विशेषण-विवक्षा

अविशिष्टता - ग्रहैकत्वाधिकरणन्यायः

  • उद्देश्य-विशेषणम् अविवक्षितम्।

सञ्चारविषयः

  • विशेषणम् पदाङ्गान्तरेण बोधितं स्यात्।
    • प्रत्युदाहरणं यथा - “घटमानय” इत्यत्र घटत्व-विशिष्ट-वस्तुन आनयनम् भावयेति शाब्दबोधः।
  • विशेषणाभावेऽप्य् उद्देश्यो निश्चितः स्यात्।
    • प्रत्युदाहरणं यथा - यस्योभयं+++(=दधिपयसी)+++ हविर् आर्तिम्+++(=नाशम्)+++ आर्च्छेत्, तस्य पञ्चशारावहविर् उक्तम्। अत्र नाश उद्देश्यो न भवितुमर्हति +++(“कस्य नाश” इत्यस्पष्टं स्यात्)+++, हविर्नाश एव उद्देश्यः स्यात्।

उदाहरणम्

“ग्रहं+++(=पात्रविशेषम्)+++ संमार्टि” इति वर्तते।
तत्रैकस्यैव ग्रहस्य सम्मर्जनम्
उत सर्वेषाम् बहूनां वर्तमानानाम्?
नाम, एकत्वविशिष्टग्रह उद्देश्यः स्यात्? अथवाविशिष्टग्रह उद्देश्यः?

तथा सति, ग्रहः प्रधानः, सम्मार्जनम् तदङ्गम् इति कृत्वा प्रतिप्रधानगुणावृत्तिर् इति न्यायेन सर्वेषां मार्जनम्।
उद्देश्यविशेषणस्य अविवक्षा। तत्रैव ग्रहत्वस्य विवक्षा।

विधेय-विशेषणम् - पश्व्-एकत्व-न्यायः

विधेय-विशेषणं विवक्षितम् भवति।

उदाहरणम्

“अष्टवर्षम् ब्राह्मणम् उपनयीत”

इत्यत्र ग्रहैकत्वाधिकरणन्यायेन +अष्टवर्षत्वम् पुंस्त्वं च +उद्देश्ये नान्तर्भवतः,
ततो ऽस्मिन्न् उपनयन-विधाव् अविवक्षिते।
ततः शाब्द-बोध “ब्राह्मणेन +उपनयनम् भावयेत्”।

किन्तु - संस्कारस्यान्यत्र विनियोगो वाच्यः।
“उपनीतेन ब्राह्मणेन स्वाध्यायाध्ययनम् भावयेत्” इति वर्तते।

अत्र विधेय कोटाव् अष्टवर्षत्वम् पुंस्त्वं चापतति,
ततस् तत्र तयोर् विवक्षितता।

निष्कर्षकानिष्कर्षक-शब्दाः

अनिष्कर्षकाः विशेषण-विशिष्ट-विशेष्य-वाचिनः - यथा शुक्ल-गवादि-शब्दाः।

निष्कर्षकशब्दा विशेषणमात्रं वदन्ति - यथा गोत्व-शरीरादि-शब्दाः। नियत-निष्कर्षकाः - गोत्वजात्यादयः।
वैवक्षिक-निकर्षकाः - शुक्लादयः,
ये शुक्ल-पट-पर्यन्तम् अप्य् अर्थं विशिष्टं विवक्षेयुः, शुक्ल-वर्ण-विशेषण-मात्रं वा।

पार्ष्ठिकान्वयः

अरुणाधिकरणन्यायः

पार्ष्ठिकान्वयस्य मूलभूतो न्यायः।

“अरुणया पिङ्गाक्ष्या +एकहायन्या सोमं क्रीणाति।” =
“अरुणामता पिङ्गाक्षिमता +एकहायनीमता क्रयेण सोमम् भावयेत्”।

यदा विशिष्ट-विधिर् भवति,
ततः परम् - विशेष्य-विशेषणयोर् अङ्गाङ्गिभावसिद्ध्यै
विध्य्-अन्तरं कल्प्यते।

ततः -
“अरुणया क्रयम् भावयेत्। पिङ्गाक्ष्या क्रयम् भावयेत्। एकहायन्या कर्यम् भावयेत्।” इति कल्प्यन्ते।
एकहायनि-पिङ्गाक्षि-शब्दयोर् द्रव्यवाचकता
+++(- प्राचीनमीमांसकविचारे बहुव्रीहि समासस्यान्यपदार्थे शक्तिः, अर्वाचीनविचारे तु लक्षणा)+++।
अत्रारुण्य-विशिष्ट-द्रव्यं किं स्यात्?
एक-हायन-विशिष्टद्रव्यं यत्, तदेव - पार्ष्ठिकसम्बन्धात्।

मुनित्रयं नमस्कृत्य

सिद्धान्तकौमुद्यारम्भे “मुनित्रयं नमस्कृत्य” इत्यत्र त्रयशब्देन त्र्यवयवसमुदायो गम्यते। मुनीनाञ्चायं समुदाय इति ज्ञायते। ते त्रयो ऽवयवा मुनय इति कथं ज्ञायेत? बालमनोरमाकारो वदति - पार्ष्ठिकान्वयेन सम्बद्ध्यन्ते।