अङ्गत्व-प्रमाणानि

श्रुतिः

  • तत्र ‘दध्ना जुहुयात्’ इत्यत्रा ऽग्निहोत्र-वाक्य-प्राप्तं होमं जुहुयाद् इत्यनेनोद्दिश्य तत्करणत्वेन तृतीयाश्रुत्या दधि विधीयत इति श्रुत्या दध्नो ऽङ्गत्वम् ।

लिङ्गम्/ सामर्थ्यम्

  • लिङ्गं नाम सामर्थ्यम्। तच् च द्विविधम् - अर्थगतं शब्दगतं चेति ।
  • अर्थगतं लिङ्गम् - यथा ‘स्रुवेणावद्यति’ इत्य् अवदान-सामान्य-शेषत्वावगमेऽपि स्रुवस्य सामर्थ्य-रूपाल् लिङ्गाद् आज्य-सांनाय्यादि-द्रव-द्रव्यस्यावदान-विशेषाङ्गत्वम् ; स्रुवेण पुरोडाशाद्यवदानस्य कर्तुमशक्यत्वात् । अत्र ‘स्रुवेण द्रवद्रव्यस्य +अवदानम्’ इति श्रुतिकल्पनम् भवति।
  • शब्दगतं तु लिङ्गम् अर्थप्रकाशन-सामर्थ्यम् । यस्य मन्त्रस्य यत्प्रकाशन-सामर्थ्यं तस्य तदङ्गत्वम् ।
    • यथा ‘अग्नये त्वा जुष्टं निर्वपामि’ इति मन्त्रस्य निर्वाप-प्रकाशन-सामर्थ्य-रूपाल्लिङ्गान् निर्वापाङ्गत्वम् । अत्र ‘अनेन मन्त्रेण निर्वापं कुर्यात्’ इति श्रुतिकल्पनम् भवति।
    • यथा ‘बर्हिर् देवसदनं दामि’इति मन्त्रस्य बहिर्-लवन-प्रकाशन-सामर्थ्यम् इति शब्द-सामर्थ्य-रूपाल् लिङ्गाद् दर्भ-लवनाऽङ्गत्वम् ।

वाक्यम्

  • पदान्तर-समभिव्याहारो वाक्यम्।
  • यथा ‘ईषे त्वेति छिनत्ति’ इति । अत्र छेदनाङ्गत्वेन ‘इषे त्वा’ इति मन्त्रो वाक्येन विधीयते ।
  • यद्वा ‘अग्नये त्वा जुष्टं निर्वपामि’ इत्यत्रैव “अग्नये त्वा जुष्टम्” इत्यादीनां पदानां ‘निर्वपामि’ इत्यनेनैकवाक्यतापन्नत्वान् निर्वापाङ्गत्वम् । एतत् शब्द-गत-लिङ्गवत्।

प्रकरणम्

  • प्रकरणं नाम परस्पराकाङ्क्षा।
  • यथा ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ +इति । अत्र ‘दर्शपूर्णमासाभ्यां स्वर्गापूर्वं कुर्यात्’ इत्युक्ते भवत्य् आकाङ्क्षा - कथम् आभ्यां स्वर्गापूर्वं कर्तव्यम् इति । तथा फलवद्-आग्नेयादि-संनिधौ ‘समिधो यजति’, ‘तनूनपातं यजति’, ‘आज्यभागौ यजति’ इत्यादिभिः प्रयाजादयः फलरहिताः श्रुताः, तेषां स्ववाक्येषु फलाश्रवणाद् भवति प्रयोजनाकाङ्क्षा - किम् एतेषां प्रयोजनम् इति । ततश्च प्रयाजादीनां प्रयोजनाकाङ्क्षायां दर्शपूर्णमासयोः कथंभावाकाङ्क्षायां परस्पराकाङ्क्षालक्षणेन प्रकरणेन प्रयाजादीनां सर्वेषां दर्शपौर्णमासाङ्गत्वं निश्चीयते ।

समाख्या

  • समाख्या यौगिकी संज्ञा।
  • यथा अध्वर्युकाण्डप्रतिपादिते कर्मजाते आध्वर्यवसमाख्यावशाद् अध्वर्योः कर्तृत्वेनाङ्गत्वम् , तथा ‘ऐन्द्राग्नम् एकादशकपालं निर्वपेत् प्रजाकामः’ इत्यादिषु काम्येष्टि-समाख्यातेष्व् ऐन्द्राग्नादि-यागेषु काम्येष्टि-याज्यानुवाक्या-काण्ड-समाख्या-वशात् ‘उभा वाम् इन्द्राग्नी’ इत्यादीनां याज्यानुवाक्यत्वेन विनियोगः । विनियोगो नामाङ्गत्वेनान्वयः ।।

स्थानम्

  • स्थानं नाम संनिधिः।
  • यथा सांनाय्य-पात्र-संनिधौ “शुन्धध्वम्” इति मन्त्रस्य पाठात्, संनिधानात् सांनाय्य-पात्र-प्रोक्षणाङ्गत्वम् तस्य मन्त्रस्य।