दैवी मीमांसा ऽन्यत्र।
कवेर् अभिप्रायः
यज्ञार्थौचित्यम्
शब्दा एव परम्परया प्राप्ता इति मन्येत कश्चित्। यदि कर्मसहिताश् शब्दाः प्राप्ता इति मन्येत, याज्ञिको ऽर्थः सङ्गच्छेततराम्।
इमे केचित् कवयो न शब्दकाव्यरचयितारो यावद् दृश्यकाव्यरचनापराः। तत्राभिनयम् अपि कर्मप्राप्तं चिन्तयन्ति स्मेति भाति। (न सर्वे न च सर्वदा।)
बह्व्-अर्थ-सम्भावना
शब्दैः क्रीडन्ति कवय, बहवश् च कवय इति
समान-शब्दगुच्छानाम् +असमानार्थकता
नाश्चर्यहेतुर् भवेत्।
यैर् उत्तमकवयस् साक्षात्कृताः
ध्वनिपरम्परया श्लेषेण वा ऽर्थान् अनेकान् बोधयितुं समर्थाः,
ये च वेद-द्रष्टॄन् अप्रमत्तान् तादृशान् मेनिरे,
तेषु न तावत्य् अश्रद्धा बह्वर्थविवक्षायां स्यात्।