०२ धर्मलक्षणम्

परिचयः

  • विषयः - “अथाऽतो धर्मजिज्ञासा।”
  • संशयः - धर्मस्य प्रमाणं लक्षणञ् च विद्यते न वा?
  • पूर्वपक्षः - न विद्यत इति।
    • युक्तिः -
      • अलौकिकस्य लक्षणं नास्ति। तत्र कुतः प्रमातुम् उद्योगः? (लक्षणे सति तदाधारेण प्रमाणं प्रतूयेत।)
      • कथञ्चित् तद्-उद्योगेऽपि न तत्र प्रमाण-सद्-भावः शङ्कितुम् अपि शक्यः । धर्मस्य रूपादि-रहितत्वान् न प्रत्यक्षं क्रमते। अत एव व्याप्ति-ग्रहणाभावान् नानुमानम् । प्रत्यक्षाद्यनुमान-मूलश् च शब्दस्य सङ्गतिग्रहः । ततो व्युत्पत्त्यभावान् नाऽऽगमोऽपि तत्र प्रवर्तते ।
  • सिद्धान्तः - (निःश्रेयससाधनरूप-)अर्थत्वे सति चोदनागम्यो धर्मः। धर्मे (निःश्रेयस-प्रापक-)विधिः प्रमाणम्। विधि-बोधित-स्वरूपञ् च लक्षणम्।
    • युक्तिः -
      • लक्षणेनैव स्वरूपावगतिर् भवति । “लोकावगत-सामर्थ्यः शब्दो वेदेऽपि बोधकः” इति न्यायेन शब्दप्रमाणं वर्तते।
      • यथा यागादिधर्मः। स च ‘यजेत स्वर्गकामः’ इति विधिना विधीयते, अपि चार्थः श्रेयस्-साधनम् ।
      • अपि च यो यागम् अनुतिष्ठति, तं लोके धार्मिकं व्यवहरन्ति । अतो धर्मस्यालौकिकत्वेऽपि लोके व्यवहारो नानुपपन्नः ।
  • प्रयोजनम्
    • पूर्वपक्षे - लक्षण-प्रमाणाभ्यां विहीनस्य धर्मस्य विचारो न कर्तव्य इति ।
    • सिद्धान्तपक्षे - धर्मस्य विचारः कार्य इति।
  • सङ्गतिः - ?

स्वप्रतिपत्तिः

सूक्ष्मा धर्मस्य गतिः। तया दृष्ट्यैवास्तु धरस्य काचिदलौकिकता। तीक्ष्णबुद्धिनां विवेकिनाम् ऋतम्भरचक्षुषां त्वस्तु लौकिकता ऽधिका।

नयमञ्जरी

‘मानाधीना मेय-सिद्धिः’ इति न्यायेन - प्रमाणेन विना वस्तुनस् सिद्धिर् न भवति । विचार-विषयी-भूतस्य धर्मस्य प्रमाणं लक्षणञ्च विद्यते न वेत्यस्मिन्न् अधिकरणे चिन्त्यते ।

तत्र पूर्वपक्षो न विद्यत इति । तत्र हेतुः - धर्मोऽलौकिकः । अलौकिकस्य लोके सङ्गतिग्रहो न भवति । सङ्गतिग्रहाभावे न स्वरूपं सिध्यति, नापि प्रमाणम् । अतो लक्षण-प्रमाणाभ्यां विहीनस्य धर्मस्य विचारो न कर्तव्य इति ।

सिद्धान्तस्तु - लक्षणं विधि-विहितत्वे सत्य् अर्थत्वम्(=निःश्रेयससाधकत्वम्) । लक्षणेनैव स्वरूपावगतिर् भवति ।
अत्र च विधिरे् एव प्रमाणम् ।
यथा यागादि-धर्मः। स च ‘यजेत स्वर्गकामः’ इति विधिना विधीयते, अपि चार्थः श्रेयस्-साधनम् ।
अपि च यो यागम् अनुतिष्ठति, तं लोके धार्मिकं व्यवहरन्ति । अतो धर्मस्याऽलौकिकत्वे ऽपि लोके व्यवहारो नाऽनुपपन्नः ।
एवञ्च धर्मे विधिः प्रमाणम्, तद्बोधितस्वरूपञ् च लक्षणं सिद्धं भवति ।

न्यायमाला

अथ द्वितीयं धर्मलक्षणाधिकरणम् ॥ २ ॥

द्वितीयाधिकरणं भट्टमतेनाऽऽरचयति

विचारविषयो धर्मो
लक्षणेन विवजितः ।
मानेन वाऽथवोपेतस्
ताभ्यामिति विचिन्त्यते ॥ ३६ ॥

लौकिकाकारहीनस्य
तस्य किं नाम लक्षणम् ।
मानशङ्का तु दूरेऽत्र
प्रत्यक्षाद्य् अप्रवर्तनात् ॥ ३७॥

चोदनागम्य आकारो
ह्यर्थत्वे सति लक्षणम् ।
अत एव प्रमाणं च
चोदनं वाऽत्र नो कुतः ॥ ३८ ॥

टीका

लक्षणप्रमाणाभ्यां हिं वस्तुसिद्धिः । अत एवाऽऽहुः “मानाधीना मेयसिद्धिर् मानसिद्धिश्च लक्षणात्” इति ।
सजातीय-विजातीय-व्यावर्तको लक्ष्य-गतः कश्चिल् लोक-प्रसिद्ध आकारो लक्षणम् ।
तेन च लक्षणेन, लक्ष्ये वस्तुनि सम्भावना-बुद्धौ जातायां, प्रमातुम् उद्युक्तः प्रमाणेन तद् अवगच्छति ।

तद्यथा-‘सास्नादिमती गौः’ इत्युपश्रुत्य चतुष्पात्सु जीवेषु तल्लक्षणलक्षित-पदार्थम् अन्विष्य - ‘इयं गौः’ इति चक्षुषाऽवगच्छति ।

एवं च सत्य् अलौकिकत्वाद् धर्मस्य नाऽस्ति लक्षणम् । तत्र कुतः प्रमातुम् उद्योगः?
कथञ्चित् तद्-उद्योगेऽपि न तत्र प्रमाण-सद्-भावः शङ्कितुम् अपि शक्यः । न तावद् अत्र प्रत्यक्षं क्रमते, धर्मस्य रूपादि-रहितत्वात् । अत एव व्याप्ति ग्रहणाभावान् नानुमानम् ।
प्रत्यक्षाद्यनुमान-मूलश् च शब्दस्य सङ्गतिग्रहः । ततो व्युत्पत्त्यभावान् नाऽऽगमोऽपि तत्र प्रवर्तते । तस्माद्धर्मो लक्षणप्रमाणरहित (१)इति प्राप्ते ब्रूमः—

मा भूच् चक्षुर्-आदिगम्यो लौकिक आकारः, तथाऽपि चोदनागम्यः स्वर्गफल साधनत्वादिलक्षण आकारोऽस्त्येव ।
तेन ‘अर्थत्वे सति चोदनागम्यो धर्मः’ इति लक्षणं भवति । ‘अर्थो धर्मः’ इत्युक्ते ब्रह्मणि चैत्य-वन्दनादौ घटादौ चाऽतिव्याप्तिः, तद्व्यवच्छेदाय ‘चोदनागम्य’ इत्युक्तम् ।
तावत्येवोक्त विधिगम्ये ऽनर्थफलत्वेना ऽनर्थरूपे (२) - श्येनाद्यभिचारकर्मण्य् अतिव्याप्तिः, तद्व्यवच्छेदाय ‘अर्थ’ इत्युक्तम् । यद्यपि श्येनस्य शत्रुवधः फलम् , न तु नरकः । तथाऽपि तस्य वधस्य नरकहेतुत्वाद् वधद्वारा श्येनोऽनर्थः।
न चैवम् अग्नीषोमीय-पशु-हिंसाया अपि वधत्वेन नरक-हेतुत्वं स्याद् इति शङ्कनीयम् । तस्याः क्रत्वङ्गत्वेन क्रतु-फल-स्वर्ग-व्यतिरेकेण फलान्तराभावात् ।

(२. प्राभाकरास्तु श्येनादेस् साक्षाद् एवाऽनर्थ-हेतुत्वं कथयन्ति, न फलद्वारा । ते हि “कोऽर्थः ? यो निःश्रेयसाय, ज्योतिष्टोमादिः । ‘कोऽनर्थः ? यः प्रत्यवायाय - श्येनो, वज्रः, इषुरित्येवमादिः। तत्रा"ऽनर्थो धर्म उक्तो मा भूद्" इत्य् अर्थग्रहणम् इति भाष्ये श्येनादेर् विधेयत्व-निराकरण-पूर्वकम् अनर्थत्वोक्तेः श्येनादि-स्वरूपम् एवा ऽर्थ-पदेन व्यावर्त्यत इत्यभिप्रयन्ति । भाट्टास्तु-“कथं पुनरसावनर्थः ? हिंसा हि सा, हिंसा च प्रतिषिद्धे"त्य् उपरितन-भाष्येण श्येनादि-ग्रहणस्य तत्-साध्य-हिंसादि-लक्षणार्थत्वावगतेन श्येनादिस्वरूपम् अर्थपदव्यावर्त्यम्, किन्तु ‘न हिंस्यात् सर्वा भूतानी’त्यादि-निषेध-वाक्यैर् अनर्थत्वेन लक्ष्यमाणानां हिंसादीनामपि चोदनागोचरत्वेन धर्मत्वं स्यात् । अतस् तद्-व्यावृत्यर्थम् अर्थपदम् इत्यभिप्रयन्तीति विवेको बोध्यः । )

यतश्चोदना-गम्यत्वे सत्य् अर्थत्वं धर्म-लक्षणम् , अत एव गम्ये धर्मे गमकं विधिवाक्यं प्रमाणम् ।
यद्यपि प्रत्यक्षानुमानयोर् अविषयो धर्मः, तथाऽपि प्रसिद्ध-पद-समभिव्याहारेण व्युत्पत्तिः सम्भवति ।
तस्माल् लक्षण-प्रमाणाभ्याम् उपेतो धर्मः ॥

अस्मिन्नेवाऽधिकरणे गुरुमतमाह

यद् वा जिज्ञास्यवेदार्थः
किं मन्त्रायवबोधितः ।
सिद्धार्थो ऽप्यथ विध्येक-
गम्यः कार्यार्थ एव वा ।। ३६ ॥

सिद्धेऽपि पुत्र-जन्मादौ
व्युत्पत्तेर् उपपत्तितः।
मन्त्रादि-गम्य-सिद्धस्य
वेदार्थत्वेऽपि का क्षतिः ।। ४० ॥

हर्ष-हेतु-बहुत्वेन
व्युत्पत्तिः पुत्रजन्मनि ।
दुर्लभा, सुलभा कार्ये
वेदार्थोऽतः स एव हि ॥ ४१ ॥

टीका

“अथाऽतो धर्मजिज्ञासे"त्यत्राऽथशब्देन कृत्स्न-वेदाध्ययनाऽनन्तर्यम् उच्यते। अतश्-शब्देन कृत्स्नस्य वेदस्य विवक्षितार्थत्वं हेतू-क्रियते ।
उक्तशब्द-द्वयाऽनुसारेण धर्म-शब्दोऽपि कृत्स्नं वेदार्थम् आचष्टे । ततः सूत्रे “वेदार्थो जिज्ञास्य” इति प्रतिज्ञा कृता ।।

तत्र संशयः- किं मन्त्रार्थवाद् अप्रतीतः सिद्धार्थोऽपि वेदार्थो भवति ? किं वा विधि-वाक्य-प्रतीतः कार्यार्थ एव वेदार्थः ? इति ।
तत्र (१) “लोकावगत-सामर्थ्यः शब्दो वेदेऽपि बोधकः” इति न्यायेन व्युत्पत्त्य्-अनुसारी वेदार्थो वर्णनीयः । व्युत्पत्तिश्च सिद्धार्थे ऽप्यस्ति ।

(१. अत्र च न्यायः ( पू. मी. १.३.९. ) लोकवेदाधिकरणसिद्धः, तत्र य एव लौकिकाइशब्दाः त एव वैदिकाः। य एव लोके शब्दानाम् अर्थाः, त एव वेदेऽपीति सिद्धान्तितत्वात् । )

‘पुत्रस्ते जातः’ इति वार्ताहर-व्याहार-जन्यं श्रोतुर् हर्षम् अनुमाय हर्ष-हेतौ पुत्रजन्मनि सङ्गतिं प्रतिपद्यते । अतो “मन्त्रार्थ-वाद् अप्रतीतो ऽप्यर्थों वेदार्थः” इति प्राप्ते (२)ब्रमः-
पुत्र-जन्म-वद्-धर्षहेतूनां धन-लाभादीनां बहुत्वाद् अस्य वाक्यस्य पुत्रजन्म+एवाऽर्थ इति निर्णयो दुर्लभः ।
(३) गामानयेति वाक्ये तु गवानयन-रूपां मध्यम-वृद्ध-प्रवृत्तिम् अवलोक्य सङ्गति-ग्रहणं सुलभम् । तस्मात् कार्यरूप एव वेदार्थ(४) इति ॥

(३. अयमर्थः- गामानयेत्य् उत्तम-वृद्ध-वचन-श्रवण-समनन्तरं मध्यम-वृद्धस्य गवानयनं दृष्ट्वा व्युत्पित्सुर् बाल इत्थमाकलयति - ज्ञान-पूर्विकेयम् अस्य प्रवृत्तिः, स्वतन्त्र-प्रवृत्तित्वात् , मत्प्रवृत्तिवदिति ।
तथैव स्वात्मदृष्टान्तेन प्रवर्तक-प्रत्यये पद-समुदायस्य सामान्यतस् सामर्थ्यम् अधिगम्य, प्रयोगान्तरेषु गां बधान, अश्वमानयेत्यादिषु आनयनगोशब्दयोरुद्धारे तदर्थयोर् अप्य् उद्धारात्, प्रक्षेपे च प्रक्षेप-दर्शनात् अन्वयव्यतिरेकाभ्यां गवादि-विशेषेषु पद-विशेषस्य सामर्थ्यं गृह्णाति ।
तच्च सामर्थ्यं सर्वत्र कार्यान्वयाव्यभिचारात् तदन्वित-पदार्थेषु गृह्णाति, न पुनः पदार्थमात्रे, प्राथमिक-व्युत्पत्त्य् -अवगताऽव्यभिचारि-कार्यान्वय-परित्यागे प्रमाणाऽभावात् ।
ननु यत्र मध्यम-वृद्ध-प्रवृत्ति-लिङ्गम् अवलम्ब्य शब्दस्य सङ्गतिग्रहः - तत्रैवं भवतु। यत्र तु मुख-विकासादि-लिङ्गाद् +हर्ष-हेतु-सिद्धार्थम् अनुमाय शब्दस्य सङ्गतिग्रहः, यथा-“पुत्रस्ते जात” इत्यादिषु तत्राऽवश्यं कार्यम् अन्तरेणैव सिद्धार्थे शब्दस्य शक्तिर् एष्टव्येति चेन्न; सिद्धार्थ-बोधक-वाक्येषु “पुत्रस्ते जात” इत्यादिषु हर्ष-हेतु-विशेषानुमापकस्य प्रत्यक्षलिङ्गस्याऽभावात् , मुखविकासादेश् च हर्षहेतु-मात्रानुमापकत्वात्, पुत्रजन्मवद् अन्यस्य धनलाभादेर् अप्यनेकस्य सम्भवेन विनिगमनाभावाच्च पुत्रशब्दस्य सङ्गतिग्रहो न सुलभः । अतस् सर्वशब्दानां कार्यान्वित-पदार्थेष्वेव शक्तिरिति सर्वोऽपि वेदार्थः कार्यरूप एवेति । )

इति द्वितीयं धर्मलक्षणाधिकरणम् ॥ २ ॥