व्युत्पत्तेर् भेदः
These sorts of mystical “punning” formulations præsent throughout the Brā́hmaṇa-s (trí-ambaka < stríyā Ámbikā ŞB 2.6.2.9, sóma < svā́ me ŞB 3.9.4.22) often aren’t meant to be taken seriously as actual linguistic analysis, but rather a sacred identification or association. - Nikhil
portmanteau
उपायः
उपा(दाय हे)यः – उपायः ।
उपादायापि ये हेयाः
तानुपायान् प्रचक्षते ।
उपयानां च नियमः
नावश्यम् अवतिष्ठते ।वाक्यपदीयम् , वाक्यकाण्डः , 38
We take a boat to cross a river and after crossing we leave the boat behind – boat is an उपाय । -कोरडसुब्रह्मण्यः
होरा
(अ)होरा(त्रः) इति लग्नार्थे।
होरेत्य् अहोरात्र-विकल्पम्
एके वाञ्छन्ति - पूर्वापर-वर्ण-लोपात् ।
कर्मार्जितं पूर्वभवे सदादि
यत् तस्य पक्तिं समभिव्यनक्ति ॥होरा – ज्योतिश्शास्त्रम् – बृहज्जातकम् ( वराहमिहिराचार्यः ) ,1-3 –
( पक्तिः – ’ स्त्रियां क्तिन् ’3-3-94 , भावे - पाक इत्यर्थः – पूर्व-कर्म-फलं जातक-चक्र-सजयेन?? ज्ञायते इत्यर्थः ) ।
तत्र भट्टोत्पलव्याख्या -
किमर्थं पुनः अहोरात्र-शब्दात् होरा-शब्दो व्युत्पाद्यते इति । अत्रोच्यते । मेषादयो द्वादश लग्न-राशयः अहोरात्रान्तर्भूताः लग्नस्य च कालवशात् ज्ञानं, लग्नवशात् शुभाशुभज्ञानम् । अतः अहोरात्राश्रयत्वात् तत एव होराशब्दो व्युत्पाद्यते । एतद् एव आचार्यस्य अभिप्रेतम् । यतः परमतम् अप्रतिषिद्धम् अनुमतम् इति।
तथा च सारावल्याम् -
आद्यन्त-वर्ण-लोपात्
होरास्माकं भवत्यहोरात्रात् ।
तत्-प्रतिषिद्धः सर्वो
ग्रह-भ-गणश् चिन्त्यते यस्मात् ।
होरा तु लग्ने राश्यर्धे रेखाशास्रभिदोरपि – मेदिनीकोशः ।
राशीनामुदयो लग्नम् - इति ज्योतिश्शस्त्रम् ।