नयमञ्जरी
स्रोतो ऽत्र।
३ धर्म-परीक्षाधिकरणम्।
धर्मे प्रमाणं विधिरिति यदुपन्यस्तं तत् परीक्षणीयम् ।
मीमांसाशास्त्रमिदं परीक्षाशास्त्रं कथ्यते । विना परीक्षया कोऽपि पदार्थो न स्वीक्रियते । प्रतिज्ञामात्रेण वस्तुनस् सिद्धिर् न भवतीति जैमिनिः।
प्रथमाध्यायस्य प्रथमः पादः ‘तस्य निमित्तपरीष्टिः’ इति परीक्षाम् प्रतिजानीते । तस्य विचारविषयी-भूतस्य धर्मस्य निमित्तं प्रमाणं यदुक्तं, तत् परीक्षिष्यत इति सूत्रार्थः ॥
४. सत्सम्प्रयोगाधिकरणम्
प्रत्यक्षादिभिः प्रमाणैर् धर्मो न गम्यते ।
- इन्द्रिय-सन्निकर्ष-द्वारा यस्य ज्ञानं भवति तत् प्रत्यक्षम् इति व्यवहारः ।
धर्मस् त्व् अमूर्तः। तेन इन्द्रियाणां सन्निकर्षो न सम्भवी।
अतः प्रत्यक्षगम्यो धर्मो न भवति ।
प्रत्यक्ष मूलकत्वाद् अनुमानादीनां न धर्मे प्रमाणत्वम् ।
हेतु-साध्ययोस् सम्बन्धे प्रत्यक्षेण गृहीते तद्-अनन्तरं हेतुमात्र-दर्शनेन वह्नेर् अनुमानम् उदेति ।
एवमुपमानादीन्यपि न प्रमाणं प्रत्यक्षमूलकत्वादेव॥
स्वप्रतिपत्तिः
प्राचीना ऊचुः - प्रत्यक्षानुमाने न भवितुमर्हतो धर्मप्रमाणम् इति। किञ्च, “धारणाद् धर्म इत्याहुः, धर्मो धारयते प्रजाः” इति लक्षणान्तरम् प्रसिद्धम् - तेन कदा ऽस्मत्पूर्वजा जयशीला आसन्न्, कदा नेति विचारयेम +अर्वाचीनविज्ञानम् अप्य् अवलम्ब्य। तत्र तु प्रत्यक्षानुमाने प्रमाणम्।