कोरड-सुब्रह्मण्य-लेखः

[[subrahmanyam korada 2013-04-11, 21:00:26 Source]]

विश्वास-टिप्पनी

काश्चन विप्रतिपत्तयः (विशिष्य विशिष्टाद्वैतिमतकथने) - यावद् अवैमि विशिष्टाद्वैतिमतम् एवम् - मीमांसासूत्राणां २० अध्याया अवर्तन्त। १२ कर्म-काण्डम् + ४ देवता-काण्डम् + ४ ब्रह्म-सूत्राणि । तत्र देवताकाण्डं लुप्तम्। काशकृत्स्नेन पूरयितुम् प्रयत्तम् - हन्त तद् अपि कालेन पुनर् ग्रस्तम्।

तेन द्वादशाध्याय्यां देवताकाण्डम् अन्तर्भवतीति विशिष्टाद्वैतिमतम् इति भ्रमो मे भाति। (यद् उक्तम् - “it can be surmised that - according to Ramanuja the षोडशलक्षणी is applicable to कर्म ।” )

पुनः - “The only thing to note is they have too much of respect for वेदान्तदेशिक / निगमान्तदेशिक ।” इति विचित्रं वाक्यं दृश्यते। कोऽत्र हेतुर् अभिप्रायस्य? कुतोऽल्पतरं गौरवम् अर्हति वेङ्कटनाथार्य इति कथयतु धीमान्।

नमोविद्वद्भ्यः

1. Samkaracarya and Ramanujacarya quoted सङ्कर्ष(ण)काण्डसूत्रम् in प्रदानाधिकरणम् - सू . प्रदानवदेव तदुक्तम् (3-3-28-43) -

शां भा -

तदुक्तं सङ्कर्षे -

नना वा देवता - पृथज् ज्ञानात्

इति ।

भाष्यरत्नप्रभा -

संकर्षो देवताकाण्डम् ।

न्यायनिर्णयः -

संकृष्यते कर्म-काण्ड-स्थम् एव
अवशिष्टं कर्म संक्षिप्य उच्यते
इति संकर्षो देवता-काण्डम् ,
तस्मिन्न् इति यावत् ।

अप्पय्यदीक्षिताः परिमले -

यद्य् अपि संकर्ष-काण्डो न देवता-विचारार्थं प्रवर्तितः ।
किन्तु द्वादश-लक्षण्य-विचारित-नाना-विषय-न्याय-विचारात्मकः तत्-परिशिष्टः ,
तन्त्र-प्रसङ्गवत् उपदेशातिदेश-साधारण्येन प्रकीर्णकः प्रवर्तितः ।
न हि तत्र देवता-विचारेण उपक्रम उपसंहारो वास्ति । ……
तथापि संकर्षे
देवता-विधान-रहितेषु उपांशु-याजादिषु
देवता अस्ति न वा,
प्रयाजादिषु देवता-वाचिनः समिद्-बर्हिर्-आदिशब्दाः दर्श–पूर्ण-मासाङ्ग–प्रसिद्ध–समिद्-बर्हिर्-आदि-पराः तद्-अन्य-परा वा …..
इत्य्-आदि-देवता-विचार-भूयस्त्वात्
भूम्ना संकर्ष-काण्डस्यैव देवता-काण्ड इत्यपि व्यवहारो ऽस्तीति
तस्य तेनोपादानम् ।

प्रस्थानभेदे मधुसूदनसरस्वती –

तथा सङ्कर्ष-काण्डम् अध्याय-चतुष्टयात्मकं जैमिनि-प्रणीतम् ।
तच् च देवता-काण्ड-संज्ञया प्रसिद्धम् अपि
उपासनाऽऽख्य-कर्म-प्रतिपादकत्वात् कर्म-मीमांसान्तर्-गतम् एव ।

शबर-स्वामी (10-4-32) –

“स्विष्ट-कृद्-विकारश् च वनस्-पतिर्” इति संकर्षे वक्ष्यते ।

द्वादशाध्याये –

ननु

नैव पशोर् हविष्-कृद् अस्ति
औषधार्था अवहननार्था वा यथा पत्नी तुल्यवच् छ्रूयते

इति संकर्षे वक्ष्यति ।

श्रीभाष्ये –

1. तदुक्तं संकर्षणे - नाना वा देवता-पृथक्-त्वात् ।

2.तदाह वृत्तिकारः - “वृत्तात् कर्माधि-गमाद् अनन्तरं ब्रह्म-विविदिषे"ति ।

  1. संहितम् एतच् छारीरकं जैमिनीयेन षोडश-लक्षणेनेति (कर्म-ब्रह्म-शास्त्रयोः ऐकशास्त्र्यम् - see महावाक्यविचारः for details)

निगमान्तदेशिकाः - शतदूषणी –

देवता-काण्ड-शेषतया श्री-भाष्य-कारैः परिगृहीतम् ।
’तद्-उक्तं संकर्षे’ इति हि सूत्राण्य् उदाहरन्ति।

वेदान्तसारः - श्रीरामानुजाः –

अधीत-वेदस्य हि पुरुषस्य कर्म-प्रतिपादनोपक्रमत्वात्
वेदानां कर्म-विचारः प्रथमं कार्य इति
’अथातो धर्मजिज्ञासा’ इत्य् उक्तम् ।
कर्मणां च प्रकृति-विकृति-रूपाणां धर्मार्थ-काम-रूप-पुरुषार्थ-साधनता-निश्चयः ,
’प्रभुत्वाद् आर्त्विज्यम्’ इत्यन्तेन ।

So here , Sriramanuja , by quoting the first Sutra of पूर्वमीमांसा and the last Sutra (प्रभुत्वात्…) of Samkarsanakanda , it can be surmised that - according to Ramanuja the षोडशलक्षणी is applicable to कर्म ।

वेदार्थसंग्रहे रामानुजाः –

अ-श्रुत-वेदान्तानां कर्मण्य् अश्रद्धा मा भूद्
इति देवताधिकरणे अतिवादाः कृताः,
कर्म-मात्रे यथा श्रद्धां कुर्याद्
इति सर्वम् एकं शास्त्रम् इति वेदवित्-सिद्धान्तः।

आगमप्रामाण्ये यामुनाचार्याः -

भगवतो जैमिनेः कर्मणः फलोपन्यासः कर्म-श्रद्धा-संवर्धनाय ।

Scholars feel that - it is विंशतिलक्षणी मीमांसा - षोडशलक्षणी शबरस्वामिप्रणीता, चतुर्लक्ष्णी बादरायणप्रणीता ।

Even present day Visistadvaitins feel that Kasakrtsna was not at all the author of Sankarsakanda. (लुप्तभागस्य पूरक इत्येव। )

प्रस्तावना (p xx) by समुद्राल–वेन्कट-रङ्ग-रामानुजाचार्युलु (Editor) - Samkarsakanda of Jaimini Muni (Sri Venkateswara Vedic Uni , Tirupati, 2009 –

एवं च सङ्कर्ष-काण्ड-कर्तृत्व-विषये
जैमिनि-कर्तृत्वं काशकृत्स्न-कर्तृत्वम्
इति द्विधा अभिप्रायभेदे सति ,
कृत्स्नस्य देवता-काण्डस्य षोडशाध्यायस्य
जैमिनि-प्रणीतत्व-कथनम् एव समुचितं प्रतिभाति -

श्री-भाष्य-कारादि-वचनानुसारेण ,
तत्-पूर्वतन-शाङ्कर-वचनानुसारेण ,
पूर्व-तन्त्र-भाष्यादि-वचनेन च
तथैव प्रतिपन्नत्वात् ।

विशिष्टाद्वैत does not have any special interest in सङ्कर्षणकाण्ड ।

The only thing to note is they have too much of respect for वेदान्तदेशिक / निगमान्तदेशिक ।

I have a copy of सङ्कर्षकाण्ड with a commentary , भाट्टदीपिका (भाट्टचन्द्रिका), of भास्करराय ( S S V Vedic Uni, Tirupati, 2009).

Since Devatakanda is in the middle of विंशतिशलक्षणी , some may style it - मध्यमकाण्ड also .

There are two available commentaries on Samkarsakanda - by Devaswami and by Bhaskararaya. The later mostly depends on the former and follows भाट्टचन्द्रिका of Khandadeva .

Any more doubts are welcomed

धन्यो’स्मि

Prof.Korada Subrahmanyam
Professor of Sanskrit,
CALTS,
University of Hyderabad 500046
Ph:09866110741(R),91-40-23010741,040-23133660(O)