अपूर्वम्

फलापूर्वकल्पना

  • नान्विदमनुपपन्नम् ; आशुतरविनाशिनां कर्मणां कालान्तर-भावि-स्वर्गादि-फल-साधनत्वानुपपत्तेर् इति चेत्, मैवम् - विहित-निषिद्ध-कर्मणां तत्तद्-वाक्यैस् तत्तत्-फलसाधनत्वे ऽवगते, आशुतर-विनाशिनां कर्मणां कालान्तर-भावि फल-साधनत्वोपपत्त्यर्थम् अन्तरा पुण्य-पाप-रूपम् अपूर्वं कल्प्यते ।
  • ततश्च यागादेर् अपूर्वद्वारा स्वर्गसाधनत्वं, न साक्षात् । तदेव फलापूर्वम् ।
  • तत्करणत्वं च प्राच्योदीच्याङ्गविशिष्टस्य प्रधानस्य भवति, न प्रधानमात्रस्य । प्रधान मात्रादेव फलापूर्वजनने फलस्यापि तत एव सिद्धेरङ्गानाम् आनर्थक्यापत्तेः ।

उत्पत्त्यपूर्वकल्पना

  • ननु सर्वाङ्ग-विशिष्टस्य प्रधानस्यापूर्व-जनकत्वम् अयुक्तम् , तच् चाशुतर-विनाशिनः प्रधानस्याङ्गसाहित्याभावान् न संभवतीति चेत् - न, प्रधानकर्मणः स्वरूपेणाङ्गसाहित्याभावे ऽपि उत्पत्त्यपूर्व-द्वारा साहित्य-संभवात् ।
  • प्रधानस्य सर्वाङ्ग-साहित्य-सिद्ध्यर्थं प्रधान-कर्म-परमापूर्वयोर्मध्ये प्रधानमात्रजन्यम् उत्पत्तिनामकं किंचिद् अपूर्वम् अस्तीत्य् अङ्गीकारात् । एवम् अङ्गानाम् अपि परस्पर-सहितानाम् एव प्रधानोपकारकत्वात् तेषां स्वरूपेण साहित्याभावात् तत्तदुत्पत्त्यपूर्व-द्वारा साहित्यं बोध्यम् । अङ्गानां प्रधानोपकारकत्वं नाम प्रधानस्य फलापूर्व-जनन-सामोन्मुखी-करणमेव ।