परिचयः
- विषयः - विधिशब्दस्य प्रामाण्यम्।
- संशयः - शब्दार्थसम्बन्धो नित्यो वा?
- संशयबीजम्??
- पूर्वपक्षः - शब्दार्थसम्बन्धो ऽनित्यः, कृत्रिमः।
- पूर्वपक्षयुक्तिः - शब्दस्य सङ्गति-ग्रहम् अन्तरा ऽर्थावबोधकत्वं दुर्घटम् । सङ्गतिश्च पुरुषकृता। तद्-द्वाराऽन्येषां तद्ग्रहो भवति । सङ्गति-ग्रहावसरे प्रत्यक्षेण घट-पटादीन् पदार्थान् दृष्ट्वा शब्दस्य सङ्गतिर् ग्रहीतव्या भवति। सति चैवं शब्दस्थापि प्रत्यक्षमूलकत्वमेव सिध्यति।
- सिद्धान्तः। शब्दस्यार्थेन सह सम्बन्धो नित्यो भवति, न पुरुष-कर्तृकः, असम्भवात् ।
- सिद्धान्तयुक्तिः - किम् एकः पुरुषस् सर्व-शब्दानां सम्बन्धस्य कर्ता उतानेके कर्तारः ? नाद्यः, तादृश पुरुषस्य स्मरणाभावात् । न द्वितीयः पक्षः, अनेकेषां कर्तृत्वे व्यवस्थाया असिद्धेः । घटपदस्य कम्बुग्रीवादिमान् एवार्थ इति न सिध्यति।
- प्रयोजनम्।
- पूर्वपक्षे - विधिशब्दस्यानङ्गीकारः प्रमाणत्वे। ततो धर्मस्य प्रमाणहीनता।
- सिद्धान्तपक्षे - विधिशब्दस्याङ्गीकारः प्रमाणत्वे।
- सङ्गतिः - प्रत्यक्षादीनाम् अप्रवृत्ताव् अपि विधि-शब्दो मानं भवत्य् एव । कथम्?
स्वप्रतिपत्तिः
शब्दार्थसम्बन्धो ऽनित्यः। केषाञ्चन शब्दानाम् अर्थेषु परिवर्तनानि दृश्यन्ते। तथाऽपि विधिशब्दः प्रमाणम् - यतः - प्रायेण युगान्तरे वर्तमानस्य शब्दार्थसम्बन्धस्यानुमानं शक्यम्।
नयमञ्जरी
प्रत्यक्षादीनाम् अप्रवृत्ताव् अपि विधि-शब्दो मानं भवत्य् एव ।
कथं विधिशब्दो मानं भवेत् ? शब्दस्य सङ्गति-ग्रहमन्तरा ऽर्थावबोधकत्वं दुर्घटम् । सङ्गतिश्च पुरुषकृता। तद्-द्वाराऽन्येषां तद्ग्रहो भवति । सङ्गतिग्रहावसरे प्रत्यक्षेण घटपटादीन् पदार्थान् दृष्ट्वा शब्दस्य सङ्गतिर् ग्रहीतव्या भवति। सति चैवं शब्दस्थापि प्रत्यक्षमूलकत्वमेव सिध्यति - इति कथं विधिशब्दो धर्मे प्रमाणम् ?
अस्याश्शङ्काया उत्तरमुच्यते- शब्दस्यार्थेन सह सम्बन्धो नित्यो भवति, न पुरुष-कर्तृकः, असम्भवात् ।
किमेकः पुरुषस् सर्व-शब्दानां सम्बन्धस्य कर्ता उतानेके कर्तारः ? नाद्यः, तादृश पुरुषस्य स्मरणाभावात् । न द्वितीयः पक्षः, अनेकेषां कर्तृत्वे व्यवस्थाया असिद्धेः । घटपदस्य कम्बुग्रीवादिमान् एवार्थ इति न सिध्यति।
अतश् शब्दस्यार्थेन सह सम्बन्धो नित्य एष्टव्यः।
अतो विधि-शब्दो धर्मप्रमाणमेव ॥