दैवी मीमांसा
— Dr. मणिद्राविडः,
पूर्वमीमांसाशास्त्राध्यापकः,
मद्रपुरीयसंस्कृतमहाविद्यालयः,
मैलापूर् , चेन्नै – ४ .
परिचयः
दैवी मीमांसा, सांकर्षणम् , संकर्षणकाण्डम् , देवताकाण्डम् , संकर्षकाण्डम् इत्यादिभिः शब्दैः कश्चित् सूत्रग्रन्थः व्यवहृतः,
उदाहृतानि च तत्रत्यानि कानिचित् सूत्राणि
द्वैत-विशिष्टाद्वैत-अद्वैतग्रन्थकारैः।
किमेभिः शब्दैः व्यवहृतः ग्रन्थ एक एव, अथवा अनेकः?
ग्रन्थकर्ता कः?
ग्रन्थप्रतिपाद्यो विषयः कः?
तदीयसूत्रोद्धरणं
कस्मिन् संदर्भे
केन प्रयोजनेन कृतम्?
इत्यादिकं यथा-मति अस्मिन् प्रबन्धे निरूप्यते।
उद्धरणानि
मध्वः
श्रीमध्वाचार्यैः अनुव्याख्याने —
“स्वयं भगवता (व्यासेन) ‘विष्णुर्
ब्रह्मेत्य्’ एतत् पुरोदितम्॥
‘स विष्णुराह ही’त्य् अन्ते
देवशास्त्रस्य तेन हि ।
आद्य्-अन्तं देव-शास्त्रस्य
स्वयं भगवता कृतम् ॥
मध्यं तद्-आज्ञया पैल-
शेषाभ्यां कृतम् अञ्जसा।
अतस् तत्रैव विष्णुत्व-
सिद्धेर् ब्रह्मेत्य् असूचयत्” ॥
१,१. ८०, ८१,८२ ॥
इति देव-शास्त्र-पदेन दैव-मीमांसायाः निर्देशः कृतः।
अत्र “अथातो ब्रह्मजिज्ञासा” इति सूत्रे
अनेकार्थकस्य ब्रह्मशब्दस्यार्थं निर्णेतुं
ब्रह्म-सूत्र-कर्तुः देव-मीमांसाऽऽख्य-ग्रन्थान्तरस्य अन्ते स्थितं
“स विष्णुर् आह हि” इति सूत्रम् उद्धृतम्।
न्याय-सुधा
तद्व्याख्याने न्याय-सुधायाम् उक्तम्—
‘देवमीमांसा-शास्त्रस्यान्ते
“स विष्णुर् आह हि , तं ब्रह्मेत्य् आचक्षते”
इति सूत्र-द्वयेन विष्णुर् ब्रह्मेत्य् उदितम्।
तद्-अनन्तरम् एव च
“अथातो ब्रह्मजिज्ञासा” इति सूत्रितत्वात्
पुरोदितम् इत्य् उक्तम्’
इति। अयं चात्र ज्ञायते विशेषः—
दैव-मीमांसा-शास्त्रस्य आदिमान्तिम-भागयोः कर्ता तु
ब्रह्म-सूत्रकार एव,
तस्य अवशिष्ट-भाग-कर्तारौ तु
व्यासाज्ञया पैल-शेषौ इति ।
अस्यादिमं सूत्रं तु “अथातो दैवी मीमांसा” इति वदन्ति।
‘श्लोकाः सूत्राण्य् अनुव्याख्यानानि व्याख्यानानि’ (बृ. 4.1.2) इत्य् अत्र
“सूत्रं तु ब्रह्म-सूत्राख्यं
महामीमांसिका तथा।
तथा साङ्कर्षणं सूत्रं
ब्रह्म-तर्कादयस् तथा॥”
इति बृहद्-आरण्यकोपनिषद्-भाष्ये
श्रीमध्वाचार्यैः साङ्कर्षणं सूत्रं निर्दिष्टम्।
“अचेतनासत्यायोग्यान्य् अनुपास्यानि
अफलत्व-विपर्ययाभ्याम्”
इति सूत्रम् अपि सांकर्षण-सूत्र-नाम्ना निर्दिष्टं
तत्त्व-प्रकाशिकादौ। द्र. 3-3-6।
व्यासतीर्थः
तात्पर्य-चन्द्रिकायां जिज्ञासाधिकरणे रामानुजीय-मत-निराकरणावसरे व्यासतीर्थैः—
‘किंच “अथातो धर्मजिज्ञासा” इत्यादि
“अनावृत्तिः शब्दात्” इत्यन्तं
विंशति-लक्षणम् एकं शास्त्रम् इति वदता त्वया
चतुर्-लक्षणी देव-मीमांसा द्वादश-लक्षण्याः कर्म-मीमांसाया उत्तरा,
ब्रह्ममीमांसायास् तु पूर्वा
इति स्वीकृतत्वेन सिद्धे व्युत्पत्त्य्-अभावे
सिद्ध-रूप–देव-मीमांसानुपपत्तेः,
तस्यास् तत्रैव सिद्धत्वात्
पुनर् इह सिद्धे व्युत्पत्त्य्-अभावेन पूर्वपक्षो न युक्तः’
इति विंशति-लक्षण-मीमांसान्तर्गतत्वेन
विशिष्टाद्वैति-प्रसिद्धे चतुर्-अध्यायात्मके ग्रन्थे
देव-मीमांसा-पद-प्रयोगः कृतो दृश्यते।
राघवेन्द्रः
तद्व्याख्याने प्रकाशिकाख्ये श्रीराघवेन्द्रतीर्थैः —
‘विंशति-लक्षणम् इति।
लक्षण-शब्दो ऽध्यायपर्यायः।
पूर्वतन्त्रे द्वादश लक्षणानि।
दैवीमीमांसायां चत्वारि।
उत्तरमीमांसायां चत्वारि चेत्यर्थः।’
इति ‘दैवी मीमांसा’ इति पद-प्रयोगः कृतः।
तद् एतैर् वाक्यैः -
दैवी मीमांसा, सांकर्षणम् , संकर्षणकाण्डम् , देवताकाण्डम्
इति तत्र तत्र एक एव ग्रन्थो विवक्षित इत्य् ऊह्यते।
सर्वमतसंग्रहः
अनन्त-शयन-संस्कृत-ग्रन्थ-मालायां मुद्रयित्वा प्रकाशितं
‘सर्वमतसंग्रहः’ ‘प्रपञ्चहृदयम्’ इति ग्रन्थ-द्वयम्
अज्ञातकर्तृकं शास्त्र-प्रतिपाद्य-विषय-निर्देशनेन
शास्त्र–स्व-रूप–परिचय-परम् उपलभ्यते।
तत्र सर्व-मत-संग्रहे —
‘एवं पूर्वोत्तर-काण्डात्मना भिन्नस्य
वेदस्याध्ययन-विधि-परिगृहीतत्वात्
विवक्षितार्थत्वेन निश्चितस्यार्थ-विचाराय मीमांसाशास्त्रं प्रवृत्तम्।
तच्च विंशत्य्-अध्याय-परिमितं काण्ड-त्रयात्मकं भवति।तत्र पूर्वमीमांसा द्वादशाध्यायमिता कर्मकाण्डनिष्ठा।
तत्-सूत्रकर्ता जैमिनिः।
भाष्यकारः शबरस्वामी। तद्व्य्-आख्यातारौ भट्ट-कुमार–प्रभाकरौ।
तयोः भट्ट-कुमारेण विधि-वाक्यानि भावना-परतया व्याख्यातानि,
प्रभाकरेण नियोग-परतया।उत्तरमीमांसा तु द्वि-रूपा
सगुण-निर्गुण-ब्रह्म-निष्ठा अष्टाध्याय-मिता व्यास-प्रणीता।तत्र स-गुण-ब्रह्म-निष्ठा देवता-काण्डात्मिका अध्याय-चतुष्टय-वती।
इह भाष्यकारः संकर्षः।तत्र प्रथमेऽध्याये सर्वेषां मन्त्रविशेषाणां
देवतातत्त्व-प्रतिपादने तात्पर्यम् इति प्रतिपादितम्।
द्वितीये विध्य्-अर्थवादादेः वेद-शेषस्य मन्त्र-देवता-शेषत्वम् उपपाद्यते।
तृतीये देवता-तत्त्वं स्वेच्छा-विग्रहत्वादि-गुण-गणालंकृतम् इति दर्शितम्।
चतुर्थे तत्-तद्-देवता-प्रसादतस्
तत्-तल्-लोक-वेष-विभूषणैश्वर्यानन्दावाप्ति-लक्षणं देवतोपासन-फलं निर्णीतम्।
एवं मध्यम-मीमांसा सर्व-देवतात्मनो हरेः प्रतिपादिकेति स-गुण-ब्रह्म-परा भवति।’
(पृष्ठ 10)
इति।
प्रपञ्च-हृदयम्
प्रपञ्च-हृदये ऽपि—
‘तत्र साङ्गोपाङ्गस्य वेदस्य
पूर्वोत्तर-काण्ड-संभिन्नस्याशेष-वाक्यार्थ-विचार-परायणं मीमांसा-शास्त्रम्।
तद् इदं विंशत्य्-अध्याय-निबद्धम्।
तत्र षोडशाध्याय-निबद्धं पूर्व-मीमांसा-शास्त्रं
पूर्व-काण्डस्य धर्म-विचार-परायणं जैमिनि-कृतम्।
तद्-अन्यद् अध्याय-चतुष्कं उत्तर-मीमांसा-शास्त्रम्
उत्तर-काण्डस्य ब्रह्म-विचार-परायणं व्यास-कृतम्।
पाठान्तरम् (द्रष्टुं नोद्यम्)
‘तत्र द्वादशाध्याय-निबद्धं पूर्व-मीमांसा-शास्त्रं
पूर्व-काण्डस्य धर्म-विचार-परायणं जैमिनि-कृतम्।
तद्-अन्यद् अध्यायाष्टकम् उत्तर-मीमांसा-शास्त्रम्
उत्तर-काण्डस्य ब्रह्म-विचार-परायणं व्यास-कृतम्।’
इति पाठान्तरं मुद्रितग्रन्थे उपलभ्यते।
(उपेक्ष्यम् इदम् इति पश्चाद् वक्ष्यति। )
तस्य विंशत्य्-अध्याय-निबद्धस्य मीमांसा-शास्त्रस्य कृत-कोटि-नाम-धेयं भाष्यं बोधायनेन कृतम्।
तद् ग्रन्थ-बाहुल्य-भयाद् उपेक्ष्य
किंचित् संक्षिप्तम् उपवर्षेण कृतम्।
तदपि मन्द-मतीन् प्रति दुष्-प्रतिपादं विस्तीर्णत्वाद् उपेक्ष्य
षोडश-लक्षण–पूर्व-मीमांसा-शास्त्र-मात्रस्य
देव-स्वामिना ऽतिसंक्षिप्तं कृतम्।
भव-दासेनापि कृतं जैमिनीय-भाष्यम्।पुनर् द्विकाण्डे धर्ममीमांसाशास्त्रे
पूर्वस्य तन्त्र-काण्डस्य
आचार्य-शबर-स्वामिना ऽतिसंक्षेपेण
संकर्ष-काण्डं द्वितीयम् उपेक्ष्य कृतं भाष्यम्।तथा देवता-काण्डस्य संकर्षेण, (संकर्षणेन पा.)
ब्रह्म-काण्डस्य भगवत्-पाद–ब्रह्म-दत्त–भास्करादिभिर् मत-भेदेनापि कृतम्।’
इति ग्रन्थ उपलभ्यते।
अत्र
‘भगवद्-बोधायन-कृतां विस्तीर्णां ब्रह्म-सूत्र-वृत्तिं
पूर्वाचार्याः संचिक्षिपुः’
इति श्री-रामानुजाचार्यैः श्री-भाष्ये उक्तोऽर्थः स्पष्टी-कृतो भवति।
किंचात्र यत्
‘तत्र द्वादशाध्याय-निबद्धं पूर्व-मीमांसा-शास्त्रं…’ इति कुण्डलितं पाठान्तरम् उपन्यस्तम् ,
तत् पूर्वोक्त-सर्व-मत-संग्रह–ग्रन्थानुसारि ,
न तु प्रपञ्च-हृदय-ग्रन्थानुसारि,
अग्रे ‘षोडश-लक्षण-पूर्व-मीमांसा-शास्त्र-मात्रस्य’
‘पुनर् द्वि-काण्डे धर्म-मीमांसा-शास्त्रे’ इत्य्-आद्य्-उत्तर-ग्रन्थानानुगुण्यात्।
वेङ्कटनाथार्यः
अधिकरण-सारावल्यां निगमान्त-देशिकाः —
“वेदार्थे न्याय-चिन्त्ये प्रथमम् अधिगतः कर्म-वर्गः प्रमाणैः,
भेदैर् अङ्गैः प्रयुक्त्या क्रम-विरचनया ऽथा ऽधिकृत्या ऽतिदिष्ट्या।
तत्राशेषैर् विशेषैस्, तद्-अनु तद्-अनुवर्त्य्-ऊहतः प्राप्त-बाधैः
तन्त्रेणाथ प्रसक्त्या, तत उपरि चतुर्-लक्षणी देवतार्था” ॥5॥
इति श्लोके द्वादशाध्याय्याः प्रतिपाद्यानर्थान्
‘प्रमाणैर्’ इत्य्-आदिना क्रमेण निर्दिश्य,
‘तत उपरि चतुर्लक्षणी देवतार्था’ इति संकर्ष-काण्ड-विषयं निर्दिशन्ति।
संकर्ष-काण्डस्याध्याय-विषयास्तु नात्रोक्ताः।
अन्यत्र तु
“स्वरूपम् आदौ तद्-भेदः
तद्-उपासन-पूर्वकम्।
फलं च देवताकाण्डे
देवतानां तु कथ्यते॥”
इति श्लोकोक्तं देवतास्वरूपं, तद्-भेदः, तद्-उपासनम् , तत्-फलम् इति चतुष्टयम् उक्तम् ।
पुनः संकर्ष-काण्डस्य जैमिनि-कृतत्वं काशकृत्स्न-कृतत्वं वेति ग्रन्थ-कृतां विप्रतिपत्तिम् उपस्थाप्येत्थं परिजह्रुः—
“वृत्ति-ग्रन्थे तु जैमिन्य्-उपरचिततया षोडशाध्याय्य् उपात्ता
संकर्षः काशकृत्स्न-प्रभव इति कथं तत्त्व-रत्नाकरोक्तिः।
अत्र ब्रूमः सद्-उक्तौ न वयम् इह मुधा बाधितुं किंचिद् अर्हाः
निर्वाहस् तूपचारात् क्वचिद् इह घटते ह्य् एक-तात्पर्य-योगः”॥15॥
इति ,
‘संहितम् एतत् शारीरकं
जैमिनीयेन षोडश-लक्षणेन’
इति वृत्तिग्रन्थे,
‘संकर्षः काशकृत्स्न-प्रभवः’
इति तत्त्वरत्नाकरोक्तौ च
एक-तात्पर्यकत्वात् एक-कृतत्वेऽपि अन्य-कृतत्वम् उपचर्यते
इति तद्-अभिप्रायः।
परन्तु जैमिनि-कृते संकर्ष-काण्डे काशकृत्स्न-कृतत्वम् उपचर्यते,
उत काशकृत्स्न-कृते जैमिनि-कृतत्वम् उपचर्यते
इति नात्र स्पष्टम्।
सेश्वर-मीमांसायां —
“स जयति जैमिनिर् आदौ
जयति पुनः काशकृत्स्नोऽपि।
नारायणावतारो जयति
परं बादरायणः श्रीमान्॥”
इत्य् उक्त्या काशकृत्स्न-कृते संकर्ष-काण्डे जैमिनि-कृतत्वम् उपचर्यते वृत्ति-ग्रन्थे इत्य् ऊहितुम् अवकाशोऽस्ति।
ऐकशास्त्र्य-समर्थन-वादे शतदूषण्यां निगमान्त-देशिकैर् उक्तम्—
‘देवताकाण्डं च कर्म-काण्ड-शेषतया
भाष्यकारैः परिगृहीतम्।
“ तदुक्तं संकर्षे ” इति तत्रत्य-सूत्राणि चोदाहरन्ति।
तस्य च काण्डस्योपसंहारे
“अन्ते हरौ तद्-दर्शनात्” इति देवता-काष्ठां प्रदर्श्य,
“ स विष्णुर् आह हि ” इति
सर्व-देवताराधनानां तत्-पर्यवसानाय
तस्य सर्वान्तरात्मत्वेन व्याप्तिं प्रतिपाद्य,
“तं ब्रह्मेत्य् आचक्षते, तं ब्रह्मेत्य् आचक्षते”
इति तस्यैव वेदान्त-वेद्य-पर-ब्रह्मत्वोपक्षेपेणोपसंहारात्
सामान्यतोऽपि विशेषतश् च
+ईश्वरः प्रस्तुत इति तत्त्व-विदां संप्रदायः’
इति।
लक्ष्मीपुरश्रीनिवासः
मान-मेय-रहस्य-श्लोक-वार्तिकाभिधे ग्रन्थे
महामहोपाध्यायैः “पण्डित-रत्नं”-“लक्ष्मी-पुरं”-श्रीनिवासाचार्यैः-
‘तं च संकर्ष-काण्डं तु
काशकृत्स्न-विनिर्मितम्।
प्राहुः केचिद् बुधास् त्व् अन्ये
विदुर् जैमिनि-निर्मितम्॥
समाख्ययोल्लिखन्त्य् अन्ये
संकर्षण-विनिर्मितम्।
सर्वथा पाञ्चरात्रस्य
सिद्धान्तमनुवर्तते॥’
(पृ.569)
‘पूर्ण-प्रज्ञैर् अनुव्याख्या-
प्रबन्धे देव-काण्ड-गः।
द्वितीय-लक्षणः शेष-
प्रणीत इति भाषितम्॥’
(पृ.570)
इति यदुक्तं तद् अपीहानुसंधानम् अर्हति।
सिद्धार्थः
एवं च
यद्यपि दैवी मीमांसा स्वरूपतो नोपलभ्यते
तथापि पूर्वोदाहृत-तत्-तद्-ग्रन्थ-कृद्-उक्ति-परिशीलनेन
सिद्धोऽर्थः क्रोडी-क्रियते।
दैवी मीमांसा
“स विष्णुराह हि”
“तं ब्रह्मेत्य् आचक्षते, तं ब्रह्मेत्य् आचक्षते”
इति सूत्रघटिता
विशिष्टाद्वैत-ग्रन्थ-कारैर् अभिप्रेतात् सांकर्षण(संकर्ष)काण्डाद् अभिन्ना।
तस्याश् च कर्ता विशिष्टाद्वैतिनां मते
जैमिनिः, काशकृत्स्नो वा।
संकर्षणेन व्याख्यातत्वात् सांकर्षणं सूत्रम् इति व्यवहार-निर्वाहः
इति सर्व-मत-संग्रह–प्रपञ्च-हृदय-दर्शिनः केचित्।
द्वैतिनां मते तु
चतुर्-अध्यायात्मिकायास् तस्या आदिमान्तिमाध्यायौ
भगवता व्यासेन कृतौ,
मध्यमावध्यायौ तु शेष-पैलाभ्याम्।
अत्र शेष एव संकर्षणः इत्यभिप्रयन्ति केचित्।
तेन सांकर्षणं सूत्रम् इति व्यवहार-निर्वाहः।
प्रपञ्च-हृदयाद्य्-अनुसारेण
- सर्वेषां मन्त्र-विशेषाणां देवता-तत्त्व-प्रतिपादने तात्पर्यम्
- विध्य्-अर्थवादादेः वेद-शेषस्य मन्त्र-देवता-शेषत्वम्
- देवता-तत्त्वस्य स्वेच्छा-विग्रहत्वादि-गुण-गणालंकृतत्वम्
- तत्-तद्-देवता-प्रसादतः तत्-तल्-लोक-वेष-विभूषणैश्वर्यानन्दावाप्ति-लक्षणं देवतोपासन-फलम्
इति क्रमेणाध्याय-चतुष्टये प्रतिपाद्यन्ते विषयाः।
अन्यत्र तु
“स्वरूपम् आदौ तद्-भेदः
तदुपासन-पूर्वकम्।
फलं च देवता-काण्डे
देवतानां तु कथ्यते॥”
इति श्लोकोक्तं
देवता-स्वरूपं, तद्-भेदः, तद्-उपासनम् , तत्-फलम् इति चतुष्टयम् उक्तम् ।
अत्र विप्रतिपत्तिः साक्षाद् ग्रन्थोपलब्धाव् एव शाम्यतीत्य्
अलम् अनुपलब्ध-देव-मीमांसा-सूत्रालोचनेन।
‘प्रदानवद् एव तद्-उक्तम्’ (ब्र.सू.3.3.42) इति सूत्रे
“तद्-उक्तम्” इति पदं व्याचक्षाणैः श्री-भाष्यकारैः-
‘यथा इन्द्राय राज्ञे… तद्-उक्तं संकर्षणे –
नाना वा देवता-पृथक्त्वात् - इति’
इति सूत्रम् उद्धृतम्।
(अत्र सांकर्षणे इति, संकर्षे इति पाठान्तरमुपलभ्यते।)
अत्र ‘ इन्द्राय राज्ञे ’ इत्य्-आद्य्-उदाहृत-वाक्ये कृतो विचारः
शांकरभाष्येऽपि निर्दिष्टः इदानीम् उपलभ्यमाने पूर्वमीमांसा-शेष-भूते संकर्ष-काण्डे तथैवोपलभ्यते।
तदेव संकर्ष-काण्डं पूर्वमीमांसकैर् अपि शबर-स्वाम्य्-आदिभिः समादृतम्।
तच्च पूर्वोक्त-देवता-काण्डाद् अन्यद् एवेति
तद्-दर्शिनाम् एव स्पष्टम् इत्य् उपरम्यते।