विधिः

परिचयः

लक्षणानि

  • प्रयोजनवद्-अर्थ-विधानेन +अर्थवान् = सप्रयोजनः स्यात्। सचाप्राप्तमर्थं विधत्ते = अनुक्तपूर्वः स्यात्।
  • शब्दभावना इति भाट्टाः। प्रवृत्ति-सम्पादकम्।
  • नियोग इति प्राभाकराः।
    • “कुत इति प्रश्नो ऽस्थाने। अवगमने न स्यात् सामर्थ्यम्।”
  • इष्टसाधना इति तार्किकाः।

फलम्

नित्यकर्मणां पापक्षय एव फलम्। नित्यातिरिक्तकर्मसु यत्र फालं न श्रूयते तत्र विश्वजिन्न्यायेन स्वर्गः फलमिति कल्प्यते।

त्रैविध्यम्

अपूर्वविधिः

  • अत्यन्ताप्राप्तम् अर्थं प्रापयति।
  • प्राचीनग्रन्थेषु “अपूर्व"विशेषणं विनैव विधिर् इत्युच्यते।
  • यथा दर्शपूर्णमास-प्रकरणे ‘व्रीहीन् प्रोक्षति’ इति । एतद्विध्यभावे दर्शपूर्णमासीय-व्रीहिषु प्रोक्षणं कथमपि न प्रामोति । एतद्-विधि-सत्त्वे तु तत्-संबन्धि-व्रीहिषु प्रोक्षणं प्राप्नोत्य् एवेत्य् अत्यन्ताप्राप्त-प्रोक्षण-प्रापकत्वाद् अयम् अपूर्व-विधिः।

नियमविधिः

  • पक्षे प्राप्तम् अर्थं नियमयति।
  • यथा तत्रैव ‘व्रीहीन् अवहन्ति’ इति । एतद्-विध्यभावे दर्श-पौर्णमासिकेषु व्रीहिषूत्पत्ति-वाक्यावगत-पुरोडाशोपयोगि-तण्डुल-निष्पत्त्य्-अनुकूल-वैतुष्य-कार्यायाऽवहननवत् कदाचिन् नख-विदलनम् अपि प्राप्नुयादिति, तस्मिन् पक्षे ऽवहननस्य प्राप्तेर् अभावात् कार्यान्यथोपपत्तेर् अवहननस्य पाक्षिकी प्राप्तिः स्यात् । सति त्वस्मिन् विधौ अवहननेनैव वैतुष्यं कार्यम् इति नियमे सति, विदलनं सर्वात्मना निवर्तत इति नियम-विधिर् अयम् ।
    • न च वैतुष्यस्य नख-विदलनेनापि संभवाद् अवहनन-नियमो व्यर्थः, प्रयोजनाभावाद् इति वाच्यम् । अवघातेनैव वैतुप्यकरणे किंचिद् अदृष्टं जन्यत इति नियमादृष्टाङ्गीकारात्। तच् चापूर्वं यागोत्पत्त्यपूर्वद्वारा फलापूर्वे उपयुज्यते।
  • एवं “यज्ञे सत्यमेव वदेद्” इत्यत्रापि नियमविधिः - तत्र फलस्य विगुण्यम् भवति। साधारणसत्यविधानेषु तु पुरुषवैगुण्यम् एव बुध्येत।

परिसङ्ख्याविधिः

  • द्वयोः समुच्चित्य प्राप्ताव् इतर-निवृत्ति-फलकः।
  • निषेधेभ्यो भेदः - विधानद्वारा निवृत्तिः कल्प्यते। निषेधवाक्ये निषेधवाचकं पदं साक्षात् श्रूयते।
  • यथा चयन-प्रकरणे ‘इमाम् अगृभ्णन्न् अशनामृतस्येत्य् अश्वाभिधानीम् आदत्ते’ इत्य् अश्वरशना-ग्रहणाङ्गत्वेन मन्त्र-विधिः । एतद्-विध्यभावे हि रशना-ग्रहण-प्रकाशको मन्त्रो रशनाऽऽदान-प्रकाशन-सामर्थ्य-रूपाल् लिङ्गाद् अश्व-रशनाऽऽदान इव गर्दभ-रशनाऽऽदाने ऽपि प्राप्नुयात् । सत्यस्मिन्विधौ अनेन मन्त्रेणाश्व-रशनाम् एवाददीत, नतु गर्दभ-रशनाम् ; सा तु तूष्णीम् एव ग्राह्येति गर्दभ-रशनायां मन्त्र-निवृत्तिर् भवतीति।
  • एवं ‘पञ्च पञ्चनखा भक्ष्याः’।
  • अत्र वाक्यनिष्ठ दोषद्वयम्
    • श्रुतहानिः = कल्पितवाक्ये श्रुतस्य पञ्चपञ्चनखानां हानात्।
    • अश्रुतकल्पना = अश्रुता-ऽपञ्च-नख-भक्षण-निवृत्तिकल्पना।
  • अर्थनिष्ठदोषः
    • प्राप्तबाधः = पंचनखभक्षणबोधने वाक्यस्य तात्पर्यं नास्ति, अतः तत्रोक्तम् पञ्चनखभक्षणम् बाधितम् इत्युच्यते।

चातुर्विध्यम्

प्रकाराः

  • उत्पत्तिविधिः। कर्म-स्वरूप-मात्र-बोधकः।
    • यथा “अग्नुहोत्रं जुहोति।” = “अग्निहोत्रनामको होमो विधीयते”। हुधातुना बोधितोऽर्थस् स्वरूपम्।
  • विनियोगविधिः। अङ्ग-प्रधान-सम्बन्धबोधकः।
    • यथा [“अग्निहोत्रेण जुहोति।”] “दध्ना जुहोति।” दधि द्रव्यम् अङ्गं होमस्य।
  • फलविधिः/ अधिकारविधिः। उत्पन्नस्य कर्मणः फलाकाङ्क्षायां फलसंबन्धबोधकः। इष्टसाधनत्वबोधनम्।
    • [अग्निहोत्रं जुहुयात्।] इति स्थिते, “अग्निहोत्रं जुहुयात् स्वर्गकामः” = “यः स्वर्गं कामयते स तत्साधनत्वेन +अग्निहोत्र-नामकं होमं भावयेत्” = “अग्निहोत्रेण(→साधनम्, विधेयम्) स्वर्गम्(→साध्यम्, उद्देश्यम्) भावयेत्”। अत्र +अग्निहोत्रम् पूर्वमेवोत्पन्नम्। तथापि फलोद्देशेन यागस्यैव विधेयता।
  • प्रयोगविधिः। प्रधान-विधिर् एवाङ्गविधिभिर् एकवाक्यतया महावाक्यतामापन्नः सन् सर्वाङ्ग-विशिष्ट-प्रधान-प्रयोग-विधायकत्वात् प्रयोग-विधिर् इत्य् उच्यते। कृति-साध्यत्व-बोधनम्।
    • यथा ‘अग्निहोत्रं जुहुयात् स्वर्गकाम’ इति । अत्र ‘अग्निहोत्रहोमेन स्वर्गं भावयेत्’ इत्यर्थः प्रतीयते । भावयेत् उत्पादयेद् इति यावत् । ‘अग्निं प्रणयति’, ‘अग्निषु समिध आदधाति’ इत्याद्यङ्गविधिविहित-प्रणयन-समिदाधानाऽऽयतनशोधनादिकाऽङ्ग-कलाप-जनितोपकार-सहितेनाऽग्निहोत्र-होमेन स्वर्गं कुर्यादिति प्रकरणकल्पितेन होम-वाक्येन स्वर्गाय साङ्गाग्निहोत्र-प्रयोगो विधीयत इत्य् एतादृशः प्रयोगविधिः । अङ्गजातमेवेत्थंभाव इति, इतिकर्तव्यता इति चोच्यते । अत्राग्निहोत्रहोमः प्रधानः, प्रणयनादिकं सर्वमङ्गम् ।

विशेषाः

  • एकम् एव कर्म त्रिर् विहितं स्यात्।
    • उत्पत्तिविधिः - अग्निहोत्रं जुहुयात्।
    • अधिकारविधिः - अग्निहोत्रं जुहुयात् स्वर्गकामः।
    • प्रयोगविधिः - अग्निहोत्रप्रयोगविधिः।

प्राप्ताप्राप्त-विवेकेन भेदाः

  • कर्मोत्पत्तिविधिः। ‘इदं कर्म कर्तव्यम्’ इति बोध्यते।
    • यथा “अग्नुहोत्रं जुहोति।”
  • विशिष्टविधिः। “सोमेन यजेत।” - सोमेनेति विशिष्टयागविधानम्।
  • गुणविधिः। विहिते कर्मणि तदङ्गतया द्रव्यदेवतादिविधायकः। विनियोगविधाव् अन्तर्भवति।
    • यथा “अग्नुहोत्रं जुहोति।” इति स्थिते - “दध्ना जुहुयात्”।
  • फलाय गुणविधिः, गुणफलविधिः, गुणकामविधिः। प्राप्तकर्माश्रित्य फलाय गुणो विधीयते।
    • यथा ‘दध्नेन्द्रियकामस्य जुहुयात्’ इति = “होमाश्रितेन दध्ना इन्द्रियरूपं फलं भावयेत्” । अग्निहोत्रवाक्योत्पन्नं होममाश्रित्येन्द्रियफलाय दधिरूपो गुणो विधीयते।
  • सगुणकर्मोत्पत्तिविधिः। द्रव्य-देवतादि-गुण-विशिष्ट-कर्म-विधायकः।
    • यथा ‘सोमेन यजेत’ इति । अत्र सोमलता विशिष्टो, यागो विधीयते ।
  • सफलकोत्पत्तिविधिः - क्वचित्कर्मोत्पत्तिवाक्यमेव फलसंबन्धबोधकमपि भवति।
    • यथा ‘उद्भिदा यजेत पशुकामः’ = “उद्भिन्नामकयागेन(→साधनम्, विधेयम्) पशून्(→साध्यम्, उद्देश्यम्) भावयेत्” इति। अत्रोद्भिन्नामको यागो वाक्यान्तराविहित एव पशुकामस्य पशुफलाय विधीयत इत्येकमेवेदं वाक्यं फलसाधनया गविधायकम् ।

अन्यसंज्ञाः