परिचयः
- प्राशस्त्य-निन्दा-अन्यतर-बोधकम्। विहितस्य स्तावकः, निषिद्धस्य निन्दकः। सुप्रवृत्तौ रुचिर् जनयति। तेन विधिनिषेधयोर् उपकारकः।
प्रकारः
- गुणवादः। प्रमाणान्तर-विरुद्धार्थ-बोधकः।
- आदित्यो यूपः।
- अनुवादः। प्रमाणान्तर-प्राप्तार्थ-बोधकः।
- अग्निर् हिमस्य भेषजम्।
- भूतार्थवादः। अन्यप्रमाणैर् अप्राप्त-विषयाणां बोधकः।
- इन्द्रो वृत्राय वज्रम् उदयच्छत्।
- अधिकार्थवादः।
- वात-च्छेद्यं तृणम् (कोमलत्वेन स्तुतिः)।
- निन्दास्तुतिः
- स्तुत्यर्था निन्दा।
- नहि निन्दा निन्द्यं निन्दितुं प्रवर्ततेऽपि तु विधेयं स्तोतुमिति।
- “द्वयोर् दिनयोः १४-तिथिर् अस्ति चेत्, अप्रस्मिन् दिने शिवरात्रिव्रतं क्रियते चेत् ६०००० वर्षाणि नरके पतिष्यति” इति विधिप्रकरणय् आगच्छति, अतो नायं निषेधः, न च फलबोधकः, अप्ति तु प्रथमदिनस्तुतिः।