परिचयः
सन्धिग्धे तु वाक्यशेषाद् इति न्यायः।
ऊपक्रम-न्यायः
सञ्चारविषयः
- १. पूर्वोत्तरयोर् विरोधः आवश्यकः।
- २. विरुद्धयोश् चैकवाक्यता पूर्वम् एव निर्णीता भवेत्।
- ३. उपक्रमश्चोपसंहारदर्शनात् प्रागेव स्वार्थे निश्चितो भवेत्। तथा च ‘सन्दिग्धेषु वाक्यशेषात्’ इति न्यायस्याऽविषयो भवति।
- ४. पूर्वानुसारेणोत्तरस्य, उत्तरानुसारेण पूर्वस्य चेत्युभयथा नयनं सम्भावितं स्यात्। अत एव विनिगमकतया न्यायापेक्षा।
- ५. उपक्रमानुसारेण नयने क्रियमाणे, पश्चात्तनानाम् अपि उपक्रमाऽपेक्षया दुर्बलत्वेनानिश्चितानां बहूनां बाधो न भवेत्। तत्र भूयोऽनुग्रहन्यायो वर्तते।
न्यायस्वरूपम्
- एकवाक्यता-निर्वाहार्थम् एवोपक्रमाऽनुसारेणोपसंहारो नेतव्यो भवति।
- न तु तत्र ‘एकवाक्यत्वे सति’ ‘असंदिग्धत्वे सति’ इत्यादि व्यावर्तकविशेषणं निवेश्यम्।
उदाहरणम्
- “त्रयो वेदा असृज्यन्त। अग्नेर्वेदः। वायोर्यजुर्वेदः। आदित्यात् सामवेदः।” इत्युपक्रमः अर्थवादः। “तस्मादुच्चैः ऋचा क्रियते। उपांशु यजुषा। उच्चैः साम्ना” इति विधिवाक्यम् । अत्रोपक्रम ऋग्वेदषब्देन +उपसंहारस्था ऋच उक्ता वा? उपसंहारवाक्य ऋच इति शब्देन +ऋग्वेदोक्ता मन्त्रा उक्ता वा? ऊपक्रमन्यायतो द्वितीयो मार्गो ग्राह्यः।
- सत्त्रे - ‘यो होता सोऽध्वर्युः’। होतुः कार्यम् अध्वर्युः कुर्याद्, उत विपरीतम्? उपक्रमन्यायेन द्वितीयेन विनिगमनम्।
- ‘प्रजापतिर् वरुणायाश्वम् अनयत्, स स्वां देवतामार्च्छत्, स पर्यदीर्यत, स एतं वारुणं चतुष्कपालम् अपश्यत्, तं निरवपत्, ततो वै स वरुणपाशाद् अमुच्यत, वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णाति, यावतोऽश्वान् प्रतिगृह्णीयात् तावतो वारुणान् चतुष्कपालान् निर्वपेत्।’ इति वाक्ये सति, प्रतिगृहीता चतुष्कपालान् निर्वपेद् उत याजकः? अत्र दातुरेवेष्टिरित्य् उपक्रमन्यायतः (प्रजापतिर् हि चतुष्कपालं निरवपत्)। अत उपक्रमानुरोधेन वाक्ये - प्रतिगृह्णाति → प्रतिग्राहयति, प्रतिगृह्णीयात् → प्रतिग्राहयेत्।
उपसंहार-न्यायः
- उपक्रमन्यायवद् अस्य विषयः। किन्तु, उपसंहारानुसारम् उपक्रमस्यार्थो ग्राह्यः।
उदाहरणम्
- उपक्रमस्थः ‘अक्ताः शर्करा उपदधाति’ इति विधिवाक्यम् । ‘तेजो वै घृतम्’ इत्यर्थवादः। अक्तश्बदेन घृतेनाञ्जनं ग्राह्यम्।
छागपशुन्यायः
- अत्र मन्त्र आश्रियते, येन सह विधेर् वाक्यैकवाक्यता वर्तते।
उदाहरणम्
- “अग्निषोमीयम् पशुम् आलभेत”। कतमः पशुः स्यात्? प्रैषमन्त्रः - “छागस्य वपाया मेदसः” इति वर्तते। ततश् छागः।
बर्हिराज्याधिकरणन्याय
बर्हिराज्याधिकरणे
बर्हिश्शब्दस्य लवनादिसंस्कृतेषु दर्भेष्व्
आज्य-शब्दस्योत्पवनादि-संस्कृते घृते च
सार्वभौमे शिष्टप्रयोगे सत्यपि
क्वाचित्कं तयोर् दर्भ-घृत-जाति-मात्रे प्रयोगम् अवलम्ब्य
तेनैव संस्कृत-प्रयोग-निर्वाहात्
तयोस् संस्काररूपं प्रवृत्ति-निमित्तान्तरं न कल्प्यम् इत्युक्तम्।
‘एकदेशेऽपि यो दृष्टश्
शब्दो जातिनिबन्धनः ।
तद्-अत्यागान् न तस्यास्ति
निमित्तान्तर-कल्पना’
इति ।
अतः ‘कॢप्तो योगः कल्प्यां रूढिं बाधत’ इति न्यायात् नापूर्वरूढिकल्पनावकाशः।
यववाराहाधिकरणन्यायः
यववराहाधिकरणे यवादिशब्दान् उदाहृत्य
लौकिक-वैदिक-भेदेन यव-शब्दस्यार्थ-भेदं दीर्घ-शूक–प्रियङ्गु-रूपं संवीक्ष्य
शब्द-प्रयोग-रूपाचारे लौकिकानां वैदिकानाञ्च समत्वात् तुल्य-बलत्वं
‘तेष्व् अदर्शनाद् विरोधस्य समा विप्रतिपत्तिस् स्यात्’ इति सूत्रेण पूर्व-पक्षयित्वा
‘शास्त्र-स्था वा तन्-निमित्तत्वात्’ इति सूत्रेण
शास्त्र-स्थानां वैदिकानाम् एव व्यवहारो ग्राह्यः,
न लौकिकानाम् इति सिद्धान्तितवान् सूत्रकारः ।