ्गमन्त्रे निवेशः । न चाधिकारविधिरङ्गमिति यावदधिकारविधिधर्मः ।
?R अयं भावः अङ्गाश्रितस्य धर्मस्य परमकार्यान्वयार्थं ग्राहकग्रहणसन्निधानमात्रमाकाङ्क्षायायुक्तम् । यत्र तु वाक्यादेवाधिकारविध्यन्वितं न तत्र सन्निधानादाकाङ्क्षेति वाक्याद्यावदधिकारविध्यन्वय एव युक्तः । नन्वयमपि विध्यन्वयं वाक्यान्नार्हतीति, तदङ्गमन्ताश्रितः प्रकरणिना ग्राह्योऽस्तु ;?R तन्न, विधिमुद्दिश्यैवायं विधिः । अनुष्ठानं तु योग्याश्रये मन्त्रे । श्रीकरस्तु विधानेद्देशेहि विधेयावस्थाङ्गान्वयः । न च तदवस्थः प्रकरणि नोऽङ्गम् । अङ्गाश्रितं हि प्रकरणिना गृह्यते । मन्त्रधर्मत्वे तु विहितावस्थमन्त्राश्रिततेत्यङ्गाश्रिततामाह । तन्न विधेयावस्थस्य विधिसंस्पर्शदशायां सुतरामङ्गत्वात् , न चाविहितमङ्गं भवतीति विधिसंस्पर्शो विवक्षितः । परोक्तं मन्त्र ब्राह्मणसमूहवाचित्वं वेदशब्दस्यायुक्तम् । वेद्यतेऽनेनेति
?Rव्युत्पत्त्या वाक्यानां समुदायिनां वाच्यत्वेऽपि समुदाये प्रयोगोपपत्तेः व्यर्थं वार्तिकं -
?R मन्त्र ब्राह्मणवाक्यानां समूहे काठकादिके ।
?R वेदत्वं वर्तते नित्यमनेकक्रतुगामिति ॥ इति ॥
?Rसमूहार्थत्वासिद्धेः नेत्थं सर्वक्रत्वर्थता ।
?R यदपरं मन्त्रजातार्थत्वे ब्राह्मणेतरार्थता, तदप्ययुक्तम् । सूत्रे जातशब्देन प्राकरणिकमन्त्रार्थत्वस्योक्तेः । अतो व्यर्थं वार्तिकम् ।
?R समूहास्त्वेकवाक्यानां ये पादपदपर्वणाम् ।
?R ऋग्यजुस्सामजातानि प्रत्येकं तेषु सन्ति नः ॥
?R निगदाधिकरणविरोधस्तत्रैव परिहृतः । शेषं सुगमम् ॥
?R?0गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः
?R?0 ?R?0याजुर्वैदिके प्रधाने सामवैदिकमङ्गमिति कृत्वाचिन्तेयम् । अतः उदाहरणाभावाद्भेदो [?Rखेदो] ?Rन कार्यः । कतरवेदधर्मतेति विशेषचिन्तेयनवान्तरसङ्गता । पूर्वपक्षस्तु - सामवैदिकाङ्गविधिधर्म एवाङ्गे युक्तः । अङ्गविधिवाक्येनैव स्वार्थो ज्ञापितः । प्रयुक्त्यर्थमधिकारविधिवाक्येन निवेश्यते, ग्राहकेण च गृह्यते, विनियुज्यते च । अतः तन्निर्वाह्यत्वात् तद्विधिविधेयतोच्यते । सन्निपातिनि सामगानेपि स्तुत्यपूर्वविधेयता न प्रधान विधिविधेयता । सप्तमाद्यादौ च यदुच्यते प्रथमं नाङ्गविधिरिति तदङ्गविधिरूपानिर्वाहाभिप्रायम् । विधिरूपनिर्वाहोऽपि अनुष्ठानाक्षेपात् । तदाक्षेपश्च अधिकारविधित एव, तदन्वयात् पूर्वमनुवादाशङ्का । एतद्राद्धान्तसिद्धौ सप्तमाद्याद्युक्तगतिरियमेव ।
?R राद्धान्तस्तु - यद्यप्यङ्गविधिवाक्यं स्वार्थज्ञापनार्थ तथापि न तदङ्गताज्ञाने निमित्तता । किन्तु ग्राहकवाक्याधीना प्रयुक्तिरङ्गताचेति [?Rन] ?Rतदङ्गविधिवाक्येन क्रियते । अतः स्वविधेरसिद्धेः नाङ्गवेदधर्मः अङ्गे, याजुर्वैदिकप्रधानधर्म एव । एवं
?Rचाङ्गविधिरनिरूढः समृतिप्रमोषसमत्वात् प्रथमं न धीस्थ इति सप्तमाद्यादौ व्यवहारः । सम्भूयोपकारार्तमपूर्वान्तरमपि विधिरूपे कृतकरमित्यनुवादः । एवञ्च न सप्तमाद्युक्तेन पुनरुक्तिः । अङ्गवेदधर्मत्वासिद्धेः न ‘?Rअङ्ग गुणविरोधे च तादर्थ्यात्’ ?Rइत्यनेन गतार्थता । श्रीकरेण उदाहरणं व्युत्पादितम् - आधानं यजुर्वेदे बह्वङ्गवदाम्नातम् । सामवेदे वारवन्तीयाद्यल्पाङ्गवदाम्नातम् । भूयस्त्वेनोभयश्रुतिनयात् यजुर्वेद आधानविधिः । अङ्गार्था सामवेदे तच्छ्रुतिरिति । तन्न । भाष्ये हि ‘?Rय एवं विद्वानग्निमाधत्ते’ ?Rइत्युदाहृतम् । न च तदाधानविधिपरम् । सम्भारविधिस्तुत्यर्थं हि तदुक्तम् । अतः कृत्वाचिन्ताऽत्र । यत्पुनः प्रतिपदविधानं वेदधर्मतया तत्प्राप्तमेव यदि तदा परिसंख्यार्थं वचनम् । अथ स्वरान्तरार्थं तदा तत्पदवदाहवनीयस्य बाधकं वेदधर्मस्य सामान्यप्राप्तस्येत्युक्तं विवरणे ।
?R?0भूयस्त्वेनोभयश्रुति ।
?R?0 ?R?0स्थिते प्रधानविधिस्वरेऽनेकवेदे प्रधानाम्नाने, क्व तद्विधिरिति चिन्तेयं स्वरनियमार्थेति सङ्गतिद्वयम् ।
?R पूर्वपक्षस्तु - यजुस्सामवेदयोः साधिकारज्योतिष्टोमश्रुतेरुभयत्र तद्विधिः । शाखान्तरनयादेकतेति स्वरविकल्पः ।
?R राद्धान्तस्तु - यजुर्वेदे बह्वङ्गवच्छ्रुतेः तत्रैव तद्विधिः । अङ्ग बहुत्वे हि कृत्स्नप्रयोगे प्रमेयधीः प्रमेयाच्च प्रमाणे प्रयोगविधिरूपे धीः । अयं भावः साधनभूते साङ्गप्रधाने विधेः प्रयुक्तिः । सा प्रयोज्यनिरूप्या । ज्ञानमिव ज्ञेयनिरूप्यम् । अतः साङ्गप्रधाने प्रयोगधीः । अल्पाङ्गहीनेऽप्यङ्गग्रामे प्रयोगधीः । अल्पतरुहीने वन इव तद्वनधीः । विधिप्रयोज्यतापर्यन्तैवाङ्गानां प्रमेयता । प्रमेयता परं च तदाम्नातमिति । अङ्गबहुत्वे तत्प्रमाणभूतप्रयोगविधिः प्रयोगविध्यपेक्षातारतम्यात् तदवगमकशब्दात्तद्धीः । एवञ्च धीहेतु तुल्यतामात्रात् राजचिन्हादिव राजधीरिति दर्शितं भाष्ये ।
?R विवरणे तु - कर्तव्यतारूपो हि विधिरनुष्ठान हेतुस्वभावोऽनुष्ठेयनिरूप्य इति, कर्तव्यतापर्यन्ततया [?Rता च]?Rऽष्ठेयबाहुल्यात् इतिकर्तव्यताधीतो व्यक्ता कर्तव्यताधीः अङ्गाल्पत्वे तु कर्तव्यतोन्नयनं न स्यात् , किञ्चित्साम्यात् बह्ववयवावगम इवावयवी प्रत्यक्षः । अल्पावगमेचानुमेय इव इति दर्शितम् । एवञ्च यथामाष्यं राद्धान्तभङ्गोऽपि परोक्तो निरस्तः ।
?R तदाह - यद्यस्य गमकत्वेन स्वशक्तेरवधारितम् ।
?R तदल्पं बहुवा तस्य प्रतीतौ न विशिष्यते ॥
?R नैव हीहाङ्गभूयस्त्वमितिकर्तव्यता मता ।
?R किं तर्ह्यङ्गं यदेवाहुरितिकर्तव्यतापि सा ॥
?Rउक्तरीत्या प्रत्युक्तेः ।
?R?0असंयुक्तप्रकरणादितिकर्तव्यतार्थित्वात् ॥
?R?0 ?R?0श्रुतिलिङ्गवाक्याधीने शेषत्व उक्ते ततो जघन्य प्रकरणाधीनंऽवान्तरसङ्गतम् । प्रश्नश्चैवम् - यदि श्रुतिलिङ्गवाक्यासंयुक्ते प्रकरणं तर्हि नैतत् एतावन्त्येव प्रमाणानि इति । किंशब्दश्चाक्षेपे, श्रुतेरेव प्रयाजादेरपि शेषता सिद्धेः । अधिकारनियोगेन प्रयाजाद्यान्वय इति चतुर्थे स्थास्यति । अतः ‘?Rसमिधो यजति’ ?Rइत्येवमादिभिः करणोपकारकावस्थैः परमापूर्वमन्वितमभिधीयत इति श्रौतीयं शेषता न प्रकरणात् । एवं च तद्भूताधिकरणोक्तार्थ एवान्वयोऽन्विताभिधायिभिः शब्दैः सर्वत्र बोध्यत इति स्थितम् । प्रकरणात्तु वाक्यार्थानां प्रयाजाद्यङ्गापूर्वाणां परमापूर्वेण वाक्यार्थेनान्वयः स्यात् पदपदार्थविभागादन्विताभिधानव्युत्पत्तिरित्यशाब्दं प्राकरणिकं स्यात् । स्ववाक्योपात्तकरणावरुद्धे परमापूर्वे प्रकरणान्तरेणान्वयानुपपत्तेः, करणोपकारकतयैवान्वयाच्छ्रौतोऽन्वय इति पूर्वः पक्षः ।
?R राद्धान्तस्तु - प्रथमं सामान्येनापूर्वैदमर्थ्यमात्रेणान्वयसंभवात् न
?Rकरणोपकारकतया विशेषान्वय इति विशेषान्वयार्थं मानान्तरं प्रकरणमुपेयम् ।
?R अयमत्र पूर्वोत्तरपक्षनियसिः या सप्तमाद्ये ग्राहकव्युत्पत्तिः सा फलकारवाक्यस्य लिङ्शब्दः सन्निहित निरधिकारान्वितं स्वार्थंमाहेति श्रौतोऽयमन्वयः । अत्रत्यस्तु पूर्वपक्षी ब्रूते - ग्राहकान्वयोऽपि योग्यस्यैव । करणावरुद्धे च योग्यता करणोपकारकतयैवेति तथैवान्वयः ;?R न त्वनिर्धारितविशेषणैदमर्थ्यमात्रेणान्वययोग्यतापि । ऐदमर्थ्यमात्रेणचान्वये प्रकरणादप्यन्वयः करणोपकारकतया न स्यात् वाक्यार्थयोरन्वयाव्युत्पत्तेः । अयं भावः - कर्तव्यस्य हीतिकर्तव्यताकाङ्क्षायाऽन्वयः प्रकरणादिष्यते । कर्तव्यं च करणान्वितं सत् इति कर्तव्यतापेक्षम् । तेन सकरणकर्तव्यतावस्थातो भिन्नेतिकर्तव्यतावस्थामाश्रित्यायमन्वयो वाच्यः । एवञ्चान्तरा विरम्य व्यापारादवान्तरवाक्यार्थावस्थयोर्भिन्नस्वस्वविधिविधेययोः परमाङ्गापूर्वेयोरन्वयो वाच्यः । वाक्यार्थान्वयश्च व्युत्पत्तिहीनः ।
?R राद्धान्तस्तु - यत एव करणोपकारकतयाऽन्वये वाक्यार्थयीरयमन्वयः स्यात् अत एवैदमर्थ्यंमात्रेण सन्निहिताग्नेयादेः प्रयाजादेश्च करणेतिकर्तव्यतात्वाविभागत एवाधिकारलिङ स्वार्थान्वयमाह । तस्यां दशायां अवान्तरवाक्यार्थतां विनैव योग्यतासिद्धेः ऐदमर्थ्यमात्रेणान्वयापर्यवसानात् न्यागतः करणेतिकर्तव्यता विभागमुपकल्प्योपक्रान्तसामान्यान्वयपर्यवसानम् । एवं च यदसन्निधाने वाक्यार्थभेदार्ह तत् पदार्थतां नीतं प्रधिकारलिङर्थे निवेशात् । सर्वस्य प्रयाजादेरवान्तरवाक्यार्थतायां न च तात्पर्यम् । किन्तु अनुष्ठेयकार्याभिधाने तात्पर्यानुरोधइनि पदार्थान्वयव्युत्पत्तिरिति पदार्थावस्थ एव प्रयाजादौ तात्पर्यम् । अतः तात्पर्यबलादेवापूर्वे व्युत्पत्तितः प्रामाण्यसिद्धिः । अतः इति कर्तव्यताकाङ्क्षामादृत्य विशेषान्वये प्रमाणं सत् प्रकरणं शेषत्वे हेतुः । सप्तमाद्योक्त ग्राहकग्रहणं चेह प्रकरणव्युत्पत्त्यर्थं व्याहृतम् , न पुनस्तदत्रापि व्याकार्यमितीयं दिक् ।
?R लोकेपि चेदं शाब्दमेव आरोग्यार्थी भेषजं विबेत् अश्विनौ नमस्कुर्यात् इत्यादौ । गार्हपत्यमिति श्रुतिः अरुणयेति वाक्यं इति यदुक्तं भाष्ये तत् शेषिकार्यतातः शेषकार्यता तत्कार्यता च द्वितीयातः न तृतीयात इत्यभिसन्धाय ।
?R श्रीकरेण तु क्रयार्थमारुण्यमनिच्छता शेषएऽपि इह न तृतीया श्रुतिरित्युक्त्वा कृत्वाचिन्तयाऽरुणयेत्युदाहृतमित्युक्तम् । तदरुणाधिकरण एव प्रत्युक्तम् । प्रयोजनम् असति प्रकरणे ग्राहकान्वयस्य सप्तमाद्योक्तस्याप्यनिर्वाहवत् तत्पूर्वपक्षबदुद्दिश्य विधानात् सर्वत्र प्रयाजादयः । सति तु प्रकरणे व्यवस्थैव ।
?R?0क्रमश्च देशसामान्यात् ।
?R ?Rप्रकरणाज्जवन्यक्रमव्युत्पादनं अवान्तरसङ्गतम् । इहापि मानान्तरत्वार्थं असंयुक्तपदमनुवर्तनीयम् । पूर्वचतुष्टयासंयुक्ते क्रम इत्ययुक्तं इत्येवं प्रश्नः । न हि प्रधानाम्नानानुक्रमेणाङ्गातुक्रममात्रात् तुल्यक्रमप्रधानविशेषान्वितोऽङ्गविशेषो युक्तः । ऐदमर्थ्यनान्वयो हि शाब्दः । सोऽविशेषतः सर्वस्य सर्वप्रधानार्थता हेतुः । न तु देशसामान्यमात्रात् अन्वयभेदः शाब्दः । एकस्य सन्निधिरवैशेषिक इति ‘?Rदब्धिर्नामासि’ ?Rइत्यनुमन्त्रणशक्तो यावत्प्रधानदेवतानुमन्त्रणार्थो, न तु क्रमादुपांशुयाजनिवेशीति पूर्वः पक्षः ।
?R राद्धान्तस्तु - नियोगैदंपर्येणान्वयः शाब्दः स एव तु स्थानाख्यसन्निधिभेदाद्वयवस्थाप्यते । अत्र तु विशेषान्वयाकाङ्क्षा विकल्पादि परिजिहीर्षया । अत एकस्य सन्निधिः वैशेषिक एव नियोगैदमर्थ्यं च क्वचित् ग्राहकात् क्वचित्समाख्यया काम्य याज्यानूवाक्याकाण्डमित्यनया । भाष्ये तु लिङ्गमित्युपलक्षणम् । लिङ्गमप्यनुमन्त्रणमन्त्र इत्याख्यापेक्षं यतः ।
?R?0आख्याचैवं तदर्थत्वात्
?R क्रमादाख्या जघन्येत्यवान्तरसङ्गतिः । अत्राप्याक्षेपार्थः प्रश्न युक्तः । स्थानाद्विशेषे शेषत्वं वैदिकत्वात् । आघ्वर्यवादिसमाख्या तु लौकिकी न वैदार्थधीहेतुः । न हि लौकिकं पचतीति वेदार्थाङ्गं पाकं विधत्ते । अथ वैदिकार्थविषयमिदं तद्धिताद्यन्तपदमोत्पत्तिकं यौगिकं कर्मणि वैदिके कर्तृनियमापेक्षायां नियतप्रतिपत्तिनिमित्तं सन्निधिकरं सहायतामन्वये गतं मानान्तरं विवक्षया । तन्न सम्बन्धपूर्वकमिदमभिधानं पूर्वसिद्धे सम्बन्धे (ऽ) सति साधुत्वार्थम् । प्रकृतिप्रत्ययविभागात् न विशेषान्वये सहायभूतमिति पूर्वः पक्षः ।
?R राद्धान्तस्तु - यदीयमाख्या पुंप्रभवा स्यात् पूर्वप्रमित्यपेक्षा स्यात् इयं चानिदंप्रथमा तत्सचिवाद्वेदादर्थं बोद्धुं सर्वे शक्ता इति यौगिकी । शेषत्वे मानं च युक्तम् ।
?R
?R?0श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां
?R?0समवाये पारदौर्बल्यमर्थविप्रकर्षात्
?R?0 ?R?0ऋजुविमलायां पूर्वोत्तरपक्षसा उक्तः । श्रुत्या तावदैन्द्री गार्हपत्योपस्थापने विनियुज्यते । तथा प्रकरणापादिते कार्यान्वयमात्रे विशेषकार्यनियामकतया लब्धप्रमाणभावेन लिङ्गेनापि इन्द्रोपस्थाने । न च विरोधः । विनियोगद्वयबलेन प्रयोगद्वयादुभयाभिधानोपपत्तिरिति पूर्वः पक्षः ।
?R राद्धान्तस्तु - अधिकारनियोगसन्निधौ श्रुतस्य मन्त्रस्य ग्राहक गृहीतस्य श्रुत्या प्रथममेवावगतकार्यविशेषस्य पश्चादुपादानेनावगतकरणैदमर्थ्यस्य कार्यान्तराकाङ्क्षाऽभावात् विनियोगान्तरानुपपत्तेः न लिङ्गेनापि विनियोगः । न च श्रुतिलिङ्गविनियोगयो तुल्यकालताः ग्राहकग्रहणे सति शीघ्रभावित्वात् श्रुतिविनियोगस्य, प्रकरणविनियोगापेक्षत्वाच्च लिङ्गविनियोगस्येति । अयं भावः । शेषत्वे मानान्युक्तानि
?R। तद्बलाबलं पूर्वं शीघ्रमानयोर्वाच्यमित्यवान्तरसङ्गतिः । ऐन्द्र्यधिकरणे श्रौती मन्त्रशेषता उक्ता । इह तु लिङ्गादप्यस्त्विति शङ्कानिरास इत्यपुनरुक्तिः । उक्तेऽपि श्रुतिलिङ्गवाक्यविवेके वाक्याधीनत्वात् श्रौत लैङ्गिकशेषत्वस्य विधि मन्त्रवाक्यबलाबलमित्यभिसन्धाय श्रुतिलिङ्गवाक्यप्रश्नः । उत्तरं - सत्यमेवम् । तथापि उदासते तु पदान्तराणि । गार्हपत्यपदमेव श्रुतिः श्रौतशेषत्वे हेतुः । इन्द्रादि पदशक्तिरेव लौङ्गिके शेषत्वे हेतुः । अतः श्रुतिलिङ्गयोरियं चिन्ता । यद्यपि पूर्वपक्षे न लिङ्गं बलीयः, तथापि श्रुतिवल्लिङ्गमप्युपमर्दकमित्येवं “?Rउत लिङ्गं बलीय” ?Rइत्युक्तम् । विकल्पोक्तिस्तु क्रमप्रयोगे समुच्चयेप्यभिधेयभेदे प्रयोगभेदात् । श्रुतिलिङ्गतुल्यता चैवं । यथा ग्राहकपूर्विका श्रुतिशेषता तथा सामान्यान्वयपूर्विका लिङ्गशेषता । यद्यपि न तुल्यता, तथापि जघन्याल्लिङ्गादपि शेष्यन्तरे शेषताऽस्तु । गौणमुख्यार्थता च मन्त्रपदस्य प्रयोगावृत्त्या युक्ता । किञ्च प्रमातुः तुल्यवत् प्रमित्यनुदयेऽपि स्थितप्रमाणत्वं लिङ्गं न हानमर्हति । न चासति श्रुतिविरोधे लिङ्गं मानम् । विरोधे त्वमानमेव यथापठित श्रुतिविरोधेऽनुमेयवेद इति वाच्यम् । तत्र हि श्रुतिविरोधे अनुमेयवेदाभाव एव । इह तु पठितवेदप्रभेद एव लिङ्गम् । परोक्ते हि लिङ्गाद्विनियोजकश्रुत्यनुमानपक्षे विरोधाल्लिङ्गाभाव एव । न चासौ पक्षः, लिङ्गश्रुतिमूलतयैव लिङ्गशेषत्वसिद्धेः विनियोजकानुमानाभावात् । गुरूक्तनीत्या च विरोधाधिकरणपौनरुक्त्यापत्तेः । इदं प्रपञ्चितं दीपशिखायाम् ।
?R राद्धान्तस्तु श्रुतिः ग्राहकपूर्विका द्वारैदमर्थ्ये मानम् । लिङ्गं तु ग्राहकान्वयाधीनं सामान्यत इतिकर्तव्यताकोटितापूर्वकं आकाङ्क्षाबलात् द्वारैदमर्थ्ये हेतुः । द्वारार्थत्वे च मानान्येतानीति विप्रकर्षोऽर्थे लिङ्गस्य । चरितार्थयोश्च ग्राहकमन्त्राम्नानयोः द्वाराकाङ्क्षाभावात् न तद्बलाधीनं लिङ्गमिह मानमिति न मन्त्रप्रयोगावृत्तिकल्पनया मुख्यगौणार्थतोपगमः । एवमाश्रयिनयात् कार्यद्वयं प्रत्युक्तम् । तत्र आवृत्त्यादिकल्पनां विना कार्यद्वयम् ।
?R परोक्तं न श्रुतेर्विनियोक्तृत्वं लिङ्गाधीनं प्रतीयते । विज्ञाते विनियोगे तु तद्वशाच्छक्तिनिर्णय इत्यनुपयुक्तम् , लिङ्गस्यापि न तच्छ्रुत्यधीनं विनियोजकत्वम् ।
?R अत्र भाष्य एकार्थवृत्तित्वात् वाचः द्वयोर्द्वयोः सम्प्रधारणेति । तस्यार्थः - एकदा एकबलाबलशक्तेर्वाचः क्रमशोऽनेकबलाबलचिन्ता । शेषं सुगमम् ।
?R लिङ्गवाक्यविरोधे - स्योनन्ते - चिन्ता - उक्तेऽप्यर्थं विप्रकर्षाद्बाध्यत्वे दुर्ज्ञान विप्रकर्षसिद्ध्यर्थं चिन्ताचतुष्टयम् - न हि लिङ्गं वाक्यानपेक्षं, संभूयार्थबोधकता पदानामुच्चारणमात्रात् भवति । ततोऽनुष्ठेयप्रकाशनशक्ततया लिङ्गाद्विनियोगः पश्चाद्भवन् अन्वितार्थ पदजातानुरोधादिति वाक्यमेवानपेक्षम् । अन्विते च शक्तेरन्वयार्थं प्रतियोग्यपेक्षं लिङ्गं यावदुच्चारितप्रतियोग्यपेक्षं युक्तम् । अन्यथा हि अननुष्ठेयार्थ ‘?Rस्योनन्ते’ ?Rइत्यादि पदान्वयो न स्यात् । वाक्यानुरोधेऽपि न लिङ्गहानम् । भाष्ये च वाक्यवशं लिङ्गमिति वाक्यं विनियोजकमुक्तम् । अतः कृत्स्नोमन्त्रः सदने आसादने च लिङ्गाद्वाक्यवशाद्विनियुक्तः । श्रुत्या बाधितं लिङ्गं वाक्येनापि बाधितव्यमिति । अस्यायं भावः । पदार्थान्वयो हि श्रुत्येव वाक्येनापि । लिङ्गन्तु शक्तिमात्रं अन्वये विप्रकृष्टम् ।
?R राद्धान्तस्तु — न पाठमात्राद्यजुः पदानां संभूयबोधकता । किन्तु अनुष्ठेयैकार्थतया एकवाक्यता युक्ता । अनुष्ठेयार्थधीश्च लिङ्गादिति लिङ्गपूर्वकं वाक्यम् । लिङ्गं च प्रतियोग्यपेक्षमपि नानुष्ठेयार्थान्तरापेक्षम् । स्योनादि पदानि स्वाम्नानार्थवत्त्वार्थं अनुष्ठेयार्थपदेन सह एकीभूतार्थानि इत्यनुष्ठेयान्तरार्थं वाक्यान्तरमेव । ऋक्षु तु छन्दसैवैकवाक्यत्वात् न लिङ्गापेक्षेति । अत एवैन्द्र्या इत्येवं गार्हपत्ये विनियोगेपि लिङ्गान्नेन्द्रपदं विभज्य विनियुज्यते । यजुषि ‘?Rइषेत्वा’ ?Rइत्येवमपि विनियोगे विभज्यत एव अर्थाक्षिप्तपदयुक्तम् । भाष्ये यदेकवाक्यतापि लिङ्गमेव । अभिधानलिङ्गन्तु बलवदित्युक्तं । तत्प्रक्रियाविरुद्धम् । न हि शक्तिमात्रं लिङ्गम् । किन्तु अनुष्ठेयधीशक्तिः सा च नैकवाक्यतया । अयं भाष्यार्थः - एकवाक्यतायां च
?Rसदनसादनयोः विशेषणविशेष्यतया एकानुष्ठेयधीशक्तिः लिङ्ग विप्रकृष्टन्तु तत्साक्षादनुष्ठेयधीशक्तेः । एवं च लिङ्गमपि लिङ्गबाध्यम् । विप्रकर्षो हेतु र्बाध्यत्वे, मानान्तरत्वं च अतन्त्रम् । वाक्यभेदे स्थिते मन्त्रस्थं तस्मिन्निति वाक्यान्तरस्थस्य परामर्शकम् । एतस्यैव रेवतीष्वित्यत्र एतद्धर्मकस्येतिवत् ।
?R विवरणे तु तुल्यतोपक्रममात्रम् सर्वत्र पूर्वदौर्बल्यं, तत्र वाक्यानुगुणं लिङ्गम् राद्धान्ते लिङ्गानुगुणं वाक्यम् । यथोक्तं निबन्धने । शेषं सुगमम् ।
?R अथ वाक्य प्रकरणयोः कथमिति भाष्यपाठादधिकरणं सूचितं सूत्रैक्यात् । इतिकर्तव्यतार्थित्वं प्रकरणमित्युक्तेऽपि कस्यार्थित्वमित्यज्ञानात् पुनरिह पृष्टे नियोगस्य न करणस्येत्युत्तरे दत्ते पूर्वपक्षोत्थानम् । वाक्यात् साक्षात्पदार्थान्वयः नियोगाकाङ्क्षावशात् तात्पर्यमिति द्वयोर्विनियोगहेतुता तुल्या । नियोगाकाङ्क्षा वा बलव [?Rती] ?Rति । तत्परत्वात् पदार्थान्वयस्तदनुगुणः ‘?Rप्रयाजशेषेण’ ?Rइत्यादौ दर्शितः । सर्वथाऽन्वयेबाधः परं नियोगान्नेष्टः सा चेहापि नेष्टः उभय देवतापदशेषत्वेऽपि पदार्थान्वयात् दर्शदेवतापदसन्निध्याम्नातशेषस्य वाक्यस्वरसात्तदन्वयः । प्रकरणस्वरसादुभयदेवता पदान्वय इति नान्वयबाधः । संयुक्त सूक्तवाके तत्पदानां प्रकरणविनियोज्यत्वाभावेऽपि सहायतया प्रकरणस्य सर्वकरणान्वयहेतोर्बलवत्ताऽभिमता ।
?R राद्धान्तस्तु - दुर्बलं प्रकरणं, तदनुरोधाद्धि सर्वकरणदेवतान्वयः कल्प्यः । क्लृप्तेवाक्यान्वये विप्रकृष्टो बाध्यः । तर्हि श्रुतिलिङ्गनयात् गतार्थता । तन्न, दुर्ज्ञात विप्रकर्षव्युत्पत्तिसिद्ध्यर्थोऽयमधिकरणनिचयः ।
?R?0॥ प्रकरणस्थानयोः ॥
?R अत्राप्यधिकरणं भाष्यपाठात्सूचितम् । युक्ता पदार्थन्वये वाक्यबलवत्ता । वाक्यार्थान्वयोऽत्र प्रकरणाद्वास्तु क्रमाद्वा । यावता करणान्वयेऽपि नियोगाकाङ्क्षा,
?Rसन्निहितकरणान्वयेऽपि सा । सर्वान्वये च प्रकरणं स्वरसम् । एकान्वये तत्सन्निधिः स्वरस इति तुल्यता वा । “?Rक्रमो बलीयानि” ?Rति प्रौढोक्तिः । सन्निध्याकाङ्क्षयोरन्वयहेतुत्वे हि भिन्ने । न सन्निधेराकाङ्क्षोपसंहारः । इदं श्रुतिलिङ्गनयेऽप्युक्तम् । एतद्वस्तुतः आधिक्यासंभवे सर्वत्र द्रष्टव्यम् ।
?R राद्धान्तस्तु - वाक्यार्थान्वयो हि नियोगस्येतिकर्तव्यताकाङ्क्षया । सा सर्वकरणार्थेति तत एव सर्वकरणसन्निधेः सर्वान्वयः । एक[?Rत]?Rस्य सन्निराम्नानार्थो नान्वयार्थः । पदार्थेषु कारकादित्वेनान्वयिषु नियोगाकाङ्क्षया न सन्निधिरित्याम्नानसन्निधिः अन्वये हेतुः । इह तु न तथेति । भार्या राज्ञः पुरुषोदेवदत्तस्य इत्यादितुल्यः । इदं मत्वा भाष्ये परिपूर्णेनाप्येकवाक्यता इहोक्ता । पदार्थान्वयपूर्णेन विध्याकाङ्क्षया एकवाक्यताऽवान्तरवाक्यानां युक्ता ।
?R दब्धिर्नामासीत्यनुमन्त्रणमन्त्रोऽनुमन्त्रणीयविशेषाकाङ्क्षया करणविशेषान्वयी नेतिकर्तव्यताकाङ्क्षयेति क्रमस्य न प्रमाणता हानिः ।
?R?0क्रमसमाख्ये तुल्ये
?R शुन्धनमन्त्रवाक्यं हि शुन्धनीयार्थं क्रमात् सान्नाय्यपात्रान्वयात् तदर्थताधीः । पौरोडाशिककाण्डसमाख्यया पुरोडाशसंबन्ध निमित्ततया तत्पात्रान्वयात् तदर्थधीरिति तुल्यता । अथ समाख्या पौरुषेयीत्यतुल्यता न तर्हि इदं प्रमाणम् ।
?R राद्धान्तस्तु - अनिदंप्रथमा समाख्या अन्वयाधीना अन्वये प्रमाणं सन्निध्यादि वैदिकं कल्पयन्ती विप्रकृष्टा प्रमितिहेतुः । क्रमस्तु सन्निधिरेवेति सामाख्या बाध्या । समाख्याप्रमाणं च ब्राह्मणग्रामवन्नेया । बलाबलसूत्रं तु बाधार्थमिति बाध शुद्धि भाष्यस्य तच्छेषता । अशुद्धिशङ्कायदप्राप्तं न तद्बाधार्हं अप्रसक्तप्रतिषेधायोगात् । प्राप्तमपि तदनर्हं निश्चिते मिथ्यात्वायोगात् । ननु प्राप्तबाध उक्तो दशमे ;?R न तत्रापि प्राप्तस्वरूपबाधः किन्तु फलापहारात् बाध इव । इह तु सोऽप्यशक्तः कार्यतो हि प्राप्तौ
?Rन कार्यान्तरं कल्प्यम् । अतः कार्यलोपे तु कृतकार्यत्वे वा अनुष्ठानापहारः । इह तु उपदेशे यथोपदेशं कार्यं कल्प्यम् । अतः फलतोऽपि प्राप्तिर्दुबोधेति दर्शितं दशमे । अत्रापि श्रुतिलिङ्गयोः प्रामाण्ये प्रतिप्रधानमावर्तते गुणा इति भाष्ये उक्तम् इति शङ्कायामुत्तरं प्राप्तं बाध्यत इति ब्रूमः ।
?R वस्तुतस्तु - अप्राप्तमेव । लिङ्गादेरन्यत्र दृष्टं विनियोजकत्वं स्मरता अन्यत्र ग्राहकमन्त्राम्नानयोश्चरितार्थविषयेऽपि स्मृतिप्रमोषाद्बिनियोग प्रमिति व्यवहारकारिता प्राप्तिर्भेदग्रहाद्बाध्यते शुक्तिरजतवत् । तर्हि प्रथमपादे एवायमुक्तः प्राप्तबाधः यत्र च मिथ्येति प्रत्ययः इत्यत्र । इदमधिकमागमिकश्रुतिलिङ्गादौ स्वतो न विपर्ययः नेदमित्यदर्शनात् । करणदोषादपि तद्विधबाध एव तत्रोक्तः । इह तु सन्निकृष्ट प्रमाणाच्चरितार्थत्वे ग्राहकमानयोः विप्रकृष्टान्नेति विमर्शोत्थ एव बाधः । विप्रकर्षश्चेत् श्रुतेरपि श्रुत्यन्तरात् तस्याः बाधस्तुल्यनयात्सिद्धः । एवञ्च विप्रकृष्टादपि विप्रकृष्टस्य बाधोऽर्थसिद्धः ।
?R?0अहीनोवा ।
?R?0 ?R?0एकप्रकरणिशेषत्वे वाक्यस्वरसात् प्रकरणस्वरसबाध उक्तः । इह तु विनियोगीयस्य वाक्यात् या द्वारार्थता सा किं स्वतस्सहित नियोगात् नियोगीयस्य उत तदीयपदार्थान्वयसन्निहितनियोगादिति चिन्ता । साक्षात्सन्निहितनियोगान्वयवलवत्तया तन्नियोगीया । अहीनेति नञ् समासार्थे वाक्याच्छेषता । यथा साक्षात्सन्निधिः समाख्याकल्प्यात् बलवानितिक्रमबलवत्तोक्तेति पूर्वपक्षावान्तरसङ्गतिः ।
?R राद्धान्तस्तु — पदार्थान्वयोत्थ एव बलवानिति तदनुगुणो नियोगान्वयः । पदार्थान्वयपर्यवसानात् कार्यान्वयस्य तदुत्थ एव कार्यान्वयः शोघ्रसन्निधेः । पदार्थ एव हि पदार्थप्रतिपक्षः न विधिः । अन्यथा स्तुतिपदानामनुष्ठेयार्थता स्यात् ।
?Rमध्योदात्तपदस्य द्वादशाहभेदोऽर्थः । न च वाच्यम् — प्रकृतकार्यान्वयात् व्रीह्यादिपदे लक्षणा दृष्टेति अहीनेऽपि जघन्यार्थताऽस्त्विति । कार्यान्वयात्तु सा न प्रकृतान्वयार्था । अहीनेऽपि सा इष्यत एव । अथ मध्योदात्तत्वासिद्धिः, तदा कृत्वाचिन्ताऽस्तु, रूढिर्वा द्वादशाहभेदे । सत्रेष्वप्रयोगात् । नन्वत्रमते - अन्यत्राप्रयोगेऽपि न रूढिः यथा पङ्कजादेः ;?R मैवम् , क्लृप्ता अवयवयोश्शक्तिस्तत्र, इह तु कल्प्या समुदायस्य । ननु इहाप्यहरवयवस्य क्लृप्ता शक्तिः । अत एवाहर्मितकर्मलक्षणापि क्लृप्ता अहीनावयवस्य लाघवात् गणे शक्तिः कल्प्यताम् । सत्रेष्वप्रयोगः कुमुदादौ पङ्कजादिपदवदस्त्विति न रूढिः । मैवम् , अहश्शब्दो द्वादशहादिषु यजति चोदनाचोदितेषु अव्यवस्थितकर्तृपरिमाणेषु दृष्ट इति तद्रूपप्रवृत्तिनिमित्तक एव । अगत्या चानेकार्थः । यदि सत्रेष्वपि प्रयुज्यते तदा सर्वानुगताहर्मितकर्मणः गणताप्रवृत्तिनिमित्तकः । तदा च अहरवयवस्य क्लृप्तार्थत्वे लाघवादिनाऽवयवशक्तिः गौणे कल्प्येति यौगिकतोपपत्तिः । न तु सत्रे दृश्यते । अतो रूढ एव यथा प्रबीण शब्दो यस्यां व्यक्तौ दृश्यते तस्यां वीणावादन गुणयोगेऽपि निपुणत्वे दृष्टः तत्प्रवृत्तिनिमित्तकस्तत्रैवरूढ इत्युक्तम् । तदाह - “?Rयदि सत्रेऽपि प्रयोगो दृश्यते तदाऽनेकशक्तिकल्पनाभयान् ईन शब्दस्यैव शक्तिः कल्प्ये”?Rति । नियत प्रयोगात् समुदायशक्तिः न विप्रकृष्टाऽवयवे शक्तिरिति तु मन्दम् । असत्यप्यवयवार्थे व्युत्पत्तिमात्रं तद्धितविधिः स्वरार्थश्च ।
?R विवरणे तु पूर्वबलीयस्त्वे स्थिते विषयव्याप्त्यर्थं विरोध एवाविरोधशङ्का निरस्यते । अत्र जाघन्यां त्वविरोधे विरोधाशङ्केति अवान्तरसङ्गतिरुक्ता । नञ्समासादविरोधाशङ्का स्वरविरोधान्निरस्ता । तन्निर्वाहस्तु निबन्धनवन्नेयः । श्रुतिस्थानीयं चेदं वाक्यं यल्लिङ्गादपि बलीय इति सुतरां बलवत् ।
?R?0द्वित्वबहुत्वयुक्तं चोचोदनात्तस्य
?R?0 ?R?0उक्तेऽपि पदार्थान्वयानुरोधात् प्रकृतकार्यान्वयत्यागे अधिकमिह प्रकृतेपि
?Rद्विबहुत्वान्वयोऽस्तु - इत्यवान्तरसङ्गतिः । एककर्तृकेऽपि प्रकृते नित्येऽधिकृतो यथाशक्ति यजमानान्तरसहितोङ्गं एककर्तृकत्वं हास्यतीति अनेकयजमानान्वयः । पत्न्यपेक्षया वा अस्तु । अज्ञेऽसहत्वेपि क्रियान्तरे साहित्यात् वसानौ आदधीयातामितिवत् ।
?R राद्धान्तस्तु - एककर्तृके एकस्यैवाधिकारात् प्रयोगः । एवमपरस्यापि इति प्रतियजमानं प्रयोगान्यत्वे यदि मिलित्वा एकप्रयोगः स्यात् एकप्रयोगादेकस्याधिकारसिद्धेः एकएव यजमानः स्यात् । अतो यथाशक्ति प्रयोगोऽप्येकस्यैव । अथ शक्त्यभावात् यजमानान्तरनिवेशात् यदि कर्त्रवस्थायामन्यो निवेश्यते । न स यजमानः स्यात् । पत्न्यपेक्षयापि नानेकयजमानता । स्त्रीमात्रस्य नायमेकशेषः । तासामनधिकारात् । पुमांश्चेदेकः एकशेषे परोऽपि स्त्रीपुंससन्देहे धीस्थः पुमानेव । वसानावित्यत्र तु स्ववाक्यस्थाधानान्वयिपुंद्वयाभावादगत्या ‘?Rपुमांस्त्रिया’ ?Rइत्यस्य विषयः । इह प्रकृतान्वयार्थो न तथा । बाह्यक्रियापेक्षया पत्न्या इतरेतरयोगोऽप्यगत्या आधाने । नेह तथा । ननु यजमानपदं आश्रयानपेक्षतयोद्देशकं तद्विशेषणं च द्वयोरित्याद्यविवक्षितं हविरुभयत्ववत् । न चोद्देश्यनिमित्तयोर्विशेषणाविवक्षांप्रति भेदः । विभक्यर्थविशेषणाविवक्षापि ग्रहमित्यत्रोक्तेति यजमानमात्रमुद्देश्यं प्रकृतेऽप्यस्त्येव । मैवम् । द्वयोः बहुभ्य इति चोद्देशकं यजमानविषयकं तदित्युक्तम् । अयं भावः - सापेक्षमपि सङ्ख्यापदमुद्देशकं अन्यथा सङ्ख्यापदं पक्षेऽप्यनन्वितार्थं स्यात् । यजमानोद्देशे प्रकृतैकयजमानक क्रतुनिवेशात् । हविरार्तौ तूभयत्वं पक्षेऽन्वयीति न सापेक्षमुभयपदं निमित्तार्पकम् । उद्देशके च सङ्ख्यापदे समभिव्याहृतयजमानविषय सङ्ख्यार्थे न विशेषणापेक्षा । अपेक्षायां वा तद्विवक्षायां न क्षतिः । न तूद्देश्ये सङ्ख्योद्देश्या निमित्ते नेति भेदः । न च प्रतिपत्पदादेव यजमानान्वये उद्देशवैयर्थ्यात् सङ्ख्याविशिष्टमुद्देश्यमिति, नार्थवत्त्वं व्युत्पत्तिसिद्धं यथान्वयित्वम् । अतः प्रतिपत्पदं क्रत्वधिकारि प्रथमकर्मभेदवाचीत्यपि
?Rव्यर्थम् । न च मन्त्रवर्णतो बहुद्वियजमानान्वयधीरिति । एवं हि न किञ्चिदुद्देशार्थं उद्देशार्थत्वे सति सङ्ख्यापदमुद्देशकमुक्तम् । न च नित्यप्रतिपद्विकल्पहानाय विशेषणविवक्षेति मिथो विकल्पहानायापि सा स्यात् । न च विकल्पभयादुपदेशास्वारस्यमिदीयं दिक् । एवं चात्र पूर्वपक्षिपक्षेन्वयं प्रकृतेऽपि मत्वा यजमानोद्देशमाह । राद्धान्तिपक्षेऽप्यनन्वयात् सङ्ख्यापदमुद्देशकमुत्कर्षं चाह ।
?R
?R
?R?0 सप्तमः पादः
?R?0 ?R प्रकरणविशेषादसंयुक्तं प्रधानस्य
?R उक्ते एकं प्रतिशेषत्वे अनेकं प्रतिशेषत्वोक्तिरिति पादान्तरमनन्तरं च। पूर्वः पक्षः अधिकारविधिगृहीतस्य साक्षात्तत्साधन एव हविरासादने वेदे बर्हिषस्तद्धर्माणां खननलवनादीनां च शेषता ।
?R राद्धान्तस्तु वाक्यानुरोधाद्ग्राहकोपकारकहविरासादनमात्रशेषता न वाक्य-संकोच इत्यङ्गप्रधानार्थता । भाष्ये उपकारोक्तिस्तु सत्यपि वाक्ये यद्यङ्गान्वय उपकारेणादृष्टेन स्यात् तदा तत्कल्पनादोषादेव प्रधानमात्रार्थता उपकारसाम्यात् नायमपि दोष इत्यभिप्रेत्य ननु पिण्डपितृयज्ञहविर्व्यापित्वे वाक्यबलान्नग्राहकान्वयहानिरित्यतिदेशोपदेशाभ्यां बर्हिर्धर्महीने किं न स्युः । मैवं, अग्राहकीय व्याप्तौ ग्राहकीयनियमहानिरिति वाक्यं तदपेक्षं नान्यत्रापि शक्तम् । लिङ्गं चेत्थम् यद्येवंजातीयकमङ्गप्रधानार्थ तदा - अभिधारणक्रमपरे " ?Rस वै ध्रुवामेवाग्रे अभिधारयति, ततो हि प्रथमावाज्यभागौ यक्ष्यन् " ?Rइति वाक्येऽभिधारणस्याज्यभागार्थतादर्शनम् ।
?R ?R?0 फलसंयोगात्तु स्वामियुक्तं प्रधानस्य
?R पूर्ववदङ्गप्रधानार्थतेत्युत्थितेः संगतिः वपनादेर्यजमानसंस्कारत्वे स्थिते चिन्ता । पूर्वपक्षः द्वितीयाद्यश्रुतावपि वस्तुलिङ्गान्तर संस्कारत्वे कर्त्रवस्थसंस्कारता एवं हि कर्मार्थकर्तृद्वारा कर्मार्था धर्माः अधिकृतावस्थे तु कर्मप्रतिप्रधाने कर्माङ्गद्वारा कर्माङ्गं न स्युः । कर्त्रवस्थधर्मत्त्वे च कर्तुरङ्गप्रधानार्थत्वात्तद्वाराऽङ्गप्रधानार्थत्वम् । एवं च दैक्षार्थत्वे तद्विकृतिष्वपि स्युः ।
?R राद्धान्तस्तु अधिकृतावस्थार्थैव कर्तृता । अधिकृतत्वं च कर्मजन्यापूर्व भागित्वम् अपूर्ववत्तया साध्ययैवा कांक्षितः करणेतिकर्तव्यतान्वय इतीति तकर्तव्यता
?Rयाः साध्याधिकारावस्थालाभेन साधनभूतकर्तृत्वावस्थे नान्वयः। करणोपकारिता च करणसाध्याश्रययोग्यत्वोत्पादनानुग्रहात् अधिकृतावस्थार्थत्वे चाधिकृतो नाङ्गार्थ इति न तद्वाराऽङ्गप्रधानार्थता । लघ्व्यां राद्धान्तः अधिकृतावस्थापूर्विका कर्त्रवनस्थेति पूर्वावस्थे मुख्यान्वयः ॥
?R?0 ?R चिकीर्षया च संयोगात्
?R पूर्ववत्प्रधानार्थत्वमित्युत्थितेः संगतिः । पूर्वः पक्षः । शक्ष्याम हे इति श्रुतेः, शक्ष्यामहेऽस्यां कर्तुमित्यर्थः । चिकीर्षितेव च कर्तुमुद्युक्तिः । चिकीर्षितं च प्रधानमेवापूर्वार्थकृत्यन्वयादिति । सौमिकी वेदिः प्रधानमात्रार्था। व्यक्तचिकीर्षितान्वयादुदाहृता सर्वस्य चिकीर्षितार्थान्विया दैष्टिक्यपि हविरासादनान्वितापि चिकीर्षितार्था सादनार्था इत्यत्राक्षेपः । एवंविधविषयव्याप्त्यर्थं तदर्थान्यङ्गानीति बहुवचनोक्तिः । अभिमर्शनं तु प्रधानवाचिपौर्णमासीशब्दार्थे श्रुतं, तद्धविराश्रित्य प्रधानार्थमिति न्यायाद्वचनाच्च पूर्षपक्षौ सहकृद्वक्तुम् ।
?R राद्धान्तस्तु अधिकारविधिसिध्यर्थं साङ्गमेव प्रधानं चिकीर्षितमिति चिकीर्षितार्थं साङ्गप्रधानार्थमङ्गप्रधानासाधनादिद्वारम्। अभिमर्शनमपि पौर्णमासीमिति द्वितीयया ईप्सितप्रधानान्वयि । ईप्सितत्वं च साध्यसाधनतया साङ्गस्येति तत्रैव लग्नमिति ईप्सितान्वयितया तुल्यराद्धान्तता लघ्व्यामधिकं वेद्यां चिकीर्षितं प्रधानमेवेत्येतदानुगुण्या दन्तराभिमर्शनेऽपि पूर्वपक्षः पौर्णमास्यामभिमर्शनश्रुतिरेवमर्थवती ।
?R यदि चिकीर्षितेन प्रधानेनैवान्वयः, अङ्गप्रधानार्थत्वे वृथा प्रधानशब्द इति।
?R राद्धान्तस्तु साधनतया प्रधानस्य चिकीर्षितता साङ्ग एव, पौर्णमासीमिति च संस्कार्यता कार्यान्तरोपयोगात् साङ्गस्यैव ।
?R ?R?0 दीक्षादक्षिणम्
?R पूर्ववद्दीक्षादक्षिणमङ्गप्रधानार्थमित्युत्थितेः सङ्गतिः । कर्तृत्वे दीक्षासंस्कार इत्युपेत्य चिन्ता स्थापितं हि स्वामिसंस्कारोऽधिकृतार्थत्वेन प्रधानार्थो वपनादिरिवेति पूर्वः पक्षः । साङ्गप्रधानानुष्ठेयाङ्गं कर्तेति तत्संस्कारोऽपि तद्वारा साङ्गार्थः । सोमस्येति श्रुतेः साङ्गसोमस्यैवेत्येवमपि मुख्यार्थता । राद्धान्तस्तु सोमशब्दस्य प्रधानस्वरूपमेवार्थ इति वचनात्स्वरूपमात्रान्वयो भवति । अन्यथा व्यर्थः सोमशब्दः । तं विनाप्यङ्गप्रधानार्थत्वं कर्तृद्वारा सिद्धम् । यदि दक्षिणा प्रधानमात्रस्य न तर्हि क्रीतैरङ्गानुष्ठानम् । मैवम् । दीक्षणीयादीष्टिषु चोदकागतदक्षिणाऽस्तु। एतच्चोपेत्योक्तम् । वस्तुतस्तु - प्रधानदक्षिणयैव प्रसङ्गादङ्गेष्वानतिरित्यङ्गानुष्ठानमुक्तं द्वादशे प्रधानार्थापि दक्षिणा स्वभावतस्तत्प्रयोगानतिकरीति कथितं तत्प्रयोगे च स्वतोऽङ्गान्तर्गतिरित्यङ्गेष्वप्यानतिसिद्धिमालोच्य दक्षिणादानसंपादनादि तथैव प्रधानार्थत्वफलं तु सोमाङ्गविकृतिषु सोमदक्षिणानतिदेशः । लिङ्ग निरूढे पशौ षढ्ढोतृहोमेन दीक्षानुग्रहं ब्रुवन् अप्राप्तिमङ्गे दोक्षायाब्रूते । ननु नु प्राप्तस्यान्येन कार्यसिद्धावनुग्रहोक्तिः ।
?R मैवं, निरूढपशोः प्रकृतौ प्रधानप्रयुक्तदीक्षोपकारोपजीवनं, इह तु तदप्रयुक्तैर्वैगुण्यमाशंक्यान्येदानुग्रह इति वृद्धाः । लिङ्गमेव वक्तुमुपेत्य दीक्षोदाहृता ।
?R लघ्व्यां दीक्षायाः स्वामिसंस्कारत्वेन वपनादिवत्प्रधानार्थत्वेऽपि न्यायान्तरं वक्तुं कर्तृसंस्कारतामास्थाय कार्यानुगुणं वचनमाशंक्य वचनतः कार्यमित्येवं राद्धान्तितम् वचोभंग्या बृहत्युक्तः
?R?0तथायूपस्य वेदिः
?R पूर्वत्रेव च प्रधानार्थता श्रुतेः । इहापि यूपार्थता वेदेरित्युत्थितेः संगतिः पूर्वपक्षः । अर्धमन्तर्वेदि मिनोतीति वचनाद्यूपाङ्गं वेदिः यूपार्थमाने वेद्यन्तर्विधेः । अर्धं बहिर्वेदीति तु प्रायप्राप्तानुवादः । राद्धान्तस्तु वज्रो वै यूप इत्युपक्रमे " ?Rन निर्दहती” ?Rत्यन्ते वाक्येऽन्तर्गतान्तर्वेदीत्यस्य न श्रुत्यर्थग्रहः; बहिर्वेदिपदैकवाक्यतार्थ
?Rदेशलक्षणार्थता । अर्धमन्तर्वेद्यर्ध बहिर्वेदिपदाभ्यां लक्षितदेशे यूपमानदेशत्वेनैकार्थविधिः । इतरथान्तर्बहीरूपेणार्थद्वयं स्यात् । एवं च बहिर्वेदीत्यस्योपलक्ष्यार्थो नित्यान्वयी । विध्यर्थश्च । अन्यथा प्रायप्राप्तानुवादः स्यात्। किं चान्तर्वेद्यर्थे मुख्यविधिः। बहिर्वेद्यर्थे प्राप्तानुवाद इत्यपि दुर्निश्चेयं । वैपरीत्यस्यापि संभवात् ।
?R ?R?0 ?Rसामिधेनीस्तदन्वाहुरिति हविर्धानयो-
?R?0 र्वचनात् सामिधेनीनाम्
?R पूर्वत्रास्तु बहिर्वेदिपदैकवाक्यतया लक्षणा । इह तु न तथेत्युत्थितेः संगतिः पूर्वःपक्षः । हविर्धानसामिधेन्यन्वयश्रुतेर्हविर्धानाङ्गं सामिधेन्यः । सामिधेन्यङ्गं वा हविर्धानं । न चोभयोरन्यत्र विनियोगादिह अन्यतरनियोगे विरोधः। एका हि दधि जातिः क्रतौ फले च विनियुक्ता दृष्टा । यद्धि न दृष्टं तत् विरुद्धम् । यदाहुः
?R?0 विज्ञातविपरीतं हि विरुद्धमभिधीयते ।
?R ?R?0 एतदेवाविरुद्धं तु यद्यथा ज्ञायते तथा ॥
?R राद्धान्तः - माभूद्वस्तुविरोधः धीविरोधो दुस्तरः । यदन्यार्थरूपेण धीस्थं न तदन्यार्थतया बोद्धुं शक्यम् । पूर्वैकलीनत्वेन धीस्थत्वबाधनं विना । न तु वस्तुस्वरूपे अन्यालीनतया’ धीस्थेऽनेकार्थत्वविधिविरोधो दध्यादावपि इत्यभिसन्धायोक्तं “?R यद्यथा ज्ञायते तत्तथे?Rति “?R । तथेह ज्ञानासिद्धिः। अतोऽयमन्यार्थान्वयो देशलक्षणार्थः । हविर्धानं च सदेश इति तदेव लक्षणा(र्थ)-र्हम् । ननु लक्षणा चेत् किमित्यत्र नाधिष्ठानलक्षणयाऽङ्गत्वम् तन्न। कुत्रेत्यनवधृतेः अदृष्टोपकारकल्पनापत्तेश्च । हविर्धानमित्याख्यया च हविरन्वितावस्थधीः । सामिधेनीत्याख्यया च समिन्धनान्वितावस्थधीः। तयोरन्योन्यान्वितावस्थत्वे आख्यापीडापत्तिः ।
?R किञ्च सामान्येन हविर्धानान्वः । विशेषतश्च यस्मिन् सुन्वन्ति तदन्वय इति
?Rअन्वयद्वयविधौ वाक्यभेदः स्यात् यथोक्तमप्रकृताग्नेय्यन्वये आग्नेयीनये । अथ आक्षेपात् सामान्यान्वयः तथाप्याक्षेपगौररवम् ।
?R लघ्व्यामेवं राद्धान्तः - यदि हविर्धानविशेषान्वयविधौ सामान्यान्वयाक्षेपः तदाऽनपेक्षितविशेषविधिः स्यात् । पूर्वं हि सामान्यान्वये विशेषापेक्षया क्रियाक्षेपादेवाग्रदेशमात्रप्राप्तौ अपेक्षितदेशभेदविधेः अपेक्षितविध्यर्थं लक्षणापि युक्ता विधिपरत्वादन्वयस्य । अन्वयहानं परं विध्यपेक्षया नेष्टम् । यद्भाष्ये हविर्धानसामिधेन्योः कार्यान्तरार्थत्वमुक्तं तत् कार्यान्तरार्थोपात्तं स्वदेशं लक्षयितुमलमित्येवमर्थं, न तु बृहत्युक्तवत् अन्यार्थस्यान्यार्थत्वेधीविरोधार्थम् ।?R?0
?R?0 शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्
?R?0 तस्मात्स्वयं प्रयोगे स्यात्
?R उक्ते सामिधेनीप्रयोगाङ्गे देशे कर्तुः प्रयोगाङ्गस्य सामिधेन्याद्यङ्गेषु चिन्तेति सङ्गतिः । पूर्वः पक्षः - स्वामिकर्तृकं सर्वमधिकारसामर्थ्यात् अधिकारिणः कर्तृत्वश्रुतेः । अस्यार्थः - नियोज्यो हि कार्यं मत्कृतिसाध्यमिति ज्ञात्वा साधनाधीनं साध्यमित्यवेत्य मम’ यदुपयोगि तत्साधनमिति ज्ञात्वा तत्साधने मत्कृत्या मत्कृतिसाध्यता मत्कार्यस्येत्यालोच्य कर्तृतां यातीति अन्यस्मिन् कर्तरि अन्यकृतिसाध्यं कार्यं न स्यादित्युक्तं - सामर्थ्यादधिकारिणः कर्तृत्वश्रुतेरिति । यजेतेत्यात्मनेपदं प्रकृत्युपात्तकर्तरि फले लिङ्गं न तु सर्वं स्वामिकर्तृकमित्यत्रेति तन्नोक्तम् ।
?R आधाने आत्मनेपदादप्याधानकर्तुरग्न्यो न सर्वकर्तुः । एवं च प्रधानचोदनाज्ञात सर्वकर्तृत्वविरोधाद्वरणं परिक्रयार्थम् । दानं चादृष्टार्थम् । परिक्रयोक्तिर्गौणी । मैत्रावरुणादिपदं कथञ्चित् स्वामिन्येव प्रवृत्तमिति स्वामिकर्तृकं प्रैषाख्यमपि । आध्वर्यवाख्यातग्रन्थाधीतत्वात् कर्मण्याध्वर्यवोक्तिः ।
?R अनियमपक्षस्तु द्रव्यत्यागमात्रं स्वयम् । स्वस्य त्यागात् । कर्मार्थमानतो हि स्वत्यागानर्ह इति शेषमन्यः स्वयं वा कुर्यात् । क्रीतैरपि कृतं प्रयोक्तृत्वेन स्वकृतं प्रयोजकस्यापि कर्तृत्वस्मृतेः । अधिकारिणो हि कर्तृत्वमाक्षिप्तं नार्हत्यैवेति नानियमे विरोध इति न परिक्रयोक्तिर्गौणी । न च वरणादेरदृष्टं कल्प्यम् । न च मैत्रावरुणादौ कथाञ्चिद्वत्तिः । न चाध्वर्यवाद्याख्या कर्मण्यमुख्याः ’ ग्रन्थतोऽङ्गीकार्याः । न च ग्रन्थ एवैता मुख्याः अध्ययनकाले अध्वर्युत्वाद्यर्थानुत्पत्तेः । ननु परिक्रयादेर्नित्यश्रुतेः शेषमन्यैरेवेति स्यात् । तन्न । दृष्टार्थत्वाय स्वाशक्तावन्यापेक्षायां परिक्रयादिविधिरनित्योऽस्तु ।
?R राद्धान्तस्तु नित्यश्रुतपरिक्रयादि अशक्तिपक्षे न, नित्यानित्यसंयोगविरोधदोषात्। लोके तु मानान्तरादनित्यतास्तु । एवं चान्यकृत्यव्यवहितं स्वकृतिसाध्यं कार्यं स्वतो नियोज्योऽवैति । वरणादिश्रुतेस्तु अन्यकृत्यन्तर्भावः ।
?R
?R कर्तृत्वेत्यृत्विजां नापूर्वफले विधेरधिकृतगतफलाक्षेपोक्तेः फलंच पुरुषार्थत्वादिति । स्वामिनो यत्प्रयोजककर्तृत्वमुक्तं तदृत्विक्प्रेरणामात्रविवक्षया स्वाम्येव स्वतन्त्रः । ऋत्विजोऽपि कर्तृननुग्राहकान् करोतीति तेषामेव याजनम्। क्रत्वर्थहिंसायां वैधी स्वामिप्रवृत्तिः । ऋत्विक् प्रवृत्त्यन्तेति नर्त्विजां निषेधातिक्रमः ।
?R लघ्व्यां वचोभेदेन बृहत्युक्त एव राद्धान्तः, अनियमपक्षे युक्तिः
?Rपरिक्रयत्वेनाश्रुतेरुभयथा च कर्तृत्वादिति । अयं च पक्षस्तत्त्वतो दक्षिणानुपसंहारे यत्र च दक्षिणा न श्रुता ।
?R ननु यत्र दक्षिणाद्यश्रुतिः तत्र स्वकृतिमात्रनियम एव । तन्न । दक्षिणाद्यश्रुतावपि यत्र स्वतोऽन्यतो वा कुर्यादिति श्रुतिः तदभिप्रेत्यानियमोक्तिः ।
?Rनानियमोऽत्र । दक्षिणाश्रुतिरेव परिक्रयश्रुतिः; दक्षकरी हि दक्षिणेत्युच्यते ।
?R ?R?0 तत्रार्थात् कर्तृपरिमाणं स्यात्
?R उक्ते अन्यकर्तृत्वे अन्यकर्तृसंख्या ’ चिन्तेति संगतिः । पूर्वः पक्षः । नात्र कर्तृसंख्यानियमः । कार्यार्थं ह्यन्योपादानम् । अतो यावतोपात्तेन कार्यं शक्यं तावदुपादेयम् । न चाल्पोपादाने आख्यावरणयोर्हानिः । एकस्यापि नानानामत्वं वृक्षतरुवत् । एकस्यापि तत्तत्कर्मार्थतया वरणभेदः । नन्वन्यायोनेकशब्दत्वं वृक्षादौ त्वगत्या । तन्न । तदिहाप्युपादानलाघवादस्तु ।
?R राद्धान्तस्तु ऋत्विजामलौकिकानां वरणादिभेदेनोत्पत्तौ संज्ञाभेदाः श्रुताः संज्ञिभेदापादकाः । संज्ञा चोत्पत्तिसंयोगादितिनयात् । तत्र कर्मसंज्ञि इह नर इति भेदः । मानान्तरतस्तु संज्ञ्येकत्वे वृक्षादावनेकशब्दत्वं श्रुतसंज्ञिभेदादुपादाने गौरवम् । किंच वरणान्तरावरुद्धे न वरणान्तरनिवेश इति गुणान्तरनयादपि भेदः । भाष्ये एषां वरणे संकीर्तनं न विधिः । न चानुवादः । अतः षोडशत्वं सङ्ख्यार्थमिति तदेवं व्याख्येयम् । न वरणविधिमात्रं किंतु यावद्वरणं वरणीयसंख्याप्राप्त्यर्थमपि ।
?R
?R लघ्व्यां ब्राह्मादिकर्मनिमित्ता ब्रह्मादिसंज्ञाः । वरणविधेस्तद्वरणसंस्कृतब्रह्मादिकर्मभिः ब्रह्मत्वाद्युत्पत्ति’ रेकस्यापीत्यर्थात्कर्तृसंख्येति । अत्र राद्धान्तः - वरणाद्युत्पाद्यं ब्रह्मादि पूर्वसिद्धं ब्रह्मादेः कर्मश्रुतेरित्युत्पादकवरणभेदाद्यावद्वरणं नर भेदः ।
?R
?R ?R ?R?0चमसाध्वर्यवश्च तैर्व्यपदेशात् ?R?0 ?R
?R उक्ते षोडशानामृत्विकत्वे चमसाध्वर्यवोऽपि त एवेत्युत्थितेः संगतिः पूर्वपक्षः
?R। चमसाध्वर्यून् वृणीत इति वरणभेदादपि न भेदः । योगादध्वर्युपुरुषत्वं च चमसाध्वर्यव इत्येवं, नान्ये । न च योगादपि संज्ञातोऽन्यत्वं होतृकाणामित्यादि संबन्धश्रुतिः कथंचिदन्योन्यान्वयादस्तु ।
?R राद्धान्तस्तु सर्व एव ऋत्विजः षष्ठ्यन्तनिर्दिष्टाः । न च षष्ट्यन्तनिर्दिष्टानां मिथोऽन्वयः । समत्वात् । यथा " ?Rचैत्रस्य भ्राता मैत्रस्य भ्राता " ?Rइति चैत्रमैत्रान्यधीरिति सर्वे षष्ट्यन्तेभ्योऽन्ये चमसाध्वर्यवः न योगतस्त एव। वरणोत्पाद्यत्वे च संज्ञा भेदात्संज्ञिभेदः । नेयं लौकिकाख्या । येन योगतः’ स्यात् ।
?R लघ्व्यामुपक्रममात्रं तत्वम् । वरणभेदादन्यत्वात् । वरणे च संज्ञाभेदात्संज्ञिभेदः । सम्बन्धितया च भेदमुक्त्वा तत्सम्बन्धित्वात्तेनैव वरणीयत्वं न स्वामिनेत्युक्तम् । प्रयोजनान्तरमुपक्रममात्रस्य । भट्टस्तु यद्यपि स्वामिना व्रियते तत्तदाज्ञाकरणाय तु वरणात्तदीयत्वव्यपदेश इत्याह-तन्न तदा हि वरणक्रियागर्भः सम्बन्धः स्वामिनैव स्यादिति । न्यायतो गुरोरनुष्ठानोक्तिः । यदि च वचनादन्यथानुष्ठानं न नयहानिः ।
?R ?R?0 उत्पत्तौ तु बहुश्रुतेः
?R उक्तेऽन्यत्वे किं बहव उत नेति चिंतेति संगतिः पूर्वपक्षः । चमसाध्वर्यून् वृणीत इति श्रुतमपि बहुत्वमविवक्षितं उद्देश्यगतत्वादित्यनियतसंख्यता । ननूत्पाद्योद्देश्ये उपादानापेक्षायां संख्याविवक्षा युक्ता । मैवं, वरणं प्रत्यनुपादेये न वरणे संख्या विवक्षितेति शङ्कानिरासार्थोऽयं योगः । राद्धान्तस्तु क्रत्वर्थोपादेयतापि वरणोत्पाद्यतयैवेति तत्रापेक्षासंक्रान्तेस्तत्रैव विवक्षा । भट्टेनाधिकरणमकृतमपि गुरुणा पूर्वपक्षसंभवात्कृतम् ।
?R ?R?0 दशत्वम्?R?0
?R उक्ते बहुत्वे तद्भेदचिन्तेति संगतिः पूर्वपक्षः । कपिञ्जल नयादेते त्रयः बहुत्वाभेदादनियम इति उपक्रममात्रम् । ननु कारणात्रित्वातिक्रमेऽपि कपिञ्जलनय एवोक्तः । इह दशचमसाध्वर्यव इति वेदे व्यपदेशः कारणमिति । तेन ’ गतार्थता मैवं विकृतौ निर्देशात्र प्रकृतौ न्यायनिश्चितं त्रित्वं हेयम् ।
?R राद्धान्तस्तु न निर्देशे शब्दार्थबाधोन्यायतः प्रकृतावुत्पत्तौ च दशत्वे विकृतौ सिद्धवन्निर्देश इति दशत्वम् ।
?R लघ्व्यां दशदशैकैकं चमसमनुर्पसप्रन्तीति दशत्वार्थमुक्तं तदेवं सिद्धे। दशत्वे प्रतिचमसं दशविधिः शक्यः । यद्वा उत्तरांशपाठात्पूर्वांशो दश चमसाध्वर्यव इत्युपलक्षितः ।
?R ?R?0 शमिता च शब्दभेदात्
?R संज्ञा भेदाच्चमसाध्वर्युवच्छमितापि भिन्न इत्युत्थितेः संगतिः पूर्वपक्षः ।
?Rएकस्यानेकशब्दत्वमन्याय्यम् " ?Rशमितारमुपनयेत् " ?Rइति संज्ञान्तरम् । अब्राह्मणशङ्का च लिङ्गं ऋत्विजां ब्राह्मणत्वात् । किं चाध्वर्य्वादिष्वन्यत्र व्यग्रेषु “?Rशमिता पशुं कण्ठे गृह्णातीति " ?Rश्रुतेरप्यन्यता । राद्धान्तस्तु । उत्पत्तौ हि संज्ञा अलौकिकार्थे श्रुता अर्थान्यत्वे हेतुः । अस्य तु वरणाद्य-श्रुतेः उत्पत्त्यश्रुतौ क्लृप्तप्रयोगेन पशुं शमयतीत्येव प्रकृतान्यतमे शब्दोऽयमिति नानेकशब्दत्वदोषः। आध्वर्यवसमाख्यानाच्च शामित्रमध्वर्योरेवेत्यध्वर्युरेव शमितेति स्थिते लिङ्गमेवं यद्यब्राह्मणशङ्का प्रकरणात् स्वामिनि । अन्यव्यग्रत्वं सर्वाध्वर्युपुरुषाणामेकदेत्यसंभवि । यदि ब्राह्मणो हिंसानिच्छुः तर्हि अधिकदानदाक्षिण्यादिना प्रवर्त्यः । यदि त्वसत्येकहेत्वन्तरे याज्ञिका अन्येन पशुहिंसां कारयन्ति तन्मोहादस्तु ।
?R?0 ?R उपगाश्च लिङ्गदर्शनात्
?R गतनयातिदेशात्संगतिः पूर्वपक्षः । यद्यपि यौगिकतोत्पत्य श्रुतिश्चोपगातृणां
?Rतथापि गातृणामुपगा इत्युपगानयोगादुद्गात्रन्वयप्रतीतेः नर्त्विगन्तरस्यर्त्विगित्यृत्विग्भ्योन्ये उपगाश्चमसाध्वर्यव इव होतृकाणामित्यादि श्रुतेः ।
?R राद्धान्तस्तु । इहाप्युत्पत्त्य श्रुतेर्योगसंभवे च ऋत्विक्ष्वेवायमुपगशब्दः । उपचितगानकारित्वयोगाच्च न स्वामिकर्मकरत्वसम्बन्धधीरिति नान्यत्वम् । अध्वर्योः उपगाननिषेधश्च लिङ्गम् । लघ्व्यां योगान्तरं, उत्पत्य श्रुतौ योगे च सति न शब्दभेदमात्राद्भेद इति पूर्वोक्तमेव लिङ्गमुक्त्वा दृढीकृतम् ।
?R ?R ?R?0 विक्रयी
?R उक्तापवादात्संगतिः पूर्वपक्षः । यद्यपि विक्रयी विनियोगतो नाङ्गं
नार्त्विजः तथापि क्रयाक्षिप्तो हि ऋत्विक्कर्तृकः न हि विक्रयं विना क्रयसिद्धिः। निषिद्धे च सोमविक्रये स्वतः प्रवृत्तो दुर्लभ इति क्रयोपादानशेषो विक्रयोऽप्यङ्गम्। नित्यक्रयश्रुतेर्विक्रयान्तर्भावपर्यन्तत्वात् श्रुत्युपात्त उपादानशेष इति न विक्रयी अन्यः ।
?R राद्धान्तस्तु । अतिक्रान्तनिषेधो लोभप्रवृत्तो नित्यमस्तीति न क्रयनित्यतार्थो विक्रयान्तर्भाव इति न धनार्जनवदाक्षेपः । किं च शूद्रादेश्च सर्वविक्रयानिषेधादनति क्रमेणापि प्रवृत्तिलाभ इत्यन्यः सोमविक्रयी । यद्यतिक्रान्तनिषेधः ऋत्विगपि सोमविक्रयी; तदा ऋत्विक् संस्काराद्धीयत इत्यन्य एव ।
?R ?R?0 कर्मकार्यात् सर्वेषामृत्विकत्वमविशेषात्
?R ऋत्विग्भ्यो विक्रय्यन्य इत्युक्ते - के ते ऋत्विज इति चिन्तेति संगतिः पूर्वपक्षः राद्धान्ताक्षेपविधया । उत्पत्तिनिमित्तेऽप्यृत्विक्शब्दे चमसाध्वर्यूणामप्युत्पत्तिश्रुतेः ऋत्विक्त्वं मा भूदिति सप्तदशर्त्विज इति परिसंख्यैवोपेया । अथ सैवेष्टा, ऋतुयजननिमित्तनिरासो व्यर्थः । तन्निमित्तत्वेऽपि
?Rपरिसंख्यैव सप्तदशेति । नोचेदुत्पत्तितः ऋतुयजनतो वा सर्वे ऋत्विजः । राद्धान्तस्तु कस्यचिद्वर्जनार्था हि परिसङ्ख्या नेह वर्ज्यमस्ति । उत्पत्तिनिमित्ते ऋत्विक्शब्दे चोदनैकगम्यार्थे यत्र वेदे प्रयोगः तेषामेव शब्दार्थतेति न परिसंख्यापेक्षा । ऋतुयजननिमित्ते ऋत्विक्शब्दे सर्वेषां ऋतुयजनाद्वर्ज्यसंभवे परिसंख्यावकाशः । न तु सा शक्या, शब्दप्रवृत्तेः सति निमित्ते वचनावार्यत्वात्। लघ्व्यामधिकं - ऋतुयजननिमित्तत्वे शब्दार्थपरिसंख्याने ऋत्विक्कार्येऽपि श्रुतेः परिसंख्या न युक्ता न चावयुत्यानुवादः महासंख्याश्रुतौ ह्यवान्तरसंख्याश्रुतिरवयुत्यानुवादः । नेह महासंख्याश्रुतिः। स्वामिकृतवरणनिमित्ततोपगमाच्च न चमसाध्वर्यूणामृत्विक्त्वापत्तिः इति । उत्पत्तित एव तावतामृत्विक्त्वे सप्तदशोक्तिरनुवादः । षोडशानामृत्विक्त्वे उत्पत्तितो यथा सप्तदशत्वं तथा " ?Rस्वामिसप्तदशा " ?Rइत्यत्र वक्ष्यते ।
?R भट्टस्तु न वरणोत्पाद्यमलौकिकमृत्विक्त्वं, किं तु तत्कर्म योगित्वं लौकिकमेव । ऋत्विक्शब्देन तु कर्मार्थवरणभरणनियमादृत्विक्शब्दो वरणादिमत्युपसंहृत इति । भाष्ये वरणकार्यतोक्तिर्वरणेनादेयत्वात् आदाने करोतिरित्याह। तन्न । प्राग्वरणादृत्विक्शब्दाप्रयोगाद्वरणे जाते च प्रयोगाद्वरणाभिधेयनियमादृष्टानुविद्धानतिमदर्थ ऋत्विक्शब्दो न लौकिकार्थो यूपादिवदित्यनुसंधेयः ॥
?R ?R?0 नियमः
?R पूर्वोक्त ऋत्विक्त्वस्य विशेषावस्थापनमात्रमत्रेति संगतिः । पूर्वपक्षः के ते ऋत्विज इत्यज्ञानमेव उत्पाद्यसंज्ञेयमलौकिकी वेदे प्रयोगतो ज्ञेयार्थेति प्राक्प्रयोगादज्ञानमेष, ऋतुयजनमात्रादृत्विक्त्वे सर्वेषामृत्विक्त्वं स्यात् न ज्ञायते वा ।
?R राद्धान्तस्तु के ते इति सन्देहे " ?Rऋत्विग्भ्यो दक्षिणां दद्यात् " ?Rइति प्रक्रम्य
?Rयान् दक्षिणाविशेषविधिपरे वाक्ये वेद आह ते षोडश सत्रे यजमानानार्त्विजे विधाय तत्कर्मकरतया यजमानेष्वेव चोदकागतदीक्षाकर्तृभेदविधिपरे वाक्ये यान् शब्दान्प्रयुङ्क्ते तत्तच्छब्दा एवार्त्विज इति अध्वर्य्वादेऋत्विक्त्वम् ।
?R
?R लघ्व्यां यदुक्तं स्वामिवरणोत्पाद्यमृत्विक्त्वं तदेव । दक्षिणादानेन सत्रे दीक्षाकर्तृविधिपरे वाक्ये च प्रयोगेण साधितमित्येवं गतत्रयशेषो न नयान्तरमित्युक्तम् ।
?R
?R ?R ?R?0स्वामि-सप्तदशाः
?R उक्तं सप्तदशत्वं स्वामिना उतान्येनेति चिन्तेति संगतिः । पूर्वः पक्षः, स्वामिनोऽन्ये न भृत्याः । कर्मकर्तृतावान्तरोपाधेरवान्तरसंख्येयं न स्वामिनेत्यन्येन । भाष्ये च सदस्येनेत्यन्योपलक्षणपरम् । तस्मिन् हि वरणोत्पाद्यत्वेऽपि न विशेषतोऽध्वर्य्वादाविवर्त्विक्शब्द इति तेनाप्यन्येन वा लाक्षणिक एव भूम्ना सप्तः दशसु ऋत्विक्शब्द इति स वा चमसाध्वर्युष्वेको वाऽन्यः । राद्धान्तस्तु यागकर्तृत्वेनेयं संख्या भूम्ना च लक्षणया सप्तदशसु ऋत्विक् शब्दः । न च कर्मकरत्वे नैकचमसाध्वर्युणा लक्षणेयम् । न हि तुल्येभ्य एकं विच्छिद्य लक्षणा न च स्वामिवृतत्वेन एकसदस्यान्तर्भावाल्लक्षण न हि ब्रह्मादिकः सदस्यः दक्षिणा ह्यानतौ प्रधानहेतुः । वरणं - तु तदनुग्रहः । वरण - मात्रं तु सदस्यस्य श्रुतं न दक्षिणा, ब्रह्मणो दक्षिणोक्ता न वरणं ब्रह्मशब्दोल्लेखेन श्रुतम् । सदस्यशब्दः सदसि भव इति योगाद् ब्रह्मणि प्रवृत्त’ इति प्रधानहेतुः। दक्षिणवतो ब्रह्मण एवेदं वरणम् । स्वामिवृत त्वेनापि संख्या न चमसाध्वर्यूणां, स्वाम्यवृत्तत्वात् । अतो नित्यकर्मकर्तृत्वस्यैवोद्भूतेस्तदन्तर्भावादेवेयं लक्षणया संख्या । चमसाध्वर्योरशक्तावेव कर्तृत्वात् । अतः षोडशैव मुख्या ऋत्विजः । लघ्व्यामधिकं भाष्ये यद्यागकर्तृत्वेन
?Rसप्तदशत्वमुक्तं तद्वरणोत्पाद्यतयैवर्त्विक्त्वं न ऋतु - यजनादिति स्थित एव लक्षणार्थ यजति कर्तृत्वमेवमुक्तम् ।
?R
?R भट्टस्तु सदस्यं ब्रह्मणो भिन्नमाह - न त्वसावृत्विगिति न तेन सप्तदशता। वरणोऽप्यृतुयजनादृत्विक्त्वम् । अयं तु प्रत्यवेक्षको न पदार्थद्वारा यजते। स्वामिनस्तु वरणमात्रं नास्ति । अन्यत्सर्वमस्तीति युक्तमृत्विक्त्वम्, तदुक्तं ।
?R?0 क्रत्वङ्गत्वेन नैवेह सदस्यस्य निराक्रियाः ।
?R?0 चमसाध्वर्युवत्त्वेष नर्त्विगित्यभिधीयते ॥
?R भाष्यकृतस्त्वृत्विङ्निरसनपरस्यातिरभसवचनमुपेक्षणीयमिति भट्टः । तन्न, ऋतौ यजतीत्येव निपातस्मृतिः साधुत्वार्था न यौगिकत्वार्था सत्यपि योगे स्वाम्यवृते अप्रयोगात् ‘। स्वाम्यपि न मुख्य ऋत्विक् । सदस्यो ब्रह्मेति प्रागुक्तं याज्ञिकैरधिकसदस्योपादानं मोहात् ।
?R
?R ?R?0ते सर्वार्थाः
?R ऋत्विक्सूक्तेषु तत्कर्मचिन्तेति संगतिः पूर्वपक्षः । प्रकरणे यावद्वृतैः शक्यं तावदनियमान्तैः कार्यम् ?R। यावत्कार्यार्थं सहायत्वेनोपादानाद्वचनसमाख्ययोः पक्षप्राप्तानुवादता ।
?R राद्धान्तस्तु न विधिपरत्वसंभवे नित्यमनुवादतैव पक्षेऽन्यप्राप्तेर्नियमार्थो विधिः । न च नियमेऽपि सहायानां कार्यार्थताहानिः । अग्नयश्च स्वकालत्वादिति तु भिन्नेन सूत्रेणोक्तमिति’ ?R। आहिताग्नेरधिकाराद्बहिः सर्वार्थमग्न्युत्पादनमाक्षिप्य समर्थ्यते । तत्राक्षेपः यथैवाधिकृतः पुरोडाशाद्युत्पादयति । तथाग्नीनप्यङ्गभूतानिति युक्तम्। समर्थनं तु स्वकालत्वादाधानस्यान्तः प्रयोगेऽस्यानुष्ठानाशक्तेराहिताग्नेरधिकारः । इह
?Rकिंचिदाक्षिप्य समर्थ्य किंचित्साम्यात् दृष्टान्तीकृतम् - स्वकालतया हि सर्वार्थता सर्वक्रत्वर्थतयैवोत्पत्तिः अग्नीनाम् । ऋत्विजां त्वेकक्रतावेव यावत्कार्यार्थत्वं, तद्वचनान्निरस्तमिति अग्निसर्वार्थत्वसाम्यं न दृष्टान्त। लघ्व्यामग्निदृष्टान्तसाम्यादृत्विजामपि यावत्क्रत्वर्थता शङ्किता, युक्तिश्च यावत्सहायाधीनकर्मार्थता लिङ्गाद्विध्यपेक्षितेति । प्रकरणबाधाद्यावद्विध्यर्थता । राद्धान्तस्तु प्रकरणेऽपि लिङ्गविध्यपेक्षयोः संभवे न ग्राहकार्थताहानं ग्राहकीयमपि वचनं समाख्यानियतकार्यं । लिङ्गाच्च कार्येषूपकर्तृनियमे समाख्यापि व्यवस्थाकरी न बाध्या । अग्न्युत्पत्ति स्त्वाधानस्य स्वकालत्वात्सर्वक्रत्वर्था । आधानमपि तन्मुखेन सर्वार्थम् न साक्षात् । न चाग्निसाध्यमात्रार्था अग्नयः । अग्निमुपनिधाय स्तुवन्तीत्येतदर्थत्वनिषेधान्नाग्निसाम्यमृत्विजामित्युक्तम् ।
?R भट्टेन अग्नयस्तु स्वकालत्वादिति सूत्रेण चिंतान्तरं कृतं, अग्नयः प्रकृत्यर्था अनारभ्याधीतत्वादिति पूर्वपक्षिते प्रकृतिविकृत्यर्था इति राद्धान्तितम्। स्वकालत्वात् - स्वतन्त्रोत्पत्तित्वादित्यर्थः । यस्या विकृतेर्न चोदकापेक्षा होमता तत्राद्विरुक्ते स्तदर्थता । तदाह -
?R प्राप्नुवन्तीदृशा भावा न स्वतन्त्राः कथञ्चन ।
?R शास्त्रेण चोदिता ये हि दर्विहोमाः स्वरूपतः ।
?R तेष्वेवाहवनीयं स्यात् न यागेष्वप्यचोदनात् ।
?Rयस्यास्तु अतिदेशापेक्षा होमता तत्र द्विरुक्तिः । तदाह -
?R ततश्चाहवनीयेन सहैवास्यातिदेशनात् ।
?R प्रकृतौ वा द्विरुक्तत्वात् इत्ययं निश्चयो भवेत् ॥
?R अस्त्वेष नयः न तु दृष्टान्तत्वेनान्तरा । न हि अद्विरुक्तेः ऋत्विजां यावत्सहायकार्यार्थता । किन्तु लिङ्गात् । अथ किञ्चित्साम्यात् दृष्टान्तता । सा च
?Rन भट्टोक्तेति टीकयोरेवोक्तेति दिक् ।
?R ?R?0 ?R तस्योपदेशसमाख्यानेन निर्देशः
?R उक्ते समाख्यातो नियमे अपवादोऽयमिति सङ्गतिः । पूर्वपक्षः - न वचनात् विशेषसमाख्यया च सामान्यसमाख्याबाधः । सा हि कार्यान्तरार्थमुपेया। बाधिता च न मुख्यार्थेति कार्यान्तरेऽपि न स्यात् ।
?R राद्धान्तस्तु ब्राह्मणग्रामवद्भूम्ना लक्षणयापि कार्यान्तरार्थास्तु । विशेषसमाख्या आशुधीहेतुः वचनं चेति सामान्यसमाख्याबाधः । लिङ्गं भाष्ये व्यक्तम् । सामान्याख्यायाः एतल्लिङ्गं, विशेषाख्यायाः किञ्चिदन्यद् द्रष्टव्यमिति भट्टेनोक्तम् । तद्यदि सामान्याख्यया निश्चितं स्यात् तदा भट्टोक्तमस्तु ।
?R ?R?0 प्रैषा
?R वचनं बलीय इत्युक्ते वचनार्थचिंतेयमिति संगतिः पूर्वपक्षः । प्रत्युद्देशं वाक्यपरिसमाप्तेः । प्रैषमात्रेऽनुवचनमात्रे च मैत्रावरुणविधिः । न च शब्दात्सहितोद्देश्यता, च शब्दस्य ज्ञातान्वयानुवादत्वात् ।
?R राद्धान्तस्तु - सहचरिता सहचरितयोः सहचरिते संप्रत्ययो भवतीति नयात् सहचरितप्रैषानुवचने सन्निहिते उद्देश्ये च शब्दस्त्वेव समुच्चया?Rवस्थाद्योतकः। पूर्वं समुच्चितयोरन्वितयोरपि समुच्चये सुतरां द्योतको भवति । भट्टेन सोमप्रकरण इयं मैत्रावरुणश्रुतिः । भाष्ये तु प्रदर्शनार्थं दैक्षश्रुतिरुक्ता । तत्र हि सर्वे प्रैषा आध्वर्यवाः सर्वानुवचनानां च हौत्रसमाख्यानमित्युक्तम् । यद्येवं न्यायनिष्ठस्य प्रदर्शनमस्तु ।
?R?0 ?Rचमसांश्चमसाध्वर्यवस्समाख्यातात्
?R विशेषाख्या बलीयसीत्युक्तं । तद्वदिहेत्युत्थितेः संगतिः पूर्वपक्षः चमसेध्वर्युवत्त इत्येवं चमसे विशेषसमाख्या । अन्यत्र चमसेभ्य आध्वर्यवाख्येति चमसाध्वर्यव एव चमसैर्जुह्वति एवं तेऽध्वर्युवत् अध्वर्योर्ह्यन्यता होमादिकार्यं दृष्टमिति
?Rतेनाध्वर्युवत्त्वम् राद्धान्तः वरणभरणभेदोत्पाद्ये अध्वर्युशब्दो मुख्य इति नेहापि तस्य शक्तिरितीह गौणता चमसेऽध्वर्युवदित्येवम् । यदि चाध्वर्युरेव चमसैर्न जुहोतीति तदा न ते चमसेऽध्वर्युवदित्यध्वर्युस्तत्र जुहोतीति विशेषाख्ययैव, अध्वर्यो होमः । अध्वर्यावन्यत्रा व्यग्रे अध्वर्युवज्जुहोतीत्येवं विशेषसमाख्योपपत्तिः न चान्यत्र यथाध्वर्युस्तथैते चमस इत्येवमन्वयः। अन्यापेक्षत्वापत्तेः, लिङ्गमेवं, वषट्कर्त्रे दानं भक्षार्थम् । तदन्येन हृते चमसाध्वर्युद्वारा भक्षार्थ दानमञ्जसेति । चमसाध्वर्युतोऽन्येनाध्वर्युणा हुत इति धीः ।
?R ?R?0 वेदोपदेशात्
?R इह तर्हि विशेषसमाख्या बलवतीत्युत्थितेः । पूर्वपक्षः । श्येन औद्गात्रसमाख्यातो विशेषसमाख्यया साङ्ग उद्गात्रा कार्यः । तथैव वाजपेयोऽध्वर्युणा चोदकागतनानर्त्विग्बाधो वैकृताख्यया । राद्धान्तः प्राकृतः क्लृप्तो नानर्त्विगन्वयः । विकृतौ लौकिकाख्यातः कल्प्य इति क्लृप्तेन कल्प्यबाधः। समाख्या चोपदिष्टेषु धर्मेष्वस्तु । न चात्र गुणमुख्यव्यतिक्रमनयविरोधः। तत्र हि प्रधानवेदव्यपदेश्यान्यङ्गानीति प्रधानवेदधर्मोऽङ्गेषूक्तः । इह कल्प्या प्रधानसमाख्या क्लृप्ताङ्गकर्त्रन्वयादबलेत्युक्तम् ।
?R?0 इति महोपाध्यायभवनाथमिश्रविरचिते
?R?0 मीमांसानयविवेके तृतीयस्य
?R?0 अध्यायस्य सप्तमः
?R?0 पादः।
?R
?R ?R?0 अष्टमः पादः
?R?0 स्वामिकर्म
?R इहाव्यक्तविरोधिसमाख्यातः परिक्रयचिन्तेति पादान्तरमनन्तरं च । पूर्वपक्षः,
?Rआध्वर्यवसमाख्याते । काण्डे परिक्रयाम्नानादध्वर्युकर्तृकोऽसौ न च स्वाम्यर्थं न कर्मकरस्य धनव्ययः, अधिकधनलोभादल्पव्ययोऽपि लोके दृष्टः । राद्धान्तः । अधिकारश्रुत्या स्वामिनः सर्वत्र कर्तृत्वमुक्तम् । अतः प्रधानार्थविरोधात्समाख्याबाधेन याजमान एव परिक्रयः । अध्वर्युक्रीते तेन तु कृतं न स्वामिना कृतं कारितं वा । ननु लौकिकीमध्वर्युप्रयुक्तिमाश्रित्य स्वामिकारितताऽस्तु । तन्न । यावच्छ्रुतेन हि शास्त्रार्थः । न चाध्वर्योः परिक्रयान्तरं समेनाधिकेन वा धनेन श्रुतम् । न च यावच्छ्रुतदक्षिणयाऽन्यपरिक्रयार्थमध्वर्युं प्रतिप्रयोजकता । यदि ह्यृत्विजां परिक्रयो वचनात्स्यात्तदा दक्षिणान्तरमपि कल्प्यम् । समाख्यया तु कल्प्यो विधिः सोऽधिकारश्रुत्यस्वरसाद्बाध्यः । समाख्या ब्राह्मणग्रामवदस्तु ।
?R
?R लघ्व्यामधिकं - परिक्रयान्तरे अध्वर्योः श्रुतपरिक्रयादृष्टार्थता, अनपेक्षेण तेनानतेरनपेक्षत्वश्रुतिबाधो वा । वचनात्त्वन्येनापि परिक्रयः ।
?R यथायं एतामिष्टकामुपदध्यात्सत्रीन्वरान् दद्यादिति ।
?R ?R?0संस्कारास्तु पुरुषसामर्थ्ये कर्मवद्व्ययवतिष्ठेरन्
?R इह समाख्यया नाधिकारश्रुतिविरोध इत्युत्थितेः संगतिः पूर्वपक्षः - क्रीतैःऋत्विग्भिः कृता वपनादयः स्वामिनैव कृता इत्याध्वर्यवसमाख्यया आध्वर्यवाः । एवं चैतद्राद्धान्ते स्वामिसंस्कारत्वे स्थिते फलसंयोगादित्यत्राधिकृतावस्थसंस्कारत्वमुक्तम् । तत्रापि स्वामिसंस्कारत्वे स्थिते चिन्तेयमिति ।
?R राद्धान्तः । नृसंस्कारा एते लोकतः। एषामध्वर्युसंस्कारत्वेऽधिकारश्रुतिविरोधः । स्वामिन एष्वकर्तृत्वात् । परिक्रयद्वारा
?Rहि कर्तृत्वम् । न च क्रीतसंस्कारार्थः, क्रयः । कर्म कर्तु हि क्रयात्कर्तुरुपादानम् न संस्कर्तुमिति न क्रयद्वारा क्रीतसंस्कारे स्वामी कर्तेत्यधिकारश्रुतिविरोधात् समाख्याबाधः । ननु कर्म कर्तुं योग्यतार्थसंस्कारार्थोऽपि क्रयः । मैवम् । सिद्धे क्रीतसंस्कारे तथा संस्कारमात्रं तु श्रुतं । प्रधानकर्तुरेवेति न योग्यतार्थतापि क्रयस्य कल्प्या । यत्रर्त्विजामेव संस्कारश्रुतिः । तत्र संस्कृतर्त्विक्कर्तृक पदार्थार्थत्वेन ’ ?Rक्रयः कल्प्यते । यथोपवासं वक्ष्यति ऋत्विजाम्।
?R
?R नन्वधिकारश्रुतिसमाख्ययोरनुग्रहायोभयसंस्कारताऽस्तु । तन्न । साधारण्ये हि नर्त्विक्कृतः स्वामिना कृतः कारितो वेत्यधिकारश्रुतिविरोधः । ऋत्विक्षु तदर्थेऽपि क्रय इत्यपि कल्प्यम् । अकल्पनेन तु न स्वामिनाकारिततेति कल्पनां विनैव स्वामिसंस्कारकता । नन्विडाभक्षणवत्स्वयं करोतु ऋत्विजः कारयतु। तन्न, भक्षो द्रव्यसंस्कारार्थः । तत्र स्वामिन ऋत्विजां च कर्तृत्वेनान्वय इति क्रयस्तदर्थः, तेन कारितता । इह तु प्राधान्येनान्वयेन कारिततेति भेदः ।
?Rकिञ्चेडाभक्षे ?R पञ्चानामपि वचनात्साधारण्यम् । इह न तथा वचनम् ।
?Rलघ्व्यामधिकं । यद्यप्याध्वर्यवाख्यायां प्रत्ययार्थकर्मप्राधान्यं पाचकवत् । अतः सा गुणभूतकर्तृ नियमे शक्ता न संस्कार्यनियमे । तथापि संस्कारे स्वाम्यपि न श्रूयत इति ऋत्विक्स्वामिनोः समानोऽयं विधिरस्त्विति पूर्वपक्षिते बृहत्युक्त एव राद्धान्तः । न च स्वामिसंस्कार एवाध्वर्योः कर्तृत्वशङ्का । न हि वचनं विनाऽऽचारविरुद्धमध्वर्युकर्तृकं केशश्मश्रुवपने आचारविरुद्धमध्वर्योः कर्तृत्वम्। अञ्जनादौ च कर्तृत्वे परस्मैपदादाङ्गः इत्यादि न स्यात् । एतच्च गुरुणा न शङ्कितम् अध्वर्युसंस्कारनिरासार्थेऽस्मिन्ननुपयोगात् भट्टेन प्रपञ्चरुचिनोक्तं स्वामिन एव यथाहं स्वतः परतश्च कर्तृत्वम् । भाष्ये प्रपञ्चो व्यक्तः ।
?R ?R?0 तपश्च
?R उक्तनयातिदेशात्संगतिः पूर्वपक्षः । क्लेशरूपमनशनादीति लोकसिद्धं, क्लेशापनुत्यर्थत्वे क्रयो दृष्टार्थ इति तत्रर्त्विग्द्वारा कर्तृत्वे नाधिकारश्रुतिविरोध इति न समाख्याबाधः ।
?R
?R राद्धान्तः । क्लेशरूपत्वेऽप्यस्य नृसंस्कारतेत्युक्तं भाष्ये । न च संस्कर्तुं क्रय इति वपनादिवद्याजमानता। यत्तूपवासाद्यृत्विजामेव, वचनात्तत्तेषामस्तु ।
?R लघ्व्यां राद्धान्तः - शंयुनयान्निषिद्धक्रियादुःखहेतुः । सोपवासादिभिर्दुःखैरपैति स्वामिना दुःखं तपोऽनुभवता भोगेन दुःखहेतौ क्षपिते कर्मफलमप्रतिबद्धं सुखं लभ्यत इति तत्संस्कार एवेति स्वामिनैव कार्यम् । समाख्यया कर्तृस्थोऽयं संस्कारो नर्त्विजः । यद्यपि फलप्रतिबन्धहेतुक्षयो
न श्रुतः । तथापि योग्यतासन्निध्यपेक्षाभिः प्रतिबन्धहेतुक्षयार्थ एव संस्कारविधिः ।
?Rदुःखोत्पत्तिर्हि सामान्यतो दुःखहेतु[?Rक्षये]?R-क्षययोग्येत्ययमपेक्षितविशेषक्षयहेतुः । पक्षे संभवतोऽपि प्रतिबन्धकस्य क्षयापेक्षा । न चैवमनित्ये संस्कारकार्ये संस्कारानित्यता, कार्यानित्यत्वानिश्चये नित्यसंस्कारानुष्ठानात् । महादुःखहेतोरपि प्रतिबन्धकस्याल्पदुःखात् क्षयः शास्त्रमानात् । प्रायश्चित्तादिवत् । प्रायश्चित्ते त्वयं विशेषः। साक्षादेव महादुःखहेतुक्षयश्रुतिरिति दिक् ।
?0 ?Rएवं वा
?Rगुणत्वाच्चेत्यादिसूत्रेण नयान्तरम् । वचनादृत्विक्संस्कार इत्युक्ते तद्विशेषचिन्तेति संगतिः । पूर्वपक्षः । उक्तं वाजपेये उपदिष्टमध्वर्युणा कार्यमिति उपदिष्टाश्च हिरण्यस्रगादयः। तेन तेऽप्याध्वर्यवा एव न सर्वर्त्विजाम् ।
?Rराद्धान्तः । आध्वर्यवसमाख्यया हि अध्वर्योर्गुणत्वेन नियमः। पाचकादिवत्प्रत्ययार्थकर्मप्राधान्याद्धिरण्यस्रगादेर्नरं प्रति गुणत्वेनोपदेशः। विशेषणत्वेन श्रुतेः । अलङ्कारस्वभावत्वाच्च प्रतिप्रधानं गुणवृत्तिनियमात् सर्वर्त्विजां हिरण्यस्रगादिः । प्रधानत्वपूर्वकं च कर्तृत्वम् । यथाप्रधानं न समाख्यया नियम्यं प्राधान्यबाधापत्तेः । यत्र कर्तृतयैव नरान्वयः यथा आसपुटादौ तत्रास्तु समाख्यानियमः ।
?Rलघ्व्यां समाख्यया विशिष्टकर्तृनियमे तदनुरोधाद्विशिष्टकर्तृसंस्कारतेति पूर्वपक्षिते। राद्धान्तः । वचनात्सर्वर्त्विक्संस्कारे न समाख्या सङ्कोचायालमिति नैव ब्राह्मणग्रामवन्नेया परोप्याह
?Rसंस्कारत्वादतिक्रान्ते समाख्यागोचरे सति ।
?Rवचनेनर्त्विजां येन तेनैवान्येष्वपि स्थिताः ।
?0 ?Rतथा कामोऽर्थसंयोगात्
?Rगतनयातिदेशात्संगतिः । पूर्वपक्षः । सदोमानमृत्विक्कर्तृकम् । अतो यदि कामयेत वर्षेत्पर्जन्य इति नीचैः सदो मिनुयादित्युक्ते मातुरेव कामः समानकर्तृत्वश्रुतेरिति गुणकामेष्वप्यृत्विजामेवाधिकारः । राद्धान्तः । साङ्गे कर्मण्यधिकृतस्य स्वामिनः सर्वत्र प्राधान्यूमुत्सर्गत इति गुणफलमपि तस्यैव ।
?R नन्वर्त्विज आश्रयभूतो मानादिरिति न तादश्रितं फलं स्वामिनः । तन्न । गुणत्वेन कर्तृत्वेनार्त्विजोऽन्वयः । प्राधान्यं तु स्वामिन एवेति स्वाम्यर्थकर्माश्रितं फलं स्वामिन एव । एवं च भिन्नकर्तृत्वं । यदि कामयेत स्वामी तदर्त्विङ्मिनुयादिति । आत्मनेपदं चैवं सुस्थं ज्योतिष्टोमेन यजेतेति । अन्यथा
?Rस्वामिफलाभिप्रायमात्मने पदमृत्विक्फलाभिप्रायं स्यात् । गुणफलमपि प्रणाड्या प्रधानादिति यजेतेति सुस्थम् । आधान आत्मनेपदं च सुस्थम्। वचनात्त्वन्यदीयपदार्थाश्रितगुणे व्यापृतस्य फलं साधितं भाष्ये ।
?Rलघ्व्यां गुणफलेऽपि स्वामिनो व्यक्ते प्रपञ्चो वचनात्किंचिदृत्विग्गततया फलं वक्तुम् । न चर्त्विजोऽधिकारे आश्रयप्रयोक्तृत्वम् । न ह्यृत्विग्लाभः परप्रयुक्तयजिं विनेति नाश्रयप्रयोक्तृता । भट्टेन मानफलं स्वामिन इत्यत्र युक्तयन्तरमुक्तं - ङुमिञ् प्रक्षेपण इत्यस्य धातोर्ञित्वात्कर्त्रभिप्राये क्रियाफले आत्मनेपदापत्तेर्मिनुयादिति न स्यात् तदप्यस्तु ।
?0 ?Rमन्त्राश्च
?Rएतेऽपि स्वामिफलाशंसार्था इति संगतिः पूर्वपक्षः । मन्त्रवर्णात्फलाशीः ऋत्विजामेवेति ऋत्विक्कर्तृका मन्त्राः समाख्यया । राद्धान्तः लिङ्गात्स्वामिफलाशंसार्थत्वात्स्वामिकर्तृकाः। समाख्या हि लिङ्गादबला । ननु लिङ्गसमाख्ययोरनुग्रहाय मम स्वामिन इत्यध्याहारादृत्विक्कर्तृकतास्तु । तन्न । अयमेव दोषो यः परिपूर्णेऽपि वाक्येऽध्याहारः । पूर्वत्र युक्तोऽध्याहारः । यदि कामयेत स्वामीति । माने ह्यफलार्थेन स्वामी कर्तृत्वार्हः नीचैस्त्वे फलार्थेऽपि न पृथक्कर्तृकता । उत्साहार्थापि फलोक्तिर्मन्त्रे स्वामिन एवेति प्रपञ्चितं भाष्ये । लिङ्गं प्रोषितस्याग्निभ्योऽग्निसंबोधनायोपस्थानमेवंजातीयकमस्ति । प्रोषितश्चाव्यापृतावस्थो नर्त्विक्। स्वामी तु प्रोषितोऽपि स्वाम्येवेति स्वामिकर्तृकमेवेति । इदमपि तथा ।
?0 ?Rद्व्याम्नानस्यार्थवत्त्वात्
?Rद्व्याम्नातेषूभौ । उक्तैककर्तृकतापवादोऽयं इति संगतिः पूर्वपक्षः। काण्डद्वयाम्नानेप्येकार्थत्वादेककर्तृप्रयोज्यत्वेऽध्वर्युकर्तृप्रयोज्यता । तस्य
?Rकर्मकरत्वात्प्रकाश्याज्यग्रहणस्य चाध्वर्युकर्तृकत्वाच्च । तस्य च स्मरणार्थं प्रयुक्तेः ।
?R राद्धान्तः । द्वाभ्यामपि प्रयोगः । अध्वर्योः प्रयोगः स्मरणार्थः स्वामिनस्तदप्रमादार्थः । समाख्याद्वयं चैवमनुगृहीतम् । भट्टेन तु मन्त्रेष्वाध्वर्यवाख्या सामान्यं याजमानाख्या विशेष इति विशेषेण सामान्यबाधः । शङ्कितः । सोपयोगी अविरोधात् ।
?R ?R?0 ज्ञाते च वाचनं न ह्यविद्वान् विहितोऽस्ति
?R उक्ते स्वामिकर्तृके स्वामिविशेषचिन्तेति संगतिः । पूर्वपक्षः । विद्या शध्यकर्मणि विदुषोऽधिकारे स्थितेऽपि विदुषि वाचनस्यादृष्टार्थतापत्तेः अविदुषोऽप्यधिकारः । न च वाचनाङ्गशक्तेरविदुष एवाधिकारः, किं तु द्वयोः अविद्वत्पक्षे दृष्टार्थं वाचनमङ्गम् । विदुषोऽपि विद्यासाध्ये शक्तेरधिकारः। राद्धान्तस्तु - नाविदुषोऽप्यधिकारमापादयितुं शक्तं वाचनं ब्रुवत एव हि वाचनं प्रवृत्तम् । प्रवर्तने हि णिजितिशाब्दाः । दृष्टार्थता च तदनुकूलाचरणादपीति विद्वद्विषयत्वादस्यापि यस्य विदुषोऽधिकारः । तस्यैव वाचनम् ।
?R लघ्व्यां न स्वाध्यायविधिज्ञापितोऽधीतवेदस्याधिकारः;?R धर्मज्ञानं हि तस्य प्रयोजनं । जीवनाद्या एवाधिकारश्रुतय इति वाचयति इति श्रुतेरज्ञस्याधिकार इति पूर्वः पक्षः ।
?R राद्धान्तस्तु आचार्यविधिप्रयुक्तस्याध्यनस्य धर्मज्ञानं प्रयोजनमुक्तं। ज्ञानस्यानुष्ठानमिति नाविदुषोऽधिकार इत्युक्तम् । अतोऽधिकृतो ज्ञ एव वाचनीय एव । यो यत्कर्मज्ञः स तत्राधिकारी । भट्टस्त्वाधानवदनारभ्याधीतमध्ययनं न कामश्रुत्यङ्गम् । यदि स्यात् प्रयोगकालेऽप्यध्याप्येत । अध्येतृसिद्धमेव तु वेदं
?Rकर्माणी अग्निवद्गृह्णन्ति न शिक्षां प्रयुञ्जते। न चाशिक्षितो वेदो भवतीति प्राक्कर्मणः पठीतो मन्त्रोऽङ्गम् । अतो विदुष एवाधिकार इत्याह - तन्न । कामश्रुतिप्रतिप्रयोज्यत्वे हि यथोपयोगं प्रयोगकालेऽपि प्रयुक्तिः स्यात् । न च प्रागशीक्षितो न वेदः अपौरुषेयग्रन्थभेद एव हि लौकिको वेदशब्दार्थः। अग्नीस्त्वलौकिक आधानेन प्रयोगात् बहिरेव शक्यत इत्युक्तम् । अचार्यविधिप्रयुक्तिस्तु प्रयोगात्प्रागेव ।
?0 ?R याजमाने समाख्यानात् कर्माणि याजमानं स्युः
?Rवचनादिव क्लृप्त्युक्तिः, स्वामिनः समाख्ययापि द्वन्द्वक्रियास्त्वित्युत्थितेः सगंतिः । पूर्वपक्षः । आध्वर्यवाः पदार्थाः - तद्द्वंद्वता, याजमानीसामीत्यं हि द्वन्द्वता सा न पदार्थानुष्ठानात् पृथक् सिद्धा । अतो यत्र पदार्थास्तत्र सेति याजमानाख्याविशेषेशाध्वर्यवारव्यासामान्यबाधः । अतो याजमाना एव स द्वन्द्वाः पदार्थाः ।
?Rराद्धान्तः पूर्वभाविनो हि पदार्थाः । ते अनुपजातविरोधादध्वर्युकर्तृकाः। न च तन्नान्तरीयकमासन्नत्वं स्वामिना शक्यमिति तदप्याध्वर्यवम् । विशेषसमाख्या तु द्वन्द्वतां कुर्विति द्वन्द्वतास्मरणात् केषुचिदनुमन्त्रणादस्तु ।
?Rभट्टेन द्वन्द्वाङ्गगुणत्वात्स्वामिनोऽङ्गगुणनयोऽत्रोक्तः । सोप्यस्तु ।
?R ?R?0 विप्रतिषेधे करणं समवायविशेषादितरमन्यस्तेषां यतो विशेषः स्यात्
?R ऋत्विक्कर्तृकमेव कस्यर्त्विज इति चिन्तेति संगतिः पूर्वपक्षः। प्रत्यक्षश्रुतेनैककार्येणातिदिष्टबाधः । न च करणक्रियमाणानुवादिनोर्मन्त्रयोरेकं कार्यम् । अथ द्वावेकैनैकदाऽशक्यौ । तर्हि कदाचित्किंचिदेवानुष्ठानस्येति इति ।
?R राद्धान्तस्तु - एककार्यत्वाभावेऽपि विरोधे उपदिष्टमनन्यगति बलीयः अतिदिष्टं प्रकृतावेवार्थवत् ।
?R लघ्व्यां चोदकतो हौत्रस्य कर्त्रन्तराश्रुतावप्यन्यकर्तृकतास्तु। होतुरध्वर्युकर्तृकोपदेशबलीयस्त्वात् ।
?R भट्टेन चोद्यं कृत्वा निरस्तं, कालभेदादविरोधात् द्वावपि मन्त्रौ होतृकर्तृकाविति चोद्यं तदाह -
?R?0 एककालप्रयोगे हि विरोधो मन्त्रयोर्भवेत् ।
?R?0 कर्मणः प्राक्क्रियातस्तु परतश्चेतरः स्थितः ।
?R निरासस्तु क्रियमाणानुवादिनः स्मृत्यविच्छेदकार्यकस्यानुष्ठेयसंकल्पात् प्र भृत्यासमाप्ते दीर्घकालः । करणस्य कर्मादिसन्निपातात्तन्मध्यकालता । तेन नैकहोतृशक्यतेत्युक्त्वैतत्प्रपञ्चितम् । गुरुस्तु न्यायनिष्ठो विरोधं सिद्धवदूचे ।
?R ?R?0 प्रैषेषु पराधिकारात्
?R वचनाद्धौत्रसमाख्यातं न होतरि । इह तु वचनाभावान्नाध्वर्यवसमाख्या प्रैषार्थेऽपि बाध्येत्युत्थितेः संगतिः पूर्वपक्षः । माभूत्स्वयं स्वप्रैषे शक्तः। प्राप्तकालोऽस्तु । अनुष्ठातैवं ब्रूते, अग्निविहरणस्य प्राप्तः काल इति । एवं हि समाख्यया द्वयमत्याध्वर्यवम् ।
?R राद्धान्तस्तु विहरेति मध्यमपुरुषाविवक्षापत्तेः न प्राप्तकाले लोट् । किंतु प्रैष एवायमिति। द्वाभ्यां प्रैषप्रैषार्थमन्त्रलिङ्गेन समाख्याबाधात् ।
?R लघ्व्यामनुष्ठेयस्मृत्यर्थत्वान्मन्त्राणां युष्मदर्थमध्यमपुरुषाविवक्षेत्येकोद्वयकर्ता ।
?Rराद्धान्तस्तु युष्प्तदर्थोऽनुष्ठेयानुगुणो विवक्षित इति द्वयोर्द्वयकर्तृता । किञ्च प्राप्तः कालस्तवानुष्ठानस्येत्येवं दृष्टार्थतेति तत्कल्प्यम् । प्रैषस्तु लोकत एव। प्रैषसमाख्यया च प्रैषता ।
?R
?R अध्वर्युस्तु । स्थिते कर्तृद्वये कः प्रैषकः कः प्रेष्य इति चिन्तेति संगतिः। पूर्वपक्षः । अर्थविददर्शनादग्नित् प्रैषकः, प्रैष्योऽध्वर्युः । स्फ्यहस्तो हि प्रैषकः। अध्वर्यो च स्फ्यहस्ते दोषश्रुतिरर्थवादे । मन्त्रे प्रेषाग्निश्रुतिः र्थाग्नीच्छ्रतिः कथंचिदध्वर्यावेव । आध्वर्यवसमाख्यया मुख्ये प्रैषे अध्वर्युरित्यर्थवादानुगुण्याद्धेयम् ।
?R राद्धान्तः । विनियोज्य मन्त्रलिङ्गादनुष्ठानबोधकात्स्तुत्यर्थार्थवादात् बलत्वात् समाख्यानुगुण्याच्च अध्वर्युरेव प्रेषक इति, अर्थवादस्थमध्वर्युपदमग्नीधि गौणम् ।
?R लघ्व्यामध्वर्योः प्रैषकत्वे प्रेष्यक्रियायामपि प्रैषद्वारा कर्तृतेत्येवं सर्वमध्वर्युकर्तृकमित्याध्वर्यवाख्यासामञ्जस्यमधिकम् ।
?R
?R भट्टेन पाठद्वयमुक्तं - अध्वर्यु क्षिण्वीतेति अध्वर्युः क्षिण्वितेति वा पाठः। अस्मिन् मते स्वामिनं क्षिण्वीतेत्येवमुक्तं । भट्टेनोक्तलङ्गिदर्शनमात्रान्न पूर्वपक्षःप्राप्तिरङ्गगुणनयात् भूयसां नयाच्च । प्रैषकर्तुरङ्गगुणता प्रैषार्थप्राधान्यात्, भूयस्त्वाच्चार्थानां तत्कर्तृता अध्वर्योरिति । तन्न, प्राथम्याद्वलवत्त्वोक्तेरिह च प्राथम्यादेवसिद्धान्तो न युक्तः । गुरुस्त्वर्थवादान्निर्णयमाशंक्य मन्त्रान्निर्णयमाह - न तु लिङ्गदर्शनमात्रात् ।
?R ?R?0 ऋत्विक्पलं करणेष्वर्थवत्त्वत्
?R प्रैषवत्समाख्ययाऽध्वर्युकर्तृकत्वचिन्तेति सङ्गतिः । पूर्वपक्षः।
?Rअध्वर्युकर्तृकाग्न्यन्वाधाने श्रुत्याकरणमन्त्रस्य विधेः प्रधानकर्त्रनुरोधान्मन्त्रोऽप्यध्वर्युकर्तृकः । करणस्यानुष्ठेयसमानकर्तृकत्वादाध्वर्यवे मन्त्रे स्थिते मन्त्रलिङ्गादध्वर्योरेवाशीः । वक्ता हि ममेत्यनेनान्वयी। नन्वकर्मफलयशः प्रकाशनादकर्मार्थो मन्त्रः स्यात् । तन्न, कर्मयुक्तानुषंगिकर्त्विग्यशःप्रकाशनात्कर्मार्थताऽस्तु । एवं च गताशीर्मन्त्रनयान्नेह याजमानत्वम् । राद्धान्तस्तु नाध्वर्युयशः कर्मफलतया चोदनाचोदितं। चोदितफलप्रकाशनाद्धि मन्त्रः कर्माङ्गम् । अतः स्वामिफलमेव वर्चः प्रकाश्यम्। अतो ममेति भक्त्या स्वामिनि मन्त्रपदम् ।
?R लघ्व्यां उक्तेऽपि ऋत्विक्कर्तृकसदोमानफले स्वामिगतेऽत्र पूर्वः पक्षः - साध्यत्वेन श्रुतेः स्वामिगामिताऽस्तु । इह तु, मन्त्रानुवाद्ये ऋत्विग्गतताशङ्का। आध्वर्यवान्वाधानैककर्तृत्वे मन्त्रस्य स्थिते मुख्यार्थे ममेत्यृत्विक्फलमचोदितमप्यनूद्यताम् अनुवादस्य प्राप्तिपरतन्त्रत्वात् ।
?R राद्धान्तस्तु कर्माङ्गमन्त्रेण कर्मफलमनुवाद्यं नर्त्विग्गतमित्यमुख्यार्थं ममेति।
?R भट्टेन मदीयस्येत्यध्याहारो वेत्युक्तं, गौणो वेति । (ध्याहारे) अत्रैवास्था गुरोः, सति गौणत्वे कल्पना नेति ।
?R भट्टनोक्तम् - ये तु स्वामिकर्तृकमन्वाधानमाहुः - तेषामित एव मन्त्रलिङ्गाद् भ्रान्तिः । अथ किञ्चिद्वचनमाहुः- तथापीयं चिन्ता - किमध्वर्युयजमानयोर्विकल्पेन फलोक्तिः। उत नित्यस्वामिन एव फलोक्तिरिति । तन्न । स्वामिकर्तृके ह्यन्वाधाने मन्त्रोऽपि तत्कर्तृक इति न विकल्पशङ्का । अथ विकल्पितैककर्तृ कमन्वाधानमास्थाय शङ्का । तन्न। मन्त्रस्यैकार्थत्वात्स्वामिफलवाचितैव ।
?R
?R ?R?0 कर्मार्थं तु फलं तेषाम्
?R उक्ते स्वामिन एव फलाशीः करणमन्त्रेष्विति तदपवादात्संगतिः। पूर्वपक्षः । उक्तनयात्स्वामिनः कर्मफलमसंतापाख्यं सूक्तवाङ्मन्त्रलिङ्गादिव कल्प्यम् । राद्धान्तस्तु - प्रागर्थकर्मानुपकारकफलाभिप्रायं गौणतया ‘?R स्वामिगामित्वमुक्तम् । इह त्वसन्तप्तः अध्वर्युः कर्म कर्तुं शक्नोतीति कर्मोपकारकफलप्रकाशनान्मन्त्राणां कर्माङ्गत्वे सिद्धे नामुख्यार्थो मन्त्र इत्यार्त्विज्यमेव फलम् । लघ्व्यां स्वामिफलानुगुणमिदमार्त्विजमपि फलमिति मन्त्रप्रकाश्यम्।
?R व्यपदेशाच्च । इहापि स्वामिमात्रफलमित्यस्यापवादात्संगतिः पूर्वपक्षः। अनुवादव्यपदेशकल्प्यं फलमेकत्र स्वामिन्येवास्तु । यदाऽऽत्मने यजमानाय वेत्यत्र तूभयत्र फलितयैव श्रुतेरस्तूभयफलम् ।
?R राद्धान्तस्तु - तन्नौ सहेति द्विवचनाविवक्षाहेत्वभावे व्यपदेशे च कल्पनाहेतौ तुल्ये द्वयोरेव कल्पना । इदं च स्वामिमात्रे फलमित्यस्यापवादपरमिति गुरोः पूर्वपक्षानुक्तिः । न चोभयफलपरो मन्त्रः उभयप्रयोज्य इति शङ्का । एक प्रयोज्यत्वेऽप्युभयफलपरत्वसिद्धेः ।
?R
?R द्रव्यसंस्कारः उक्तमेव बर्हिर्धर्माश्चाङ्गप्रधानार्था इत्युत्तरविवक्षया स्मार्यते । शक्त्यं त्वेतत्सूत्रमुत्तरपूर्वपक्षेऽपि योजयितुमिति भट्टः । तन्न । उक्तस्मारितनयादेवार्थात्पूर्वपक्षसिद्धेः ।
?R?0 निर्देशात्तु विकृतापूर्वस्यानधिकारः
?R यदर्थं स्मरणं तदिदमिति संगतिः । पूर्वपक्षः। प्रकृतावङ्गप्रधानार्थत्वात्तद्वद्विकृतावपि बर्हिर्धर्माः ।
?R
?R राद्धान्तः । उपकारजनकतया हि विकृतौ धर्मप्राप्तिः, यद्द्वारं यस्योपकारकत्वं तद्द्वारकमेव विकृतावपीति नेह कार्यान्तरार्थे बर्हिषि क्रिया कार्या । अनपेक्षित्वेन चोहासिद्धेरूहदर्शनं न स्यात् प्रपञ्चो भाष्ये व्यक्तः ।
?R ?R?0 विरोधे च श्रुतिविरोषादव्यक्तः शेषे
?R प्रकृतौ चेदङ्गप्रधानार्थता मता तर्हि स्तरणबर्हिषः पवित्रक्रियेत्युत्थितेः सङ्गतिः । पूर्वपक्षः - स्वरूपतः कार्यान्तरार्थबर्हिर्ग्रहे न धीविरोधः ।
?R राद्धान्तस्तु न विरोधः किन्त्वन्यत्र व्यापृतं यावत्तदेकदेशाच्छेदादन्यत्र कारकत्वे वस्तुविरोध इति परिभोजनीयाबर्हिषः कार्यान्तरानवष्टब्धादाच्छेदः पवित्राद्यर्थम् ।
?R ?R?0 अपनयस्त्वेकदेशस्य विह्यमानसंयोगात्
?R उक्तापवादात् सङ्गतिः । पूर्वपक्षः उक्तमनेकत्र न शेषत्वं। पुरोडाशादावपि तत् ।
?R राद्धान्तस्तु नात्र वस्तुविरोधः द्व्यवदानमात्रेण यागव्यापारोपसंहारात् शिष्टस्यात्र ग्रहार्हत्वात् । न च धीविरोधः प्रतिपाद्यस्याविनियोगात् ।
?R ?R?0 विकृतौ च सर्वार्थः शेषः
?R प्रतिपाद्यस्याविरोधवत् सहैवाङ्गप्रधानार्थतापीत्युत्थितेः सङ्गतिः । पूर्वपक्षः- प्रकृतावेवंविधमुपदिष्टमङ्गप्रधानार्थं विकृतावपि तथा । उपांशुत्वं हि कर्तृद्वाराऽङ्गम् उपांशुवदन्नखिन्नः कर्ता कर्म कर्तुमलमिति लिङ्गात् कर्त्रर्थतया अङ्गप्रधानार्थता ।
?R राद्धान्तस्तु नोपदिष्टेन प्रधानेन अतिदिष्टैश्चाङ्गैरूपांशुत्वोपदेशोऽन्वयी। किन्तु पूर्वमुपदिष्टप्रधानमात्र एवान्वयी । न पाश्चात्यातिदिष्टाङ्गेषु सापेक्षानपेक्षयोरनपेक्षं बलीय इति न्यायविदः । उपदिष्टेनैव तुल्यकालेनोपदेश्यमुपांशुत्वमन्वयार्हम् । न चेदं
?Rप्राकृताकार्यपाति । न च प्राकृताश्रयो गुणः येन चोदकप्रतीक्षा न च कर्तुः साङ्गप्रधानार्थत्वे कर्तृद्वारा अस्याङ्गापेक्षा’?R। न चेदं कर्तुः श्रुतम् । किन्तु लिङ्गात् कर्तृद्वारकम् । यत्र प्रधाने श्रुतं तन्मात्रकर्तृद्वारकं न कर्तुः प्रयोगाङ्गत्वापेक्षमिति दिक् ।
?R भट्टेनेयं विधावस्था दूषिता। सर्वत्र प्रथमतरं चोदकप्रवृत्तेः । अतो वाक्यादेव काम्यान्वयो नाङ्गानि कामसंबंधीनीति न तेषामेष धर्म इति चोक्तम् । तन्न । चोदको हि श्रुताङ्गैरपरिपूर्तिमालोच्य प्रवर्तत इति श्रुतेभ्यः पश्चात् । उपकारजनकत्वधीरेव श्रुतैः पश्चादिति " ?Rविकृतावि?Rत्यत्र “?R स्थाप्यम्। वाक्यात्काम्यान्वयात्प्रधानार्थता तु लघ्व्यामिष्टा । बृहत्यां तु वाक्यं न्यायप्राप्तेरनुवादः ।
?R?0 ?R सन्निधानविशेषादसंभवे तदङ्गानाम्
?R गतनयात्प्रधाने श्येन एव दृतिनवनीतविधिरित्युत्थितेः संगतिः पूर्वपक्षः। उपदिष्टप्रधान एवायं विधिः आज्यमित्यनुवादमात्रं । नवनीतस्याज्यत्वात् । नवनीतं ह्यग्निसंयोगोत्पन्नावस्थान्तरमाज्यमुच्यत इति धीसिद्धम् । विमतावाज्यपदं लक्षणयाऽनुवादोऽस्तु राद्धान्तस्तु आज्यशब्दे विधिपरे सति नानुवादतेत्याज्यशब्दे नोद्विश्य तद्वा तत्कार्य वा दृतिनवनीतविधिः। प्रधाने श्येनेनाज्यमित्यातिदेशिकाङ्गविषयोऽयमुपदेशः । भट्टेन प्रकरणात् श्येने विशिष्टाज्यविधिः पूर्वपक्षे । (कृत्वा) अनेकार्थविध्यसंभवादाज्यमनूद्यविशेषणमात्रविधिरिति सिद्धान्तितम् । तन्न । सति हि कार्ये विधौ विशिष्टविधेर्बहुशो निरासात् । भाष्येपवमानहविराज्ये विधिशङ्कोद्धृता ।
?R ?R?0 सुत्याकाले
?R उक्तेऽङ्गधर्मत्वे तद्विशेषचिन्तेति संगतिः पूर्वपक्षः । सुत्याकालाङ्गाज्ये
?Rदृतिनवनीतविधिः । अङ्गेऽपि कालतः प्रधानासन्ने प्रधानापेक्षितो विधिर्युक्तः । किं च साद्यस्क्रे सह पशूनालभत इति सहत्वं । सामान्यतः श्रुतं सुत्याकाल एव दृष्टमिदमपि सामान्यतः श्रुतं तथास्तु ।
?R राद्धान्तः । आसन्नानामनासन्नानां चाङ्गत्वाविशेषात्सर्वेषामाज्यवत्तया धीस्थानामयं विधिः सङ्कोचहेत्वभावात् । यस्तु सुत्याकाल एवालम्भः । स दैक्षानुबन्ध्ययोरवैषम्यादित्युक्तं भाष्ये । न सामान्यविधित्वात् वचनेन निषेध्यतया वर्जितः क्रमोऽनुग्राह्यः सन्निधिलक्षणः ।
?R ?R ?R?0 मासं तु सवनीयानां चोदनाविशेषात्
?R आज्यपदमेकमुद्देशकमस्तु । इह पदद्वये किमुद्देशकमिति चिन्तेयमिति संगतिः पूर्वपक्षः । वाक्यभेदभयान्नोभयमुद्देशकमिति स्थिते पुरोडाशपदमुद्देशकमिति सवनीयासवनीयपुरोडाशानां तरसत्वं । सवनीयपदं तु तदन्तर्गतसवनीयानुवादमात्रं । सवनीयपदे ह्युद्देशके धानादिनानाद्रव्येषु पुरोडाशपदं द्रव्यान्तरेऽपि लक्षणयाऽनुवादः स्यात् ।
?R राद्धान्तः - पूर्वं सवनीयपदमुद्देशकम् । एवं हि मुख्यपदं यथार्थं, मुख्यत्वं च सवनीयपदस्य भाष्यकारेणापठितमपि निबन्धात्कृतं राद्धान्तनयव्युत्पत्तये दृष्टोपलक्षणं नानाद्रव्येषु पुरोडाशपद " ?Rपुरोडाशानलं कुर्वि?Rत्यत्र " ?Rपुरोडाशपदे ह्युद्देशकसवनीयपदं सर्वपुरोडाशसमानाधिकरणतया सवनीयासवनीयोपलक्षणार्थमेव प्रयुक्तम् । लघ्व्यां तु सवनीयपदे उद्देशके साहचर्यात् पुरोडाशपदं [?Rउपलक्षणं]?R पुरोडाशानलं कुर्वित्यत्र [?Rयथा]?R। पुरोडाशपदे तूद्देशके सवनीयपदमसाहचर्यादसवनीयपुरोडाशं नोपलक्षयेदिति सवनीयोद्देशः ।
?R भट्टेन पुरोडाशानलं कुर्विति प्रकृतौ धानादिलक्षणा दृष्टा । न तु सवनीयपदस्यासवनीयेषु पुरोडाशेषु वृत्तिः साहित्याच्च शक्या पुरोडाशेन धानादिलक्षणा । न ह्यसवनीयपुरोडाशस्य धानदिसंबन्ध इति न सवनीयपदं
साहचर्यात् सवनीयपुरोडाशलक्षणार्थमित्युक्तम् ।
?R तन्न । न हि क्वचिल्लक्षकं दृष्टमित्येतावता लक्षकता । किंतु सम्बन्धानुपपत्त्या लक्षणेति लक्षणाविदः । ते च सवनीयेऽपि स्तः। पुरोडाशद्वारा ह्यसवनीयेऽपि सवनीयशब्दो दण्डिवत् स्वार्थापरित्यागाच्चेयं लक्षणा ज्यायसीति गुरूक्तैव विधा ।
?R ?R?0 इति महोपाध्यायभवनाथमिश्रविरचिते
?R?0 मीमांसानयविवेके तृतीयस्य
?R?0 अध्यायस्याष्टमः
?R?0 पादः
?R?0 ॥समाप्तोऽयं तृतीयोऽध्यायः॥
?R
?R
]