गौणमुख्यन्यायः
- मुख्यार्थ+++(=अभिधार्थ)+++सम्भवे गौणार्थो न ग्राह्यः। “मुख्याभिधानसंयोगात्” इति सूत्रम्।
- “बर्हिर् देवसदनं लामि”। बर्हिश्-शब्देन कुशो ग्राह्यो वा तृणान्तरम् अपि वा? गौणं बर्हिः कुशसदृशं, मुख्यार्थेन कुशेन बाध्यते।
निषाद-स्थपत्यधिकरण-न्यायः
सति मुख्यार्थसंभवे लक्षणा न न्याय्या।
“निषाद-स्थपतिं याजयेद्” इति वाक्यम्। तत्र निषादस्थपतिशब्दे कीदृशः समासः? निषादानां स्थपतिः +++(यः स्वयं निषादो न स्यात्)+++ इति? अथवा निषाधश्चासौ स्थपतिश्चेति कर्मधारयो वा? “निषादानां स्थपतिः” इति विग्रहे तु षष्ठीविभक्तिप्रत्ययो न दृश्यते - निषादसम्बन्धीति पूर्वपदे लक्षणा ग्राह्या। द्वितीये विग्रहे तु लक्षणा नापेक्ष्यते। अतः स एव गृह्यते।
भूयोऽनुग्रहन्यायः
- “श्येनेनाभिचरन् यजेत” इत्युपक्रमस्थस्यापि श्येनपदस्य मुख्यार्थत्वे ऽर्थवाद-गतानाम् अपि बहूनां पदानाम् शक्त्या +उपमानतां न स्वीकर्तुं शक्यते - लक्षणा ऽऽश्रयणीया भवति। भूयसां तेषाम् अनुग्रहाय उपक्रमस्थ एवैकस्मिन् उपक्रमस्थ-श्येनपदे गौणी वृत्तिम् अङ्गीकृत्य याग-नामधेयत्वम् अङ्गीकृतम्।
- अनुष्ठानकालेऽप्ययमेव न्यायः क्वचित्।
पाशाधिकरणन्यायः
- मुख्यार्थे सम्भवति लक्षणार्थो न स्वीकार्यः। किन्तु कदाचिदस्यापवादो ऽत्र।
- नामान्तरम् - गुणे+++(=विशेषणे)+++ त्वन्याय्य-कल्पना+++(→लक्षणार्थग्रहणम्)+++ +++(वरम्)+++ +इति न्यायः।
उदाहरणम्
- अग्निषोमीयप्रकरणे मन्त्रः - “अदितिः पाशं प्रमुमोक्तु”। शाखान्तरे तु तत्रैव - “अदितिः पाशान् प्रमुमोक्तु”। तत्र त्व् एक एव पशुः। एवन्तर्हि, मन्त्रो ऽयं प्रकरणाद् बहिर् विकृतियागे बहु-पशु-युक्त-याग उत्क्रष्टव्यो वा? अथवा बहुवचनस्यैकवचनत्वेन लक्षणा स्वीकार्या? बहुवनं प्रकृत्यर्थविशेषणम्। तदनुरोधेन प्रधानार्थम् उपेक्ष्यान्यत्रापकर्षणम् अन्याय्यम्।