कपिञ्जलाधिकरणन्यायः
- कपिञ्जलानालभेत इत्यादौ बहुवचनस्य त्रित्वे विश्रान्तिः। यतस् तदधिकसङ्ख्यायां विश्रान्तेर् गमकं किमपि नास्ति।
- तदपवादो उत्तरगोदोहनन्यायः।
उत्तरगोदोहनन्यायः
- कपिञ्जलाधिकरणन्यायस्यापवादः।
उदाहरणम्
- तिसॄणां दोहने मन्त्रपूर्वके विहिते - “तूष्णीम् उत्तरा दोहयति, नास्यास्मिन् रात्रौ कुमाराश्चन पयसो लभन्ते” इति वर्तते। तेन यावन्त्यो गावस् सन्ति यजमानस्य, तावतीनामेव दोहः।
- पृष्ठानि नाम स्तोत्रविशेषाणि। क्वचित् ६ पठितानि, २ विकल्पिते। ततोऽन्ते ४ पृष्ठस्तोत्राणि गृह्यन्ते ऽनुष्ठाने।