परिचयः
- अनेकावान्तर-वाक्य-निचयात्मके एकार्थ-प्रधानके सन्दर्भे, बहूनाम् अर्थानां प्रतीयमानत्वात् कस्मिन्न् अर्थे तात्पर्य-विषयत्व-रूपं प्राधान्यम् इत्येतन्-निर्णयाय +इमानि तात्पर्यलिङ्गानि उपयुज्यन्ते। वाक्यतात्पर्याद् भिन्नं हि प्रबन्धतात्पर्यम्।
- प्रयोजनम्
- तादृश्या स्पष्टतया वाक्यविवरणं पदविवरणं च स्पष्टम् भवति। यथा “सैन्धवम् आनय” इत्युक्तौ लवणग्रहणं वा ऽश्वग्रहणं वेति संशये जाते प्रकरणम् ईक्षेत।
- प्रमाम् अपि जनयति। ततः सत्प्रवृत्तिम्।
प्रमासम्बन्धः
- प्रमा-परिचयो ऽत्र। वैदिकप्रमालक्षणं ततो ज्ञेयम्।
- मीमांसकैः शब्दनिष्ठं तात्पर्यम् बोध्यते। अन्यत्र बहुदा वक्तृनिष्ठं तात्पर्यं बुध्येत - विवक्षा हि तत्र प्रधाना।
- शब्दनिष्ठं तात्पर्यम् - प्रमा-जननानुकूल-शक्तिः। तात्पर्यविषयीभूते ऽर्थे शब्दः प्रमां जनयति।
- कारिका - “उपक्रमोपसंहारौ अभ्यासोऽपूर्वता फलम्। अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये॥”
गौणार्थ-ग्रहणम्
वरं हि वाक्य-वैयर्थ्य-परिहारार्थं पदस्य
गौणार्थ-वर्णनम् अपिइति पूर्व-तन्त्रे दशमाध्याये
‘यद्यपि चतुरवत्ती यजमानस्
तथापि पञ्चावत्तैव वपा कार्या’इत्य्-अत्र शाबर-भाष्य-शास्त्र-दीपिकादौ न्यायः प्रदर्शितः ।
एवं लक्षणया ऽर्थस्य ग्रहणे ऽपि क्रमो वर्तते -
शब्द-लक्षणा ग्राह्या।
तद्-बाधायां हि वाक्य-लक्षणा ग्राह्या।
यथासम्भवम् असङ्कोचः
सर्वं वाक्यं सावधारणम् - असति बाधके।
अनुपाधिक-निर्देशे
ह्य् असङ्कोचो मनीषिभिः ।
“सिद्धे शब्दार्थसम्बन्ध”
इति न्यायेन कथ्यते॥
अर्थनिष्ठानि लिङ्गानि
परिचयः
- वैदिकप्रमायाय् अपेक्षितांशाः - अज्ञातता, अबाधितता, फलवत्ता (परिचयो ऽत्र)। एते ऽत्र तात्पर्यलिङ्गैर् व्यज्यन्ते।
- एकम् अप्य् अर्थनिष्ठं लिङ्गं विना न वेदप्रमैव नोद्भवितुम् अर्हति। तादृशे विषये “वेदशब्दस्य तात्पर्यं नास्ति” इत्युच्यते।
- किन्तु शब्दनिष्ठाऽन्यतमाभावेऽपि तात्पर्यम् भवितुम् अर्हति। अतस् तेषाम् प्रयोजनं गौणं तात्पर्यनिर्णये - यदा अर्थनिष्ठलिङ्गानि नैकेषु विषयेषु भवन्ति, तदैव तेषाम् प्रयोजनम् विनिगमकतया।
लिङ्गानि
- अपूर्वता - अपूर्वोक्तविषयो भवति प्रधानो बहुदा।
- उपपत्तिः/ उपपन्नत्वम्। अबाधितता-निरूपणम्। निरूपणम् उदाहरणैः स्यात्। तेन श्रमपूर्वक-निरूपणेन प्रबन्धसारं निश्चेतुम् अलम्।
- फलवत्ता - फलवत्तया प्रतिपादितो विषयः प्रधानभूतो बहुदा।
शब्दनिष्ठानि लिङ्गानि
- उपक्रमोप-संहारौ
- यथात्र - पर्वतो वह्निमान् (प्रतिज्ञा), धूमवत्वात् (हेतुः), यो यो धूमवान् स वह्निमान् यथा महानसः (उदाहरणम्), तथा चायं (उपनयः), तस्मात्तथेति (निगमनम्)।
- अभ्यासः - अधिकवारं किमुच्यते?
- अर्थवादः। निन्दास्तुती।
न्यायाः
तद् अन्यत्र दृश्यम्।
ताटस्थ्यम्
इत्थमर्थाविशेषेपि योजनाभेदमात्रतः ।
प्राचां विवादस्संवृत्तो भाष्यकारैरवारितः ॥
इति वेङ्कटनाथः।
एवं क्वचिच् छास्त्रार्थे निश्चिते सत्य् अपि, योजनासु नाग्रहः।