०२ विधिवन्निगदार्थवादः

अङ्गानि

  • विषयः - ‘सोमापौष्णं त्रैतम् आलभेत’ इति कश्चन विकृतियागः । तत्सन्निधौ ‘औदुम्बरो यूपो भवति। ऊर्ग् वा उदुम्बरः। ऊर्क् पशवः। ऊर्जेवास्मा ऊर्जं पशून् आप्नोति, ऊर्जोऽवरुध्यै’ इत्यर्थवादः पठितः ।
  • संशयः - किमिदं वाक्यं विधीयमानस्यौदुम्बरत्वस्य फल-समर्पकत्वेन नेतव्यम् ? उत स्तावकत्वेन ?
  • पूर्वपक्षः - विद्यायकवाक्यम् एतत्।
    • पूर्वपक्षयुक्तिः - ?
  • सिद्धान्तः - अर्थवादो ह्ययम्।
    • सिद्धान्तयुक्तिः - ?
  • प्रयोजनम् -
    • पूर्वपक्षे - विध्येक-वाक्यतया प्रामाण्यम् अङ्गीकर्तव्यम् ।
    • सिद्धान्तपक्षे - प्राशस्त्य-ज्ञान-जनकत्वेन विध्येक-वाक्यतयैवैतेषां प्रामाण्यम् ।
  • सङ्गतिः - अर्थवादानां विध्येकवाक्यतया प्रामाण्यं व्यवस्थापितम् । कतिपयानां विधायकत्वेनैव प्रामाण्यम् अस्त्व् इति शङ्काया उत्थितिर् भवतीत्यधि करणमारभ्यते।

नयमञ्जरी

अर्थवादानां विध्येकवाक्यतया प्रामाण्यं व्यवस्थापितम् । कतिपयानां विधायकत्वेनैव प्रामाण्यम् अस्त्व् इति शङ्काया उत्थितिर् भवतीत्यधि करणमारभ्यते।

तत्रेदं विषयवाक्यम्-‘सोमापौष्णं त्रैतम् आलभेत’ इति कश्चन विकृतियागः । तत्सन्निधौ ‘औदुम्बरो यूपो भवति। ऊर्ग् वा उदुम्बरः। ऊर्क् पशवः। ऊर्जेवास्मा ऊर्जं पशून् आप्नोति, ऊर्जोऽवरुध्यै’ इत्यर्थवादः पठितः ।
तत्र संशयः– किमिदं वाक्यं विधीयमानस्यौदुम्बरत्वस्य फल-समर्पकत्वेन नेतव्यम् ? उत स्तावकत्वेन ? इति ।
तत्र ‘ऊर्जं पशून्’ इति साध्यत्वाभिधायिन्या द्वितीयया यूप-पशूनां साध्यत्व-प्रतीतेः तद्-उद्देशेनौदुम्बरत्वं विधीयत इति कथने विधायकत्वं सिध्यति । विधायकत्वेन प्रामाण्ये सिध्यति सति किम् इत्य् अस्यार्थवादत्वम् अङ्गीकृत्य विध्येक-वाक्यतया प्रामाण्यम् अङ्गीकर्तव्यम् । अस्य वाक्यस्य फलसमर्पकत्वे ‘ऊर्जोऽवरुध्यै’ इति चतुर्थी-विभक्तिर् अपि साहाय्यम् आचरति । अतो विधायकत्वेनैवाऽस्य प्रामाण्यम् अस्तु ।
एवं पूर्वपक्षे प्राप्ते सिद्धान्त इमेऽर्थवादा न विधिसरूपा, किन्तु विधिवन् निगद्यन्ते । अतः पूर्ववत् प्राशस्त्य-ज्ञान-जनकत्वेन विध्येक -वाक्यतयैवैतेषां प्रामाण्यम् ।

सर्वत्र फल-सम्बन्ध-बोधकेषु वाक्येषु फल-पदं कमि-पद-घटितम् एव दृश्यते-‘स्वर्गकामः’, ‘पशुकामः’ आदि। प्रकृत-वाक्ये ‘पशून्’ इति द्वितीयया पशूनां साध्यत्वमात्रं प्रतीयते, न तु फलत्वम् ।
किञ्च पशूनां साध्यत्वं तदा भवितुम् अर्हति, यदा तत्-साधनं केनापि वाक्येन विहितं स्यात् । तदैव साध्य-साधन-भाव उपपद्यते ।
‘औदुम्बरो यूपो भवति’ इति तु न विधायकम्, विधायकप्रत्ययाऽभावात् । यदि स्तुत्या विधिः कल्प्यते, फलञ्च कल्पनीयमिति वाक्य-भेदस् स्यात् ।
किञ्च यदि विधिं फलञ्च कल्पयित्वा औदुम्बरत्वं विधीयते; तर्हि तस्याश्रयापेक्षायां कस्याश्रयत्वेनान्वयो भवेत् । द्रव्यगुणजातीनां फलाय विधीयमानानां क्रियारूपम् आश्रयं विना फलसाधनत्वम् अनुपपन्नम् । अतः कस्याश्रयत्वेन सम्बन्धः क्रियते । न तावत् सोमापौष्ण-याग आश्रयो भवितुम् अर्हति, तद्-उत्पत्ति-वाक्ये पशु-द्रव्याऽवरुद्धत्वाद् औदुम्बरत्वस्य करणत्वाऽसम्भवात् । नापि यूपस्य वा तत्र क्रियमाणस्य नियोजनाऽऽदेर् वा आश्रयत्व-सम्भवः, प्राकृतानां तेषाम् अत्रोपस्थित्य्-अभावात् । यद्य् उपमिति-लक्षण-प्रमाणेन तेषाम् उपस्थितिम् अङ्गीकृत्याऽऽश्रयत्वं सम्पाद्येत, तर्हि अस्मिन् वाक्ये यूपपद-निर्देशोऽनर्थकस्स्यात् । अत आश्रयालाभान् नानेनौदुम्बरत्वं विधातुं शक्यते।
अर्थवादेन स्तुति-बुद्धिम् आनीय विधि-वाक्यैक-वाक्यतयैव प्रामाण्यं स्वीकर्तव्यम् ।