अङ्गानि
- विषयः - वेदः।
- संशयः - वेदः पौरुषेयः?
- संशयबीजम् - ?
- पूर्वपक्षः - वेदः पौरुषेयः।
- पूर्वपक्षयुक्तिः - वेदे काठकम् कालापकम् कौथूमम् इत्यादयस् समाख्या उपलभ्यन्ते। समाख्याभर् ज्ञायते यत् - कठेन निर्मितो भागः काठकशब्देन व्यवह्रियत इति ।
- सिद्धान्तः - वेदो ऽपौरुषेयः।
- सिद्धान्तयुक्तिः - काठकमित्यादयस् समाख्याः कठेन प्रोक्तं काठकमिति प्रवचन-निमित्तत्वम् आदायोपपादयितुं शक्याः ।
- प्रयोजनम् -
- पूर्वपक्षे - वेदो न धर्मे प्रमाणम्।
- सिद्धान्तपक्षे - वेदो धर्मे प्रमाणम्।
- सङ्गतिः - वाक्यवाक्यार्थयोस् सम्बन्ध-नित्यत्वे साधिते, समग्रस्य वेदाख्य-ग्रन्थस्य पौरुषेयत्वं साधयितुं पूर्वपक्षी प्रत्यवतिष्ठते ।
स्वप्रतिपत्तिः
वेदः पौरुषेय एवास्तु। तथापि तत् प्रमाणं धर्मे - महाजनपरम्परयाऽङ्गीकृतत्वात्।
नयमञ्जरी
८. अपौरुषेयत्वाधिकरणम्
वाक्यवाक्यार्थयोस् सम्बन्ध-नित्यत्वे साधिते, समग्रस्य वेदाख्य-ग्रन्थस्य पौरुषेयत्वं साधयितुं पूर्वपक्षी प्रत्यवतिष्ठते ।
वेदे काठकम् कालापकम् कौथूमम् इत्यादयस् समाख्या उपलभ्यन्ते। समाख्याभर् ज्ञायते यत् - कठेन निर्मितो भागः काठकशब्देन व्यवह्रियत इति । तथा सति वेदस्य पौरुषेयत्वं कथं वारयितुं शक्यम् ।
तस्माद्वेदोऽनित्य इति शङ्कायां सिद्धान्तः- काठकमित्यादयस् समाख्याः कठेन प्रोक्तं काठकमिति प्रवचन-निमित्तत्वम् आदायोपपादयितुं शक्याः ।
अतो वेदोऽपौरुषेयः ॥
इति प्रथमाध्यायस्य प्रथमः पादः॥