अर्थवादः

परिचयः

  • प्राशस्त्य-निन्दा-अन्यतर-बोधकम्। विहितस्य स्तावकः, निषिद्धस्य निन्दकः। सुप्रवृत्तौ रुचिर् जनयति। तेन विधिनिषेधयोर् उपकारकः।

प्रकारः

  • गुणवादः। प्रमाणान्तर-विरुद्धार्थ-बोधकः।
    • आदित्यो यूपः।
  • अनुवादः। प्रमाणान्तर-प्राप्तार्थ-बोधकः।
    • अग्निर् हिमस्य भेषजम्।
  • भूतार्थवादः। अन्यप्रमाणैर् अप्राप्त-विषयाणां बोधकः।
    • इन्द्रो वृत्राय वज्रम् उदयच्छत्।
  • अधिकार्थवादः।
    • वात-च्छेद्यं तृणम् (कोमलत्वेन स्तुतिः)।
  • निन्दास्तुतिः
  • स्तुत्यर्था निन्दा।
    • नहि निन्दा निन्द्यं निन्दितुं प्रवर्ततेऽपि तु विधेयं स्तोतुमिति।
    • “द्वयोर् दिनयोः १४-तिथिर् अस्ति चेत्, अप्रस्मिन् दिने शिवरात्रिव्रतं क्रियते चेत् ६०००० वर्षाणि नरके पतिष्यति” इति विधिप्रकरणय् आगच्छति, अतो नायं निषेधः, न च फलबोधकः, अप्ति तु प्रथमदिनस्तुतिः।